प्रपञ्चो यदि विद्येत निवर्तेत न संशयः
४५. मायामात्रमिदमिति श्रुत्यर्थविचारः
न्यायामृतम्
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।।
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।।
इत्यत्राप्याद्यश्लोके भेदस्य भास्करादिमतप्राप्तसत्योपाधिकृतत्वं निरस्य द्वितीये मायावादप्राप्तमारोपितत्वं निरस्यानादिसत्यत्वमेवोच्यते । यथा ‘तद्धैक आहुः’ इति श्रुतौ बौद्धमतप्राप्तमसत्कारणत्वं निरस्य ‘सदेव’ इत्यत्र सत्कारण-त्वम् । तथा हि भेदप्रपञ्चो यदि विद्येत उत्पद्येत, तर्हि निवर्तेत न च निवर्तते, मोक्षेऽपि भेदश्रुतेः । तस्मादनादिरित्यर्थः । विद सत्तायामिति हि धातुः । उत्पत्तिरपि च सत्तायोग एव । अस्ति च सत्तार्थस्यापि भवतेः
तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः ।
प्रयोजकक्रियामाहुर्भावनां भावनाविदः ।।
इत्यादावुत्पत्तौ प्रयोगः । विद्लृलाभ इति वा धातुः । तथा च विद्येत लभ्येत उत्पद्येतेत्यर्थः । उत्पत्तिरपि हि स्वात्मनो लाभ एव । अस्तित्वार्थत्वे तु यद्यदस्ति तत्तन्निवर्तत इति व्याप्त्यभावात् श्रौतस्तर्क आभासः स्यात् । अत एव ‘न ह्यत्रानूयाजा’ इति श्रौतहेतौ राणके व्याप्तिरुक्ता । ननूपाधिकृतं न चेत् किं तर्हि स्वतन्त्रम्, नेत्याह मायामात्रमीश्वरेच्छाधीनं मायेतीश्वरेच्छोच्यत इति वक्ष्यमाणत्वात् । ‘विष्णोरिच्छावशत्वात्तु मायामात्रम्’ इत्यादिस्मृतेश्च । पूर्वत्र ‘स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता’ इत्यैन्द्रजालिकत्वं मतान्तरत्वे नोक्त्वा ‘इच्छामात्रं प्रभोस्सृष्टिः’ इतीश्वरेच्छाधीनत्वस्य स्वमतत्वेनोक्तेश्च । ‘प्रभव-स्सर्वभावानां सतामिति विनिश्चयः’ इति पूर्वत्र ‘कल्पितो यदि केनचित्’ इत्युत्तरत्र च सत्त्वोक्तेश्च । निवर्तेतेति तर्कस्य विपर्ययपर्यवसान लब्धा-निवर्त्यत्वाविरुद्धार्थस्यैवेह वक्तव्यत्वाच्च ।
तर्ह्यद्वैतस्सर्वभावानाम् इति श्रुतमद्वैतं कथमित्यत आह– ‘औतं परमार्थत इति’ ल्यब्लोपनिमित्ता पञ्चमी । परमं स्वतन्त्रमर्थमपेक्ष्य तत् । ‘स्वतन्त्रम् परमार्थाख्यम्’ इति स्मृतेः । परिभाषायाश्च कार्यार्थत्वेन ‘आण्नद्याः’ इत्यादा-विवासति बाधे ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः’ इति न्यायेन पारिभाषिकस्यैव ग्राह्यत्वात् । यववराहाद्यधिकरणन्यायेन शास्त्रे शास्त्रीयार्थस्यैव ग्राह्यत्वाच्च । किं चास्ति स्वतन्त्रेऽर्थेपि परमत्वम् । न च तात्त्विकेऽपि क्लृप्ता- वयवशक्त्यैव काल्पनिकादुत्तमार्थत्वेनैव परमार्थशब्दसम्भवे समुदायशक्ति कल्पना युक्ता । अत एव प्रोक्षण्यधिकरणे प्रोक्षणीशब्दस्य जले योग एव न तु रूढि-रित्युक्तम् । उक्तं च वार्तिके–
भवेतां यदि वृक्षस्य वाजिकर्णौ कथञ्चन ।
अदृष्टां समुदायस्य कश्शक्तिं जातु कल्पयेत् ।। इति ।
स्वतन्त्र एव च परमत्वं मुख्यम् । न च मुख्ये सम्भवत्यमुख्यं युक्तम् । परमार्थशब्दस्य तात्त्विके योगरूढ्यङ्गीकारेऽपि मानान्तरैः पूर्वोत्तरवाक्यैश्चा विरोधाय योगेन स्वतन्त्रपरत्वमेव युक्तम् । तथा च सर्वभावानां मध्येऽयम् अद्वितीय इत्युक्ते स्वातन्त्र्यमेव सिध्यति न तु सर्वभावासत्त्वमित्यर्थः ।
केचित्तु ‘अनाशी परमार्थः स्यात्’ इति वचनादद्वैतं परमार्थत इत्यस्या द्वितीयं ब्रह्माविनाशीत्यर्थ इत्याहुः । एवं भेदस्योपाधिकृतत्वं निरस्य कल्पितत्वं निरस्यति । ‘विकल्प इति’ । तर्कत्वान्न च निवर्तते तस्मान्न कल्पित इति विपर्यये पर्यवसातव्यम् । तत्त्वे अज्ञाते तु द्वैतं न विद्यत इत्यर्थः । श्लोकयोर-तर्करूपत्वे यदिशब्दद्वयं लिङ्प्रत्ययचतुष्टयं च व्यर्थं स्यात् । तदुक्तम्–
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुः विद्येतोत्पत्तिमेव च ।। इति ।
स्पष्टीकृतश्चायमर्थः श्रुत्यन्तरे
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।
न च नाशं प्रयात्येषः न चासौ भ्रान्तिकल्पितः ।।
कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।। इति ।
केचित्त्वेकस्मिन्नेवात्मनि देहभेदेन देवमनुष्यत्वादिरूपप्रपञ्चमिथ्यात्वपरेयं श्रुतिरित्याहुः । मायामात्रमिदमिति श्रुत्यर्थः ।
न्यायामृततरङ्गिणी
ननु प्रपञ्चो यदि विद्येतेत्यादिकं प्रपञ्चमिथ्यात्वे मानम् । तथा हि । माण्डूकोप निषद्विवरणरूपगौडपादीयवार्तिकस्य शाङ्करीयभाष्ये तदानन्दगिरौ च व्याख्यातम् । प्रपञ्चो यदीत्येतस्मात्पूर्वश्लोके–
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ।।
इत्येतस्मिन् तुरीयमद्वितीयमित्युक्तम् । तत्प्रपञ्चस्य द्वितीयस्य सत्त्वादयुक्तम् इत्याशङ्क्य तुरीयप्रबोधात्प्रपञ्चनिवृत्तौ तदद्वितीयत्वमविरुद्धमिति चोक्तम् । तव प्रपञ्च निवृत्त्या चेदद्वितीयत्वं तर्हि प्रपञ्चनिवृत्तेः पूर्वमनिवृत्ते प्रपञ्चे कथमद्वैतमित्याशङ्कायां तत्परिहाराय प्रपञ्चो यदीति श्लोकः । सत्यमेवं स्यात्प्रपञ्चो यदि विद्येत रज्जौ सर्प इव कल्पितत्वान्न तु स विद्यते । यथात्मनि कारणाधीनः सन् प्रपञ्चो विद्येत तदा कृतकस्यानित्यत्वनियमात्तन्निवृत्तिरवश्यम्भाविनी । कार्यस्य निवृत्तिर्नाम कारण संसर्गः । ततः सति कारणे प्रपञ्चनिवृत्तेरनात्यन्तिकत्वादद्वैतानुपपत्तिराशङ्क्येत । न हि रज्वां भ्रान्तिबुध्द्या कल्पितस्सर्पो विद्यमानस्सन् विवेकतो निवृत्तः । न च माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता । तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतं रज्जुवन्मायाविवच्चाद्वैतं परमार्थतः । तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वास्ति ।
ननु शास्ता शास्त्रं शिष्य इति विकल्पः निवृत्त इत्यत्रोच्यते विकल्पो विनिवर्ते-तेति । यदि केनचिद्धेतुना तत्वज्ञानाख्यकार्येण शास्तृशास्त्रादिर्विकल्पो हेतुतया कल्पितस्तथाप्यसौ बाधितो निवर्तेत । न तु तात्विकमद्वैतं प्रतिरोद्धुमर्हति । उपदेशात् उपदेशमुद्दिश्य तत्वज्ञानात्प्रागवस्थायामेव तत्वज्ञानहेतूपदेशनिमित्तोऽयं वादः शिष्यः शास्ता शास्त्रमिति । उपदेशकार्ये तु ज्ञाने निवृत्ते जाते परमार्थतत्वे द्वैतं न विद्यत इति । तस्मादिदं मानमित्यतस्तद्व्याख्याति– प्रपञ्च इति ।। इत्यत्रा-पीति ।। अनादीतिश्लोकयोर्विपर्ययपर्यवसायितर्करूपत्वादाद्यश्लोकेन सादित्वनिरासोऽ-नादित्वं च सिध्यति । द्वितीयेन कल्पितत्वनिरासोऽकल्पितत्वं च । अत एव न ‘तद्धैक आहुः’ इति दृष्टान्तवैषम्यमिति भावः । श्लोकयोर्भेदपदाभावेपि प्रपञ्चभेदेनैव भेदोऽभिधीयत इत्याह– भेदप्रपञ्च इति ।।
ननु द्वितीयभावविकाररूपसत्तार्थकत्वाद्विदेः कथं विद्येतेत्यस्य उत्पद्येतेति व्याख्यानमित्यत आह– उत्पत्तिरपीति ।। अवान्तरभेदविवक्षया द्वितीयभावविकार- त्वमपि सत्ताया इति भावः । विदेरुक्तविधयोत्पत्त्यर्थत्वेपि तत्राप्रयोगादसाधुत्वम् आशङ्क्य सत्तार्थस्यापि भवतेरुत्पत्तौ प्रयोगदर्शनात्समानन्यायेन विदेरप्युत्पत्तौ प्रयोगो नासाधुरित्यभिसन्धाय भावार्थाधिकरणवार्तिकमुदाहरति– तेनेत्यादि ।। धात्वर्थभिन्ना भावना प्रत्ययप्रतिपाद्याऽस्तीति प्रस्तावे ननु भावनायाः प्रत्ययवाच्यत्वे धात्वर्थस्यैव निष्पाद्यत्वलक्षणक्रियारूपेण प्रत्ययेनाभिधानात् भावनात्वोपपत्तेर्भावयेद्यागेनेति क्रिया करणतया भेदेन निर्देशोऽनुपपन्न इत्याशङ्क्य भवनक्रियाकर्तृकर्मनिष्ठप्रयोजकव्यापारत्वं धात्वर्थव्यावर्तकलक्षणमभिहितं तेनेत्यर्थः । भूतिषु भवनेषु कर्तृत्वं प्राप्तस्य भवतः उत्पद्यमानस्येति यावत् । अत्र उत्पद्यमानस्येति प्रयोक्तव्ये भूतिषु कर्तृत्वमित्यादि प्रयोगाद् भवतेरुत्पत्तौ प्रयोगोऽवगम्यत इत्यर्थः ।। लभेतेति ।। क्वचिल्लभ्येतेति पाठो लेखकप्रमादात् ।
श्रौतस्यापि हेतोर्व्याप्त्यावश्यकतायामुपष्टम्भकमाह– अत एवेति ।। ‘शूर्पेण जुहोति तेन ह्यन्नं क्रियते’ इत्यत्र हिशब्दसूचितहेतुत्वकस्य होमसाधनतायामन्नकरण- त्वस्य हेतोः प्रत्यक्षश्रुतहोमसाधनभावकस्य शूर्पस्यानेवंविधेन दर्विपिठरादिना विकल्पानुपपत्तेर्व्याप्त्यभावेनापरमार्थहेतुत्वे भाष्यस्थेन हेतुवदितिवतिप्रत्ययेन दर्शितः तद्व्यावर्त्यपरमार्थहेतुश्चतुर्गृहीतान्याज्यानि भवन्ति । न ह्यत्रानुयाजान्यक्षन् भवति इत्यादिकः । आतिथ्येष्टावनुयाजरहितायामष्टावुपभृति गृह्णातीति प्रकृतौ विहितस्योप भृत्यष्टगृहीतस्य चोदकप्राप्तस्य निवृत्त्यर्थं चतुर्गृहीते विधीयमानेऽनुयाजाभावस्य हेतुत्वेनाभिहितस्य यत्र यत्रानुयाजाभावस्तत्र तत्राष्टगृहीताभाव इति ज्ञायते । प्रकृतौ चाष्टग्रहणस्य चतुष्ट्वद्वयलक्षणार्थत्वद्योतनात् प्रयाजार्थं जुह्वां समानयने नियोगतोऽ-र्धमेव समानेयमिति ज्ञायत इत्यादिना व्याप्तिरुक्तेत्यर्थः ।। अनुयाजा इति ।। अर्थानुवादोऽयम् । वाक्यं तूदाहृतं द्वितीयान्तम् ।। पूर्वत्रेति ।।
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिता ।।
इत्यादिना सृष्टेरीश्वरेच्छाधीनत्वं स्वमतमित्युक्तम् । श्रुत्या मायामात्रमिदं द्वैतम् इत्यत्र मतान्तरत्वद्योतकस्यान्यादिशब्दस्याभावेन तस्य स्वमतत्वविज्ञानात् स्वमते च सृष्टेरीश्वरेच्छाधीनत्वावगमात्, मायामात्रमिदं द्वैतमित्यत्रापि मायाशब्देनेश्वरेच्छैव न त्वैन्द्रजालिकादिसरूपा मायेत्यर्थः ।। प्रभव इति ।।
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंशून् पुरुषः पृथक् ।। इति ।
पूर्ववाक्ये सतामित्यनेन सत्यत्वपरेण पृथगित्यनेन भेदपरेण च विरोध इत्यर्थः । ‘चेतोंशून्’ ज्ञानकिरणान् ।। उत्तरत्र चेति ।। कल्पितो यदि केनचिदित्यस्य कल्पि-तत्वनिराकरणार्थकत्वेन व्याख्यास्यमानत्वात्तद्विरोध इत्यर्थः ।। अविरुद्धेति ।। यथाश्रुतस्य मायाकल्पितत्वरूपमायामात्रत्वस्य निवर्त्यत्वनियतत्वेनानिवर्त्यत्व विरुद्धत्वादित्यर्थः ।। इहेति ।। मायामात्रमिदं द्वैतमित्यत्र मात्रशब्देनेत्यर्थः ।। तर्हीति ।।
निवृत्तेः सर्वभावानामीशानः प्रभुरव्ययः ।
औतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ।।
इत्यादिषु श्रुतं कथमित्यर्थः ।। आहेति ।। श्रुतिरिति शेषः ।। ल्यब्लोपेति ।। गम्यमानार्थत्वे सत्यप्रयुज्यमाने ल्यपि पञ्चमीत्यर्थः ।। परममिति ।। परमार्थ शब्दस्यावयववृत्याऽनुवादोयं तदेकदेशग्रहणेन । अतो नाग्रिमासङ्गतिः ।। अर्थ-मिति ।। नायमर्थशब्दः परमार्थशब्दैकदेशः किन्त्वन्य एवेति बोध्यम् । ननु परमार्थशब्दस्य मिथ्याप्रतिद्वन्द्विनि तात्विकेऽर्थे रूढत्वात्कथं परमार्थशब्देन स्वतन्त्रार्थाभिधानमत आह– तदिति ।। ग्राह्यत्वादित्यन्तमेकं वाक्यम् । स्वतन्त्रेऽर्थेपि तस्य स्मार्तरूढिरस्तीति भावः । आण् नद्या इत्यादौ यथा यूस्त्र्याख्यौ नदी इति परिभाषिता ईदन्ता स्थली वनी इत्यादिका नदीशब्देन गृह्यते । न तु गङ्गायमुनाद्याः तथात्रापीत्यर्थः । तर्हि नदीभिश्चेत्यादौ बहुवचनेऽपि लौकिकनदी न गृह्येतेत्यत उक्तम्– असतीति ।। तत्र बहुवचनं बाधकमित्यर्थः । ननु बहुत्वाल्लोकप्रसिद्धिर्बलवतीत्यत आह ।। यववराहेति ।। यववराहादिशब्दाः लोके प्रियङ्गुकाकादौ प्रसिद्धा अपि–
वसन्ते सर्वसस्यानां जायते पत्रशातनम् ।
मोदमानाश्च तिष्ठन्ति यवाः कणशशालिनः ।।
इति स्मृत्या ‘वराहं गावोऽनुधावन्ति’ इति वाक्येन च दीर्घशूकसूकरार्था एव गृह्यन्ते ‘यवमयश्चरुर्भवति वाराही उपानहौ’ इत्यादौ । न हि गोभिरनुगम्यमानः काको भवति किं तु गोसदृशः पशुरेवेत्यर्थः । ननूभयत्र रूढिकल्पने गौरवम् । परिभाषानुयोगेनोपपद्यतामित्यत आह– किं चेति ।। विप्रतिपन्नेऽस्मिन्वाक्ये परमार्थ शब्देन यौगिकः स्वतन्त्रलक्षणोऽर्थो गृह्यतां तत्र योगस्य सम्भवादित्यर्थः । ननु ‘अक्षरैरेव बुध्यन्ते समुदायप्रसिद्धिषु । अर्थभानोपसंहारादितरा विप्रकृष्यत’ इति वार्तिकोक्तेः समुदायप्रसिद्धिरूपायाः रूढेः श्रुतिस्थानीयाया वाक्यस्थानीयावयव प्रसिध्द्यपेक्षया गृह्यतामित्यत आह– न चेति ।। अवयवानामपि स्वार्थेऽवश्यं शक्तिराश्रयणीया ।। अन्यथाऽवयवप्रसिद्धिः समुदायप्रसिद्धिरिति विभागानुपपत्तेरिति भावः । नन्वेवं रथकाराधिकरणोक्तरूढि प्राबल्यभङ्ग इत्यत आह– अत एवेति ।। सत्यमेतद्रूढिः प्रबलेति परं तु लब्धात्मिका तस्याः स्वात्मलाभो यत्र प्रमाणान्तरेण पूर्वानुभूतावयवार्थरहितेऽर्थे शब्दप्रयोगो दृश्यते । तदुक्तं वार्तिके ।
‘असत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते ।
तत्रानन्यगतित्वेन समुदायः प्रसिध्यति’ ।। इति ।
एवं च यथा प्रोक्षणीशब्दे रूढिर्लब्धात्मिका न प्रबलेत्युक्तं यतः कारणादत एव परमार्थशब्दोऽपि तथैव । नत्वेतावता रूढिप्राबल्यभङ्ग इत्यर्थः ।
नामधेयपादे स्थितम् । प्रोक्षणीष्वर्थसंयोगात् । प्रोक्षणीरासादयतीत्यत्र प्रोक्षणी शब्दस्य उत्पवनादिसंस्कृतजले प्रयोगदर्शनात्संस्कारशब्दत्वे प्रोक्षणीभिरुद्वेजिताः स्म इति जातिमात्रनिबन्धनो जले प्रयोगोऽनुपपन्नः । संस्कृतजलेऽपि जातिमात्रेण तत्प्रयोगसम्भवात् । तस्माद्रूढ्या जातिशब्दोयमिति प्राप्ते प्रोपसृष्टादुक्ष सेचन इति धातोर्ल्युटि ङीपि निष्पन्नस्य प्रोक्षणीशब्दस्य प्रकृष्टसेचनक्रियाकरणरूपयोगेनैव सर्वद्रवद्रव्यसाधारण इति सिद्धान्तः । एवं च स्त्रीप्रत्ययाश्रयलिङ्गनिमित्तकस्य घृतादिषु बाधेऽपि चोदकप्राप्तस्य ईकाररहितस्य प्रोक्षणशब्दस्य न बाध इत्यर्थवानेव विचार इति ।
नन्वेवं सर्वत्र यथाकथञ्चिद्योगस्य सम्भवादसत्स्ववयवार्थेष्वित्याद्युक्तम् अयुक्तम् इत्याशङ्कां परिजिहीर्षुर्वार्तिकमुदाहरति ।। उक्तमिति ।। प्रोक्षण्यधिकरण इति शेषः । वृक्षविशेषेऽश्वकर्णशब्दवाच्येऽश्वसदृशकर्णयुक्तत्वादिरूपयोगासम्भवेन तत्पुरस्कारेण वृक्षेऽश्वकर्णशब्दप्रयोगासम्भवात्तत्र तस्य रूढिः सम्भवतीत्यर्थः ।। मुख्यमिति ।। प्रथमोपस्थितमित्यर्थः । परमार्थशब्दस्य तात्विके रूढियोगार्थप्रतीतेः कथं योगमात्रेण स्वतन्त्रार्थकत्वमित्यत आह– परमार्थेति ।। पङ्कजशब्दस्य कुमुद इवात्रापि रूढिरेव बोधिकेति भावः ।। निरस्येति ।। तन्निरासं बोधयित्वेत्यर्थः । ननु तर्कस्याप्रमाण त्वान्न कल्पितत्वनिरासबोधकत्वम् अत आह– अज्ञात इति ।। ज्ञातेऽद्वैतं न विद्यत इत्यत्र नञः प्रश्लेषादेवं व्याख्यानमित्यर्थः ।। चतुष्टयमिति ।। कल्पितो यदीत्यत्र यदि कल्प्येतेति गम्यमानत्वाल्लिङ्चतुष्ट्वं बोध्यम् ।। विद्येतोत्पत्तिमिति ।। विद्येतेत्ययं शब्द उत्पत्तिमाहेत्यन्वयः ।। देवेति ।। ज्ञानानन्दैकरस आत्मनि देव त्वादेर्मिथ्यात्वादित्यर्थः ।
ननु माण्डूकोपनिषद्विवरणरूपगौडपादीयवार्तिकस्थौ प्रपञ्चो यदीत्यादिश्लोकौ । न श्रुतिस्थौ । अत एव गौडपादीयवार्तिकभाष्यानन्दगिरावुक्तम् । गौडपादाचार्यै र्माण्डूक्योपनिषदं पठित्वा तद्व्याख्यानश्लोकावतरणमत्रैते श्लोका भवन्ति इत्यनेन कृतमिति । माण्डूक्यस्थायाः ‘नान्तः प्रज्ञं न बहिः प्रज्ञम्’ इत्यादि श्रुतेर्विवरणरूपेषु ‘निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः’ इत्यादिषु गौडपादीयवार्तिकश्लोकेषु मध्ये प्रपञ्चो यदीति श्लोकद्वयं पठ्यते । तत्कथमुच्यते श्रुत्यर्थ इति । मैवम् । आचार्यैः माण्डूक्यभाष्ये–
तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः ।
वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ।
तन्वादिकस्तथाप्येष ह्यभिमानात्प्रदृश्यते ।
अतः स विद्यत इति ह्यङ्गीकारो भवेद्यदि ।
तथापि भगवज्ज्ञानात्स निवर्तेदसंशयः ।।
इत्यादिना श्लोकयोर्व्याख्यातत्वात्तयोः श्रुतित्वमवसीयते । माण्डूक्यभाष्ये अहमिदं ममेदमित्यादिस्वस्वामिभावरूपो द्वितीयः प्रपञ्चो यद्यपि जीवस्य विद्येत तथाप्यसौ भगवदिच्छाधीनस्तत्प्रसादान्निवर्तेत । महद्भिर्द्वितीयेन प्रकारेणाज्ञातम् अद्वैतम् इदं परब्रह्मादिवस्तु द्वैतम् अज्ञैर्द्विधा ज्ञातं विद्यमानप्रकारापेक्षया द्वितीयेन प्रकारेण ज्ञातम् । तत्र हेतुः परमार्थत इति । परमेश्वरात् । तस्यैव मायामात्रं तदिच्छया निर्मितं तदन्यथा ज्ञातं तस्मात्तदिच्छयैव निवर्तेत । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिना कारणेन कल्पितोप्युपदेशान्निवर्तते अयं सतां वादः ज्ञाते सति ब्रह्मणि द्वैतमन्यथाज्ञानं निवर्तत इति ।
विकल्पो देहबन्धादिः केनचित्कारणेन तु ।
कल्पितो विनिवर्तेत गुरुवाक्यादसंशयः ।
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्वतः ।
निवर्तेत तथाज्ञानं तत आनन्दमेत्यसौ ।। इति ।
इत्यादिना प्रमाणस्ववचनाभ्याम् आचार्यैरेतौ श्लोकौ व्याख्यातौ । ग्रन्थकारेण तु तत्वनिर्णयाद्युक्तप्रकारेणात्र तर्कपरतया व्याख्याताविति बोध्यम् ।
न्यायामृतकण्टकोद्धारः
ननु प्रपञ्चो यदि विद्येतेत्यस्यां श्रुतौ मिथ्यात्वं प्रतीयते । अत्र प्रपञ्चस्य मायामात्रत्व प्रतिपादनाद् अद्वैतस्यैव परमार्थत्वोक्तेश्चेत्यत आह– प्रपञ्चो यदीति । ननु वादि-समयप्राप्तं कथं निराक्रियते श्रुत्या ? तथा क्वाप्यदर्शनादित्यत आह यथेति । कथमस्य वाक्यस्यानादि सत्यपरत्वमित्यतो व्याख्याति तथा हीति । इति श्रुत्यर्थ इति । प्रथम-श्लोकार्धार्थ इत्यर्थः । ननु विद्येतेत्यस्योत्पद्येतेति कथं व्याख्यानम् ? विदेः सत्तार्थ-कत्वादित्यत आह– विदेति । ननु सत्तार्थकस्योत्पत्तौ प्रयोगादर्शनात् कथमत्रोत्पत्तौ प्रयोग इत्यत आह अस्ति चेति । तेन भूतिषु उत्पत्तिषु कर्तृत्वं प्रतिपन्नस्य प्राप्तस्य विद्यते भवति उत्पद्यत इति प्रयोगात् घटादेर्यः प्रयोजको घटोत्पत्त्यनुकूलव्यापारवान् तस्य यो व्यापारस्तां भावनामाहुर्भावनाविद इति भट्टवार्तिकार्थः । पक्षान्तरमाह विद्लृलाभ इति । ननु लाभः कथमुत्पत्तिरित्यत आह उत्पत्तिरपीति । नन्वस्तित्वार्थत्वमेव विदेरस्तु प्रसिद्धत्वात् प्रसिद्धस्वीकारे बाधकाभावाच्चेत्यत आह अस्तित्वार्थत्वे त्विति ।
ननु श्रौतहेतौ व्याप्त्यभिधानस्य क्वाप्यदर्शनादिदमसाम्प्रदायिकमित्यत आह अत एवेति । अष्टावुपभृति गृह्णतीति वाक्येनोपभृत्यष्टग्रहणं विहितम् । यदष्टावुपभृति गृह्णाति प्रयाजानूयाजेभ्यस्तदित्यनेनाष्टग्रहणस्य प्रयोजनमुक्तम् । एवं च यत्र यागेऽनुयाजा-भावस्तत्राष्टग्रहणं न कर्तव्यम् । कुत इत्यतो हेतुकथनार्थं ‘न ह्यत्रानूयाजा इज्यन्ते’ इत्यनेन हेतुरुक्तः । तत्र यत्रानूयाजाभावस्तत्राष्टग्रहणाभाव इति हेतुत्वसिद्धये श्रौतहेतावपि राणके व्याप्तिरुक्तेत्यर्थः । तथा च श्रौतहेतावपि व्याप्तिरावश्यकीति तत्सिद्धये उत्पत्त्यर्थ-त्वमेव विदेः स्वीकर्तव्यमिति भावः । नन्विदं व्याख्यानमुत्तरार्धविरुद्धम् । तत्र मायामात्रशब्देन द्वैतमिथ्यात्वस्याभि धानादित्यतस्तन्निवर्त्यां शङ्कामाह नन्विति । मायया मीयते त्रायत इति व्युत्पत्त्येति भावः । तथा च मायामात्रशब्दस्यान्यार्थत्वात् नोत्तरार्धविरुद्धं पूर्वार्धव्याख्यानमिति भावः ।
नन्वैन्द्रजालिकत्वमेव मायामात्रशब्दार्थः किं न स्यदित्यत्राह पूर्वत्रेति । तथार्थेऽङ्गी क्रियमाणे तस्य पूर्वत्र मतान्तरत्वोक्तिविरोध इति भावः । मायामात्रशब्दस्य मिथ्यात्वार्थ कत्वे पूर्वोत्तरविरोधश्चेत्याह प्रभव इति ।। न चोत्तरवाक्ये कथं सत्वोक्तिः ? तर्क बलेनानिवर्त्यत्वस्यैव तत्र प्रतीतेरिति वाच्यम् । अनिवर्त्यत्वशब्देनाबाध्यत्वोक्त्येष्टसिद्धेः । अन्यथा व्याप्त्यभावेन तर्काभासत्वं स्यादिति भावः । ननु प्रपञ्चस्यापि सत्यत्वेऽद्वैतं परमार्थत इति कथम् ? तत्राद्वैतस्यैव सत्यत्वोक्तेरित्यतस्तन्निवर्त्यां शङ्कां दर्शयति न हीति । यद्वाऽनादिसत्यत्वपरत्वेन श्लोकद्वयव्याख्यानेऽद्वैतः सर्वभावानामित्यनेन विरोध इत्यत आह– तर्हीति । परमार्थशब्दस्य स्वतन्त्रवाचित्वे किं प्रमाणमित्यतः स्मार्त-परिभाषैवेत्याह स्वतन्त्रमिति । ननु पारिभाषिकार्थापेक्षया सर्वलोकसिद्धसत्यरूपार्थ-ग्रहणमेव ज्याय इत्यत आह– परिभाषायाश्चेति । अन्यथा परिभाषाकरणमनर्थक-मापद्येतेति भावः । आण्नद्या इत्यादाविति । अत्र हि कृतनदीसंज्ञयोरेव ग्रहणम् । न तु प्रसिद्धाया नद्याः ।
युक्त्यन्तरमाह यववराहेति । स्मृतिपादे पञ्चमाधिकरणे चिन्तितम् । ‘तेष्व दर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात्’ । यवमयश्चरुर्भवति । ‘वाराही चोपानहावुपमुञ्चते’ । ‘वैतसे कटे प्राजापत्यांश्चिनोति’ इति विधिवाक्येषु यववराहवेतसशब्दाः श्रूयन्ते । तत्र आर्याः यवशब्दं दीर्घशूके वराहशब्दं सूकरे वेतसशब्दं जम्बूवृक्षेषु प्रयुञ्जते । म्लेञ्छास्तु यवशब्दं प्रियङ्गुषु, वराहशब्दं वायसे, वेतसशब्दं वञ्जुलके प्रयुञ्जते । तथा च संशयः । किं यवादिशब्दानां दीर्घशूकादिकमभिधेयं, किंवा प्रियङ्ग्वादिकमिति । पूर्वपक्षस्तु । लोक-व्यवहारेण निश्चेतव्येषु शब्दार्थेषु आर्यम्लेञ्छप्रसिध्योः समानबलत्वाद् उभयविधा अपि शब्दार्था विकल्पेन स्वीकार्या इति ।
सिद्धान्तस्तु । शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी प्रत्यासन्नत्वात् अविच्छिन्न पारम्पर्यागतत्वाच्च । शास्त्रे यवादिशब्दानां दीर्घशूकादिषु कथं प्रसिद्धिरिति चेत् इत्थम् । यवविध्यर्थवादे चैवं श्रूयते ‘यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति’ इति । इतरौषधिविनाशकाले येषां वृद्धिर्भवति ते यवशब्देन ग्राह्याः । तादृशाश्च दीर्घशूका एव न प्रियङ्गवः । तेषामितरौषधिपाकात् पूर्वं पच्यमानत्वात् । उपानद् विध्यर्थवादश्चेत्थं भवति । वराहं गावोऽनुधावन्तीति गवानुधावनं सूकरे सम्भवति, न कृष्णशकुनौ । तथा वेतसविध्यर्थवादे ‘अप्सुजो वैतस’ इति श्रूयते । अप्सुजत्वं च जम्बुवृक्षेष्वेव सम्भवति, न वञ्जुलके । तस्माद् वाक्यशेषानुगुण्याद् यवादिशब्दानां दीर्घशूकादय एवार्था ग्राह्याः । न प्रियङ्ग्वादय इति भाष्यकाराः ।
इदमधिकरणं वार्तिककारो नानुमेने । कुतः ? यदि वाक्यशेषानुरोधेन निर्णयस्तर्हि सन्दिग्धेषु वाक्यशेषादित्यनेन गतार्थम् । किञ्च यत्र वाक्यशेषो नास्ति तत्रार्यम्लेच्छ प्रसिध्योस्तुल्यबलत्वाद् विकल्पेनोभयार्थता स्यात् । तथा च वाक्यशेषानपेक्षयैवाधिकरण रचना कर्तव्या । सा चेत्थम् । पीलुशब्दमार्या वृक्षेषु प्रयुञ्जते । म्लेञ्छास्तु हस्तिनि । तत्र चिन्त्यते किं तुल्यबलत्वमुतार्यप्रसिद्धिर्बलीयसीति । पूर्वपक्षस्तु यथा शास्त्रप्रमाणको धर्मः । तत्र शास्त्राभियोगशून्येभ्यो म्लेञ्छेभ्यस्तदभियोगशालिनामार्याणां बलीयस्त्वं भवतु । इह च शब्दार्थो व्यवहारगम्यः । स च म्लेञ्छानामप्यविशिष्ट इति प्रमाणा-विशेषादविशिष्टो द्वयोरपि शब्दार्थः । न च शिष्टव्यवहारस्यावध्यस्मरणात् अनादित्वमिति वाच्यम् । अनादित्वकारणस्यावध्यस्मरणस्य म्लेञ्छव्यवहारेष्वविशेषात् । तस्मात् सममेवाभिधानविप्रतिपत्तिरिति ।
सिद्धान्तस्तु । न समानमेवोभयोः शब्दार्थत्वम् । कुतः ? अनेकादृष्टशक्तिकल्पना प्रसङ्गात् । शब्दप्रयोगे चान्यतरस्यानिश्चयाद् व्यवहारविलोपश्च स्यात् । न च कदाचित् कस्यचिदुपादानमिति वाच्यम् । अष्टदोषदुष्टविकल्पापत्तेः । तर्हि कथमुभयत्र प्रयोग इति वाच्यम् । एकत्र मुख्यत्वेनान्यत्र गौणत्वेन तदुपपत्तेः । न च कुत्र मुख्यत्वं, कुत्र चामुख्य त्वमिति वाच्यम् । आर्यप्रयोगे मुख्यत्वं, म्लेञ्छप्रयोगे गौणत्वमिति निश्चयो-पपत्तेः । कथं तर्हि म्लेञ्छानां तत्र मुख्याभिधानपरम्परानुवृत्तिरिति चेत् गौणप्रयोगे मुख्यत्वाभिमानेन तत्कथनेन चान्येषां तदुपपत्तेः । नन्वेवं तर्हि नानार्थतोच्छेद इति चेन्न । यत्र प्रयोगे विशेषानवधारणं तत्र नानार्थत्वसम्भवात् । न च प्रकृतेऽपि विशेषानवधारणमिति वाच्यम् । अभियुक्तत्वानभियुक्तत्वविशेषसद्भावात् । अभियुक्ता हि शब्दैकसमधिगम्यधर्माधर्मा विप्लावलिप्सया शब्दतत्वार्थं विचिन्त्य व्यवहरन्ति । म्लेञ्छास्तु दृष्टस्य व्यवहारस्य यथा कथञ्चिदुपपत्तेः प्रयोजनाभावान्नाविप्लुतौ यतन्ते । अतस्तेषु विप्लुतिसम्भवात् आर्यप्रसिध्यैव निर्दोषया बलीयस्यार्थसिद्धिरिति पील्वादिशब्दा वृक्षाभिधायिन इति ।
तथा च यथा यववराहाधिकरणे यववराहादिशब्दैः शास्त्रीयप्रसिद्धिबलेन दीर्घशूकादि वाचित्वं तथा परमार्थशब्देन शास्त्रीयप्रसिद्धिबलेन स्वतन्त्रमेवाभिधीयत इति भावः । किञ्च परमार्थशब्दस्य योगेन स्वतन्त्रपरतैव युक्ता । न च रूढिर्योगस्य बाधिका । रूढिर्योगम् अपहरतीति न्यायादिति वाच्यम् । योगेनैव प्रयोगोपपत्तौ समुदायशक्ति-कल्पकाभावात् । यत्र रूढिः सिद्धास्ति तत्रैव तन्न्यायस्य प्रवृत्तिरित्यभिप्रायेणाह– किञ्चेति । तर्हि तात्विके कथं तच्छब्दप्रयोग इति चेन्न । क्लृप्तावयवशक्त्यैव तदुपपत्तेः । न च प्रकृते परमार्थशब्देन यत्किञ्चित् तात्विकं ग्राह्यं नियामकाभावादिति वाच्यम् । मुख्यत्वस्यैव नियामकत्वादिति भावः ।
अत एव प्रोक्षण्यधिकरणेति । नामधेयपादे चिन्तितम् । ‘प्रोक्षणीष्वर्थसंयोगात्’ । दर्शपूर्णमासयोः श्रूयते प्रोक्षणीरासादयतीति । तत्र संशयः किं प्रोक्षणीशब्दः संस्कार निमित्तको जातिनिमित्तको यौगिको वेति । पूर्वपक्षस्तु– संस्कारनिमित्तक एव उत्पव-नादि संस्कृतास्वप्सु तत्प्रयोगस्य सार्वत्रिकत्वात् । न चैवमन्यत्र प्रयोगो न स्यात् संस्काराभावादिति वाच्यम् । अन्यत्र लक्षणयापि प्रयोगोपपत्तेः । अस्तु वा जाति-निमित्तकः । प्रोक्षणीभिरूद्वेजिताः स्मेति देशविशेषे जातिमात्रे प्रयोगात् । न चैवं संस्कृते प्रयोगः कथमिति वाच्यम् । तत्राप्याप्त्वजातेः सत्वेन तत्पुरस्कारेणैव प्रयोगो-पपत्तेः । उभयथापि रूढ इति । न च यौगिक एव किं न स्यात् प्रकृष्टमुक्षणं याभिरिति योगस्य क्लृप्तत्वादिति वाच्यम् । योगापेक्षया रूढेर्बलीयस्त्वात् । अवयवद्वारेण विशिष्टार्थप्रतीतिर्वाक्यादिव वाक्यार्थप्रतीतिर्योग्यतादिज्ञानसापेक्षत्वाद् विलम्बिता । समुदायशक्त्या तु पदार्थमर्यादया शीघ्रेति सैव बलीयसीति । सिद्धान्तस्तु रूढेर्योग-बाधकत्वं तदा यदि रूढिः क्लृप्ता स्यात् । न चैवम् । योगेनैव प्रयोगोपपत्तौ रूढिकल्पनायामेव न प्रमाणम् । प्रकृते च ‘उक्ष सेचने इत्यस्मात् प्रोपसृष्टात् करणे ल्युटि कृते प्रोक्षणीशब्दो निष्पद्यते । तथा चाप्सु प्रकृष्टोक्षण हेतुत्वात् स्त्रीलिङ्गप्रोक्षणी-शब्दवाच्यत्वोपपत्तेर्नादृष्टरूढिकल्पनेति कथं तस्या योगबाधकत्वम् ? एवमेव परमार्थ-शब्दस्यापि योगेनैव स्वतन्त्राद्यर्थपरत्वसम्भवे न रूढिकल्पनेति ।
योगसम्भवे रूढिर्न कल्पनीयेत्यत्र भट्टवार्तिकसम्मतिमाह– उक्तञ्चेति । एवं चाश्व-कर्णादि शब्देऽपि योग एवास्त्विति भावः । ननु परमार्थशब्दस्य यौगिकत्वे परमत्वस्य सर्वत्र सत्वात् स्वतन्त्रपरत्वमेव कुत इत्यत आह– स्वतन्त्र एव चेति । ननु परमार्थ-शब्दस्य यदि तात्विकत्वे रूढिर्न स्यात् तर्हि पङ्कजादिशब्दानामपि पद्मे रूढिर्न स्यात् । योगेनैवोपपत्तेः । न च योगार्थप्रतीतिं विनापि रूढार्थप्रतीतेस्तत्र रूढिरिति वाच्यम् । परमार्थशब्देऽपि तुल्यत्वात् । एवं च योगरूढिभ्यां केवलयोगापहारस्य पङ्कजादौ दृष्टत्वात् प्रकृतेऽपि तात्विके ताभ्यां केवलयोगबाधसम्भवान्न स्वतन्त्रपरता युक्तेत्यत आह– परमार्थशब्दस्येति । बाधकवशात् केवलयोगार्थपरत्वमिति भावः । निर्णीतम् ‘औतः सर्वभावानाम्’ इति श्रुतेरर्थं दर्शयति तथा चेति । केचित्त्विति । अत्र तसिल्-प्रत्ययवैयर्थ्यं प्रकृतानुपयुक्तत्वं चास्वरसबीजं द्रष्टव्यम् । ननु श्लोकद्वये यथास्थित-वस्तुकथनं किं न स्यात् ? तर्कपरत्वे प्रमाणाभावादित्यत आह– श्लोकयोरिति । केचित्त्विति । देवमनुष्यादिरूपप्रपञ्चस्यापि अर्थक्रियाकारित्वेन सत्यत्वात् तन्मिथ्यात्व-परत्वमयुक्तमिति अस्वरसबीजं द्रष्टव्यम् ।
न्यायामृतप्रकाशः
सत्योपाधिकृतत्वं सत्योपाधिजन्यत्वम् । द्वितीये विकल्प इति श्लोके । अनादि-सत्यत्वं आद्यश्लोके पञ्चविधभेदस्यानादित्वं द्वितीयश्लोके सत्यत्वमिति विवेकः । नन्वनादि-श्रुतेः कथमाधुनिकभास्करादिमतप्राप्तनिषेधकत्वं, अदर्शनादित्यत आह– यथेति ।। बौद्धेति ।। प्रवाहतोऽनादीति पूरणीयम् । श्लोकाभ्यां कथमनादित्वं सत्यत्वं लभ्यत इत्यतस्तौ व्याख्यातुं प्रतिजानीते– तथा हीति ।। अनादिसत्यत्वमेवैतच्छ्लोकप्रतिपाद्यतया प्रसिद्धमित्यर्थः । आद्यश्लोकं व्याचष्टे– भेदेति ।। भेदरूपः प्रपञ्चः । विद्येतेत्यस्य उत्पत्त्यर्थत्वं व्युत्पादयति– विदेति ।। तर्हि प्रकृते कथमुत्पत्तिलाभ इत्यत आह– उत्पत्ति-रपीति ।। असतः सत्तासम्बन्धरूपत्वाज्जनेरिति भावः । ननु विद्यतेरुत्पत्त्यर्थत्वेऽपि तत्रा-प्रयोगादसाधुत्वमाशङ्क्य सत्तार्थस्य भवतेरुत्पत्तौ प्रयोगदर्शनात्समानन्यायेन विदेरप्युत्पत्तौ प्रयोगो नासाधुरित्यभिसन्धाय भावनार्थाधिकरणवार्तिकमुदाहरति– तेनेति ।। यजेतेत्यादौ धात्वर्थभूतयागातिरिक्ता प्रयत्नरूपा भावना लिङ्वाच्याऽस्तीत्याहानेन श्लोकेन ।
अयमर्थः । येन कारणेन धात्वर्थस्यैव भावनात्वे यागं भावयेदित्यादिप्रयोगायोगः ‘भाव-नैव प्रयत्नात्मा सदाख्यातस्य गोचरा’ इत्यादिवाक्यविरोधश्च । तेन कारणेन भूतिषु भवनेषु उत्पत्तिषु कर्तृत्वं प्रतिपन्नस्य प्राप्तस्य भवतः उत्पद्यमानस्येति यावत् । वस्तुनो यागादेः प्रयोजकक्रियां उत्पत्त्यनुकूलव्यापारं प्रयत्नरूपं भावनास्वरूपविदः परीक्षकाः लिङ्वाच्यां भावनां आहुरित्यर्थः । तथा च यजेतेत्यस्य यागं भावयेत् यागविषयकं यत्नं कुर्यादित्यर्थः पर्यवस्यतीति ज्ञातव्यम् । एवं चात्र वार्तिके उत्पद्यमानस्येति वक्तव्ये भूतिषु कर्तृत्वं प्रति पन्नस्येति प्रयोगाद्भवतेरुत्पत्तौ प्रयोगोऽवगम्यत इत्यर्थः । तथा च तन्न्यायेन विदेरुत्पत्तौ प्रयोगो युक्त इति भावः । प्रकारान्तरेण विद्येतेत्यस्य उत्पद्येतेति व्याख्यानमुपपादयति– विद्लृलाभ इति ।। लाभार्थकत्वेऽप्युत्पत्तिरर्थतया कथमागतेत्यत आह ।। उत्पत्तिर-पीति ।। पराभिमतार्थे बाधकमाह– अस्तित्वेति ।। विद्येतेत्यस्येति शेषः ।। व्याप्त्य-भावादिति ।। गगनादौ व्यभिचारादिति भावः । ननु निवृत्तिप्रयोजकत्वेनोक्तस्यास्ति-त्वहेतोः श्रौतत्वेन तत्र न व्याप्त्यपेक्षेत्यतो मीमांसाग्रन्थविरोध इत्याह– अत एवेति ।। श्रौतस्यापि हेतोर्व्याप्त्यभावे आभासत्वमेव भवति यतोऽत एवेत्यर्थः ।
न ह्यत्रानूयाजा इति ।। अस्त्यत्र मीमांसासम्प्रदायविशेषः । आतिथ्येष्टिर्नाम काचि-दिष्टिः उपभृन्नामकेष्टिप्रकृतिकाऽस्ति । तत्र चोपभृन्नामकेष्टौ प्रयाजानुयाजसंज्ञकौ यागौ वर्तेते । यथा ‘अष्टावुपभृति गृह्णाति’ इति होमास्तं स्रुवे स्रुचा पात्रस्थमाज्यं अष्टवारं गृहीतव्यमिति विहितम् । एवं च ‘प्रकृतिवद्विकृतिः कर्तव्या’ इति न्यायेन आतिथ्येष्टावपि त्वराङ्गवदष्टगृहीताज्यत्वं प्राप्तं, तत्रातिथ्येष्टाविदमाम्नायते ‘चतुर्गृहीतान्याज्यानि भवन्ति । न ह्यत्रानुयाजान्यक्षन्भवति’ इति । यथा च ‘चतुर्गृहीतान्याज्यानि भवन्ति न ह्यत्रानूयाजा इज्यन्ते’ इति । एवं चात्र न ह्यत्रेति हेतोरेवोक्त्या व्याप्तेरनुक्तत्वात् आतिथ्येष्टिः चतु-र्गृहीताज्यवती अष्टगृहीताज्यवती न भवतीति यावत् । अनूयाजशून्यत्वात् । यत्रानुयाजा भावस्तत्राष्टगृहीताज्यवत्त्वाभाव इति श्रौतहेतोर्व्याप्तिः । राणके शाबरभाष्यटीकायामुक्ते-त्यर्थः । अन्यथा तदुपपादनं व्यर्थं स्यादिति भावः । अर्थानुवादोऽयं वाक्यं तूदाहृतम् । द्वितीयान्तमित्येतद् द्वितीयवाक्यादर्शनमूलकमिति ज्ञातव्यम् ।
मायामात्रमिदमित्येतदवतारयति– नन्विति ।। पूर्वत्रेति ।। प्रपञ्च इति श्लोकापेक्षया पूर्वं माण्डूक इत्यर्थः । इतोपि न मायाकल्पितत्वं मायामात्रशब्दार्थ इत्याह ।। प्रभव इति ।। उत्तरत्रेति ।। ‘कल्पितो यदि केनचित्’ इत्यस्य कल्पितत्वनिराकरणपरतया व्याख्यास्य मानत्वात्तद्विरोध इत्यर्थः ।। सत्त्वोक्तेरिति ।। सतां सत्त्ववतां सर्वभावानामिति सर्वभावानां सत्त्वोक्तेरित्यर्थः ।। अविरुद्धार्थस्येति ।। स चाविरुद्धोऽर्थ ईश्वरेच्छाधीनत्वरूप एव न मायाकल्पितत्वरूपः । मायाकल्पितत्वमायारूपमात्रत्वस्य निवर्त्यत्वनियतत्वेनानिवर्त्यत्व विरुद्धत्वादिति भावः ।। इहेति ।। द्वितीयार्धे मायामात्रशब्देनेत्यर्थः ।। ल्यब्लोपेति ।। ल्यब्लोपे कर्मण्यधिकरणे च पञ्चमी वाच्येति वार्तिकादित्यर्थः । तदुदाहरणं तु प्रासादा-त्प्रेक्षते आसनात्प्रेक्षत इति प्रासादमधिरुह्य प्रेक्षते आसने उपविश्य प्रेक्षत इति ततः प्रतीतेः ।। तद्वद् अत्रापि कर्मणि पञ्चमीति भावः ।। परमशब्दस्य स्वतन्त्रार्थकत्वमनुशासना भावादयुक्तमित्यत आह– स्वतन्त्रमिति ।।
ननु ‘स्वतन्त्रं परमार्थाख्यं’ इति भवद्भिः काचन परिभाषा कृता । वस्तुतः परमार्थ-शब्दो मिथ्याप्रतिद्वन्द्विनि तात्विकरूपार्थ एव रूढः । अयमर्थोऽकृत्रिमत्वाद् ग्राह्यः । न तु पारिभाषिकः, कृत्रिमत्वात् । एवं च औतं परमार्थतः, अद्वैतमेव तात्विकम् । प्रपञ्चो भेदस्त्वतात्विकः इति लभ्यत इत्यत आह– परिभाषायाश्चेति ।। कार्यार्थत्वेन प्रयोजन विशेषार्थत्वेन पारिभाषिकार्थस्यैव ग्राह्यत्वादित्यर्थः । आण्नद्या इत्यादाविवेति ।। ‘यूस्त्र्याख्यौ नदी’ इत्यत्रेकारान्तस्त्रीलिङ्गशब्दस्य गौरी इत्यादेः ऊकारान्तस्त्रीलिङ्गस्य ‘तनू’ इत्यादेर्नदीसंज्ञा विहिता । अनन्तरं ‘आण् नद्याः’ इत्यत्र नद्यन्तात् आडागमो विधीयते । एवं च ‘आण्नद्याः’ इत्यादौ नदीशब्देन ‘यूस्त्र्याख्यौ नदी’ इति परिभाषितेकारान्तोकारान्त गौरीतनू इत्यादिकैव गृह्यते । न तु गङ्गायमुनादिका रूढ्या प्रसिद्धा नदी । तद्वदिहा-पीत्यर्थः । ननु तर्हि ‘नदीभिश्च’ इत्यत्र लौकिकप्रसिद्धनदीवाचकपदेभ्यः प्रत्ययविधानात् तत्रापीयं पारिभाषिकी नदीसंज्ञैव ग्राह्या स्यादित्यत उक्तम्– असतीति ।। तत्र तु बहुवचनमेव बाधकमस्ति । यदि नदीभिश्चेत्यत्रापि पारिभाषिकी नदी गृह्येत तर्हि नदी-संज्ञकाभिरित्यर्थः स्यात् । तदयुक्तम् । ईकारान्तोकारान्तद्वयोरेव नदीसंज्ञाविधानेना-न्यान्तेभ्यश्चाविधानाद् बहुवचनमनुपपन्नं स्यादिति बाधकात् प्रसिद्धनदीग्रहणम् । न ह्यत्रैवं बाधकमस्तीत्यर्थः ।
यववराहाद्यधिकरणन्यायेनेति ।। प्रथमाध्याये तृतीयपादे स्मृत्यधिकरणे चिन्तितम् । यवमयश्चरुर्भवति ‘वाराही उपानहौ उपमञ्चते’ ‘वैतसे कटे प्राजापत्यान् चिनोति’ इति । तत्र (आर्याः) यवशब्दं दीर्घशूके प्रयुञ्जते । वराहशब्दं सूकरे । वेतसशब्दं च वञ्जुले । म्लेञ्छास्तु यवशब्दं प्रियङ्गुषु । वराहशब्दं जम्बूवृक्षे । एवं सति लोकव्यवहारेण निश्चेतव्येषु तेषु शब्दार्थेषु आर्यम्लेञ्छप्रसिद्ध्योः समानबलत्वात् उभयविधा अप्यर्था विकल्पेन स्वीकार्या इति प्राप्ते सिद्धान्तितं जैमिनिना ‘शास्त्रस्था वा तन्निमित्तत्वात्’ इति । शास्त्रीयार्थावबोधे शास्त्रप्रसिद्धिरेव बलीयसी । अविच्छिन्नसम्प्रदायपरम्परागतत्वात् । शास्त्रे च यवविधि-समीपेऽर्थ वादवाक्यं श्रूयते ‘तत्रान्या ओषधयो म्लायन्ते । अथैते मोदमाना इवोत्तिष्ठन्ति इति’ । तथा–
वसन्ते सर्वसस्यानां जायते पत्रशातनम् ।
मोदमानास्तु तिष्ठन्ति यवाः कणशशालिनः ।।
इति स्मृतेश्च तदितरौषधिविनाशकाले फाल्गुनादौ अभिवृद्धिर्दीर्घशूकेषु दृश्यते, न प्रियङ्गुषु । तेषामितरौषधिपचनात् पूर्वं पच्यमानत्वात् । अतो यवशब्दो दीर्घशूकार्थः । तथा उपानद् विध्यर्थवादश्चैवं भवति ‘वराहं गावोऽनुधावन्ति’ इति । न हि गोभिरनुधाव्य-मानः काको भवति । किं तु गोसदृशः चतुष्पात् पशुरेव । अतो वराहशब्दः सूकर एव । तथा वैतसविध्यर्थवादवाक्यं चैवं भवति ‘अप्सुजो वेतसः’ इति । न हि जम्बूवृक्षोऽप्सुजः । अतो वेतसशब्दो वञ्जुलार्थ एवेति ।
शास्त्र इति ।। एवं चाद्वैतं परमार्थत इति शास्त्रीयविचारे ‘स्वतन्त्रं परमार्थाख्यं’ इति शास्त्रीयार्थ एव ग्राह्यो न तु तात्विकादिरूपोऽशास्त्रीय इत्यर्थः । अन्यथा यवादिशब्दैः म्लेञ्छप्रसिद्ध्या प्रियङ्ग्वादिरपि ग्राह्यः स्यादिति भावः । न केवलं परमार्थशब्दः स्वतन्त्रे रूढः । किं तु त्वन्न्यायेनैव यौगिकश्चेत्याह– किञ्चेति ।। तथा च स्मृतावपि स्वतन्त्रं परमार्थाख्यं योगेनैवेत्यर्थोऽस्त्विति भावः । त्वयाऽपि परमार्थशब्दः तात्विकेऽर्थे प्रयुज्यते कथम् ? तात्विकार्थस्य कल्पितार्थात् परमत्वेन । तथा च त्वदुक्तं परमत्वमस्मदभिप्रेते स्वतन्त्रेऽर्थेऽप्यस्ति । स्वतन्त्रस्यैव परमत्वात् इति भावः । ननु योगाद् रूढेर्बलवत्वात् परमार्थशब्देन समुदायप्रसिद्ध्या तात्विकरूप एवार्थो गृह्यताम् । एवं चाद्वैतस्यैव तात्विक त्वाज्जगतोऽतात्विकत्वसिद्धिरित्यत आह– न चेति ।। समुदायशक्तिः रूढिः । ननु रूढि प्राबल्योक्तेस्तर्हि का गतिः ? यत्र यौगिकार्थो न सम्भवति तत्रैवेति ब्रूमः । यत्र तु योगः सम्भवति तत्र योगेन रूढेरेवापहार इत्याशयेनाह– अत एवेति ।। योगसम्भवे समुदायशक्ति कल्पनाया अयुक्तत्वादेवेत्यर्थः ।
प्रोक्षण्यधिकरण इति । प्रथमाध्याये चतुर्थपादे चिन्तितम् । प्रोक्षणीष्वर्थसंयोगादित्यत्र दर्शपूर्णमासयोः श्रूयते ‘प्रोक्षणीरासादयति’ इति । तत्र प्रोक्षणीशब्दो जले रूढो यौगिको वेति सन्देहेऽस्याभिमन्त्रणासादनादिसंस्कृतास्वप्स्वेव प्रयोगस्य सर्वजनीनत्वात् संस्कारनिमित्तको रूढ एव । यद्वा जलक्रीडायां ‘प्रोक्षणीभिरुद्वेजिताः स्मः’ इत्यसंस्कृतास्वप्स्वपि प्रयोगात् जातिनिमित्तको जले रूढ एवेति पूर्वपक्षः । सिद्धान्तस्तु योग एवेति । न च क्लृप्तसमुदाय शक्तिं विना कल्प्ययोगाश्रयणमयुक्तमिति वाच्यम् । अत्रापि व्याकरणेन योगस्य क्लृप्तत्वात् तथा हि, प्रोपपदात् उक्ष सेचने इत्यस्मात् करणे ल्युटि ‘युवोरनाकौ’ इत्यनादेशे नस्य णत्वे गुणे ‘प्रोक्षण’ इति जाते ल्युटः टित्वात् टिड्डाणेत्यादिना ङीपि निष्पन्नः प्रोक्षणीशब्दः प्रकृष्टोक्षणसाधनीभूतजलघृतादिद्रव्यमात्रं वक्ति । एवं च प्रोक्षणीशब्दः संस्कृतासंस्कृतजले यौगिक एवेति सिद्धान्तः ।
योगे उपपन्ने सति समुदायशक्तिर्न कल्पनीयेत्यत्र सम्मतिमाह– उक्तं चेति ।। अश्वकर्ण शब्दो हि वृक्षे रूढ एव । कुतः ? यदि वृक्षे अश्ववत् कर्णौ भवेतां तर्ह्येव योगस्योपपत्तौ रूढिर्न कल्प्या । न चैवं तत्र योगः सम्भवति । बाधितत्वात् । अतो रूढ एवेत्यर्थः । एवं च तत्र योगासम्भवादेव रूढिराश्रिता । अतः प्रकृते परमार्थशब्दस्य तात्विकेऽपि योगे सम्भवति सति रूढिर्नाश्रयणीया । सति चैवं यौगिकार्थभूतं परमत्वं स्वतन्त्रार्थेऽप्यस्तीति भावः ।
नन्वथापि यत् परमार्थशब्दप्रवृत्तिनिमित्तभूतं परमत्वं तत् तात्विकार्थ एव मुख्यं; न तु स्वतन्त्रार्थे । अतस्तात्विकार्थग्रह इत्यत आह– स्वतन्त्र एवेति ।। न तु तात्विकार्थे इत्यर्थः । ननु मन्मते परमार्थशब्दस्य तात्विके योगरूढ्योः सत्वात्कथं योगमात्रेण स्वतन्त्रार्थकत्वमित्यत आह– परमार्थेति ।। मानान्तरैरिति ।। योगरूढिभ्यां परमार्थ शब्दस्य तात्विकार्थाङ्गीकारेऽद्वैतस्यैव तात्विकत्वापत्त्या भेदस्य मिथ्यात्वापत्तेः । सत्यं भिदेत्यादिमानान्तरविरोधः स्यात् । अतस्तदविरोधाय योगेन स्वतन्त्रपरत्वमेव युक्त-मित्यर्थः । अद्वैतशब्दार्थोऽद्वितीय इति । परमार्थतः इत्यत्र तसः इत्यभिप्रेत्योक्तं ‘अद्वितीयं ब्रह्म’ इति । वस्तुस्थितिकथनपरत्वे बाधकमाह– श्लोकयोरिति ।। चतुष्टय-मिति ।। कल्पितो यदीत्यत्र ‘यदि कल्प्येत’ इति गम्यमानत्वात् लिङः चतुष्ट्वं बोध्यम् ।
एकस्मिन्नेवेति ।। चिदानन्दाद्येकरसे जीव इत्यर्थः । कर्मानुसारेण जीवस्य सुरनरादिदेहप्राप्तौ स्वरूपापेक्षयाऽहं मनुष्योऽहं देव इत्यादिप्रतीयमानदेवत्वादेः मिथ्यात्वपरेयं श्रुतिः । चिदानन्दैक-रसजीवस्वरूपे देवत्वादेर्मिथ्यात्वादित्याशयः । इति मायामात्रमिति श्रुत्यर्थविवरणम् ।।
न्यायकल्पलता
ननु ‘प्रपञ्चो यदि विद्येत’ इत्यादिकं प्रपञ्चमिथ्यात्वे मानम् । तथा हि माण्डूकोपनिष- द्विवरणरूपे गौडपादीयवार्तिकस्य शाङ्करीयभाष्ये तदानन्दगिरौ च व्याख्यातम् । ‘प्रपञ्चो यदि’ इत्येतदस्मात्पूर्वश्लोके–
‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ।। इत्येतस्मिन् तुरीयमद्वितीयमित्युक्तम् ।
तत् प्रपञ्चस्य द्वितीयस्य सत्वादयुक्तमित्याशङ्क्य तुरीयप्रबोधात्प्रपञ्चनिवृतौ तदद्वितीय -त्वम् अविरुद्धमिति चोक्तम् । तत्र प्रपञ्चनिवृत्या चेदद्वितीयत्वं तर्हि प्रपञ्चनिवृत्तेः पूर्वम् अनिवृत्ते प्रपञ्चे कथमद्वैतमित्याशङ्कायां तत्परिहाराय ‘प्रपञ्चो यदि’ इति श्लोकः । सत्यमेवं स्यात् प्रपञ्चो यदि विद्येत । रज्ज्वां सर्प इव कल्पितत्वान्न तु स विद्यते । यद्यात्मनि कारणाधीनः सन्प्रपञ्चो विद्येत तदा कृतकस्यानित्यत्वनियमात्तन्निवृत्तिरवश्यम्भाविनी । कार्यस्य निवृत्तिर्नाम कारणसंसर्गः । ततः सति कारणे प्रपञ्चनिवृत्तेरनात्यन्तिकत्वादद्वैता- नुपपत्तिराशङ्क्येत । न च कारणाधीनः सन्प्रपञ्चोऽस्ति । तस्य कल्पितत्वेनावस्तुत्वात् । न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन् विवेकतो निवृत्तः । न च माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता । तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतं रज्जुवन्मायाविवच्चाद्वैतं परमार्थतः । तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वाऽस्ति ।
ननु शास्ता शास्त्रं शिष्यत इति विकल्पः निवृत्त इत्यत्रोच्यते– विकल्पो विनि-वर्तेतेति ।। यदि केनचिद्धेतुना तत्वज्ञानाख्यकार्येण शास्तृ शास्त्रादिविकल्पो हेतुतया कल्पितस्तथाऽप्यसौ बाधितो निवर्तेत । न तु तात्विकमद्वैतं प्रतिरोद्धुमर्हति । उपदेशात् उपदेशमुद्दिश्य । तत्वज्ञानात्प्रागवस्थायामेव तत्वज्ञानहेतूपदेशनिमित्तः अयं वादः, शिष्यः शास्ता शास्त्रमिति । उपदेशकार्ये तु ज्ञाने निवृत्ते ज्ञाते परमार्थतत्वे द्वैतं न विद्यत इति । तस्मादिदं द्वैतमिथ्यात्वे मानमित्यतस्तदुपन्यस्य व्याख्याति– प्रपञ्चो यदीति, अनादीति, श्लोकयोर्विपर्ययपर्यवसायितर्करूपत्वादाद्यश्लोकेन सादित्वनिरासोऽनादित्वं च सिध्यति । द्वितीयेन कल्पितत्वनिरासोऽकल्पितत्वं च । अत एव ‘तद्धैक आहुः’ इति दृष्टान्ता वैषम्यमिति भावः । श्लोकयोर्भेदपदाभावेऽपि प्रपञ्चपदेनैव भेदोऽभिधीयत इत्याह– भेदप्रपञ्च इति ।।
ननु विदेः सत्तार्थकत्वात्कथं विद्येतेत्यस्य उत्पद्येतेति व्याख्यानमित्यत आह– उत्पत्ति-रपीति ।। अवान्तरभेदविवक्षया द्वितीयभावविकारत्वमपि सत्ताया इति भावः । विदेरुक्त-विधयोत्पत्त्यर्थत्वेऽपि तत्राप्रयोगादसाधुत्वमाशङ्क्य सत्तार्थस्यापि भवतेरुत्पत्तौ प्रयोगदर्शना-त्समानन्यायेन विदेरप्युत्पत्तौ प्रयोगो नासाधुरित्यभिसन्धाय समाधत्ते– अस्ति चेति ।। प्रयोग इत्यनेनान्वयः । तत्र भावार्थाधिकरणवार्तिकमुदाहरति– तेनेति ।। धात्वर्थभिन्ना भावना प्रत्ययप्रतिपाद्याऽस्तीति प्रस्तावे, ननु भावनायाः प्रत्ययवाच्यत्वे धात्वर्थस्यैव निष्पाद्यत्वलक्षणक्रियानुरूपेण प्रत्ययेनाभिधानाद्भावनात्वोपपत्तेर्भावयेद्यागेनेति क्रियाकरणतया भेदेन निर्देशोऽनुपपन्न इत्याशङ्क्य भवनक्रियाकर्तृकर्मनिष्ठप्रयोजकव्यापारत्वं धात्वर्थव्यावर्तकं लक्षणम् अभिहितं ‘तेने’त्यादिना । येन कारणेन करोतिभावयत्योस्तुल्यार्थत्वं तेनेत्यर्थः । भूतिषु भवनेषु । प्रतिपन्नस्य भवतः । उत्पद्यमानस्येति यावत् । अत्रोत्पद्यमानस्येति प्रयोक्तव्ये भूतिषु कर्तृत्वमित्यादिप्रयोगाद्भवतेरुत्पतौ प्रयोगोऽवगम्यत इत्यर्थः ।
शविकरणस्यापि विन्दतेर्विकरणव्यत्ययमाश्रित्याह– तथा चेति ।। लभेतेति विपक्ष-बाधकमाह– अस्तित्वेति ।। श्रौतस्यापि हेतोर्व्याप्त्यावश्यकतायामुपष्टम्भमाह– अत एवेति ।। ‘शूर्पेण जुहोति, तेन ह्यन्नं क्रियते’ इत्यत्र हिशब्दसूचितहेतुताकस्य होमसाधनतायामन्न-प्रकरणत्वस्य हेतोः प्रत्यक्षश्रुतहोमसाधनभावकस्य शूर्पस्यानेवंविधेन दर्वीपिठरादिना विकल्पानुपपत्तेर्व्याप्त्यभावेनापरमार्थहेतुत्वे भाष्यस्थेन हेतुवदिति वतिप्रत्ययेन दर्शितः । तद्व्यावृर्त्यपरमार्थहेतुः ‘चतुर्गृहीतान्याज्यानि भवन्ति न ह्यत्रानु याजान्यक्षन् भवति’ इत्यादिकः । आतिथ्येष्टावनुयाजरहितायामष्टावुपभृति गृह्णातीति प्रकृतौ विहितस्योपभृत्यष्ट गृहीतस्य चोदकप्राप्तस्य निवृत्यर्थं चतुर्गृहीते विधीयमानेऽनुयाजाभावस्य हेतुत्वेनाभिहितस्य यत्र यत्रानुयाजाभावस्तत्र तत्राष्टगृहीताभाव इति ज्ञायते । प्रकृतौ चाष्टग्रहणस्य चतुष्ट्वद्वय लक्षणार्थत्वद्योतनात्प्रयाजार्थं जुह्वां समानयने नियोगतोऽर्धमेव समानेयमिति ज्ञायते । इत्यादिना व्याप्तिरुक्तेत्यर्थः ।
अनुयाजा इति ।। अर्थानुवादोऽयम् । वाक्यान्तूदाहृतं द्वितीयान्तम् । उत्तरार्धनिवर्त्या शङ्कां प्रदर्श्य निषेधति– नन्विति ।। ‘मायया’ परमेश्वरेच्छया निर्मितं, ‘मात्रम्’ । मा माने इति धातोः कर्मणि त्रप्रत्ययः । तथा निर्वचने स्मृतिमाह– विष्णोरिति ।। अन्तरङ्ग मप्युपोद्बलकमाह– पूर्वत्रेति ।।
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिता ।।
इत्यादिना, महदादित्वेन विविधभवनं प्रकृतेः प्रसवं सृष्टिं मन्यन्ते परमेश्वरानपेक्षयेति साङ्ख्यमतं, स्वप्नमायेति विवर्तमतं चान्यमतत्वेन प्रदर्श्य, श्रुत्या सृष्टेर्भगवदिच्छाधीनत्वं स्वमतमित्युक्तम् । ‘मायामात्रमिदं द्वैतम्’ इत्यत्र मतान्तरत्वद्योतकस्यान्यादिशब्दस्याभावेन तस्य स्वमतत्वविज्ञानात् स्वमते च सृष्टेरीश्वरेच्छाधीनत्वावगमात् मायामात्रमित्यत्रापि माया शब्देनेश्वरेच्छैवोच्यते न त्वैन्द्रजालिकादिसरूपा मायेत्यर्थः । नियामकान्तरमप्याह– (प्रभव इति) पूर्वत्रेति ।।
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक् ।।
इति पूर्ववाक्ये ‘सतामिति विनिश्चयः’ इति कालत्रयाबाध्यत्वरूपसत्यत्वपरेण, ‘पृथक्’ इत्यनेन भेदपरेण च विरोध इत्यर्थः । ‘चेतोंशून्’ ज्ञानकिरणान् ।। उत्तरत्र चेति ।। ‘कल्पितो यदि केनचित्’ इत्यस्य यद्यालिङ्गितत्वेन कल्पितत्वनिराकरणपरत्वात्तद्विरोध इत्यर्थः ।। अनिवर्त्यत्वेति ।। यथाश्रुतस्य मायाकल्पितत्वरूपमायामात्रत्वस्य बाध्यत्वरूप निवर्त्यत्वनियतत्वेनानिवर्त्यत्वलक्षणाबाध्यत्वविरुद्धत्वादित्यर्थः ।। इहेति ।। मायामात्रमिदं द्वैतमित्यत्र मायामात्रशब्देनेत्यर्थः । तुरीयपादनिरसनीयाशङ्कां दर्शयति– तर्हीति ।।
निवृत्तेः सर्वभावानामीशानः प्रभुरव्ययः ।
औतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ।। इत्यादौ श्रुतं कथमिति शङ्काग्रन्थार्थः ।।
आहेति ।। श्रुतिरिति शेषः ।। ल्यब्लोपेति ।। गम्यमानार्थत्वे सत्यप्रयुज्यमाने ल्यपि पञ्चमी भवतीत्यर्थः । विद्वद्रूढिं वक्तुं योगं तावदाह– परममिति ।। तत् अद्वैतमित्यर्थः ‘विद्वद्रूढिर्वैदिका स्यात्सा योगादेव गम्यते’ इत्यनुव्याख्याने । अत एव ‘यच्छब्दा योग-वृत्तयः’ इत्यणुवेदान्तभाष्यम् । विद्वद्रूढेरुपलक्षणम् । तस्य स्वतन्त्रेऽर्थे स्मार्ता विद्वद्रूढि रस्तीत्याह– स्वतन्त्रमिति ।। एतेन परमार्थशब्दस्य मिथ्याप्रतिद्वन्द्विनि तात्विकेऽर्थे रूढत्वात्कथं परमार्थशब्देन स्वतन्त्रार्थाभिधानमिति निरस्तम् । वैयाकरणन्यायेनापि उक्तमर्थं द्रढयति– संज्ञेति (इदं पदं न्या. मूलपुस्तके न दृश्यते) ।। ‘आण्नद्याः’ इत्यादौ यथा ‘यू स्त्र्याख्यौ नदी’ इति सूत्रपरिभाषिता ई ऊ इत्यन्ता स्थली यवनी इत्यादिकाः शब्दा नदी शब्देन गृह्यन्ते न तु गङ्गायमुनाद्यास्तथाऽत्रापीत्यर्थः । तर्हि नदीभिश्चेत्यादावपि लौकिकनदी न गृह्येतेत्यत उक्तम् असतीति । तत्र च बहुवचनं बाधकमित्यर्थः ।
किञ्च । द्वाभ्यां समाधिकाभ्यमितः प्राप्तः द्वीतः । स एव द्वैतः, न द्वैतः औतः । एवं सर्वेषां भावानां पदार्थानां मध्ये अवस्थात्रयरहितत्वात्तुर्यः नित्यमुक्तत्वेन सदा द्योतनादि गुणवान् नारायण एव समाधिकशून्यत्वादद्वैतः स्मृतः । ‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति गीतोक्तेः । ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेश्च ।
ननु बहुत्वाल्लोकप्रसिद्धिर्बलवतीत्यत आह– यववराहेति ।। स्मृतिपादे चिन्तितम् । ‘तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्’ । ‘यवमयश्चरुर्भवति, वाराही चोपानहावुप मुञ्चते, वैतसे कटे प्राजापत्यं सञ्चिनोति’ इति विधिवाक्येषु यववराहवेतसशब्दानां कैश्चि-त्प्रियङ्गुवायसजम्बूकेषु, कैश्चिद्दीर्घशूकसूकरवञ्जुलकेषु च प्रयुज्यमानानां व्यवहारविप्रति पत्त्याऽर्थानिर्णये प्राप्ते ‘शास्त्रस्था वा तन्निमित्तत्वात्’ इति सिद्धान्तितं सूत्रेण । ‘यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति, वराहं गावोऽनुधावन्ति, अप्सुजो वैतसः’ इति यवादिविधिवाक्यशेषाणां यवादीनां क्रमेणान्यौषधिम्लानिकाले फाल्गुने मोदमानत्वस्य, गोसादृश्यस्य जलोद्भवत्वस्य च प्रतिपादकानामानुगुण्येन दीर्घशूकादिव्यवहारस्य बलीय-स्त्वाद्दीर्घशूकादिरेवार्थो ग्राह्यः ।
वसन्ते सर्वसस्यानां जायते पत्रशातनम् ।
मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ।। इति स्मृतेश्चेति ।
ननु परिभाषा योगेनोपपद्यताम् । उभयत्र रूढिकल्पने गौरवादित्याशङ्क्य प्रौढवादेन समाधत्ते– किञ्चेति ।। विप्रतिपन्नेऽस्मिन्वाक्ये परमार्थशब्देन यौगिकः स्वतन्त्रलक्षणोऽर्थो गृह्यते । तत्र योगस्य सम्भवादित्यर्थः । ननु–
अक्षरैरेव बुध्यन्ते समुदायप्रसिद्धिषु ।
अर्थभागोपसंहारादितरा विप्रकृष्यतः ।।
इति वार्तिकोक्तेः समुदायप्रसिद्धिरूपाया रूढेः श्रुतिस्थानीयायाः वाक्यस्थानीयावयवप्रसिद्ध्य पेक्षया बलवत्वस्य रथकाराधिकरणे स्थितत्वादिहापि परमार्थशब्देन समुदायप्रसिद्ध्यातात्विक रूप एवार्थो गृह्यतामित्याशङ्क्य निराकरोति– न चेति ।। अवयवानामपि स्वार्थेऽवश्यं शक्तिराश्रयणीया । अन्यथाऽवयवप्रसिद्धिः समुदायप्रसिद्धिरिति विभागानुपपत्तेरिति भावः ।
नन्वेवं रथकाराधिकरणोक्तरूढिप्राबल्यभङ्ग इत्यत आह– अत एवेति ।। सत्यमेतद् रूढिः प्रबलेति । परं तु लब्धात्मिका । तस्याः स्वात्मलाभो यत्र प्रमाणान्तरेण पूर्वानुभूता वयवार्थरहितेऽर्थे शब्दप्रयोगो दृश्यते । तदुक्तं वार्तिके ।
असत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते ।
तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति ।।
एवं च यथा प्रोक्षणीशब्दे रूढिरलब्धात्मिका न प्रबलेत्युक्तं यतः कारणादत एव परमार्थ शब्देऽपि तथैव । न त्वेतावता रूढिप्राबल्यभङ्ग इत्यर्थः । नामधेयपादे विचारितम् । ‘प्रोक्षणीष्वर्थसंयोगात्’ । दर्शपूर्णमासयोः प्रोक्षणीरासादयतीत्यत्र प्रोक्षणीशब्दः किं संस्कार शब्दः जातिशब्दो यौगिको वेति संशये उत्पवनसंस्कृतास्वप्सु तत्प्रयोगस्य सार्वभौमत्वात् संस्कारशब्द इत्येकः पक्षः । प्रोक्षिणीभिरुद्वेजिताः स्म इति कस्मिंश्चिद्देशे जले जातिमात्रेण प्रयोगदर्शनात् संस्कृताप्सु प्रयोगस्यापि तद्वाचित्वेनैव निर्वाहसम्भवाज्जाति शब्दोऽयमित्यन्यः पक्षः । नापि यौगिकः । रूढेः प्राबल्यात् । तस्माद्रूढ्या जातिशब्दोऽयमिति पूर्वपक्षे प्राप्ते प्रोपसृष्टात् उक्ष सेचन इति धातोर्ल्युटि स्त्रीप्रत्ययान्तस्य प्रोक्षणीशब्दस्य प्रकृष्टसेचनक्रिया करणरूपयोगेनाप्सु क्लृप्तैनैव प्रयोगोपपत्तौ रूढ्यकल्पनात् सर्वद्रवद्रव्यसाधारणत्वेन यौगि-कोऽयं प्रोक्षणीशब्द इति सिद्धान्तः । एवं च स्त्रीप्रत्ययस्याश्रयलिङ्गनिमित्तस्य घृतादिषु बाधेऽपि चोदकप्राप्तस्याङ्यन्तस्य प्रोक्षणीशब्दस्य न बाध इत्यर्थवानेवायं विचार इति ।
नन्वेवं सर्वत्र यथाकथञ्चिद्योगस्य सम्भवादसत्स्ववयवार्थेष्विति वार्तिकमयुक्तमित्याशङ्कां परिजिहीर्षुर्वार्तिकान्तरमुदाहरति– उक्तं चेति ।। प्रोक्षण्यधिकरण इति शेषः । वृक्षविशेेेषेऽश्व- कर्णशब्दवाच्येऽश्वसदृशकर्णयुक्तत्वादिरूपयोगासम्भवात्तत्पुरस्कारेण वृक्षेऽश्वकर्णशब्दप्रयोगा सम्भवात्तत्र तस्य रूढिः सम्भवतीत्यर्थः ।। मुख्यमिति ।। मुख्यामुख्ययोर्मुख्ये कार्य सम्प्रत्यय इति न्यायेन प्रथमोपस्थितत्वादित्यर्थः ।। न चेति ।। न्यायविरोधादिति भावः । परमार्थशब्दस्य तात्विकत्वे रूढियोगार्थप्रतीतेः कथं योगमात्रेण स्वतन्त्रार्थकत्वम् । पङ्कज शब्दस्य कुमुद इवात्रापि रूढिरेवाधिकेत्याशङ्क्य समाधत्ते ।। परमार्थेति ।। विद्वद्रूढिरेवा-त्रेत्यपिशब्दं प्रयुञ्जानस्य भावः । निष्पन्नमर्थमाह– तथा चेति ।। अविनाशीति ।। चतुर्विधनाशशून्य इत्यर्थः ।
अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।। इति स्मृतेः ।
द्वितीयश्लोकं सङ्गमयति– एवमिति ।। निरस्येति ।। तन्निरासं बोधयित्वेत्यर्थः । ननु तर्कस्याप्रमाणत्वान्न कल्पितत्वनिरासप्रमाणतयोदाहर्तव्यत्वमत आह– तर्कत्वादिति ।। विपर्ययपर्यवसायितयाऽर्थबोधकत्वेन तर्कस्य प्रमाणत्वादकल्पितत्वसिद्धिरिति भावः । विशेष्याध्याहारपूर्वकं चतुर्थपादं व्याख्याति– तत्व इति ।। नञः प्रश्लेषादज्ञाते तत्वे द्वैतं न विद्यत इति व्याख्येय इत्यर्थः । विपक्षे बाधकमाह– श्लोकयोरिति ।। चतुष्टयमिति ।। कल्पितो यदीत्यत्र यदि कल्पितः स्यात्, कल्प्येतेति वा गम्यमानत्वाल्लिङ् चतुष्कं बोध्यम् । उक्तमर्थमनुव्याख्यानेन सम्मतयति– तदुक्तमिति ।। विद्येतोत्पत्तिमिति ।। विद्येतेत्ययं शब्द उत्पत्तिमाहेत्यन्वयः । तत्वनिर्णयोदाहृतश्रुत्याऽप्युक्तमर्थं संवादयति– स्पष्टीकृतश्चेति ।। सोऽयमिति ।। पञ्चविधो भेद इत्यर्थः । स्वरूपोक्तिरेव निराकृतिरिति मन्वानो मतान्तरम् उपन्यस्यति– केचित्विति ।। ‘यत्र पूर्वे साध्याः सन्ति देवाः’ इत्यादिना देव-त्वादेः स्वाभाविकत्वावगमादिति भावः । ‘सप्तमी शौण्डेः’ इत्यादिवत् । बहुवचनमाद्यर्थे । साध्यादयः शतधृतिपर्यन्ता इति बोध्यम् । तेन ज्ञानानन्दैकरसे आत्मनि देवत्वादेर्मिथ्या-त्वम् इत्येतन्निरसनीयम् । निर्विशेषे आत्मनि ज्ञानानन्दैकरसत्वायोगादिति ।
ननु माण्डूक्योपनिषद्विवरणरूपगौडपादीयवार्तिकस्थौ प्रपञ्चो यदीत्यादि श्लोकौ न श्रुति गतौ । अत एव गौडपादीयवार्तिकभाष्यस्यानन्दगिरावुक्तम् ‘गौडपादाचार्यैर्माण्डूक्योपनिषदं पठित्वा तद्व्याख्यानश्लोकावतरणमत्रैते श्लोका भवन्तीत्यनेन कृतम्’ इति । ‘नान्तःप्रज्ञं न बहिःप्रज्ञम्’ इत्यादिश्रुतेर्माण्डूक्यस्थाया विवरणरूपेषु ‘निवृत्तेः सर्वदुःखानामीशानः प्रभुर व्ययः’ इत्यादिषु गौडपादीयवार्तिकश्लोकेषु मध्ये ‘प्रपञ्चो यदि’ इति श्लोकद्वयं पठ्यते । तत्कथमुच्यते श्रुतिरिति ।
मैवम् । आचार्यैर्माण्डूक्यभाष्ये व्याख्यातत्वादेतयोः श्लोकयोः श्रुतित्वम् अवसीयते ।
१‘तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः ।
वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः ।। १ ।।
तन्वादिकस्तथाऽप्येष ह्यभिमानात्प्रदृश्यते ।
अतः स विद्यत इति ह्यङ्गीकारो भवेद्यदि ।
तथापि भगवद्ज्ञानात्स निवर्तेदसंशयम् ।। इति ब्रह्मतर्कोक्तेः ।
अहमस्य कर्ता ममेदम् इत्यादि स्वस्वामिभावरूपो द्वितीयप्रपञ्चो यद्यपि जीवस्य विद्येत तथाप्यसौ भगवदिच्छाधीनस्तत्प्रसादान्निवर्तेत । महद्भिर्द्वितीयेन प्रकारेणाज्ञातमद्वैतम् इदं परब्रह्मादिवस्तु द्वैतम् । अज्ञैर्द्विधा ज्ञातम् विद्यमानप्रकारापेक्षया द्वितीयेन प्रकारेण ज्ञातम् । तत्र हेतुः ‘परमार्थतः’ इति । परमेश्वरात् । तस्यैव मायामात्रम् तदिच्छया निर्मितम् । जीवानां देहादौ भगवदिच्छया जातं तदन्यथाज्ञानं तस्मात्तदिच्छयैव निवर्तेत । अतो विकल्पः शरीरादिसम्बन्धः केनचिदज्ञानादिकारणेन कल्पितोऽप्युपदेशान्निवर्तते । अयं सतां वादः । ज्ञाते सति ब्रह्मणि । द्वैतमन्यथाज्ञानं निवर्तते इति ।
विकल्पो देहबन्धादिः केनचित्कारणेन तु ।
कल्पितो विनिवर्तेत गुरुवाक्यादसंशयः ।
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्वतः ।
निवर्तेत तथा ज्ञानं तत आनन्दमेत्यसौ ।।
इति च’ इत्यादिना प्रमाणस्ववचनाभ्यामाचार्यैरेतौ श्लोकौ व्याख्यातौ । ग्रन्थकृता तु अनुव्याख्यानाद्युक्तप्रकारेणात्र तर्कपरतया व्याख्याताविति ज्ञेयम् ।।
।। इति मायामात्रमिति श्रुत्यर्थः ।।