यच्चेदमुच्यते– भेदः किं स्वरूपं, धर्मो वा ? नाद्यः

१४. सामान्यतो भेदखण्डनोद्धारः

न्यायामृतम्

यच्चेदमुच्यते– भेदः किं स्वरूपं, धर्मो वा ? नाद्यः । निरपेक्षत्वाद्यापातात् । नान्त्यः । अनवस्थाद्यापत्तेः । कुम्भस्य स्तम्भाद् भेदे प्रतीते स्तम्भस्य कुम्भाद् भेदधीरित्यन्योन्याश्रयाद्यापत्तेश्चेति । अत्र ब्रूमः किं भेद प्रतीतिरेव नास्तीत्युच्यते, किं वा सा कारणजन्या नेति, उत बाध्यविषयेति ? नाद्यः । भेदभ्रमनिरासाय वेदान्त-श्रवणाद्ययोगात् । भेदाप्रतीतौ बहुयत्नैस्तन्निरासायोगाच्च । स्वपरपक्षदूषणभूषणादे-र्भेदाप्रतीतौ बहुविप्लवापत्तेश्च । भेदः स्वरूपं धर्मो वेति विकल्पायोगाच्च । न हि पर्यायेण विकल्पः सम्भवति । द्वितीये कारणाजन्यत्वमजन्यत्वेन वा स्याद्, अकारणजन्यत्वेन वा स्यात् । नाद्यः । भेदप्रतीतेर्नित्यत्वापत्त्या स्वप्रातिकूल्याचरणापातात् । न द्वितीयः । व्याघातात् । जनकस्यैव कारणत्वात् । तृतीयेऽपि किं शुष्क तर्कैरेव भेदस्य बाध्यत्वा-ध्यवसायः, श्रुत्यादिना वा । नाद्यः । ऐक्यस्यापि ब्रह्मस्वरूपत्वे तद्वदेव निरपेक्षत्वा-द्यापातात् । धर्मत्वेऽनवस्थेत्यादि तर्कबाध्यत्वसाम्यात् । त्वयैव ‘वेदान्तानामैदंपर्यं दर्शयितुमिदं शास्त्रं प्रवृत्तम् । न तर्कशास्त्रवत् केवलाभिर्युक्तिभिः किञ्चित्सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम्’ इत्युक्तत्वाच्च । एवं च–

भेदः स्वरूपं धर्मो वेत्यादिरूपा विभीषिका ।

अकारमात्रप्रक्षेपे स्यादभेदे विभीषिका ।।

भेदाभावादन्यदैक्यं नास्तीति चेदैक्याभावादन्यो भेदो नास्तीति समम् । भेददूषणे-नैवैक्यसिद्धिश्चेदैक्यदूषणेनैव भेदसिद्धिः स्यात् । एवं च–

भेदस्य खण्डनेनैव यद्यभेदः प्रसिद्ध्यति ।

अभेदखण्डनेनैव तर्हि भेदोऽपि सिद्ध्यतु ।।

भेद एव दूष्योऽस्माकं न त्वभेदः साध्य इति चेद्, अभेद एव दूष्योऽस्माकं न तु भेदः साध्य इति समम् । स्वपक्षस्य जल्पादौ त्वयापि स्थाप्यत्वात् । वितण्डायां तु मयाप्यस्थाप्यत्वात् । न च वितण्डा तवैवेति नियमः । सत्यपि पक्षपरिग्रहे तवेव ममापि तदा तदस्थापनेन वितण्डाधिकारात् । अन्यथा तार्किकादेः शब्दानित्यत्वादौ मीमांसकादिना सह वितण्डा न स्यात् । उक्तं च–

वितण्डा तु सतामन्यैस्तत्वमेषु निगूहितम्’ इति ।

पक्षपरिग्रहहीनस्य तु निर्मर्यादस्यापसिद्धान्तादिनिग्रहानर्हतया न वितण्डाया-मप्यधिकारः । नाप्यौपनिषदंमन्यस्यापि तवैव वितण्डेति नियमः । त्वदिच्छाननु-सारित्वात्प्राश्निकानाम् । उपनिषदां परपक्षनिरासमात्ररूपत्वाभावाच्च । परपक्षनिरासकेन द्वितीयाध्यायेनैव गतार्थत्वेन स्वपक्षसाधनार्थानाम् आद्याद्यध्यायानां वैयर्थ्यापाताच्च । भाषितं च त्वयैव ‘आद्यद्वितीययोः सङ्गतिं दर्शयता स्वपक्षसाधनं प्रथमं कृतम् । तद्धि अभ्यर्हितं परपक्षप्रत्याख्यानात्’ इति ।

त्वया स्थाप्यम्, मया दूष्यमिति समयबन्धे कथमिति चेन्न, मयापि स्वानभि-मतस्यास्थाप्यत्वेन त्वयापि स्वाभिमतस्यादूष्यत्वेन तथा समयबन्धायोगात् । त्वया भेदः स्थाप्यः, मया दूष्य इति तद्बन्धे कथमिति चेत्, त्वयैक्यं स्थाप्यं मया दूष्यमिति तद्बन्धे कथम् ? तदापि अस्वव्याघातकैरेव त्वया ऐक्यं दूष्यमिति चेत्, भेदेऽपि तथेति न स्वव्याघातकैर्भेददूषणं युक्तम् । ब्रह्मातिरिक्तमैक्यमेव नास्तीति चेद्, घटाद्यतिरिक्तो भेदोऽपि नास्तीति समम् । श्रुतिविरोधादैक्यदूषकास्तर्का आभासा इति चेत्, प्रत्यक्षादि-विरोधाद् भेददूषका अपि तथेति समम् । प्रत्यक्षं तर्कविरोधाद् अप्रमाणं चेत्, श्रुतिरपि तद्विरोधादुपचरितार्थेति समम् । त्वन्मतेऽपि स्वस्य स्वाभिन्नत्वादभेदनिरासः स्वव्याहत इति चेत्, त्वन्मतेऽपि ब्रह्मणोऽनृताद् भिन्नत्वाद्भेदनिरासोऽपि स्वव्याहत इति समम् । ब्रह्मणोऽनृतादपि भेदो मिथ्येति चेन्न, स्वस्य स्वाभेदोऽपि मिथ्येति सुवचत्वात् ।

न हि सत्यमसत्येभ्यो भिन्नं नेत्युक्तितोऽपि च ।

सत्यं न सत्यमित्युक्तावधिकाऽस्ति विरुद्धता ।।

एवं च–

शुष्कतर्कैर्भेदबाधे स्यादभेदोऽपि बाधितः ।

प्रमितत्वात्तत्र तर्कास्तुच्छाश्चेत्प्रकृते न किम् ।।

न द्वितीयः । श्रुतेः साक्षिप्रत्यक्षाद्यबाधकत्वस्योक्तत्वात् । श्रुत्यादेः सम्यग-व्याख्यातत्वाच्च । प्रत्यक्षस्यापि भाविबाधकशङ्काभङ्गे उक्तन्यायैर्भेदधीबाधकत्वासम्भवाच्च ।

किञ्च कल्प्यमानमपि बाधकं किं भेदमेव गोचरयेद् उताभेदम्, यद्वा यत्किञ्चित् ? निरालम्बनज्ञानायोगात् । नाद्यः । साधकत्वात् । द्वितीये तदन्यस्तद्विरोधी तदभावो वा नञर्थो वाच्यः । पक्षत्रयेऽपि दुष्परिहरो भेदः । तदनन्यत्वे च तद्विरुद्धत्वतदभाव-त्वयोरयोगात् । भेदाभावादिग्राहिणापि प्रतियोगिविलक्षणतयैव स्वविषयस्य ग्राह्यत्वाच्च । औदासीन्येन प्रवृत्तस्य इदमिति ज्ञानवदबाधकत्वात् । अत एव न तृतीयः । एतेन बाधकं भेदभ्रमाधिष्ठानतत्त्वगोचरमिति निरस्तम् । तस्यापि भेदाद् भेदाभावे भेदविलक्षण-त्वेनाग्रहणे च तज्ज्ञानस्य भेदबाधकत्वायोगात् ।

किञ्च नायं भेद इति वा, नास्त्यत्र भेद इति वा, अन्यदेव भेदात्मना प्रत्यभ•दिति वा बाधकज्ञानेन भवितव्यं, नेदं रजतमित्यादिवत् । तदेतत्सर्वथा भेदावगाहीति कथं तद्बाधकम्? एकमेवानेकात्मना प्रत्य भादिति ज्ञानं बाधकमिति चेन्न, एकानेकयोर्वस्तुतो भेदाभावे वैलक्षण्याग्रहणे च तस्य बाधकत्वायोगात् । एवं च–

भेदाद्भिन्नतया स्वार्थं बाधधीर्गाहते न वा ।

आद्ये भेदः स्थिरोऽन्त्ये तु न सा स्याद्भेदबाधिका ।।

तस्मात्कप्तविषयत्वान्नान्योन्याश्रयतादेरुत्थानम् । उत्थितस्य भवेदाभासत्वम् । एतेन यदुक्तं खण्डने–‘निर्वचनवादिनीदं शोभते नास्मासु । प्रतिभासमानोऽयं भेदः स्वरूपादि-पक्षान्तर्भावबहिर्भावाभ्यां सदसत्वाभ्यां वाऽन्येनापि धर्मेण वाऽनिर्वाच्य इत्यङ्गीकारात्’ इति, तन्निरस्तम् । तर्कबाधमात्रेणानिर्वाच्यत्वे ऐक्यस्यापि तत्प्रसङ्गात् ।

किञ्च त्वयापि अनृतजडदुःखपरिच्छिन्नाद्यनात्मके ब्रह्मणि अनृतादिव्यावृत्ति-र्ब्रह्मज्ञानाबाध्येति वाच्यम् । शून्याद्यनात्मके घटादौ शून्यादितः स्वज्ञानाबाध्यभेददर्श-नात् । अन्यथाऽनृतादिव्यावृत्तिबोधनेन तद्भ्रान्ति निवारकस्य सत्यज्ञानादिवाक्यस्य भ्रान्त्यन्तरहेतुत्वं स्यात् । ब्रह्मण्यनृतत्वादेरधिष्ठानज्ञानाबाध्यात्यन्ताभाव प्रतियोगित्वरूपं मिथ्यात्वं च न स्यात् । उक्तं चैतद्देहात्मैक्याध्यासभङ्गे । न च प्रतियोगिनोऽनृतत्वात्ततो व्यावृत्तिरप्यनृता । शुक्तौ रूप्याभेदवद् बाधगम्यस्य तद्भेदस्यापि प्रातिभासिकत्वापत्या भ्रान्तिबाधव्यवस्थायोगात् । विस्तृतं चैतन्मिथ्यात्वभङ्गे । एवमात्मनि देहादात्मज्ञाना-बाध्यभेदाभावे देहात्मैक्यस्य मिथ्यात्वं न स्यादिति त्वदीया तदैक्याध्यासोक्तिरयुक्ता स्यात् । तथा नित्यस्यानित्यात्तात्विकभेदाभावे साधनचतुष्टयान्तर्गतो नित्यानित्यवस्तु-विवेको भ्रमः स्यादिति तेनानित्यहानेन नित्ये प्रवृत्तिरयुक्ता स्यात् । एवं प्रपञ्चे सद्वैलक्षण्यादि रूपम् अनिर्वाच्यत्वम् अधिष्ठानज्ञानाबाध्यमिति वाच्यम् । अन्यथाऽ-धिष्ठानज्ञानाबाध्यसत्वापातात् । जगन्मिथ्यात्वप्रमाणानाम् अतत्वावेदकत्वापाताच्च । एवम् अभेदस्य भेदात्तात्त्विकभेदाभावे तयोरभेदस्तात्त्विकः स्यादिति भेददोषैरभेदबाधनम्, अभेदप्रमाणैर्भेदसाधनं च स्यात् । न च तात्त्विकभेदाभावेऽपि तात्त्विकाभेदाभाव मात्रेण व्यवस्थेति वाच्यम् । अभेदाभावे भेदध्रौव्यात् । न च व्यवहारिकभेदाद् व्यवस्था । कल्पितेनाकल्पित कार्याप्रतिबन्धादित्युक्तत्वात् । एवं च–

ब्रह्मणोऽनृततो भेदः सत्यश्चेद् भेदखण्डनम् ।

व्याहतं स्यादसत्यश्चेद् ब्रह्मणोऽनृतता भवेत् ।।

भेदाभेदभिदा चेत्स्यात्कथं भेदो निवार्यते ।

भेदाभेदभिदा नो चेत्कथं भेदो निवार्यते ।।

किञ्च भेदस्य व्यावहारिकसत्यत्वरक्षार्थमेव त्वयाप्यन्योन्याश्रयादिकमुद्धार्यम् । न ह्यन्योन्याश्रयादिदुष्टस्य व्यावहारिकतापि दृष्टचरी । न हि मृदवास्तवीत्येतावता स्वजन्यघटजन्या । अन्यथाऽऽकाशवाय्वादेरेवान्योन्य मुपादानत्वाधिष्ठानत्वे स्यातामित्य-ज्ञानब्रह्मणोस्ते न कल्प्ये स्याताम् । यदि चान्योन्याश्रयादिदुष्टस्याप्यविद्या सामर्थ्याद् व्यावहारिकता, तर्हीश्वरसामर्थ्यात् तादृशस्यापि पारमार्थिकतैवास्तु । अपि च कथमत्रापादनक्रमः १) यदि भेददर्शनं स्यात्तर्ह्यन्योन्याश्रयादिकं स्यात् । न च तद्युक्तम् । तस्मान्नास्ति भेददर्शनमिति वा २) यदि भेददर्शनं वास्तवं स्यात्तर्हि अन्योन्याश्रयादिकं स्यादिति वा ३) यदि भेददर्शनं प्रमा स्यात्तदाऽन्योन्याश्रया दिकं स्यादिति वा ४) यदि भेददर्शनं धर्मिप्रतियोग्यादिसापेक्षं स्यात्तदाऽन्योन्या श्रयादिकं स्यादिति वा ।

नाद्यः । यदि भेददर्शनं न स्यात्तदा परः परमतमिव स्वमतमपि निराकुर्यात् । सकलव्यवहारविधुरश्च स्यादित्यादिप्रतिकूलतर्कपराहतेर्भेदादर्शने तन्निरासायोगेन विपर्ययापर्यव सानाच्च । न द्वितीयः । वास्तवेऽन्योन्याश्रयादेरभावेन व्याप्तिवैकल्यात् । दर्शनावास्तवत्वेऽप्यभेदवद्भेदस्यापि सत्त्वोपपत्तेश्च । न तृतीयः । त्वया स्तम्भात्कुम्भस्य भेदप्रतीतौ कुम्भात्स्तम्भस्य भेदधीरिति प्रतीतावेवान्योन्याश्रयत्वस्योक्तत्वेन चोरापराधा न्माण्डव्यस्य शूलप्राप्तिवत्प्रतीतिगतेनान्योन्याश्रयेण प्रमात्वनिषेधायोगात् । न च प्रतीतेर्विचारासहत्वेन भ्रमत्वं, विचारासहप्रपञ्चान्तर्गतचरमवृत्तिवत्प्रमात्वोपपत्तेः । जीवस्य ब्रह्मैक्यप्रतीतौ ब्रह्मणो जीवैक्यधीरिति ऐक्येऽप्यन्योन्याश्रयस्य वक्ष्यमाणत्वाच्च । रूप्यादिभ्रमस्यापि त्वयाऽख्यातिवाद्युक्तहेत्वभावादिबाधकाना मुद्धृतत्वेन विचारा-सहत्वाच्च । चतुर्थेऽपि सापेक्षतामात्रं निवर्ततां भेददर्शनस्य, किमायातम् । प्रकारान्तरा भावात्स्वयमपि निवर्तत इति चेन्न, प्रतीतेः परेणाप्यपेक्षणीयत्वेन निवर्तयितुमशक्य-त्वात् । प्रमात्वनिवर्तने च सामर्थ्याभावस्योक्तत्वात् । अन्यथा स्वाभिमताद्वैतमपि न सिद्ध्येदित्युक्तम् । किञ्च त्वत्पक्षे घटस्य पटाद्भेद इव घटेनाभेदोऽपि व्यावहारिकः । उक्तरीत्या ब्रह्मजीवैक्यमिव ब्रह्मण्यनृतव्यावृत्तिरपि तात्त्विकीति कथमभेदमुपेक्ष्य भेदे द्वेषः । एवं च–

ब्रह्मण्यनृतभेदस्य सत्यत्वे कलशे स्वतः ।

अभेदस्य च मिथ्यात्वे भेदे द्वेषस्तु किं कृतः ।।

।। इति सामान्यतो भेदखण्डनोद्धारः ।। १४ ।।

अद्वैतसिद्धि:

स्यादेतद्– इदमयुक्तम्, भेदस्य प्रमाणसिद्धत्वात् । न च भेदस्य स्वरूपत्वेऽनपेक्षत्वापत्त्या धर्मत्वम्, तथा चानवस्था, स्तम्भकुम्भयोः परस्परभेदग्रहोऽन्योन्यभेदग्रहसापेक्ष इत्यन्योन्याश्रयश्च । एवं च भेदासिद्धिरिति वाच्यम् । तत् किं भेदप्रतीतिरेव नास्ति ? कारणाजन्या वा, बाध्यविषया वा । नाद्यः । विकल्पादिकरणरूपव्यवहारविप्लवापत्तेः । न हि भिन्नतया अज्ञातेन विकल्पः । न द्वितीयः । अकारणकोत्पत्तेर्व्याहतत्वेन नित्यत्वापत्त्या तन्निरासक मोक्षोपायाननुसारणापत्तेः । न तृतीयः । उक्तशुष्कतर्कस्याबाधकत्वात् । अन्यथा ऐक्यस्य स्वरूपत्वेऽनपेक्षत्वापत्तिः । धर्मत्वे औतहानिरित्यादिना ऐक्यबुद्धिरपि बाधितविषया स्यात् । न च मम वैतण्डिकस्य परपक्षमात्रं खण्डनीयमिति वाच्यम् । स्वपक्षसत्त्वेऽपि तव तथात्वे ममापि तथात्वाविरोधात् । न च मम परपक्षखण्डनमात्रेण स्वमतभूतैक्यसिद्धिः । ममापि तावन्मात्रेण स्वमतभूतभेदसिद्धिसम्भवात् । न च– मां प्रति भेदखण्डनमात्रनियोगे ममैव वैतण्डिकत्वमिति वाच्यम् । मां प्रत्यप्यैक्यखण्डनमात्र-नियोगसम्भवात् । मध्यस्थस्य त्वदनधीनत्वात् । अस्वव्याघातकैरेव त्वयैक्यं दूष्यमिति यदा तदा अस्वव्याघातकैरेव त्वया भेदो दूष्य इत्यपि स्यादिति चेत् मैवम्, न हि वयं भेदप्रतीतेः स्वरूपं कारणं वाऽपलपामः किन्तु बाधितविषयत्वं ब्रूमः । व्याप्तिसध्रीचीनतया अशुष्कस्तर्कैरेवानन्यपरया श्रुत्या स्मृत्या च भेदस्य बाधितत्वात् । विषयभेदादिना प्रत्यक्षविरोधस्य परिहृतत्वेन श्रुत्यादावुप-चरितार्थत्वाभावात् । यत्त्वभेदस्याप्येवं निरासः । न चाभेदखण्डनयुक्तीनां स्वस्य स्वाभेदोऽपि सिद्ध्येदिति स्वव्याघातादाभासता । भेदखण्डनयुक्तीनामपि भूषणयुक्त्यभेदेन स्वव्याघातकतायाः समानत्वादिति, तन्न, भेदखण्डनयुक्तीनां तत्त्वतो भेदनिवारकत्वेऽपि व्यावहारिकभेदस्यानिराकरणेन स्वाव्याघातकतोपपत्तेः । न चैवं ब्रह्मण्यनृतभेदस्य तत्त्वतो निषेधे तत्र तत्तादात्म्यापत्तिः । घटे कल्पितघटान्तरभेदभ्रमस्थले तत्तादात्म्यादर्शनात् । न चैवमभेदोऽपि तत्त्वतो निषेध्यः, तर्हि स्वरूपापर्यवसानेन शून्यवादापत्तेः । किञ्च ब्रह्मातिरिक्तमैक्यमस्माकं नास्त्येव । तस्य च तथा निषेधे श्रुतिविरोधः । न च मम घटातिरिक्तो भेदो नास्ति, तस्य निषेधे प्रत्यक्षविरोध इति वाच्यम् । प्रत्यक्षस्य पारमार्थिकसत्त्वाविषयत्वेनाविरोधित्वस्य प्रागेवोक्तत्वात् ।

ननु भेदबाधकं न भेदविषयमेव । तत्साधकतापत्तेः । नाप्यभेदविषयम् । एवं हि तदन्यः तद्विरोधि तदभावो वा नञर्थो विषयो वाच्यः । सर्वथा च भेदो दुष्परिहरः, तदनन्यत्वे तद्विरोधतदभाव-त्वयोरयोगात् । भेदाभावग्राहिणापि प्रतियोगिविलक्षणतयैवाभावस्य ग्रहणाच्च । औदासीन्येन प्रवृत्तस्य इदमिति ज्ञानवदबाधकत्वाच्चेति चेन्न, पारमार्थिकत्वाकारेण भेदाभावविषयस्यैव बाधकत्वात् । न च भेदे दुष्परिहरता । व्यावहारिकभेदेनैव व्यावहारिकतद्विरोधित्वतदभावत्वयोरुपपत्ति सम्भवात् । ‘यक्षानुरूपो बलिः’ इति न्यायात् । भेदभ्रमाधिष्ठानतत्त्वगोचरं ज्ञानं भ्रमबाधकमित्युपपन्नम् । उक्तरीत्या भेदवैलक्षण्येन तद्ग्रहणोपपत्तेः । यत्तु ‘नायं भेदो नास्त्यत्र भेदोऽन्यदेव भेदात्मना प्रत्यभात्’ इत्येवमाकारकं बाधकज्ञानं वाच्यम् । ‘नेदं रजतम्’ इतिवत्, इदं च सर्वथा भेदावगाहीति कथं तत्र बाधकमिति, तन्न, प्रतियोगितया तद्ग्रहणस्य तद्बाधकत्वाविरोधित्वात् । न चात्र भेदो नास्तीति धीः सर्वथा न भेदाभावमवगाहत इति वाच्यम् । अन्यत्र भेदसत्त्वे तद्भेदस्यात्रावश्यकत्वेनात्र भेदो नास्तीत्यस्यैव कुत्रापि नास्तीत्यत्र पर्यवसानाद् एकमेव नानात्मना अभादित्यादि बाधकमनुसन्धेयम् । कोट्योर्व्यावहारिकभेदेन तद्वत्तया ग्रहणाच्च यथा बाधकत्वयोगः, तथोक्तमेव । एतेन–

भेदाद् भिन्नतया स्वार्थं बाधधीर्गाहते न वा ।

आद्ये भेदः स्थिरोऽन्त्ये तु न सा स्याद् भेदबाधिका ।।

इति निरस्तम् । स्वरूपेण स्थैर्येऽपि तत्त्वतोऽस्थिरत्वसम्भवात् । एवं चाकप्तविषयत्वादन्योन्या-श्रयत्वादेरुत्त्थानम् । उत्थितस्य च नाभासत्वम् । किञ्चायं देश्याभासो निर्वचनवादिनः प्रति, नास्मान् । वयं हि भासमानो यो भेदः स स्वरूपादिपक्षान्तर्भावबहिर्भावाभ्यां वा अन्येन वा धर्मान्तरेणानिर्वाच्य इति ब्रूमः । न च तर्काभासेनानिर्वाच्यत्वे ऐक्यस्यापि तत्प्रसङ्गः । भेदबाधकस्यानाभासताया उक्तत्वात् । ऐक्यभेदयोः श्रुत्यनुग्रहाननुग्रहाभ्यां विशेषाच्च ।

ननु ब्रह्मण्यनृतादिव्यावृत्तिः ब्रह्मज्ञानाबाध्या वाच्या । शून्याद्यनात्मकघटादौ शून्यादितः स्वज्ञाना-बाध्यभेददर्शनादिति चेत्, ब्रह्मघटयोरधिष्ठनाध्यस्तत्वाभ्यां विशेषात् । अनृतत्वस्य मृषात्वेन तद्व्यावृत्तेरपि मृषात्वस्य युक्तत्वेन घटे तज्ज्ञानबाध्यत्वस्य उभयोः समानत्वात् । न चैवं प्रातिभासिक-रूप्यादिव्यावृत्तेरपि प्रातिभासिकत्वापत्तिः । तथा च भ्रान्तिबाधव्यवस्था न स्यादिति वाच्यम् । विशेषदर्शनजन्यत्वतदजन्यत्वाभ्यां बाधभ्रान्तिव्यवस्थोपपत्त्या प्रातिभासिकत्वस्येष्टत्वात् । न चैवं सत्यादिवाक्यस्यानृतव्यावृत्तिबोधकस्याप्रामाण्यापत्तिः । तस्या आर्थत्वात् । न चैवं व्यावृत्तिवन्मृषाप्रतियोगिकस्यात्यन्ताभावस्यापि मृषात्वेनाधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्व-रूपमिथ्यात्वं न स्यादिति वाच्यम् । अधिष्ठानज्ञानबाध्यत्वस्य तत्राविशेषणत्वात् । न चैवमात्मनि देहभेदस्य बाध्यत्वे देहात्मैक्यस्य मिथ्यात्वं न स्यादिति वाच्यम् । भेदमिथ्यात्वस्य प्रतियोग्यैक्या-मिथ्यात्वाप्रयोजकत्वस्योक्तत्वात् ।

न च नित्यानित्यवस्तुविवेकस्य साधनचतुष्टयान्तर्गतस्य ज्ञानं भ्रमः स्यात् । तथा च तेनानित्यपरिहारेण नित्ये प्रवृत्तिर्न स्यादिति वाच्यम् । हानोपादानोपयुक्तरूपावगाहिबुद्धेर्व्यावहारिक-प्रामाण्यशालितया व्यावहारिकहानोपादानस्य निवर्तयितुमशक्यत्वात् । एतेन प्रपञ्चे सद्वैलक्षण्यस्य मिथ्यात्वे सदैक्यापत्तिः । जगन्मिथ्यात्वप्रमाणानां चातत्त्वावेदकत्वापात इति निरस्तम् । मिथ्यात्व-निरुक्तावुक्तोत्तरत्वाच्च । एतेन भेदादभेदस्य भेदाभावेऽन्यतरखण्डनसाधनाभ्यामुभयखण्डनसाधने इति निरस्तम् । तात्त्विकभेदाभावेऽपि कल्पितभेदेन व्यवस्थोपपत्तेः । न च कल्पितेनाकल्पितकार्य-प्रतिबन्धायोगः । अविद्यया स्वप्रकाशरूपब्रह्मकार्यप्रतिबन्धदर्शनात् । कल्पितकान्तया विश्लेषकार्य-प्रतिबन्धदर्शनाच्च ।

ननु भेदस्य व्यावहारिकसत्त्वार्थमपि त्वया अन्योन्याश्रयादिकमुद्धरणीयम् । परस्परसापेक्षेण व्यवहारस्याप्यभावात् । न हि व्यावहारिकमृदः स्वजन्यघटसापेक्षत्वम् । किञ्चात्र १) न भेदमात्रेण तद्दर्शनमात्रेण वा अन्योन्याश्रयाद्यापादनम् । तथा सति व्यावहारिकयोरपि तयोरसिद्धिः स्यात् । २) नापि तत्प्रतीतिवास्तवत्वेन तदापत्तिः । चरमवृत्त्यवास्तवत्वेऽपि तद्विषयवास्तवत्ववदुपपत्तेः । वास्तवे अन्योन्याश्रयादर्शनेन व्याप्त्यसिद्धेश्च । ३) न च प्रमारूपतत्प्रतीत्या तदापादनम्।  प्रतीति-सामान्य एव त्वयाऽन्योन्याश्रयस्योक्तत्वेन प्रमात्वपर्यन्ते तत्र दोषाभावात् । ४) नापि तत्प्रतीते-र्धर्मिप्रतियोगि सापेक्षत्वेन तदापादनम् । तावतापि तत्सापेक्षतामात्रस्यैव निवृत्तिरिति चेन्न, अस्माकम-विद्यासामर्थ्यात् सर्वानुपपत्ति विधूननोपपत्तेः । न हि मायायाम् असम्भावनीयं नाम । तथा च परस्पराश्रितमपि इन्द्रजालवद्दर्शयिष्यति । न च– ईश्वरसामर्थ्यात्तादृशमपि सत्यं स्यादिति वाच्यम् । उभयसिद्धमृषाभूतेन्द्रजालस्थले कारणादिव्यवस्थोल्लङ्घिकार्यादि दर्शनवदन्यत्र तथाऽदर्शनात् । दर्शने च मृषात्व एव पर्यवसानात् । आपादनं च– भेदस्तत्प्रतीतिश्च यदि मायिकी न स्यात्, सर्वव्यवस्थो-ल्लङ्घिनी न स्यात्, सर्वव्यवस्थोल्लङ्घिनी चेयम् । तस्मान्मायिकीति विपर्ययपर्यवसानात्, मायिके व्यवस्थोल्लङ्घनस्य दर्शनेन व्याप्तिसिद्धेः । उक्तश्रुत्या अस्वव्याघातकयुक्त्या च भेदस्य बाधादभेदस्या-बाधाच्च स्वाभेदस्वभेदयोर्व्यावहारिकत्वे समानेऽपि स्वाभेदं परित्यज्य भेद एव सर्वथा प्रद्वेषो नाकारणकः ।

।। इत्यद्वैतसिद्धौ सामान्यतो भेदखण्डनम् ।। १४ ।।

न्यायामृततरङ्गिणी

स्वरूपं धर्मो वेतीति ।। स्वरूपधर्मयोर्भेदानवगमे स्वरूपं वा धर्मो वेति विकल्पो न युज्यते ।। अकार मात्रेति ।। धर्मोऽभेदः स्वरूपं वेत्याद्यप्रकारप्रश्लेषः ।। तदुक्तमिति ।। कथालक्षणे ।। वितण्डा त्विति ।। अन्यैरसद्भिः सह सतां वितण्डैव । यतोऽसत्सु तत्वं निगूहितम् । न प्रकाशनीयम्  ।। निर्वचनवादिनीदं शोभत इति ।। यस्तु पदार्थान्निरुच्य व्यवस्थापयति तं प्रतीदं दूषणं शोभते न मां प्रतीत्यर्थः ।। अनिर्वाच्य इति ।। वक्तुम्  अशक्य इत्यर्थः ।। देहात्मैक्याध्यासभङ्ग इति ।। अधिष्ठानज्ञानबाध्यात्यन्ताभावप्रतियोगि-त्वस्य सत्यत्वेऽपि सत्वादित्यादिनोक्तम् ।। कल्पितेनाकल्पितकार्याप्रतिबन्धादित्युक्त-त्वादिति ।। एतच्चोपलक्षणम् । दूष्यदूषणव्यवस्था दिरूपस्वकार्यकारिणो भेदस्यैव तात्विक-त्वम् । अव्यवस्थारूपस्वकार्याकारिणस्त्वभेदस्य मिथ्यात्वं स्यादिति च वक्ष्यते । यस्तु कल्पितकान्ताया विश्लेषकार्यप्रतिबन्धो दृश्यत इत्याह सोऽश्रद्धेयः । बहुधा निरासात् । कान्ताज्ञानस्यैव तथात्वात् ।। ईश्वरसामर्थ्यादिति ।। न चोभयसिद्धमृषाभूतेन्द्रजालस्थले कारणादिव्यवस्थोल्लङ्घिकार्यदर्शनवदीश्वर शक्त्या न तथा कार्यं दृश्यत इति वाच्यम् । पामरशब्दादप्यपकृष्टत्वात् । ईश्वरशक्तिरूपकारणस्य सत्त्वेऽप्यन्यकारणो ल्लङ्घनस्य शीतातप-वातादिषु सरित्सागरादिषु विचित्रकार्येषु पामरैरपि प्रमितत्वात् ।। प्रमात्वनिषेधायोगा-दिति ।। अर्थबाधः प्रमात्वनिषेधः । तस्यायोगः । अर्थसत्यमेव स्यादित्यर्थः । विचारसाहित्य-रूप हेतोरन्वयव्याप्तौ व्यभि चारमाह– विचारेति ।। जीवस्य ब्रह्मैक्यप्रतीताविति ।। जीवब्रह्मणोरप्रतीतौ भेदेन प्रतीतौ त्वनयोरैक्याप्रतीते रित्यादिनैक्येऽप्यन्योन्याश्रयस्य वक्ष्यमाणत्वात् ।। स्वाभिमतेति ।। ऐक्यप्रतीतेरप्यन्योन्या श्रयवत्त्वात् ।। तत्पक्ष इति ।।

न हि सर्वत्र भेदो मिथ्या येन स द्वेष्यः स्यात् । नापि सर्वत्र भेदः सत्यः येन स इष्टः स्यात् ।

।। इति सामान्यतो भेदखण्डनोद्धारः ।। १४ ।।

न्यायामृतकण्टकोद्धारः

ननु ब्रह्म जीवाद् भिन्नं किं व्यवहारतस्तत्वतो वा ? आद्ये इष्टापत्तिः । स्वरूपत्वादि-पक्षदोषदुष्टत्वेनानुपपन्नत्वादिति मायिमतमुत्थापयति– यच्चेदमिति ।। स्वरूपं, धर्मिण इति शेषः ।। निरपेक्षत्वादीति ।। धर्मिणो निरपेक्षत्वात् । यद् यत्स्वरूपं तस्य तादृशत्वादिति भावः ।। अनवस्थेति ।। भेदस्य धर्मित्वे धर्मधर्मिणोर्भेदस्यावश्यकत्वात् । तस्यापि धर्मत्वेन भेदपरम्परयाऽ-नवस्थेत्यर्थः ।। कुम्भस्येति ।। कुम्भप्रतियोगिकस्तम्भभेदज्ञाने कुम्भस्य प्रतियोगित्वेन ज्ञानं कारणम् । कुम्भस्य प्रतियोगित्वं च स्तम्भप्रतियोगिकभेदवत्त्वमेव । स्तम्भे च भेदप्रतियोगित्वं कुम्भप्रतियोगिक भेदवत्त्वमेव । तथा च कुम्भे प्रतियोगित्वे ज्ञाते स्तम्भनिष्ठभेदधीः । तज्ज्ञाने च तत्प्रतियोगिकभेदवत्त्वरूपप्रतियोगित्व धीरित्यन्योन्याश्रय इत्यर्थः । व्यक्तिभेदाङ्गीकारे चक्रकादिकम् आदिशब्दगृहीतं द्रष्टव्यम् ।। भेदभ्रमेति ।। निरस्याभावे निरासायोगात् । न चानिर्वचनीयाद्यभावे तन्निरासवद् भेदभ्रमाभावेऽपि तन्निरासोपपत्तिरिति वाच्यम् । अत्र निरासो नाभावज्ञापनं किन्तु ध्वंसः । न हि वस्तुनोऽभावे ध्वंसः सम्भवतीति ।। भेदाप्रतीताविति ।। अप्रतीतस्याभाव ज्ञापनायोगादिति भावः ।। बहुविप्लवेति ।। दूषणभूषणव्यवस्था न स्यादिति भावः ।

भेद इति ।। स्वरूपधर्मयोर्भेदाप्रतीतौ विरुद्धार्थकवाशब्दप्रयोगादित्यर्थः । एतदेवाह– न हीति ।। पर्यायेणार्थभेदज्ञानं विनेत्यर्थः ।। धर्मत्व इति ।। धर्म धर्मिणोर्भेदस्य नियतत्वादित्यर्थः । किञ्च शुष्कतर्केण प्रमितार्थनिराकरणे त्वद्वाक्यविरोधोऽपीत्याह– त्वयैवेति ।। उक्तमर्थं सङ्गृह्णाति– एवञ्चेति ।। तथा चैवं भेदखण्डने स्वव्याघात इति भावः । ननु नेयं प्रतिबन्दी । मया पृथग-भेदस्यासाधनात् । भेदाभावातिरिक्तस्याभेदस्याभावादिति शङ्कते– भेदाभावादिति ।। ऐक्या-भावादिति ।। तथा च ममापि पृथग् भेदस्यासाधनान्नायं दोषो ममापीति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ।। समानन्यायत्वादिति भावः । ननु कथं साम्यम् ? त्वया स्वपरपक्षस्थापनोपालम्भौ विधेयौ । मया परपक्ष एव दूष्य इत्यत आह– स्वपक्षस्येति ।। ननु ममैव वितण्डा तव तु जल्पादिकमिति कथमनियतमित्याशङ्क्य निषेधति– न चेति ।। ननु मद्व्यतिरिक्तस्य वितण्डा नैव दृष्टेत्यत आह– अन्यथेति ।।

ननु त्वयापि वितण्डायामधिकाराङ्गीकारे सिद्धान्तविरोधः । त्वत्सिद्धान्ते वितण्डा कर्तव्ये-त्यनुक्तत्वादित्यत आह– उक्तञ्चेति ।। ननु पक्षपरिग्रहे वितण्डायां ममाप्यधिकार इत्युक्तम् । तन्न पक्षपरिग्रहस्यानुपयोगादित्यत आह– पक्षपरिग्रहहीनस्येति ।। ननु मया वितण्डैव क्रियते न जल्पादिकमित्यत आह– नापीति ।। औपनिषदंमन्यस्येति हेतुगर्भमुक्तं तद्विशदयति– उपनिष-दामिति ।। यदि तव वितण्डैव तदा द्वितीयाध्यायातिरिक्ता मीमांसा व्यर्थैवेत्याह– परपक्षेति ।। सर्वत्र वितण्डैवेत्यङ्गीकारे स्वभाष्यविरोधोऽपीत्याह–  भाषितञ्चेति ।। न च व्युत्थितं प्रति मम वितण्डैव । स्वीयान् प्रति वादादिकमपीति वाच्यम् । स्वीयमेव भेदपक्षं गृहीत्वा भेददूषणे तवोत्तराभावप्रसङ्गात् । प्राश्निकानां त्वदननुसारित्वाच्च ।। मयापीति ।। न च मया स्वाभिमतं स्थाप्यमिति समयबन्धो भविष्यति । तथा च नाभिमतस्थापनप्राप्तिः । तथा च कथं तद्बन्धायोग इति वाच्यम् । सामान्यसमयबन्धेन कथाविशेषप्रवृत्ययोगात् । समयबन्धानुमानप्रयोगादीनां समानविषयत्वदर्शनाच्च । अत एव विशेषविषयत्वेन शङ्कते– त्वयेति ।। प्रत्यक्षेति ।। न च प्रत्यक्षं श्रुतिविरोधाद् भिन्नविषयमिति वाच्यम् । प्रत्यक्षस्य प्रबलत्वेन श्रुत्यभिन्न विषयत्व-कल्पनायोगात् । यथा चैतत्तथा प्रत्यक्षप्राबल्यप्रस्तावे विचारितम् ।। स्वस्य स्वाभेदोऽपीति ।।

उपलक्षणमेतत् । ब्रह्मणो न तादात्म्यापत्तिस्तात्विकी स्यादित्यपि द्रष्टव्यम् । न च घटे कल्पितघटान्तरभेदस्य कल्पितत्वेऽपि तत्तादात्म्यं न वास्तवमिति वाच्यम् । कल्पितघट-प्रतियोगिकस्यापि तात्विकस्यैव स्वीकारेण दृष्टान्तासम्प्रतिपत्तेः । प्रतियोगिनः कल्पितत्वेऽपि तत्प्रतियोगिकस्य सत्यत्वमज्ञानस्य कल्पितत्वेऽपि तन्निवृत्तेरिवोपपद्यत इति भावः । ननु भवत्पक्षे व्याघात इत्यत आह– न हीति ।। आद्यपक्षनिराकरणं कारिकया सङ्गृह्णाति– एवञ्चेति ।। न द्वितीय इति ।। श्रुत्यादिना भेदप्रतीतेर्बाध्यविषयत्वमिति द्वितीयो नेत्यर्थः । श्रुतिः किं साक्षि-प्रत्यक्षबाधिका  उत तदतिरिक्तप्रत्यक्षबाधिका ? नाद्य इत्याह– श्रुतेरिति ।। प्रत्यक्षबाधप्रस्तावे इति भावः । न द्वितीयः । साक्षिप्रत्यक्षेणैव भेदसिद्धिसम्भवात् । किञ्च यद्विरोधि तद्बाधकम् । श्रुत्यादिकञ्च यथा न विरोधि तथा उपक्रमादिविचार पूर्वकं व्याख्यातमित्याह– श्रुत्यादेरिति ।। ननु भेदधियो धीत्वात्, शुक्तिरजतधीवद् बाधकं शङ्क्यत इत्यत आह– प्रत्यक्षस्येति ।। धीत्वमात्रेण बाधकं शङ्क्यते उत बाधितधीत्वेन । नाद्यः । भाविबाधकशङ्काभङ्गोक्तन्यायेनैव ब्रह्मज्ञानादीनामपि बाधकशङ्कापत्तौ बहुविप्लवापत्तेः । द्वितीये त्वन्योन्याश्रय इति भावः ।

किञ्च बाधकज्ञानस्य भेदविषयत्वनियमात् तेन भेददूषणं स्वव्याहतमित्याह– किञ्चेति ।। भेदमेव ।। धर्मिप्रतियोगिनोरिति शेषः । ननु बाधकज्ञानं किमपि न गोचरयतीत्यत आह– निरालम्बनेति ।। निर्विषयस्यापि ज्ञानत्वे घटादेरपि तथात्वापत्तेरिति भावः । साधकत्वात् भेदस्येति शेषः । ननु पक्षत्रयेऽपि भेदस्य दुष्परिहारत्वमुक्तं, तदभावतद्विरोधपक्षे भेदप्राप्तेर-भावादित्यत आह– तदनन्यत्व इति ।। नन्वस्तु तदन्यत्वे तद्विरोधायोगः । तदभावायोगास्तु कथम् ? घटे घटानन्यत्वेऽपि घटाभावाभावादिति चेन्न । तदभाव इत्यत्र तच्छब्देन तत्तादात्म्यस्य विवक्षणात् । घटे च तदभावाभावात् । तद्विरोधतदभावपक्षे साक्षादपि भेदविषयत्वमस्तीत्याह– भेदाभावादिग्राहिणापीति ।। न च पारमार्थिकत्वाकारेण भेदाभावविषयकं बाधकं, तद्विरोधित्वादि- व्यवस्था तु व्यावहारिकभेदेन भविष्यतीति वाच्यम् । निराकारे ब्रह्मणि पारमार्थिकत्वाकारेण तदभावविषयकस्याबाधकत्वात् । अस्यापि तद्वाधकत्वायोगात् । त्वन्मतेऽखण्डार्थनिष्ठवेदान्त-जन्यनिष्प्रकारकज्ञानस्य बाधकत्वेन तादृशसप्रकारकज्ञानस्य बाधकत्वायोगाच्च । व्यावहारिकस्य बाध्यत्वेन तस्य तद्विरोधित्वादिनियामकत्वे स्वस्यापि स्वविरोधित्वापाताच्च । ननु बाधकज्ञानं तदभावं न प्रतियोगि विलक्षणतया गृह्णाति । येन भेदभानमावश्यकमित्यत आह– औदासीन्येनेति ।। अत एवेति ।। औदासीन्येन प्रवृत्तस्य बाधकत्वादेवेत्यर्थः ।। तस्यापीति ।। अधिष्ठान-त्वस्यापीत्यर्थः । सर्वप्रकारेण बाधकज्ञानपर्यालोचनायां भेदस्य बाधकज्ञानेन विधीयमानत्व-मावश्यकम् । तथा च तेन कथं भेदधीबाध इत्याह– किञ्चेति ।। न च प्रतियोगितया तद्भानस्य न तद्बाधकत्वविरोधित्वमिति वाच्यम् । अन्यथा विधेयत्वविरोधात् । किं यदि भेदः सर्वथा शशविषाणादिवन्न स्यात् तर्हि अत्रेति न स्यात् । अत्रेत्युक्त्या अन्यत्र सत्त्वप्रतीतेः । न चान्यत्र सत्त्वे अत्रापि सत्वापाते अत्रेत्यस्य कुत्रापि नास्तीत्यत्रैव पर्यवसानमिति वाच्यम् । तथा पर्यवसाने अत्र घटो नास्तीत्यादेरपि तथात्वापत्तौ सर्वप्रमाणविरोधात् । अव्यवस्था च स्यात् । तथा च न सर्वथा भेदधियो बाध इति ।। तस्येति ।। एकमेवानेकात्मना प्रत्यभादित्यस्येत्यर्थः । व्यावहारिकभेदेन न कोट्योर्विरोधापादनं प्रत्युक्तम् । उक्तमर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ।। भेदः स्थिरः । तत्त्वत इत्यर्थः । बाधकाभावादिति भावः । उपसंहरति– तस्मादिति ।। कप्तविषयत्वात् । प्रामाणिकत्वात् । यथा बीजाङ्कुरादावन्योन्याश्रयादेरनुत्थानं तथेत्यर्थः । एतेनेति परामृष्टं हेतुं दर्शयति– तर्केति ।। न चैक्यभेदयोः श्रुत्यनुग्रहाननुग्रहाभ्यां बाधाबाधाभ्यां च महान् विशेष इति वाच्यम् । भेदपक्षे श्रुत्यनुग्रहस्य तद्बाधकानामाभासत्वस्य च वक्ष्यमाणत्वात् ।

किञ्च त्वयापि पञ्चसु स्थलेषु भेदस्य सत्यत्वमङ्गीकरणीयम् । अन्यथा सत्यानृतादिव्यवस्था न सिद्ध्येदित्याह– किञ्चेति ।। ननु कुतो ब्रह्मज्ञानाबाध्या व्यावृत्तिः स्वीकार्येत्यत आह– शून्येति ।। न च शून्यानधिष्ठानत्वाद् घटस्य ब्रह्मणस्त्वनृताधिष्ठानत्वमिति विशेष इति वाच्यम् । अधिष्ठानेऽपि शुक्तिकाशकले प्रातिभासिकप्रतियोगिकधर्मि ज्ञानाबाध्यभेददर्शनेनाधिष्ठानानधिष्ठान-त्वयोरप्रयोजकत्वात् । यद्यदनात्मकं तत्तत्प्रतियोगिकधर्मिज्ञानाबाध्यभेदवदिति व्याप्तेर्निरुपाधिक-सहचारभङ्गरूपविपक्षबाधकतर्केणाप्रयोजकत्वाच्च ।। अन्यथेति ।। ब्रह्मण्यप्यनृतव्यावृत्ते-र्मिथ्यात्वादित्यर्थः । न च व्यावृत्तेरार्थत्वात् कथं सत्यादिवाक्यस्य भ्रान्त्यन्तरहेतुत्वमुक्तमिति वाच्यम् । व्यावृत्तेऽपि व्यावर्तकस्यार्थत्वाभावात् । व्यावृत्तिमिथ्यात्वे व्यावर्तकमिथ्यात्वनियमात् । व्यावर्तके तात्पर्याभावे तस्यानृतादिभ्रान्तिनिरासकत्वं न स्यात् ।। ब्रह्मणीति ।। न चाधिष्ठान-ज्ञानाबाध्येति मिथ्यात्वलक्षणे विशेषणं न दीयते इति वाच्यम् । बाध्यात्यन्ताभावप्रतियोगित्व रूपमिथ्यात्वस्य मन्मतेऽपि सत्त्वेन सिद्धसाधनात् । यथा चैतत्तथोक्तमित्याह– उक्तं चैतदिति ।। शुक्ताविति ।। न च शुक्तौ प्रातिभासिकप्रतियोगिकोऽपि भेदो मिथ्या विशेषदर्शनजन्य-त्वादित्यादिना बाधकत्वादिव्यवस्था युक्तेति वाच्यम् । बाधकज्ञानेन विधीयमानस्य प्रातिभासिकत्वायोगात् । प्रतियोगितदभावयोरेकत्र समानसत्ताकयोर्विरोधात् ।

यत्तु विशेषदर्शनजन्यस्यापि भ्रान्त्यन्तरस्याबाधकत्वात् तदजन्यस्याप्यखण्डार्थनिष्ठवेदान्त-साक्षात्कारस्य बाधकत्वात् । तस्माद् बाधकत्वे बाध्यविषयसत्ताधिकसत्ताविषयत्वं तन्त्रमिति न बाधगोचरभेदस्य प्रातिभासिकत्वम् । उक्तन्यायमन्यत्रातिदिशति– एवमिति ।। न च भेदमिथ्यात्वमैक्यमिथ्यात्वाप्रयोजकमिति वाच्यम् । यत्र यद्भेदो मिथ्याव्यावहारिकप्रामाण्यशालितया हानोपादानं निर्वर्तयितुमशक्यमिति वाच्यम् । नित्यानित्ययोर्वास्तवभेदाभावे वास्तवैक्यापत्या एकत्रोपादानप्रयुक्तरूपम् अपरत्र हानोपयुक्तं रूपमित्यस्य व्याहतेः । उदाहरणान्तर भेदसत्यत्वम् अङ्गीकरणीयमित्याह– एवमिति ।। ययोर्भेदस्तात्विको मतस्तयोरभेदस्तात्विक इति भावः ।। अभेदाभाव इति ।। अभावाभावस्य भावत्वादिति भावः ।। कल्पितेनेति ।। न चाविद्यया स्वप्रकाशरूपब्रह्मकार्यप्रतिबन्धस्तथा कल्पितकान्तया विश्लेषकार्यप्रतिबन्धो दृष्ट एवेति वाच्यम् । अविद्यायाः कल्पितत्वासिद्धेः । स्वप्रकाशब्रह्मरूपकार्याभावस्य भेदेनाप्युपपत्तेश्च । यत्र कान्तायाः कल्पितत्वं तत्र विश्लेषकार्यप्रतिबन्धादर्शनात् । स्वप्ने तु (तत्र तु) कान्तायाः सत्यत्वादेवेति भावः । उक्तमर्थं बुद्ध्यारोहार्थं कारिकायां सङ्गृह्णाति– एवञ्चेति ।। कथमिति ।। भेदाङ्गीकारादिति भावः ।। कथं भेद इति ।। अभेदसाधनेनैव भेदस्य साधितत्वादिति भावः ।

किञ्च भेदस्य सत्यत्वं वदताऽवश्यमन्योन्याश्रयाद्युद्धार्यम् । अन्योन्याश्रयादिदुष्टस्य वक्ष्यमाण-रीत्या व्यावहारिकसत्त्वानुपपत्तेः । तथा च यत्रोभयोः समोदोष इति न्यायेन भेदसत्यत्वखण्डनं स्वव्याहतमित्याह– किञ्चेति ।। अन्यथेति ।। व्यावहारिकसतोऽन्योन्याश्रयताया अदूषकत्व इत्यर्थः । तथा चाधिष्ठानत्वादिना ब्रह्मसिद्धिर्न स्यादिति भावः ।। ईश्वरसामर्थ्यादिति ।। अविद्याया अघटितघटकशक्तित्वे प्रमाणाभावाज्जडत्वादिना तदनुपपत्तेश्व । ईश्वरस्य तद्भावान्महा-चेतनत्वेन सर्वोपपत्तेश्र्चेति भावः । न च मायायामिन्द्रजालादौ विचित्र कार्यकरत्वं दृष्टमिति वाच्यम् । मायिकवैलक्ष्यव्यस्योपपादितत्वेन मायामयत्वानुपपत्तेरुक्तत्वात् । एवमन्योन्याश्रया-द्यापादनम् अयुक्तं स्वव्याहतत्वादित्युक्तं प्रतितर्कपराहतत्वाद् विपर्ययपर्यवसानानुपपत्तेश्चेत्याशयेनाह– अपि चेति ।। इदं दूषणद्वयं प्रथमकल्प एवेत्याह– यदि भेददर्शनमिति ।। वास्तव इति ।। इदं च दूषणं पूर्वकल्पेऽपि द्रष्टव्यम् । अनेनापादनेन भेदस्यावास्तवत्वं सिषाधयिष्यंस्तत्र न सिद्ध्यतीत्यर्थान्तरमित्याह– दर्शनमिति ।।

वैयधिकरण्यात् तृतीयपक्षोऽयुक्त इत्याह– न तृतीय इति ।। न च प्रतीतिपदं प्रमितिपरं, तथा च न वैयधिकरण्यमिति वाच्यम् । प्रमित्यभावेऽपि प्रतीतिमात्रेण कार्योत्पत्तेः व्याप्ति-विकलत्वात् । यदेवमन्योन्याश्रयेण भेद निराकरणं तर्ह्यैक्यनिराकरणमपि सुशकमित्याह– जीवस्येति ।। वक्ष्यमाणत्वात् सामान्यत ऐक्यभङ्ग इति शेषः । किञ्च प्रतीतेर्विचारासहत्वेन भ्रमत्वं साधयितुमशक्यम् । असिद्धत्वादित्याह– रूप्यादिति ।। अन्यथेति ।। यदि अपेक्ष्यनिवृत्या आपेक्षिकनिवृत्तिस्तदेत्यर्थः । ननु च भेदस्तत्प्रतीतिश्च यदि मायिकी न स्यात् सर्वव्यवस्थोल्लङ्घिनी न स्यात् । मायिके व्यवस्थोल्लङ्घनाभावेन विपर्ययपर्यवसानाभावात् । अप्रयोजकत्वाच्च । अभेदस्तत्प्रतीतिर्यदी त्यापादनसम्भवेनाभाससमान योगक्षेमत्वाच्चेत्यल-मतिविस्तरेण । किञ्चाभेदं विहाय भेददूषणं द्वेषमात्रकारणकमित्याह– किञ्चेति ।। उक्तमर्थं कारिकायां सङ्गृह्णाति– एवञ्चेति ।। कलशे स्वतः अभेदस्य मिथ्यात्वे इत्यन्वयः ।

।। इति सामान्यतो भेदखण्डनोद्धारः ।। १४ ।।

न्यायामृतप्रकाशः

निरपेक्षत्वेति ।। प्रतियोग्यादिनिरपेक्षधर्म्यभिन्नत्वाद्भेदस्यापि निरपेक्षत्वं स्यादित्यर्थः ।। अनवस्थेति ।। भेदस्य धर्मत्वमङ्गीकृत्य भिन्नत्वाङ्गीकारे भेदपरम्परयाऽनवस्थेत्यर्थः ।। भेदे प्रतीत इति ।। तथा च्ं कुम्भस्य स्तम्भधर्मिकभेदं प्रति प्रतियोगित्वसिद्धिरित्यर्थः । भिन्नत्वेन ज्ञातस्यैव प्रतियोगित्वादिति भावः ।। किं भेदेति ।। निरपेक्षत्वानवस्थादिदूषणेनेति शेषः ।। बाध्येति ।। बाध्यभूतभेदविषयेत्यर्थः ।। तन्निरासेति ।। भेदनिरासेत्यर्थः ।। भेदः स्वरूपमिति ।। स्वरूपधर्मयोर्भेदानवगमे तयोरभेदेन पर्यायत्वापत्त्या स्वरूपं धर्मो वेति सहप्रयोगेन विकल्पो न स्यादित्यर्थः । तदेवोपपादयति– न हीति ।। अयं घटो वा करीरो वेति विकल्पादर्शनादित्यर्थः ।। नित्यत्वेति ।। उक्तदूषणेन भेदप्रतीतेः कारणाजन्यत्वेन नित्यत्वप्राप्त्या ब्रह्मज्ञानानिवर्त्यत्वप्राप्ते-र्मायावादिनः स्वप्रातिकूल्याचरणप्रसङ्ग इत्यर्थः ।। श्रुत्यादिनेति ।। ‘अद्वितीयम्’ इति श्रुत्यादि-नेत्यर्थः । तद्वदेव निरपेक्षब्रह्मस्वरूपवदेव  । तथा च शुष्कतर्कैरेव बाध्यत्वोक्तौ तद्विरोध इत्यर्थः ।

अकारमात्रेति ।। भेदः स्वरूपं धर्मो वेत्यत्र अभेदः स्वरूपं धर्मो वेत्यकारप्रक्षेपे भेदपक्षोक्त-विकल्पादेरभेदपक्षेऽपि साम्यादिति भावः ।। भेदेति ।। तथात्वे हि तत्र विकल्पप्रसर इति भावः ।। ऐक्यसिद्धिरिति ।। तथा च तत्र पृथक्प्रमाणं नोच्यते येन तत्रोक्तदूषणप्रसर इति भावः ।। साध्य इति ।। तथा चाभेदस्य मयाऽसाध्यत्वान्नोक्तदोष इति भावः । ननु जल्पादौ स्वपक्षस्य भेदस्य स्थाप्यत्वात्तत्र चोक्तदोष इत्यत आह– स्वपक्षस्येति ।। अभेदस्येत्यर्थः । तत्र चोक्तदूषणमिति भावः । वितण्डायां मयाऽभेदस्यासाध्यत्वान्नोक्तदोष इति चेत्तत्राह– वितण्डायां त्विति ।। ननु वितण्डायामभेदवादिनो ममैवाधिकारः मम पक्षपरिग्रहशून्यत्वेन स्थाप्यपक्षाभावात् । तव तु न वितण्डायामधिकारः । पक्षपरिग्रहत्त्वात् । अतः भेदसाधनेन तवोक्तदूषणं स्यान्न ममेति चेत्तत्राह– न चेति ।। तवैवेति ।। अभेदवादिन एवेत्यर्थः । किन्तु तत्त्ववादिनो ममाप्यस्तीति भावः । न भेदवादिनस्तव पक्षपरिग्रहवत्त्वान्न वितण्डेति चेत्तत्राह– सत्यपीति ।। ममेति शेषः । तदा वितण्डावस्थायाम् ।

तदस्थापनेन परिगृहीतभेदपक्षासाधनेन ।। अन्यथेति ।। पक्षपरिग्रहस्य वितण्डानधिकार-प्रयोजकत्व इत्यर्थः । ‘शब्दानित्यत्वादौ’ विषये । मीमांसकादिना शब्दनित्यत्ववादिना । वितण्डा तदसाधनरूपा । तार्किकः स्वपरिगृहीतशब्दानित्यत्वमप्रसाध्य मीमांसकाभिमतशब्दनित्यत्वमेव खण्डयतीति वितण्डाऽस्ति । सा न स्यात् । तार्किकस्य पक्षपरिग्रहवत्त्वादिति भावः । एवं शब्द-नित्यत्वादौ मीमांसकादेस्तार्किकादिना सह वितण्डा न स्यादित्यपि द्रष्टव्यम् । किञ्च वितण्डा तत्ववादिनो ममैव युक्तः । मम सज्जनत्वात्, न तव, तवासज्जनत्वादित्याह– उक्तं चेति ।। किञ्च पक्षपरिग्रहहीनत्वस्य न वितण्डाधिकारप्रयोजकत्वं, तथात्वे वितण्डायामपसिद्धान्तादिनिग्रहोद्भावनं न स्यात् । तदङ्गीकृतसिद्धान्ताभावादित्याह– पक्षेति ।। ननूपनिषदां परपक्षनिरसमात्ररूपत्वेनौपनिषदं-मन्यस्य ममाऽपि वैदिकतया सज्जनत्वाद्वितण्डैवेति चेत्तत्राह– नापीति ।। त्वदिच्छेति ।। तथा च तैः स्वपक्षोऽभेदस्त्वया साध्य इत्युक्त्वा मम वितण्डादानेऽभेदस्य त्वया साधनीयत्वेनोक्तदूषणं स्यादेवेत्यर्थः ।

किञ्चोपनिषदां परपक्षनिरासमात्ररूपत्वाभावाच्चौपनिषदंमन्यस्य तव न वितण्डेत्याशयेनाह– उपनिषदामिति ।। आद्यादीति ।। समन्वयसाधनफलाध्यायानां । त्वया तत्ववादिना । मया मायावादिना ।। कथमिति ।। तथा चेत्थं समयबन्धदशायां स्वपक्षस्य स्थापनीयत्वे तत्रोक्तदूषणं भवतां स्यादेव न ममेति भावः । त्वया स्थाप्यं मया दूष्यमित्येवं सामान्याकारेण समयबन्ध एवायुक्तः । मया मदनभिप्रेतप्रमेयस्यास्थाप्यत्वात् । त्वयापि त्वदभिमतस्यादूष्यत्वेन सामान्यतः समयबन्धे स्वानभिप्रेतस्यापि स्थाप्यत्वापत्तेः स्वाभिमतस्यापि दूष्यत्वापत्तेश्च । अतो नैवं समयबन्धो युक्त इत्याह– मयापीति ।। अस्वव्याघतकैरिति ।। अभेदः किं स्वरूपं धर्मो वेति दूषणं तु स्वव्याघातकं, भेदेऽपि सम्भवादिति भावः ।। भेदेऽपीति ।। अस्वव्याघातकैरेव दूषणैर्भेदो दूष्यः । भेदः स्वरूपं धर्मो वेत्यादिदूषणं च स्वव्याहतमिति भावः ।। नास्तीति ।। तथा च भवदुक्तदूषणविषय एव नास्तीति भावः । अभेदनिरासः अभेद मात्रनिरासः । स्वव्याहत्युपपादनायोक्तं स्वस्येति ।। स्वस्मिन्स्वाभेदाङ्गीकारादिति भावः ।

भेदनिरासो भेद मात्रनिरासः । अत्रापि स्वव्याहत्युपपादनायोक्तं ब्रह्मण इति ।। ब्रह्मण्यनृतव्यावृत्त्यङ्गीकारादित्यर्थः । ननु स्वस्मिन्स्वाभेदस्य सत्वात्स्वाभेदो मिथ्येत्यङ्गीकारे सत्यं न सत्यमित्युक्तं स्यात् । तथा च विरुद्धतेति चेत् तर्हि सत्यस्य ब्रह्मणोऽनृताद्भेदस्य मिथ्यात्वे सत्यमसत्येभ्यो भिन्नं नेत्युक्तं स्यात् । तथा च सत्यस्यासत्याभेदप्राप्त्या विरुद्धता स्यादिति सममित्याह– न हीति ।। अधिका विरुद्धता न ह्यस्ति । विरुद्धत्वं सममिति यावदित्यर्थः । प्रकृते भेदविषये ।। न द्वितीय इति ।। श्रुत्यादिना बाध्यत्वाध्यवसाय इति द्वितीयोऽपि नेत्यर्थः ।। साक्षीति ।। जीवेशभेदग्राहकसाक्षिप्रत्यक्षेत्यर्थः ।। श्रुत्यादेरिति ।। अभेदबोधकाद्वितीयश्रुत्यादेरित्यर्थः ।। प्रत्यक्षस्येति ।। प्रत्यक्षे या भाविबाधकशङ्का तद्भङ्ग इत्यर्थः ।। बाधकेति ।। कप्तस्य कल्प्यमानस्य वा बाधकस्याभावादित्यर्थः । ननु कप्तस्य बाधकस्याभावेऽपि कल्प्यमानम् अस्त्विति चेन्न । भाविबाधेऽपि बाधकल्पनापातादित्युक्तत्वात् ।

दूषणान्तरं चाह– किञ्चेति ।। यत्किञ्चिद्गोचरत्वं कुतो वक्तव्यमित्यत आह– निरालम्बनेति ।। ननु अभेद इत्यत्र नञस्तदन्यत्वरूपार्थपक्षेऽन्यशब्देनैव भेदप्राप्त्या तस्य दुष्परिहरत्वेऽपि तद्विरुद्धत्व-तदभावत्वरूपार्थद्वयपक्षे कथं भेदस्य दुष्परिहरत्वमित्यत आह– तदनन्यत्वे चेति ।। लोके घटस्य घटानन्यत्वेन घटविरुद्धत्वघटाभावत्वयोरयोग दर्शनात्प्रकृतेऽपि भेदानन्यत्वे भेदविरुद्धत्वादेरयोगेन तदङ्गीकारे तद्व्याप्यमन्यत्वमप्यङ्गीकार्यमिति भेदो दुष्परिहर इत्यर्थः । ग्राहिणा बाधकेन ।। प्रतियोगीति ।। भेदरूपेत्यर्थः ।। विलक्षणतयेति ।। तथा च वैलक्षण्यस्य भेदरूपत्वेन तदवगाहिनः प्रमाणस्य न भेदधीबाधकत्वमित्यर्थः । बाधकप्रमाणं प्रतियोगिवैलक्षण्येन स्वविषयं न गृह्णाति किन्त्वौदासीन्येनेति चेत्तत्राह– औदासीन्येनेति ।। प्रतियोगिवैलक्षण्यादिप्रकारानवगाहितयेत्यर्थः ।। अत एवेति ।। यत्किञ्चिदिति ज्ञानस्य इदमिति ज्ञानवद्भेदधीबाधकत्वाभावादेवेत्यर्थः । ‘अधिष्ठान-तत्वं’ ब्रह्मस्वरूपं । तस्यापि अधिष्ठानतत्वस्यापि ।। तज्ज्ञानस्येति ।। अध्यस्तभेदप्रतियोगिक-भेदरहितम् अध्यस्तभेदविलक्षणत्वेनागृहीतं यद् भेदभ्रमाधिष्ठानतत्वं तद्गोचरस्य बाधकज्ञानस्य इदमिति ज्ञानवदबाधकत्वादित्यर्थः ।

नेदमिति ।। इदं रजतमिति भ्रमे सति यथा नेदं रजतमिति बाधकज्ञानं भवति एवं भेदभ्रमे सति नायं भेद इति बाधकेन भवितव्यमित्यर्थः । नास्त्यत्र रजतमितिवत्, अरजतमेव रजतात्मना प्रत्यभादितिवदित्यर्थः ।। तदेतदिति ।। आद्ये द्वितीये च बाधक ज्ञानेऽधिकरणप्रतियोगिनोर्भेद आवश्यकः । तृतीयेऽन्यदेवेत्युक्त्या स्पष्टं भेदावगाहित्वमिति मन्तव्यम् ।। अयोगादिति ।। इदमिति ज्ञानवदित्यर्थः ।। न सेति ।। इदमितिज्ञानातुल्यत्वादित्यर्थः ।। भेदेति ।। प्रमाणप्रमितभेदेत्यर्थः ।। भवेदिति ।। प्रमाणविरोधादेवेत्यर्थः ।। निर्वचनवादिनीति ।। यस्तु पदार्थान्निरुच्य व्यवस्थापयति तं प्रतीदं दूषणं शोभते नानिर्वचनीयवादिनं मां प्रतीत्यर्थः । अनिर्वाच्यो वक्तुमशक्यः । एतेनेत्युक्तम् विवृणोति– तर्केति ।। स्वज्ञानेति ।। घटादिज्ञानेत्यर्थः ।। अन्यथेति ।। अनृतादिव्यावृत्तेरपि अनृतत्वादिवद् ब्रह्मज्ञानबाध्यत्वेन मिथ्यात्वाङ्गीकार इत्यर्थः ।। भ्रान्त्यन्तरेति ।। मुमुक्षोर्ब्रह्मण्य-नृतत्वादिभ्रान्तिं वारयितुं प्रवृत्तेन सत्यादिवाक्येन पुनरनृतव्यावृत्तिभ्रान्त्युत्पादनायोगादित्यर्थः ।। न स्यादिति ।। अनृतत्वादिव्यावृत्ति रूपस्यानृतत्वाद्यत्यन्ताभावस्याधिष्ठानभूतब्रह्मज्ञानबाध्यत्वाङ्गीकारा-दुक्तरूपमिथ्यात्वं न स्यादित्यर्थः। अनृतेति ।। प्रतियोगिभूतं यदनृतत्वं तस्य ब्रह्मण्यनृतत्वेन तत्प्रतियोगिकत्वात्तत्र व्यावृत्तिरप्यनृतेत्यर्थः ।। प्रातिभासिकत्वापत्त्येति ।। प्रातिभासिकरूप्य प्रतियोगिकाभेदस्येव रूप्यभेदस्यापि रूप्यप्रतियोगिकत्वेन प्रातिभासिक त्वेत्यर्थः । इष्टापत्तिपरिहारायोक्तं बाधगम्यस्येति ।। अयोगादिति ।। भ्रान्तिबाधयोरुभयोरपि प्रातिभासिकरूप्याभेद रूप्यभेद-विषयकत्वाविशेषादित्यर्थः । इतोऽपि भेदनिराकरणं तवायुक्तमित्याह– एवमिति ।। मिथ्यात्वमिति ।। देहात्सदात्मनो भेदस्यात्मज्ञानबाध्यत्वे देहात्मैक्यस्याधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वं न स्यात् । देहात्मभेदस्य देहात्मैक्यात्यन्ताभावरूपत्वात्तस्य चाधिष्ठानभूतात्मज्ञानबाध्यत्वाङ्गीकारादिति भावः ।। अयुक्तेति ।। उक्तरीत्या देहात्मैक्यस्य मिथ्यात्वाभावे तदैक्यस्याध्यस्तत्वोक्तिरयुक्तेत्यर्थः । किञ्च नित्यानित्यवस्तुविवेकः शमदमादिसम्पत्तिर्वैराग्यं मुमुक्षेति साधनचतुष्टयमध्ये नित्यवस्तुविवेकाख्यं

साधनमङ्गीकुर्वताऽवश्यं तात्विको भेदोऽङ्गीकार्यः । कुत इति चेत्तत्राह– तथेति ।। तेन भ्रमरूपविवेकेन ।

इतोऽपि न तव भेददूषणं युक्तमित्याह– एवमिति ।। अन्यथेति ।। प्रपञ्चनिष्ठसद्वैलक्षण्य-स्याधिष्ठानभूत ब्रह्मज्ञानबाध्यत्वे परस्परविरुद्धयोरिति न्यायेन प्रपञ्चसत्वस्याधिष्ठानज्ञानाबाध्य-सत्वापातादित्यर्थः ।। जगन्मिथ्यात्वेति ।। सद्वैलक्षण्यरूपानिर्वाच्यत्वाख्यमिथ्यात्वस्याधिष्ठान-ज्ञानबाध्यत्वाङ्गीकारेण मिथ्यात्वादित्यर्थः । एवं च सद्वैलक्षण्यरूप भेदस्याधिष्ठानज्ञानाबाध्यत्व-मङ्गीकार्यमिति भावः । किञ्चाभेदभेदयोरेवान्ततस्तात्विको भेदोऽङ्गीकार्य इति न तद्दूषणं तव युक्तम् । नन्वभेदभेदयोर्भेदः कुतोऽङ्गीकार्य इति चेत्तत्राह– एवमिति ।। अस्त्विति चेत्तत्राह– भेददोषैरिति ।। स्यादिति ।। अभेदभेदयोरेकत्वादिति भावः ।। तात्विकेति ।। अभेदभेदयोरिति शेषः ।। व्यवस्थेति ।। भेददोषैर्भेदस्यैव बाधनम् अभेदप्रमाणैरभेदस्यैव साधनमित्येवंरूपा व्यवस्थेत्यर्थः ।। भेदेति ।। परस्परविरुद्धयोरिति न्यायेन भेदाभेदयोस्तात्विकाभेदाभावे तात्विकभेदध्रौव्यादित्यर्थः । ननूक्तव्यवस्थार्थम् अभेदभेदयोस्तात्विकभेदः कुतोऽङ्गीकार्यः । व्यावहारिकभेदेनोक्तव्यवस्थोपपत्ते-रित्याशङ्क्य निषेधति– न चेति ।।

कल्पितेनेति ।। एवं च त्वन्मते अभेदभेदयोस्तात्विकाभेदसद्भावेन तत्कार्यस्य भेददोषैर-भेदबाधनस्य अभेदप्रमाणैर्भेदसाधनरूपस्य व्यवस्थाभावरूपकार्यस्य कल्पितेन व्यावहारिकभेदेन प्रतिबन्धायोगादित्यर्थः । तथा च व्यावहारिकभेदेनाप्युक्तव्यवस्था न स्यादेवेति भावः । किञ्च भेदेऽन्योन्याश्रयादिदोषपरिहारस्तवाप्यावश्यको न ममैवेत्याशयेनाह– किञ्चेति ।। ननु व्यावहारिकेऽ-न्योन्याश्रयो न दोष इति चेत्तत्राह– न हीति ।। अवास्तवी व्यावहारिकसती । तदप्यस्त्विति चेत्तत्राह– अन्यथेति ।। ते उपादानत्वाधिष्ठानत्वे । दुष्टस्यापि भेदस्य ।। अविद्यासामर्थ्यादिति ।। दुर्घटघटनास्वभावत्वादविद्याया इति भावः ।। तादृशस्यापीति ।। अन्योन्याश्रय दुष्टस्यापीत्यर्थः । वास्तवं स्यात्, प्रमा स्यादित्यनयोः को भेद इति चेदुच्यते । रूप्याभावेपि रूप्यज्ञानस्वरूपं वास्तवं दृष्टम् । एवं भेदरूपार्थाभावेऽपि तद्दर्शनस्वरूपस्य वास्तवत्वं युक्तं, प्रमात्वं त्वर्थसत्ताघटितम् । अतो भेददर्शनस्य प्रमात्वे तद्विषयस्य भेदरूपार्थस्य सत्वमुपपद्यत इति भावः ।। यदि भेददर्शनं स्यादिति ।। अन्योन्याश्रयादिना भेददर्शनमेव नास्तीति ब्रूयादित्यर्थः ।

इत्यादीत्यादिपदेन ‘स्त्रीत्वमपरिगृह्णीयान्मातरं गर्दभीं सुताम्’ इत्यतिप्रसङ्गसङ्ग्रहः । तस्मान्नास्ति भेददर्शनमिति विपर्ययपर्यवसानायोगः । कुत इत्यत उक्तं भेदादर्शन इति ।। भेददर्शनस्यैवाभावे प्रतियोगिज्ञानाभावेन भेददर्शनं नास्तीति भेददर्शननिरासायोगेन भेददर्शनेऽङ्गीकार्ये विपर्ययापर्यवसान-मित्यर्थः । वास्तवे भेददर्शनस्य वास्तवत्वे ।। व्याप्तीति ।। यत्र वास्तवत्वं तत्रान्योन्याश्रयादिकमिति व्याप्त्यभावादित्यर्थः । व्याप्त्यभावोपपादनायोक्तं वास्तव इत्यादि ।। भेददर्शनस्य वास्तवत्वाङ्गीकारपक्षे तत्रान्योन्याश्रयादेरेवानुत्थानात्तथात्वे च वास्तवत्वमेव न स्यादित्यर्थः । एवं च व्याप्त्यभाव इति भावः । अस्तु भेददर्शनस्य तर्केणावास्तवत्वं तथापि तद्विषयस्य भेदस्य वास्तवत्वमस्तु । तथा हि तत्वन्मतेऽभेददर्शनस्य ब्रह्मव्यतिरिक्तत्वेनावास्तवत्वेपि तद्विषयस्याभेदस्य वास्तवत्वं यथा तथाऽ-न्योन्याश्रयादिना भेददर्शनस्यावास्तवत्वेऽपि तद्विषयस्य भेदस्य वास्तवत्वौचित्यादित्याह– दर्शनेति ।।

प्रमात्वनिषेधायोगादिति ।। अर्थबाधः प्रमात्वनिषेधः । तस्यायोगः भेदरूपार्थसत्वमेव स्यादित्यर्थः । प्रतीतौ अन्योन्याश्रयप्राप्त्या प्रतीतिरेव निवर्तते न तु तस्याः प्रमात्वं प्रतीतिनिवृत्तेरेवापादने चाद्यपक्षान्तर्भाव इति भावः । तत्र दृष्टान्तः चोरापराधादिति ।। केचिच्चोरा रात्रौ धनिकगृहस्थ-द्रव्यमपहृत्य गच्छन्तो ग्रामपालैरनुद्रुताः सन्तस्तद्द्रव्यं माण्डव्यसमीपे प्रक्षिप्यापलायन्त । ते ग्रामपालास्तद्द्रव्यं दृष्ट्वाऽयमेव चोरो द्रव्यमपहृत्य मुधा समाधिरास्त इति माण्डव्यं शूलमारोपिवन्त इति कथा । तथा च प्रतीतिगतान्योन्याश्रयापराधेन प्रमात्वनिषेधायोगाद्यदि भेददर्शनं प्रमा स्यादित्या-पादनमेवायुक्तमिति हृदयम् । ननु प्रतीतावन्योन्याश्रयो मया नोच्यत इत्याशङ्कापरिहारायोक्तं त्वयेत्यादि उद्धृतत्वेनेत्यन्तम् ।। नन्वन्योन्याश्रयत्वेन प्रतीतेर्विचारासहत्वमुच्यते । तेन च भ्रमत्वं शुक्तिरूप्यवत् । तथा च साक्षात्प्रमात्वानिषेधेऽपि तद्व्याप्यधर्मभूतभ्रमत्वेन प्रमात्वनिषेधोऽपि लब्ध एवेत्याशङ्क्य निषेधति– न चेति ।। विचारासहत्वेन न भ्रमत्वं साधयितुं शक्यम् । चरमवृत्तौ व्यभिचारादित्याह– विचारेति ।। विचारासहत्वोपपादनाय प्रपञ्चान्तर्गत इत्युक्तम् ।। जीवस्येति ।। ब्रह्माभिन्नत्वेन ज्ञातस्यैव जीवस्याभेदप्रतियोगित्वादित्यर्थः । अप्रतीताभेदस्य प्रतियोगित्वे दहनस्यापि तुहिनाभेदप्रतियोगित्वं स्यात् । एवं चान्योन्याश्रयदुष्टतयैक्यप्रतीतेरपि विचारासहत्वप्राप्त्या भ्रमत्वं स्यादिति व्यभिचार इति भावः । दृष्टान्ते साधनवैकल्यं चेत्याह– रूप्यादीति ।। अख्याति-वादीति ।। अन्यथाख्यात्यनङ्गीकारिप्राभाकरोक्तेत्यर्थः ।। हेत्वाभावेति ।। विषयस्यासत्वे चेन्द्रियसन्निकर्षायोगेन हेत्वभावान्न भ्रमाङ्गीकारो युक्त इत्यर्थः । यथाऽऽहुः प्राभाकराः–

साकारवादादसतो न भानात्संविद्विरोधादथ हेत्वभावात् ।

 धियामनाश्वासभयाच्च नेष्टा यतोऽन्यथाख्यातिरतो यथार्था’ ।। इति ।।

उद्धृतत्वेनेति ।। रूप्यस्यासद्वैलक्षण्यम् अङ्गीकृत्याविद्यारूपदोषस्य सन्निकर्षत्वं स्वीकृत्य हेतुसद्भावाद्भ्रमो युक्त इत्युद्धृतत्वेनेत्यर्थः ।। सापेक्षतेति ।। धर्म्यादिसापेक्षतेत्यर्थः ।। प्रकारान्तरेति ।। भेदः प्रतीयमानो धर्म्यादिप्रतीतिमपेक्ष्यैव प्रतीयेत नान्योन्याश्रयादिना तदपेक्षानिवृत्तौ प्रकारान्तरेण तत्प्रतीत्युपायाभावात्स्वयमपि भेददर्शनं निवर्तत इत्यर्थः । प्रतीतेः भेदप्रतीतेः ।। अपेक्षणीयत्वेनेति ।। अन्यथा परमतमिव स्वमतमपि निराकुर्यादित्यतिप्रसङ्गापत्तेरित्याशयः । अन्योन्याश्रयेण धर्म्यादिप्रती-त्यपेक्षानिवृत्त्या प्रतीतेः प्रमात्वं निवर्तत इति चेत्तत्राह– प्रमात्वेति ।। उक्तत्वादिति ।। चोरापराधा-दित्यादिनेत्यर्थः ।। अन्यथेति ।। एवमुक्तरीत्या आपादनक्रमासम्भवोऽपि पुनरन्योन्याश्रयेण भेददूषण इत्यर्थः ।। न सिद्ध्येदिति ।। तत्राप्यन्योन्याश्रयस्य साम्यादित्यर्थः ।। किञ्चेति ।। अभेदमुपेक्ष्य भेदे द्वेषः कुतः । ततश्चाभेदोपेक्षा न कर्तव्या । भेदवत्तत्रापि द्वेष एव कार्यः । ननु घटाभेदस्य व्यावहारिकत्वादभेदस्य पारमार्थिकत्वाद्भेद एव द्वेषो नाभेद इति चेन्न, घटपटभेदवद् घटे घटाभेदस्यापि व्यावहारिकत्वात् । ननु घटे घटाभेदस्य व्यावहारिकत्वेऽपि जीवब्रह्मणोरभेदो न व्यावहारिकः किन्तु तात्विक एवातो न तद्द्वेष इति चेन्न । तर्हि घटपटभेदस्य व्यावहारिकत्वेऽपि ब्रह्मण्यनृतव्यावृत्तिरूपस्य भेदस्यापि ब्रह्मवत्तात्विकत्वेन भेदद्वेषो न युक्त एवेत्यर्थः । इदं दूषणं सङ्गृह्णाति– एवं चेति ।। कलशे स्वतः स्वरूपेण घटे स्वरूपेण घटेनाभेदस्य घटपटभेदवन्मिथ्यात्वे व्यावहारिकत्वे सति अभेदमुपेक्ष्य भेद एव द्वेषः किङ्कृतः । ननु घटे घटाभेदस्य मिथ्यात्वेऽपि जीवब्रह्मैक्यं न मिथ्येति चेत्तत्राह– ब्रह्मणीति ।। घटपटभेदस्य मिथ्यात्वेऽपि ब्रह्मण्यनृतभेदस्य सत्यत्वात्तस्य सत्यत्वे सति ‘भेदे द्वेषस्तु किङ्कृतः’ इति पूर्वोक्तदूषणानुसारेण कारिका योजनीया ।।

।। इति सामान्यतो भेदखण्डनोद्धारविवरणम् ।। १४ ।।

न्यायकल्पलता

ब्रह्मणो जिज्ञास्यत्वोपयिकजीवजडात्मकप्रपञ्चभेदं व्यवस्थापयितुमाह– यच्चेदमिति ।। स्वरूपं धर्मो वेतीति ।। स्वरूपधर्मयोर्भेदानवगमे स्वरूपं वा धर्मो वेति विकल्पो न युज्यते ।। अकार-मात्रेति ।। धर्मोऽभेदः स्वरूपं वेत्याद्यकारप्रश्लेषः ।। तदुक्तमिति ।। कथालक्षणे ।। वितण्डा त्विति ।। अन्यैरसद्भिः सह सतां वितण्डैव । यतोऽसत्सु तत्वं नि(वि)गूहितं न प्रकाशनीयम्  ।। निर्वचनवादिनीदं शोभत इति ।। यस्तु पदार्थान्निरुच्य व्यवस्थापयति तं प्रतीदं दूषणं शोभते न मां प्रतीत्यर्थः ।। अनिर्वाच्य इति ।। वक्तुम् अशक्य इत्यर्थः ।। देहात्मैक्याध्यासभङ्ग इति ।। ‘अधिष्ठानज्ञानबाध्यात्यन्ताभावप्रतियोगित्वस्य सत्यत्वेऽपि सत्वात्’ इत्यादिनोक्तम् ।। कल्पितेना-कल्पित कार्याप्रतिबन्धादित्युक्तत्वादिति ।। एतच्चोपलक्षणम् । दूष्यदूषणव्यवस्थादिरूपस्वकार्य-कारिणो भेदस्यैव तात्विकत्वम् । अव्यवस्थारूपस्वकार्याकारिणस्त्वभेदस्य मिथ्यात्वं स्यादिति च वक्ष्यते । नन्वविद्यया स्वप्रकाशरूपब्रह्मकार्यप्रतिबन्धः । कल्पितकान्ताया विश्लेषकार्यप्रतिबन्ध-दर्शनादिति । बहुधा निरासात् । अत्रपोक्तेः । कान्ताज्ञानस्यैव तथात्वात् ।। ईश्वरसामर्थ्यादिति ।। यदत्रोक्तम्– उभयसिद्धमृषाभूतेन्द्रजालस्थले कारणादिव्यवस्थोल्लङ्घिकार्यदर्शनवदीश्वरशक्त्या न तथा कार्यं दृश्यत इति । तदतीव त्रपाकरम् । पामरेभ्योऽप्यपकृष्टोऽसि यतः । अघटितघटकशक्ति-मदीश्वररूपकारणस्य सत्त्वेनान्यकारणोल्लङ्घनस्य शीतातपवातादिषु सरित्सागरपर्वतादिषु विचित्रकार्येषु पामरैरपि प्रमितत्वात् । वैदिकानादि परम्परासिद्धत्वात् । प्रमात्वनिषेधायोगादिति ।। अर्थबाधः प्रमात्वनिषेधः । तस्यायोगः । अर्थसत्वमेव । प्रमात्वस्यार्थाबाधगर्भितत्वादित्यर्थः ।  विचारासाहत्व-रूपपराभिमतहेतोरन्वयव्याप्तौ व्यभिचारमाह– विचारेति ।। जीवस्य ब्रह्मैक्यप्रतीताविति ।। जीवब्रह्मणोरप्रतीतौ भेदेन प्रतीतौ च तयोरैक्याप्रतीतेरित्यादिनैक्येऽप्यन्योन्याश्रयस्य वक्ष्यमाणत्वादित्यर्थः ।। स्वाभिमतेति ।। अभेदप्रतीतेरप्यन्योन्याश्रयग्रस्तत्वात् ।। त्वत्पक्ष इति ।। न हि सर्वत्र भेदो मिथ्या येन स द्वेष्यः स्यात् । नापि सर्वत्राभेदः सत्यः येन स इष्टः स्यात् ।। किं कृत इति ।। विनिगमकाभावादित्यर्थः ।

।। इति सामान्यतो भेदखण्डनोद्धारः ।। १४ ।।