यच्चेदमुच्यते– ‘‘एकमेव च शरीरं सजीवमन्यानि तु स्वाप्नशरीरव-न्निर्जीवानि
५३. एकजीवाज्ञानकल्पितत्वभङ्गः
न्यायामृतम्
यच्चेदमुच्यते– ‘‘एकमेव च शरीरं सजीवमन्यानि तु स्वाप्नशरीरव-न्निर्जीवानि । कृत्स्नं च जगत्तदज्ञानकल्पितम् । बद्धमुक्तव्यवस्था तु नास्त्येव । जीवस्यैकत्वात् । गुरुशिष्यादिव्यवस्था तु यावदविद्यं स्वप्नवद्युक्ता । निवृत्तायां तु तस्यां नास्त्येव’’ इति । तन्न । तस्मिन्नेकस्मिन् जीवे सुप्ते जगद-प्रतीत्यापातात् । दृष्टिसृष्टिपक्षे तस्य सुषुप्तावुद्धोधकस्य संस्कारादेरप्यभावेन पुनरुद्बोधायोगाच्च । मम कल्पकत्वे तव मोक्षार्थं प्रवृत्त्ययोगेन तवैव कल्पकत्वे वाच्येऽस्मदादिबोधार्थं तव शब्दप्रयोगरूपस्वक्रियाविरोधाच्च । परमार्थतो मया नोच्यत इति चेन्न । व्यवहारत उक्तावपि मूकोऽहमित्यादाविव स्वक्रिया-विरोधात् । न च स्वाप्नपुरुषवत् त्वत्कल्पितत्वादहं न पर्यनुयोज्य इति वाच्यम् । अपर्यनुयोज्यत्वे निर्मर्यादतया कथानधिकारापातात् । सजीवशरीर इवान्यत्रापि प्रतिशरीरमहं दुःखी अहं संसारी अहमस्वाप्समिति संसाराद्याधार-जीवात्मानुभवाच्च । न चेयं धीर्भ्रान्तित्वादेव निर्जीवेष्वेव शरीरेषु युक्ता । तेषामयं दुःखीत्यादिभ्रान्तिविषयत्वेऽप्यहं दुःखीत्यादिभ्रान्त्याधारत्वायोगात् । न हि स्वाप्नानि शरीराणि तथा भ्राम्यन्ति । न चेयं धीः सर्वदेहानुगत-चिन्मात्रस्यैव न तु जीवस्येति युक्तम् । प्रतिबिम्बरूपे जीव एव तदौचित्यात् ।
ननु जीवो न ब्रह्मप्रतिबिम्बादिः, किं तु कौन्तेयस्यैव राधेयत्ववत् ब्रह्मण एव जीवत्वं तच्च सर्वदेहगतमिति चेत्, कथं तर्हि शरीरान्तराणां निर्जीवत्वम् । वक्ष्यते च कल्पितेनापि संसारेण कदाऽप्यस्पृष्टचैतन्याभावे नित्यमुक्तत्व-श्रुतिविरोधः । नापीयं धीः कल्पकजीवकल्पितजीवान्तरस्य । कल्पितस्य भ्रान्त्याधारत्वायोगात् । अन्यथा अज्ञानभ्रान्तिसम्यग्ज्ञानमोक्षाणामैकाधिकरण्य-नियमेन बहुजीववादः स्यात् । कल्पितस्य जीवस्य कल्पकं प्रति प्रत्यक्त्वा-योगाच्च । अप्रत्यक्त्वेन भासमाने च प्रत्यक्त्वारोपायोगात् । अन्यस्य च प्रत्यक्त्वेनानुभवितुश्चेतनस्याभावात् । तथानुभवापलापे च तस्याप्येकस्य जीवस्याद्वैतश्रुतेश्चासिद्धेः । ननु चोक्ता दोषा एकशरीरैकजीववादे, न त्वनेक-शरीरैकजीववादे, तस्य सर्वत्रापि सत्त्वादिति चेन्न । तथात्वेऽननुसन्धाने तन्त्रस्य व्यावहारिकजीवभेदस्याप्यभावेन योगिनोऽनेकशरीरेष्विव तस्य सर्वशरीरगतदुःखाद्यनुसन्धानापातात् । तस्य शुकादिदेहस्थस्य तत्त्वज्ञान-मोक्षावन्यदेहस्थस्य तु न ताविति बन्धमोक्षादिसङ्करापाताच्च । तस्यैव तमेव प्रति प्रत्यक्त्वपराक्त्वयोरयोगेन मैत्रं प्रति त्वमिति धीविषयस्य चैत्रस्य तमेव प्रत्यहमिति धीविषयत्वायोगाच्च ।
किं च श्रुतिषु ‘‘अविद्यायामन्तरे वर्तमाना’’ इत्यादावविद्या ‘‘रमणीय-चरणा’’ इत्यादौ कर्मबन्धः ‘‘सति सम्पद्य न विदु’’रित्यादौ सुषुप्तिः ‘‘वेदान्तविज्ञानसुनिश्चितार्था’’ इत्यादौ तत्त्वज्ञानं ‘‘परामृतात्परिमुच्यन्ति सर्वे’’ इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेषूच्येत । न ह्यस्मिन्मते चेतन-बहुत्वं व्यावहारिकमप्यस्ति । न च मुक्तादिबहुत्वं प्राप्तम् । येन श्रुतिरतत्परा स्यात् । किं चैकस्यैव जीवस्येश्वरादिसर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्येश्वरस्य कारणत्वविधायकैरविद्यायाश्चिन्मात्राश्रितत्वभङ्गे वक्ष्यमाणैः श्रुतिस्मृतिसूत्रैर्विरोधः । किं चैवं सर्वज्ञत्वसर्वकर्तृत्वादिश्रुतीनां निर्विषयत्वं स्यात् । चिन्मात्रे ज्ञत्वस्यैवाभावाद् । ईश्वरस्य च अयं सर्वज्ञ इति जीवेन कल्पितत्वेऽप्यहं सर्वज्ञ इति ज्ञातृत्वाभावेन, ‘‘तान्यहं वेद सर्वाणि’’ इत्याद्ययोगात् । जीवस्य चासार्वज्ञादिनैवानुभवात् । अपि च यः कल्पको जीवस्तस्यापि भावितत्त्वज्ञानमुपदेशसाध्यम् । ‘‘आचार्यवान् पुरुषो वेद’’ इति श्रुतेः । न चान्यस्तत्त्वविद् गुरुरस्ति ।
ननु स्वप्नवत्तत्त्ववित्त्वेनैवान्यो गुरुः कल्पित इति चेन्न । तत्त्वविद् गुरुः शिष्यायाद्वैतमुपदिशतीति भ्रान्तेः कल्पके जीवे प्रागेव जातत्वेनाद्वैतस्य ज्ञात-तया तदैव मोक्षापातात् । तत्त्वविशेषवित्त्वेन गुरुकल्पनाकाल एव तत्त्वस्य ज्ञाततया पुनरुपदेशवैयर्थ्याच्च । गुरोः कल्पितत्वस्यापि तत्त्वान्तर्गतत्वेन तत्त्ववित्त्वेन कल्पनाकाल एव गुरोः कल्पितत्वस्य निश्चिततया तच्छ्रवणे प्रवृत्त्ययोगाच्च । स्वप्ने तु शब्दविशेषवक्तृत्वेनैव गुरुकल्पना न तूपदेशसाध्य-ज्ञानविषयतत्त्वविशेषवित्त्वेन । न च प्रकृतेऽपि तथा ‘‘यदेव भगवान् वेद तदेव मे ब्रूहि’’ इत्यादिश्रुतेः ‘‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’’ इत्यादिस्मृतेश्चायोगात् ।
किं च ‘‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’’ इत्यादिविधिरपि भावि-तत्त्वज्ञानं कल्पकं चेतनं प्रत्येव । न च तस्य शिष्यः स्वाज्ञानकल्पित इति जानतस्तन्मोक्षार्थं प्रवचने प्रवृत्तिर्युक्ता । स्वप्ने तु कल्पितत्वाज्ञानात्प्रवृत्तिः । न चापरोक्षज्ञानाभावात्प्रवृत्तिः । दिङ्मोहादौ परोक्षज्ञानेनापि तत्प्रतिबन्धात् । न च संस्कारवशात् प्रवृत्तिः । न ह्ययं वेगादिवद् बलात्प्रवर्तकः । किं तु तत्त्वनिश्चयप्रवृत्तिप्रतिबन्धद्वारा । ततश्च भिक्षाटनादौ कथञ्चित् प्रवर्ततां नाम । औतं बोधयंस्तु कथं तदनुसन्धानहीनः स्यात् ? न चायं स्वाप्नगुरुवत् कल्पितत्वादपर्यनुयोज्यः । कल्पकस्यैव गुरुत्वोक्तेः । कल्पितत्वेऽपि तत्त्व-ज्ञानहेतुत्वेन वेदस्य मीमांस्यत्ववद् गुरोरपि पर्यनुयोज्यत्वाच्च । अन्यथा कथासु सदुत्तराप्रतीतावहं त्वत्कल्पितो न पर्यनुयोज्य इत्येवोत्तरं स्यात् ।
एतेन यावदविद्यं स्वप्नवद् व्यवस्थेति निरस्तम् । इह कल्पक एव शिष्यत्वगुरुत्वयोरुक्तत्वेन स्वाप्नवैषम्यात् । किं च स कल्पकजीव इदानीं निश्चिताद्वैतो न वा ? आद्ये इदानीं संशयाद्यभावेनाद्वैतशास्त्रप्रणयनादि व्यर्थं स्यात् । अन्त्ये त्वद्वैतशास्त्रं प्रमामूलं न स्यात् । अपि च सोऽमुक इत्य-निश्चितो, निश्चितो वा ? नाद्यः । बह्वायाससाध्यमोक्षार्थं प्रवृत्त्ययोगात् । न चाभिसन्धिपूर्विकाऽपीयं प्रवृत्तिः कल्पितत्वादपर्यनुयोज्या । कथासु स्वक्रिया-विरोधादेरप्यनुद्भाव्यतापातात् । न द्वितीयः । त्वया जीवन्मुक्तत्वेन निश्चि-तेष्वद्वैतिषु मृतेष्वपि विश्वभ्रमानुवृत्तिदर्शनेन स गुरुश्शिष्यो वा, गुरुत्वेऽपि चैत्रौ मैत्रो वेति निश्चेतुमशक्यत्वात् । ननु गुरुशिष्यादिशब्दैः केनचित्क्रोडीकृतं चैतन्यमुच्यते निरस्तसमस्तभेदं वा ? नाद्यः । तस्य मिथ्यात्वेनाकल्प-कत्वात् । अन्त्ये कथमनिश्चयः ? तस्यैकत्वादिति चेत् । मैवम् । भ्रमाधिष्ठा-नस्य चिन्मात्रस्यैकत्वेऽपि तस्य मुखमात्रस्थानीयस्यासंसारित्वेनाकल्पकत्वात् । तस्य मोक्षार्थं प्रवृत्त्ययोगाच्च । कल्पकानां च संसारिणामनेकेषामुपलम्भेनायं सत्यः संसारीत्यनिश्चयेन मुमुक्षुप्रवृत्त्ययोगात् ।
अपि चानादौ संसारे कस्यचित्तत्त्वज्ञानं मुक्तिश्चाभून्न वा ? आद्ये इदानीं संसारोपलब्धिर्न स्यात् । जीवान्तराभावात् । नान्त्यः, सम्प्रदायाभावेनोत्तर-त्रापि तत्त्वज्ञानासम्भवात् । तत्त्ववित्त्वेन कल्पितगुरुसम्प्रदायस्य च निरासात् । तत्त्ववित्त्वेन श्रुत्यादिसिद्धानां शुकादीनां त्वदभिमतानां गौडपादादीनां चाभूता मुक्तिरन्यस्य भविष्यतीत्याशायोगाच्च । मोक्षशास्त्रप्रामाण्यात् सा युक्तेति चेदेवं यदि शास्त्रे श्रद्धा तर्हि ‘‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’’ ‘‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त-भोगामजोऽन्यः’’ ‘‘बहवो ज्ञानतपसा पूता मद्भावमागताः’’ इत्यादि-श्रुतिस्मृतिप्रामाण्यात् पूर्वमपि केषाञ्चिन्मुक्तिः किं न स्यात् ? न हि प्रत्यक्षेण, सुखदुःखाद्यनुसन्धानाननुसन्धानादिलिङ्गेन, ‘‘चेतनश्चेतनानाम्’’ इत्यादि-श्रुत्या, ‘‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’’ इत्यादिस्मृत्या च सिद्धे जीवभेदे बाधकमस्ति । ‘‘अनादिमायया सुप्तो यदा जीवः’’ इत्यादि-श्रुतावेकवचनं तु ‘‘यदा नीतिपरो राजा’’ इत्यादिवत्, ‘‘स्वर्गकामो यजेत’’ इत्यादिवच्च युक्तम् । अन्यथा ‘‘इति सृष्टौ विनिश्चिताः’’ इति पूर्वेण, ‘‘स पूज्यः सर्वभूतानाम्’’ इत्युत्तरेण च जीवभेदवाक्येन विरोधात् । न चाविद्यैक्येन तदुपहितजीवस्यैकत्वेऽप्यन्तःकरणोपहितानामनेकत्वाद् बद्धमुक्त-व्यवस्थेति वाच्यम् । जीवभावेऽन्तःकरणोपाधेरपि तन्त्रत्वे बहुजीववादा-पाताद् । अननुगमाच्च । अतन्त्रत्वे देहादिनिवृत्तिवदन्तःकरणनिवृत्तेरप्य-मुक्तित्वेनोक्तव्यवस्थायोगात् ।
एतेनैव हिरण्यगर्भ एव ब्रह्मप्रतिबिम्बो मुख्यो जीवः । अन्ये तु तत्प्रति-बिम्बभूता जीवाभासाः संसारादिभाज इति निरस्तम् । हिरण्यगर्भमुक्तितः प्राक्कस्याप्यमुक्त्यापातात् । अतीतहिरण्यगर्भमुक्तेः श्रुत्यादिसिद्धत्वेनेदानीं संसार्युपलम्भायोगाच्च । सादिहिरण्यगर्भप्रतिबिम्बस्थस्य संसारस्य सादित्वा-पाताच्च । न चातीतकल्पानामानन्त्येनैकैकस्मिन् कल्पे एकैकस्य मुक्तावपि एकैकमाषापचये माषराश्यपचयवत् क्रमेण सर्वजीवमुक्तेरिदानीं संसारोपलम्भो न स्यादिति बाधकम् । कल्पानन्त्यात्क्षणानन्त्य इव क्षणानन्त्या-ज्जीवानन्त्येऽतिशयस्य
अतीतानागताश्चैव यावन्तः सहिताः क्षणाः ।
अतोऽप्यनन्तगुणिता जीवानां राशयः पृथक् ।।
इत्यादिस्मृतिसिद्धत्वेन प्रतिक्षणमेकैकमुक्तावपीदानीं संसारोपलम्भसम्भवात् । तस्मात्
एकजीवमतं शब्दयुक्तिप्रत्यक्षबाधितम् ।
तदप्रमाणतायां तु सोऽपि जीवो न सिद्ध्यति ।।
तस्माज्जगन्नाविद्यकमिति ।
अद्वैतसिद्धिः
स च द्रष्टैक एव । तन्नानात्वे मानाभावात् । ननु– कथमेक एव जीवः ? प्रतिशरीरं ‘अहं सुखी, अहं दुःखी, अहं संसारी, अहमस्वाप्स’मित्याद्यनुभवविरोधादिति चेन्न । अविद्यावशाद् ब्रह्मैवैकं संसरति । स एव जीवः । तस्यैव प्रतिशरीरमहमित्यादिबुद्धिः । स्वाप्नशरीरे ‘अयं सुखी, अयं दुःखी’ इत्येव यत्र बुद्धिर्न त्वहं सुखीत्यादि, तत्तु निर्जीवम् । यत्र त्वहमित्यादि तत् सजीवम् । जाग्रच्छरीरान्तरे अहमिति प्रतीत्यवच्छेदके सजीवतोक्तिर्न द्वितीयेन जीवेन सजीवत्वमित्यभिप्रेत्य । तत्र मानाभावात् । बन्धमोक्षादिव्यवस्था-नुपपत्तिस्तत्र मानमिति चेन्न । बन्धमोक्षगुरुशिष्यादिव्यवस्थायाः स्वप्नवद्यावदविद्यमुपपत्तेः । न चैवं तस्मिन्नेकस्मिन्नेव जीवे सुप्ते समस्तजगदप्रतीत्यापातः । समष्ट्यभिमानिनो मुख्य-जीवस्यासुप्तत्वात् । तस्मिन् लयकाले प्रसुप्ते जगदप्रतीतेः । अन्तःकरणावच्छिन्ने जीवाभासे तु सुप्ते तमेव प्रति जगदप्रतीतिः । न त्वन्यानपि प्रति । तदुपाधीनामप्रलीनत्वात् । संस्कारस्य कारणात्मना स्थितेर्न सुप्तस्य पुनरुत्थानानुपपत्तिरित्युक्तम् ।
एतेन– मम कल्पकत्वे तव मोक्षार्थं प्रवृत्त्ययोगः । तव कल्पकत्वे त्वत्कल्पिता-स्मदादिबोधार्थं तव शब्दप्रयोगाद्यनुपपत्तिः । न च स्वप्नवत् पर्यनुयोगायोगः । एवमपर्यनु-योज्यत्वे निर्मर्यादतया कथानधिकारप्रसङ्गादिति निरस्तम् । चैत्रमैत्रादिसर्वाभिमानिनो जीवस्य कल्पकत्वेन तव ममेत्यादिविकल्पानुपपत्तेः । नापि स्वक्रियादिविरोधः । स्वक्रियायाः कल्पितत्वादिनिश्चयविरहकालीनत्वेन पर्यनुयोगायोगात् । अथ ब्रह्मण एव जीवत्वेन तस्यैव बन्धमोक्षाविति तस्य नित्यमुक्तत्वादिश्रुतिविरोधः । न । मुक्तेः स्वस्वरूपत्वेन बन्धस्य चाऽविद्यकत्वेन तदविरोधः । न हि मृगतृष्णिकाकल्पितोदकेन स्वभावशुष्काऽपि मरुभूमि-रार्द्रीभवति ।
एतेन कल्पितस्य जीवस्य कल्पकं प्रति प्रत्यक्त्वायोगः । तेन कल्पकेन प्रत्यक्त्वेना-ज्ञानात् । अन्यस्यानुभवितुरभावात् । तथाऽनुभवापलापे एकजीवाद्वैतश्रुत्यादेरप्यसिद्धिरिति निरस्तम् । अनेकशरीरैकजीववादस्याङ्गीकारात् । न च तर्हि तमेव प्रति प्रत्यक्त्वपराक्त्व-योरयोगः । मैत्रं प्रति त्वमिति धीविषयस्य चैत्रस्य तमेव प्रति अहमिति धीविषयत्वा-योगश्चेति वाच्यम् । भिन्नभिन्नान्तःकरणाभेदाध्यासेन तत्तदन्तःकरणमादाय प्रत्यक्त्व-पराक्त्वाहमित्यादिबुद्धिविषयत्वव्यवस्थोपपत्तेः । न च चैत्रसुखदुःखादीनां मैत्रेणानुसन्धाना-पत्तिः । अन्तःकरणावच्छिन्नेनाविद्यावच्छिन्नेन वा ? नाद्यः । तत्र परस्परं भेदात् । न द्वितीयः । इष्टापत्तेः । अत एव चैत्रस्य शुक्तिसाक्षात्कारेण रजतभ्रमनिवृत्तावन्येषामपि तन्निवृत्तिः स्यादिति निरस्तम् । अन्तःकरणभेदेन व्यवस्थोपपत्तेः । ननु एवं मुक्तावपि चैत्राद्यन्यतमान्तःकरणावच्छेदेन साक्षात्कारे उत्पन्ने तदवच्छेदेनैव संसारनिवृत्तिः स्यात्, न तु तदितरान्तःकरणावच्छेदेनापीति चेन्न । तत्साक्षात्कारस्य सविलासमूलाज्ञाननिवृत्तिरूपतया तत्कालेऽन्तःकरणस्याभावेन वैषम्यात् ।
ननु श्रुतिषु ‘अविद्यायामन्तरे वर्तमानाः’ इत्यादावविद्या, ‘रमणीयचरणाः’ इत्यादौ कर्मबन्धः, ‘सति सम्पद्य न विदुः’ इत्यादौ सुषुप्तिः, ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ इत्यादौ तत्त्वज्ञानं, ‘परामृतात्परिमुच्यन्ति सर्वे’ इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेषूच्यत इति चेन्न । ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’ इत्यादिश्रुतिस्थैकवचनप्राप्तैकत्व-विरोधेनोदाहृतश्रुतीनामनेकत्वपरत्वाभावात् । सर्वजनीनभ्रमसिद्धतदनुवादेनाविरोधात् । न चोदाहृतश्रुतिविरोधेन ‘इति सृष्टौ विनिश्चिताः’ इति पूर्वेण ‘स पूज्यः सर्वभूतानाम्’ इत्युत्तरेण च विरोधेनेदमेकवचनं ‘यदा नीतिपरो राजा,’ ‘स्वर्गकामो यजेत’ इत्यादि-वन्नैकत्वपरमित्येव किं न स्यादिति वाच्यम् । प्रत्यक्त्वपराक्त्वत्वमहमित्यादि व्यवहार-प्रयोजकान्तःकरणाभेदाध्यासबलाद् बहुत्वस्य प्राप्तत्वेन पूर्वोत्तरवाक्योदाहृतश्रुत्यादीनाम-तत्परत्वात् । न च मुक्तबहुत्वं नान्यतः प्राप्तमिति वाच्यम् । जीवबहुत्वस्य प्राप्तत्वेन मुक्त्यंश एवाप्राप्तत्वपर्यवसानात् । न चैकस्यैव जीवस्य सर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्य ईश्वरकारणत्वविधायकैः श्रुत्यादिभिर्विरोधः । अविद्यायाः चिन्मात्राश्रयत्वोपपादने निरसिष्यमाणत्वात् । न चैवं सर्वज्ञत्वसर्वकर्तृत्वादिबोधकश्रुतीनां निर्विषयत्वम् । शुद्धचैतन्ये ज्ञत्त्वस्यैवाभावात् । ईश्वरस्य च जीवभिन्नस्याभावाद्, जीवे सार्वज्ञ्यस्यानुभवबाधितत्वादिति वाच्यम् । समष्ट्यभिमानिनो जीवस्य सर्वज्ञत्वसर्वकर्तृत्वादिस्वीकारात् । न चानुभवविरोधः । अन्तःकरणाभेदाध्यासबलात्तदननुभवतद्विपरीतानुभवयोरुपपत्तेः । सर्वाभिमानिनस्तु सार्वज्ञ्यानु-भवोऽस्त्येव । अत एव ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप’ इत्याद्युपपद्यते । न च ‘आचार्यवान् पुरुषो वेद’ इति श्रुतेरुपदेशं विना जीवस्य तत्त्वज्ञानमनुपपन्नम् । उपदेष्टव्या-दन्यस्य चैतन्यस्याभावाच्च नोपदेशो युज्यत इति वाच्यम् । स्वप्न इवोपदेष्टुः कल्पितस्य सम्भवात् ।
ननु उपदेष्टृत्वं न कल्पितमात्रस्य । किन्तु तत्त्ववित्त्वेन कल्पितस्य । तथा चोप-देशात्प्राक् तत्त्वज्ञाने तदैव मोक्षापत्तिः । उपदेशवैयर्थ्यं च । न चैवं स्वप्नेऽपि तुल्यम् । तदा हि शब्दविशेषवक्तृत्वेनैव गुरुकल्पना, न तूपदेशसाध्यज्ञानविषयविशेषवित्त्वेनेति विशेषादिति चेन्न । अत्रापि तद्वदेव वाक्यविशेषवक्तृत्वेनैव तत्कल्पनसम्भवात् । ननु तर्हि ‘यदेव भगवान्वेद तदेव मे ब्रूहि’ इत्यादिश्रुतिः, ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’ इत्यादिस्मृतिश्चायुक्ता स्यादिति चेन्न । सामान्यतो मोक्षोपयोगिज्ञानविषयवित्त्वेनाज्ञाततत्त्व-वित्त्वेन तत्त्वमस्यादिवाक्यवक्तृत्वेन वा कल्पितस्य उपदेष्टृत्वसम्भवेन उदाहृतवाक्या-विरोधात् । अन्यथा तवापि मते तत्त्ववित्त्वेन प्रमित एवाचार्यत्वेनानुसरणीय इति प्रथमत एव तत्त्वज्ञाने तत्कालमोक्षापत्त्युपदेशवैयर्थ्यादिकं च स्यात् । एतेन ‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’ इत्यादिविधिरपि भावितत्त्वज्ञानिकल्पकचेतनं प्रत्येव । न च तस्य शिष्यः स्वाज्ञानकल्पित इति जानतस्तन्मोक्षार्थं प्रवचने प्रवृत्तिर्युक्ता । न च स्वप्नवत् कल्पितत्वाज्ञानात्प्रवृत्तिः । तत्त्वविदस्तदज्ञानानुपपत्तेरिति निरस्तम् । स्वप्नगुरुवत् कल्पि-तत्वेन गुरोरपर्यनुयोज्यत्वात् । न च तत्त्वज्ञानहेतुत्वेन वेदस्य मीमांस्यत्ववद् गुरोरपि पर्यनुयोज्यत्वमिति वाच्यम् । तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परिहारात् । न च कथास्वपि सदुत्तरापरिस्फूर्तावहं त्वत्कल्पितो न पर्यनुयोज्य इत्युत्तरं स्यादिति वाच्यम् । कथायाः कल्पितत्वानिश्चयकालीनत्वेन समयबन्धविशेषनिबन्धनत्वेन च तादृगुत्तरानव-काशात् । तस्माच्छिष्यवत् गुरोरपि कल्पितत्वात् स्वप्नवत्सर्वव्यवस्थोपपत्तिः ।
अथ कल्पको न निश्चिताद्वैतः । शास्त्रप्रणयनवैयर्थ्यात् । नाप्यनिश्चिताद्वैतः । शास्त्रस्य प्रमामूलकत्वाभावप्रसङ्गादिति चेन्न । प्रमामूलकत्वाभावेऽप्यबाधितविषयत्वेन शास्त्रप्रामाण्योप-पत्तेरन्त्यपक्षाभ्युपगमात् । न चामुकः स इत्यनिश्चये बह्वायाससाध्यमोक्षार्थं प्रवृत्त्ययोगः । प्रतिशरीरमहमहमिकया ‘बद्धोऽहम्’ इति निश्चयस्य स्वानुभवसाक्षिकत्वेन प्रवृत्तिसम्भवात्, एकेनैव जीवेन चैत्रमैत्रादिशरीराणां सजीवत्वसम्भवस्य प्रागेवोक्तत्वात् । किं च चैत्रमैत्रादिषु ‘कोऽसौ’ इति प्रश्नस्य किं केनचित् क्रोडीकृतं चैतन्यं विषयः । किं वा निरस्तसमस्तभेदम् । नाद्यः । तस्य कल्पितत्वेनाकल्पकत्वात् । न द्वितीयः । तस्यैकत्वेन तदनिश्चयासिद्धेः । शुद्धचित एकत्वेन वस्तुतोऽसंसारित्वेऽपि आवरणविक्षेपशक्तिद्वय-शालिस्वाश्रिताविद्यावशात् संसारित्वकल्पकत्वमोक्षार्थं यतमानत्वाद्युपपत्तिः ।
नन्वनादौ संसारे कस्यचित्तत्त्वज्ञानं मुक्तिश्चाभून्न वा ? आद्ये इदानीं संसारोपलब्धिर्न स्यात् । जीवस्यैकत्वाद् । अन्त्ये सम्प्रदायासम्भवेन तत्त्वज्ञानासम्भव इति चेन्न । न ह्यसाम्प्रदायिकत्वमुत्पत्तिविरोधि । अपूर्वजातीयानुत्पत्तिप्रसङ्गात् । किन्तु कारणासत्त्वम् । तन्नेदानीमुपदेष्ट्रादिकारणस्य कल्पनासुदृढस्य सत्त्वात् । जीवैक्यस्य प्रमाणासिद्धत्वेन संसारोपलम्भ एवातः पूर्वं तत्त्वज्ञानानुत्पत्तौ प्रमाणम् । न च तत्त्ववित्त्वेन श्रुत्यादिसिद्धानां शुकवामदेवादीनां मुक्तिर्मा भूत्, मम तु भविष्यतीति कथं श्रद्दध्यादिति वाच्यम् । शास्त्रप्रामाण्यदार्ढ्यादिति गृहाण । अन्यथा तेषां महानुभावानां मुक्तत्वेऽपि मम भविष्यति न वेति शङ्कापिशाच्या प्रवृत्तिप्रतिबन्धापत्तेः । ननु तर्हि श्रुतिप्रामाण्यबलादेव तत्सिद्धो जीवभेदः, पूर्वमपि केषाञ्चिन्मोक्षश्चाभ्युपेयताम् । श्रूयते हि ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’, ‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’, ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ इत्यादि । स्मर्यते च –
बहवो ज्ञानतपसा पूता मद्भावमाश्रिताः ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।।
इत्यादीति चेन्न । उक्तवाक्यानां सार्वलौकिकभ्रमसिद्धभेदानुवादकत्वेन तत्परत्वाभावात् । जीवैक्यबोधकवाक्यानां च मानान्तराप्राप्तस्वार्थपरत्वात् । स्वप्नन्यायेन भेदस्य कल्पितत्वो-पपत्तेश्च । ज्ञानस्तुतिपराणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति । तात्पर्यवद्वाक्या-विरोधेनातात्पर्यवद्वाक्यानां गुणवादत्वोपपत्तेः ।
‘‘अतीतानागताश्चैव यावन्तः सहिताः क्षणाः ।
ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक् ।।’’
इत्यादिस्मृतिरपि जीवोपाधिभेदानुवादकतया व्याख्येया । तस्मादविद्योपाधिको जीव एक एवेति सिद्धम् । इत्यद्वैतसिद्धौ एकजीवाज्ञानकल्पितत्वोपपत्तिः ।।
न्यायामृततरङ्गिणी
।। तस्मिन्निति ।। आन्ध्यमप्रतीतिः । ननु सुप्त्यभिमानिनो मुख्यजीवस्य हिरण्यगर्भस्यासुप्तत्वान्न जगदान्ध्यम् । तस्मिंस्तु लयकाले सुप्ते जगदप्रतीतिरिष्टैव । अन्तःकरणावच्छिन्ने जीवाभासे तु सुप्ते तमेव प्रति जगदप्रतीतिः । न त्वन्यानपि प्रति । तदुपाधीनामप्रलीनत्वात् । मैवम् । अन्तःकरणावच्छिन्नानां जीवाभासानां चित्त्वे नानाजीववादापत्तेः । अचित्त्वे जगदान्ध्यापातात् । अतीतहिरण्यगर्भमुक्तेः प्रमाणसिद्धत्वेनेदानीं संसार्युपलम्भायोगादिति वक्ष्यमाणत्वाच्च ।। दृष्टिसृष्टीति ।। कारणात्मनाऽपि संस्कारावस्थानायोगस्योक्तत्वादित्यर्थः । स्वप्नपुरुषवत् स्वप्नद्रष्टृ-पुरुषवत् । त्वदिति पञ्चम्यन्तं पर्यनुयोज्य इत्यनेन सम्बध्यते । चैत्रमैत्रादि-सर्वाभिमानिनो जीवस्य कल्पकत्वेन तव ममेत्यादिकल्पना न युक्तेति तु निरस्तम् ।। अनुसन्धानापातादिति ।। ननु भिन्नभिन्नान्तःकरणभेदाध्यासेन तत्तदन्तःकरण-मादाय प्रत्यक्त्वपराक्त्वत्वमित्यादिबुद्धिविषयत्वं सुखानुसन्धानाननुसन्धानादिकं चोपपन्नमिति । मैवम् । बन्धतत्वज्ञानमोक्षावच्छेदकानामन्तःकरणादीनां भेदे नानाजीववादापत्तेः । तदभेदे तु दुःखाद्यनुसन्धानप्रत्यक्त्वाद्यनुपपत्तेर्दुष्परिहरणीय-त्वात् । वक्ष्यते चैतज्जीवभेदप्रस्तावे ।
।। यदेव मे भगवान् वेदिति ।। एतेन सामान्यतो मोक्षोपयोगिज्ञानविषय-चित्त्वेन तत्त्वमस्यादिवाक्यवक्तृत्वेन वा कल्पितस्योपदेष्टृत्वमिति निरस्तम् । भेदस्यापि तादृशज्ञानविषयत्वसम्भावनया विशिष्य ज्ञातव्यत्वात् । भेदवादिनोऽपि तत्त्वमस्यादिवाक्यवक्तृत्वाच्च ।। मीमांस्यत्ववदिति ।। न च तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परिहार इति वाच्यम् । तथा कल्पनासम्भवस्योक्तत्वात् ।। सदुत्तरेति ।। न च कथायाः कल्पितत्वानिश्चयकालीनत्वेन समयबन्धविशेष-निबन्धनत्वेन तादृगुत्तरानवकाश इति वाच्यम् । औतिनः कल्पितत्वनिश्चयव-तस्तदनिश्चयसमयबन्धविशेषयोरसम्भवात् ।। सम्प्रदायाभावेनेति ।। ननु सम्प्रदायाभावेऽप्यपूर्ववदुत्पत्तिरस्त्विति चेन्मूर्खोऽसि । न ह्यनादौ संसारेऽद्याप्यनु-पपन्नजातीयमपूर्वमुत्पद्यत इति कोऽप्यभ्युपैति । किन्तूत्पन्नपूर्वजातीयमेवा-पूर्वमग्रेऽप्युत्पद्यते । कर्मणां तज्जन्यापूर्वाणां तत्फलानां च नियतत्वात् ।। तत्त्व-वित्त्वेनेति ।। कल्पनाकाल एव तत्त्वस्य ज्ञातत्वादुपदेशानर्थक्यादिनेत्यर्थः ।। इति पूर्वेणेति ।। ‘इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिता’ इति पूर्ववाक्ये बहुवचनेन ।। उत्तरेणेति ।। ‘त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभावानां वन्द्यश्चैव महामुनिः’ इत्युत्तरवाक्ये पूजावन्दनकर्तृत्वेन निश्चितचित्तानां भावानामिति बहुवचनेन बहुत्वावगमात्तेन विरोध इत्यर्थः ।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।।
न्यायामृततरङ्गिण्यां विश्वं नैकाज्ञकल्पितम् ।।
न्यायामृतकण्टकोद्धारः
नन्वेकजीवमात्रदृष्टत्वान्यथानुपपत्या मिथ्यात्वम् । एकजीवमात्रदृष्टे स्वप्नादौ तद्दर्शनात् । न चैकजीवमात्रदृष्टत्वमसिद्धम् । द्रष्टुर्नानात्वे मानाभावात् । एकस्यैव सर्वद्रष्टृत्वोपपत्तेरित्येकजीववाद एव मिथ्यात्वप्रमापक इति तदेन्मतं दूषयितुमनुवदति ।। यच्चेति ।। नन्वेकस्यैव जीवत्वे बद्धमुक्तव्यवस्था न स्यादित्यत आह ।। बद्धेति ।। शुकवामदेवादिमुक्तादिवादस्त्वर्थवाद एवेति भावः ।। तस्मिन्निति ।। न च समष्ट्यभि-मानिनो मुख्यजीवस्यासुप्तत्वात् सोऽज्ञानेन जगत्कल्पयतीति न जगदप्रतीत्यापत्तिरिति वाच्यम् । तस्मिन्सुप्ते जगदप्रतीत्यापत्तेः । न च स प्रलय एव स्वपिति तदा जगदप्रतीतिरिष्टेवेति वाच्यम् । स प्रलय एव स्वपिति मध्ये नेत्यत्र मानाभावात् । अहरहर्गच्छन्त्य एव ब्रह्मलोकं न विन्दन्ति अनृतेन हि प्रत्यूढा इति बहुनाम-त्वोक्तिविरोधश्च ।
किञ्च समष्ट्यभिमानिन एव मुख्याज्ञत्वे इदानीं प्रत्यहं सुप्तोत्थितानामहमज्ञो न किमप्यवेदिषमिति प्रतीत्या अज्ञानसिद्ध्युक्तिविरोधः । तेषां जडत्वेन घटवदज्ञान-शून्यत्वात् । सुप्तोत्थितसमष्टिजीवप्रतीतेश्चासिद्धेः ।
किञ्चेदानीं शास्त्रेण समष्टिजीवकल्पित इति निश्चितवतस्तव शिष्यबोधनार्थं प्रवृत्तिर्न स्यात् । स्वप्ने तु स्वप्नत्वाज्ञानादेव प्रवृत्तिरित्यलमतिपल्लवेन ।। दृष्टिसृष्टिपक्ष इति ।। न च संस्कारस्य कारणरूपेण स्थितत्वात्पुनरुद्बोधोपपत्तिरिति वाच्यम् । अविद्यादेरपि दृष्टिसृष्टित्वेन तदात्मना स्थित्ययोगस्योक्तत्वात् । अविद्यादेरपि दृष्टिसृष्टित्वस्यो-पपादितत्वात् ।। मम कल्पकत्व इति ।। न च चैत्रमैत्रादिसर्वजीवाभिमानिनः कल्प-कत्वेन तव ममेत्यादिविकल्पानुपपत्तिः । सर्वजीवाभिमानिकल्पिता वयमिति शास्त्र-व्याख्यातुर्गुरोर्निश्चयोऽस्ति न वा । आद्ये शिष्यबोधनानुपपत्तिः । द्वितीये वेदान्त-व्याख्याने गुरुत्वं न स्यात् । न ह्यत्र स्वप्नादिसाम्यमित्युक्तम् ।। स्वक्रियेति ।। न च क्रियायाः कल्पितत्वादिनिश्चयविरहकालीनत्वेन पर्यनुयोगायोग इति वाच्यम् । कल्पि-तत्वादिनिश्चयकाले एव स्वक्रियाया उक्तत्वेन पर्यनुयोगात् । अन्यथा गुरुत्वानुपपत्तेः ।
किञ्चैकं शरीरं सजीवमन्यानि निर्जीवानीति निश्चयो नोपपद्यते । सजीवत्व-प्रयोजकानुभवस्य सर्वत्राविशिष्टत्वेन विनिगमकाभावात् । अनुभवापलापे त्वेकस्यापि सजीवत्वं न स्यादित्याह ।। सजीवेति ।। ननु अन्यानि निर्जीवानीत्यस्य सर्वथा निर्जीवत्वं नार्थः । किन्तु तत्रापि जीवोऽस्ति द्वितीयो नास्तीति । न चैवं बद्ध-मुक्तव्यवस्थाद्यनुपपत्तिः । तस्य यावदविद्यं स्वप्नवत्कल्पितत्वादिति चेन्न । एवं एक एव सर्वशरीरेऽस्तीत्युक्तं भवति । तस्य प्रतिशरीरं कल्पितोऽपि भेदो नास्ति उतास्तीति । आद्ये सर्वदेहेषु सर्वेषां ममायं देह इति प्रतीत्यापत्तेः । स्वीयपरकीयव्यवस्थानुपपत्तिश्च । द्वितीये बहुजीववादापातः । बहुजीववादिभिरपि प्रतिशरीरं कल्पितभेदस्वीकारात् । वास्तवभेदस्य क्वाप्यनङ्गीकारात् । न च बहुजीववादिमते चैतन्यस्यैवाज्ञानान्यवच्छेद-कानि । तत्तदज्ञानावच्छिन्नस्यान्तःकरणान्यवच्छेदकानि । एकजीववादे तु एकाज्ञाना-वच्छिन्नस्यान्तःकरणान्यवच्छेदकानीति भेद इति वाच्यम् । तत्तदज्ञानावच्छेदेन चैतन्यभेदवत् तत्तदन्तःकरणावच्छेदेन जीवभेदस्यावश्यकत्वात् । लाघवादन्तःकरणा-नामेवावच्छेदकत्वोपपत्तेश्च । एकाज्ञानपक्षस्य दूषितत्वात् दूषयिष्यमाणत्वाच्च ।। प्रतिबिम्बादीति ।। उपाधेः प्रतिबिम्बपक्षपातित्वात् । अन्यथाऽहमिति न प्रयुज्येत । अहमिति स्थाने चिन्मात्रमिति प्रयुज्येतेति भावः ।। नित्यमुक्तेति ।। न च मुक्तेः स्वरूपत्वेन बन्धस्य चाविद्यकत्वेनाविरोध इति वाच्यम् । मुक्तेः स्वरूपत्वे मुक्तेर्ज्ञान-साध्यत्वश्रुतिविरोधः ।
किञ्च प्रातिभासिकाज्ञानादिकमेव संसारस्तन्निवृत्तिरेव मोक्ष इति हि त्वया वक्तव्यम् । एवं च संसारनिवृत्तिर्नित्या तत्प्रतीतिश्चेति महद्वैशसम् ।। अन्यथेति ।। कल्पितस्य भ्रान्त्याधारत्व इत्यर्थः । भ्रान्त्याधारस्यैव मुक्तत्वेनानेके संसरन्ति मुच्यन्त इत्यङ्गीकारे बहुजीववादः स्पष्ट एवेति भावः ।। कल्पितस्येति ।। तथा चाहं सुखीत्यादिप्रत्ययः सर्वशरीरावच्छेदेन न स्यादिति भावः । ननु प्रत्यक्त्वाभावेऽपि तदारोपात्तथा धीरित्यत आह ।। अप्रत्यक्त्वेनेति ।। ननु तत्रान्य एव प्रत्यक्त्वेनानुभवितेत्यत आह ।। अन्यस्य चेति ।। तस्यैवेति ।। न च विद्याप्रयुक्तभेदाभावेऽपि भिन्नभिन्नान्तःकरणा-वच्छेदप्रयुक्तभेदस्य विद्यमानत्वात् सुखादिव्यवस्थाद्युपपत्तिरिति चेन्न । सुखादिव्यवस्था-निमित्तस्यैव जीवत्वप्रयोजकत्वेन बहुजीववादापातात् । अन्यथैकान्तःकरणावच्छिन्न-स्यानेकदेहावच्छेदे तत्प्रयुक्तभेदस्य विद्यमानत्वात् योगिनोऽनेकशरीरेष्वनुसन्धानं न स्यात् । तत्र त्वया जीवत्वप्रयोजकभेदस्यैव सुखादिव्यवस्थापकत्वमिति वक्तव्यम् । तथा च तदभावे पूर्वोक्तदोषानतिवृत्तिः ।। किञ्चेति ।। न च ‘‘अनादिमायया सुप्तः’’ इत्येकवचनानुरोधेन बहुवचनस्यैकत्वपरत्वात् नोक्तविरोध इति वाच्यम् । एकवचनस्यैव समुदायैकत्वपरत्वेन सावकाशत्वात् । सावकाशेन च निरवकाशबाधायोगात् । तस्यैकत्वपरत्वे पूर्वोत्तरविरोधस्य वक्ष्यमाणत्वाच्च । न च जीवबहुत्वस्यान्तःकरणा-ध्यासभेदात्प्राप्ततया श्रुतेन तत्परत्वमिति वाच्यम् । अन्तःकरणभेदाध्यासस्यासिद्धेः । मुक्तबहुत्वस्याप्राप्तेश्च । न च मुक्त्यंश एवाप्राप्तिरिति वाच्यम् । एवं हि विशिष्टार्थपरं किमपि न स्यात् । अंशप्राप्तेः सर्वत्र सम्भवात् । तथा च ‘‘तत्त्वमसि’’ इत्यादेरपि जीवब्रह्मैक्यपरता न स्यात् ।
ननु कल्पकजीव एव सर्वज्ञत्वादिश्रुतीनां विषय इत्यत आह ।। जीवस्येति ।। न च सकलजीवाभिमानिनः सर्वज्ञत्वमङ्गीक्रियत इति वाच्यम् । सर्वज्ञत्वेऽज्ञानायोगेन कल्पकत्वानुपपत्तेः । सर्वज्ञस्य चाधिष्ठानतत्वसाक्षात्कारस्यावश्यकत्वात् । अधिष्ठानतत्व-साक्षात्कारस्य चाज्ञानविरोधित्वात् । अन्यथा सर्वज्ञत्वानुपपत्तेः । यादृशतादृशसर्वज्ञत्वस्य च सर्वसाधारणत्वात् ।। तथेति ।। वाक्यविशेषवक्तृत्वेनेत्यर्थः ।। सदैवेति ।। श्रुति-स्मृत्योः तत्त्वविशेषवित्त्वेनैव गुरुत्वनिश्चयप्रतीतेरिति भावः । न च सामान्येन तत्त्वज्ञानेऽपि विशेषतोऽज्ञातत्वात् न सद्यो मोक्षादिकम् । अन्यथा भवतामपि तत्त्वज्ञो गुरुरिति निश्चयानन्तरं प्रवृत्तौ तत्त्वस्य निश्चितत्वात् श्रवणादिवैयर्थ्यमेव स्यादिति वाच्यम् । निर्विशेषे चित्त्वे ज्ञाताज्ञातविभागायोगात् । अत एव नास्मत्प्रतिबन्दी । अस्माभिर्निर्विशेषत्वानङ्गीकारात् ।
किञ्च येन रूपेण कल्पकेन कल्पितस्तेनैव रूपेण स इति त्वन्मतम् । तथा च गुरौ तदकल्पितविशेषवित्वाभावात्तद्वाक्याद् विशेषज्ञानं न स्यादेवेति । ततः श्रवणादि व्यर्थमेव । न च तत्त्वमसिवाक्यवक्तृत्वेन गुरुकल्पनमिति वाच्यम् । तथापि तस्य वाक्यस्यैक्यप्रतिपादकत्वस्याकल्पितत्वे तस्य तन्न स्यात् । कल्पितत्वे कल्पनासमय एव तत्वस्य ज्ञातत्वेन पूर्वोक्तदोषतादवस्थ्यमेवेति ।। किं चेति ।। अचेतनस्य प्रमादादेर-प्रसक्त्या तत्प्रति तदभावविधानासम्भवादिति भावः ।। न चेति ।। न चासौ गुरुः स्वशिष्यः स्वाज्ञानकल्पित इति न जानात्यतस्तन्मोक्षार्थं स्वाप्नगुरुवत्प्रवर्तत इति वाच्यम् । शास्त्रार्थः सर्वं स्वातिरिक्तं मदज्ञानकल्पितमिति तदनुसन्धानाभावे च तस्याद्वैतशास्त्रव्याख्यातृत्वाभावेन गुरुत्वमेव न स्यादिति तं प्रति निषेधोऽप्यर्थ एव इति भावः ।। कल्पितत्वेऽपीति ।। गुरोरिति शेषः । न तर्केण वेद इव गुरोरपि तत्तद्रूप-परिकल्पनया परिहार इति वाच्यम् । तत्ववित्वेनैतदंशपरिहारकरूपपरिकल्पनानुपपत्तेः ।। अन्यथेति ।। यदि कल्पितत्वेनापर्यनुयोज्यत्वमित्यर्थः । न च कथाया कल्पितत्वा-निश्चयकालीनत्वेन समयबन्धविशेषनिबन्धकत्वेन तादृगुत्तरानवकाश इति वाच्यम् । शास्त्रार्थविचारसमये शास्त्रार्थानिश्चयायोगात् । शास्त्रार्थानिश्चये च कथकत्वासम्भवाच्च । एतादृशमुत्तरं न वक्तव्यमिति समयबन्धानिश्चयाच्च । कथायाम् अवयवादिनियमादौ समयभङ्गः । न त्वेतादृशं न वक्तव्यमित्यत्रापि । अन्यथा समयबन्धेन बाधिताद्यवचने बाधादेरदूषणत्वमेव स्यादिति दिक् ।। बह्वायासेति ।। न च प्रतिशरीरम् अहमहमिकया बद्धोऽहमिति निश्चयस्यानुभवसाक्षित्वेन प्रवृत्तिसम्भव इति वाच्यम् । कल्पकानिर्धारण एव एवं, तन्निर्धारणे तु तादृशनिश्चयस्यैवानुपपत्तेः । न चैकेनैव जीवेन मैत्रादिशरीराणां सजीवत्वसम्भवः प्रागुपपादित इति वाच्यम् । सर्वशरीराणामेकजीववत्वे सुखादि-व्यवस्थायोगस्योक्तत्वात् । अन्यथैकत्वोक्तेरुक्तत्वात् ।। तस्येति ।। न च शुद्धचित् एकत्वेऽपि वस्तुतोऽसंसारित्वेऽप्यावरणविक्षेपशक्तिस्वाश्रिताविद्यावशात् संसारित्व-कल्पकत्वमोक्षार्थं यतमानत्वाद्युपपत्तिरिति वाच्यम् । तर्हि एकजीववादभङ्गप्रसङ्गात् न स्वस्मिन् जीवः कल्पकः । चिन्मात्र एवाविद्यासहकारेण कल्पकत्वोक्तेः । सर्वस्य चैतन्यस्य संसारित्वेन बद्धाबद्धव्यवस्थायोगाच्च । एतत्पक्षे जीवस्य संसारिणोऽभावेन तत्त्वमसीत्यादेः जीवब्रह्मैक्यपरत्वायोगाच्च । न च चैतन्यमेव जीवशब्दवाच्यमिति वाच्यम् । तथात्वे तदतिरिक्तशुद्धब्रह्माभावे पूर्वोक्तदोषानतिवृत्तेः । अहमिति प्रत्ययवेद्ये एव जीवत्वव्यवहाराच्च । व्यवहारात्तु मेयत्वात्सङ्केतस्येत्यलम् ।
ननु सत्यसंसारिण एव मोक्षार्थं प्रवृत्तिर्भविष्यतीत्यत आह ।। कल्पकानां चेति ।। सम्प्रदायाभावेनेति ।। न चासाम्प्रदायिकत्वं नोत्पत्तिविरोधि । अपूर्वजातीया-नुत्पत्तिप्रसङ्गात् । किन्तु कारणासत्वम् । तत्रेदानीम्, उपदेष्ट्रादिकारणस्य कल्पनासुदृढस्य सत्वादिति वाच्यम् । अन्यत्रासाम्प्रदायिकत्वस्य उत्पत्यविरोधकत्वेऽपि तत्त्वज्ञानेऽ-प्रामाण्यशङ्काधायकतयाऽसाम्प्रदायिकत्वस्य तत्वज्ञानविरोधित्वेन साम्प्रदायिकत्वस्य तत्वज्ञानोपयोगित्वात् । अन्यथा श्रुतिपुराणादावितिहासो नोच्येत । न चापौरुषेय-त्वादिना सकलशङ्कानिरास इति वाच्यम् । कल्पितापौरुषेयत्वस्य गूढकर्तृकवाक्येऽपि सत्वात् । वास्तवस्य च वेदेऽप्यभावात् ।
ननु तत्त्ववित्वेन गुरुकल्पितसम्प्रदायस्य सत्वान्नोक्तदोष इत्यत आह ।। तत्व-वित्वेनेति ।। कल्पनासमय एव तत्वज्ञानस्योत्पन्नत्वेन गुरूपसत्यादिवैयर्थ्यादिनेत्यर्थः । पूर्वं तत्वज्ञानं नोत्पन्नमित्यत्र प्रमाणाभावाच्च । न च जीवैक्यस्य प्रमाणसिद्धत्वे संसारोपलम्भ एवातः पूर्वतत्वज्ञानानुदये प्रमाणमिति वाच्यम् । जीवैक्यस्यैव प्रामाणि-कत्वात् । वक्ष्यमाणरीत्या प्रमाणाभावनिश्चयोपपत्तेः ।। तत्ववित्वेनेति ।। न च महानुभावानां तेषां मोक्षसत्वेऽपि मम भविष्यति न वेति शङ्का भवत्पक्षेऽपि स्यादिति तुल्यमिति वाच्यम् । गुरूपदेशेन निश्चयोपपत्तेः ।
ननु जीवभेदे प्रमाणाभावात् बाधकसत्त्वाच्च कथं कस्यचिन्मुक्तिः कस्यचित्संसार इति स्वीकर्तव्यम् । जीवभेदप्रसङ्गात् । तस्मात् ज्ञानप्रशंसापराण्युदाहृतवाक्यानीत्यत आह ।। न हि प्रत्यक्षेणेति ।। न चोक्तवाक्यानां सार्वलौकिकभ्रमसिद्धभेदानुवादकत्वेनातत्परत्व-मिति वाच्यम् । भेदस्य भ्रमसिद्धत्वे वाक्यस्यातत्परत्वं, वाक्यस्यातत्परत्वे चैक-जीवसिद्धौ भेदस्य भ्रमसिद्धत्वमित्यन्योन्याश्रयात् । द्वयोः प्रणयन्तीत्यादिवाक्यवत् भेदवाक्यानामबाध्यभेदप्रापकत्वापत्तेश्च । मिथ्यात्वश्रुत्यादेरेव विज्ञानवादादिप्राप्त-मिथ्यात्वानुवादित्वापत्तेश्च । बहुप्रमाणसंवादस्य दार्ढ्यहेतुत्वाच्च । ऐक्यवाक्यस्यैवा-द्वैतिशास्त्रापादितभ्रमसिद्धजीवब्रह्मैक्यानुवादकत्वापत्तेश्चेति दिक् ।
न चातात्पर्यवद्वाक्यं तात्पर्यवद्वाक्यानुसारेण नेयमिति वाच्यम् । ऐक्यवाक्यस्य ऐक्ये तात्पर्यं, भेदवाक्यस्य न भेदे तात्पर्यमित्यस्यासिद्धेः । तात्पर्यज्ञापकस्य प्रकृतेऽपि सद्भावात् । यथा चैतत्तथा प्रागेवोक्तम् ।
ननु कथं भेदप्रतिपादकवाक्यस्य बाधकाभावः । ‘‘अनादिमायया सुप्तः’’ इत्येक-जीवप्रतिपादकं वाक्यमेव बाधकमित्यत आह ।। अनादिमाययेति ।। अत्रैकवचनं समुदायाभिप्रायत्वात्सावकाशत्वेन न तद्बाधकमिति भावः ।। अन्यथेति ।। एकजीव-प्रतिपादकत्व इत्यर्थः । इदमुपलक्षणम् । बद्धमुक्तादिव्यवस्था च न स्यादिति द्रष्टव्यम् । अत एव बद्धमुक्तादिव्यवस्थोपपत्तिमाशङ्क्य निषेधति ।। न चेति ।। अननुगमाच्चेति ।। अविद्यान्तःकरणमात्रसाधारणस्यैकस्योपाधेरनुगमकस्याभावादिति भावः ।
ननु हिरण्यगर्भमुक्तितः प्राक्कस्यापि मुक्तिर्नास्त्येव प्रमाणाभावात् । शुको मुक्त इत्यादिरर्थवाद एवेत्यत आह ।। अतीतेति ।। प्रमाणसिद्धस्याप्यतीतमुक्तस्यापलापे कापि वस्तुसिद्धिर्न स्यादिति भावः ।
नन्वतीतमुक्त्यङ्गीकारे संसारानुपलम्भबाधकस्य विद्यमानत्वात् न श्रुतिस्तत्परेत्यत आह ।। न चेति ।। अतीतानागताश्चेति ।। न चेयं श्रुतिरनुवाद इति वाच्यम् । उक्तलक्षणजीवानन्त्यस्य प्रमाणान्तराप्राप्तत्वात् । न चेयं श्रुतिरनानुभाविकार्थत्वाद-तत्परेति वाच्यम् । त्वत्पक्षे तस्य गुणत्वात् । उक्तमर्थं कारिकारूढं करोति ।। तस्मादिति ।। तथा च मिथ्यात्वे प्रमाणाभावान्न प्रपञ्चः आविद्यकः ।
न्यायामृतप्रकाशः
जीवस्यैकत्वादिति ।। तस्यैकस्य बद्धत्वावस्थायां न मुक्तोऽस्ति । तस्य च मुक्त-त्वावस्थायां न बद्धोऽस्ति । तथा च कश्चित् बद्धः कश्चित् मुक्त इत्येवं बद्धमुक्त-व्यवस्थाऽनेकजीववादिमत इव नास्तीत्यर्थः । ननु सर्वस्यैकजीवाज्ञानपरिकल्पितत्वे गुरु-शिष्यादिव्यवस्था न स्यादित्यत आह ।। गुरुशिष्यादीति ।। स्वप्नवदिति ।। यथा स्वप्ने कश्चित् गुरुः कश्चित् शिष्यः तस्य ततो व्याख्यानश्रवणं दृष्टं तद्वदिति भावः । निवृत्ताया-मविद्यायाम् । सा व्यवस्था ।। आन्ध्यम् अप्रतीतिः । तस्येति ।। कल्पकैकजीवस्येत्यर्थः । सुप्तौ सत्याम् । ममेति । प्रतिवादिनो ममेत्यर्थः । तवेति ।। कल्पकस्य ममैव मोक्षार्थे प्रवृत्तिः स्यात्, न परिदृश्यमाना त्वदीया प्रवृत्तिर्युक्तेत्यर्थः । वादिनस्तवैव । बोधार्थम्, अस्मदादीनां मिथ्यात्वबोधनार्थम् । तवेति ।। एते मदज्ञानपरिकल्पिता मिथ्याभूता इति जानतस्तव मां प्रति शब्दप्रयोगासम्भवेन तत्प्रयोगरूपक्रियया त्वत्कल्पितत्वरूपार्थस्य विरोधादित्यर्थः । परमार्थ इति व्यावहारिकीं दशामालम्ब्यैवोच्यते । अतः कल्पितत्वस्या-पारमार्थिकत्वेऽपि शब्दप्रयोगादेर्व्यावहारिकत्वात् न तत्र स्वक्रियाविरोधः । विरोधस्य व्यवहारदशायामदोषत्वादिति भावः । मूकोऽहमिति ।। तत्रापि व्यवहारदशायामेव मूकोऽह-मित्युक्ते स्वक्रियाविरोध उद्भाव्यते । तदानीं सोऽपि दोषो न स्यादित्यर्थः । न च स्वप्नेति ।। इदं वाक्यमेवं सम्प्रदायशुद्ध्या योज्यम् – स्वप्नपुरुषवत् स्वप्नदृष्टपुरुषवत् । त्वदिति पञ्चम्यन्तं पर्यनुयोज्य इत्यनेन सम्बध्यते । कल्पितत्वात् मत्कल्पितत्वात् । तवेति शेषः । अयमर्थः । स्वप्नद्रष्टारं प्रति स्वप्नकल्पितः पुरुषो जाग्रदवस्थायां समागत्य तव स्वक्रियाविरोधादिदोषः समायातीति पर्यनुयोगं न करोति । एवं च स्वप्नपुरुषकर्तृक-पर्यनुयोगविषयत्वं यथा स्वप्नद्रष्टुर्नास्ति एवमेव मत्कल्पितत्वात् त्वत्तोऽहं न पर्यनुयोज्यः, तव स्वक्रियाविरोधः इत्येवमादिरूपेण त्वत्कर्तृकविचारापरपर्यायपर्यनुयोग विषयत्वं मम नास्तीति, त्वया शङ्का न कार्येति । एवमयोजने मायावादिना स्वस्य भेदवादिकल्पितत्वा-नङ्गीकारात् ‘त्वत्कल्पितत्वात्’ इत्येतदयुक्तं स्यात् । निर्मर्यादतयेति ।। वादिप्रतिवादि-गुरुशिष्यादिमर्यादाभावप्राप्त्येत्यर्थः । कथेति ।। केनचित् त्वयि कथायामाकारिते सति त्वयाऽहं कथार्थं नाकरणीयः । तव मदज्ञानकल्पितत्वात् इत्युक्त्वा कृती स्यादित्यर्थः । सजीवशरीरे कल्पकैकजीवशरीरे । अन्यत्रापि त्वत्कल्पिततयोच्यमाने शरीरसमुदाये । जीवात्मानुभवाच्चेति ।। जीवात्मसद्भावानुभवाच्चेत्यर्थः । अहं दुःखीत्याद्यनुभवो वस्तुतो य एको जीवस्तस्यैव युक्तो नान्यस्येति तदन्यथाऽनुपपत्त्याऽनेकेषु अनेके जीवा अङ्गीकार्या इति योज्यम् । तेषामिति ।। निर्जीवशरीराणां यः कल्पको एको जीवः तस्य ‘अयं निर्जीवो देहो दुःखी’ इति भ्रान्तिर्भवतीति वक्तव्यम् । तथा च निर्जीवशरीराणां कल्पक-जीवकर्तृका या उक्तदुःखीत्यादिरूपा भ्रान्तिः तद्विषयत्वेऽपि ‘अहं दुःखी’ इत्यादिभ्रान्त्या-धारताऽयोगादित्यर्थः । तथा भ्राम्यन्तीति ।। अहं दुःखीत्यादिरूपेण भ्रान्त्याधारत्वं नास्ति । किन्तु एतानि शरीराणि दुःखीनीत्येवं स्वप्नदृष्टपुरुषकर्तृकभ्रान्तिविषयत्वमेव दृष्टमित्यर्थः ।
ननु कल्पकशरीरव्यतिरिक्तशरीराणां निर्जीवत्वेऽपि चिन्मात्रस्यापरिच्छिन्नस्य सर्वत्र सत्त्वात् तत्रत्यस्य चिन्मात्रस्यैवाहं दुःखीत्यादिभ्रान्त्याधारत्वं युक्तमित्याशङ्क्य निषेधति ।। न चेति ।। चिन्मात्रस्यैवेति ।। यथा मुखप्रतिमुखानुस्यूतं मुखमात्रं किञ्चिदस्ति तद्वत् जीवब्रह्मानुस्यूतं चिन्मात्रमस्त्येवेत्यर्थः । कुतो न युक्तमित्यत आह ।। प्रतिबिम्बादीति ।। केषाञ्चित् मते जीवब्रह्मणोर्बिम्बप्रतिबिम्बभावः केषाञ्चित् भास्करादीनां मते अंशांशि-भावोऽस्ति तदभिप्रायेणादिपदम् । जीव एवेति ।। न चिन्मात्र इत्येवार्थः । उपाधेः प्रतिबिम्बपक्षपातित्वादिति भावः । तथा च त्वन्मते तत्र जीवान्तराभावात् ‘अहं दुःखी’ इत्यादिभ्रान्त्याधारत्वं न युक्तमिति ।। कौन्तेयस्येति ।। यथा कुन्तीतनयस्यैव कर्णस्य राधेयत्वं, न त्वन्यस्येत्यर्थः । तच्चेति ।। जीवत्वापन्नं ब्रह्मेत्यर्थः । तथा च तस्य युक्तम् अहं दुःखीत्यादिभ्रान्त्याधारत्वमित्यर्थः ।। कथं तर्हीति ।। जीवत्वापन्नब्रह्मण एव सर्वशरीरगतत्व इत्यर्थः । किं च ब्रह्मण एव जीवत्वे नित्यमुक्तत्वश्रुतिविरोधः स्यात् । न हि कौन्तेयस्यैव राधेयत्वेऽतिरिक्तः कौन्तेयोऽस्ति । अतो ब्रह्मण्येव दुःखादिसंसारप्राप्तिः ।
ननु पारमार्थिकदुःखादिसंसारास्पृष्टचैतन्याभावे खलु नित्यमुक्तत्वश्रुतिविरोधः । न चैव-मुच्यते । किं तु पारमार्थिकसंसारास्पृष्टमेव चैतन्यं कल्पितसंसारोपस्पृष्टमिति । न हि आरोपितेन नीलिम्ना गगनस्य नीरूपत्वमपैति इति चेत्तत्राह ।। वक्ष्यते चेति ।। सत्यं संसारस्य कल्पितत्वेन वस्तुतस्तस्य संसाराभावात् नित्यमुक्तत्वश्रुतिविरोधो नास्तीति । तथाऽपि त्वन्मतेऽकल्पितसंसाराप्रसिद्ध्या कल्पितेनैव संसारेण संसारित्वे वाच्ये नित्य-मुक्तत्वश्रुतिविरोध एवेति वक्ष्यत इत्यर्थः । किं च प्रतिशरीरम् ‘अहं दुःखी’ इत्यादि-भ्रान्त्याधारत्वं तावत् प्रतीयते । तत् कस्येति वाच्यम् । किं कल्पकजीवेन कल्पितं यत् जीवान्तरं तस्य वा? अन्यस्य कस्यचिद् वा? नाद्य इत्याह ।। नापीति ।। कुतो नेत्यत आह । कल्पितस्येति ।। कल्पितस्यैव भ्रान्त्याधारत्वे बाधकमाह ।। अन्यथेति ।। भ्रान्त्याधाराणामेव सम्यज्ज्ञानमोक्षप्राप्तौ एकस्यैव जीवस्य सम्यज्ज्ञानादिकमित्यस्य भङ्गेन बहुजीववादापत्तिरित्यर्थः । कल्पितस्येति ।। कल्पिताः जीवाः कल्पकमेकजीवं प्रति पराक्त्वेनैव भासन्ते, न प्रत्यक्त्वेनेत्यविवादम् । तेषां च ‘अहं दुःखी’ इत्यनुसन्धातृत्वे ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः’ इत्युक्तत्वात् अहमित्यनुसन्धातृत्वरूप-जीवत्वापरपर्यायप्रत्यक्त्वं प्राप्तम् । न च तत् सम्भवति । तदा सम्भवेत् यदि कल्पक-कल्पितयोरैक्यं स्यात् । न चैवमङ्गीकृतमिति भावः ।
ननु कल्पितजीवानां वास्तवप्रत्यक्त्वाभावेऽपि कल्पकेनारोपितं प्रत्यक्त्वमस्तीति चेत् तत्राह प्रत्यक्त्वेनेति ।। पराक्त्वेनेत्यर्थः । तथा विशेषदर्शनसद्भावान्नारोपो युक्त इति भावः । नापि द्वितीय इत्याह ।। अन्यस्येति ।। कल्पकजीवतत्कल्पितजीवान्तरान्य-स्येत्यर्थः । स्यादिदं विकल्प्य दूषणं यदि ‘अहं दुःखी’ इत्यादिभ्रान्तिरेव कल्पकजीव-कल्पितव्यतिरिक्तानामनुभवसिद्धा स्यात् । न चैवमिति चेत् तत्राह ।। तथानुभवेति ।। तस्यापीति ।। कल्पकस्येत्यर्थः । कल्पकजीवो वा औतश्रुतिर्वा न स्यादित्यापादितेऽह-मिति तदीयानुभवेनैव तत्सिद्धिर्वाच्या । तथाऽद्वैतश्रुतेस्तदनुभवसिद्धत्वात् तत्सिद्धिरिति वाच्यम् । अनुभवापलापे तदपि न स्यादित्यर्थः । कुतस्तत्र नोक्तदोष इत्यत आह ।। तस्येति ।। एकस्यैव जीवस्येत्यर्थः । ‘अहं दुःखी’ इत्यादिभ्रान्त्याधारत्वप्रत्यक्त्वादिकं सर्वमपि सम्भवतीति भावः ।
ननु सर्वशरीरगतजीवानां व्यावहारिकभेदसद्भावान्नानुसन्धानापत्तिरित्यत उक्तम् । अननुसन्धाने तन्त्रस्येति ।। न ह्यनेकशरीरेषु मणिषु सूत्रमिवानुस्यूतस्य योगिनो व्यावहारिक भेदोऽप्यस्तीति भावः । जीवस्यैकस्यैव सर्वशरीरस्थत्वे शुकादिदेहस्थस्य तत्त्वज्ञानमोक्षौ, देवदत्तदेहस्थस्य न तौ इत्येवं बन्धमोक्षयोर्व्यवस्था याऽस्ति सा न स्यात् । तस्यैकस्यैव जीवस्य बद्धत्वावस्थायामेव मुक्तत्वं मुक्तत्वावस्थायामेव बद्धत्वमित्येवं बन्ध-मोक्षयोः सांकर्यं च स्यात् । औपाधिकभेदाङ्गीकारादिना व्यवस्थां तूत्तरत्र विकरिष्याम इत्याशयेनाह । तस्येति ।। तस्यैवेति ।। जीवानां प्रत्यक्पराक्भावस्तावदनुभूयते । एकस्यैव सर्वशरीरस्थत्वे स्वं प्रत्येव स्वस्य प्रत्यक्त्वपराक्त्वयोः प्राप्तौ मैत्रं प्रति त्वमिति धीविषयस्य चेत्रस्य मैत्रं प्रत्येवाहमिति धीविषयत्वापातात् । न चैवमस्तीत्यर्थः ।
।। अनेकेष्विति ।। श्रुतिषु बहुवचनसद्भावात् त्वन्मते चेतनस्यैकत्वादिति भावः । ननु चेतनेषु व्यावहारिकबहुत्वसद्भावादुक्तदूषणानवकाश इत्यत आह ।। न हीति ।। अनेकमण्यनुस्यूतसूत्रवत् योगिवद् वा तस्यैकत्वेन तद्व्यावहारिकभेदस्यापि बाधादिति भावः । ननु मुक्तादीनां बहुत्वस्य प्रमाणान्तरप्राप्तत्वात् तदनुवादकानां ‘परिमुच्यन्ति सर्वे’ इत्यादीनां न स्वार्थे प्रामाण्यमिति चेत् तत्राह ।। न चेति ।। किं चेति ।। ईश्वरादिसर्वकल्पकत्वे तस्यैव सर्वप्रपञ्चकारणत्वप्राप्तेरिति भावः । ननु चिन्मात्रस्यैव सर्वज्ञत्वात् श्रुतेर्न निर्विषयत्व- मित्यत उक्तम् ।। चिन्मात्रेति ।। नन्वीश्वरस्यैव सर्वज्ञत्वात् श्रुतेर्न निर्विषयत्वम् । न चेश्वरस्य जीवेन कल्पितत्वात् तदयोग इति वाच्यम् । अयमीश्वरः सर्वज्ञः इत्येव जीवेन कल्पितत्वादिति चेन्न । तथात्वे ‘अयं सर्वज्ञः’ इति जीवेनेश्वरस्य कल्पिततया यथा कल्पितस्तथैव श्रुत्यादौ प्रयोगः स्यात् । तथा च ‘अयं सर्वज्ञः’ इत्येवं श्रुत्यादौ प्रयोगप्रसङ्गेन ‘तान्यहं वेद’ इत्यादिप्रयोगायोगः । कल्पितस्य तस्य ‘अहं सर्वज्ञः’ इति ज्ञातृत्वाभावादित्याह ।। ईश्वरस्य चेति ।।
ननु जीवस्यैव सर्वज्ञत्वादिश्रुतिविषयत्वमस्त्वित्यत आह ।। जीवस्य चेति ।। ननु चेश्वर एव सार्वज्ञादिश्रुतिविषयः ‘अहं सर्वज्ञ इति ज्ञातृत्ववानास्तां’ इत्येवेश्वरस्य जीवेन कल्पितत्वेनोक्तदोषाभावादित्यस्वरसादाह ।। अपि चेति ।। आचार्यवान् आचार्योपदेश-वान् । न चान्य इति ।। यस्तस्योपदेष्टा स्यात् । अतस्तस्य तत्त्वज्ञानाभावेन मोक्षाभावः स्यादित्यर्थः । स्वप्न इति ।। यथा स्वप्ने गुर्वादिः कश्चित् कल्पितो दृश्यते तद्वदिहा-पीत्यर्थः । त्वन्मते कल्पको जीवः शुकवैशंपायनाद्या एव शास्त्रप्रणेतारो वाच्याः । तथा च तत्वविद् गुरुश्शुकाय मह्यमद्वैतमुपदिशतीति भ्रान्तिर्वाच्या । तथा च कल्पितगुरूपदेशात् प्रागेव तादृशभ्रान्तेर्जातत्वेनोपदेशकर्मतयाऽद्वैतस्यापि ज्ञातत्वात् तदैव मोक्षः स्यादित्याह । तत्त्वविदिति ।। ननु तत्वविशेषविद् गुरुः शुकाय मह्यमद्वैतमुपदिशतीति कल्प्यते । तथा च तत्वविशेषस्याज्ञातत्वात् न तदैव मोक्ष इत्यत आह ।। तत्त्वविशेषविदिति ।। तत्त्वस्य तत्त्वविशेषस्य । अन्यथा तद्वित्त्वेन तत्कल्पनासम्भवादिति भावः । गुरोरिति ।। कल्पको जीव एक एव सत्यः । अन्यत् सर्वं गुर्वादिकं तदज्ञानकल्पितमित्यस्यैव तत्वत्वादिति भावः । ननु यथा स्वप्ने तत्त्वविशेषवित्त्वेन गुरुं प्रकल्प्य ततः श्रवणादिकं क्रियामाणं दृष्टं तद्वदिहापि उपपद्यत इति चेत् तत्राह । स्वप्ने त्विति ।। उपदेशेति ।। शब्दविशेषेत्यर्थः । ननु तर्ह्यत्रापि शब्दविशेषवक्तृत्वेनैव गुरुकल्पना । न तु तत्साध्यज्ञानविषयार्थविशेषवित्वे-नेत्याशङ्क्य निषेधति । न चेति ।। कुतो न चेत्यत आह ।। यदेवेति ।। यत् तत्वम् । ज्ञानं, ज्ञायत इति व्युत्पत्त्या तत्त्वम् । तथा चार्थविशेषवित्त्वेन कल्पितगुरोः सकाशादेव श्रवणाद्युक्तेरुपदेशवैयर्थ्यादिकं स्यादेवेति भावः । भावि तत्त्वज्ञानं यस्येति विग्रहः । चेतनं प्रत्येवेति ।। अन्यस्य कल्पितत्वेन विधिविषयत्वाभावादिति भावः ।
ननु यथा स्वप्ने स्वाज्ञानकल्पितं कञ्चित् शिष्यं प्रति तन्मोक्षार्थं व्याख्याने प्रवृत्तिः तद्वदिहाप्यस्त्वित्यत ‘स्वप्ने तु कल्पितत्वाज्ञानादेव यतते’ इति भगवत्पादवाक्यं मनसि निधायाह ।। स्वप्ने त्विति ।। ननु कल्पितत्वापरोक्षज्ञानस्यैव प्रवृत्तिप्रतिबन्धकत्वात् शिष्यादौ कल्पितत्वापरोक्षज्ञानाभावात् मोक्षार्थं प्रवचने प्रवृत्तिर्युक्तेति चेत् तत्राह ।। न चेति ।। अपरोक्षेति ।। कल्पितत्वापरोक्षेत्यर्थः । दिङ्मोहादाविति ।। यथा प्राचीं गन्तुकामं प्रति नेयं प्राचीत्युक्ते दिङ्मोहेन प्रवृत्तिः प्रतिबध्यते । एवं च परोक्षज्ञानस्यापि प्रवृत्तिप्रतिबन्धकताया दिङ्मोहादौ दर्शनात् प्रकृते शिष्यादौ कल्पितत्वपरोक्षज्ञानसद्भावात् तन्मोक्षार्थं प्रवचने प्रवृत्तिर्न युक्तेति भावः । ननु सत्यपि तत्त्वज्ञाने मिथ्याज्ञानाहित-संस्कारवशात् जीवन्मुक्ते भिक्षाटनादिप्रवृत्तिः, एवं शिष्ये कल्पितत्वगोचरतत्त्वज्ञानसद्भावेऽपि संस्कारवशादेव प्रवचने प्रवृत्तिः । वेगादिसंस्कारस्य बलात् शरादिप्रवर्तकत्वदर्शनादित्या-शङ्क्य निराकरोति ।। न चेति ।। कुतो न चेत्यत आह ।। न हीति ।। तत्वेति ।। मिथ्याज्ञानाहितसंस्कारः कल्पितत्वाद्वैतादिरूपतत्वनिश्चयप्रतिबन्धनद्वारैव प्रवर्तक इत्यर्थः । भिक्षेति ।। संस्कारेण तत्वनिश्चयप्रतिबन्धादिति भावः । औतमिति ।। कल्पितत्व-निश्चयाप्रतिबन्धेन शिष्यादेः कल्पितत्वाद्यनुसन्धानसद्भावेऽद्वैतबोधनमेवानुपपन्नमिति भावः ।
ननु यथा स्वप्ने शिष्यं बोधयति तत्र शिष्यस्याज्ञानपरिकल्पितत्वं जानता ‘तं प्रति मोक्षार्थं प्रवचनादिकं न युज्यते’ इति स्वान्येन गुरुर्न पर्यनुयुज्यते, तस्य कल्पितत्वात् । तथा जाग्रद्गुरोरपि कल्पितत्वात्, शिष्यमोक्षार्थं प्रवचनप्रवृत्तिर्न युक्तेति न पर्यनुयोज्य इत्या-शङ्क्य निषेधति ।। न चेति ।। कुतो न चेत्यत आह ।। कल्पकस्यैवेति ।। न जाग्रद्गुरोः स्वाप्नगुरुतुल्यत्वं वाच्यम् । स्वप्नगुरोः कल्पितत्वात् । न चायमपि गुरुः कल्पको न, कल्पित इति वाच्यम् । स्वाध्यायप्रवचनविध्यादि तत्वज्ञानयोग्यं कल्पकं चेतनं प्रत्येव । अन्यस्य कल्पितत्वेन विधिविषयत्वाभावात् इत्येवं स्वाध्यायप्रवचनविधिविषयस्य कल्पकस्य वास्तवजीवस्यैव गुरुत्वेन तस्याकल्पितत्वात् स पर्यनुयोज्य एवेत्यर्थः । अस्तु वा स्वाप्नगुरुवत् कल्पितत्वं जाग्रद्गुरोः तथाऽपि पर्यनुयोज्यत्वं युक्तमेवेत्याह ।। कल्पित-त्वेऽपीति ।। यदि कल्पितत्वमपर्यनुयोज्यत्वे तन्त्रं स्यात् तर्हि वेदस्यापि कल्पकेन कल्पितत्वात् स्वप्नवदुपक्रमादिमीमांस्यत्वं न स्यात् । न चेष्टापत्तिः । तत्वज्ञानहेतु-त्वाङ्गीकारात् । एवं च वेदस्य कल्पितत्वेऽपि तत्वज्ञानहेतुत्वेन स्वाप्नवेदवैलक्षण्यात् मीमांस्यत्वमस्ति एवं गुरोः कल्पितत्वेऽपि तत्वज्ञानहेतुत्वेन स्वाप्नगुरुवैलक्षण्यात् स पर्यनुयोज्य एवेत्यर्थः । अन्यथेति ।। कल्पितत्वस्यापर्यनुयोज्यत्वप्रयोजकत्व इत्यर्थः । उत्तरं स्यात् उत्तरं दत्त्वा कृती स्यात् । व्यवस्थेति ।। गुरुशिष्यादिव्यवस्थेत्यर्थः । एते-नेत्युक्तं विशदयति ।। इहेति ।। एक एव जीवः सर्वशरीरस्थित इति पक्षे प्रवचन-विधिविषयत्वेन तस्यैव गुरुत्वं तस्यैव सर्वशरीरेषु सत्वात् शिष्यत्वं चेति स्वप्नवैषम्यात् । न हि स्वप्ने तस्यैव गुरुत्वं शिष्यत्वं च दृष्टम् । अतो न व्यवस्था युक्तेति भावः । संशया-दीत्यादिपदेन विपर्ययग्रहणम् । शास्त्रेति ।। शास्त्रप्रणयनस्य तत्त्वनिश्चयद्वारा संशयादि-परिहारार्थत्वादिति भावः । प्रमामूलमिति ।। औतशास्त्रप्रणेतरि कल्पके जीवे तन्मूलाद्वैत-प्रमारूपनिश्चयस्याभावादित्यर्थः । एवं च तस्याप्रामाण्यं स्यादिति भावः । सः कल्पको जीवः । प्रवृत्तीति ।। अस्माकं वास्तवजीवत्वाभावे अस्मत्प्रवृत्तेर्बह्वायाससाध्याया वैय्यर्थ्य-मेव स्यादिति शङ्कया कस्यापि प्रवृत्त्ययोगादित्यर्थः । अभिसन्धीति ।। अस्माकं मोक्षो भूयादित्येवं मोक्षाभिसन्धिपूर्वककल्पकजीवप्रवृत्तिः । न चामुक इत्यनिश्चिते बह्वायाससाध्य-मोक्षार्थं प्रवृत्ययोगादित्युक्तमिति वाच्यम् । अभिसन्धिपूर्विकाया अपि प्रवृत्तेः कल्पितत्वेन विचारानर्हत्वादित्यर्थः । कथास्विति ।। कथासु प्राप्तस्य स्वक्रियाविरोधादेरपि कल्पि-तत्वेनापर्यनुयोज्यत्वादिति भावः । त्वयेति ।। अमुकः कल्पक इति निश्चयपक्षेऽद्वैत-ज्ञानित्वेन निश्चितेषु सम्भावितेषु गौडपादादिषु शास्त्रप्रेणेतृषु मध्ये कश्चिदिति वाच्यम् । तन्न सम्भवति । कल्पकत्वेन सम्भावितेषु तेषु मृतेष्वपि विश्वभ्रमानुवृत्तिदर्शनेन विश्वकल्पकोऽमुक इति निश्चयो न सम्भवतीत्यर्थः । विश्वकल्पको जीवोऽमुक इति निश्चयः सम्भव-त्येवेत्याशङ्कते ।
नन्विति ।। स कल्पकः किं गुरुः शिष्यो वेत्यादि विकल्पयितृभिः तत्ववादि-भिरित्यर्थः । क्रोडीकृतं देहादिविशिष्टम् । अकल्पकत्वादिति ।। मया कल्पकत्वानङ्गी-कारादित्यर्थः । तस्येति ।। निरस्तसमस्तभेदस्य चैतन्यस्येत्यर्थः । एकत्वेऽपीति ।। एवं निश्चयस्योपपन्नत्वे इत्यर्थः । मुखमात्रेति ।। यथा मुखप्रतिमुखानुस्यूतं मुखमात्रं तद्वत् अल्पज्ञत्वादिसर्वज्ञत्वादिविशिष्टबिम्बप्रतिबिम्बजीवब्रह्मानुस्यूतं चिन्मात्रमिति त्वयाऽङ्गीकारा-दिति भावः । असंसारित्वादिति ।। संसारिणो जीवस्यैव कल्पकत्वाङ्गीकारादिति भावः । तस्येति ।। चैतन्यस्य कल्पकत्वे कल्पकस्यैव मोक्षार्थं प्रवृत्तेर्वक्तव्यत्वात् चिन्मात्रस्य च नित्यमुक्तत्वेन तस्य मोक्षार्थं प्रवृत्त्ययोगादित्यर्थः ।
ननु मास्तु चैतन्यस्य कल्पकत्वम् । किं नाम संसारिणां मध्ये एव कश्चन सत्यः संसारी स एव कल्पको भविष्यतीत्याशङ्कायामाह ।। कल्पकानां चेति ।। कल्पकत्वेन सम्भावितानाम् औतज्ञानित्वेन त्वत्संमतानां गौडपादादीनामित्यर्थः । मुमुक्ष्विति ।। बाह्वायाससाध्यमोक्षार्थं प्रवृत्तेः सर्वेषामप्ययोगादित्यर्थः । कुतो न स्यादित्यत आह ।। जीवान्तरेति ।। एकजीववादिनः तव मते एकस्य तत्वज्ञानेन मुक्तौ तत्वज्ञानेन जगतो निवृत्तत्वात् जीवान्तरस्याभावात् कस्येदानीं संसारोपालम्भः स्यादित्यर्थः ।
ननु तत्त्ववित्त्वेन कश्चित् गुरुः कल्पकजीवेन कल्पितः तत्सम्प्रदायेन तत्वज्ञानो-पपत्तिरित्यत आह ।। तत्त्ववित्त्वेनेति ।। निरासादिति ।। गुरोः स्वकल्पिततया निश्चयेन ततः श्रवणार्थं प्रवृत्तिर्न स्यादित्त्यादिदूषणेन निरासादित्यर्थः । अस्मद्रीत्याऽऽह ।। श्रुत्यादीति ।। परीक्षिज्जनमेजयादीन् प्रति शुकवैशंपायनादेरुपदेष्टृत्वेन तत्त्ववित्त्वस्य श्रुत्यादिसिद्धत्वादित्यर्थः । पररीत्याऽऽह त्वदिति ।। तत्त्ववित्त्वेनेति वर्तते । अभूता अजाता । ज्ञाततत्त्वतज्ज्ञानेन संसारस्यानिवृत्तत्वात् इदानीं संसारोपलम्भो न स्यादि-त्युक्तमिति भावः । मोक्षशास्त्रेति ।। तरति शोकमात्मविदिति मोक्षशास्त्रप्रामाण्यान्यथाऽनु-पपत्त्या पूर्वेषामभूताऽपि मुक्तिरन्यस्य भविष्यतीति कल्पनीयमेव । अन्यथा तदप्रामाण्या-पत्तेरिति भावः । तथा च पूर्वेषां ज्ञानेन मुक्तावपि जगतोऽनिवृत्तेरत्रापि कस्यचित् तत्त्वज्ञानेन मुक्तावपि संसारानिवृत्त्या तस्य सत्यत्वमेव स्यादिति भावः ।
ननु कश्चित् मुक्तोऽभूत् । उत्तरत्रापि केषाञ्चित् मुक्तिरित्यङ्गीकारे बहुजीववाद आपाद्यत इति चेन्न । इष्टापत्तेः । जीवबहुत्त्वस्य प्रत्यक्षेण परस्य सुखदुःखाद्यननुसन्धानरूपलिङ्गेन ‘चेतनः चेतनानाम्’ इत्यादिश्रुत्या च सिद्धत्वादिति वदन् स चैको जीवो ब्रह्माभिन्न एव । तस्य चैकस्य जीवस्य ब्रह्माभेदाभिव्यक्तिरेव मुक्तिरिति यत्पराभिप्रेतं तदपि दूषयति ।। न हीति ।। ‘चेतनश्चेतनानाम्’ इत्यादिविशिष्योक्त्येशस्य जीवेभ्यो भेदसिद्धिः । ‘साधर्म्य-मागताः’ इति मुक्तेभ्योऽपि भेदसिद्धिरिति द्रष्टव्यम् । जीवेशभेद इति जीवानां भेदो, जीवानाम् ईश्वरात् भेद इति योज्यम् । यद्वा यदि शास्त्रे श्रद्धा तर्हि श्रुत्यादिप्रामाण्यात् पूर्वमपि केषाञ्चित् मुक्तिः स्यादित्युक्तम् । तदुपलक्षणम् । श्रुत्यादिप्रामाण्यात् जीवबहुत्वं, जीवेश्वरभेदश्चाङ्गीकार्य इति योज्यम् । नन्विदमयुक्तम् । अप्रामाणिकत्वात्, बाधकसद्भावा-च्चेत्याकारकशङ्कायामाह ।। न हीति ।। नन्वेकजीववाद एवाङ्गीकार्यः । ‘अनादिमायया’ इति श्रुतौ ‘जीवः’ इत्येकवचनप्रयोगादित्यत आह ।। अनादीति ।। इत्यादिवच्चेति ।। न हि लोके एक एव राजा, स्वर्गकामो वा । तथा चैकवचनं तत्र यथा समुदायापेक्षम्, एवं जीव इत्येकवचनमपि समुदायापेक्षमिति भावः । अन्यथेति ।। एकजीवाद एवैक-वचनश्रुत्यभिप्रायश्चेदित्यर्थः । पूर्वेणेति ।। ‘अनादिमायया’ इत्यपेक्षया पूर्ववाक्येनेत्यर्थः । भेदेनेति ।। बहुवचनप्रयोगादिति भावः । नन्वेकजीववाद एकाङ्गीकार्यः । जीवत्वोपाधेर-विद्याया एकत्वात् । न च बहुमुक्तव्यवस्थाऽनुपपत्तिः जीवबहुत्वप्रतिपादकप्रमाणविरोधश्चेति वाच्यम् । अविद्याया एकत्वेन तदुपहितजीवस्यैकत्वात् । तस्यैव पुनर्नानान्तःकरणोपाधि-सम्बन्धप्रयुक्तभेदस्याप्यङ्गीकारेणान्तःकरणोपाधिसम्बन्धे बद्धः, स उपाधिः यस्य निवृत्तः स मुक्त इत्येवं बद्धमुक्तादिव्यवस्थोपपत्तेरित्याशङ्क्य निषेधति ।। न चेति ।। जीवभेदेऽन्तः-करणमपि तन्त्रम्? न वा? आद्येऽपि अविद्यासमुच्चितं तन्त्रम्? उत प्रत्येकम्? इति विकल्प्याद्यं दूषयति ।। जीवभाव इति ।। अविद्याया एकत्वेऽप्यन्तःकरणभेदप्रयुक्त-भेदस्यापि सत्त्वादिति भावः । द्वितीयं दूषयति ।। अननुगमाच्चेति ।। अविद्यान्तः-करणयोर्द्वयोरपि स्वातन्त्र्येण जीवत्वोपाधित्वेऽनुगमकधर्माभावेनाननुगमादिति भावः । तदन्यतरत्वं चाभावरूपत्वात् गुरुभूतमित्युपेक्ष्यम् । जीवत्वेऽन्तःकरणरूपोपाधेरतन्त्रत्वरूप तृतीयपक्षे त्वाह ।। अतन्त्रत्व इति ।। अन्तःकरणस्य जीवत्वोपाधित्वे तन्निवृत्त्या जीवत्वनिवृत्तौ मुक्तत्वापत्त्या बद्धमुक्तव्यवस्थोपपद्यते ।। तस्यातन्त्रत्वे तु देहेन्द्रियादिभेदस्य जीवत्वोपाधित्वाभावात् तन्निवृत्तौ जीवत्वानिवृत्त्या मुक्तत्वाभावः । एवमन्तःकरणनिवृत्तावपि जीवत्वानिवृत्त्या मुक्तत्वाभावेनोक्तव्यवस्थाया अयोगादित्यर्थः । तत्प्रतिबिम्बभूताः हिरण्यगर्भप्रतिबिम्बभूताः । कस्यापि तदाभासस्य जीवस्य ।। न हि बिम्बस्य मुक्त्यभावे प्रतिबिम्बमुक्तिर्युक्तेति भावः ।। श्रुत्यादीति ।। ‘‘ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां’’ इति श्रुत्यादीत्यर्थः । संसारीति ।। संसारिभूतहिरण्यगर्भेत्यर्थः । सादीति ।। सादिर्यो हिरण्यगर्भः तत्प्रतिबिम्बभूताः ये रुद्रादिजीवाः तत्स्थसंसारस्य सादित्वं स्यात् । स्वबिम्बस्य हिरण्यगर्भस्य सादित्वादिति भावः । हिरण्यगर्भसादित्वं च ‘यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः’ इत्यादिप्रमाणसिद्धमिति मन्तव्यम् । बहुजीववादे बद्धमुक्त-व्यवस्थाऽभावमाशङ्क्य निषेधति । न चेति ।। एकैकस्य मुक्तावपीति ।। किमु एकस्मिन् कल्पे हिरण्यगर्भादिबहुजीवमुक्त्यङ्गीकार इत्यर्थः । न स्यादिति ।। तथा च बद्धमुक्त-व्यवस्थायाः भवत्पक्षेऽप्यसिद्धिरिति भावः । न स्यादिति बाधकं कुतो नेति चेत् कल्पानन्त्यात् क्षणानन्त्य इव क्षणानन्त्यादपि जीवानन्त्येऽतिशयाङ्गीकारेणैकैकस्मिन् क्षणे एकैकमुक्तौ न सर्वसमाप्तिः । किमु प्रतिकल्पं केषाञ्चिन्मुक्तौ । अतो न बद्धमुक्तव्यवस्थाया अयोगः इत्युत्तरमादौ वक्तव्यम् । एतदप्रामाणिकमिति चेत् तत्राह ।। कल्पानन्त्यादिति ।
उक्तं सङ्गृह्णाति ।। तस्मादिति ।। शब्देत्यादि ।। ‘न हि सुखदुःखाद्यनुसन्धानाननुसन्धानादि- लिङ्गेन’ इत्याद्युक्तप्रकारेणेत्यर्थः । तदप्रामाणतायां शब्दादेरप्रमाणतायाम् । ‘अनादिमायया’ इत्यादिश्रुत्यादिभिः कल्पकजीवसिद्धिर्वाच्या । शब्दादेरप्रामाण्ये एतद्वाक्यात् तज्जीवसिद्धिरपि न स्यादित्यर्थः । उत्तरप्रबन्धोपक्षेपं कुर्वन् एकजीवाज्ञानकल्पितत्वनिराकरणमुपसंहरति ।। तस्मादिति ।। इति एकजीवाज्ञानकल्पितत्वभङ्गविवरणम् ।
न्यायकल्पलता
बद्धमुक्तगुरुशिष्यादिव्यवस्थायाः स्वप्नवद्यावदविद्यमुपपत्तिरित्येकजीववादिमतमनूद्य दूषयति ।। यच्चेति ।। तस्मिन्निति ।। आन्ध्यं अप्रतीतिः । ननु समष्ट्यभिमानिनो मुख्यजीवस्य हिरण्यगर्भस्यासुप्तत्वान्न जगदान्ध्यम् । तस्मिंस्तु लयकाले सुप्ते जगदप्रतीति-रिष्टैव । अन्तःकरणवच्छिन्ने जीवाभासे सुप्ते तमेव प्रति जगदप्रतीतिः । न त्वन्यानपि प्रति । तदुपाधीनामप्रलीनत्वात् । मैवम् । अन्तःकरणावच्छिन्नानां जीवाभासानां चित्त्वे नानाजीववादापत्तेः । अचित्त्वे जगदान्ध्यापातात् । अतीतहिरण्यगर्भमुक्तेः प्रमाण-सिद्धत्वेनेदानीं संसार्युपलम्भायोगादिति वक्ष्यमाणत्वाच्च ।। दृष्टिसृष्टीति ।। कारणात्मनाऽपि संसारावस्थानायोगास्योक्तत्वादित्यर्थः ।। तवेति ।। कल्पितस्याचिद्रूपत्वादित्यर्थः ।। अस्मदादीति ।। शिष्यप्रतिवादिबोधार्थमित्यर्थः । शङ्कते ।। परमार्थत इति ।। उक्तदोषान्न मुक्तोऽस्तीत्याह ।। व्यवहारत इति ।। स्वाप्नेति ।। स्वप्नदृष्टृपुरुषवदित्यर्थः । एतेन चैत्रमैत्रादिसर्वाभिमानिनो जीवस्य हिरण्यगर्भस्य कल्पकत्वेन तव ममेत्यादिकल्पना तु न युक्तेति निरस्तम् ।। सजीवेति ।। त्वदभिमतेति शेषः ।। तेषामिति ।। चेतना-नधिष्ठितानाम् ।। न चेयं धीरिति ।। जीवस्यानुसन्धानाभावे निर्विशेषचितः सुतरां तदयुक्तमिति दूषणे सत्येव दूषणान्तरमाह ।। प्रतिबिम्बेति ।। न शरीरान्तराणां निर्जीवत्व-मविद्यावच्छिन्नस्य ब्रह्मण एव सर्वशरीरानुस्यूतत्वादिति शङ्कते ।। नन्विति ।। व्याहत्या दूषयति ।। कथमिति ।। वैय्यधिकरण्येन विरोधो दुरुद्धर इत्याह ।। नापीय-मिति ।। कल्पितस्येति ।। अहमिति प्रतीतिविषयत्वायोगादित्यर्थः । दोषमुद्दिधीर्षुः शङ्कते ।। ननु चेति ।। अनुसन्धानापातादिति ।। ननु भिन्नभिन्नान्तःकरणभेदाध्यासेन तदन्तः-करणमादाय प्रत्यक्त्वपराक्त्वमहमित्यादिबुद्धिविषयत्वं सुखाद्यनुसन्धानाननुसन्धानादिकं चोपपन्नमिति । मैवम् । बन्धमोक्षतत्वज्ञानावच्छेदकानामन्तःकरणादीनां भेदे नानाजीव-वादापातात् । तदभेदे तु दुःखाद्यनुसन्धानप्रत्यक्त्वाद्यनुपपत्तेर्दुष्परिहरणीयत्वात् । वक्ष्यते चैतत् जीवभेदप्रस्तावे ।
जीवबहुत्वप्रतिपादकश्रुतिविरोधमप्याह ।। किञ्चेति ।। वेदान्तेति ।। ‘‘वेदन्तविज्ञान-सुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले परामृता-त्परिमुच्यन्ति सर्वे’’ इति श्रुतौ परामृतान्नित्यमुक्तात्प्रसन्नात्परमेश्वरादनेकेषां तत्त्वापरोक्ष-ज्ञानिनां मुक्तिरुच्यत इत्यर्थः । परामृतः स्वयंराम इति वचनात् । ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानं प्रविशन्ति परं पदमिति स्मृतेश्चेति सूत्रोपात्त-वचनमपि द्रष्टव्यम् । जीवस्येश्वरादिकल्पकत्वे दोषमाह ।। किञ्चैकस्यैवेति ।। दोषान्तरं समुच्चितोति ।। किञ्चैवमिति ।। एतेन समष्ट्यभिमानिनो जीवस्य सर्वज्ञत्वसर्वकर्तृत्वादिकं स्वीक्रियते । सर्वाभिमानिनस्तदुपपत्तेरिति निरस्तम् । दुःखमिथ्याज्ञानादेरप्यापत्तेः । न भारती मेऽङ्ग मृषोपलक्ष्यत इत्यादिवेदगर्भोक्तिविरोधाच्च । उपदेष्टुस्तत्वज्ञस्याभावात्तत्त्वज्ञानं च न स्यादित्याह ।। अपि चेति । न चेति ।। तथा च मुक्तिर्न स्यादित्यर्थः । शिष्यः कल्पक इति मन्वानः शङ्कते ।। नन्विति ।। तदैवेति ।। तथा चेदानीं संसारोपलम्भो न स्यादित्यर्थः । तवापि समो दोष इति मन्दाशङ्कां परिहरति ।। न च प्रकृतेऽपीति ।। यदेव भगवान् वेदेति ।। ननु सामान्यतो मोक्षोपयोगिज्ञानविषयवित्त्वेन तत्त्वमस्यादि-वाक्यवक्तृत्वेन वा कल्पितस्योपदेष्टृत्वसम्भवेनोदाहृतवाक्याविरोधः । अन्यथा तवापि मते तत्ववित्त्वेन प्रमित एवाचार्यत्वेनानुसरणीय इति प्रथमत एव तत्वज्ञाने तत्कालमोक्षा-पत्त्युपदेशवैय्यर्थ्यादिकं च स्यादिति चेन्न । तत्वोपदेष्टृत्वादिना मया गुरोरकल्पनात् । एतदेवात्मभू राजन्नारदाय विपृच्छते । वेदगर्भोऽभ्यधात्साक्षाद्यदाह हरिरात्मन इति भागवतोक्तेः । इमं विवस्वते योगं प्रोक्तवानहमव्ययमित्यादिगीतोक्तेश्च । भेदस्यापि तादृश-ज्ञानविषयत्वसम्भावनया विशिष्यज्ञातव्यत्वात् । अन्यथा तत्वज्ञानमिथ्याज्ञानादेः सङ्कर-प्रसङ्गात् । भेदवादिनोऽपि तत्वमस्यादिवाक्यप्रवक्तृत्वाच्च ।
गुर्वज्ञानकल्पितः शिष्य इति पक्षं दूषयति ।। किं चेति ।। स्वप्नवत्स्यादित्याशङ्क्य तद्वैषम्यमाह ।। स्वप्ने त्विति ।। वेदस्य मीमांस्यत्ववदिति ।। न च तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परिहार इति वाच्यम् । तथा कल्पनासम्भवस्योक्तत्वात् ।। सदुत्तरापरिस्फूर्ताविति ।। ननु कथायाः कल्पितत्वानिश्चयकालीनत्वेन समयबन्धविशेष निबन्धनत्वेन च तादृगुत्तरानवकाशः । तस्माच्छिष्यवद्गुरोरपि कल्पितत्वात्स्नप्नवत्सर्व-व्यवस्थेति चेन्न । औतिनः कल्पितत्वनिश्चयवतस्तदनिश्चय समयबन्धविशेषयोरसम्भवात् । यदुक्तं शिष्यवद्गुरोरपि कल्पितत्वमिति । तदप्यपेशलम् । उभावप्यश्रुतग्रन्थावुभावपि जडात्मकौ । अहो देवस्य माहात्म्यं यदेकः शिष्यतां गत इतिवदुपहसनीयत्वात् । मन्दा-शङ्कां परिहरति ।। एतेनेति ।। शङ्कितुर्मन्दत्वमेव स्पष्टयति ।। इहेति ।। औतशास्त्र-मिति ।। अनिश्चिताद्वैतेन कल्पकेन जीवेन कल्पितत्वात् भ्रान्तिमूलं स्यादित्यर्थः । न च प्रमामूलत्वाभावेऽप्यबाधितविषयत्वेनाद्वैतशास्त्रप्रामाण्योपपत्तिरिति युक्तम् । गौडपादादि-प्रणीतशास्त्रस्य प्रमामूलत्वाभावे भ्रान्तिमूलत्वेनाबाधितविषयत्वासम्भवेनाप्रामाण्यापातात् ।। सम्प्रदायाभावेनेति ।। गुरुसदुपदेशपरम्पराऽभावेनेत्यर्थः । ननु नासाम्प्रदायिकत्वमुत्पत्ति-विरोधि । अपूर्वजातीयानुत्पत्तिप्रसङ्गात् । किं तु कारणासत्वम् । एवं च सम्प्रदाया-भावेऽप्यपूर्ववत्तत्त्वज्ञानोत्पत्तिरस्त्विति चेन्न । देवानांप्रियोऽसि । न ह्यनादौ संसारेऽ-द्याप्यनुत्पन्नजातीयमपूर्वमुत्पद्यत इति कोऽप्यभ्युपैति । किन्तूत्पन्नपूर्वजातीयमेवापूर्वमग्रेऽ-प्युत्पद्यते । कर्मणां तज्जन्यापूर्वाणां तत्फलानां च नियतत्वात् ।। तत्त्ववित्त्वेनेति ।। शिष्येण तथा कल्पनाकाल एव तत्वस्य ज्ञातत्वादुपदेशानर्थक्यादिनेत्यर्थः ।। शुकादीना-मिति ।। तथा च मुमुक्षोरभावेन शास्त्रं निरधिकारिकं स्यादित्यर्थः ।। देवानामिति ।। देवत्वयोग्यानां मध्ये । सद्यः साधनसम्पत्तौ सत्यां ब्रह्मापरोक्षज्ञान्यभवत् । देवत्वयोग्य एव । तद्देवत्वं प्राप्नोतीत्यर्थः । प्राप्त्यर्थभवतेः परस्मैपदं छन्दस्त्वात् । व्यत्ययो बहुलमिति सूत्रात् ।। इदं ज्ञानमिति ।। अन्यदपहायेदं ज्ञानमाश्रित्य साधर्म्यं दुःखासहचरानन्दानु-भोक्तृत्वं प्राप्ता इत्यर्थः ।
नन्वनादिमायया सुप्तो यदा जीवः प्रबुध्यत इति माण्डूकोपनिषद्वाक्यस्य का गतिरित्यत आह ।। अनादीति ।। यदेति ।। ईश्वरानुग्रहेणेति शेषः । तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो यथा दीपेन भास्वतेति गीतोक्तेः ।। इति पूर्वेणेति ।। इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिता इति पूर्ववाक्ये बहुवचनेनेत्यर्थः ।। उत्तरेणेति ।। त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति नित्यशः । स पूज्यः सर्वभावानां वन्द्यश्चैव महा-मुनिरिति उत्तरवाक्ये पूजावन्दनकर्तृत्वेन निश्चितचित्तानां भावानामिति बहुवचनेन बहुत्वाव-गमात्तेन विरोध इत्यर्थः । महोपाधेरेकत्वेनैको जीवः, अवान्तरोपाधिनानाभावान्नाना जीवा इति व्यवस्थोपपत्तिरित्याशङ्क्य निराकरोति ।। न चेति ।। अविद्यावदन्तःकरणानामपि प्रत्येकं ब्रह्मणो जीवत्वे प्रमाणमस्ति न वा । आद्यं द्वेधा दूषयति ।। जीवभाव इति ।। द्वितीयाभावे दोषमाह ।। उक्तेति ।। बद्धमुक्तव्यवस्थानुपपत्तेरित्यर्थः । वेदगर्भ एव मुख्यो जीव अन्ये तु तदाभासा इति मतं निराचष्टे ।। एतेनेति ।। वेदगर्भस्य पूर्वब्रह्मकल्पेषु मुक्तिरभून्न वा । द्वितीयाभावे हेतुमाह ।। हिरण्यगर्भेति ।। नाद्य इत्याह ।। अतीतेति ।। जीवानां हिरण्यगर्भप्रतिबिम्बत्वे दोषान्तरमाह ।। सादीति ।। स्वपक्षे साधकमाशङ्क्य निराकरोति ।। न चेति ।। जीवानां राशयः पृथगिति ।। न चेदं वाक्यं जीवोपाधिभेदानुवादकतया व्याख्येयम् । भेदकोपाधेरेवानुपपत्तेः । सङ्गृह्णाति ।। एक-जीवेति ।। उपसंहरति ।। तस्माज्जगदिति ।।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां हि विश्वं नैकाज्ञकल्पितम् ।।
न्यायामृतसौगन्ध्यम्
यत्तु स च द्रष्टा एक एव जीवस्तन्नानात्वे मानाभावात् इति । तन्न । प्रतिशरीरं अहं सुखी अहं दुःखी अहं संसारी अहमस्य स्वामी इत्याद्यनुभवविरोधात् । नन्वविद्यावशात् ब्रह्मैवैकं संसरति । स एव जीवः । तस्यैव प्रतिशरीरमहमिति बुद्धिरिति चेन्न । बन्धमोक्ष-गुरुशिष्यादिव्यवहारस्य दत्तजलांजलित्वापत्तेः । न च बन्धमोक्षगुरुशिष्यादिव्यवस्थायाः स्वप्नवद्यावदविद्यमुपपत्तिः । मोक्षस्य स्वापि्नकत्वे हि स्पष्ठ एव बाह्यमतप्रवेशः । श्रुत्यादि-प्रमाणसिद्धनित्यनिरविद्यस्याविद्यावशत्वासम्भवात् । तस्मिन्नेकस्मिन् जीवे सुप्ते समस्त-जगदप्रतीत्यापाताच्च । ननु समष्ट्यभिमानिनो मुख्यजीवस्यासुप्तत्वेन तस्मिन् लयकाले सुप्ते जगदप्रतीतिः । अन्तःकरणावच्छिन्ने जीवाभासे सुप्ते तमेव प्रति जगदप्रतीतिः, न त्वन्यानपि प्रतीति चेन्न । समष्ट्यभिमानितदसुप्तत्वयोः प्रमाणाभावात् । प्रत्युतान्तःकरणा-वच्छिन्ने अहमस्वाप्समित्यादिप्रत्यक्षानुभवाच्च । मोक्षसाधनाश्रयस्य सुखदुःखाद्यनुभवरूप-संसाराश्रयस्याहमर्थस्य जीवाभासत्वे बन्धमोक्षादिवैय्यधिकरण्यापत्तेः समष्ट्याख्यजीवस्य सुप्तस्य तदुपाधेर्लीनत्वात्पुनरुत्थानानुपपत्तेः । न च संस्कारस्य कारणात्मना स्थितेः पुनरुत्थानोपपत्तिः । उपाधिकारणस्य उपाधिकार्यकरत्वाभावात् । अन्यथा घटेन चूर्णेनापि जलाहरणापत्तेः ।
किं च मम कल्पकत्वे तव मोक्षार्थं प्रवृत्ययोगः, तव कल्पकत्वे त्वत्कल्पितास्मद्बोधार्थं तव प्रवृत्यनुपपत्तिः । न च स्वप्नवदपर्यनुयोगः । एवमपर्यनुयोज्यत्वे निर्मर्यादतया कथा-नधिकारप्रसङ्गात् । न च चैत्रमैत्रादिसर्वाभिमानिनो जीवस्य कल्पकत्वेन तव ममेत्यादि-विकल्पानुपपत्तिः । त्वदभिमतोपदेष्टृणां गौडपादादीनां बहूनामुपलम्भेन नायं मुख्योऽहं मुख्य इति मुख्यत्वनिर्णयासम्भवेन मोक्षार्थं श्रवणादिषु प्रवृत्यनुपपत्तिः ।
किं च ब्रह्मण एव जीवत्वेन तस्यैव बन्धमोक्षाविति तन्नित्यमुक्तत्वादिबोधकश्रुति-विरोधः । न च मुक्तेः स्वस्वरूपत्वेन बन्धस्य चाविद्यकत्वेन तदविरोधः । न हि मृगतृष्णिकाकल्पितोदकेन स्वभावशुष्का मरुभूमिरार्द्रीभवतीति वाच्यम् । तव बन्ध-द्वैविध्याभावेन ज्ञानेनोच्छेतव्यकल्पितबन्धास्पृष्टचैतन्याभावे नित्यमुक्तत्वबोधकश्रुतेर्निरर्थ-कत्वानुद्धारात् ।
किञ्चैकस्यैव कल्पितस्य वा जीवस्याहं त्वमिति प्रत्यक्त्वपराक्त्वव्यवहारानुपपत्तिः । एतेनानेकशरीरैकजीववादाङ्गीकारेण नानुपपत्तिरिति निरस्तम् । तमेव प्रति प्रत्यक्त्व-पराक्त्वयोरयोगात् । न हि मैत्रं प्रति त्वमिति धीविषयस्य चैत्रस्य तमेव प्रति अहमिति धीविषयत्वम् । न च भिन्नभिन्नान्तःकरणाभेदाध्यासेन तत्तदन्तःकरणमादाय प्रत्यक्त्वादि-व्यवहारोपपत्तिः । जीवानुपाधेरन्तःकरणस्य देहादिवत् तथा व्यवस्थापकत्वासम्भवात् । अन्यथा कायव्यूहवत् योगिनः अहं त्वमित्यादिव्यवहारापत्तेः ।
किं च चैत्रसुखदुःखादीनां मैत्रेणानुसन्धानापत्तिः । एवं चैत्रस्य शुक्तिसाक्षात्कारेण रजतभ्रमनिवृत्तावन्येषामपि तन्निवृत्तिः स्यात् । किं च मुक्तावपि चैत्राद्यन्यतमान्तः-करणावच्छेदेन साक्षात्कारे उत्पन्ने तदवच्छेदेनैव संसारनिवृत्तिः स्यात् । न तु तदितरान्तः-करणावच्छेदेनापि । न च तत्साक्षात्कारस्य सविलासमूलाज्ञाननिवृत्तिरूपतया तत्कालेऽन्तः-करणस्याभावेन वैषम्यमिति वाच्यम् । पूर्वपरकालवृत्तित्वघटितयोर्निवर्तकनिवृत्योरैक्या-सम्भवात् ।
किञ्च श्रुतिषु ‘अविद्यायामन्तरे वर्तमाना’ इत्यादौ अविद्या, ‘रमणीयचरणा’ इत्यादौ कर्मबन्धः, ‘सति संपद्य न विदुरि’त्यादौ सुषुप्तिः, ‘वेदान्तविज्ञानसुनिश्चितार्था’ इत्यादौ तत्वज्ञानं, ‘परामृतात्परिमुच्यन्ति सर्वे’ इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेषूच्यते ।
यत्तु ‘साक्षी चेता केवलो निर्गुणश्च’ ‘पुरत्रये क्रीडति यस्तु जीवः प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते स एष इह प्रविष्टमानः स्वाङ्गेभ्यः’ ‘मायया सन्निरुद्धः’ ‘अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते’ इत्यादिश्रुतिः, ‘देही कर्मानुगोऽवशः’ ‘शरीराणि विहाय जीर्णान्यन्यानि’ ‘गृह्णाति नरोऽपराणि’ (वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ।।) इत्यादि-स्मृतिश्च मानमिति । तन्न । पुरत्रये ईशक्रीडनस्योक्तत्वात् । ‘तदनुप्रविश्य सच्चत्यच्चाभव’-दिति ईशस्यैव प्रवेशोक्तेः । सर्वज्ञोऽपि यथा सर्वजीवः प्रतिदेहमास्ते तथाऽस्ते इत्यर्थात् । उक्तं हि ‘लोकवत्तु लीलाकैवल्यमि’ति । एकवचनं तु दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितमित्यादिवदुपपद्यते ।
किञ्च ‘नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान्’ ‘न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ।। उपदेक्षन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः । तेषामादित्यवज्ज्ञानं प्रकाशयति यत्परम् ।। ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ।। निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ।। ‘पूता मद्भावमागताः’ ‘मम साधर्म्यमागता’ इति जीवबहुत्वमानविरोधात् । न हि तत्वज्ञानमोक्षादयश्चिदाभासस्य सम्भवन्ति । तस्य मोक्षानर्हस्य सर्वास्तिकसिद्धसर्वज्ञेन भगवतोपदेशासम्भवात् । प्रकृतिर्मायया ख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनीति स्मृतेः । अत एव प्रत्यक्त्वपराक्त्वत्वमहमित्यादिव्यवहारप्रयोज-कान्तःकरणाभेदाध्यासबलात् बहुत्वस्य प्राप्तत्वेन पूर्वोत्तरवाक्योदाहृतश्रुत्यादीनामतत्परत्वमिति निरस्तम् । एकस्मिन्नेवानेकेषां विरुद्धानां युगपदभेदारोपासम्भवाच्च । अन्तःकरणस्य सर्वज्ञ-कर्तृकोपदेशानर्हत्वात् । न च जीवबहुत्वस्य प्राप्तत्वेन मुक्त्यंश एवाप्राप्तत्वपर्यवसानमिति वाच्यम् । बहुत्वबोधकानां निरवकाशमानानां सावकाशैकवचनमात्रानुरोधेनाप्रामाण्यकल्पना-नौचित्यात् तद्बहुत्वस्य प्रत्यक्षाप्राप्तत्वात् । सर्वप्रत्ययवेद्यस्वरूपात्मकमोक्षस्यापि त्वन्मते नित्यसिद्धत्वाच्च । अस्वतन्त्रानुमानेन गृहीतस्य श्रुत्याऽनुवादासम्भवस्योक्तत्वात् । न च जीवबहुत्वस्य प्राप्तत्वेन मुक्त्यंश एवाप्राप्तत्वमिति वाच्यम् । मुक्तौ बहुत्वस्याप्राप्तत्वे-नानुवादाद्यसम्भवात् । प्रत्युत मुक्त्यंशस्यैव त्वन्मते प्राप्तत्वात् । न हि नित्यसिद्ध-स्वप्रकाशस्वरूपातिरिक्तमुक्तिरस्ति ।
किं चैकस्यैव जीवस्य सर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्येश्वरकारणत्वविधायकैः श्रुत्यादिभिर्विरोधः । सर्वज्ञत्वसर्वकर्तृत्वादिबोधकश्रुतीनां निर्विषयत्वं च स्यात् । ईश्वरस्य च जीवभिन्नस्य चाभावात्, जीवे सर्वकर्तृत्वादिकं त्वनुभवबाधितम् । ननु समष्ट्यभिमानिनो जीवस्य सर्वज्ञत्वसर्वकर्तृत्वादिस्वीकारः । सर्वाभिमानिनस्तु सार्वज्ञानुभवोऽस्त्येव । अत एव ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तपे’त्याद्युुपपद्यते इति चेन्न । तदभिमानित्वं ह्यज्ञानादिदोषेण । तच्च सर्वज्ञे भगवति बाधितम् । न च स्वरूपाज्ञानं भगवतोऽस्ति । भगवतः सर्वाभिमानित्वे ‘बहूनि मे व्यतीतानि जन्मानि तव चार्जुने’त्यादिव्यवहारासङ्गतेः । ईश्वरस्य समष्ट्यभिमानित्वे ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’ ‘बहवो ज्ञानतपसा पूता मद्भावमागताः’ ‘मय्येव मन आधत्स्व मयि बुद्धिं निवेशय’ ‘मामेकं शरणं व्रजे’त्याद्यसङ्गतं स्यात् । (न च वृक्षाकाशस्थानीयस्य जीवस्य वनाकाशस्थानीयेश(प्राप्त्यादिः)प्रपत्त्यादिः युक्ता । वनाकाशवत्तस्यापि बद्धत्वेन तत्साम्यतायाः सिद्धत्वेन ज्ञानाद्यसाध्यत्वात्) (?) । एतेनान्तःकरणाभेदाध्यासात्सार्वज्ञ्या-द्यननुभवः तद्विपरीतानुभवश्चोपपन्न इति निरस्तम् । जीवानुपाधेरन्तःकरणस्य तथा व्यवस्थापकत्वासम्भवात् । न हि कायव्यूहवतः देहादिभेदेन किंचिद्विषयकानुभावा-ननुभवयोर्यौगपद्यमस्ति ।
किंचोपदेष्टव्यस्यान्यस्याभावेनोपदेशासम्भवः । न च स्वप्न इवोपदेष्टुः कल्पितस्य उपदेष्टृत्वादिसम्भवः । उपदेष्टृत्वं हि न कल्पितमात्रस्य । किन्तु तत्त्ववित्त्वेन कल्पितस्य । तथा चोपदेशात् प्रागेव तत्वज्ञाने उपदेशवैय्यर्थ्यं मोक्षापत्तिश्च । न चैवं स्वप्नेऽपि तुल्यम् । तदा हि शब्दविशेषवक्तृत्त्वेनैव गुरुकल्पनम् । ‘यदेव भगवान् वेद तन्मे ब्रूहि’ ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः’ इति श्रुतिस्मृतिविरोधापत्तेः ।
ननु सामान्यतो मोक्षोपयोगिज्ञानविषयवित्त्वेनाज्ञाततत्त्ववित्त्वेन तत्वमस्यादिवाक्य-वक्तृत्वेन वा कल्पितस्योपदेष्टृत्वसम्भवेनोदाहृतवाक्याविरोधात् । अन्यथा तवापि मते तत्ववित्वेन प्रमित एवाचार्यत्वेनानुसरणीय इति प्रथमत एव तत्वज्ञाने तत्काल एव मोक्षा-पत्त्युपदेशवैय्यर्थ्यादिकं स्यादिति चेन्न । निर्विशेषवादे सामान्यविशेषविभागायोगात् । सविशेषवादिनां नः क्षतेरभावाच्च । त्वन्मते हि यावद्विशेषज्ञः शिष्यः तान् विशेषानेव गुरावारोपयतीति उपदेशादिवैय्यर्थ्यम् । अस्माकं तु शिष्याज्ञातमोक्षोपयोगिज्ञानविशेष-विषयकज्ञानवत्वं गुरोः सम्भवतीति न दोषः ।
किञ्च ब्राह्मणत्वेन कल्पितस्य म्लेच्छस्य यागादिकर्तृत्वं त्वादृशं प्रति वेदान्तोपदेष्टृत्वं च स्यात् । किञ्च स्वस्य शिष्यकल्पितत्वं शिष्यस्य वा कल्पितत्वं जानतः अन्यतरमोक्षार्थं प्रवचनादौ प्रवृत्तिर्न स्यात् । वस्तुनस्तथात्वं जानतस्तत्वज्ञत्वाभावात् । एतेन स्वप्नगुरुवत् कल्पितत्वेन गुरोरपर्यनुयोज्यत्वमिति निरस्तम् । तत्वज्ञानहेतुत्वेन वेदस्य मीमांस्यत्ववत् गुरोरपि पर्यनुयोज्यत्वात् । अन्यथा आरोपितसार्वज्ञस्य परस्यापि उपदेष्टृत्वापत्तेः । न च तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परिहारः । तर्कादिना विचारे आरोपासम्भवात् ।
किञ्च कल्पको यदि निश्चिताद्वैतश्चेत् शास्त्रवैय्यर्थ्यम् । अनिश्चिताद्वैतश्चेत् शास्त्रस्य प्रमामूलकत्वं न स्यात् । उपदेष्टुः प्रतारकत्वं च स्यात् । न च प्रमामूलकत्वाभावेऽप्य-बाधितविषयत्वेन शास्त्रप्रामाण्योपपत्तिः । प्रमामूलकत्वाभावे अबाधितार्थकत्वस्यैवानुपपत्तेः । आप्तवाक्यं हि प्रामाणमबाधितार्थकं च ।
किं च मुख्यो जीवो अहमन्यो वेति सन्देहेन बह्वायाससाध्यमोक्षार्थं प्रवृत्तिर्न स्यात् । ननु प्रतिशरीरमहमिति बद्धोऽहमिति निश्चयस्य स्वानुभवसाक्षिकत्वेन प्रवृत्तिसम्भवः एकेनैव जीवेन मैत्रादिशरीराणां सजीवत्वसम्भवः प्रागेवोक्तः । किञ्च चैत्रमैत्रादिषु कोऽसाविति प्रश्नस्य किं केनचित् क्रोडीकृतं चैतन्यं विषयः, किं वा निरस्तसमस्तभेदम् । नाद्यः । तस्य कल्पितत्वेनाकल्पकत्वात् । न द्वितीयः । तस्यैकत्वेन तदनिश्चयासिद्धेः । वस्तुतः शुद्धचितोऽसंसारित्वेऽपि आवरणविक्षेपशक्तिद्वयशालिस्वाश्रिताविद्यावशात् संसारित्वकल्प-कत्वविमोक्षार्थंयतमानत्वाद्युपपत्तिरिति चेन्न । त्वदीयैकजीववादं श्रुत्वा कल्पकोऽहमन्यो वेति सन्दिहानस्य प्रवृत्त्यभावापादनात् । एकेनेत्यादि निरस्तम् । किञ्चेत्याद्ययुक्तम् । न हि निरस्तसमस्तभेदत्वादिना प्रश्नविषयः, किं तु लोके जीवत्वेनाभिमन्यमानेषु कः कल्पक इत्यर्थः । शुद्धस्य नित्यमुक्तस्याविद्यावशत्वासम्भवात् । उपदेशकाभावाच्च । न हि स्वयं मूढः स्वमन्यान् वोपदिशति ।
किं चानादौ संसारे कस्यचित्तत्वज्ञानं मुक्तिश्चाभून्न वा । आद्ये इदानीं संसारोपलब्धिर्न स्यात् । जीवस्यैकत्वात् । अन्त्ये सम्प्रदायासम्भवेन तत्वज्ञानासम्भवः । नन्व-साम्प्रदायिकत्वं नोत्पत्तिविरोधि । अपूर्वजातीयानुत्पत्तिप्रसङ्गात् । किं तु कारणसत्वम् । तन्नेदानीम् । उपदेष्ट्रादिकारणस्य कल्पनासुदृढस्य सत्त्वात् । जीवैक्यस्य प्रमाणसिद्धत्वेन संसारोपलम्भ एवातः पूर्वं तत्वज्ञानानुदये प्रमाणमिति चेन्न । अनादौ संसारे अनुत्पन्न-जातीयमपूर्वमुत्पद्यते इति केनाप्यनभ्युपगमात् । किन्तु उत्पन्नो पूर्वजातीयमेवापूर्व-मग्रेऽप्युत्पद्यते । कर्मणां तज्जन्यापूर्वाणां च नियतत्वात् ।
किञ्च तत्त्ववित्त्वेन श्रुत्यादिसिद्धानां शुकवामदेवादीनां मुक्तिर्नाभूत् मम कथं भविष्यतीत्यनाश्वासेन मोक्षार्थं निश्शङ्कप्रवृत्तिर्न स्यात् । न च प्रामाण्याद्भविष्यति । अन्यथा तेषां महानुभावानां मुक्तत्वेऽपि मम भविष्यति न वेति शङ्कापिशाच्या प्रवृत्ति-प्रतिबन्धः स्यादिति वाच्यम् । श्रुतिप्रामाण्यबलादेव हि सिद्धो जीवभेदः, पूर्वं बहूनां मुक्तिश्चाभ्युपेयताम् । श्रूयते हि ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुषाणां’ ‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ ‘नित्यो नित्यानां चेतनश्चेतनाना’मित्यादि । स्मर्यते च ‘बहवो ज्ञानतपसा पूता मद्भावमागताः । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’ इत्यादि । न च लौकिकवाक्यानां सार्वलौकिकभ्रम-सिद्धभेदानुवादकत्वेन तत्परत्वाभाव इति वाच्यम् । भ्रमसिद्धार्थानुवादकत्वे श्रुतीनाम-प्रामाण्यापत्तेः । ‘मद्भावमागताः’ ‘मम साधर्म्यमागताः’ इति प्रत्यक्षाप्राप्तमोक्षगत-भेदव्याप्यबहुत्वसङ्ख्याबोधनाच्च । ‘अतीतानागताश्चैव यावन्तः सहिताः क्षणाः । ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक्’ इत्यादिस्मृतिभिः जीवानामपरिमितत्वबोधेन प्रतिकल्पं एकैकमुक्त्याऽपि न संसारसमाप्तिरिति ।
।। इति एकजीवाज्ञानकल्पितत्वभङ्गः ।।