श्रुतिश्चात्र प्रमाणम् । ‘‘एकमेवाद्वितीयम्’’ इत्यादौ
६. मिथ्यात्वे परोक्तश्रुतिः
न्यायामृतम्
श्रुतिश्चात्र प्रमाणम् । ‘‘एकमेवाद्वितीयम्’’ इत्यादौ अद्वितीयमित्यादिशब्दै-र्द्वितीयमात्रनिषेधात् । न च प्रत्यक्षबाधादनुमानममानं श्रुतिश्चामुख्यार्थेति युक्तम् । प्रत्यक्षेण व्यावहारिकसत्त्वग्रहात् । अनुमानादिभिश्च पारमार्थिकसत्त्वनिषेधात् । न हि वर्तमानमात्रग्राहि प्रत्यक्षं त्रिकालाबाध्यत्वग्राहि । वह्निरनुष्ण इत्यत्र तु उष्णत्वस्य प्रत्यक्षसिद्धव्यावहारिकसत्त्वप्रतिषेधाद्वाधः । दृश्यते च नभोनैल्यचन्द्रप्रादेशत्वग्राहि-प्रत्यक्षयोरनुमानागमाभ्यां बाध इति ।
न्यायामृततरङ्गिणी
श्रुतिश्चेति ।। ‘‘एकमेवाद्वितीयमि’त्यादिकेत्यर्थः । ननु ब्रह्माद्वितीयं चेत् प्रथमं तृतीयं वा स्यात्, बहुव्रीहिपक्षेऽपि सप्रथमं सतृतीयं वा स्यात्, तथा च नेष्टसिद्धिरित्यतः श्रुतिं व्याख्याति–एकमेवेति ।। अद्वितीयादिशब्दैः कण्ठतो द्वितीयनिषेधे द्वितीयनिरूपिततृतीयादेरपि निषेधोऽ-र्थतो भवति इति द्वितीयस्यात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वं श्रुत्या सिद्ध्यतीत्यर्थः । न चेति ।। ‘सन् घटः’ इत्यादिसत्त्वग्राहकप्रत्यक्षबाधादित्यर्थः । अमानम् अग्न्यनौष्ण्यानुमान-वदिति शेषः । अमुख्यार्था ‘‘यजमानः प्रस्तरः’’ इत्यादिश्रुतिवदिति शेषः । न च आगमानुमानाभ्यामेव प्रत्यक्षं बाध्यतामिति वाच्यम्; प्रत्यक्षस्यागमाद्यगृहीतरेखोपरेखादि- ग्राहकत्वेन तदनिवर्तितदिङ्मोहादिभ्रमनिवर्तकत्वेन जात्या, शब्दस्वरूपधर्म्यादिग्राहकत्वेनोप-जीव्यतयाऽऽगमाद्यपेक्षया प्राबल्यादित्यर्थः । प्रत्यक्षस्य भिन्नविषयत्वात् न तेनागमादीनां विरोध इत्याह– प्रत्यक्षेणेति ।। अनुमानादिभिरिति ।। प्रत्यक्षगृहीतव्यावहारिकसत्त्वानुपमर्देनैव प्रत्यक्षागृहीतपारमार्थिकसत्यत्वस्य निषेधादित्यर्थः । न च मिथ्वात्वश्रुतेरप्रसक्तप्रतिषेधतापातः । अर्थक्रियादिरूपानुमानाभासेन वा आरोपितपारमार्थिकसत्यत्वतात्पर्यकेण प्रत्यक्षगृहीत-व्यावहारिकसत्यत्वानुवादकेन ‘‘विश्वं सत्यमि’’त्याद्यागमेन वा पारमार्थिकसत्यत्वप्रसक्ते-र्वियदादिषु सम्भवादिति भावः ।
ननु मिथ्यात्वश्रुत्या निषिध्यमानमेव पारमार्थिकसत्त्वं प्रत्यक्षेण गृह्यते इति न प्रत्यक्षस्य भिन्नविषयतेत्यत आह– न हीति ।। अतीतानागतादिभिः सन्निकर्षाभावात् प्रत्यक्षस्य नोक्तरूपसत्यत्वग्राहकतेति भावः । ननु एवं भिन्नविषयतया प्रत्यक्षाविरोधोपपादने अग्न्य-नौष्ण्यानुमानेऽपि न प्रत्यक्षविरोधः स्यात्, तथाच कालात्ययापदिष्टदोषोच्छेदः स्यादित्यत आह– वह्निरनुष्ण इत्यत्रेति ।। अतात्त्विकविश्वान्तर्गतजलादिस्वभावानौष्ण्येन समस्वभाव-मनौष्ण्यमग्नावनुमीयते यदा तदैव प्रत्यक्षेण बाधः । अनीदृशं तु मिथ्यात्वस्यैव नामान्तरम् इति नाग्न्यनौष्ण्यानुमानेऽपि प्रत्यक्षबाध इत्यर्थः ।
ननु श्रुत्या प्रत्यक्षगृहीतव्यावहारिकसत्यत्वानुपमर्देन तदगृहीतपारमार्थिकसत्यत्वनिषेधे प्रत्यक्षगृहीतसत्यत्वस्य न मिथ्यात्वसिद्धिः । न च व्यावहारिकसत्यत्वेऽपि घटवत् पारमार्थिक-सत्यत्वं निषिध्यते, इति तत्र तत्सिद्धिरिति वाच्यम् । व्यावहारिकसत्यत्वे यद् व्यावहारिक-सत्यत्वम्, तत्रैवमपि व्यावहारिकसत्त्वानुपमर्देन तन्मिथ्यात्वासिद्धेः । तत्राप्युक्तन्यायेऽनवस्था, इति सत्यत्वग्राहिप्रत्यक्षप्राबल्येऽरुचिमभिसन्धायापौरुषेयत्वेनानाशङ्कितदोषतया श्रुतेः, तदनु-गृहीतत्वाच्चानुमानस्य सम्भावितदोषप्रत्यक्षापेक्षया प्राबल्यात् प्रत्यक्षगृहीतमपि सत्यत्वमनुमाना-गमाभ्यां निषिद्ध्यत इति वक्तुं प्रत्यक्षस्यागमादिबाध्यत्वं दृष्टमस्तीत्याह – दृश्यते चेति ।।
न्यायामृतकण्टकोद्धारः
ननु एवं ‘वह्निरनुष्णः’ इत्यत्रापि प्रत्यक्षवाधो न स्यादित्यत आह– वह्निरनुष्ण इत्यत्रेति ।। किञ्च नभोनैल्यचन्द्रप्रादेशत्वप्रत्यक्षस्यानुमानागमाभ्यां बाधस्य दृष्टत्वाद् दुर्बलस्य प्रत्यक्षस्य नोक्तानुमानगमबाधकतेत्याह– दृश्यते चेति ।।
न्यायामृतप्रकाशः
प्रत्यक्षेति ।। जगत्सत्यताग्राहिसन् घट इत्यादिप्रत्यक्षेत्यर्थः ।। अमुख्यार्थेति ।। समाननिषेधादि-परेत्यर्थः । ननु प्रत्यक्षमपि त्रिकालाबाध्यत्वरूपपारमार्थिकसत्त्वमेव गृह्णातीति ग्राह्याभावावगाहित्वेन समानविषयकत्वाद्युक्तं बाधकत्वमित्यत आह– न हीति ।। वर्तमानमात्रग्राहि वर्तमानका-लाबाध्यत्वग्राहि । नन्वेवं भिन्नविषयतयाऽनुमानस्य प्रत्यक्षविरोधाभावोपपादने कालात्ययापदिष्ट-मात्रोच्छेदः । प्रत्यक्षेण व्यावहारिकौष्ण्यग्रहात् अनुमानेन पुनः पारमार्थिकौष्ण्यनिषेधेन भिन्न-विषयतायाः तत्रापि वक्तुं शक्यत्वादित्यत आह– वह्निरिति ।। उष्णत्वस्य प्रत्यक्षसिद्धं यद्व्यावहारिकं सत्त्वं तस्यैव वह्निरनुष्ण इत्यनुमानेन निषेधात्साक्षाद्ग्राह्याभावावगाहित्वेन युक्तस्तत्र बाध्यबाधकभाव इति न बाधोच्छेद इति भावः । किञ्चापौरुषेयत्वेनानाशङ्कितदोषायाः एकमेवेत्यादिश्रुतेः तदनुगृहीता-स्मदनुमानस्य च सम्भावितदोषप्रत्यक्षापेक्षया प्राबल्यात्प्रत्यक्षगृहीतमपि सत्यत्वमनुमानागमाभ्यामेव बाध्यत इत्याशयेन प्रत्यक्षस्यानुमानादिबाध्यत्वं दृष्टमित्याह– दृश्यते चेति ।। नीलं नभ इति प्रत्यक्षं नभो नीलं विभुत्वादित्यनुमानेन बाध्यं दृष्टम् ।। तथा प्रादेशमात्रपरिमितश्चंद्रमा इति प्रत्यक्षं ‘‘अष्टाशीतिसहस्राणी’’ त्याद्यागमबाध्यं दृष्टमिति प्रकृतेऽपि तथाऽस्त्विति भावः ।।
न्यायकल्पलता
ननु केवलानुमानस्योपाधिप्रतिरोधग्रस्तत्वान्न विवक्षितार्थप्रमापकत्वम् । ‘उपाधिप्रतिरौधौ तु क्व नामातीवदुर्वचौ’ इत्युक्तेरित्यतोऽत्रोपन्यस्तोपपत्तिमूलं प्रमाणं दर्शयति -श्रुतिश्चेति । ‘एकमेवाद्वितीयं’ ‘नेह नानास्ति किञ्चन’ इत्यादिकेत्यर्थः ।
नन्वद्वितीयमित्यत्र कर्मधारये ब्रह्म द्वितीयं न चेत् प्रथमं तृतीयं वा स्यात् । अविद्यमानं द्वितीयं यस्य तदद्वितीयमिति बहुव्रीहिपक्षेऽपि ब्रह्म सप्रथमं वा सतृतीयं वा भवेत् । एवं च न स्वाभिमत-सिद्धिरित्यतः श्रुतिं व्याख्याति - एकमेवेति । अद्वितीयादिशब्दैः कण्ठतो द्वितीयत्वावच्छिन्ननिषेधे द्वितीयनिरूपिततृतीयादेरपि निषेधो अर्थात् सिद्ध्यतीति द्वितीयस्यात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वं श्रुत्या सिद्ध्यतीत्यर्थः । न चेति । सन् घट इत्यादिसत्यत्वावगाहिप्रत्यक्षबाधादित्यर्थः । अमानं वह्न्यनौष्ण्यानुमानवदिति शेषः । अमुख्यार्था यजमानः प्रस्तर इत्यादिश्रुतिवदिति शेषः । न चानुमानागमाभ्यामेव प्रत्यक्षं बाध्यतामिति देश्यम् । प्रत्यक्षस्यानुमानाद्यगृहीतरेखोपरेखादिग्राहकत्वेन तदनिवर्तितदिङ्मोहादिभ्रमनिवर्तकत्वेन जात्या, शब्दस्वरूपधर्म्यादिग्राहित्वेनोपजीव्यतया चागमाद्यपेक्षया प्राबल्यादिति भावः । प्रत्यक्षस्यानुमानागमनिषेध्यसत्त्वभिन्नसत्त्वविषयत्वमभ्युपगम्य तेनानुमानागमयो-र्विरोधं परिहरति– प्रत्यक्षेणेति । अनुमानादिभिश्चेति । प्रत्यक्षगृहीतव्यावहारिकसत्त्वानुपमर्देनैव तदग्रहीतपारमार्थिकसत्त्वस्य निषेधादित्यर्थः । न चैवमनुमानागमयोरप्रसक्तप्रतिषेधापत्तिः । अर्थक्रिया-कारित्वादिरूपानुमानाभासेन वाऽरोपितपारमार्थिकसत्यत्वतात्पर्यकेण प्रत्यक्षगृहीतव्यावहारिकसत्त्वानु-वादकेन विश्वं सत्यमित्याद्यागमेन वा वियदादिषु पारमार्थिकसत्यत्वप्रसक्तेः सम्भवादित्याशयः ।
नन्वनुमानागमाभ्यां निषिध्यमानं पारमार्थिकं सत्यत्वं प्रत्यक्षेण गृह्यत इति न तस्य भिन्न-विषयतेत्यत आह– न हीति । प्रत्यक्षस्य स्वसन्निकृष्टवर्तमानवस्तुमात्रग्राहित्वेन भूतभविष्यत्कालविशिष्ट-वस्तुसन्निकर्षाभावेन तदग्राहकत्वान्नोक्तरूपसत्यत्वग्राहकतेति भावः । नन्वेवमनुमानागमयोर्भिन्नविषयतया प्रत्यक्षाविरोधोपपादने वह्न्यनौष्ण्यानुमानस्यापि प्रत्यक्षविरोधो न स्यात् । भावाभावयोरविरोधेन तज्ज्ञानयोर्बाध्यबाधकभावस्यानुपपन्नत्वात् । एवं च कालातीतदोषोच्छेदापात इत्यत आह– वह्निरनुष्ण इत्यत्रेति । यदाऽग्नावतात्त्विकव्यावहारिकविश्वान्तर्गतजलादिस्वभावभूतानौष्ण्येन तुल्यस्वभावमनौष्ण्यं व्यावहारिकमेवानुमीयते तदैव प्रत्यक्षेण बाधः । भिन्नसत्ताकर्योर्भावाभावयोरविरोधेऽपि समसत्ताकयो-र्विरोधात् ।
यत्र भूतले यस्य घटस्यात्यन्ताभावो व्यावहारिकस्तत्र स घटो न व्यावहारिक इति नियमात् । अन्यादृशमनौष्ण्यं तु मिथ्यात्वस्यैव नामान्तरमित्यग्न्यनौष्ण्यानुमानेऽपि तदा न प्रत्यक्षबाधः इत्यर्थः । नन्वानुमानागमाभ्यां प्रत्यक्षगृहीतव्यावहारिकसत्यत्वानुपमर्देन तदगृहीतपारमार्थिकसत्यत्वनिषेधे प्रत्यक्ष-गृहीतसत्यत्वमिथ्यात्वं न सिध्येदप्रसक्तप्रतिषेधश्च स्यात् । अथ जगद्वत्तद्व्यावहारिकसत्तायामपि पारमार्थिकत्वं निषिध्यत इति तत्र सिद्धिर्व्यावहारिकमपि पारमार्थिकसदविवेकेन प्रतीयत इति नाप्रसक्त-निषेधापत्तिश्चेति मनुषे तर्हि प्रपञ्चवृत्तिव्यावहारिकसत्तायामपि या व्यावहारिकी सत्ता तत्रापि एवमेव व्यावहारिकसत्तानुपमर्देन पारमार्थिकी सत्ता निषिध्य(त) इति तन्मिथ्यात्वं न सिद्धेत् । ततस्तत्राप्युक्त-प्रकारानुसरणेऽनवस्थाप्रसक्तिरिति प्रत्यक्षगृहीतसत्यत्वमेवानुमानागमाभ्यां निषिध्यत इति वक्तव्यम् । तथा च कथं भिन्नविषयतया तदबोधोक्तिरित्यनुशयेन प्रत्यक्षस्य तद्बाध्यत्वं सदृष्टान्तं दर्शयति -दृश्यते चेति । यथा नीलं नभ इति प्रत्यक्षं विभुत्वानुमानबाध्यं दृष्टं, यथा च प्रादेशपरिमितश्चन्द्रमा इति प्रत्यक्षं ‘‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु’’ इत्याद्यागमबाध्यं दृश्यते तथा घटादिसत्यत्वग्राहि-प्रत्यक्षमप्यनुमानागमाभ्यां बाध्यते । श्रुतेरपौरुषेयत्वेनानाशङ्कितदोषत्वात्तदनुगृहीतत्वादनुमानस्य च सम्भावितदोषप्रत्यक्षापेक्षया प्राबल्यादिति भावः ।
न्यायामृतमाधुरी
नन्वद्वितीयमित्यत्र नञः पर्युदासार्थतया द्वितीयप्रतियोगिकभेदप्रतीतेर्दर्शितमिथ्यात्वानवगाहितया कथमियमत्र प्रमाणमित्यतस्तां, प्रतिषेधार्थतामभिप्रेत्य व्याकुरुते ।। एकमेवेत्यादि । द्वितीयमात्र-निषेधात् द्वितीयसामान्यनिषेधात् । प्रत्यक्षबाधात् घटादिधर्मिकसत्वग्राहकप्रत्यक्षबाधात् । अमानम् अप्रमापकम् । वह्नावनौष्ण्यानुमानवदित्यादिः ।