यच्चोक्तम्– ‘तत्त्वमसि’ इत्यादिवाक्यादेवापरोक्षधीः
९. शाब्दप्रत्यक्षभङ्गः
न्यायामृतम्
यच्चोक्तम्– ‘तत्त्वमसि’ इत्यादिवाक्यादेवापरोक्षधीः । ‘तद्धास्य विजज्ञौ’ ‘तमसः पारं दर्शयति’ इत्यादावुपदेशादेवापरोक्षज्ञानोक्तेः । ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ इत्यत्र शाब्दज्ञानस्य विशब्देन विशेषविषयत्वे सिद्धे सुशब्देनापरोक्षत्वोक्तेश्च । ‘विमतं शाब्दज्ञानम् अपरोक्षम्, अपरोक्षमात्रविषयकत्वात्, सुखादिज्ञानवत् ।’ ‘अपरोक्षत्वं वेदान्तवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववद्’ इत्याद्यनुमानाच्च । न च ‘विमतः शब्दो नापरोक्षधीहेतुः, शब्दत्वाज्ज्योतिष्टोमादि-शब्दवत्’ इत्यादिना सत्प्रतिपक्षत्वम् । ‘दशमस्त्वमसि’ इत्यादौ शब्दादेवापरोक्षधी-दर्शनेन व्यभिचारात् । न च तत्रापीन्द्रियमेव करणं शब्दस्तु सहकारीति युक्तम् । क्वचिद्बहुलतमे तमसि क्वचिच्च लोचनहीनस्यापि वाक्याद्दशमोऽस्मीत्यपरोक्षधी-दर्शनादिति ।
मैवम्, ‘तद्धास्य विजज्ञौ’ इत्यादेः परोक्षज्ञानेनापि चरितार्थत्वात् । ‘दर्शयति’ इत्यादेस्तु ग्राममार्गोपदेष्टरि ‘ग्रामं दर्शयति’ इतिवत्परम्परया साक्षात्कारसाधनत्वेन कृतार्थत्वात् । अन्यथा ‘मनसैवानुद्रष्टव्यम्’ इत्यादि श्रुतिविरोधात् । ‘वेदान्तविज्ञान’ इत्यत्र ‘सु’शब्देनाप्रामाण्यशङ्काभावादेरुक्तेः । अन्यथा वेदान्तबोध्यस्य च विचार-कर्तव्यतादेरर्चिरादेश्चापरोक्ष्यापातात् । आद्यानुमानस्य ‘अयं घटः’ ‘त्वं सुखवान् असि’ इत्यादिवाक्यजन्यज्ञाने वक्ष्यमाणरीत्या व्यभिचारात् । अज्ञानावृते ऐक्ये आपरोक्ष्याभावेनासिद्धेश्च । आपरोक्ष्ययोग्यत्वविवक्षायां तु भित्त्यन्तरितघटविषयक-शब्दज्ञाने व्यभिचारात् । द्वितीयानुमाने ‘अपरोक्षत्वं ज्योतिष्टोमादिवाक्यजन्यज्ञानवृत्ति’ इत्यपि सुसाधत्वेनाभाससाम्यात् ।
शब्दत्वहेतुना सत्प्रतिपक्षत्वाच्च । किञ्चास्य शब्दस्यापरोक्षधीहेतुत्वे प्रत्यक्षेऽन्त-र्भावापत्तिः । न च यथा बाह्यप्रत्यक्षत्वे योगिमनोऽन्यत्वे सति बाह्यप्रत्यक्षप्रमिति-करणत्वं तन्त्रम्, तथा स्वतोऽपरोक्षविषय शब्दान्यत्वे सति प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षत्वे तन्त्रमिति वाच्यम् । वक्ष्यमाणरीत्या क्वापि शब्दाद् अपरोक्षज्ञानाभावेन विशेषणकल्पकाभावात् । यश्च शब्दत्वहेतोः ‘र्दशमस्त्वमसि’ इत्यादौ व्यभिचार उक्तः, स किं स्वात्मनो दशमत्वं पश्यन्तं प्रति प्रयुक्ते दशमस्त्वमसीति वाक्ये ? अन्यं प्रति वा ? नाद्यः, तस्य दृष्टघटं प्रति प्रयुक्ताद् ‘अयं घटः’ इति वाक्या-ज्जन्यज्ञानस्येव परोक्षत्वेऽपि प्रत्यक्षसिद्धार्थानुवादित्वमात्रेण प्रत्यक्षत्वाभिमानात् । द्वितीयेऽपि यदीन्द्रियव्यापारोऽस्ति तदा रत्नतत्त्व इवोपदेशसहकृतेन्द्रियेणैव दशमत्वेऽपरोक्षधीः । यदि स नास्ति तदा ‘धर्मवांस्त्वमसि’ ‘पर्वतोऽग्निमानि्’ इत्यादाविव विशेष्यस्य प्रत्यक्षत्वेऽपि विशेषणे दशमत्वे परोक्षधीरेव । तत्राप्यपरोक्षेति मयोच्यमानत्वात्प्रतीतिकलहोऽयं निरवधिक इति चेत्, न तावच्छब्दस्यापरोक्षधीहेतुत्वं स्वाभाविकम्, अतिप्रसङ्गात् । नाप्यपरोक्षविषयकत्वनिमित्तकम्, ‘जीवाः परमात्मनो न भिद्यन्ते, आत्मत्वाद्’ इत्यादिलिङ्गजन्यायाः श्रवणात्प्रागापततो वेदान्तजन्याया भाषाप्रबन्धजन्याया अनधीतवेदान्तजन्यायाश्चैक्यप्रतीतेरापरोक्ष्यापातेन श्रवणनियमादेर-योगात् ।
किञ्चार्थस्यापरोक्षत्वं न तावदपरोक्षधीरूपत्वम्, तस्य ब्रह्मणि सत्त्वेऽपि दशमत्वा-दावसत्त्वात् । चैत्रस्यापरोक्षज्ञाने मैत्रस्य शब्दादिना साक्षात्कारादर्शनाच्च । नाप्य-परोक्षव्यवहारविषयत्वम् । व्यवहारापरोक्ष्यस्य परोक्षविषयत्वरूपत्वेऽन्योन्याश्रयात् । अपरोक्षोऽयमित्येवंरूपत्वे त्वज्ञानावृते ऐक्ये तदभावात् । त्वयापि न प्रकाशत इत्यादिव्यवहारार्थमेवावरणकल्पनात् । उक्तव्यवहारयोग्यत्वरूपत्वे भित्तिव्यवहिते घटे शब्दादपरोक्षधीप्रसङ्गात् । अपरोक्षज्ञानजन्यत्वरूपत्वे च वक्ष्यमाणपक्षान्तर्भावात् । तस्मादर्थस्यापरोक्षधी विषयत्वमेवापरोक्षत्वं वाच्यम् । तत्र चैतज्ज्ञानविषयत्वेन तदुक्तावन्योन्याश्रयात् । ज्ञानान्तराभिप्राये तु केषाञ्चिदपरोक्षे स्वर्गादावस्माकं शब्दादपरोक्षधीः स्यात् । एकपुरुषाभिप्राये च पूर्वेद्युश्चैत्रस्यापरोक्षे इदानीं शब्दा-दपरोक्षधीः स्यात् । एककालाभिप्राये च प्रत्यक्षेऽग्नौ लिङ्गाच्छब्दाच्चापरोक्षधीः स्यात् । न चेष्टापत्तिः, करणशक्तिमतिलङ्घ्य ज्ञानस्य विषयानुसारित्वे चाक्षुषादिविषयक-स्मृत्यनुमितिस्पार्शनज्ञानादे१श्चाक्षुषत्वाद्यापातात् । लिङ्गशब्दादिसिद्धे चेन्द्रियात्परोक्षधीप्रसङ्गात् । अनुमिते च शब्दादनुमितिप्रसङ्गात् । एवं च–
परोक्षे चापरोक्षे च चाक्षुषे स्पार्शिनीव च ।
अपरोक्षे परोक्षा धीर्युक्ता करणशक्तितः ।।
तस्माद् ये विरुद्धे ज्ञानत्वावान्तरजाती परोक्षत्वापरोक्षत्वे तदाश्रययोर्ज्ञानयो-र्भिन्नत्वात् । यश्चैको विषयस्तत्र विरुद्धजात्यभावाद्विरुद्धजात्याधारज्ञानविषयत्वस्य च चाक्षुषस्पार्शनज्ञानविषयत्वस्येवैकस्मिन् सम्भवात्प्रत्यक्षविषयमपि शाब्दज्ञानं परोक्षमेव ।
किञ्च धर्मिमात्रस्य प्रत्यक्षत्वाभिप्राये प्रत्यक्षे घटादौ ‘अयं गुरुः’ ‘पर्वतोऽग्निमान्’ इत्यादिशब्दाद् अपरोक्षधीः स्यात् । नापि सप्रकाराभिप्रायम् । प्रकृते तदभावात् । न हि ‘दशमस्त्वमसि’ ‘तत्त्वमसि’ इत्यादिबोधकबोध्यं दशमत्वैक्यादिप्रागपरोक्षम् । वाक्यवैयर्थ्यात् । न च स्वरूपाभिन्ने ऐक्ये स्वरूप ज्ञानेनापरोक्षतो भात्यपि वृत्यर्थं शब्दः । त्वया स्वरूपज्ञानप्रयुक्तभानप्रतिबन्धार्थमेवावरणकल्पनात् । एतेनापरोक्षे ब्रह्मणि परोक्षधीः, परोक्षे कामिन्यादावपरोक्षधीरिवाप्रमाणं स्यादिति निरस्तम् । स्मृतेऽनुभववद् अनुमितेऽग्नाविन्द्रियेणापरोक्षधीवत् पूर्वं परोक्षे पश्चाद्योगजसाक्षात्कारवत् परोक्षतत्तायामपरोक्षप्रत्यभिज्ञानवच्चापरोक्षज्ञानविषयेऽर्थे परोक्षत्वजात्याधारज्ञानो-दयेऽप्यपरोक्षस्य परोक्षत्वेनानुल्लेखेनाप्रामाण्यानापत्तेः । कामिनीसाक्षात्कारस्तु बाधाद-प्रमाणम्, न तु परोक्षार्थविषयकापरोक्षत्वजात्याधारत्वात् । तथात्वे योगज-साक्षात्कारादेरप्यप्रामाण्यप्रसङ्गात् ।
किञ्चैवं शब्दादेवापरोक्षधीरिति त्वदेकदेशिमते दोषाभावेऽपि इन्द्रियमादावभि-ज्ञानमुत्पाद्य संस्कारसचिवं प्रत्यभिज्ञानमिव शब्द आदौ परोक्षज्ञानमुत्पाद्य मननादि-साध्यप्रतिबन्धनिवृत्तिसचिवोऽपरोक्षज्ञानं जनयतीति त्वदेकदेशिमते प्रथमोत्पन्नपरोक्ष-ज्ञानस्याप्यप्रामाण्यं स्यात् । एतेन प्रमातारमपेक्ष्य देशतः कालतः स्वभावतो वा विप्रकृष्ट एव परोक्षज्ञाननियमात्स्वप्रकाशप्रमातृचैतन्याभिन्नत्वेनाविप्रकृष्टे ब्रह्मणि परोक्षधीरेव न युक्तेति निरस्तम् । प्रत्यक्षे वह्मौ लिङ्गादप्यपरोक्षधीप्रसङ्गात् । अविप्रकृष्ट एवापरोक्षज्ञाननियमेन विप्रकृष्टतत्ता व्याप्त्यादाविन्द्रियजन्यप्रत्यभिज्ञाव्याप्त्यादिज्ञानस्यापि परोक्षत्वापाताच्च । तत्र संस्कारादेरेव सन्निकर्षत्वेऽत्राप्या वरणकृतविप्रकर्षस्य सत्त्वाद् वृत्तेरावरणनिवर्तकत्वेऽपि वृत्त्युदयात्प्राग्विप्रकर्षात् पराचीनस्य चाविप्रकर्षस्य प्राचीन-वृत्त्या आपरोक्ष्येऽतन्त्रत्वात् । ननु कर्तृत्वादिरूपापरोक्षाध्यासस्य परोक्षप्रमयाऽ-निवृत्तेरौपनिषदे ब्रह्मणि मानान्तराप्रवृत्तेः शब्दादपरोक्षज्ञानानुत्पत्तावनिर्मोक्षः स्यादिति चेन्न, तस्य ज्ञाननिवर्त्यताया निरस्तत्वात् । निदिध्यासनसंस्कृतमनसाऽपरोक्षधी-सम्भवाच्च । ‘यन्मनसा न मनुते’ इत्यादि श्रुतिस्तु ‘मनसैवानुद्रष्टव्यम्’ इत्यादि-श्रुतिविरोधेनापक्वमनोविषया । ‘मनसा तु विरुद्धेन’ इत्यादिश्रुतेः । अन्यथा शब्दस्य करणत्वेऽपि ‘यतो वाचो निवतन्ते’ इत्यादिश्रुतिबाधः स्यात् । मनसा न क्वाप्य-परोक्षधीर्दृष्टेति चेन्न, योगजसाक्षात्कारदर्शनात् । शब्देनापि तददर्शनाच्च । मनसस्तत्करणत्वे उक्तश्रुतेरिव शब्दस्य तत्करणत्वे श्रुत्यादेरदर्शनाच्च । ‘औपनिषदः पुरुषः’ इत्यादि तु मनसः करणत्वेऽप्यौपनिषदनिदिध्यासनापेक्षत्वात् । तदुक्तम्–
शब्देन दृश्यते ब्रह्मेत्यत्र मानं न दृश्यते ।
मनसा दृश्यते ब्रह्मेत्यत्र मानं तु दृश्यते ।। इति शाब्दप्रत्यक्षभङ्गः ।। ९ ।।
तस्मात्साधनाध्यायोक्तन्यायैर्मोक्षाय श्रवणादिसाध्यनिदिध्यासनजन्यसाक्षात्कारेणेश्वरः प्रसन्नीकरणीय इति सिद्धम् ।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना सङ्गृहीते न्यायामृते तृतीयः परिच्छेदः ।। ३ ।।
अद्वैतसिद्धि:
ननु कथम् अपरोक्षज्ञानजनकत्वं शब्दस्य ? मानाभावादिति चेन्न, ‘तद्धास्य विजज्ञौ’ ‘तमसः पारं दर्शयति’ इत्यादेः ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ इत्यादेश्च मानत्वात् । पूर्ववाक्ये तज्जनका-परोक्षज्ञानस्योपदेश मात्रसाध्यत्वोक्तेः, द्वितीयश्रुतौ शाब्दज्ञानस्य विपदेन विशेषविषयत्वस्य लाभात् सुपदेनापरोक्षत्वोक्तेः । न च विजज्ञावितीत्यादेः परोक्षज्ञानेनापि चरितार्थता, ‘तमसः पारं दर्शयति’ इत्युत्तरवाक्यस्वरसेन अपरोक्षज्ञानपरत्वसिद्धेः । न च ग्राममार्गोपदेष्टरि ग्रामं दर्शयतीतिवत् परम्परया प्रयोजकतयोपचारः, साक्षात्साधनत्वे बाधकाभावेन तस्यात्रान्याय्य त्वाद्, उपदेशातिरिक्तकारणस्य नारदसनत्कुमाराख्यायिकायाम् अप्रतीतेश्च । न च ‘मनसैवानुद्रष्टव्यम्’ इत्यादिश्रुतिविरोधः । तस्याश्चित्तैकाग््रयपरत्वात् । न च सुपदस्याप्रामाण्यशङ्काविरहपरत्वेन द्वितीयवाक्येन तेनापरोक्ष-रूपताप्राप्तिः । अन्यथा वेदान्तबोध्यस्य विचारकर्तव्यतादेश्चापरोक्षत्वापातादिति वाच्यम् । निश्चित-पदेनैवाप्रामाण्यशङ्काविरहादेर्लब्धतया सुपदस्यातत्परत्वात् । नापि वेदान्तबोध्यस्य ब्रह्मातिरिक्त-स्याप्येवमापरोक्ष्यापत्तिः । अर्थपदस्य मुख्यतस्तात्पर्यविषयपरत्वाद्, वेदान्तबोध्यताया ब्रह्ममात्र-पर्यवसन्नत्वाच्च ।
एवमनुमानमप्यत्र मानम्– ‘अपरोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठा-त्यन्ताभावा प्रतियोगित्वात्, ज्ञानत्ववत्’ । न च कर्मकाण्डजन्यज्ञानवृत्तीत्येवमपि साध्येतेति वाच्यम्, विपक्षबाधकसत्त्वासत्त्वाभ्यां विशेषात् । तथा हि– तत्त्वमस्यादिवाक्यस्यापरोक्षज्ञानाजनकत्वे अपरोक्षभ्रमनिवृत्तिर्न स्यात् । न च मनसैवापरोक्षज्ञानम् । मनसः कुत्राप्यसाधारण्येन प्रमाकरणत्वा-भावाद्, आत्मनः स्वप्रकाशत्वात् सुखादीनां साक्षिवेद्यत्वात् । न च शब्दे अपरोक्षज्ञानजनकत्ववद् अन्यत्राकप्तमेव मनसि तत्कल्पनीयम् । एवं हि सर्वांशस्यैव मनसि कल्प्यत्वेन विशेषात् । न चैवं ज्योतिष्टोमादिविषयककर्मकाण्डजन्यज्ञाने कल्पकमस्ति । तत्र हि कल्पनीयमनुष्ठानाय वा ? फलाय वा ?नाद्यः । परोक्षज्ञानादेव तत्सम्भवात् । तत एवानुष्ठानात् फलसिद्धेर्न द्वितीयोऽपि ।
न च विमतः शब्दो नापरोक्षधीहेतुः शब्दत्वादिति प्रतिसाधनम्, ‘दशमस्त्वमसि’ इत्यादावेव व्यभिचारात् । न च तत्रापीन्द्रियमेव करणं शब्दस्तत्सहकारीति वाच्यम् । क्वचित् बहुलतमे तमसि लोचनहीनस्यापि तद्वाक्यादपरोक्षभ्रम निवर्तकस्य दशमोऽस्मीत्यपरोक्षज्ञानस्य दर्शनात् । यत्रापीन्द्रिय-सद्भावः, तत्रापि तदप्रयोजकमेव । न च ‘धर्मवांस्त्वमसि’ ‘पर्वतोऽग्निमान्’ इत्यादौ विशेष्यापरोक्ष-त्वेऽपि विशेषणपारोक्ष्यवद् अत्रापि दशमत्वे पारोक्ष्यमस्त्विति वाच्यम् । अत्र परोक्षत्वे अपरोक्ष-भ्रमानिवृत्तिप्रसङ्गात् ।
ननु एवमपि शब्दस्यापरोक्षज्ञानजनकत्वं किं स्वाभाविकम् ? उतापरोक्षविषयनिमित्तकम् ? नाद्यः । अतिप्रसङ्गात् । न द्वितीयः । ‘जीवाः परमात्मनो न भिद्यन्ते आत्मत्वात्’ इत्यादिना जायमानानुमितेः श्रवणात् प्रागापततो वेदान्तजन्याया भाषाप्रबन्धजन्याया अनधीतवेदान्तजन्याया ऐक्यप्रतीतेश्चापरोक्ष्यापातात् श्रवणनियमादेर नियमात् । किञ्चार्थस्यापरोक्ष्यं न तावदपरोक्षबुद्धि-रूपत्वम् । ब्रह्मण्यस्य सत्त्वेऽपि दशमत्वादावभावात् । चैत्रापरोक्षज्ञाने मैत्रस्य शब्दादिना आपरोक्ष्यादर्शनाच्च । नाप्यपरोक्षव्यवहारविषयत्वम् । व्यवहारापरोक्ष्यस्य तादृगर्थभेदविषयकत्वरूपत्वे अन्योन्याश्रयात् । अपरोक्षोऽयमित्येवंरूपत्वे अज्ञानावृतेऽपि तदभावात् । त्वयापि न प्रकाशत इत्यादिव्यवहारार्थमेवावरण कल्पनात् । उक्तव्यवहारयोग्यत्वरूपत्वे व्यवहितघटे शब्दादपरोक्षज्ञान-प्रसङ्गाद्, अपरोक्षज्ञानजन्यत्वरूपत्वे च वक्ष्यमाणपक्षान्तर्भावात् । तस्मादर्थस्यापरोक्षधीविषयत्व-मेवापरोक्षत्वं वाच्यम् । तत्र चैतज्ज्ञानविषयत्वेन तदुक्तावन्योन्याश्रयः, ज्ञानान्तराभिप्राये तु केषाञ्चिदपरोक्षे स्वर्गादावस्माकं शब्दादपरोक्षधीप्रसङ्गात् । एकपुमभिप्राये तु पूर्वापरोक्षे शब्दादिना इदानीमपरोक्षधीप्रसङ्गात् । एककालाभिप्राये प्रत्यक्षाग्नौ लिङ्गाच्छब्दाद्वा आपरोक्ष्यं स्यादिति चेन्न ।
यं शाब्दबोधमादाय यस्य बोध्यत्वं तत्साक्षात्कारार्थं तदभिन्नार्थावगाहित्वनिमित्तकमित्युक्तदोषा-नवकाशात् ।
न च एवं प्रत्यक्षान्तर्भावः शब्दस्य स्यादिति वाच्यम् । बोध्यभिन्नार्थकशब्दातिरिक्तत्वे सति प्रत्यक्षप्रमाकरणत्वस्य प्रत्यक्षस्यान्तर्भावे तन्त्रत्वात् । ननु– ‘मनसैवानुद्रष्टव्यम्’ इत्यादेरिव मनःकरणताप्रतिपादकस्य प्रकृतेऽभावात् अनौपदेशिकं शब्दस्य साक्षात्कारकरणत्वमिति चेन्न, ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ इत्यादौ तत्र साधुरिति तदन्यासाधुत्वे सति तत्साधुत्वरूपसाध्वर्थ-विहिततद्धितश्रुत्या एव मानत्वात् । ननु मनसः करणत्वेऽपि औपनिषदत्वस्य निदिध्यासनापेक्षिततया अन्यथासिद्धिः, न, ‘यन्मनसा न मनुते’ इति मनसः करणत्वनिषेधात् । न च ‘यतो वाचो निवर्तन्ते’ इति शब्दस्यापि करणत्वानुपपत्तिः, औपनिषदत्वश्रुत्यनुसारेण तस्याः शक्त्या अबोधकत्वपरत्वात् । तदुक्तं– ‘चकितमभिधत्ते श्रुतिरपि’ इति । न च मनसैवानुद्रष्टव्यमिति तृतीयाश्रुत्यनुसारेण न मनुत इत्यस्यैवापक्वमनोविषयतयाऽन्यथानयनसाम्यमिति वाच्यम् । एवं साम्येऽपि मनसः करणत्वे ह्यधिककल्पना । शब्दस्य करणत्वे त्वल्पकल्पनेति विशेषात् । तस्मात्तत्वमस्यादिवाक्यस्यापरोक्ष-ज्ञानजनकत्वादविद्यानिवृत्त्यात्मकमोक्षसाधनब्रह्मसाक्षात्काराय मननाद्यङ्गकं श्रवणमङ्गि नियमविधिविषय इति सिद्धम् ।। इत्यद्वैतसिद्धौ शब्दादपरोक्षोपपत्तिः ।।
विश्वेश्वराख्यस्य गुरोः प्रसादादद्वैतसिद्धिर्मधुसूदनस्य ।
अभूदभूमिः खलु दूषणानां गुणैरमेयैरवगुम्फितश्रीः ।।
ससम्भ्रममपेक्षया परगुणोन्नतिर्दुःसहा
नितान्तमनपेक्षया निजपुमर्थहानिः परा ।
अतः सुमतयो यथानयमुपेक्ष्य दुर्मत्सरं
प्रयोजनवशानुगाः कुरुत मत्कृतौ सत्कृतिम् ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीचरणशिष्य श्रीमधुसूदनसरस्वतीविरचितायाम् औतसिद्धौ श्रवणादिनिरूपणं नाम तृतीयः परिच्छेदः ।। ९ ।।
न्यायामृततरङ्गिणी
‘तद्धास्य’ इति वाक्ये ज्ञानस्य विशब्देन विशेषणेऽपि निर्दुष्टत्वमेव लभ्यते न त्वापरोक्ष्यमिति श्रुत्यन्तरमाह – तमस इति ।। दृशेः साक्षात्कारार्थकत्वादित्यर्थः ।। उपदेशादिति ।। तथा च लिङ्गाच्छब्दस्य साक्षात्कारहेतुत्वम् अवगम्यते ।। वेदान्तेति ।। विचारितवेदान्तजन्यापरोक्षज्ञानविषयीकृतवेदान्तार्थकत्वं सुनिश्चितार्थत्वमित्यर्थः ।। अपरोक्ष-ज्ञानेति ।। चाक्षुषत्वादौ व्यभिचारवारणाय निषेधद्वयान्तर्भावः ।। तत्रापीति ।। दशमादिपदैः सङ्ख्यादिषूपस्थितेषु चक्षुषा संसर्गबोधः ।। अन्यथेति ।। विचारितवेदान्तजन्यापरोक्षज्ञान-विषयीकृतवेदान्तार्थकत्वस्य सुनिश्चितार्थशब्दार्थत्वे विचारकर्तव्यतादेरर्चिरादिमार्गस्यातीत-पुरीततनाडीवंशादीनां च वेदान्तप्रतिपाद्यत्वेनापरोक्ष्यं स्यात् ।। वक्ष्यमाणेति ।। इन्द्रिय-व्यापारविरहदशायां ‘संस्कारवांस्त्वमसि’ इत्यादौ विशेष्यस्य प्रत्यक्षत्वेऽपि विशेषणविशिष्टे परोक्षत्वमेव यथा तथा विशेषणविशेष्ययोः प्रत्यक्षत्वेऽपीन्द्रियव्यापाराभावेन ‘अयं घटः’ इति शब्दजज्ञाने परोक्षत्वसम्भवात् ।। अज्ञानेति ।। शब्दजन्यापरोक्षज्ञानानन्तरमैक्यावरणानिवृत्तौ तस्यापरोक्षत्वं, तदापरोक्ष्ये च शब्दस्य तद्विषयकापरोक्ष्य हेतुत्वमित्यन्योन्याश्रयप्राप्तेरित्यर्थः ।। स्वतोऽपरोक्षेति ।। तत्वमस्यादिवाक्ये सत्यन्ताभावात् ज्योतिष्टोमादिवाक्ये विशेष्याभावात् प्रत्यक्षत्वप्रयोजकाभावः ।।
वक्ष्यमाणेति ।। तथा च तत्त्वमस्यादिवाक्यसङ्ग्रहाय विशेषणोपादानम् असङ्गतमित्यर्थः ।। विशेषणे इति ।। दशमत्वरूपविशेषणविशिष्टे ।। वक्ष्यमाणपक्षेति ।। तत्र चान्योन्या-श्रयादि वक्ष्यते ।। तत्र चैतदिति ।। ‘धर्मवांस्त्वमसि’ इत्यादिवाक्यजन्यम् अपरोक्षज्ञानं तद्विषयत्वेन तत्र धर्मत्त्वादावपरोक्षत्वं धर्मवत्त्वादेरर्थस्यापरोक्षत्वे तद्विषयकस्योक्तवाक्यज-ज्ञानस्यापरोक्षत्वमित्यन्योन्याश्रयः ।। ज्ञानान्तरेति ।। अपरोक्षरूप ज्ञानान्तरविषयत्वेन स्वर्गादेरपरोक्षत्वात्तत्रास्माकं स्वर्गादिवाक्यादपरोक्षधीप्रसङ्गः । एवमेकपुरुषैककालयोर्योज्यम् ।। चाक्षुषादित्वेति ।। चाक्षुषविषयकाणां स्मृत्यादीनां चाक्षुषत्वं, स्पर्शनविषयकाणां स्पर्शनत्वमित्यादि । यत्तु यं शब्दमादाय यस्य बोद्धृत्वं तदभिन्नार्थावगाहित्वनिमित्तं तदर्थस्य साक्षात्त्वमिति । तन्न । एवं हि बोद्धृभिन्नार्थविषयकज्ञान विषयत्वमित्युक्तं स्यात् । तस्य च धर्माभेदपरे ‘परमधर्मा त्वम्’ इत्यादिवाक्यजज्ञानविषये धर्मवदादौ सत्त्वात् ।
अपरोक्षार्थविषयत्वं शब्दस्यापरोक्षज्ञानहेतुत्वे तन्त्रमित्यत्र दोषान्तरमाह– किञ्चेति ।। वाक्यवैयर्थ्यादिति ।। उपलक्षणमिदम् । वाक्यजज्ञानात्प्रागवृत्तत्वाच्चेत्यपि ज्ञेयम् ।। तत्र संस्कारादेरिति ।। तत्तादेर्विप्रकृष्टस्यापि संस्कारादिना विप्रकृष्टत्वसम्पादने ।। अत्रापीति । सन्निकृष्टस्याप्यावरणेन विप्रकर्षोऽस्ति । आवरणनिवृत्त्या सन्निकृष्टमिति शङ्कां वारयति– वृत्तेरिति ।। तस्येति ।। बिम्बप्रतिबिम्बादेस्त्वन्मते ऐक्यसाक्षात्कारे सत्यपि भेदभ्रमानु-वृत्तेरित्यर्थः ।। मनसैवेति ।। एतस्यास्तृतीयायुक्तत्वेन बलवत्त्वात् ।। मनसेति ।। मनसः करणान्तरसहकारितया न पृथक्करणत्वमित्यर्थः ।। औपनिषद इत्यादीति ।। तत्र साधुरिति साध्वर्थतद्धितस्य यथाकथञ्चित्तदुपयोगेन साधुत्वात् । परिच्छेदार्थमुपसंहरति– तस्मादिति ।। शाब्दप्रत्यक्षत्वभङ्गः ।। ९ ।।
सद्योजातजटाजपावनसरिद्गोदावरीतीरतो-
गव्यूतिर्वसतिस्सतां कुलवताम्बापुरी तत्र ये ।
व्यासाख्या उपमन्युगोत्रजबुधास्तेष्वास्त यो मुद्गलः
तत्राजज्ञत ये मुरारिचरणा व्यासाभिधाना बुधाः ।। १ ।।
तेभ्योऽजायत विश्वनाथ इति यस्सज्ज्ञानरत्नाकरः
तस्मादाविरभूत्सुरद्रुमयशा आचार्य नारायणः ।
रामाचार्य इतीरितस्तदनुजो यस्तत्ववादाम्बुधेः
आतानीत्स तरङ्गिणीमिह परिच्छेदस्तृतीयोऽपि यः ।। २ ।।
।। इति श्रीमन्न्यायामृततरङ्गिण्यां तृतीयः परिच्छेदः ।।
न्यायामृतकण्टकोद्धारः
शब्दस्यापरोक्षज्ञानजनकत्वमुक्तं खण्डयितुं तन्मतमनुवदति– यच्चोक्तमिति । ननु शब्दस्यापरोक्षज्ञान जनकत्वमयुक्तम् । प्रमाणाभावादित्यत आह– तद्धास्येति । नन्वेतत् परोक्षज्ञानेनापि चरितार्थमित्यत आह– तमस इति । अत्र च साक्षात्कारार्थे दृशेः प्रयोगान्न परोक्षज्ञानेनोपपत्तिः कर्तुं शक्येति भावः ।। वेदान्तेति ।। अन्यथा सुशब्दानर्थक्यं स्यादिति भावः । अनुमानमपि शब्दस्यापरोक्षज्ञानजनकत्वे प्रमाणयति– विमतमिति । हेतौ मात्रपदोपादानं वह्निविषयकानुमितौ व्यभिचारवारणाय । ‘तमसः पारम्’ इत्यस्य तु न परोक्षज्ञानेन चरितार्थत्वमित्यत आह– दर्शयतीत्यादेस्त्विति । अन्यथेति । शब्दस्यैवापरोक्षसाधनत्व इत्यर्थः ।। वेदान्तेति ।। एवं च न सुशब्दानर्थक्यमिति भावः ।। अन्यथेति ।। वेदान्तानां ब्रह्मविषयकापरोक्षज्ञानजनकत्व इत्यर्थः ।। आद्यानुमान-स्येति ।। नन्वेतच्छब्दजज्ञानेऽप्यपरोक्षत्वमस्त्येवेति न व्यभिचार इत्यत उक्तं वक्ष्यमाण-रीत्येति । ‘किञ्चास्ये’त्यादिवक्ष्यमाणरीत्येर्थः । ननु शब्दत्वहेतुना सत्प्रतिपक्षो न युक्तः । व्यभिचारस्योक्तत्वादित्यत्राह– यच्चेति ।।
अतिप्रसङ्गादिति ।। स्वर्गापूर्वादिविषयशब्दात् स्वर्गादेरप्यापरोक्ष्यं स्यादित्यर्थः ।। जीवा इति ।। तथा चानुमानादेरप्यपरोक्षधीहेतुता स्यादित्यर्थः । किञ्चार्थस्यापरोक्षत्वसम्भवे तद्विषयत्वेन शब्दस्यापरोक्षहेतुत्वं वक्तव्यम् । न च तत् सम्भवति । विकल्पानुपपत्तेरित्याह– किञ्चेति । व्यवहारस्यापरोक्षत्वं किमपरोक्षार्थविषयत्वं, किं वा परोक्षोऽयमित्येवंरूपत्वम् ? नाद्य इत्याह– व्यवहारेति ।। अन्योन्याश्रयादिति ।। अर्थापरोक्ष्येण व्यवहारापरोक्ष्यं, तेन चार्थापरोक्ष्यमित्यन्योन्याश्रय इत्यर्थः । द्वितीयं निरस्यति– अपरोक्षोऽयमित्येवमिति । नन्वैक्यस्याज्ञानावृतत्वेऽपि कुत एतादृशव्यवहाराभाव इत्यत आह– त्वयापीति । अर्थस्यापरोक्षत्वं हि अपरोक्षधीविषयत्वम् । तच्च एतदपरोक्षज्ञानविषयत्वेन वा, ज्ञानान्तरविषयत्वेन वा, एकपुरुषीयज्ञानान्तरविषयत्वेन वा, एककालीनतद्विषयत्वेन वा ? नाद्य इत्याह– तत्रेति । तदुक्तौ अर्थापरोक्ष्योक्तौ । एतज्ज्ञानविषयत्वेनार्थापरोक्ष्यम्, अपरोक्षार्थविषयत्वेन चैतज्ज्ञानस्यापरोक्ष्यमित्यन्योन्याश्रय इत्यर्थः । द्वितीयं दूषयति– ज्ञानन्तरेति । तृतीयं निरस्यति– एकपुरुषेति । चतुर्थं प्रत्याह– एककालीनेति । नन्वथापि ब्रह्मणोऽपरोक्षत्वात् तद्विषयकं शाब्दज्ञानं कथं परोक्षमिति चेदत्राह– एकज्ञानस्य विरुद्धजात्याश्रयत्वापत्तिः स्यादिति । ..... (अत्र ग्रन्थपातः)
आवरणस्य निवृत्तत्वात् नावरणकृतो विप्रकर्ष इत्यत आह– वृत्तेरिति । तथापि वृत्त्युदयोत्तरं विप्रकर्षासत्वादापरोक्ष्यं स्यादित्यत आह– पराचीनस्येति । शब्दस्यापरोक्षज्ञानाजनकत्वे बाधकं शङ्कते– ननु कर्तृत्वादीति । निरस्तत्वात् । ज्ञाननिवर्त्यत्वान्यथानुपपत्तिभङ्गे इति शेषः । ननु न मनसाऽपरोक्षधीसम्भवः, निषेधादित्यत आह– यन्मनसेति । अन्यथेति । एवमपि अपरोक्षधीजनकत्वाभावे इत्यर्थः । उक्तेर्थे सम्मतिमाह– तदुक्तमिति । परिच्छेदार्थमुपसंहरति– तस्मादिति । इति शाब्दप्रत्यक्षभङ्गः ।।
यत्पादकञ्जमाश्रित्य नन्दन्ति सततं बुधाः ।
मुक्ताः सन्तो यथायोगं तमुपासे रमापतिम् ।।
।। इति न्यायामृतकण्टकोद्धारे तृतीयः परिच्छेदः ।।
न्यायकल्पलता
‘तद्धास्य’ इति वाक्ये ज्ञानस्य विशब्देन विशेषणेऽपि निर्दुष्टत्वमेव लभ्यते न त्वापरोक्ष्यमिति श्रुत्यन्तरमाह– तमस इति ।। दृशेः साक्षात्कारार्थकत्वादित्यर्थः ।। उपदेशादेवेति ।। तथा च लिङ्गा-च्छब्दस्य साक्षात्कारसाधनत्वम् अवगम्यते ।। वेदान्तेति ।। विचारितवेदान्तजन्यापरोक्षज्ञान-विषयीकृतवेदान्तार्थकत्वं सुनिश्चितार्थत्वमित्यर्थः ।। अपरोक्षज्ञानेति ।। चाक्षुषत्वादौ व्यभिचारवारणाय निषेधद्वयान्तर्भावः ।। ननु दशमादिपदैः सङ्ख्यादिषूपस्थितेषु चक्षुषा संसर्गबोधः इत्याशङ्क्य निराकरोति– न च तत्रापीति ।। उपन्यस्तं परमतम् अन्यथोपपत्त्या दूषयति– मैवमिति ।। कृतार्थत्वादिति ।। उपलक्षणमेतत् । ‘पश्यार्थैश्चानालोचने’ इति पाणिनिवचनादपि दृशेर्नापरोक्ष ज्ञानार्थतानियमः इत्यपि द्रष्टव्यम् ।। अन्यथेति ।। विचारितवेदान्तवाक्यजन्यापरोक्षज्ञानविषयीकृतवेदान्तार्थकत्वस्य सुनिश्चितार्थशब्दार्थत्वेऽपि विचारकर्तव्यतादेरर्चिरादिमार्गस्यातीतपुरीततनाडीवंशादीनां च वेदान्त-प्रतिपाद्यत्वेनापरोक्ष्यं स्यात् ।। वक्ष्यमाणेति ।। यथेन्द्रियव्यापारविरहदशायां ‘संस्कारवांस्त्वमसि’ इत्यादौ विशेष्यस्य प्रत्यक्षत्वेऽपि विशेषणविशिष्टे परोक्षत्वमेव तथा विशेषणविशेष्ययोः प्रत्यक्षत्वेऽ-पीन्द्रियव्यापाराभावेन ‘अयं घटः’ इति शब्दजज्ञाने परोक्षत्वसम्भवात् ।। अज्ञानेति ।। शब्दजन्या-परोक्षज्ञानानन्तरमैक्यावरणानिवृत्तौ तस्यापरोक्ष्यं, तदापरोक्ष्ये च शब्दस्य तद्विषयकापरोक्षहेतुत्वमित्य-न्योन्याश्रयप्राप्तेरित्यर्थः ।। स्वतोऽपरोक्षेति ।। तत्वमस्यादिवाक्ये सत्यन्ताभावात् ज्योतिष्टोमादिवाक्ये च विशेष्याभावात् प्रत्यक्षत्वप्रयोजकाभावः ।।
वक्ष्यमाणेति ।। तथा च तत्त्वमस्यादिवाक्यसङ्ग्रहाय विशेषणोपादानम् असम्मतमित्यर्थः ।। विशेषण इति ।। दशमत्वरूपविशेषणविशिष्टे ।। वक्ष्यमाणपक्षेति ।। तत्र चान्योन्याश्रयादि वक्ष्यते ।। तत्र चैतदिति ।। ‘धर्मवांस्त्वमसि’ इत्यादिवाक्यजन्यम् अपरोक्षज्ञानं तद्विषयत्वेन तत्र धर्मवत्त्वा-दावपरोक्षत्वं धर्मवत्त्वादेरर्थस्यापरोक्षत्वे तद्विषयकस्योक्तवाक्यजज्ञानस्यापरोक्षत्वमित्यन्योन्याश्रयः ।। ज्ञानान्तरेति ।। अपरोक्षरूपज्ञानान्तरविषयत्वेन स्वर्गादेरपरोक्षत्वात्तत्रास्माकं स्वर्गादिवाक्याद-परोक्षधीप्रसङ्गः । एवमेकपुरुषैककालयोर्योज्यम् ।। चाक्षुषादित्वेति ।। चाक्षुषविषयकाणां स्मृत्यादीनां चाक्षुषत्वं, स्पार्शनविषयकाणां १स्पार्शनत्वमित्यादि । यत्तु यं शब्दमादाय यस्य बोद्धृत्वं तदभिन्नार्थावगाहित्वनिमित्तं तदर्थस्य साक्षात्त्वमिति । तन्न । एवं हि बोद्धृभिन्नार्थविषयकज्ञान विषयत्वमित्युक्तं स्यात् । तस्य च धर्माभेदपक्षे ‘परमधर्मा त्वम्’ इत्यादिवाक्यजज्ञानविषये धर्मवदादौ सत्त्वात् ।
अपरोक्षार्थविषयत्वं शब्दस्यापरोक्षज्ञानसाधनत्वे तन्त्रमित्यत्र दोषान्तरम् अभ्युच्चिनोति– किञ्चेति ।। वाक्यवैयर्थ्यादिति ।। उपलक्षणमिदम् । वाक्यजज्ञानात्प्रागावृत्तत्वाच्चेत्यपि ज्ञेयम् ।। तत्र संस्कारादेरिति ।। तत्तादेर्विप्रकृष्टस्यापि संस्कारादिनाऽविप्रकृष्टत्वसम्पादने ।। अत्रापीति । सन्निकृष्टस्याप्यावरणेन विप्रकर्षोऽस्ति । आवरणनिवृत्त्या सन्निकृष्टमिति शङ्कां वारयति– वृत्तेरिति ।। तस्येति ।। बिम्बप्रतिबिम्बादेस्त्वन्मते ऐक्यसाक्षात्कारे सत्यपि भेदभ्रमानुवृत्तेरित्यर्थः ।। मनसैवेति ।। एतस्यास्तृतीयायुक्तत्वेन बलवत्त्वात् ।। मनसेति ।। मनसः करणान्तरसहकारितया न पृथक्करणत्व-मित्यर्थः ।। औपनिषद इत्यादीति ।। तत्र साधुरिति साध्वर्थतद्धितस्य प्रतिपाद्यत्वेन प्रतिपादकत्वेन वा द्रष्टत्वेन वा तदुपयोगेन साधुत्वात् । शास्त्राङ्गत्वं दर्शयन् परिच्छेदार्थमुपसंहरति– तस्मादिति ।। शाब्दप्रत्यक्षत्वभङ्गः ।। ९ ।।
सर्वसद्गुणरूपाय सर्वावद्यप्रहाणये ।
सर्ववेदैकवेद्याय परस्मै ब्रह्मणे नमः ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्व्यासतीर्थश्रीचरणकृतन्यायामृतटीकायां श्रीमत्कूर्मनृसिंहाचार्यविरचितायां न्यायकल्पलतायां तृतीयः परिच्छेद्नः ।।