किञ्च न तावद् ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिस्तत्र मानम्
३७. द्वैतप्रत्यक्षस्य अद्वैतश्रुतिबाधकत्वखण्डनभङ्गः
न्यायामृतम्
किञ्च न तावद् ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिस्तत्र मानम् । शब्दस्य हि नापातप्रतीत एवार्थः, ‘आज्यैः स्तुवते,’ ‘आकाशादेव समुत्पद्यन्ते’ इत्यादेरपि चित्राज्याधिकरणाकाशाधिकरणपूर्वपक्षरीत्या घृतगगनाद्यर्थत्वस्य ‘अन्धो मणिम् अविन्दत्’ ‘मृदब्रवीत्’ इत्यादेरपि प्रतीतार्थपरत्वस्य च प्रसङ्गेन मीमांसावैयर्थ्यात् । ‘बिभेत्यल्पश्रुताद्वेदः’ इति स्मृतेश्च ‘कश्छन्दसां योगमावेद धीरः’ इति श्रुत्या च स्वार्थस्य गहनत्वोक्तेश्च । किन्तु मानान्तरेण पूर्वोत्तरेण चाऽविरुद्धः । उक्तं हि ‘शास्त्रं हि शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्’ इत्यत्र वार्तिके–
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ।
ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च ।। इति ।
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ।
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ।।
अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।
अन्यश्च परिपूर्णेन समस्ताङ्गोपसंहृतौ ।। इति च ।
उक्तं च–
विरुद्धवत्प्रतीयन्ते आगमा यत्र ये मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ।। इति ।
अत्र च प्रत्यक्षादिविरोधः स्पष्टः ।
अद्वैतसिद्धिः
ननु– आपातप्रतिपन्न एव न तावत् श्रुत्यर्थः, ‘कश्छन्दसां योगमावेद धीरः’ इति श्रुत्या ‘बिभेत्यल्पश्रुताद्वेदः’ इति स्मृत्या च वेदार्थस्यातिगहनतोक्तेः, मीमांसावैयर्थ्यप्रसङ्गाच्च, किन्तु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थः । अविरोधग्रहणार्थं च मीमांसासाफल्यम् । अत एव ‘आज्यैः स्तुवते’ ‘आकाशादेव समुत्पद्यन्ते’ इत्यादावापातप्रतीतघृतगगनादि परित्यागेनाज्याकाशादिपदानां सामपरमात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांसयोश्चित्राकाशाद्यधि करणेषु, अन्यथा तत्तत्पूर्वपक्षाभ्युपगमापत्तेः, तथा चोक्तं वार्तिककारैः ‘शास्त्रं शब्द विज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्’ इत्यत्र–
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ।
ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च ।।
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ।
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ।।
अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।
अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहृतौ ।। इति ।
अन्यत्राप्युक्तम्–
विरुद्धवत्प्रतीयन्त आगमा यत्र ये मिथः ।
तत्र दृष्टानुसारेण तेषामर्था विवक्षिताः ।।
इति । तथा च प्रत्यक्षादिविरोधात् पूर्वोत्तरविरोधाच्च नाद्वैतपरत्वम् ‘‘एकमेव’’ इत्यादि वाक्यानामिति चेन्न । द्वैतप्रत्यक्षस्य चन्द्रप्रादेशिकत्वप्रत्यक्षवत् सम्भाविताप्रामाण्यतया अद्वैतश्रुतिविरोधित्वाभावात् । यथा च श्रुत्या प्रत्यक्षं बाध्यते, तथा प्रपञ्चितमधस्तात् ।
न्यायामृततरङ्गिणी
‘एकमेवाद्वितीयम्’ इत्यादौ अद्वितीयादिशब्दैर्द्वितीयमात्रनिषेधाच्छ्रुतिर्मिथ्यात्वे मानमिति यदुक्तं तन्निषेधति– किञ्चेत्यादिना ।। एकमेवेति ।। इतिशब्दः प्रकार- वाची । तथा च एको द्रष्टा द्वैतो भवतीत्यादिश्रुतिरप्युदाहर्तव्या । तेन नाग्रिमेण सलिल इत्यादिनाऽसङ्गतिः । ननूक्तविधया मिथ्यात्वस्य ततोऽवगमात्कथं सा तत्र न मानमित्यत आह– शब्दस्येति ।। आज्यैः स्तुवत इति ।। आपातप्रतीत एव यदि शब्दार्थस्तर्हि आज्यैः स्तुवत इत्युत्पत्तिवाक्यगताज्यशब्दस्य घृतादिरेवार्थः स्यात् । तथा च पञ्चदशाज्यानीति गुणवाक्यमीमांसारूपविचारवैयर्थ्यं स्यात् । तेन ह्युत्पत्ति वाक्यगताज्यशब्दस्य स्तुतिनामधेयता सिध्यति । तथा हि । पञ्चदशान्याज्यानि भवन्तीत्यत्र न सङ्ख्याविशिष्टाज्यविधानं सम्भवति । वक्ष्यमाणदोषात् । किन्त्वा-ज्यानुवादेन सङ्ख्यामात्रविधानम् । तथा च स्तोत्रे घृतस्याप्राप्तत्वात्तदनुवादासम्भवा- त्स्तोत्रानुवादेनैव सङ्ख्या विधातव्या । तच्चाज्यशब्दस्य स्तोत्रवाचित्वेऽवकल्प्यते नान्यथेति गुणवाक्यालोचनेनैवाज्यादिपदं उत्पत्तिगतं नामत्वेनाध्यवसीयते । आपात- प्रतीतस्य शब्दार्थत्वे तु नैतत्सम्भवतीत्यर्थः । आज्यसंज्ञकाभिः स्तुतिभिरिष्टं कुर्युरिति तदर्थः ।
चित्रेति ।। प्रथमस्य चतुर्थपादे विचारितम् । ‘यस्मिन् गुणोपदेशः प्रधानतोऽ भिसम्बन्धः’ स्तोत्रप्रकरणे श्रूयते पञ्चदशान्याज्यानीति । तथा आज्यैः स्तुवत इति । अत्राज्यशब्दो गुणविधिः कर्मनामधेयं वेति संशये रूढिप्राबल्यात्पञ्चदश-सङ्ख्याविशिष्टघृतलक्षणगुणविधिः । नन्वाज्यस्य द्रव्यत्वादक्रियात्मनो विधिर्न सम्भवतीति चेन्न । अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति स्मृत्याऽ-स्तिधातुर्भवन्तीशब्दवाच्यवर्तमानार्थलड्विभक्तिपरः प्रथमपुरुषसमानाधिकरण-युष्मदस्मदतिरिक्तोपपदे सत्यप्रयुज्यमानोऽप्यस्तीत्यनुशासनादस्तिभवत्योश्चैकार्थत्वाद् भवत्यध्याहारेण सत्तारूपक्रियालाभात् ।
नन्वेवमपि विधायकाश्रवणान्न गुणविधित्वमिति चेन्न । प्रयोगवचनाद्विधिरव-गम्यते । स्तोमेडविधिः पञ्चदशाद्यर्थ इति स्मृत्या डप्रत्ययान्तस्य पञ्चदशशब्दस्य स्तुतेर्मानं स्तोम इति स्तोत्रियस्य ऋक्सङ्ख्यावाचित्वात्तत्समानाधिकरणाज्यपदस्य न घृतवाचिता युक्तेति चेन्न । स्तुतेः साधनद्वारेण सङ्ख्यात्मकमानपरिच्छेद्यत्वात् । श्रुतिसाधनपरिच्छेदिकायाः सङ्ख्यायाः स्तुतिमानत्वेन स्तोमत्वात् । ऋचामिव घृतस्यापि रथघोषवदुपस्थापकतया स्तुतिसाधनत्वोपपत्तेर्डप्रत्ययाविरोधः । न हि स्तोत्रसाधनानामेव ऋचां परिच्छेदिका सङ्ख्या स्तोमशब्दवाच्या न साधनान्तर-परिच्छेदिकेति राज्ञामाज्ञा ।
नन्वेवं स्तोत्रस्य स्तोमशब्दवाच्यतया साधनसङ्ख्यया परिच्छेद्यत्वार्थं घृतादीनां स्तोत्रसाधनत्वं वक्तुं आज्यवन्तीति वक्तव्यम् । तथा च मत्वर्थलक्षणाप्रसङ्ग इति चेत् । न । विधौ मत्वर्थलक्षणापत्तेः । श्रुतवाक्यगतेन विधिना सहाज्यस्य संयोगाभावात् । स्तोत्रप्रकरणे यत्पञ्चदशानीत्यादिगुणवाक्याम्नानं तदनुमितेन पञ्चदशसङ्ख्याविशिष्टाज्यैः स्तोत्रस्योपकर्तव्यमित्यादिवाक्येन कृतो यः स्तोत्राज्य-सम्बन्धः तत्पूर्वकः प्रयोगवचनेन विधिराश्रयितव्यः । तेन च मत्वर्थ एव प्रतिपाद्यत इति न लक्षणा । तदुक्तं वार्तिके ।
श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने ।
लक्षणावाक्यभेदादिदोषो नानुमितो ह्यसौ ।। इति ।
घृतस्य द्रव्यात्मकत्वेऽपि भवत्युपपन्ना सत्ता प्रकरणग्राह्या भविष्यति । ननु धातु वाच्यत्वमात्रेण सत्तायाः क्रियात्वेऽपि चेतनक्रियात्वाभावेनाननुष्ठेयत्वान्न प्रकरण ग्राह्यता सम्भवतीति चेन्न । सत्तायाः स्वरूपेणाननुष्ठेयत्वेऽप्यङ्गत्वेन स्तोत्र-सामीप्यावगमात्तस्य च सन्निधिस्थापनापाद्यरूपत्वात्तेन रूपेणानुष्ठेयत्वं भविष्यति संसर्गिद्रव्यत्वाद् आज्यानां स्वरूपेण सङ्ख्यायोगाभावेऽपि पञ्चदशाज्यपात्राणि समीपे निधाय स्तोत्रं कर्तव्यम् । यथाग्निमुपसमाधाय स्तुवत इत्यत्राग्निः सत्तामात्रे-णोपकरोति तद्वत् । साधकतमत्वविवक्षयोत्पत्तिवाक्येऽनुवादार्थं तृतीयानिर्देशोपपत्तिः । न चोत्पत्तिवाक्ये आज्यानुवादोऽनर्थकः । प्रशस्तमिदं स्तोत्रं यत्क्रियमाणं आज्य-सन्निधियुक्तं भवतीत्येवं स्तोत्रप्रशंस्यार्थत्वेनानुवादसाफल्यात् । तस्माद्गुणविधिरिति पूर्वः पक्षः ।
सिद्धान्तस्तु । स्तोत्रेषु द्रव्यसङ्ख्ययोरुभयोरप्राप्तत्वान्नान्यतरानुवादेनेतरविधि सम्भवः । न च कर्मान्तरेषु प्राप्तस्याज्यस्यानुवादेन सङ्ख्याविधानं न सम्भवति । कर्मान्तरस्य स्तोत्रप्रकरणे बुद्धिस्थत्वाभावात् स्तोत्रप्रकरणबाधश्च स्यात् । आज्य स्वरूपानुवादेन सङ्ख्याविधौ च द्रव्याङ्गत्वापत्तेरकर्माङ्गत्वप्रसङ्गेनानर्थक्यापत्तेश्च । सङ्ख्याविशिष्टद्रव्यविधानेऽपि सङ्ख्याया द्रव्यविशेषणत्वेन अकर्माङ्गत्वं स्यात् । सङ्ख्याया द्रव्यविशेषणत्वे क्रियाविशेषणत्वाभावेन अविधेयत्वापत्तिश्च । पश्वेक-त्वादेस्तु विधेयक्रियोपादानात्सङ्ख्यायाश्चैकप्रत्ययोपादानलक्षणया श्रुत्या एकपदो पादानलक्षणश्रुतिगम्यप्रातिपदिकार्थाङ्गत्वबोधेन कारकाङ्गत्वावगतेस्तद्द्वारेण क्रियाङ्गत्वा वश्यम्भावात् क्रियाङ्गत्वेन च विधेयत्वम् । न चेह क्रियास्ति । क्रियाभावादेवा क्रियात्मकत्वेन स्तोत्रप्रकरणग्राह्यत्वानुपपत्तेरानर्थ्यक्यापातः । तदुक्तं वार्तिके ।
नावान्तरक्रियायोगादृते वाक्योपकल्पितात् ।
गुणद्रव्यैः कथं भावैर्गृह्णन्ति प्रकृताः क्रियाः ।। इति ।
भवतिक्रियाया अनुशासनसिद्धत्वेऽपि न तां प्रति द्रव्यसङ्ख्ययोरङ्गत्वं सम्भवति । क्रियासिद्धौ व्याप्तिप्रमाणं कारकं क्रियाङ्गं भवति सत्तासिद्धिवेलायां चालब्धात्म-कत्वान्न व्यापारः सम्भवति । तथा च द्रव्यसङ्ख्ययोर्भवनक्रियाङ्गत्वेन न तद्द्वारा प्रकरणेन ग्रहणं सम्भवति । ननु आज्यसत्तायाः स्वतः सिद्धत्वेन तस्य तां प्रत्यनङ्गत्वेऽपि स्तोत्रसामीप्यासिद्धेस्तेन रूपेण विधेयत्वादङ्गत्वं भविष्यतीति । मैवम् । सामीप्यस्याश्रुतत्वात्स्तोत्राङ्गत्वेन तत्सामीप्यकल्पनम् । सामीप्यसम्पादन-रूपेण चाविधेयतयाङ्गत्वमितीतरेतराश्रयत्वम् । अग्निमुपसमाधायेति च स्पष्टं विधानम्, आत्मलाभव्यतिरिक्ता चेयं क्रिया शक्यते कथं भावेन ग्रहीतुम् । ननु आग्नेयोऽष्टाकपालो भवतीत्यादाविवावश्यकल्पनीय‘भवति’वाच्यप्रयोज्यव्यापाररूप भावनाक्षिप्तप्रयोजकव्यापाररूपभावनाविध्यन्यथानुपपत्त्या पञ्चदशसङ्ख्याकैराज्यैः स्तोत्रोपकारं भावयेदिति विनियोजकवाक्यकल्पनया आज्यानां स्तोत्रसम्बन्धसिद्धेः श्रुतस्य वाक्यस्य सङ्ख्यासम्बन्धमात्रविधानान्न वाक्यभेद इति चेत् ।
न । सिद्धान्तेन वाक्यस्यान्यथोपपन्नत्वेनान्यथानुपपत्त्यभावेन विधेरकल्पनात् । आग्नेयादौ तु प्रकारान्तरेण विधिसिद्धिः । यदि च वाक्यभेदपरिहारायोत्पत्तिवाक्य- विहिताज्यानुवादेन पञ्चदशत्वं गुणो विधीयेत ततः सामानाधिकरण्यसिध्द्यर्थं आज्य शब्देन मत्वर्थलक्षणया विहितेष्वाज्येषु गुणविध्यापत्तेर्लक्षणैव दोषः । तस्मान्ना-मधेयम् आाज्यशब्दः । अन्वाख्यानरूपार्थवादाच्च नामत्वम् । तथा हि । ‘प्रजापति- र्देवेभ्यः आत्मानं यज्ञं कृत्वा प्रायच्छत्तेन्योन्यस्मा अग्राय नातिष्ठन्त । तानब्र-वीदाजिम् अस्मिन्नितेति त आजिमायन् यदाजिमायुस्तदाज्यानामाज्यत्वमिति स इन्द्रो निर्वेद अग्निर्वा इदमग्रे उज्जेष्यतीति अस्मिन्यज्ञे काष्टां गच्छत’ इति प्रजापति-वचनात् । एतानि स्तोत्राणि काष्टां कृत्वा यस्मादाजिं गता देवाः तस्मादाज्यार्ह-त्वादेतेषाम् आज्यत्वमित्यर्थः । तदुक्तं वार्तिके ।
गुणवाक्योपपत्त्यर्थं समभिव्याहृतेन च ।
अनाख्यानार्थवादाच्च नामधेयत्वमाश्रितम् ।। इति ।
समभिव्याहारः सामानाधिकरण्यम् । उदाहृतसूत्रार्थस्तु । यस्मिन् गुणविधिः कर्मनामधेयमिति सन्दिग्धे गुणोपदेशः गुणपर उपदिश्यते तस्य प्रधानेन सम्बन्धः कर्मनामधेयमित्यर्थः इति भाष्यकारोक्तो न युक्तः । नामधेयत्वप्रतिज्ञायाः पूर्व सूत्रोक्ताया एव अनुषङ्गसम्भवात् । प्रधानपदस्य च कर्मपरत्वे लक्षणाप्रसङ्गात् । कर्म सम्बन्धस्य च गुणविधावप्यनुपपत्तेः नामधेयत्वावगमकत्वात्सहार्थे च तसि प्रयोगा दर्शनेनासाधुत्वापत्तेः । तस्मात्प्रधानतोऽभिसम्बन्ध इत्यस्य प्रधानद्वारा नैकेषां गुणानाम् अनेकविशेषणविधिप्रसवसमर्थेनैकेन विधिना सम्बन्धो भवति । न चात्र प्रधानभूतं कर्म त्वत्पक्षे विधीयत इत्येवं वार्तिककारोक्तार्थः साधुः ।
आकाशेति ।। ब्रह्ममीमांसायां प्रथमाध्यायस्य प्रथमपादे विचारितम् । ‘आकाशस्तल्लिङ्गात्’ । छान्दोग्ये श्रूयते ‘त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैबिलिरिति । ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति । तथेति ह समुपविविशुः । स ह प्रवाहणो जैबिलिरुवाच । भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति । सः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच । हन्त त्वा पृच्छानीति । पृच्छेति होवाच । का साम्नो गतिरिति । स्वर इति होवाच । स्वरस्य का गतिरिति प्राण इति होवाच । प्राणस्य का गतिरिति । अन्नमिति होवाच । अन्नस्य का गतिरिति । आप इति होवाच । अपां का गतिरित्यसौ लोक इति होवाच । अमुष्य लोकस्य का गतिरिति शिलकेन दाल्भ्यं प्रति पृष्टे स्वर्गलोकस्य गतिर्नास्तीति दाल्भ्येनोत्तरितेऽप्रतिष्ठितं वै किल ते दाल्भ्य सामेति शिलकेन दूषिते सति दाल्भ्येन पुनः शिलके पृष्टेऽमुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति दाल्भ्येन शिलके पृष्टे पृथिवीलोकस्य गतिर्नास्तीति शिलकेनोक्ते तव द्वैकिल ते सामेति जैबिलिना शिलके दूषिते सति शिलकेन जैबिलिः पृष्टः सन्नुवाचास्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरी-यानुद्गीथः स एषोऽनन्तः’’ इति ।।
अत्राकाशशब्दो भूतविशेषो वा परमात्मा वेति विशये प्रसिद्धेर्भूतमेवेति प्राप्ते सर्वाश्रयत्वपरोवरीयस्त्वादिलिङ्गात्परमात्मैवेति सिद्धान्तितम् ।। गगनेति ।। आकाश इति होवाचेत्यत्र विचार्यमाणाकाशशब्दसमानन्यायतया आकाशादेव समुत्पद्यन्त इति हेतुनिष्ठाकाशशब्दोऽपि गगनपर एवेति पूर्वपक्षी मन्यत इत्यर्थः ।। अन्ध इति ।। अन्धमृदोर्मणिज्ञानवचनाभावप्रत्यक्षं तु अनेन वचनेन बाध्येत । अतात्विकार्थं वा कल्प्येतेति स्यादित्यर्थः । सावित्रादिषु क्षुद्रचयनेषु मध्ये आरुणकेतुकाख्यचयनस्य प्रतिपादके तैत्तिरीयारण्यकस्य प्रथमप्रपाठके पठ्यते ।
‘अन्धो मणिमविन्दत्तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् तमजिह्वो असश्च्यत’ इति । अत्रान्ध इत्यादिवाक्यचतुष्टयस्यापातप्रतीतोऽर्थो बाधितः । लोके हि पुरुष-श्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभिस्तन्तुना आवीय ग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति । न चान्धादेश्चक्षुरादिना दर्शनादिकं सम्भवति । उत्तरसन्दर्भानुसारेण तु तात्पर्यावधारणे सत्यबाधितोऽर्थो भवति । तथा हि । अन्धादिवाक्यानन्तरम् ‘ऊर्ध्वमूलम् अवाक्शाखं वृक्षं यो वेद सम्प्रति’ इत्यादिना संसारस्य भगवदधीनत्वं व्रश्चनयोग्यत्वेन वृक्षत्वं तद्विदो मृत्युभयाभावं चोक्त्वा ‘हसितं रुदितं गीतं वीणापणवलासितम्’ इत्यादिना शरीरस्यापि भगवदधीनत्वमुक्त्वा तस्मिन् शरीरे प्रविष्टस्य जीवस्य स्वतोऽज्ञानाद्यशक्तस्य परमात्मदत्तेन्द्रियस्य ज्ञातृत्वादिकमुच्यते । अचेता इत्यादि-वाक्येष्वचेता यस्तु चेतनः स तं मणिमविन्दत् सोऽनङ्गुलिरावयत् सोऽग्रीवः प्रत्यमुञ्चत् सोऽजिह्वोऽसश्च्यतेति । असश्च्यत प्राशंसत् । यथाऽन्धादि वाक्यस्याप्या-पातप्रतीतो नार्थस्तथाद्वैतवाक्यानामपीत्यर्थः । श्रुतेरापातप्रतीतार्थपरत्वे स्मृतिविरोध-मप्याह– बिभेतीति ।।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ।। इति स्मृतिः ।
श्रुतिविरोधं चाह– कश्छन्दसामिति ।। ‘कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद’ । को धीरो धीमाञ्छन्दसां वेदानां योगं पदार्थेषु वाच्य वाचकभावसम्बन्धं आवेद न कोऽपीत्यर्थः । को वा धिष्ण्यां बुद्धिपूर्विकाम् । यद्वा धिष्ण्यं स्थानं तद्वत् स्थिराम् । नित्यामिति यावत् । एवम्भूतां वाचं प्रतिपपाद प्रतिपादितवान् । कृतवानिति यावत् । न कोऽपि । वाचो नित्यत्वादित्यर्थः । माधवीये तु छन्दसां गायत्र्यादीनां योगं स्तुतशस्त्रात्मना विनियोगमावेद न कोऽपीत्यर्थः । को वा धिष्ण्यां होत्रादीनां सप्तस्थानानि प्रतिपपादेति व्याख्यातम् । ततोऽपि वेदार्थस्य गहनत्वमेव प्रतीयत इति ।। उक्तं हीति ।। चोदनालक्षणोऽर्थो धर्म इति प्रस्तुतां चोदनां लिलक्षयिषता भाष्यकारेण–
प्रत्यक्षाद्युपयोगं तु वर्णमात्रादितः पुरः ।
शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम् ।। इति ।।
वार्तिककारोक्तसङ्गत्या प्रत्यक्षादिकं लक्षयित्वा चोदना चोपदेशश्च शास्त्रमेवेत्युदा- हृतमिति वार्तिकोक्तरीत्या चोदनाशब्दोदितं शास्त्रं लक्षितं ‘शास्त्रं हि शब्दविज्ञानात्’ इत्यादिना । अत्र शब्दार्थशब्दौ विशेषणरहितावपि विशिष्टशब्दार्थपरौ । विधायकशब्दे शब्दशब्दो विधेयेऽर्थे अर्थशब्द इति । तदुक्तं वार्तिके ।
यथा च चोदनाशब्दो वैदिक्यामेव वर्तते ।
शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथा स्थितौ ।। इति ।
तथा च विधायकशब्दविज्ञानादसन्निकृष्टे विधेयेऽर्थे विज्ञानं शास्त्रमित्युक्तं भवति । प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु विवक्षातः प्रामाण्यं ज्ञातव्यम् । न तु ज्ञानमेव शास्त्रमिति काशिकाकारः । एवं स्थिते शास्त्रलक्षणे को वा असन्निकृष्टशब्दार्थ इत्यत उक्तं वार्तिककृता असन्निकृष्टवाचेत्यादि । प्रमितोऽर्थो विपरीततया प्रमितश्चार्थः सन्निकृष्ट इत्यभिधीयते । तद्भिन्ने शब्दः प्रमाणमित्यर्थः । अत एवैतदुत्तरं वार्तिकम् ।
प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः ।
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् ।
विपरीतपरिच्छिन्ने नावकाशः परस्य तु ।
मूले तस्य ह्यनुत्पन्ने पूर्वेण विषयो हृतः ।। इति ।
यद्यपि ‘शास्त्रं हि शब्दविज्ञानात्’ इत्याद्युक्तभाष्यव्याख्याने ‘असन्निकृष्टवाचा’ इत्यादि वार्तिकं न पठ्यते किन्तु ‘अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनाद्देशान्तरेऽसन्नि- कृष्टेऽर्थे बुद्धिः’ इत्यनुमानलक्षणभाष्यव्याख्याने एतद्वाक्यं पठ्यते । तथापि शास्त्र लक्षणभाष्येऽप्यसन्निकृष्टस्य शब्दस्य सत्त्वेनानुमानलक्षणभाष्यस्थासन्निकृष्टशब्दस्यार्थो- ऽत्रापि शास्त्रलक्षणभाष्यस्थासन्निकृष्टशब्दार्थतया ग्राह्य इत्यभिप्रायेण शब्दप्रस्तावाच्च तथोक्तमित्यदोष इति सहृदयैराकलनीयम् । ‘सत्यमन्त्रा ऋजूयवः’ ‘तं रोदसी पिपृृतं सत्यवाचं, ‘ते सत्येन मनसा दीध्यानाः, ते सत्येन मनसा गोपतिं गाः अभिष्टि-कृज्जायते सत्यशुष्मः, सत्याः, सोमा अभवन्नस्य विश्वे सत्या भवन्त्वाशिषो नो अद्य, सत्याः सन्तु यजमानस्य कामाः’ इत्यादिविशिष्य सत्यत्वबोधकानेकश्रुति विरोधात्सामान्यतो द्वितीयनिषेधकश्रुतेर्भूतसामान्यहिंसानिषेधदैक्षपश्वालम्भश्रुतिवदुत्स र्गापवादन्यायेन व्यवस्थितविषयत्वमाश्रयणीयमित्यभिसन्धायोक्तार्थे स्मृतिपादीय वार्तिकमुदाहरति– विषयेति ।। एतद्वार्तिकात्प्रागप्युक्तं–
उत्सर्गश्चापवादश्च सर्वत्रैवोपलभ्यते ।
तत्र नोत्सर्गमात्रेण सर्वमेवावरुध्यते ।। इति ।
उत्तरत्राप्युक्तं–
यो हि सामान्यदृष्टेन व्यवहारं निनीषति ।
तृष्णाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि ।। इति ।
ननु विरोधबीजाद् द्वैतवाक्योपस्थितेः प्रागेवाद्वैतवाक्यं सर्वाद्वैतं बोधयिष्यती त्याशङ्कमानस्य न भक्षयेदित्यादौ न पदोपस्थितेः प्रागेव भक्षणमपि शास्त्रार्थः स्यादित्युत्तरं हृदि निधाय तत्र कर्त्रधिकरणवार्तिके संमतित्वेनोदाहृतं वृद्धानां वार्तिकं संवादयति– अन्य एवेति ।। अङ्गं शब्दैकदेशरूपावयवा इति राणकव्याख्या । एतद्वार्तिकात्प्रागापि तत्रैवोक्तम्–
सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैः सह ।
एकवाक्यतया युक्तमुपदेशं प्रतन्वते ।
यदि शास्त्रैकदेशालोचनेन तद्विरुद्धत्वमभ्युपगम्य शब्दविरोध उद्भाव्यते तदा ‘सुरा न पातव्या’ इत्यस्याप्येकदेशेन पानं विहितम् अङ्गीकुर्वंच्छास्त्रविरुद्धं कुर्यात्तथा भिन्न वाक्येषु यावज्जीवम् अग्निहोत्रं जुहोतीत्यादिमन्त्रापेक्षयाऽदीक्षितोऽप्यजुह्वत्प्रत्यवेयादिति ।
न्यायामृतकण्टकोद्धारः
एवं सामान्याकारेण मिथ्यात्वेऽद्वैतश्रुतिमानतां निरस्य विशेषतोऽपि निराकरिष्यन् ‘एकमेवाद्वितीयम्’ इति श्रुतेर्मिथ्यात्वपरत्वं निराकरोति किञ्चेति । अत्र प्रष्टव्यम् । ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतीनामविचारपूर्वकमापातत एव प्रमितिमात्रेण मिथ्यात्व-परत्वम् उत पूर्वोत्तराविरोधेन प्रमाणान्तराविरोधेन चेति । आद्य आह शब्दस्य हीति । आपातप्रतीतः पूर्वोत्तराविरोधप्रमाणान्तराविरोधाद्यविचारेण प्रतीत इत्यर्थः । आज्यैः स्तुवत इति । प्रमाणलक्षणे चतुर्थपादे तृतीयाधिकरणे चिन्तितम् । ‘यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः’ । अत्र ‘चित्रया यजेत पशुकामः, पञ्चदशान्याज्यानि । सप्तदश पृष्ठानि’ उदाहरणम् । न चोत्पत्तिवाक्यम् ‘आज्यैः स्तुवते’ इत्यादि । तत्परित्यज्य तत्प्रकरणे श्रुतं गुणवाक्यं किमर्थमुदाह्रियत इति वाच्यम् । उत्पत्तिवाक्ये पक्षद्वयेऽपि निर्णयकारणाभावाद्गुणवाक्याधीननिर्णयत्वात् तदेवोदाहरणमङ्गीक्रियते । तथा हि । ‘आज्यैः स्तुवते’ इत्युत्पत्तिवाक्ये न तावद् गुणविधानं सम्भवति । घृतस्य स्तोत्राङ्गत्वा-भावात् । न च तेन मन्त्रा लक्षणीयाः । मन्त्राणां घृतसम्बन्धानवगमात् । अनेनैव तत्सम्बन्धबोधने गौरवम् । न वा नामधेयत्वम् । रूढत्वात् । तस्माद् गुणवाक्य एव विचारः ।
अत्र चित्राज्यादिशब्दः किं गुणविधयः कर्मनामधेयं वेति । तदर्थमिदं विचार्यते किं तत्र गुणविधाने वाक्यभेदोऽस्ति न वेति । किं तावत् प्राप्तम् ? चित्राज्यादिशब्दा गुणविधय इति । न चोद्भिन्न्यायेन कर्मनामत्वमिति वाच्यम् । रूढत्वेन कर्मनामत्वासम्भवात् । उद्भिदादौ यौगिकत्वेन कर्मनामत्वसम्भवाद्वैषम्यम् । न च ‘सोमेन यजेत’ इत्यत्र सोमवतेतिवन्मत्वर्थलक्षणादोष इति वाच्यम् । तत्रैकवाक्यत्वेन वैयधिकरण्येनान्वये विरुद्धत्रिकद्वयापातेन मत्वर्थलक्षणाश्रयणेऽपि प्रकृत उत्पत्तिवाक्ये करणत्वेनार्थाक्षिप्तं यत् साध्यत्वं तदनुवादेन वैयधिकरण्येन गुणविधानेन तद्दोषाभावात् । एवं च चित्रया यजेतेत्यत्राग्नीषोेमीय यागानुवादेन चित्रत्वस्त्रीत्वे विधीयेते । पञ्चदशान्याज्यानीत्यत्रापि आज्यैः स्तुवत इत्युत्पत्तिवाक्यावगतस्तोत्राङ्गतयाऽऽज्यसङ्ख्ये विधीयते ।
न चैवं सति वाक्यभेदः । ‘चित्रया यजेत’ इत्यत्र चित्रत्वस्त्रीत्वविशिष्टैककारक-विधानेन पशुनेतिवत् एककारकोपात्तत्वेनवाक्य भेदाभावात् । न चैवं सति पशुकामपदायोग इति वाच्यम् । पशुसाधनकत्वादग्नीषोमीययागस्य यागाङ्गतया प्राप्तकाम-नानुवादरूपत्वेन दोषाभावात् । पञ्चदशाज्यानीत्यत्रापि सङ्ख्याविशिष्टघृतविधानाद् वाक्यभेदायोगः । एवं चाज्यैः स्तुवत इत्यत्राज्यपदमुत्पत्तिवाक्यप्राप्तगुणानुवादकम् । न नामधेयम् । न चाज्यस्य कथं पञ्चदशत्वम् । कथं च स्तोत्राङ्गत्वमिति वाच्यम् । यथाग्निमुपनिधाय स्तुवत इत्यत्राग्नीनां पुरोनिधानेनेवाज्यानामपि तत्कालसन्निधापनेन स्तोत्राङ्गत्वसम्भवात् । पात्रभेदमादाय सङ्क्याविशिष्टसम्भवाच्च । तस्माद् आज्यादिपदं न नामधेयं किन्तु गुणविधिरिति ।
अत्रोच्यते । चित्रया यजेतेत्यत्र न तावदग्नीषोमीययागानुवादेन चित्रत्वस्त्रीत्वे विधीयेते । प्राप्तकर्मानुवादेनानेकगुणविधाने वाक्यभेदप्रसङ्गात् । अन्यथाऽऽग्नेयोऽष्टाकपाल इत्यत्रापि तदभावप्रसङ्गः । न च विशिष्टकारकविधानाददोष इति वाच्यम् । विशिष्ट-विधानेऽपि गौरवापरिहारात् । अन्यत्रागतिकत्वाद् विशिष्टविधानम् । किं च कामपदं फले मुख्यम् । साधने च गौणमभ्युपगतं स्यात् । न च मुख्ये सम्भवति अमुख्यं युज्यते । अपि च दधिमधुघृतं पयोधाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यमिति प्रकृतो यागः फलाकांक्षी । अयं च करणाकाङ्क्षी । एवं चान्योन्याकाङ्क्षालक्षणेन प्रकरणेन प्रकृतयागस्य फलान्वये सम्भवति अप्रकृतयागान्वयानुपपत्तेः । तस्मात् ‘चित्रया यजेत’ इत्यनेन प्रकृतयाग एव फलविधानम् । चित्रापदं च सामानाधिकरण्येन यागनामधेयम् । चित्रापदं च चित्रद्रव्यकत्वाद् यागे युज्यते । सोमेनेत्यत्र रूढिबाधकवाक्यभेदादेरभावात्तत्र मत्वर्थ-लक्षणया द्रव्यविधिपर्यवसानम् । प्रकृते रूढिबाधकवाक्यभेदादेः सत्वात् नामधेयत्वमेव । एवं पञ्चदशाज्यानीत्यत्र द्रव्यसङ्ख्ययोर्विधाने वाक्यभेद एव ।
न च सङ्ख्याविशिष्टद्रव्यविधानात् तदभाव इति वाच्यम् । समासकारकाभावेन विशिष्टप्रतीत्यभावात् । तस्मात् आज्यानुवादेन सङ्ख्यामात्रं विधेयम् । इदं च तदा स्यात् यदि उत्पत्तावाज्यपदं नामधेयं स्यात् नान्यथेति गुणवाक्यवशादेवोत्पत्तौ नामत्वं विज्ञायते । किञ्चाज्यैः स्तुवत इति सामानाधिकरण्यान्नामत्वम् । यदाजिमीयुरिति वाक्यशेषाच्च नामत्वं युक्तम् । द्रव्यपरत्वे तद्विरोधात् । तस्मादाज्यपदमुत्पत्तौ नामधेय-मिति चित्राज्याधिकरणम् ।
आकाशाधिकरणं चाकाशस्तल्लिङ्गादिति प्रकृतब्रह्ममीमांसायामेव । एवं चापातप्रतीत एव यदि वाक्यार्थः स्यात् तर्ह्यतिप्रसङ्ग इति भावः । अन्ध इति । तत्र विन्दतिर्दर्शनार्थे । धातूनाम् अनेकार्थत्वात् । तथा च प्रतीतोऽर्थो विरुद्ध इति भावः । मृदब्रवीदित्यस्य च निर्णयार्थम् अभिमान्यधिकरणं स्पष्टमेव । बिभेतीति । अत्राल्पश्रुतात् स्वार्थप्रच्यावनेन वेदस्य भीत्युक्त्यन्यथानुपपत्त्या प्रतीतार्थातिरिक्तोऽपि गहनार्थोऽस्तीति ज्ञायते । अन्यथा स्मृतौ तदुक्तिर्न स्यात् । कश्छन्दसामिति । को धीरो धीमान् छन्दसां योगं वाच्य-वाचकभावसम्बन्धम्, अस्य वाक्यस्यायमेव वाक्यार्थ इति वाक्यार्थे योगं सम्बन्धं विचारम् अन्तरोपदेशमनपेक्ष्य वा वेद जानातीत्यर्थः । यद्यापातप्रतीतो न वाक्यार्थः तर्हि कोऽर्थ इत्यतो द्वितीय एवाङ्गीकर्तव्य इत्याह किन्त्विति ।
अत्रार्थे जैमिनिसूत्रसम्मतिमाह उक्तं हीति । सूत्रस्य चायमर्थः । शब्दविज्ञानात् विज्ञाताच्छब्दात् पदार्थाभिधानद्वारेण यदसन्निकृष्टेऽर्थे ताद्रूप्येण तद्विपर्ययेण वापरिच्छिन्नेऽ निर्णीतेऽर्थे विज्ञानं तच्छास्त्रं शाब्दनामकं प्रमाणम् । कथमस्य प्रकृतोपयोग इति चेदित्थम् । आपातप्रतीतो हि निणीर्तो बाधितो वा स्यात् । विचारलभ्यार्थस्या-पाततोऽप्रतीतेः । तथा च सन्निकृष्टशब्दापातप्रतीतशब्दयोरेकार्थत्वेन सन्निकृष्टादन्यस्मि-ञ्च्छब्दस्य प्रामाण्योक्त्या आपातप्रतीतेऽर्थे शब्दस्याप्रामाण्यमुक्तं भवति । अत्रैव भट्ट-वार्तिकसम्मतिमाह ‘इति च’ इत्यन्तेन । जिहासितं व्यावर्तितमित्यर्थः । ताद्रूप्येण परिच्छेदस्तद्रूपेण निर्णीतत्वम् । तद्विपर्ययतोऽपि चेत्यत्र परिच्छेद इति सम्बध्यते । तद्रूपविपरीतरूपेण परिच्छेद इत्यर्थः । उत्सर्गापवादयोः विषयाविषयौ ज्ञात्वा अयमस्य विषयोऽयं नेति पूर्वोत्तराविरोधेन प्रमाणान्तराविरोधेन च ज्ञात्वा तेनापवादेनोत्सर्गस्य बाधः कल्प्यः । उत्सर्गस्य विषयम्, अपवादस्याविषयं ज्ञात्वा बाधाभावः, अपवादस्य विषयमुत्सर्गस्याविषयं ज्ञात्वा बाध इति विवेक्तव्यमित्यर्थः । न तु सामान्यदर्शनात् । आपातप्रतीतिमात्रेणेत्यर्थः ।
आपातप्रतीतो न वाक्यार्थ इत्यत्राचार्यसम्मतिमाह उक्तं चेति । दृष्टानुसारेण परीक्षितप्रत्यक्षानुसारेण । अस्तु नापातप्रतीतो वाक्यार्थः । किन्तु पूर्वोत्तराविरुद्धः प्रमाणान्तराबाधितश्च । ततोऽपि श्रुतेर्मिथ्यात्वपरत्वे को दोष इत्यत आह अत्र चेति । न च प्रत्यक्षं चन्द्रप्रादेशिकत्वादिप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितम् । श्रुतिस्त्वपौरुषेयतया निर्दुष्टा । तथा च कथं प्रत्यक्षबाधः श्रुतेरिति वाच्यम् । प्रत्यक्षस्य श्रुतितोऽपि प्राबल्यस्या-प्रामाण्यशङ्कानास्कन्दितत्वस्य चोक्तत्वात् ।
न्यायामृतप्रकाशः
‘एकमेवाद्वितीयम्’ इत्यादावद्वितीयमित्यादिशब्दैर्द्वितीयमात्रनिषेधात्, श्रुतिर्मिथ्यात्वे मान मिति यदुक्तं तन्निषेधति– किञ्चेत्यादिना ।। एकमेवेतीतिशब्दः प्रकारवाची । तथा च ‘एको द्रष्टाऽद्वितीयो भवति’ इति श्रुतिरप्युदाहर्तव्या । तेनाग्रिमेण ‘सलिलः’ इत्यादिना ना-सङ्गतिः । ननूक्तविधया मिथ्यात्वस्य ततोऽवगमात्कथं सा तत्र न मानमित्यत आह– शब्दस्येति ।। कुतो नेत्यत आह– आज्यैः स्तुवत इति ।। चित्राज्याधिकरणेति ।। चित्राधिकरणाज्याधिकरणेत्यर्थः । प्रथमाध्याये चतुर्थपादे तृतीयाधिकरणे चिन्तितं ‘चित्रया यजेत पशुकामः’ इति श्रूयते । तत्र चित्राशब्दो गुणविधिर्यागनामधेयं वेति संशये ‘अग्नी-षोमीयं पशुमालभेत’ इति विहितं पशुयागमत्र यजेतेत्यनूद्य यागसाधनीभूतपशौ चित्र वर्णत्वस्त्रीत्वरूपो गुणो विधीयते । तथा च पशुकामश्चित्रया चित्रवर्णयुतस्त्रीपशुना यागं कुर्यादित्यर्थ इति पूर्वः पक्षः ।
सिद्धान्तस्तु चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ । तयोर्द्वयोर्विधाने वाक्यभेदापत्तेः ‘प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः’ इति वचनात् । अथ गुणद्वयविशिष्टं पशुद्रव्य-रूपं कारकं विधीयते तदा गौरवं स्यात् । चित्रात्वं विलक्षणद्रव्येणोपपद्यते ‘दधिमधु घृत-मापोधानस्तण्डुलास्तत्संसृष्टं प्राजापत्यम्’ इति दध्यादीनि विचित्रद्रव्याणि षडाम्नातानि । तस्माच्चित्रपदं यागनामधेयं न तु चित्रस्त्रीपशुपरमिति । उत्तरत्र पूर्वपक्षरीत्या इत्यनन्तरं चित्रस्त्रीपश्विति च ग्राह्यम् । अन्यथा चित्राज्याधिकरणेत्युक्त्वा पूर्वपक्षरीत्या घृतेत्येवोक्ता- वत्यकौशलापत्तेरित्यवधेयम् ।
प्रमाणलक्षणे नामधेयपादे चिन्तितम् । ‘आज्यैः स्तुवते’ इति स्तुतिप्रकरणे श्रूयते । ‘पञ्चदशान्याज्यानि’ इत्यत्राज्यशब्दो गुणविधिः कर्मनामधेयं वेति संशये रूढिप्राबल्यात्पञ्च दशत्वसङ्ख्याविशिष्टघृतलक्षणो गुणो विधीयते । आज्यानां च पञ्चदशपात्रसम्बन्धेन पञ्चदशत्वमुपपद्यते । तथा चाज्यैः स्तुवत इत्यत्रापि प्रसिद्धमेव विवक्षितमिति पूर्वः पक्षः । सिद्धान्तस्तु । प्रकृते स्तोत्रपर एवायमाज्यशब्दः । न रूढ्या प्रसिद्धघृतपरः । तत्र पञ्चदशत्वस्याश्रयपात्रद्वारा योज्यत्वेन लक्षणापत्तेः । तथा चाज्यप्रकाशिकाभिः पञ्चदश स्तुतिभिरिष्टिं कुर्युरिति तदर्थः । तथा चाज्यैःस्तुवत इत्यत्राज्यशब्दः स्तोत्रपर एवेति ।
आकाशाधिकरणेति ।। ब्रह्ममीमांसायां प्रथमलक्षणे प्रथमपादे चिन्तितम् । ‘आकाश-स्तल्लिङ्गात्’ इत्यत्र ‘सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्तेः’ इत्यादावाकाश-शब्दो भूतपरः परमात्मपरो वेति सन्देहे प्रसिद्धभूतपर एवेति पूर्वपक्षे परोवरीयस्त्वादिलिङ्गैः परमात्मपर एवेति सिद्धान्तितम् ।। अन्ध इति ।। तैत्तिरीयारण्यके प्रथमाष्टके पठ्यते ‘अन्धो मणिमविन्दत् तमनङ्गुलिरावयत् अग्रीवः प्रत्यमुञ्चत तमजिह्वो असश्चत’ इति । आवयत् वय बन्धने तन्तुना सूत्रितवान् । प्रत्यमुञ्चत अमुञ्चत् । असश्चत प्राशंसत । अत्र वाक्यचतुष्टयस्यापातप्रतीतार्थो बाधितः । लोके हि पुरुषश्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभि-स्तन्तुना स्वीयग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति । न चान्धादेश्चक्षुरादिना दर्शनादिकं सम्भवतीत्यर्थः । विचारिते सत्यबाधितार्थोऽवगम्यते । अनङ्गुलिः अङ्गुल्युपलक्षितप्राकृत-हस्तरहितो भगवान् तं जीवं आवयत् संसारेण सम्यग्बबन्ध । तमजिह्वो भगवदधीनजिह्वोऽयं बद्धोऽसश्चत स्तोत्रमकरोत् श्रवणादिकं कृतवान् अनन्तरं पूर्वं भगवदज्ञानेनान्धो मणिं प्रधानं ‘मणिर्मुखं प्रधानञ्चेत्युत्तमस्य वचो भवेत्’ इति वचनात् परमात्मानम् अविन्दत विद ज्ञाने । पश्चात्तं ज्ञानिनं अग्रीवः प्राकृतग्रीवोपलक्षितदेहरहितो भगवान् प्रत्यमुञ्चत प्रत्य-मोचयत् संसारादिति ।
गहनत्वोक्तेश्चेति ।। अतो नापातप्रतीत एवार्थ इत्यन्वयः ।। उक्तं हीति ।। शास्त्रं लिलक्षयिषता भाष्यकारेण शबरस्वामिनेत्यर्थः एवं शास्त्रलक्षणे कोऽसन्निकृष्टशब्दार्थ इत्यत उक्तं वार्तिककृता असन्निकृष्टेत्यादि । प्रमितोऽर्थो विपरीततया प्रमितश्चार्थः सन्निकृष्ट इत्युच्यते । तद्भिन्ने शब्दः प्रमाणम् । तथा चासन्निकृष्टेऽनधिगते विपरीततया ज्ञाते चार्थे विषये शब्दविज्ञानात् शब्दश्रवणाज्जायमानं विज्ञानं यत् तच्छास्त्रम् । फलप्रामाण्यवादी चायम् । जिहासितं व्यावर्तितम् । ताद्रूप्येण स्वं यथास्थितस्तद्रूपतया परिच्छेदो ज्ञातज्ञापनं विपर्ययतोऽपि वा परिच्छेदो विपरीतज्ञानं च व्यावर्तितमित्यर्थः । उक्तं च वार्तिक एवोत्तरत्र
‘प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः ।
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् ।
विपरीतपरिच्छिन्ने नावकाशः परस्य तु’ ।। इति ।।
तथा च विपरीतार्थवर्णने विपरीतप्रमाजनकत्वप्राप्त्या शास्त्रत्वं न स्यादिति भावः । पूर्वोत्तराविरुद्ध एवार्थो वर्णनीय इत्यत्र वाक्यान्तरं पठति– विषयेत्यादिना ।। ननु मयापि एकमेवेत्यादेर्मानान्तराविरुद्ध एवार्थो वर्ण्यत इति चेत्तत्राह– अत्र चेति ।। एकमेवेत्यादेः श्रुतेर्द्वितीयमात्रनिषेधेन मिथ्यात्वार्थकत्व इत्यर्थः ।। प्रत्यक्षेति ।। सन्घटः घटपटौ भिन्नावित्यादिप्रत्यक्षविरोध इत्यर्थः ।
न्यायकल्पलता
‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिषु अद्वितीयादिशब्दैर्द्वितीयमात्रनिषेधाच्छ्रुतिर्मिथ्यात्वे मानमिति यदुक्तं तद्विशेषतो निराचिकीर्षुराह– किञ्चेत्यादिना ।। एकमेवेति ।। इतिशब्दः प्रकारवाची । तथा च ‘सलिल एको द्रष्टाऽद्वैतो भवति’ इति श्रुतिरप्युदाहर्तव्या । तेन नाग्रिमेण ‘सलिलः’ इत्यादिनाऽसङ्गतिः । ननूक्तविधया विश्वमिथ्यात्वस्य ततोऽवगमात्कथं सा तत्र न मानमित्यत आह– शब्दस्येति ।। यदि आपातप्रतीत एव शब्दस्यार्थः तर्हि ‘आज्यैः स्तुवते’ इत्युत्पत्तिवाक्यगताज्यशब्दस्य घृतादिरेवार्थः स्यात् । तथा च ‘पञ्चदशा-ज्यानि’ इति गुणवाक्यमीमांसारूपविचारवैय्यर्थ्यं स्यात् । तेन ह्युत्पत्तिवाक्यगताज्यशब्दस्य स्तुतिनामधेयता सिध्यति । पञ्चदशान्याज्यानीत्यत्र न सङ्ख्याविशिष्टाज्यविधानं सम्भवति । वक्ष्यमाणदोषात् । किन्त्वाज्यानुवादेन सङ्ख्यामात्रविधानम् । तथा च स्तोत्रे घृतस्या-प्राप्तत्वेन तदनुवादासम्भवात् स्तोत्रानुवादेनैव सङ्ख्या विधातव्या । तच्चाज्यशब्दस्य स्तोत्र-वाचित्वेऽवकल्प्यते नान्यथेति गुणवाक्यालोचनेनैवाज्यादिपदमुत्पत्तिवाक्यगतं नामत्वेना ध्यवसीयते । आपातप्रतीतस्य शब्दार्थत्वे तु नैतत्सम्भवतीत्यर्थः । आज्यसंज्ञकाभिः स्तुतिभिरिष्टं भावयेदिति श्रुत्यर्थः ।
चित्रेति ।। प्रथमाध्याये चतुर्थे नामधेयपादे विचारितम् । ‘यस्मिन्गुणोपदेशः प्रधानतो सम्बन्धः’ । ‘आज्यैः सुवते’ इष्टैः स्तुवते’ इति स्तोत्रप्रकरणे श्रूयते ‘पञ्चदशान्याज्यानि’ इति । अत्राज्यशब्दो गुणविधिः कर्मनामधेयं वेति संशये रुढिप्राबल्यात्पञ्चदशसङ्ख्याविशिष्ट घृतलक्षणगुणविधिः । नन्वाज्यस्य द्रव्यत्वादक्रियात्मनो विधिर्न सम्भवतीति चेत् । न । अस्तिर्भवतीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति स्मृत्याऽस्तिधातुर्भवतीशब्दवाच्य-वर्तमानार्थलड्विभक्तिपरः । प्रथमपुरुषसमानाधिकरणयुष्मदस्मदतिरिक्तोपपदे सत्यप्रयुज्य-मानोऽप्यस्तीत्यनुशासनादस्तिभवत्योश्चैकार्थत्वाद्भवत्यध्याहारेण सत्तारूपक्रियालाभात् । नन्वेवमपि विधायकाश्रवणान्न गुणविधित्वमिति चेत् । न । प्रयोगवचनाद्विधिरवगम्यते ।
ननु ‘स्तोमेडविधिः पञ्चदशाद्यर्थः’ इति स्मृत्या डप्रत्ययान्तस्य पञ्चदशशब्दस्य स्तुतेर्मानं स्तोम इति स्तोत्रिय(याख्य)स्य ऋक्सङ्ख्यावाचित्वात्तत्समानाधिकरणाज्यपदस्य न घृतवाचिता युक्तेति चेन्न । स्तुतेः साधनद्वारेण सङ्ख्यात्मकमानपरिच्छेदत्वात् स्तुति-साधनपरिच्छेदिकायाः सङ्ख्यायाः स्तुतिमानत्वेन स्तोमत्वादृचामिव घृतस्यापि रथघोष-वदुपस्थापकतया स्तुतिसाधनत्वोपपत्तेर्डप्रत्ययाविरोधः । न हि स्तोत्रसाधनानामृचामेव परिच्छेदिका सङ्ख्या स्तोमशब्दवाच्या न साधनान्तरपरिच्छेदिकेति राज्ञामाज्ञाऽस्ति ।
नन्वेवं स्तोत्रस्तोमशब्दवाच्यया साधनसङ्ख्यया परिच्छेद्यत्वार्थं घृतादीनां स्तोत्रसाधनत्वं वक्तुम् आज्यवन्तीति वक्तव्यम् । तथा च मत्वर्थलक्षणाप्रसङ्ग इति चेन्न । विधौ मत्वर्थ लक्षणापत्तेः । श्रुतिवाक्यगतेन विधिना सहाज्यस्य संयोगाभावात्स्तोत्रप्रकरणे यत्पञ्चदशा नीत्यादिगुणवाक्याम्नानं तदनुमितेन ‘पञ्चदशसङ्ख्याविशिष्टैराज्यैः स्तोत्रस्योपस्कर्तव्यम्’ इत्यादि वाक्येन कृतो यः स्तोत्राज्यसम्बन्धस्तत्पूर्वकः प्रयोगवचनेन विधिराश्रयितव्यस्तेन च मत्वर्थ एव प्रतिपाद्यत इति न लक्षणा । तदुक्तं तन्त्रवार्तिके–
श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने ।
लक्षणावाक्यभेदादिदोषो नानुमितो ह्यसौ ।। इति ।
घृतस्य द्रव्यात्मकत्वेऽपि भवत्युपात्ता सत्ता प्रकरणग्राह्या भविष्यति । ननु धातु-वाच्यत्वमात्रेण सत्तायाः क्रियात्वेऽपि चेतनक्रियात्वाभावेनाननुष्ठेयत्वान्न प्रकरणग्राह्यता सम्भवतीति चेन्न, सत्तायाः स्वरूपेणाननुष्ठेयत्वेऽपि अङ्गत्वेन स्तोत्रसामीप्यावगमात्, तस्य च सन्निधिस्थापनापाद्यरूपत्वात्तेन रूपेणानु ष्ठेयत्वं भविष्यति । संसर्गिद्रव्यत्वादाज्यानां स्वरूपेण सङ्ख्यायोगाभावेऽपि पञ्चदशाज्यपात्राणि समीपे निधाय स्तोत्रं कर्तव्यम् । यथाऽग्निमुपसमधाय स्तुवते इत्यत्राग्नेः स्तोत्रकाले पुरोनिधानेनेवाज्यानामपि पात्रभेदलब्ध-पञ्चदशसङ्ख्यानां तत्कालसन्निधापनेन स्तोत्रगुणता । एवञ्च ‘आज्यैः स्तुवते’ इत्युत्पत्ति-वाक्यगतमप्याज्यपदं गुणविधिप्राप्ताज्यानुवादकम् । साधकतमत्वविवक्षयोत्पत्तिवाक्येऽनु-वादार्थं तृतीयानिर्देशोपपत्तिः । न चोत्पत्तिवाक्ये आज्यानुवादोऽनर्थकः । प्रशस्तमिदं स्तोत्रं यत्क्रियमाणमाज्यसन्निधियुक्तं भवतीत्येवं स्तोत्रप्रशंसार्थत्वेनानुवादसाफल्यात् । तस्माद्गुणविधिरिति पूर्वः पक्षः ।
सिद्धान्तस्तु । स्तोत्रेषु द्रव्यसङ्ख्ययोरुभयोरप्राप्तत्वान्नान्यतरानुवादेनेतरविधिसम्भवः । कर्मान्तरोपसदादिषु प्राप्तस्याज्यास्यानुवादेन सङ्ख्याविधानं न सम्भवति । कर्मान्तरस्य स्तोत्रप्रकरणे बुद्धिस्थत्वाभावात्स्तोत्रप्रकरणबाधश्च स्यात् । आज्यस्वरूपानुवादेन सङ्ख्या विधौ द्रव्याङ्गत्वापत्तेरकर्माङ्गत्वप्रसङ्गेनानर्थक्यापाताच्च । सङ्ख्याविशिष्टद्रव्यविधावपि सङ्ख्याया द्रव्यविशेषणत्वेनाकर्माङ्गत्वं स्यात् । सङ्ख्याया द्रव्यविशेषणत्वेऽपि क्रियाविशेषणत्वाभावेना- विधेयत्वापत्तिश्च । पश्वेकत्वादेस्तु विधेयक्रियोपादानात्सङ्ख्यायाश्चैकप्रत्ययोपादानलक्षणया श्रुत्यैकपदोपादानलक्षणश्रुतिगम्यप्रातिपदिकार्थाङ्गत्वबाधेन कारकाङ्गत्वावगतेस्तद्द्वारेण क्रियाङ्ग- त्वावश्यम्भावात् क्रियाङ्गत्वेन च विधेयत्वम् । न चेह क्रियाऽस्ति । क्रियाभावादेव चा-क्रियात्मकत्वेन स्तोत्रप्रकरणग्राह्यत्वानुपपत्तेरानर्थक्यापातः । तदुक्तं वार्तिके–
नावान्तरक्रियायोगादृते वाक्योपकल्पितात् ।
गुणद्रव्यैः कथं भावैर्गृह्णन्ति प्रकृताः क्रियाः ।। इति ।
भवतिक्रियाया अनुशासनसिद्धत्वेऽपि न तां प्रति द्रव्यसङ्ख्ययोरङ्गत्वं सम्भवति । क्रियासिद्धौ व्याप्रिय(माणं)कारकं क्रियाङ्गं भवति । सत्तासिद्धिवेलायां वा लब्धात्मकत्वान्न व्यापारः सम्भवति । तथा च द्रव्यसङ्ख्ययोर्भवनक्रियानङ्गत्वेन न तद्द्वारा प्रकरणेन ग्रहणं सम्भवति । नन्वाज्यसत्तायाः स्वतःसिद्धत्वेन तस्य तां प्रत्यनङ्गत्वेऽपि स्तोत्रसामीप्या सिद्धेस्तेन रूपेण विधेयत्वादङ्गत्वं भविष्यति इति । मैवम् । सामीप्यस्याश्रुतत्वात्स्तोत्राङ्ग-त्वेन तत्सामीप्यकल्पनम् । सामीप्यसम्पादनरूपेण च विधेयतयाऽङ्गत्वमितीतरेतरा-श्रयत्वम् । अग्निमुपसमधायेति च स्पष्टं विधानम् । आत्मलाभव्यतिरिक्ता चेयं क्रिया शक्यते कथं भावेन गृहीतुम् ।
ननु ‘आग्नेयोऽष्टाकपालो भवति’ इत्यादाविवावश्यकल्पनीयभवतिवाच्यप्रयोज्यव्यापार रूपभावनाक्षिप्तप्रयोजकव्यापाररूपभावनाविध्यन्यथानुपपत्त्या पञ्चदशसङ्ख्याकैराज्यैः स्तोत्रोप कारं भावयेदिति विनियोजकवाक्यकल्पनया आज्यानां स्तोत्रसम्बन्धसिद्धेः श्रुतस्य वाक्यस्य सङ्ख्यासम्बन्धमात्रविधानान्न वाक्यभेद इति चेन्मैवम् । सिद्धान्ते वाक्यस्योपपन्नत्वेना-न्यथानुपपत्त्यभावेन विधेरकल्पनात् । आग्नेयादौ तु प्रकारान्तरेण विधिसिद्धिः । यदि च वाक्यभेदपरिहारायोत्पत्तिवाक्यविहिताज्यानुवादेन पञ्चदशत्वं गुणो विधीयते । ततः सामानाधिकरण्यसिद्ध्यर्थमाज्यशब्देन मत्वर्थलक्षणया विहितेष्वाज्येषु गुणविध्यापत्तेर्लक्षणैव दोषः । तस्मान्नामधेयमाज्यशब्दः । अन्वाख्यानरूपार्थवादाच्च नामत्वम् । तथा हि । ‘प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत्तेऽन्योऽन्यस्मा अग्राय नातिष्ठन्त तानब्रवी-दाजिमस्मिन्नितेति । त आजिमायन् । यदाऽऽजिमायंस्तदाऽऽज्यानामाज्यत्वम् । स इन्द्रोऽवेद अग्निर्वा इदमग्र उज्जेष्यति’ इति । अस्मिन्यज्ञे ‘काष्ठां गच्छ(त)’ इति प्रजापति-वचनादेतानि स्तोत्राणि काष्ठां कृत्वा यस्मादाजिं गता देवास्तस्मादाज्यर्हत्वादेते-षामाज्यत्वमित्यर्थः । तदुक्तं वार्तिके–
गुणवाक्योपपत्त्यर्थं समभिव्याहृतेन च ।
अन्वाख्यानार्थवादाच्च नामधेयत्वमाश्रितम् ।। इति ।
‘समभिव्याहृतेन’ समभिव्याहारः सामानाधिकरण्यम् । उदाहृतसूत्रार्थस्तु यस्मिन् गुणविधिः कर्म नामधेयं वेति सन्दिग्धे गुणोपदेशः गुणोऽपर उपदिश्यते, तस्य प्रधानेन कर्मणा सम्बन्धः कर्मनामधेयमित्यर्थ इति भाष्यकारोक्तो न युक्तः । नामधेयत्वप्रतिज्ञायाः पूर्वसूत्रोक्ताया एवानुषङ्गसम्भवात् । प्रधानपदस्य च कर्मपरत्वे लक्षणाप्रसङ्गात् । कर्म-सम्बन्धस्य च गुणविधावप्यनुपपत्तेर्नामधेयत्वावगमकत्वात्सहार्थे च तसि प्रयोगादर्शनेना साधुत्वोपपत्तेः । तस्मात्प्रधानतोऽभिसम्बन्ध इत्यस्य प्रधानद्वाराऽनेकेषां गुणानामनेक विशेषणविधिप्रसवसमर्थेनैकेन विधिना सम्बन्धो भवति । न चात्र प्रधानभूतं कर्म त्वत्पक्षे विधीयत इत्येवं वार्तिककारोक्तार्थः साधुः ।।
आकाशेति ।। ब्रह्ममीमांसायां प्रथमाध्यायस्य प्रथमपादे विचारितम् । ‘आकाश स्तल्लिङ्गात्’ छान्दोग्ये श्रूयते ‘त्रयो होद्गीथे कुशला बभूवुः । शिलकः शालावत्यश्चैकि तायनो दाल्भ्यः प्रवाहणो जैबिलिरिति । ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति । तथेति ह समुपविविशुः । स ह प्रवाहणो जैबिलिरुवाच भगवन्तावग्रे वदताम् ब्राह्मणयोर्वदतोर्वाचं श्रोष्यानीति । स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच । हन्त त्वा पृच्छानीति पृच्छेति होवाच । का साम्नो गतिरिति । स्वर इति होवाच । स्वरस्य का गतिरिति । प्राण इति होवाच । प्राणस्य का गतिरिति । अन्नमिति होवाच । अन्नस्य का गतिरिति । आप इति होवाच । अपां का गतिरिति । असौ लोक इति होवाच । अमुष्य लोकस्य का गतिः’ इति शिलकेन दाल्भ्यं प्रति पृष्टे सति ‘न स्वर्गं लोकमति-नयेदिति होवाच । स्वर्गं वयं लोकं सामाभिसंस्थापयामः । स्वर्गसंस्थावं हि साम’ इति रुद्रमतिक्रम्य तदन्यमुत्तमत्वेन नयेन्न जानीयादिति दाल्भ्येनोत्तरिते ‘तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच ‘अप्रतिष्ठितं वै किल ते दाल्भ्य साम । यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति । हन्ताहमेतद्भगवतो वेदानीति । विद्धीति होवाच । अमुष्य लोकस्य का गतिरिति । अयं लोक इति होवाच । अस्य लोकस्य का गतिरिति । न प्रतिष्ठां लोकमतिनयेदिति होवाच । प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः प्रतिष्ठासंस्तावं हि सामेति’ । प्रतिष्ठां प्रतिष्ठापकं लोकं सर्वाश्रयं ब्रह्माणमतिक्रम्य तदन्यमुत्तमत्वेन न जानीयादित्यर्थः । तं ह प्रवाहणो जैबिलिरुवाच । अन्तवद्वै किल ते शालावत्य साम । यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति । मूर्धा ते विपतेदिति । हन्ताहमेतद्भगवतो वेदानीति । विद्धीति होवाच ।। ८ ।।
अस्य लोकस्य का गतिरिति शिलकेन जैबिलिः पृष्टःसन्नुवाच । ‘आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्ति । आकाशो ह्येवेभ्यो ज्यायान् । आकाशः परायणम् । स एष परोवरीयानुद्गीथः स एषोऽनन्त इति’ । अत्राकाशशब्दः पदार्थः भूतविशेषो वा परमात्मा वेति संशयेऽप्रसिद्धेर्भूतमेवेति प्राप्ते सर्वाश्रयत्वपरोवरीयस्त्वादिलिङ्गात्परमात्मैवेति सिद्धान्तितम् । ‘आकाश इति होवाच’ इत्यत्र विचार्यमाणाकाशशब्दसमानन्यायतया आकाशादेव समुत्पद्यन्ते इति हेतुनिष्ठाकाशशब्दोऽपि गगनपर एवेति पूर्वपक्षी मन्येतेत्यर्थः ।
अन्धमृदोर्मणिज्ञानवचनाभावप्रत्यक्षं तु अनेनैव वचनेन बाध्येत । अतात्विकार्थं वा कल्प्येतेति स्यादित्यर्थः । सावित्रादिषु क्षुद्रचयनेषु मध्ये आरुणकेतुकाख्यचयनस्य प्रतिपादके तैत्तरीयारण्यकस्य प्रथमप्रपाठके पठ्यते ‘अन्धो मणिमविन्दत्तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् तमजिह्वो असश्च्यत’ इति । अत्रान्ध इत्यादिवाक्यचतुष्टयमात्रस्यापात प्रतीतोऽर्थो बाधितः । लोके हि पुरुषश्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभिस्तन्तुना आवीय ग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति । न चान्धादेश्चक्षुरादिना दर्शनादिकं सम्भवति । उत्तर-सन्दर्भानुसारेण तु तात्पर्यावधारणे सत्यबाधितार्थो भवति । तथा हि– अन्धादिवाक्या-नन्तरम्, ‘ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद सम्प्रति’ इत्यादिना संसारस्य परमात्माधीनत्वं (तत्वज्ञानासिजन)व्रश्चनयोग्यत्वेन वृक्षत्वं तद्विदो मृत्युभयाभावं चोक्त्वा । ‘हसितं रुदितं गीतं वीणापणवलासितम्’ इत्यादिना शरीरस्यापि परमात्माधीनत्वमुक्त्वा तस्मिन् शरीरे प्रविष्टस्य जीवस्य स्वतो ज्ञानाद्यशक्तस्य परमात्मदत्तेन्द्रियस्य ज्ञातृत्वादिकमुच्यते । ‘अचेताः’ इत्यादिवाक्येषु ‘अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गुलि-रावयत् । सोऽग्रीवः प्रत्यमुञ्चत्सोऽजिह्वो असश्च्यत’ इति । असश्च्यत प्राशंसत् । यथाऽ-न्धादिवाक्यस्यापातप्रतीतो नार्थस्तथाऽद्वैतवाक्यानामपीत्यर्थः । श्रुतेरापातप्रतीतार्थपरत्वे स्मृतिविरोधमप्याह– बिभेतीति ।।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ।। इति स्मृतिः ।
श्रुतिविरोधं चाह– ‘कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद’ । को धीरो धीमान् च्छन्दसां वेदानां वैदिकपदानामर्थैः सह, योगं वाच्यवाचकभावसम्बन्धम् । आवेद सम्यक् जानाति । न कोऽपीत्यर्थः । को वा धिष्ण्यां बुद्धिपूर्वाम्, धिष्ण्यं स्थानं तद्वत् स्थिरां नित्यमिति वा । वाचं वेदवाचं प्रतिपपाद शिष्यान्प्रति व्याख्यातवान्, न कोऽपि । वेदार्थस्य ज्ञाता, ज्ञात्वा व्याख्याताऽपि दुर्लभ इत्यर्थः । माधवीये तु ‘छन्दसां गायत्र्यादीनां, योगं स्तुतशस्त्रात्मना विनियोगं आवेद जानाति । को वा धिष्ण्यां होत्रादीनां सप्तस्थानानि प्रतिपपाद’ इति व्याख्यातम् । ततोऽपि वेदार्थस्य गहनत्वमेव । ‘क्वचिदस्याः परमं जगाम । उत त्वः पश्यन्न ददर्श वाचम्’ इत्यादिना च वेदार्थस्य गहनत्वं प्रतीयत इति ।। उक्तं हीति ।। ‘चोदनालक्षणोऽर्थो धर्मः’ इति प्रस्तुतां चोदनां लिलक्षयिषता भाष्यकारेण–
प्रत्यक्षाद्युपयोगं तु वर्णमात्रादितः पुरः ।
शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम् ।।
इति वार्तिककारोक्तसङ्गत्या प्रत्यक्षादिकं लक्षयित्वा ‘चोदना चोपदेशश्च शास्त्रमेवेत्युदा हृतम्’ इति वार्तिकोक्तरीत्या चोदनाशब्दोदितं शास्त्रं लक्षितम् ‘शास्त्रं च शब्दविज्ञानात्’ इत्यादिना । अत्र शब्दार्थशब्दौ विशेषणरहितावपि विशिष्टशब्दार्थपरौ । विधायकशब्दे शब्दशब्दः, विधेयेऽर्थेऽर्थशब्द इति । तदुक्तं वार्तिके–
यथा च चोदनाशब्दौ वैदिक्यामेव वर्तते ।
शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथास्थितौ ।। इति ।
तथा च विधायकशब्दविज्ञानादसन्निकृष्टे विधेयेऽर्थे विज्ञानं शास्त्रमित्युक्तं भवति । प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु प्रामाण्यं ज्ञातव्यम् । तदुक्तम् । ‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि’ इति । शब्दे तु वक्तृविवक्षाऽप्युपयोगिनीति विशेषः । ‘वक्तृविवक्षा पूर्विका शब्दवृत्तिः’ इति न्यायात् । न तु ज्ञानमेव शास्त्रमिति अभिनिवेष्टव्यम्’ इति काशिकाकारः । एवं स्थिते शास्त्रलक्षणे को वाऽसन्निकृष्टशब्दार्थ इत्यत उक्तं वार्तिककृता । ‘असन्निकृष्टवाचा च’ इत्यादि । प्रमितोऽर्थो विपरीततया प्रमितोर्थश्च सन्निकृष्ट इत्यभि-धीयते । तद्भिन्नेऽर्थे शब्दः प्रमाणमित्यर्थः । अत एवैतदुत्तरवार्तिकम्–
प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः ।
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् ।।
विपरीतपरिच्छिन्ने नावकाशः परस्य तु ।
मूले तस्य ह्यनुत्पन्ने पूर्वेण विषयो हृतः । इति ।
यद्यपि ‘शास्त्रं हि शब्दविज्ञानात्’ इत्याद्युक्तभाष्यव्याख्याने ‘असन्निकृष्टवाचा’ इत्यादि वार्तिकं न पठ्यते किन्तु ‘अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनाद्देशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः’ इत्यनुमानलक्षणभाष्यव्याख्यान एतद्वार्तिकं पठ्यते तथापि शास्त्रलक्षणभाष्येऽप्यसन्निकृष्ट शब्दस्य सत्वेनानुमानलक्षणभाष्यस्थासन्निकृष्टशब्दस्यार्थोऽत्रापि शास्त्रलक्षणभाष्यस्थासन्निकृष्ट शब्दार्थतया ग्राह्य इत्यभिप्रायेण शब्दप्रस्तावाच्च तथोक्तमित्यदोषः । ‘सत्यमन्त्रा ऋजूयवः । तं रोदसी पिपृतं सत्यवाचं, ते सत्येन मनसा दीध्यानाः ते सत्येन मनसा गोपतिं गाः । अभिष्टिकृज्जायते सत्यशुष्मः सत्या सोमा अभवन्नस्य विश्वे सत्या भवन्त्वाशिषो नो अद्य, सत्याः सन्तु यजमानस्य कामाः’ । इत्यादिविशिष्य सत्यत्वबोधकानेकश्रुतिविरोधा- त्सामान्यतो द्वितीयनिषेधकश्रुतेः भूतसामान्यहिंसानिषेधदैक्षपश्वालम्भनश्रुतिवदुत्सर्गापवाद न्यायेन व्यवस्थितविषयत्वमाश्रयणीयमित्यभिसन्धायोक्तार्थे स्मृतिपादीयवार्तिकमुदाहरति– विषयेति । एतद्वार्तिकात् प्रागप्युक्तम्–
उत्सर्गश्चापवादश्च सर्वत्रेवोपलभ्यते ।
तत्र नोत्सर्गमात्रेण सर्वमेवावरुद्ध्यते ।। इति ।
उत्तरत्राप्युक्तम् ।
यो हि सामान्यदृष्टेन व्यवहारं निनीषति ।
तृणाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि ।। इति ।
ननु विरोधबीजात् द्वैतवाक्योपस्थितेः प्रागेवाद्वैतवाक्यं सर्वाद्वैतं बोधयिष्यतीत्याशङ्क- मानस्य ‘न कलञ्जं भक्षयेत्’ इत्यादौ न पदोपस्थितेः प्रागेव भक्षणमपि शास्त्रार्थः स्यादि-त्युत्तरं हृदि निधाय तत्र कर्तृधिकरणवार्तिके सम्मतित्वेनोदाहृतं वृद्धानां वार्तिकं संवादयति– अन्य एवेति ।। अङ्गं शब्दैकदेशरूपा अवयवा इति राणकव्याख्या । एतद्वार्तिकात्प्रागपि तत्रैवोक्तम्–
सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैः सह ।
एकवाक्यतया युक्तमुपादेशं प्रतन्वते ।।
यदि शास्त्रैकदेशालोचनेन तद्विरुद्धत्वमभ्युपगम्य शास्त्रविरोध उद्भाव्यते ततः (‘सुरा न पातव्या’) ‘न सुरां पिबेत्’ इत्यस्याप्येकदेशपिबेदिति पानं विहितमङ्गीकुर्वन् शास्त्रविरुद्धं कुर्यात् । तथा भिन्नवाक्येषु ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिमन्त्रापेक्षया दीक्षितोऽप्यजु- ह्वत्प्रत्यवेयादिति ।
न्यायामृतसौगन्ध्यम्
किञ्च ‘एकमेव’ इत्यादिश्रुतिरैक्यमिथ्यात्वे मानम् । न ह्यापातप्रतीत एव शब्दार्थः । ‘कश्छन्दसां योगमावेद धीरः’ इति श्रुत्या ‘बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति’ इति स्मृत्या वेदार्थस्यातिगहनत्वोक्तेः, मीमांसावैय्यर्थ्यप्रसङ्गाच्च । किन्तु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थः, अविरोधग्रहणार्थं मीमांसासाफल्यम् । अत एव ‘आज्यैः स्तुवते’ ‘आकाशादेव समुत्पद्यन्ते’ इत्यादौ आपातप्रतीतघृतगगनादिपरित्यागेनाज्याकाशादिपदानां सामपरमात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांसयोश्चित्राकाशाद्यधिकरणेषु । अन्यथा तत्रत्यपूर्वपक्षाभ्युपगमापत्तेः । तथा चोक्तं वार्तिककारैः ‘शास्त्रं शब्दविज्ञानाद् असन्निकृष्टेऽर्थे विज्ञानम्’ इत्यत्र–
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ।
ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि वा ।।
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापदवादयोः ।
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ।।
अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।
अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहृतौ ।। इत्यादि ।
अन्यत्राप्युक्तम् ।
विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ।। इति ।
तथा च प्रत्यक्षादिविरोधात् पूर्वोत्तरविरोधाच्च नाद्वैतपरत्वम् ।