सम्भवति च भेदस्य स्वरूपत्वेन निर्वाहः
१५. विशिष्य भेदखण्डनोद्धारः
न्यायामृतम्
सम्भवति च भेदस्य स्वरूपत्वेन निर्वाहः । तत्र यदुक्तं निरपेक्षघटस्वरूपत्वे तद्वदेव भेदस्यापि निरपेक्षत्वं स्यादिति तन्न । व्याप्तेः स्वपरासम्मतेः । त्वन्मते सापेक्षाया अविद्यानिवृत्तेर्जीवब्रह्मैक्यस्य मत द्वयेऽपि स्थितौ व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नीलतरत्वादिजातिविशेषस्यार्थप्रकाशात्मक ज्ञानस्य ब्रह्मणि ब्रह्माभेदस्यास्ति ब्रह्मेत्यादौ कालसापेक्षस्यास्तित्वस्य च निरपेक्षब्रह्मव्यक्त्यादिस्वरूपत्वात् । व्याप्त्यभावे चानुमानस्य तर्कस्य चाभासत्वात् । ऐक्यस्यास्वरूपत्वे च सत्त्वेऽद्वैतहानिः । मिथ्यात्वे च तत्परस्य ‘तत्त्वमसि’ इत्यादेरतत्त्वावेदकत्वं, भेदस्य सत्यता च स्यात् । यत्र यदध्यस्तं तत्र तद्विरोधि तज्ज्ञानाबाध्यं, यथा शुक्तावरूप्यत्वमिति वा, यत्र यदैक्य-मध्यस्तं तत्र तद्भेदस्तज्ज्ञानाबाध्यो यथा दूरस्थवनस्पत्योर्भेद इति वा, यत्र यदध्यस्तं तत्र तद्विरोधि तात्त्विकं यथा ब्रह्मण्यनृतत्वस्याध्यस्तत्वे सत्यत्वं तात्त्विकमिति वा व्याप्तेः । ऐक्यस्य च निरपेक्षत्वे तत्त्वंपदार्थपराणां ‘सत्यं ज्ञानं विज्ञानघनः’ इत्यादीनां ऐक्यपरमहावाक्यैकवाक्यत्वाभावेन वैयर्थ्यं स्यात् । न च प्रतियोगिनो भेदस्य सापेक्षत्वादैक्यं सापेक्षवदिति वाच्यम् । घटः पटो नेति नञर्थस्य भेदस्यैव तादात्म्यनिषेधत्वेन वैपरीत्यस्यैवोचितत्वात् । ऐक्ये भेदसापेक्षत्वस्य दुर्वारत्वाच्च ।
अथ तत्र प्रतीत्योरेव सापेक्षत्वनिपेक्षत्वे इति तयोरेव भेदः न तु तद्विषयस्य । एकस्यामेव तत्तायां संस्कारसापेक्षनिरपेक्षस्मृत्यनुभवविषयत्वस्य एकस्मिन्नेवाग्न्यादौ व्याप्त्यादिधीसापेक्षनिरपेक्षानुमितिप्रत्यक्षविषयत्वादेर्दर्शनादिति चेत्समं प्रकृतेऽपि । एवं च–
अज्ञानहानिवद् ब्रह्मरूपधीवदभेदवत् ।
स्वरूपत्वेऽपि भेदस्य सापेक्षत्वं हि युज्यते ।।
अथ तत्र स्वरूपेण निरपेक्षस्यापि ब्रह्मणोऽभेदत्वेन सापेक्षत्वं तर्हि स्वरूपेण निरपेक्षस्यापि घटस्य भेद त्वेन सापेक्षत्वमस्तु । प्रमेयत्वादिना निरपेक्षस्याप्यभाव-सादृश्यादेरभावत्वादिना सापेक्षत्वस्य स्वरूपेण निरपेक्षस्यापि दण्डादेर्ब्रह्मणश्च कारणत्वेन ज्ञानत्वेन च सापेक्षत्वस्य दर्शनात् । सप्रतियोगिकनिष्प्रतियोगिक व्यवस्था तु यदसाधारण्येन स्ववाचकपदप्रवृत्तिनिमित्तावच्छेदेन प्रतीतौ प्रतियोगिप्रतीतिसापेक्षं तत्सप्रति योगिकम्, अन्यत्तु निष्प्रतियोगिकमिति । यदि च तत्रैकस्यैवार्थस्य लघुत्वकठिनत्व-शब्दोल्लेखेन निरपेक्षस्याप्य गुरुत्वाद्रवत्वशब्दोल्लेखेन सापेक्षत्ववद् ब्रह्मशब्दोल्लेखेन निरपेक्ष-स्याप्यभेदशब्दोल्लेखेन सापेक्षत्वं तर्हीहापि घटशब्दोल्लेखेन निरपेक्षस्यापि भेदशब्दोल्लेखेन सापेक्षत्वमस्तु । एकस्यैव गमनस्य गच्छतिचलतिशब्दोल्लेखाभ्यां प्रयत्नस्य च करोति-यततिशब्दोल्लेखाभ्यां कर्मसापेक्षत्वनिरपेक्षत्वयोः शब्दस्वभावप्रयुक्तयोर्दर्शनात् ।
यदि च तत्राभेदत्वादिकमेव सापेक्षं न त्वभेदरूपो विशेष्यः, तर्ह्यत्राप्यन्योन्या-भावत्वरूपं भेदत्वमेव सापेक्षं न तु भेदरूपो विशेष्य इति समम् । न च तर्ह्यन्योन्या-भाव एव भेदोऽस्त्विति वाच्यम् । अन्योन्या भावस्यैव स्वरूपत्वोक्तेः । उक्तं हि–‘भावाभावस्वरूपत्वान्नान्योन्याभावता पृथग्’ इति । उक्तं च– ‘न स्वरूपमात्रं भेदः किन्त्वन्योन्याभावः । स च वस्तुतः सविशेषाभिन्नः’ इति । कथम् अभावस्य भावैक्यमिति चेद्, अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यम् ? भावः स्वाभावेन विरुद्धो न त्वन्याभावेनेति चेत्समम् प्रकृतेऽपि, अभावाभावस्य भावत्वदर्शनात् । यदि चाविद्यानिवृत्तेर्ब्रह्मत्वं नाम प्राभाकरमत इवाधिकरणस्यैव निवृत्तिव्यवहारालम्बनता, तर्हीहापि घटस्यैवान्योन्याभावव्यवहारालम्बनतेत्यस्तु । यदि चाद्वैतं न द्वैताभावः, किन्तु तद्विरोधिभावान्तरं द्वैताभावोपलक्षितं ब्रह्मैव वा, तर्हि भेदोऽपि न तादात्म्याभावः, किन्तु तद्विरोधि भावान्तरं तदभावोपलक्षितं स्वरूपमेव वाऽस्तु ।
केचित्तु तत्तादात्म्यायोग्यत्वं वा (तर.पा)तदैक्यधीव्यवहारविरोधित्वं वा तद्भेदत्वं यत्र यद्दर्शनं यत्तादात्म्या ध्यासविरोधि तत्र तत्त्वं वा तद्भेदत्वमित्याहुः । इतरे तु स्ववृत्तियत्किञ्चिद्धर्मानाधारनिष्ठ यत्किञ्चिद्धर्मानाधार त्वरूपं वा स्वावृत्तिधर्माधारा-निष्ठधर्माधारत्वरूपं वा स्वरूपत्वं भेदत्वम् । अनाधारत्वं चाधारत्वराहित्यं न त्वाधारान्यत्वमिति नान्योन्याश्रय इत्याहुः । एतेन प्रतियोगिनिरूप्यस्य भेदस्य वस्तुस्वरूपत्वे प्रति योगिनोऽपि वस्तुस्वरूपत्वं स्यादिति निरस्तम् । व्याप्तेः स्वपरासम्मतेः । दुःखनिवृत्तेः पुमर्थत्वेऽपि दोषाभावस्य साधकत्वप्रयोजकत्वेऽप्यनृत-व्यावृत्यज्ञाननिवृत्योः अज्ञानादिप्रकाशरूपज्ञानस्य च ब्रह्म स्वरूपत्वेऽपि अज्ञाननिवृत्ते-र्मोक्षत्वेऽपि दुःखेऽदोषेऽनृतेऽज्ञाने च पुमर्थत्वस्य साधकत्वप्रयोजकत्वस्य ब्रह्मस्वरूपत्वस्य मोक्षत्वस्य चादर्शनात् । तत्राज्ञानादिकं कार्यानन्वयित्वेनोपलक्षणं सन् निरूपकमात्रम्, न तु कार्यान्वयित्वेन विशेषणमिति चेत्, समं प्रकृतेऽपि ।
लोकेऽपि निरूपके ‘लम्बकर्णमानय’ इत्यादौ कार्यान्वयस्येव ‘चित्रगुमानय’ ‘काशीवासी समागतः’ इत्यादौ तदनन्वयस्यापि दर्शनात् । न च व्याप्तिग्रहणेऽनुसृता लौकिकी रीतिर्व्यभिचारे नानुसरणीया । न च कर्णस्य कार्यान्वयदर्शनेन गवामपि तदापादनम् । वैपरीत्यापत्तेः, अज्ञानादेर्ब्रह्मस्वरूपत्वापत्तेश्च । ननु प्रतियोगिन उपलक्षणत्वे कदाचित् काकाज्ञानेऽपि गृहज्ञानवत् प्रतियोग्यज्ञानेऽपि भेदज्ञानं स्यादिति चेत्, तर्ह्यज्ञानाद्यज्ञानेऽपि कदाचित्तन्निवृत्त्यादिज्ञानं स्यात् । अथोपलक्षणस्यापि प्रतियोग्यादेर्ज्ञानमुपलक्ष्याभाव सादृश्यादिज्ञानकारणं दृष्टमित्यदोषमिति चेत्, समं प्रकृतेऽपि । तस्मात्प्रतियोगिन उपलक्षणत्वान्न धर्मिण्यन्तर्भावः । एवं च–
पुरुषार्थे दुःखमिव ब्रह्मण्यज्ञानवत्तथा ।
मोक्षे च मोहवन्नाऽन्तर्गतं कुम्भादिकं पटे ।।
तटस्थत्वेऽपि कुम्भादेरप्रतीतौ न भेदधीः ।
अज्ञानादेरप्रतीतौ तद्धान्याद्यप्रतीतिवत् ।।
(१) केचित्तु प्रतियोगिनो विशेषणत्वेऽपि न दोषः । शब्दोऽनित्य इत्यादौ शब्दत्वादेरिव कार्यानन्वयेऽपि विशेषणत्वोपपत्तेरित्याहुः ।
अद्वैतसिद्धि:
ननु निरपेक्षस्वरूपत्वे सापेक्षत्वानुपपत्तिरिति यदुक्तं, तत्तावदयुक्तम्, अविद्यानिवृत्तेर्जीवब्रह्मैक्यस्य च तव मते मतद्वयेऽपि स्थितौ व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नीलतरत्वादे-रिवार्थप्रकाशात्मकज्ञानस्य ब्रह्मणि ब्रह्माभेदस्य ‘अस्ति ब्रह्म’ इत्यादौ कालसापेक्षस्यास्तित्वस्य (च) निरपेक्षब्रह्मव्यक्त्यादिरूपताया दर्शनादिति– चेन्न, अविद्यानिवृत्तिजीवब्रह्मैक्ययोः प्रतीतौ सापेक्षत्वस्या-विद्यकतया तात्त्विकनिरपेक्षत्वविरोधित्वाभावात् । जातिमात्रस्य व्यक्त्यभेदासिद्धेः । व्यक्तिसमानसत्ताक-घटत्वादौ तदभावात् । व्यक्त्यसमानसत्ताकसत्तादिजातौ तु सापेक्षत्वस्य काल्पनिकत्वात् । नीलतर-त्वादेर्व्यक्तिरूपत्वासिद्धौ हेतोरभावादर्थप्रकाशात्मकज्ञानस्य ब्रह्माभेदस्य च सापेक्षतायाः काल्प-निकत्वात् । अस्ति ब्रह्मेत्यादावप्येवमेव । तथा च तत्त्वतो निरपेक्षस्य सामानाधिकरण्यासिद्ध्या न तर्काभासताव्याप्तिसिद्धिः । अत एव– ऐक्यस्यास्वरूपत्वे औतहानिः, मिथ्यात्वे भेदस्य सत्यत्व-प्रसङ्गः, यत्र यदध्यस्तं तत्र तद्विरोधि तज्ज्ञानाबाध्यम्, यथा शुक्तावरूप्यत्वम् । यत्र यदैक्यं बाध्यं, तत्र तद्भेदस्तज्ज्ञानाबाध्यः । यथा दूरस्थवनस्पत्योर्भेद इति वा । यत्र यदध्यस्तं तत्र तद्विरोधि तात्त्विकम्, यथा ब्रह्मण्यनृतत्वस्याध्यस्तत्वे सत्यत्वं तात्त्विकमिति वा व्याप्तेरिति– निरस्तम् । ऐक्यस्य ब्रह्मभेदानङ्गीकारात् । विरोध्यनुरोधिनां सर्वेषां ब्रह्मणि कल्पितत्वेन तज्ज्ञानबाध्यत्वेन व्याप्तीनामसिद्धेः ।
ननु– ऐक्यस्य निरपेक्षत्वे तत्त्वंपदार्थपराणां ‘सत्यं विज्ञानघनः’ इत्यादीनामैक्यपरमहावाक्यैक-वाक्यत्वाभावेन वैयर्थ्यं स्यादिति चेन्न । ऐक्यस्य स्वप्रकाशब्रह्माभिन्नतया स्थितिप्रतीत्यादौ निरपेक्ष-त्वेऽपि यथा लक्ष्यार्थभेदभ्रमनिवर्तकवृत्ति जनने पदार्थसापेक्षतया स्वरूपपरवाक्यानामेकवाक्यतायाः सत्त्वात् । भेदरूपप्रतियोगिसापेक्षत्वेन तत्र सापेक्षत्वव्यवहारात् । न च घटः पटो नेति नञर्थस्य भेदस्येव तादात्म्यनिषेधरूपत्वेन वैपरीत्यम्, तादात्म्यस्य तन्निष्ठासाधारणधर्मरूपत्वे भेदस्याभेदा-नपेक्षत्वात् । अभेदरूपत्वे भेदसापेक्षत्वेनैव तस्य तदनपेक्षत्वात् । न चैतावता ऐक्यस्य सापेक्षत्वा-पत्तिः । काल्पनिकस्येष्टत्वात् । अत एव– अज्ञानहानिवद् ब्रह्मरूपधीवदभेदवत्स्वरूपत्वेऽपि भेदस्य सापेक्षत्वं हि युज्यत इति निरस्तम् । तव सापेक्षत्वयोस्तात्त्विकतया दृष्टान्तवैषम्यात् । न च भेदेऽप्येवमेवास्तु, भेदस्य निषेधप्रतियोगितया श्रुतत्वेन ब्रह्मरूपत्वाभावात् । न च तत्राभेदश्रुतिरस्ति । एतेन स्वरूपेण निरपेक्षस्याप्यभेदस्याभेदत्वेन सापेक्षत्ववत् स्वरूपेण निरपेक्षस्यापि घटस्य भेदत्वेन सापेक्षत्वमस्तु, अवच्छेदकभेदेन सप्रतियोगित्वाप्रतियोगित्वे अपि यथा तद्वदिति– निरस्तम् । भेदस्य स्वरूपतो निरपेक्षत्वे निष्प्रतियोगिकत्वे च परान् प्रतीव स्वमपि प्रति अविशिष्टतया स्वव्याघातः । न चैवमभेदस्यापि स्वान् प्रतीव परान् प्रति तथा सति तथात्वापत्तिः । इष्टापत्तेः । घटत्वादिना भेदः परं कल्पितः, स्वरूपतस्त्वभेद एव । तथा सति परत्वं परं व्याहतम्, न स्वरूपत्वमपि ।
यत्तु सप्रतियोगिकत्वनिष्प्रतियोगिकत्वव्यवस्था तु यदसाधारण्येन स्ववाचकप्रवृत्तिनिमित्तावच्छेदेन प्रतीतौ प्रतियोगिप्रतीतिसापेक्षम् तत्सप्रतियोगिकम्, अन्यत्तु निष्प्रतियोगिकमिति, तन्न । भेदस्य स्वरूपत्वे तदन्यत्वासिद्धेः । एतेन– एकस्यार्थस्य लघुत्वकठिनत्वादिना उल्लेखेन निरपेक्षत्वेऽपि अगुरुत्वाद्रवत्वादिना उल्लेखेन सापेक्षत्वमपि यथा, तथा घट इत्युल्लेखेन निरपेक्षस्यापि भेद इत्युल्लेखे सापेक्षत्वोपपत्तिरिति– निरस्तम्, शब्दानुल्लेखेऽपि सापेक्ष निरपेक्षयोरनुभवाच्च, लयादिवत् नञनुल्लेख-मात्रेण दृष्टान्तासम्प्रतिपत्तेश्च । न च– एकस्यैव गमनस्य गच्छतिचलतिशब्दोल्लेखाभ्यामेकस्यैव च प्रयत्नस्य करोति प्रवर्तत इति शब्दोल्लेखाभ्यां कर्मसापेक्षत्वनिरपेक्षत्वयोः शब्दस्वभावप्रयुक्ति दर्शनादत्रापि घटभेदशब्दोल्लेखेन सापेक्षत्वनिरपेक्षत्वे स्यातामिति– वाच्यम् । अर्थगतसकर्मकत्वादीनां शब्दस्वभावान धीनत्वात् । प्रत्युत एकस्मिन्नेव तपधातावर्थभेदेन तयोर्दर्शनात् ‘तपति ऋषिस्तपति पृथिवीं सविता’ इत्यादौ । एवं च दृष्टान्तेष्वर्थभेद एव, फलं धात्वर्थ इति मते संयोगरूपार्थभेदात् । मतान्तरे तूत्तर-संयोगावच्छिन्नस्पन्दस्य गम्यर्थत्वं, पूर्वविभागफलकस्पन्दस्य चलत्यर्थत्वम्, अनुकूलयत्नस्य करोत्यर्थत्वं, यत्नमात्रस्य यत्यर्थत्वमिति । न च भेदत्वमेव सापेक्षं न तु भेद इति वाच्यम् । सापेक्षतया विशेष्यस्यैवानुभवात् । अन्यथा घटप्रतियोगिकं भेदत्वम् इत्युल्लेखः स्यात् ।
एतेन ‘भावाभावस्वरूपत्वान्नान्योन्यभावता पृथक्’ इत्युक्तेः न स्वरूपमात्रं भेदः, किन्त्व-न्योन्याभावः । स च वस्तुनः सविशेषाभिन्नः’ इत्युक्तेश्च घटादिरेव भावाभावरूपतया भेद इति निरस्तम् । घटतदभावस्थले भावत्वाभावत्वयो र्विरुद्धत्वेन कल्पनात्कथं तदाश्रयैक्यम् ? न च अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यमिति वाच्यम् । अस्मन्मते तत्राभावत्वस्य कल्पितत्वेन मायिकतया विरोधाभावात् । तव तु द्वयोरपि तात्त्विकत्वेन विरोधस्य दुष्परिहरत्वात् । अत एव– तत्तादात्म्यायोग्यत्वं वा तदैक्यप्रमित्यविषयत्वं वा, यत्र यद्दर्शनं तत्र तत्तादात्म्याध्यासविरोधित्वं वा, स्ववृत्तियत्किञ्चिद्धर्मानाधारनिष्ठयत्किञ्चिद्धर्मानाधारत्वस्वरूपं वा स्वावृत्तियत्किञ्चिद्धर्माधारानिष्ठधर्मा-धारत्वरूपं वा स्वरूपत्वं तद्भेदत्वम्, अनाधारत्वं चाधारत्वराहित्यम्, न त्वाधारादन्यत्वमिति नान्योन्याश्रय इति निरस्तम् । स्वरूपत्वे सापेक्षत्वानुपपत्तेः । अतिरेकेऽनवस्थानात् । अत्यन्ता-भावान्योन्याभावयोरैक्यापत्तेः, प्रमितिदर्शनादिघटितत्वेन चक्षुराद्यगम्यतापत्तेश्च । किञ्च भेदस्य घटस्वरूपत्वे तन्निरूपकप्रतियोगिनोऽपि तत्स्वरूपतापत्तिः । न हि भेदरूपमात्रं घटः, किन्तु पटप्रतियोगिकभेदरूप इति ।
ननु नायं दोषः । भेदप्रतियोगिन उपलक्षणत्वेन स्वरूपतायामनन्वयात् । अन्यथा दुःखनिवृत्तेः पुमर्थतया दुःखस्यापि पुमर्थत्वं, दोषाभावस्य साधकताप्रयोजकत्वे दोषस्यापि साधकताप्रयोजकत्वम् । अनृतव्यावृत्त्यज्ञान निवृत्त्योरज्ञानादिप्रकाशरूपज्ञानस्य च ब्रह्मरूपत्वेऽनृतादीनामपि तद्रूपत्वम् । अज्ञाननिवृत्तेर्मोक्षत्वे अज्ञानस्य च मोक्षत्वं च स्यात् । न च लम्बकर्णादौ कर्णादेर्विशेषणतयाऽन्वय-दर्शनादत्रापि तथा । चित्रग्वादिष्वनन्वयात्तथैव किं न स्यात् । अन्यथोदाहृतस्थले अगतेः । न च प्रतियोगिन उपलक्षणत्वे तदज्ञानेऽपि काकाज्ञाने गृहज्ञानवत्तज्ज्ञानापत्तिः, इष्टापत्तेः । अन्यथो-दाहृतागतेश्च । केचितु प्रतियोगिनोऽनन्वयेऽपि ‘शब्दः अनित्य’इत्यादौ शब्दत्वादेर्विशेषणत्वमिवात्रापि विशेषणत्वमित्याहुरिति– चेन्न, न हि वयं पटभेदो घटस्वरूपमित्यन्वयप्रविष्टत्वेन प्रतियोगितया निरूपकत्वमात्रेण वा पटस्य घटरूपतामापादयामः, किन्तु समानाधिकरणप्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन । अभेदनिरूपकप्रतियोगिवत् । न चाज्ञाननिवृत्त्यादयः समानाधिकरण-प्रतीतिविषयाः । भेदस्तु घटः पटो नेति समानाधिकरणप्रतीतिविषयः । अन्यथा समानाधिकरण-निषेधबुद्धिविषयत्वं भेदलक्षणं न स्यात् । एतेन–
पुरुषार्थे दुःखमिव ब्रह्मण्यज्ञानवत्तया ।
मोक्षे च मोहवन्नान्तर्गतं कुम्भादिकं पटे ।।
तटस्थत्वेऽपि कुम्भादेरप्रतीतौ न भेदधीः ।
अज्ञानादेरप्रतीतौ तद्धान्याद्यप्रतीतिवत् ।। इति निरस्तम् ।
न्यायामृततरङ्गिणी
अविद्यानिवृत्तेरिति ।। नन्वविद्यानिवृत्तिब्रह्मैक्ययोरतात्विकं सापेक्षत्वं तात्विकनिरपेक्ष-ब्रह्मस्वरूपाविरोधि । मैवम् । अतात्विकसापेक्षस्य भेदस्य तात्विकनिरपेक्षघटस्वरूपा-विरोधित्वस्यापि सुवचत्वात् । ब्रह्मस्वरूपं तात्विकं घटस्वरूपं त्वतात्विकमित्यस्यासिद्धेः । भेदस्य सत्यता स्यादित्युक्तमुपपादयति– यत्र यदध्यस्तमित्यादिना ।। ब्रह्माधिकरणको भेदो ब्रह्मज्ञानाबाध्यः । स्वविरोध्यध्यासाधिष्ठानाधिकरणकत्वात् । सामान्यव्याप्तौ शुक्ताव-रूप्यत्ववत् ।। ऐक्यमिति ।। ऐक्याध्यासाधिष्ठानाश्रित्यत्वं हेतुः । तात्विकं वेति साध्य-निर्देशः । स्वविरोधीत्याद्युक्तो हेतुः ।। ऐक्यस्य चेति ।। नन्वैक्यस्य निरपेक्षत्वेऽपि तत्तदर्थभेदभ्रमनिवर्तकवृत्तिजनने तत्तत्पदार्थसापेक्षतया स्वरूपपर वाक्यानामेकवाक्यताऽस्ति । मैवम् । तत्तत्पदप्रतिपाद्यतत्तदर्थप्रतियोगिकैक्यविषयकत्वं विना वृत्तेर्भेदभ्रमनिवर्तकत्वायोगात् । ऐक्यस्य निरपेक्षत्वे वृत्तेस्तादृशैक्यविषयकत्वायोगात् ।। तादात्म्यनिषेधत्वेनेति ।। तन्निष्ठा-साधारणधर्मत्वादेस्तादात्म्य स्यैक्यरूपत्वात् । यदि चाभेदस्तादात्म्यं तदैक्यमेव भेदापेक्ष-मित्याह– ऐक्य इति ।। सापेक्षत्वं हि युज्यत इति ।।
ननु मम मते काल्पनिकं सापेक्षत्वं तव तु सापेक्षत्वनिरपेक्षत्वे द्वे अपि तात्विके इति दृष्टान्तवैषम्यम् । न । भेदस्यापि ब्रह्मस्वरूपत्वेन तत्र सापेक्षत्वं काल्पनिकमित्यपि वक्तुं शक्यत्वात् । न च भेदस्य ब्रह्मस्वरूपत्वे मानाभावः । ऐक्येऽपि साम्यात् ।। प्रमेयत्वदि-नेति ।। ननु भेदस्य निरपेक्षत्वे परान्प्रतीव स्वमपि प्रत्यविशिष्टतया स्वस्मिन्भेदत्वापत्तिः । मैवम् । अभेदस्यापि तथात्वे स्वं प्रतीवान्यान्प्रत्यप्यभेदत्वापत्तेः । न चेष्टापत्तिः । घट-त्वादिना भेदः कल्पितः । स्वरूपतस्त्वभेद एवेति वाच्यम् । भेदेऽपि साम्यात् । घटभेदत्वेन घटावृत्तित्वेऽपि भेदत्वेन भेदस्य घटेऽपि वृत्तेः । ननु निरपेक्षघटस्वरूपस्य भेदस्य प्रतीत्योरपि कथं प्रतियोगिप्रतीतिसापेक्षत्वानपेक्षत्वादिकमत आह– शब्दस्वभावप्रयुक्तयोरिति ।। घटकर्मत्वमानयनमित्यादिशब्दाद् घटमानयेति शब्दाज्जन्ययोः प्रतीत्योरन्वयबोधाजनकत्व तज्जनकत्वयोर्दर्शनादिहापि तदुपपत्तेः । एतच्चोपपादितं दृग्दृश्यसम्बन्धानुपपत्तिभङ्गे । अन्यथैक्येऽपि समम् । तदेतदाह– ब्रह्मशब्दोल्लेखेनेत्यादिना ।।
ननु गच्छतिचलत्योरर्थभेद एव । उत्तरसंयोगावच्छिन्नस्पन्दो गम्यर्थः । पूर्वविभागफलक-स्पन्दश्चलत्यर्थ इति । मैवम् । उभयत्रापि पूर्वदेशविभागस्योत्तरदेशसंयोगस्य च प्रतीतेः सत्त्वेन गमिचलत्योरर्थाभेदात् । धात्वर्थः फलमिति मण्डनाचार्यमते तु संयोगस्योभयफलत्वेन तयोरैकार्थ्यात् । न चानुकूलयत्नः करोत्यर्थः फलमानयत्यर्थ इति वाच्यम् । आख्यात-समानार्थतया यत्नमात्रस्य करोत्यर्थत्वात् । एतदप्युपपादितं प्रतिकर्मव्यवस्थाभङ्गे । नियमा-नङ्गीकाराच्च क्वचिद्धात्वभेदेऽपि ‘तपति ऋषिः, तपति पृथिवीं सविता’ इत्याद्यकर्मकसकर्मक-प्रतीतिरप्युपपद्यते ।। नान्योन्याभावतेति ।। ननु नान्योन्याभावः पृथगिति वक्तव्यम् । सत्यम् । नायं भावशब्दो भावसाधनः किन्तु कर्तृसाधनः । ज्वलितिकसन्तेभ्योऽण इति णप्रकरणे ‘भवतेश्च’ इत्यनेन कर्तरि भवतेर्णविधानात् । भवतीति भावस्तस्य भावो भावता भवनम् । एवं चान्योन्याभावताऽन्योन्याभवनमन्योन्याभाव एव । स न पृथगित्यर्थः । तथा च तल्प्रत्ययोपपत्तिः । केचित्तु ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इति कर्तरि प्रतिषिद्ध-मपि घञ्प्रत्ययम् ‘उणादयो बहुलम्’ इति बहुलवचनात्कर्तर्यपि विधाय कर्तृसाधनं भावशब्दमाहुः ।। अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यमिति ।।
ननु मम मते तत्राभवत्वस्य कल्पितत्वेन विरोधाभावः तव तु द्वयोरपि तात्विकत्वेन विरोधः । मैवम् । निर्विशेषब्रह्माभिन्नेऽविद्यानिवृत्त्यादौ भावत्वाभावत्वयोः कल्पितत्वेन तव विरोधस्य दुर्वारत्वात् । वुरुद्धयोरुभय तात्विकत्ववदुभयकल्पितत्वेऽपि विरोधात् ।। तदैक्यप्रमित्यविषयत्वमिति ।। दर्शनादिघटितत्वेऽचाक्षुषत्वाद्यापत्तिः । संस्कारोपनीतभानात् ।। इतरे त्विति ।। न चात्यन्ताभावान्योन्याभावयोरैक्यापत्तिः । इष्टत्वात् ।। प्रतियोगि-निरूप्यस्येति ।। घटस्य पटप्रतियोगिकभेदस्वरूपत्वे पटस्वरूपत्वमपि स्यादित्यर्थः । ननु न घटस्वरूपभेदं प्रति पटस्य निरूपकत्वमात्रेण घटस्य पटरूपताऽऽपाद्यते किन्तु समानाधिकरणप्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन । अज्ञाननिवृत्त्यादयस्तु न समानाधिकरणप्रतीतिविषयाः । भेदस्तु ‘घटः पटो न’ इति समानाधिकरण प्रतीतिविषय इत्याशङ्का तुच्छेत्याह– अनृतेत्यादिना ।। ‘अनृतं न ब्रह्म, अज्ञानप्रकाशो ब्रह्म’ इत्यादि समानाधिकरणप्रतीतिविषयो यद् ब्रह्म तत्स्वरूपा याऽनृतव्यावृत्तिरज्ञानप्रकाशश्च तत्र प्रतियोगितया निरूपक स्यानृतस्याज्ञानस्य च ब्रह्मरूपतापत्तेरुक्ताशङ्कायास्तुच्छत्वात् । ‘अद्वितीयं ब्रह्म’ इत्यत्र द्वितीयस्य ‘अदुःखं ब्रह्म’ इत्यादौ दुःखादेर्ब्रह्मरूपतापाताच्च ।
न्यायामृतकण्टकोद्धारः
नन्वेवमस्तु प्रतिवादिनं प्रति प्रतिबन्द्या समाधानम् । तत्वविचारकं, धर्मिस्वरूपत्वमुत तदतिरिक्तत्वमिति पक्षयोः कस्मिन् पक्षे निर्वाह इति जिज्ञासमानं प्रति कथं समाधानमित्यत आह– सम्भवति चेति ।। यद्वा प्रतिवादिनं प्रत्येवं प्रतिबन्द्या समाधानमभिधाय, अस्तु धर्मिस्वरूपत्वमेव भेदस्य तथापि न काप्यनुपपत्तिरित्याह– सम्भवति चेति ।। ब्रह्मव्यक्त्यादीति ।। तथा च व्यभिचारान्न तर्कमूलभूतव्याप्तिरिति भावः । न च जातिमात्रस्य व्यक्तिभेद एव न व्यक्तिसमानसत्ताकघटकत्वादौ भेदाभावात् । तदसमानसत्ताकसत्तादौ सापेक्षस्य काल्पनिकत्वात् नीलघटत्वादिकं व्यक्त्यभिन्नमेव । अन्यत्र सर्वत्र प्रतीतौ सापेक्षत्वकाल्यमेवेति नैक्यादिप्रतिबन्दीति वाच्यम् । जातौ पृथक् सत्ताभावेन समानासमानविभागकल्पनानुपपत्तेः । न च जातावपि स्वरूप-सत्त्वमस्तीति वाच्यम् । तथापि जातिमात्रस्य व्यक्तिसमान सत्ताकत्वेनासमानसत्ताकजात्यसिद्धेः । न च सत्तैव तादृशीति वाच्यम् । घटत्वादावप्येवं वक्तुं शक्यत्वात् । विनिगमकाभावात् । न च सत्ता ब्रह्मात्मिकैवेति वाच्यम् । घटनिष्ठतयाऽनुभवात् । अन्यथा घटत्वादेरपि ब्रह्मात्मकत्व-प्रसङ्गात् ।
यच्च सापेक्षकत्वमाविद्यकतया काल्पनिकमिति तन्न । बाधकाभावात् । भेदेऽपि तथा वक्तुं शक्यत्वाच्च । ननु मास्तु व्याप्तिस्तथापि तर्कस्य किं दूषणमित्यत आह– व्याप्त्यभावे चेति ।। नन्वैक्यं ब्रह्मस्वरूपमेव न भवति । तथा च कथं तत्र व्यभिचार इत्यत आह– ऐक्यस्येति ।। ननु भेदस्य सत्यता स्यादित्यापादितं तदयुक्तम् । यत्रैक्यं मिथ्या तत्र भेदः सत्य इति व्याप्तेरस्माकमसिद्धेऽपि भेदसत्यत्वस्य क्वाप्यनभ्युपगमादित्यत आह– यत्रेति ।। नन्वियं सामान्यव्याप्तिर्न विशेषव्याप्तिः । सैव प्रकृतोपयोगिनीत्यभिमानं ? तं ‘तुष्यतु दुर्जन’ इति न्यायेनाह– यत्र यदैक्यमिति ।। सत्यपदेन तज्ज्ञानाबाध्यत्वस्यैव विवक्षितत्वान्नापादन-व्याप्त्योर्भिन्नविषयत्वमिति भावः । नन्वैक्यं सापेक्षमेव न । तथा च सापेक्षत्वरूपहेतोरेवाभावात्कथं व्यभिचार इत्यत आह– ऐक्यस्य चेति ।। न चैक्यस्य स्वरूपप्रतीत्यादौ निरपेक्षत्वेऽपि भेदभ्रमनिवर्तकवृत्तिजनने सापेक्षतया स्वरूपपराणामप्येकवाक्यतेति वाच्यम् । भेदभ्रमनिवर्तिका ऐक्यवृत्तिरेव । तथा चैक्यस्य निरपेक्षत्वे तद्वृत्तेरपि सुतरां निरपेक्षत्वेन पुनरपि पदार्थपराणां वैयर्थ्यं दुष्परिहरमिति भावः ।
वैपरीत्यस्यैवेति ।। ऐक्यस्य तादात्म्यरूपत्वेन तन्निषेधरूपत्वात् । भेदस्य तत्सापेक्षतयैव सापेक्षत्वमिति भावः । अस्तु वैक्यस्य भेदनिषेधरूपत्वं तथापि भेदरूपप्रतियोगिसापेक्षत्वं दुर्वारमित्याह– ऐक्य इति ।। ननु सापेक्ष निरपेक्षप्रतीतिविषयत्वं विरुद्धमेकत्र कथमङ्गीकर्तुं शक्यम् । कुत्राप्यदृष्टत्वादित्यत आह– एकस्यामेवेति ।। उक्त मर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ।। ब्रह्मरूपा या धीस्तद्वदित्यर्थः । ननु दृष्टान्ते काल्पनिकत्वाकाल्पनिकत्वयोर्द्वयो स्तात्विकत्वाभावाद् दार्ष्टान्तिके च तद्भावाद् वैषम्येण दृष्टान्तदार्ष्टान्तिकभावोऽनुपपन्न इति चेन्न । दृष्टान्तेऽप्युभयोस्तात्विकत्वावश्यम्भावाद् दार्ष्टान्तिकेऽपि तथा वक्तुं शक्यम् । स्वभेदस्य निषेधप्रतियोगितया तत्र वक्तुमशक्यमिति वाच्यम् । ?भेदः स्वातन्त्र्यसार्वज्ञेत्यादिप्रमाणा-नामन्यत्रोदाहृतत्वात् अभेदस्यैव स्वरूपत्वे न किमपि प्रमाणं पश्यामः । नन्वेकस्यैव केनचिद्रूपेण सापेक्षत्वं केनचिद्रूपेण निरपेक्षत्वमिति न दृष्टम् । तथा चादृष्टकल्पनेत्यत आह– प्रमेयत्वादि-नेति ।। नन्वेवं सर्वस्यापि सापेक्षत्वनिरपेक्षत्वयोः सर्वत्र सत्त्वात् सप्रतियोगित्वव्यवस्था न स्यादित्यत आह– शब्दाभ्यामप्रतियोगिकेति ।। न च भेदस्य स्वरूपत्वे तदन्यासिद्धिरिति वाच्यम् । स्वरूपत्वेऽपि तदन्यसिद्धेर्वक्ष्यमाणत्वात् ।
ननु न मया एकस्य वस्तुनस्सापेक्षत्वनिरपेक्षत्वे स्वीक्रियते किं शब्दद्वारकमेव सापेक्षत्वादिकमित्यत एतदपि तुल्यमिति सदृष्टान्तकमाह– यदि चेति ।। बुद्ध्युपारोहाय दृष्टान्तान्तराण्याह– एकस्यैवेति ।। न चार्थ एव सापेक्षत्वनिरपेक्षत्वयोरनुभवात् कथमैक्यमिति वाच्यम् । शब्दोपाधिकतयाऽर्थेऽनुभवसम्भवात् । ननु विधिनिषेधमुखेन प्रवृत्तशब्दाभ्यामेव सापेक्षत्वनिरपेक्षत्वदर्शनेऽपि विधिमुखप्रवृत्तशब्दाभ्यां तयोरदर्शनात् प्रकृते कथं विधिमुख-प्रवृत्तशब्दाभ्यामेव सापेक्षत्वनिरपेक्षत्वे इत्यत आह– एकस्यैवेति ।। न चार्थगतं सकर्मत्वादिकं न शब्दस्वभावाधीनम् । किञ्च तत्रार्थभेदेनैव धातुद्वयं प्रवृत्तम् । यथा ‘तपति ऋषिः, तपति पृथिवीं सविता’ इत्यादाविवेति वाच्यम् । अस्मिन् पक्षे शब्दोपाधिकयोरेव सापेक्षत्वनिरपेक्षत्वयो-रर्थेऽभ्युपगमात् । न च धात्वोरर्थभेदः । यतिकरोत्योरेकार्थत्वस्मरणात् । यतिकरोतिभ्यां यत्नमात्रस्यैवानुभवाच्च । न चानुकूलयत्नत्वं करोत्यर्थो यत्नमात्रं यत्यर्थ इति वाच्यम् । अर्थभेदकल्पने प्रमाणाभावात् । तथा च शब्दोपाधिकमेव सापेक्षत्वमिति ।। सममिति ।। न च विशेष्यस्य भेदस्यैव सापेक्षत्वं वक्तव्यम् । अन्यथा घटप्रतियोगिकं भेदत्वमित्युल्लेखः स्यादिति वाच्यम् । अभेदेऽप्यस्य तुल्यत्वात् । अभेदे सापेक्षत्वं कल्पितमनुपरास्तम् । निरपेक्षित्वस्यैव कल्पितत्वस्य वक्तुं शक्यत्वाच्च ।
भेदशब्दः कस्मिंश्चिद् भावान्तरे सङ्केतित इति शङ्कानिरासार्थम् ‘अन्योन्याभावत्वरूपम्’ इत्युक्तम् । अन्योन्याभावत्वरूपं भेदत्वं चेदन्योन्याभाव एव भेदः स्यात् । तस्य च स्वरूपत्वं नाङ्गीक्रियत इत्याशङ्क्य निषेधति– न च तर्हीति ।। तर्ह्यपसिद्धान्त इत्यत आह– उक्तं हीति ।। कथमिति ।। भावाभावयोः परस्परविरुद्धरूप त्वेनैक्यायोगादिति भावः । प्रतिवादिमुखेन प्रतिबन्दीमाह– अविद्येति ।। न च मन्मते भावत्वं काल्पनिकम् उभयोः काल्पनिकत्वे वस्तुनः शून्यत्वापातात् । अन्यतरस्य काल्पनिकत्वे विनिगमकाभावात् ।। समं प्रकृतेऽपीति ।। स्वाभावेनैव विरोधोऽनुभवसिद्धो न त्वन्योन्याभावेन । प्रत्युत घटः पटो नेति सामानाधि-करण्यादैक्यमेवानुभूयते । अत ऐक्योपपत्तिरिति भावः । नन्वेवं कुत्रापि न दृष्टमित्यत आह– अभावाभावस्येति ।। अस्त्विति ।। उपलक्षणमेतत् । ब्रह्मण एवाविद्यानिवृत्तिव्यवहारालम्बनत्वे ब्रह्मणोऽनादिनित्यत्वेन तत्वज्ञानार्थं श्रवणादिप्रयासवैयर्थ्यं स्यादित्यपि द्रष्टव्यम् ।। तर्हीति ।। अत्रापि भावान्तरस्य सत्यत्वेऽद्वैतहानिः । असत्यत्वे द्वैतसत्यत्वापातः ब्रह्मरूपत्वे साध्यत्वापत्तिरित्यपि द्रष्टव्यम् ।
केचित्त्विति ।। ‘अयोग्यत्वम्’ अयोग्यतावच्छेदकरूपवत्त्वमित्यर्थः । अत्र ‘अविषयत्वम्’ अविषयतावच्छेदक रूपवत्वमित्यर्थः । तत्त्वं तादृशधर्मवत्वमित्यर्थः । अत्र पक्षत्रये असाधारणधर्म एव भेद इति पर्यवस्यति । अग्रिमपक्षद्वये असाधारणधर्माधिकरणं स्वरूपम् । सर्वत्र उपाधिभेदादौपाधिकभेदो द्रष्टव्यः । न च स्वरूपत्वे निरपेक्षत्वापातोऽतिरेकेऽनवस्थेति वाच्यम् । अभेदवत् स्वरूपत्वेऽपि निरपेक्षत्वोपपत्तेरुक्तत्वात् । न चानाधारत्वमाधारभिन्नत्वं, तथा चान्योन्याश्रय इत्यत आह– अनाधारत्वं चेति ।। एषु पक्षेषु भेदस्यानेकोपाधिघटितत्वेन तेषाञ्चोपनायकप्रमाणनियमाभावेन स्वरूपप्रतीतावेव भेदप्रतीतिर्न स्यात् । भेदाप्रतीतौ च सर्वात्मकत्वसन्देहविपर्ययादिप्रसङ्ग इत्यस्वरसो द्रष्टव्यः । एतावता ग्रन्थेन भेदस्य स्वरूपत्वे सापेक्षत्वं न स्यादिति बाधकं परिहृतम् । इदानीं भेदप्रतियोगिनामनन्तत्वेन तद्धटितभेदस्य धर्मिस्वरूपत्वे धर्मिणः सर्वाद्वैतप्रसङ्ग इति बाधकं परिहरति– एतेनेति ।। अत्र यन्निरूप्यस्य यस्य यत्स्वरूपत्वं तन्निरूपकस्यापि तत्स्वरूपत्वमिति व्याप्तिः ? उत प्रतियोगिनिरूप्यस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि धर्मिस्वरूपत्वापत्तिरिति वा ? न द्वितीयः । तदभावात् । नाद्यः, व्यभिचारादित्याह– व्याप्तेरिति ।।
ननु नोक्तस्थले व्यभिचारः । मया निरूपके विशेषणत्वं विवक्षितम् । दुःखादेश्च न विशेषणत्वम् । भेदे च प्रतियोगी विशेषणम् । अतो वैषम्यमित्यत आह– तत्रेति ।। ननु लोके सर्वत्र कार्यान्वय एव दृष्टोऽतः कार्यानन्वयित्वं कथमित्यत आह– लोक इति ।। ननु व्याप्तिग्रहे लौकिक एव न्यायोऽनुश्रियते । न व्यभिचार इत्यत आह– न चेति ।। विनिगमकाभावादिति भावः ।। अज्ञानादेरिति ।। यदि करणस्य कार्यान्वयदर्शनात् प्रतियोगि-नोऽपि धर्मिस्वरूपत्वमापाद्यते तर्हीत्यर्थः ।। तर्हीति ।। यदि तत्रेष्टापत्तिस्तदा प्रकृतेऽपीति भावः ।। समं प्रकृतेऽपीति ।। ननु न वयं प्रतियोगितया निरूपकत्वमात्रेण वा घटस्य पटरूपता-मापादयामः किन्तु समानाधिकरणप्रतीति स्वरूपविषयप्रतियोगितया निरूपकत्वेनाभेदनिरूपक-प्रतियोगित्वात् । न चाज्ञाननिवृत्त्यादयः समानाधिकरणप्रतीति विषयाः । अन्यथा समानाधिकरण-बुद्धिविषयत्वं भेदत्वं न स्यात् । अतिप्रसङ्गादिति चेन्न । अनृतादेर्ब्रह्मात्मकतापत्तेः । तस्यापि ब्रह्मानृतं नेति समानाधिकरणविषयप्रतियोगित्वात् । किञ्चैवं समानाधिकरणप्रतीतिविषयत्व-मात्रेणैवोपपत्तौ निरूपकत्वस्य वैयर्थ्याच्च । अयमयञ्च परस्परसदृश इति सामानाधिकरण्य-प्रतीतिविषयनिरूपकत्वात् सादृश्यप्रतियोगिनोऽपि तदात्मकतापत्तेः । सुखस्यापि दुःखात्मकता-पत्तेश्चेति यत्किञ्चिदेतत् । उपसंहरति– तस्मादिति ।। उक्तमर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ।। नन्वेवं कुम्भादेस्तटस्थत्वे तदप्रतीतौ भेदधीर्न स्यादित्यत आह– तटस्थत्वेऽपीति ।। एवं वास्तव-पक्षमुक्त्वाऽभ्युच्चयपक्षमाह– यद्वा कार्यान्वायि विशेषणं तदन्वयि उपलक्षणमिति पक्षमाश्रित्य भेदप्रतियोगिन उपलक्षणत्वमुक्तम् । इदानीन्तु यस्मिन् ज्ञात एव यज्ज्ञानं तद्विशेषणमिति पक्षमाश्रित्याह– केचित्त्विति ।।
न्यायामृतप्रकाशः
तत्रेति । भेदस्य स्वरूपत्व इत्यर्थः ।। व्याप्तेरिति ।। यत्सापेक्षं तन्न निरपेक्षाभिन्नमिति व्याप्तेः स्वरीत्या पररीत्या चासम्मतेरित्यर्थः । तदेवोपपादयति– त्वन्मत इति ।। सापेक्षाया इति ।। अविद्यारूपप्रतियोगिसापेक्षाया इत्यर्थः । अविद्यानिवृत्तेर्निरपेक्षब्रह्मस्वरूपत्वादित्यन्वयः । अधिकरणाति-रिक्ताभावानङ्गीकारेण आत्मैवाज्ञानहानिरित्यङ्गीकारादिति भावः ।। जीवेति ।। धर्मिप्रतियोगिभावेन जीवब्रह्मसापेक्षस्याप्यैक्यस्य ब्रह्मस्वरूपत्वादित्यन्वयः ।। मतद्वयेऽपीति ।। आवयोर्मत इत्यर्थः ।। स्थिताविति ।। गोत्वादेः ससम्बन्धिपदार्थत्वाभावेन स्थितावेव व्यक्त्यपेक्षा, न प्रतीतावित्यर्थः । जातिमात्रस्य समस्तजातेरित्यर्थः । निरपेक्षव्यक्तिस्वरूपत्वादित्यर्थः ।। नीलतरत्वादीति ।। नीलरूपनिष्ठोत्कर्षरूपजातिविशेषस्य ‘नीलादिदं नीलतरम्’ इत्येवं प्रतीतौ अवध्यादि सापेक्षस्या-प्युत्कर्षरूपगुणगतजातिविशेषस्य व्यक्तिरूपत्वादित्यर्थः ।। अर्थेति ।। अर्थप्रकाशरूपज्ञान-स्यार्थसापेक्षस्य निरपेक्षब्रह्मस्वरूपत्वात् । ब्रह्मणि विद्यमानस्य ब्रह्माभेदस्य ब्रह्मस्वरूपत्वात्, अस्तित्वस्य च ब्रह्मस्वरूपत्वादित्यन्वयः । अस्त्वेवं व्यभिचारेण व्याप्त्यभावः, ततः किमित्यत आह– व्याप्तीति ।।
ननु जीवब्रह्मैक्ये न व्यभिचारः । सापेक्षस्य तस्य ब्रह्मस्वरूपत्वानङ्गीकारादित्यत आह– ऐक्यस्येति ।। स्वरूपातिरिक्तमैक्यं सत्यं मिथ्या वा । नाद्य इत्याह– सत्व इति ।। द्वितीये त्वाह– मिथ्यात्वे चेति ।। दूषणान्तरमाह– भेदस्येति ।। नन्वैक्यस्य मिथ्यात्वे भेदस्य सत्यत्वं कुत इत्यतस्तत्र व्याप्तिमुपपादयति– यत्रेत्यादिना ।। यत्र शुक्तौ यद्रूप्यत्वमध्यस्तं तत्र शुक्तौ तद्विरोधि अरूप्यत्वं तज्ज्ञानाबाध्यं शुक्तिज्ञानाबाध्यं दृष्टम्, एवं ब्रह्मण्यप्यैक्यम् अध्यस्तं तत्र ब्रह्मणि तद्विरोधिभेदो ब्रह्मज्ञानाबाध्य इत्यर्थः । व्याप्त्यन्तरमाह– यत्रेति ।। यदैक्यमिति ।। येनैक्यमित्यर्थः । तद्भेदः तेन भेदः ।। यथेति ।। यत्र चूते पनसैक्यम् अध्यस्तं तत्र चूते तेन पनसेन भेदश्चूत-ज्ञानाबाध्यो दृष्टः, एवं ब्रह्मणि जीवेनैक्यम् अध्यस्तमिति तेन जीवेन भेदो ब्रह्मज्ञानाबाध्य इत्यर्थः । व्याप्त्यन्तरमाह– यत्रेति ।। एवञ्चैक्यमध्यस्तमिति तद्विरोधी भेदस्तात्विक इत्यर्थः । नन्वैक्ये सापेक्षत्वस्यैवाभावान्न व्यभिचार इति चेत्तत्राह– ऐक्यस्येति ।। एकवाक्यत्वेति ।। ऐक्यापेक्षित-जीवब्रह्मस्वरूपप्रतिपादकत्वेन तदेकवाक्यत्वं वाच्यम् । ऐक्यस्य निरपेक्षत्वे तन्न स्यादित्यर्थः । ऐक्यं भेदनिषेधरूपम् ।। सापेक्षवदिति ।। वास्तवं सापेक्षत्वं नास्तीत्यर्थः ।
ऐक्यस्यैव सापेक्षत्वात्तन्निषेधरूपो भेद एव सापेक्ष इवोच्यत इति वैपरीत्यमेवास्त्वित्याह– घट इति ।। भेदस्य कथमैक्यनिषेधरूपत्वमिति चेदुच्यते, ऐक्यं तादात्म्यं, तन्निषेधो हि भेदः । तत्र तादात्म्यं नाम तन्निष्ठासाधारणधर्मवत्त्वमेव वा अभेदो वा । आद्ये तन्निष्ठेत्यादितच्छब्दोक्तपदार्थसापेक्षं यत् तन्निष्ठासाधारणधर्मवत्त्वरूपं तादात्म्यं तन्निषेधरूपत्वाद्भेदः सापेक्ष इवेत्यर्थः । तादात्म्यस्या-भेदरूपत्वे त्वाह– ऐक्य इति ।। तादात्म्यस्यैक्येऽभेदरूपत्वे । अभेदरूपैक्यमेव भेदसापेक्षमिति न तस्य निरपेक्षब्रह्मरूपत्वमिति भावः । ननु जीवब्रह्मणोस्तदैक्ये च न निरपेक्षत्वसापेक्षत्वे येन व्यभिचारः किन्तु तत्प्रतीत्योरेवेत्याशङ्कते– अथेति ।। तयोरेव प्रतीत्योरेव ।। न त्विति ।। तथा च सापेक्ष निरपेक्षयोरैक्यायोगाज्जीवब्रह्मणोरैक्यस्य भेदः स्यादिति वक्तुं न शक्यत इति भावः । ननु सापेक्षनिरपेक्षप्रतीतिविषयत्वादेव विषयस्यापि भेदोऽस्त्विति चेन्न । व्यभिचारादित्याह– एकस्या-मेवेति ।। संस्कारसापेक्षस्मृतिविषयत्वस्य तन्निरपेक्षानुभव विषयत्वस्य चेत्यर्थः ।। सममिति ।। प्रकृतेऽपि घटादिरूपधर्मिभेदप्रतीत्योरेव सापेक्षत्वनिरपेक्षत्वे इति तयोरेव भेदो न तु तद्विषययोर्घट-भेदयोरित्यर्थः ।। अज्ञानेति ।। प्रतीतौ प्रतियोगिसापेक्षाज्ञानहानिवद्, ब्रह्मरूपधीवत् निरपेक्ष ब्रह्मस्वरूपधीवत्, प्रतीतौ निरपेक्षब्रह्मस्वरूपधीवदिति यावत् । अभेदवत् प्रतीतौ सापेक्षाभेद-स्वरूपवद्, भेदस्य स्वरूपत्वेऽपीत्यन्वयः ।
ननु जीवब्रह्मैक्ययोः सापेक्षत्वादेरवच्छेदभेदेनोपपत्तेरैक्यं युक्तमिति चेत्समं घटभेदयोरपीत्याह– अथेति ।। स्वरूपेण ब्रह्मत्वेन । स्वरूपेण घटत्वेन । युक्तं चैतत् । केनचिद्रूपेण निरपेक्षस्यापि केनचिद्रूपेण सापेक्षत्वं दृष्टत्वादित्याह– प्रमेयत्वादिनेति ।। अभावादेः प्रमेयत्वेन प्रतीतौ प्रतियोग्यादिसापेक्षत्वाभावेऽपि अभावत्वादिना प्रतीतौ तत्सापेक्षत्वादित्यर्थः ।। स्वरूपेणेति ।। दण्डत्वादिना निरपेक्षस्यापि दण्डादेः कारणत्वेन प्रतीतौ निरूपक सापेक्षत्वाद् ‘अस्येदं कारणम्’ इति हि प्रतीतिः । तथा ब्रह्मत्वेन विषयनिरपेक्षस्यापि ब्रह्मणो ज्ञानरूपत्वेन प्रतीतौ विषय-सापेक्षत्वादित्यर्थः । नन्वेवं सर्वस्यापि पदार्थस्य केनचिद्रूपेण प्रतियोग्यादिसापेक्षत्वनिरपेक्षत्वादेः सम्भवेन इदं सप्रतियोगिकमिदं निष्प्रतियोगिकमिति व्यवस्था न स्यादित्यत आह– सप्रतियोगिकेति ।। यत् अभावादिकम् । असाधारण्येन इत्यस्य विवरणम् स्ववाचकेत्यादि । अभाववाचकं यत्पदं तस्य यत्प्रवृत्तिनिमित्तमभावत्वं तदवच्छेदेन प्रतीतावित्यर्थः ।। अन्यत्त्विति ।। घटादिकं घटादिवाचकपदप्रवृत्तिनिमित्तभूतघटत्वाद्यवच्छेदेन प्रतीतौ प्रतियोग्यादिनिरपेक्षत्वान्निष्प्रतियोगिकमित्यर्थः ।
ननु तथापि ऐक्यब्रह्मणोरेकत्वेऽपि ब्रह्मशब्दोल्लेखे धर्म्यादिनिरपेक्षत्वेऽपि अभेदशब्दोल्लेखे सापेक्षत्व-मिति व्यवस्थासम्भवेन न व्यभिचार इत्याशङ्कते– यदि चेति ।। शब्दोल्लेखभेदेन निरपेक्षत्वादिकं कुत्र दृष्टमित्यत आह– लघुत्वेति ।। लघुत्वम् अगुरुत्वम् । अगुरुत्वशब्देन प्रतीतौ प्रतियोगिभूत-गुरुत्वादिसापेक्षत्वमस्तीत्यर्थः ।। एकस्यैवेति ।। गच्छति चलतीत्यत्र गमनक्रियैकैव प्रतीयते तत्रैकस्यैव गमनरूपार्थस्य सकर्मकगच्छतिशब्दोल्लेखेन कर्मसापेक्षत्वम्, अकर्मकचलतिशब्दोल्लेखेन कर्मनिरपेक्षत्वम्। यथा वा करोतिप्रयतत्योरेकार्थत्वमेव । प्रयत्नस्यैव समस्ताख्यातार्थत्वात् । एवं चैकस्यैव प्रयत्नस्य सकर्मकाकर्मककरोतिप्रयततिशब्दोल्लेखविषयत्वमस्ति । पुनः सापेक्षत्वादि व्यवस्थामाशङ्क्य प्रकृतेऽपि साम्यमाह– यदि चेति ।। तर्हीति ।। भेदत्वस्यान्योन्याभावत्वरूपत्व इत्यर्थः ।। अस्त्विति ।। तथा चान्योन्याभावरूपभेदस्य न धर्मिस्वरूपत्वम् । भावाभावयोरैक्यायोगादिति भावः ।। स्वरूप-त्वोक्तेरिति ।। अन्योन्याभावरूपभेदाख्यविशेषस्यैव धर्मिस्वरूपत्वोक्तेरित्यर्थः । भावाभावयोरैक्यायोग इति शङ्कापरिहारस्तु–
‘अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।
नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ।।
सर्वे भावा अभावाश्च पदार्था एव सर्वदा ।
तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।।
सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः’ ।। इत्युनव्याख्यानोक्तरीत्या द्रष्टव्यः । स्वयं प्रतिबन्द्या समाधत्ते– अविद्येति ।। अविद्यानिवृत्त्यद्वैतयोः अभावरूपयोरित्यर्थः । ब्रह्मैक्यं भावरूपब्रह्मैक्यम् । स्वाभावेन स्वप्रतियोगिकात्यन्ताभा(वेन)वत्वेन ।। अन्याभावेनेति ।। अन्यप्रतियोगिकाभावेनेत्यर्थः । तथा चाविद्यानिवृत्त्यद्वैत प्रतियोगिकाभावत्वेन स्वाभावत्वाभावान्न विरोधोऽतस्तयोर्बह्मैक्यं युक्तमिति भावः ।। सममिति ।। अत्रापि घटः स्वाभावेनाविरुद्धो न त्वन्योन्याभावेन । तादात्म्यरूपान्य-प्रतियोगिकेनान्योन्याभावेनातस्तयोरैक्यं युक्तमित्यर्थः । ननु यथाकथञ्चिद्भावाभावरूपत्वे तयोरैक्यं विरुद्धमिति तत्राह– अभावेति ।। लोके भावस्य स्वाभावाभावरूपत्वेन भावाभावयोरैक्यं दृष्टं तदपि न स्यात् । अतः भावः स्वाभावेनैव विरुद्धो न त्वन्याभावेनेत्येव वक्तव्यम् । तत्प्रकृतेऽपि सममित्यर्थः ।
ननु अविद्यानिवृत्तेः कथं ब्रह्मैक्यमित्युक्तमयुक्तम् । प्राभाकररीत्याऽधिकरणातिरिक्ताभावानङ्गीकारे-णाऽधिकरण स्यैवाभावव्यवहारालम्बनत्वात् ब्रह्मरूपाधिकरणस्य व्यतिरिक्तोऽविद्यानिवृत्तिरूपः पदार्थ एव नास्तीति चेत् । तर्हि अधिकरणीभूतघटातिरिक्तोऽन्योन्याभाव एव नास्तीति सममित्याह– यदि चेति ।। तद्विरोधीति ।। द्वैतविरोधीत्यर्थः । यथा हि अधर्मो धर्मविरोधी भावरूपः एवमित्यर्थः । ननु द्वैतविरोधिभावरूपभेदत्वं नाम किमित्यतस्तन्निर्वचन प्रकारमन्यापदेशेन दर्शयति– केचित्त्विति ।। तदिति ।। घटे पटभेदत्वं नाम पटतादात्म्यायोग्यत्वमित्यर्थः । अस्याभावरूपत्वाद्भावरूप-भेदत्वायोगादाह– तदैक्येति ।। अत्र ‘तदैक्यधीव्यवहारविरोधित्वम्’ इत्येव स्वरसः पाठः न तु ‘तदैक्यप्रमित्यविषयत्वम्’ इति । तथात्वे पुनरभावरूपत्वापत्तेरिति ध्येयम् । पटैक्यधी-व्यवहारविरोधित्वमेव घटे पटभेदत्वमित्यर्थः ।। यत्रेति ।। यत्र घटे पटभेददर्शनं पटतादात्म्याध्यास-विरोधि तत्र घटे तत्त्वं तत्तादात्म्याध्यासविरोधित्वमेव पटभेदत्वमित्यर्थः । पुनः स्वरूपभेदत्व-मन्यापदेशेन स्वयमेव दर्शयति– इतरे त्विति ।। ‘अनाधारत्वरूपं वा स्वरूपभेदत्वम्’ इत्यन्वयः । अत्र यत्किञ्चिच्छब्दद्वयं व्यतिरेकिपरम् । यत्किञ्चित्पदद्वयाभावे प्रमेयत्वादिकेवलान्वयि धर्मप्राप्त्या तदनाधाराप्रसिद्धिरित्यवगन्तव्यम् ।
अयमर्थः– स्वशब्देन घटः तद्वृत्तिर्यत्कञ्चिद्धर्मो घटत्वं तदनाधारः पटः तन्निष्ठो यत्किञ्चिद्धर्मः पटत्वं तदनाधारस्वरूपत्वमेव घटे पटभेदत्वम् । तथा च पटत्वानाधारत्वं पटभेद इत्युक्तं भवति । तथा च स्वशब्देन घटस्तदवृत्तिधर्मः पटत्वं तदाधारः पटः तदनिष्ठो धर्मो घटत्वं तदाधाररूपत्वमेव घटे पटभेदत्वम् । तथा च घटत्वमेव स्वरूपभेदत्वमित्युक्तं भवति । अत्राद्यपक्षे भावरूपत्वालाभा-त्स्वावृत्तीति द्वितीयनिर्वचनम् । नन्वनाधारत्वं नाम आधारान्यत्वम् । अन्यत्वं च भेद एवेति भेदज्ञाने तद्धटितलक्षणज्ञानं तज्ज्ञाने च भेदज्ञानमित्यन्योन्याश्रय इत्यत आह– अनाधारत्वं चेति ।। स्यादिति ।। यन्निरूप्यस्य यद्भवति तन्निरूपकस्यापि तद्भवतीति व्याप्तेरित्याशयः । एतेनेत्युक्तमेव विशदयति– व्याप्तेरिति ।। दुःखनिवृत्तेः पुमर्थत्वेऽपि दुःखे पुमर्थत्वस्यादर्शनात् । अनुमानादौ व्यभिचारादिदोषाभावस्य साध्यादिसाधकत्वप्रयोजकत्वेऽपि दोषेऽपि साधकत्वप्रयोजकत्वस्यादर्शनात् । अनृतव्यावृत्तेर्ब्रह्म स्वरूपत्वेऽपि अनृते च ब्रह्मस्वरूपत्वस्यादर्शनात्, आत्मैवाज्ञानहानिरित्युक्तत्वेना-ज्ञाननिवृत्तेर्ब्रह्मस्वरूपत्वेऽपि अज्ञाने ब्रह्मस्वरूपत्वस्यादर्शनात् । अज्ञानादिप्रकाशरूपज्ञानस्य ब्रह्म-स्वरूपत्वेऽपि अज्ञाने ब्रह्मस्वरूपत्वस्यादर्शनात् । अज्ञाननिवृत्तेर्मोक्षत्वेऽपि अज्ञाने मोक्षत्वस्य चादर्शनाद्व्यभिचार इति विवेको द्रष्टव्यः ।
कार्यानन्वयित्वेनेति ।। मोक्षत्वाद्यनन्वयित्वेनेत्यर्थः ।। सममिति ।। अत्रापि प्रतियोगिनो वस्तुस्वरूप त्वानन्वयित्वेन भेदं प्रत्युपलक्षणत्वेन निरूपकमात्रत्वमनेन तु कार्यान्वयित्वेन विशेषणत्व-मिति सममित्यर्थः । ननु ‘लम्बकर्णमानय’ इत्यादौ निरूपककर्णादेः कार्यान्वयो दृष्ट इति चेत्, ‘चित्रगुमानय’ इत्यादौ तदभावोऽपि किं न दृष्ट इत्याह– लोक इति ।। वैपरीत्येति ।। ‘लम्बकर्णमानय’ इत्यादौ कर्णस्य कार्यान्वयदर्शनेन ‘चित्रगुमानय’ इत्यादावपि कार्यान्वयापादनेन पक्षतुल्यत्वान्न व्यभिचार इत्युच्यते चेत्तर्हि ‘चित्रगुमानय’ इत्यादौ गवादेः कार्यान्वयादर्शनेन ‘लम्बकर्ण-मानय’ इत्यादावपि कर्णादेः कार्यान्वयो न स्यादित्यापादनसम्भवेन व्याप्तिग्रहणस्थलाभावाद्व्याप्तिग्रहो न स्यादित्यर्थः । कर्णादेः कार्यान्वयदर्शनेन गवादेरपि तदापादने कर्णदृष्टान्तेनैवाज्ञाननिवृत्ते-र्ब्रह्मस्वरूपत्वेनाज्ञानस्यापि ब्रह्मस्वरूपत्वापत्तिरित्याह– अज्ञानादेरिति ।।
ननु प्रतियोगिनो घटादेर्भेदं प्रत्युपलक्षणत्वमयुक्तं यथा गृहं प्रत्युपलक्षणस्य काकस्याज्ञानेपि गृहज्ञानं भवति एवमुपलक्षणस्य प्रतियोगिभूतघटादेर्ज्ञानाभावेऽपि कदाचिद्भेदज्ञानप्रसङ्गादित्याशङ्कते– ननु प्रतियोगिन इत्यादिना ।। तथात्वे उपलक्षणाज्ञानाद्यज्ञानेऽपि उपलक्ष्याज्ञाननिवृत्त्यादिज्ञान-प्रसङ्गसाम्यमित्याह– तर्ह्यज्ञानाद्यज्ञानेऽपीति ।। अज्ञानादेरपि त्वयोपलक्षणत्वाङ्गीकारादिति भावः । यदि चाज्ञानाद्युपलक्षणज्ञानम् उपलक्ष्याज्ञाननिवृत्त्यादिज्ञानं प्रति कारणम् । तदभावे काकज्ञानाभावे, गृहस्येव उपलक्ष्याज्ञाननिवृत्त्यादेर्ज्ञानं न भवतीत्युच्यते । (ननु अज्ञानाद्यज्ञानेपि कदाचित्तन्निवृत्त्यादि-ज्ञानं न भवति । तथाहि । अभावं सादृश्यं च प्रति उपलक्षणं यत्प्रतियोग्यादि तस्य नियमेनोप-लक्ष्याभाव सादृश्यमानहेतुत्वं दृष्टम् । ननु गृहादिवत्तज्ज्ञानाभावेऽप्यभावादिज्ञानम् । तद्वदिदमुपलक्षणम् । अतोऽज्ञानाद्यज्ञाने तन्निवृत्तिज्ञानं न भविष्यतीति चेत् ।) तर्हि भेदप्रतियोग्यादिरपि अभावसादृश्यादि-प्रतियोगिवन्नियमेनोपलक्ष्यज्ञापक इति न गृहादिवत्तज्ज्ञानाभावेऽपि भेदज्ञानं भविष्यतीत्याह– अथेत्यादिना ।। दुःखमिव दुःखं यथा नान्तर्गतम् अज्ञानवत् अज्ञानं यथा नान्तर्गतं मोहवन् मोहोऽज्ञानं यथाऽनन्तर्गतम् । एवं कुम्भादिकं प्रतियोगिभूतं पटे तत्स्वरूपे नान्तर्गतमित्यर्थः ।
अथोपलक्षणस्यापीत्युक्तदूषणं सङ्गृह्णाति– तटस्थत्वेऽपीति ।। अभावसादृश्यादिवदुप-लक्षणस्याप्यज्ञानादेर प्रतीतौ नियमेन तन्निवृत्त्याद्यप्रतीतिर्यथा एवं तटस्थत्वेनोपलक्षणत्वे समानेऽपि उपलक्षणभूतकुम्भादेरप्रतीतौ नियमेन भेदधीर्न भवत्येवेत्यर्थः । ननु कार्यान्वय्येव कर्णादिविशेषणं दृष्टं प्रतियोगिनस्तु धर्मिस्वरूपान्वयाभावात्कथं भेदं प्रति विशेषणत्वमिति चेन्न । शब्दो नित्य इत्यादौ विधेयभूतानित्यत्वानन्वयेऽपि शब्दत्वादेर्विशेषणत्वं दर्शनादेवमिहाप्युपपत्ते रित्यन्यापदेशेनाह– केचित्त्विति ।।
न्यायकल्पलता
स्वपक्षं समादधति– सम्भवति चेति ।। अविद्यानिवृत्तेरिति ।। नन्वविद्यानिवृत्तिब्रह्मैक्ययोः प्रतीतौ सापेक्षत्वस्याविद्यकतया तात्विकनिरपेक्षब्रह्मस्वरूपाविरोधित्वमिति । मैवम् । प्रतीतौ सापेक्षस्य भेदस्य तात्विकनरिपेक्षघटस्वरूपाविरोधित्वस्य सुवचत्वात् । ब्रह्मस्वरूपं तात्विकं घटस्वरूपं त्वतात्विकमित्यस्यासिद्धेः । भेदस्य सत्यता स्यादित्युक्तमुपपादयति– यत्र यदध्यस्तमित्यादिना ।। ब्रह्माधिकरणको भेदो ब्रह्मज्ञानाबाध्यः । स्वविरोध्यध्यासाधिष्ठानाधिकरणकत्वात् । सामान्यव्याप्तौ च शुक्तावरूप्यत्वं यथा ।। ऐक्यमिति ।। ऐक्याध्यासाधिष्ठानाश्रितत्वं हेतुः । तात्विकं वेति साध्यनिर्देशः । स्वविरोधीत्याद्युक्तौ हेतुः ।। ऐक्यपदेेति ।। नन्वैक्यस्य स्वप्रकाशब्रह्माभिन्नतया निरपेक्षत्वेऽपि तत्तदर्थभेदभ्रमनिवर्तकवृत्तिजनने तत्तत्पदार्थसापेक्षतया स्वरूपपरवाक्यानामेकवाक्य-ताऽस्ति । मैवम् । तत्तत्पदप्रतिपाद्यतत्तदर्थप्रतियोगिकैक्यविषयकत्वं विना वृत्तेर्भेदभ्रमनिवर्तकत्वानुपपत्तेः । ऐक्यस्य निरपेक्षत्वे वृत्तेस्तादृशैक्यविषयकत्वायोगात् ।। तादात्म्यनिषेधत्वेनेति ।। तन्निष्ठासाधारण-धर्मवत्वादेस्तादात्म्यस्यैक्यरूपत्वात् । यदि चाभेदस्तादात्म्यं तदैक्यमेव भेदा(भेदो)पेक्षमित्याह– ऐक्य इति ।। सापेक्षत्वं हि युज्यत इति ।।
यत्तु मम मते काल्पनिकं सापेक्षत्वं, तव तु सापेक्षत्वनिरपेक्षत्वे द्वे अपि तात्विके इति दृष्टान्त-वैषम्यम् । तन्न । भेदस्यापि ब्रह्मस्वरूपत्वेन तत्र सापेक्षत्वं काल्पनिकमित्यपि वक्तुं शक्यत्वात् । न च भेदस्य ब्रह्मस्वरूपत्वे मानाभावः । अभेदेऽपि साम्यात् ।। प्रमेयत्वदिनेति ।। ननु भेदस्य निरपेक्षत्वे परान्प्रतीव स्वमपि प्रत्यवशिष्टतया स्वस्मिन्भेदत्वापत्तिः । मैवम् । अभेदस्यापि तथात्वे स्वं प्रतीवान्यान्प्रत्यप्यभेदत्वापत्तेः । न चेष्टापत्तिः । घटत्वादिना भेदः कल्पितः । स्वरूपतस्त्वभेद एवेति युक्तम् । भेदेऽपि साम्यात् । घटभेदत्वेन घटावृत्तित्वेऽपि भेदत्वेन भेदस्य घटेऽपि वृत्तेः । ननु निरपेक्षघटस्वरूपस्य भेदस्य प्रतीत्योरपि कथं प्रतियोगिप्रतीतिसापेक्षत्वानपेक्षत्वादिकमत आह– शब्दस्वभावप्रयुक्तयोरिति ।। घट(ः)कर्मत्वम् आनयनम् (कृतिः)इत्यादिशब्दाद् घटमानयेति शब्दाच्च जन्ययोः प्रतीत्योरन्वयबोधाजनकत्वतज्जनकत्वयोर्दर्शनादिहापि तदुपपत्तेः । एतच्चोपपादितं दृग्दृश्यसम्बन्धानुपपत्तिभङ्गे । अन्यथैक्येऽपि समम् । तदेतदुक्तं ब्रह्मशब्दोल्लेखेनेत्यादिना ।।
ननु गच्छतिचलत्योरर्थभेद एव । उत्तरसंयोगावच्छिन्नस्पन्दो गम्यर्थः । पूर्वविभागफलकः स्पन्दश्चलत्यर्थ इति । मैवम् । उभयत्रापि पूर्वदेशविभागस्योत्तरदेशसंयोगस्य च प्रतीतेः सत्त्वेन गमिचलत्योरर्थाभेदात् । धात्वर्थः फलमिति मण्डनाचार्यमते तु संयोगस्योभयफलत्वेन तयोरैकार्थ्यात् । न चानुकूलयत्नः करोत्यर्थः यत्नमात्रं यत्यर्थ इति देश्यम् । आख्यातसमानार्थतया यत्नमात्रस्य करोत्यर्थत्वात् । एतदप्युपपादितं प्रतिकर्मव्यवस्थाभङ्गे । नियमानङ्गीकाराच्च क्वचिद्धात्वर्थभेदेऽपि ‘तपति ऋषिः, तपति पृथिवीं सविता’ इत्याद्यकर्मकसकर्मकप्रतीतिरप्युपपद्यते । भेदस्य धर्मिस्वरूपत्वे तत्वविवेकवाक्यं प्रमाणयति– उक्तं हीति ।। नान्योन्याभावतेति ।। ननु नान्योन्याभावः पृथगिति वक्तव्यम् । सत्यम् । नायं भावशब्दो भवनं भावः इति भावसाधनः किन्तु भवतीति भावः इति । यद्यपि‘अकर्तरि च कारके संज्ञायाम्’ इति प्रतिषेधान्न कर्तरि घञ्, तथापि ‘श्रिणीभवोऽनुपसर्गः’ इत्यनेनैव भवतेः कर्तर्यपि घञ् भविष्यति । ‘उणादयो बहुलम्’ इति बहुलग्रहणात् । अकर्तरीति प्रतिषेधस्य ‘मिषत्यसौ मेषः’ इत्यादौ घञ् प्रतिषेधार्थत्वेन सावकाशत्वात् । ‘दारयन्तीति दाराः, हारयन्तीति हाराः, जारयन्तीति जाराः’ इति कर्तर्यपि घञो दर्शनाच्च । यद्वा ‘ज्वलितिकसन्तेभ्योऽणः’ इति णप्रकरणे ‘भवतेश्च’ इत्यनेन कर्तरि भवतेर्णविधानात् । भवतीति भावः भवनं, (न भावः अभावः) । तस्य भावोऽभावताऽभवनम् । एवं च (भवतेश्च)इत्यनेन कर्तृ(रि)अन्योन्यस्याभावताऽ-न्योन्याभावताऽन्योन्याभवनम् अन्योन्याभाव एव । स न पृथक् धर्मिभिन्नो नेत्यर्थः । तथा च तल्प्रत्ययोपपत्तिः ।
अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यमिति ।। ननु मम मते तत्राभवत्वस्य कल्पितत्वेन विरोधाभावः तव तु द्वयोरपि तात्विकत्वेन विरोधः इति । मैवम् । निर्विशेषब्रह्माभिन्नेऽविद्यानिवृत्त्यादौ भावत्वाभावत्वयोः कल्पितत्वेन तव विरोधस्य दुर्वारत्वात् । विरुद्धयोरुभयतात्विकत्ववदुभय-कल्पितत्वेऽपि विरोधात् ।। तदैक्यप्रमित्यविषयत्वमिति ।। न च प्रमितिदर्शनादिघटितत्वेऽ-चाक्षुषत्वाद्यापत्तिः । संस्कारोपनीतस्य साक्ष्युपनीतस्य वा भानात् ।। इतरे त्विति ।। न चात्यन्ताभावान्योन्याभावयोरैक्यापत्तिः । तन्मतेनेष्टत्वात् । ननु घटस्य पटप्रतियोगिकभेदस्वरूपत्वे पटस्वरूपत्वमपि स्यादित्याशङ्कां निरस्यति– एतेनेति ।। उक्तं हेतुं विशदयति– व्याप्तेरिति ।। ननु न घटस्वरूपभेदं प्रति पटस्य निरूपकत्वमात्रेण घटस्य पटरूपताऽऽपाद्यते किन्तु समानाधिकरण-प्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन । अज्ञाननिवृत्त्यादयस्तु न समानाधिकरण-प्रतीतिविषयाः । भेदस्तु ‘घटः पटो न’ इति समानाधिकरणप्रतीतिविषय इत्याशङ्कां तुच्छयति– अनृतेत्यादिना ।। ‘अनृतं न ब्रह्म, अज्ञानप्रकाशो ब्रह्म’ इत्यादि समानाधिकरणप्रतीतिविषयो यद् ब्रह्म तत्स्वरूपा याऽनृतव्यावृत्तिरज्ञानप्रकाशश्च तत्र प्रतियोगितया निरूपकस्यानृतस्याज्ञानस्य च ब्रह्मरूपतापत्तेरुक्ताशङ्कायास्तुच्छत्वात् । ‘अद्वितीयं ब्रह्म’ इत्यत्र द्वितीयस्य ‘अदुःखं ब्रह्म’ इत्यादौ दुःखादेर्ब्रह्मरूपतापाताच्चेत्यर्थः ।