विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवत्’
३. मिथ्यात्वे परोक्तानुमानानि
न्यायामृतम्
प्रमाणं १चात्रानुमानम्– २तथा हि (एतावत्पर्यन्तं मुद्रितासु मातृकासु ‘‘तथा हि’’ इति नास्ति । परं श्रीनिवासतीर्थीयव्याख्यानुसारेणावश्यकमिदम् ।) ‘विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवत्’– इत्यानन्दबोधोक्तेः । ‘अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, पटत्वादंशित्वात् पटान्तरवत्’– इति तत्त्वप्रदीपोक्तेः । यद्यपि विमतिरपि नियतविषयत्वायावच्छेदकान्तरसापेक्षा, तथापि सावयवत्वसाधितेन कार्यत्वेन पृथिव्याः सकर्तृकत्वसाधनमिव स्वनियामकनियतया लध्व्या विप्रतिपत्त्या पक्षतावच्छेदो न विरुद्धः ।
अद्वैतसिद्धिः
एवं विप्रतिपत्तौ प्राचां प्रयोगाः– विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवदिति । नावयवेष्वाग्रहः । अत्र स्वनियामकनियतया विप्रतिपत्त्या लघुभूतया पक्षतावच्छेदो न विरुद्धः । समयबन्धादिना व्यवधानात् । तस्या अनुमानकालासत्त्वेऽपि उपलक्षण-तया पक्षतावच्छेदकत्वम् ।
यद्वा विप्रतिपत्तिविषयतावच्छेदकमेव पक्षतावच्छेदकम् । प्राचां प्रयोगेष्वपि विमतमिति पदं विप्रतिपत्तिविषयतावच्छेदकावच्छिन्नाभिप्रायेणेत्यदोषः ।
न्यायामृततरङ्गिणी
एवं विप्रतिपत्तिवाक्यस्य प्रयोजनाभावेनानावश्यकत्वमभिधाय परपक्षमुत्थापयति – प्रमाणं चेति ।। ननु मिथ्यात्वेऽनुमानं प्रमाणमिति भवता कथमवगतमिति? अत आह– विमत-मित्यादि ।। इत्यानन्दबोधोक्तेर्हेतोरवगतमित्यर्थः । एवमग्रेऽपि । ननु विप्रतिपत्तौ धर्मितेवानु-मितौ पक्षताऽपि ‘ब्रह्मप्रमान्येने’त्यादिनैवावच्छिद्यताम्, अत एवाग्रे प्रपञ्चसत्यत्वानुमानेषु तस्यैव पक्षतावच्छेदकत्वमभिहितम् । न च ‘ब्रह्मप्रमान्येने’ त्यस्य नानापदार्थघटितत्वेन गुरुत्वात् लध्वी विमतिरेव पक्षतावच्छेदिकेति वाच्यम् । तस्या लघुत्वेऽपि तुच्छब्रह्मव्यावृत्तिवियदाद्यनुगति-रूपनियतविषयत्वायोक्तावच्छेदकसापेक्षत्वेनोक्तस्यैव पक्षतावच्छेदकत्वमुचितम्, न तु विमतेस्तद्-ग्रहाधीनग्रहाया इत्याशङ्क्य निराकरोति – यद्यपीति ।। सत्यं विमतिरनुगतावच्छेदक-सापेक्षेति । तथाप्यनुमाने लध्व्या विमत्यैव पक्षतावच्छेद उचितः । प्रमाणोपन्यासेन लघुभूतस्यै-वादरणीयत्वात् । सावयवत्वेन गुरुणा गृहीतस्य लघुनः कार्यत्वस्य हेतुत्ववदित्यर्थः । सत्यत्वानुमानेषु तस्य तत्त्वेनोपादानं तु शिष्यान् प्रति प्रयोगवैचित्र्योपपादनायेत्यदोषः । स्वनियामकेति ।। विप्रतिपत्त्यन्तर्गतेन ‘ब्रह्मप्रमे’ त्यादिना नियामकेनेत्यर्थः । विप्रति-पत्त्येति ।। विमत्येत्यर्थः ।
न्यायामृतकण्टकोद्धारः
विश्वमिथ्यात्वस्याप्रामाणिकत्वशङ्कापनोदाय प्रमाणमाह– प्रमाणं चेति ।। किं तदित्यत-स्तदाह– विमतमिति ।। इदमनुमानं नोक्तविप्रतिपत्त्यनुसारि तथात्वे हि विमतत्वस्य पक्षतावच्छेदकत्वोक्तेरग्रे मिथ्यात्वविकल्पोक्तेश्च विरुद्धत्वप्रसङ्गात्, विशिष्योक्तौ विकल्पा-सम्भवात् । किन्तु विमतं मिथ्या न वेति विप्रतिपत्तिमनुसृत्यैवेदम् । अत एव पूर्वोत्तरपक्षानु-मानप्रतिज्ञे सङ्कलय्य विप्रतिपत्तिरूह्येति प्रागभिहितम् । न चैवमुक्तविप्रतिपत्तिप्रदर्शनानर्थक्यम्; विमतिस्वरूपलाभायैव तदुत्कीर्तनादिति ध्येयम् । अयं पट इति ।। अत्र पटमात्रस्य पक्षत्वे पटान्तरस्यैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेनांशतः सिद्धसाधनवारणाय– अयमिति ।। अयमित्येवोक्तौ इदंशब्दस्य पुरोवर्तिवाचकतया एतत्तन्तुग्रहणे तेषां स्वनिष्ठात्यन्ताभाव-प्रतियोगित्वेन सिद्धसाधनवारणाय– पट इति ।। साध्य एतत्तन्तुपदम् एतत्पटोपादानपरम् । तेनैतत्पटोपादाननिष्ठात्यन्ताभावप्रतियोगित्वस्य साध्यत्वे स्वसमानाधिकरणात्यन्ताभाव-प्रतियोगित्वरूपमिथ्यात्वं सिद्धं भवति । अन्यत् सर्वं विप्रतिपत्तिस्थल एवोक्तमिति नेह तन्यते ।
ननु अत्र पक्षतावच्छेदकेन भवितव्यम् । न च विमतिरेव पक्षतावच्छेदिकेति वाच्यम्; ब्रह्मादीतरविशेष्यकत्वज्ञानात्तस्या अपि ब्रह्मादीतरविशेष्यकत्वज्ञानायावच्छेदकसापेक्षत्वादित्यत आह– यद्यपीति ।। तथा च विमतिरेवावच्छेदिकेति भावः । ननु विमतेः पक्षताच्छेदकत्वं वदताऽपि तन्नियामकीभूत ‘‘ब्रह्मप्रमात्येने’’त्युक्तस्य विमतिविषयतावच्छेदकत्वं वक्तव्यमेव । तथा चावश्यकस्यावच्छेदकान्तरनिरपेक्षस्य तस्यैव पक्षतावच्छेदकत्वोपपत्तौ विमतेः पक्षता-वच्छेदकत्वकथनमयुक्तमित्यत आह – लध्व्येति ।। अत्र लघुत्वं शब्दतो ज्ञातव्यम् । तत्रैव दृष्टान्तः – सावयवत्वेति ।। सावयवत्वस्य समवायिकारणादिगर्भत्वेन गुरुत्वात् कार्यत्वस्य तदगर्भत्वेन लघुत्वादिति भावः ।
न्यायामृतप्रकाशः
एवं विप्रतिपत्तिवाक्यस्याफलत्वेनानावश्यकत्वमुपपाद्य परपक्षे प्रमाणमुत्थापयति ।। प्रमाणं चेति ।। प्रकृतत्वानुसन्धानार्थश्चशब्दः । तथा हीत्यत्र हीत्यनेनात्र विश्वमिथ्यात्वे यत्प्रतिज्ञातं प्रमाणं तच्चानुमानरूपमित्यर्थः । अनुमानं प्रमाणमिति कुतोऽवगतमित्यत आह विमतमित्यादि ।। आनन्द-बोधोक्तेर्हेतोरत्रानुमानं प्रमाणमित्येतदवगम्यत इति योज्यम् । एवं तत्वप्रदीपोक्तेरित्येतदपि व्याख्येयम् । एतत्तन्तुनिष्ठेति ।। एतत्पटस्येतरत्राभावः सिद्ध एवास्ति एतत्तंतुष्वप्यभावसाधने मिथ्यात्वमेव सिद्ध्यतीति भावः ।
ननु विमतमित्यत्र पक्षतावच्छेदिका विमतिर्नाम विरुद्धार्थप्रतिपादकं वाक्यद्वयं संशयरूपं ज्ञानं वेति वक्तव्यम् । तयोश्च कथं प्रपञ्चनिष्ठपक्षतावच्छेदकत्वम् । वाक्यस्य शब्दरूपत्वेन गगनमात्र-निष्ठतया पक्षतान्यूनवृत्तित्वात् । संशयरूपज्ञानस्य च पक्षताशून्यात्मनिष्ठत्वेनाधिकवृत्तित्वादिति चेत्सत्यम् । वाक्यद्वयस्यापि प्रपञ्चे प्रतिपाद्यप्रतिपादकभावसम्बन्धेन संशयरूपज्ञानस्य च विषय-विषयिभावसम्बन्धेन सत्त्वसम्भवेन दोषाभावात् ।
नन्वत्र न विमतिः पक्षतावच्छेदिका । तस्याः ब्रह्मतुच्छविषयकत्वरूपाति प्रसङ्गपरिहाराया-वच्छेदकसापेक्षत्वेन यदवच्छेदकमुच्यते ब्रह्मप्रमान्येनेत्यादिकं तस्यैव पक्षतावच्छेदकत्वमस्तु किं तज्ज्ञानाधीनज्ञानायाः विमतेः पक्षतावच्छेदकत्वोक्त्या व्यर्थत्वादित्याशङ्क्य शरीरलाघवादियमेव पक्षतावच्छेदिकेत्याह– यद्यपीत्यादिना ।। नियतविषयत्वाय ब्रह्मतुच्छाविशेष्यका वियदादिप्रपञ्चमात्र-विशेष्यका विमतिरिति नियतविषयत्वायेत्यर्थः ।। अवच्छेदकेति ।। ब्रह्मप्रमान्येनेत्याद्यवच्छेदकेत्यर्थः । तथा च तस्यैव पक्षतावच्छेदकत्वमस्त्विति भावः । तथापि स्वनियामकनियतया विप्रतिपत्त्या विमत्या पक्षतावच्छेदो न विरुद्ध इत्यन्वयः ।। स्वनियामकेति ।। स्वस्याः विमतेः नियतविषयत्वे नियामकं यद्ब्रह्मप्रमान्येनेत्यादिकं तन्नियतया ब्रह्मतुच्छाविषयकत्वेन नियतविषययेत्यर्थः । तत्र हेतुः लध्व्येति ।। स्वनियामकनियतस्यापि प्रयोगो दृष्ट इत्याशयेनोक्तम् । सावयवत्वेति ।। व्याप्यव्याप्यस्य सुतरां व्याप्यत्वात्कार्यत्वव्याप्येन सावयवत्वेनैव सकर्तृकत्वसाधनोपपत्तौ कार्यत्वरूपहेतूक्तिर्व्यर्थेत्या-शङ्कायां गौरवात्सावयत्वमप्यप्रयुज्य लाघवात्तत्साधितं कार्यत्वमेव प्रयुज्यते तद्वदित्यर्थः ।
न्यायकल्पलता
एवं व्युदसनीयसंशयसम्पत्तौ सिषाधयिषुणा विवर्तमतावलम्बिना वादिना विश्वमिथ्यात्वे प्रमाण-मुपन्यसनीयम् । तत्र न तावत् प्रत्यक्षम् । विप्रतिपन्नं प्रत्युपन्यासानर्हत्वात् । असत्वाच्च । प्रामाण्य-स्वतस्त्वेन तत्सत्त्वस्यैव सिद्धेः । नापि नेह नानास्ति किञ्चनेत्यागमः । वक्ष्यमाणोपपत्तिविरुद्धत्वात् । अभिमान्यधिकरणन्यायेन प्रमाणावधृतव्याप्तिकोपपत्तिप्राबल्यस्य सिद्धत्वात् । तस्मादुपन्यसिष्यमाणा-गमानुग्राहकोपपत्तिं प्रस्तावयति– प्रमाणन्त्वत्रेति । ननु मिथ्यात्वेऽनुमानं प्रमाणमिति भवता कथ-मवगतमित्यत आह– विमतमिति । इत्यानन्दबोधोक्तेर्हेतोरवगतमित्यर्थः । एवमग्रेऽपि ज्ञेयम् । सर्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधः, शुक्तिरजतादौ सिद्धार्थता च स्यादिति विमतमित्युक्तम् । विमते-रनेकविधत्वेऽपि साध्यविशेषोपादानात्तद्विशेषसिद्धिः । तथा च सत्यत्वमिथ्यात्वाभ्यां वादिप्रतिवादि-विमतिविषयोऽसत्प्रातिभासिकब्रह्मान्यदित्युक्तं भवति । तर्हि तदेव वक्तव्यम् । तथा कृते गौरवं स्यादिति चेन्न । विमतेरनेकविधत्वेन धर्मिविशेषनिश्चये साध्यविशेषोपादानादिना तन्निश्चयानुसरणे गौरवसाम्यात् । तथापि विनिगमनं कुत इति चेत् । अर्थप्रतिपत्तिगौरवाच्छब्दगौरवस्य ज्यायस्त्वात् । सत्यम् । तथाप्यप्रसिद्धविशेष्यत्वाप्रसिद्धविशेषणत्वसिद्धार्थप्रमाणबाधानां प्रतिज्ञादोषाणामुद्धारोऽप्यनेन संक्षेपतः कृतः स्यादित्येवमर्थं विमतग्रहणम् । तथा हि । यदि विशेष्यं विश्वमप्रसिद्धं स्यात् तदा किमाश्रया विमतिः स्यात् । यदि विशेषणं मिथ्यात्वमप्रसिद्धं भवेत्तदा किमुल्लेखिनी विमतिर्भवेत् । यदि वा मिथ्यात्वं प्रपञ्चे सिद्धं बाधितं वा भवेत्तदाऽप्यन्यतरपक्षनिश्चयान्न विमतिः स्यात् । अस्ति चेयं, ततो नाप्रसिद्धविशेष्यत्वादीति । वक्ष्यमाणरीत्या पक्षतावच्छेदकलाघवार्थमपीत्येतदिति ज्ञेयम् ।। अयं पट इति । अत्र पट इत्येवोक्ते पटान्तरस्य एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेन सिद्धसाधनं स्यात्तदर्थ-मयमिति । साध्येऽप्येतदिति पदं सिद्धसाधनवारणाय ।
ननु यथा विप्रतिपत्तौ धर्मिता तुच्छप्रातिभासिकब्रह्मान्यत्वेनावच्छिद्यते । तथाऽनुमाने पक्षताऽपि तेनैवावच्छिद्यताम् । अत एव प्रपञ्चसत्यत्वानुमानेषु तस्यैव पक्षतावच्छेदकत्वमभिधास्यति । न चैतस्य नानापदार्थघटितत्वेन गुरुत्वात् लघुविमतिविषयत्वमेव पक्षतावच्छेदकमिति वाच्यम् । न तु विमति-विषयत्वस्य तद्गृहाधीनग्रहस्येत्याशङ्क्य निराकरोति– यद्यपीति । सत्यम् । विमतिविषयत्वमपि अनुगता-वच्छेदकापेक्षमिति तथापि अनुमाने लघुनो विमतिविषयत्वस्यैव पक्षतावच्छेदकत्वमुचितम् । प्रमाणोप-न्यासे लघुभूतस्यैवादरणीयत्वात्, गुरुणा सावयवत्वेन साधितस्य लघुनः कार्यत्वस्य हेतुत्ववदित्यर्थः । सत्यत्वानुमानेषु तस्य तत्वेनोपादानं तु शिष्यान् प्रति प्रयोगवैचित्र्योपपादनायेत्यदोषः । स्वनियामकेति । स्वपदं विमतिपरम् । तथा च स्वहेतुविप्रतिपत्तिधर्मितावच्छेदकेन ब्रह्मप्रमेत्यादिना नियामकेनेत्यर्थः ।। विप्रतिपत्त्येति । विमतिविषयत्वेनेत्यर्थः ।
न्यायामृतसौगन्ध्यम्
अत्र प्रयोगाः – विमतं मिथ्या दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवदिति चेत् । न । मिथ्यात्वाद्यनिरुक्तेः ।
न्यायामृतमाधुरी
दर्शितसंशयत्वघटकविशेष्यताविशेषणीभूतावच्छिन्नत्वकुक्षिनिवेशिततदन्यत्वान्ते स्वसामानाधि-करण्यं निवेश्य तद्वारणेऽपि भिन्नविषयकप्रत्यक्षादिप्रतिबन्धकतादृशानुमितिसामग्रीशरीरे परामर्शस्य पक्षतावच्छेदकशरीरविशिष्टप्रकारताविशेष्यतानां तादृशप्रत्यासत्त्या मिथो विशेष्यविशेषणभावे विनिगमनाविरहेण रूपषट्केन निवेशापत्या तादृशरूपषट्कस्यैव तादृशानुमितिसमानविषयकशाब्द-सामग्रीप्रतिबध्यतावच्छेदकतापत्त्या च तदनुमितिसमानविषयकप्रत्यक्षादिप्रतिबन्धकेच्छाघटितानुमिति-सामग्रीशरीरे परामर्शस्योक्तरूपैरिच्छायाश्च तादृशविशेष्यताकत्वावच्छिन्नावच्छेदकताकविशेष्यताकत्वेन तादृशकोटिद्वयप्रकारताकत्वावच्छिन्नावच्छेदकताकविशेष्यताकत्वेन चानुमितिमवगाहिन्यास्तेन रूपेण निवेशप्रसङ्गेन दर्शितानेकरूपोपरागेण परामर्शमवगाहमा(ना)नां तत्तद्धर्मिकाप्रामाण्यज्ञानानाम-भावकूटस्यैव परमर्शांशे विशेषणीयतापत्त्या च सिद्धिबाधयोस्तादृशानुमितिं प्रति तन्नियन्त्रितप्रतिबध्य-प्रतिबन्धकभावबाहुल्यस्य तदभावयोर्हेतुहेतुमद्भावबाहुल्यस्य च प्रसङ्गेन विप्रतिपत्तिविशेष्यतावच्छेदकी- भूतान्यत्वान्तघटितधर्मस्यैव पक्षतावच्छेदकतौचिती न तत्प्रतिपत्तिनिबन्धनप्रतिपत्तिकायाः विमते-रित्याशयेन शङ्कते– यद्यपीति । विमतिरित्यस्योपस्कृतेन पक्षतावच्छेदकेत्यनेनान्वयः । नियत-विषयत्वाय स्वनिरूपितविषयतायाः आत्मालीकविपर्यस्तव्यावर्तनाय । अवच्छेदकसापेक्षा तादृशा-न्यत्वान्त(प्रतिसन्धाननिबन्धन)प्रतिसन्धाना । तथा चान्यत्वान्तस्यैव तदवच्छेदकतेत्याशयः । कार्यत्वस्यासिद्धिशङ्कानिरसनद्वारा सावयवत्वप्रतिपत्त्यधीनप्रतिपत्तिकत्वेऽपि यथा सकर्तृकत्वानुमापकता न सावयवत्वस्य । कार्यं हि कर्तारमन्तरेणानुपपद्यमानं न सावयवमिति अप्रयोजकतायाः कथायां निग्रहस्य च प्रसङ्गात् । तद्वत्स्वनियामकनियतया स्वप्रतीत्यौपयिकप्रतीतिकाधीनप्रतीतिकया समनन्तर दर्शयिष्यमाणदिशा लघ्व्या तया पक्षतायाः अवच्छेदो व्यावर्तनमपक्षीकृताद्युक्तमित्यर्थः ।
ब्रह्मानन्दस्तु । स्वनियामकनियतयेति प्रतीकमुपादाय स्वस्याः विप्रतिपत्तेर्नियामकं प्रकृतानुमान-पक्षतावच्छेदकयोग्यतासम्पादकं यत् ब्रह्मज्ञानान्याबाध्यत्वादिविशिष्टविशेष्यकत्वं पूर्वोक्तं तेन नियतया विशेषितयेति व्याचक्रे । तच्चिन्त्यम् । नियामकनियतपदास्वारस्यात् । विमतेस्तदवच्छेदकतायां मिथ्यात्वावृत्तित्वविशिष्टप्रकारतायां तदभावावृत्तित्वविशिष्टप्रकारतायां तदन्यत्वान्तावृत्तित्वविशिष्टा-वच्छेदकतायां तादृशावच्छेदकत्वान्तानिरूपकत्वाभावविशिष्टविशेष्यतायां तादृशविशेष्यतानिरूपितत्वा-भावविशिष्टायां तदभावप्रकारतायां निरुक्ताभावविशिष्टायां मिथ्यात्वप्रकारतायां निरूपकताघटित-सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताकविधिप्रकारत्वाभावविशिष्टायां निषेधप्रकारतायां तादृश-निषेधप्रकारत्वाभावविशिष्टायां विधिप्रकारतायां मिथ्यात्वीयत्वाभावविशिष्टाभावादौ प्रमेयत्व-वैशिष्ट्यावगाहिप्रत्यक्षेषु दर्शितानुमितिसामग्य्राः प्रतिबन्धकत्वाकल्पनेन लाघवात् । अनुमिति-सामग्रीदशायां विशेष्यतावच्छेदकप्रकारकनिर्णयघटितायाः दर्शितप्रत्यक्षसामग्य्राः (अ)समवधानेनैव वारणात् । एवं इच्छाघटितनिरूपितप्रत्यक्षसामग्रीणां तद्घटिततत्सामग्रीसमशीलशाब्दसामग्रीणां तादृशानुमितिप्रतिबन्धकत्वाकल्पनेनापि लाघवम् ।
एवं च विमतिशरीरकृतगौरवस्यैवातीव लाघवसम्पादकतया दर्शितानेकरूपनिवेशनादिकृत-गौरवस्याकिञ्चित्करतया विमतेरेव तदवच्छेदकतौचित्यात् । अथवा तादृशकोटिद्वयप्रकारतानिरूपित-स्वसमानाधिकरणतादृशान्यत्वान्तघटितधर्मावच्छिन्नविशेष्यताप्रत्यासत्त्या ज्ञानत्वावच्छिन्नस्यैव तदवच्छेदकत्वोपगमेन सर्वसामञ्जस्ये नानापदार्थघटितगुरुतरतादृशान्यत्वान्तस्य तदुपगतेर्निर्बीजत्वादिति रहस्यमनुसन्धेयम् ।