मिथ्यात्वं च यद्यपि नात्यन्तासत्त्वम्
४. मिथ्यात्वनिर्वचनम्
न्यायामृतम्
मिथ्यात्वं च यद्यपि नात्यन्तासत्त्वम् । अपसिद्धान्तात् । नाप्यनिर्वाच्यत्वम्, अप्रसिद्धेः । नापि सद्विविक्तत्वम्, सतोऽपि सदन्तरविविक्तत्वात् । नापि सत्त्वा-नधिकरणत्वम्, निर्धर्मके ब्रह्मण्यपि सत्त्वात् । न च निर्धर्मकत्वादेव तत्र सत्त्वा-नधिकरणत्वमपि नेति वाच्यम् । निर्धर्मकत्वरूपहेतोः सत्त्वानधिकरणत्वाभावरूप-साध्यस्य च भावाभावाभ्यां व्याघातेनाभावरूपधर्मनिषेधायोगात् । अन्यथाऽसत्त्वा-नधिकरणत्वस्यापि तत्राभावेन तद्व्यावृत्त्यर्थमनिर्वाच्यलक्षणे सत्त्वानधिकरणत्वरूप-विशेषणायोगात् । न च प्रमित्यविषयत्वं मिथ्यात्वम्, ब्रह्म तु वेदान्तजन्यवृत्ति-व्याप्यमिति वाच्यम् । शुक्तिरूप्यादेरपि व्यवसायद्वारा अनुव्यवसायं प्रति साक्षाच्च बाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वात् । सत्त्वप्रकारकप्रमां प्रति साक्षादविषयत्वं चेद्, आवश्यकत्वात् सत्त्वाभाव एव मिथ्यात्वं स्यात् । नापि भ्रान्तिविषयत्वम् । ब्रह्मणोऽप्यधिष्ठानत्वेन तद्विषयत्वात् । भ्रान्तिमात्रविषयत्वस्य चोक्तरीत्या शुक्ति-रूप्यादावप्यभावात् । अध्यस्ततया भ्रान्तिविषयत्वं चेद्, विशेष्यवैयर्थ्यात् । विशेषणमात्रस्य च निरुच्यमानमिथ्यात्वानतिरेकात् । नापि बाध्यत्वम् । तद्धि न तावदन्यथा विज्ञातस्य सम्यग्विज्ञातत्वम् । मिथ्यात्वक्षणिकत्वादिना विज्ञातस्य प्रपञ्चस्य सत्यत्वस्थायित्वादिना विज्ञातत्वेन सिद्धसाधनात् । नापि बाधकज्ञान-विषयत्वम्, ब्रह्मण्यतिव्याप्तेः । नापि नास्ति नासीन्न भविष्यतीति बोध्यमानाभाव-प्रतियोगित्वेन तद्विषयत्वम् । मन्मते ह्यापणस्थरूप्यस्यैव तत्प्रतियोगित्वात् । नापि ज्ञाननिवर्त्यत्वम् । उत्तरज्ञाननिवर्त्यपूर्वज्ञानादाविव सत्त्वेऽप्युपपत्तेः । नापि स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । अव्याप्यवृत्तिसंयोगादेरिव सत्त्वेऽप्युपपत्तेः । नाप्यव्याप्यवृत्तित्वानाश्रयस्वसमानाधिकरणात्यन्ताभावप्रतियोगि-त्वम् । आरोपितस्य संयोगस्यात्यन्ताभावस्तु अनारोपितस्य संयोगस्यात्यन्ता-भावादन्य एव व्याप्यवृत्तिरिति वाच्यम् । शुक्तिरूप्यादौ तदभावादित्युक्तत्वाद् । नाप्यविद्यातत्कार्ययोरन्यतरत्वम् । अनादौ जीवब्रह्मविभागादावव्याप्तेः । परमतेऽ-ज्ञानस्य तत्कार्यभ्रान्त्यादेश्च सत्यत्वेनार्थान्तरत्वाच्च । शुक्तिरूप्यादावनिर्वाच्याविद्या-कार्यत्वस्य प्रतिवाद्यसम्मतेश्च ।
तथापि मिथ्याशब्दोऽनिर्वाच्यवचन इति पञ्चपादिकारीत्या सदसत्त्वानधि-करणत्वरूपानिर्वाच्यत्वं मिथ्यात्वम् । तत्प्रसिद्धिश्च ख्यातिवादे वक्ष्यते ।। १ ।।
न्यायामृततरङ्गिणी
मिथ्यात्वं चेति ।। यद्यपीत्यस्य व्यवहितेनाग्रेतनेन तथापीत्यनेन सम्बन्धः । अप-सिद्धान्तादिति ।। मिथ्यात्ववादिभिरपि प्रपञ्चस्यासद्वैलक्षण्याङ्गीकारादित्यर्थः । अप्रसिद्धे-रिति ।। सत्यत्ववादिना शुक्तिरूप्यादेरप्यनिर्वाच्यत्वानभ्युपगमात् तार्किकाभिमतान्यथाख्याति-पक्षे रूप्यस्यापि सत्यत्वात्, सिद्धान्त्यभिमतान्यथाख्यातिपक्षे शुक्तेरेवात्यन्तासद्रूप्यात्मना भानाङ्गीकारेण रूप्यस्य सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्याप्रसिद्धेरित्यर्थः । सतोऽपीति ।। सद्विशेषभेदस्य सत्यपि सम्भवादित्यर्थः । निर्धर्मक इति ।। तथा च सत्त्वानधिकरणत्वेऽपि ब्रह्मवत् सदूपत्वेनाप्यमिथ्यात्वोपपत्तिरित्यर्थः । न चेति ।। सत्त्ववत् सत्त्वानधिकरणत्वमपि धर्मो ब्रह्मणि नास्तीत्यर्थः । निर्धर्मकत्वहेतोरिति ।। निर्धर्मकत्वरूपहेतोः पक्षे सत्त्वे निर्धर्मकत्वरूपधर्मस्य ब्रह्मणि सत्त्वेन तत्र निर्धर्मकत्वस्य व्याघातः । अथ निर्धर्मकत्वं हेतुः पक्षे नास्ति, तथापि ब्रह्मणो न निर्धर्मकत्वम्, सधर्मकत्वस्यैव प्राप्तेः । एवं सत्त्वानधिकरणत्वा-भावरूपसाध्यस्य पक्षे सत्त्वे तादृशसाध्यरूपधर्मलाभेन निर्धर्मकत्वरूपहेतुव्याघातः । अथ सत्त्वानधिकरणत्वाभावरूपसाध्यं पक्षे नास्ति । तथापि सत्त्वानधिकरणत्वरूपधर्मलाभेन निर्धर्मकत्वरूपहेतोस्तेन व्याघातः, सत्त्वानधिकरणत्वाभावरूपसाध्येन च व्याघात इत्यर्थः । अभावरूपेति ।। तथा च ब्रह्मणोऽपि सत्त्वानधिकरणत्वेनातिव्याप्त्यापत्त्या न तन्मिथ्यात्व-लक्षणमित्यर्थः । ब्रह्मण्यभावरूपधर्मानङ्गीकारे बाधकमाह – अन्यथेति ।। अनिर्वाच्यलक्षण इति ।। सदसत्त्वानधिकरणत्वरूपानिर्वाच्यलक्षण इत्यर्थः ।
ननु अदृश्यत्वेन प्रमित्यविषये ब्रह्मण्यतिव्याप्तिरित्यत आह– ब्रह्म त्विति ।। ब्रह्मणो वृत्तिव्याप्यत्वेऽपि चिदविषयत्वाददृश्यत्वोपपत्तिरिति भावः । शुक्तिरूप्यादेरिति ।। प्रमित्यविषयत्वं वा साक्षात् प्रमित्यविषयत्वं वा मिथ्यात्वं शुक्तिरूप्यादौ नास्ति इति दृष्टान्तः साध्यविकल इत्यर्थः । आवश्यकत्वादिति ।। उपलक्षणमेतत् । स्वाभावसत्त्वप्रकारक-प्रमारूपबाधकज्ञानं प्रति साक्षाद् विषये रूप्यादौ साध्यवैकल्यं च द्रष्टव्यम् । ब्रह्मणोऽपीति ।। तस्य जगद्भ्रमाधिष्ठानत्वेन परैरङ्गीकारादित्यर्थः । उक्तरीत्येति ।। अनुव्यवसायादिरूपप्रमा-विषयत्वेनेत्यर्थः । विशेष्येति ।। अध्यस्तत्वमेव तल्लक्षणमस्त्वित्यर्थः ।
ननु तावदेव तल्लक्षणमस्त्वित्यत आह– विशेषणेति ।। अध्यस्तत्वस्य लक्ष्यत्वेन लक्षणत्वायोगादित्यर्थः । तद्धीति ।। बाध्यत्वम् । ब्रह्मणीति ।। क्षणिकत्वबाधकस्थायित्व-ज्ञानविषयतया प्रपञ्चस्य सिद्धसाधनदोषोऽपि बोध्यः । नापीति ।। ‘नास्ती’त्यादिप्रकारत्रयेण बोध्यमानो यो निषेधः, कालत्रयसंसृष्ट इति यावत्, तत्प्रतियोगित्वमित्यर्थः । मन्मत इति ।। मिथ्यात्वं निर्वक्तुर्मायावादिनो मम मत आपणस्थरूप्यस्यैव तादृशनिषेधप्रतियोगित्वम्, न शुक्तिरूप्यस्य । तस्य धीकाले शुक्त्यादौ सत्त्वेन तत्र तस्य तादृशनिषेधानङ्गीकारात् । तथाच शुक्तिरूप्यादौ साध्यवैकल्यमित्यर्थः । उपलक्षणमेतत् । बाध्यत्वेनानङ्गीकृते तुच्छे तदापत्तिश्च बोध्या । उत्तरेति ।। तथाच ज्ञानादौ पक्षैकदेशे सिद्धसाधनम्, घटादावर्थान्तरं चेति भावः । नापि स्वेति ।। बाध्यत्वस्याननुषङ्गाय पुनर्मिथ्यात्वोक्तिः । अव्याप्यवृत्तीति ।। तथा च पूर्ववत् सिद्धसाधनार्थान्तरते इति भावः । नाप्यव्याप्येति ।। संयोगात्यन्ताभावस्यापि गुण-कर्मावच्छेदेन व्याप्यवृत्तित्वाधिकरणतया तत्प्रतियोगिनि संयोगादौ सिद्धसाधनतावारणाया-व्याप्यवृत्तित्वानाश्रयेति निषेधद्वयान्तर्भावः । ननु आरोपितसंयोगस्यात्यन्ताभावोऽपि संयोगा-त्यन्ताभावत्वादव्याप्यवृत्तित्वाश्रय एव इति तदनाश्रयात्यन्ताभावप्रतियोगित्वं मिथ्याभूते आरोपिते संयोगेऽव्याप्तमित्यत आह– आरोपितस्येति ।। शुक्तिरूप्यादाविति ।। ‘नेदं रजतमि’ति निषेधं प्रत्यापणस्थरूप्यस्यैव प्रतियोगितया शुक्तिरूप्यादेः स्वसमानाधिकरण-निषेधायोगादित्यर्थः । नाप्यविद्येति ।। प्रत्येकाव्याप्तिवारणायान्यतरत्वान्तर्भावः । अनादा-विति ।। तदुक्तं वार्तिके –
‘‘जीव ईशो विशुद्धा चिद् भेदस्तस्यास्तयोर्द्वयोः ।
अविद्या–तच्चितोर्योगः षडस्माकमनादयः ।।’’ इति ।
परमत इति ।। सत्यत्ववादिमते । अज्ञानस्य भ्रमप्रागभावरूपस्य तत्कार्यभ्रान्त्यादेश्च प्रागभावरूपाविद्यातत्कार्यान्यतरत्वेऽपि सत्यतया तद्वद् घटादेरपि सत्यत्वेनाप्युक्तसाध्यो-पपत्त्याऽर्थान्तरत्वमित्यर्थः । भ्रमप्रागभावभ्रमादौ सिद्धसाधनतापि द्रष्टव्या । ननु अनिर्वाच्या-विद्यातत्कार्यान्यतरत्वं लक्षणार्थः, अतो नोक्तदोष इत्यत आह– शुक्तिरूप्यादाविति ।। तथाचाप्रसिद्धिरित्यर्थः । तथापीति ।। एतस्य यद्यपीत्यनेन पूर्वेण सम्बन्धः । पूर्वोक्तामप्रसिद्धिं निराकरोति– तत्प्रसिद्धिश्चेति । सत्त्वम्, असत्त्वात्यन्ताभावसमानाधिकरणात्यन्ताभाव-प्रतियोगि, व्यतिरेकिधर्मत्वात् गोत्ववत् । प्रमेयत्वादेरप्यत्यन्ताभावप्रतियोगित्वपक्षे धर्मत्वादित्येव हेतुः । न च घटावृत्तित्वमुपाधिः । घटत्वे साध्याव्याप्तेः । न च घटेतरवृत्तित्वरूप-पक्षधर्मावच्छिन्नसाध्यव्यापकं घटमात्रावृत्तित्वमुपाधिः पक्षेऽपि सत्त्वादित्यादि वक्ष्यत इत्यर्थः ।
न्यायामृतकण्टकोद्धारः
अपसिद्धान्तादित्युपलक्षणम् । आश्रयासिद्धेश्चेत्यपि द्रष्टव्यम् । अप्रसिद्धेरिति । निरुक्ति-विरहस्य तन्निमित्तविरहस्य वा सदसद्विलक्षणत्वस्य वाऽनिर्वाच्यत्वस्योभयसिद्धभ्रान्ति-विषयेऽद्याप्यसिद्धेरित्यर्थः । सतोऽपीति । तथा च सिद्धसाधनमिति भावः । निर्धर्मक इति । तथा चार्थान्तरमिति भावः । निर्धर्मकत्वरूपहेतोरिति । ननु भावपक्षे हेतुसाध्यरूप-धर्मद्वयाङ्गीकारस्य निर्धर्मकत्वाङ्गीकारे व्याघातः सम्भवति । अभावपक्षे तु कथं व्याघातः? इति चेत्, न; असिद्धेन साधनस्य बाधितसाधनस्य च भावाभावयोरिव व्याहतत्वात् ।
यद्वा – निर्धर्मकत्वसत्त्वानधिकरणत्वाभावयोरभावे सधर्मकत्व सत्त्वानधिकरणत्वरूपधर्म-द्वयापत्त्या निर्धर्मकत्वाङ्गीकारे व्याघात इत्यर्थः । अन्यथेति । अभावरूपधर्मानङ्गीकार इत्यर्थः । शुक्तिरूप्यादेरिति । तथा च दृष्टान्ते साध्यवैकल्यमित्यर्थः । आवश्यकत्वात्सत्वाभाव एवेति । यत्किञ्चित्पुरुषीयतादृशप्रमाविषयत्वाभावस्य सत्त्वेऽपि सम्भवात् स्वपरसाधारण-सकलतादृशप्रमाविषयत्वाभावो वाच्यः । स च सत्त्वाभावादेव ज्ञेय इत्यावश्यकतेत्यर्थः । एतच्चोपलक्षणम् । लघुत्वादित्यपि द्रष्टव्यम् । लक्षणदोषस्तु सत्त्वप्रकारकज्ञानस्य प्रमात्वाभावेन तत्प्रत्ययविषयत्वस्य ब्रह्मण्यपि सम्भवादतिव्याप्तिः, अनुमाने चार्थान्तरमिति बोध्यम् । उक्तरीत्येति । व्यवसायद्वाराऽनुव्यवसायं प्रति विषयत्वमित्याद्युक्तरीत्येत्यर्थः । नापि बाधकज्ञानविषयत्वमिति । न च पूर्वाभेद इति वाच्यम्; पूर्वं ह्यन्यथा विज्ञातस्य विद्यमान-प्रकारादन्यप्रकारेण ज्ञातस्य सम्यग्ज्ञानं स्वासाधारणधर्मपुरस्कारेण वा आरोप्याभाववत्तया वा ज्ञानमिति सामान्यं विवक्षितम् । अत्र तु आरोप्याभाववत्तयैवेति भेदः ।
यद्वा पूर्वं प्रमारूपमेव बाधकं ज्ञानं विवक्षितम् । अत्र तु भ्रम–प्रमासाधारणं ज्ञानमात्रमिति भेदः । अत एव पूर्वं ‘सम्यगि’ति पदम् । अत्र तु ‘ज्ञानमात्रमि’ति । यद्वा, पूर्वमधिष्ठान-मात्रनिष्ठं तत्, इह त्वध्यस्तादिसाधारणमिति भेदः । ‘बोध्यमाने’त्यभावस्य त्रैकालिकत्व-सिद्ध्यर्थमुक्तम्, न तु लक्षणप्रवेशेनेति भावः । मन्मत इति । तथा च शुक्तिरूप्यस्य प्रातीतिकत्वेन त्रैकालिकनिषेधप्रतियोगित्वासम्भवात् तत्रातिव्याप्तिरिति भावः । ननु आरोपित-संयोगेऽव्याप्तिः । तस्याव्याप्यवृत्तित्वाश्रयस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वादित्यत आह– आरोपितस्येति । तदत्यन्ताभावस्यानारोपितसंयोगात्यन्ताभावादन्यत्वेन व्याप्यवृत्तित्वात् न तत्राव्याप्तिरिति भावः । उक्तत्वादिति । आपणस्थरूप्यस्यैव त्रैकालिकनिषेधप्रतियोगित्वेन शुक्तिरूप्येऽव्याप्तिरित्यर्थः ।
न्यायामृतप्रकाशः
मिथ्यात्वं पञ्चधा निर्वक्तुं सम्भावितप्रकारानाशङ्क्य स्वयमेव दूषयति– मिथ्यात्वं च यद्यपीति ।। यद्यपीत्यस्य व्यवहितेनाग्रेतनेन तथापीत्यनेन सम्बन्धः ।। अपसिद्धान्तादिति ।। मिथ्यात्ववादिभिरस्माभिः प्रपञ्चस्यासद्वैलक्षण्याङ्गीकारादत्यन्तासत्वसाधने तत्त्ववादिभिरपसिद्धान्त उद्भाव्येतेत्यर्थः । अप्रसिद्धेरिति ।। सत्यत्ववादिनाऽनिर्वाच्यवस्त्वनंगीकारेण मयैतादृशमिथ्यात्व-साधनेऽप्रसिद्धविशेषणतां मां प्रतिदद्यादित्यर्थः । एवमेवोत्तरत्रापि द्रष्टव्यम् ।। निर्धर्मकत्वरूप-हेतोरिति ।। ब्रह्म सत्त्वानधिकरणं न भवति निर्धर्मकत्वादित्यत्र निर्धर्मकत्वरूपहेतोः पक्षे सत्त्वे निर्धर्मकत्वरूपधर्मस्यैव प्राप्त्या निर्धर्मकत्वहेतुना व्याघातः । निर्धर्मकत्वस्य पक्षेऽभावे सधर्मकत्वस्यैव प्राप्त्या निर्धर्मकत्वहेतुना व्याघातः । एवं सत्त्वानधिकरणत्वाभावरूपसाध्यस्य पक्षे सत्त्वे तादृश-साध्यरूपधर्मस्यैव लाभेन निर्धर्मकत्वहेतुना व्याघात एव । तादृशसाध्यरूपधर्माभावे सत्त्वा-नधिकरणत्वरूपधर्मस्यैव प्राप्त्या पुनर्निर्धर्मकत्वहेतुना व्याघात एवेत्यर्थः । अभावरूपेति ।। तथा च सत्त्वानधिकरणत्वरूपेऽभावरूपधर्मे ब्रह्मण्यङ्गीकार्ये मिथ्यात्वलक्षणमतिव्याप्तम् इत्यर्थः । ब्रह्मण्य-भावरूपधर्मानङ्गीकारे बाधकमाह– अन्यथेति ।। तत्र ब्रह्मणि । अनिर्वाच्यलक्षणे सदसत्त्वा-नधिकरणत्वरूपे मिथ्यात्वलक्षणे ।। ब्रह्म त्विति ।। तथा च वेदान्तजन्यवृत्तेः प्रमितित्वान्न ब्रह्मण्युक्तलक्षणस्यातिव्याप्तिरिति भावः । शुक्तिरूप्यादावसम्भवीदं लक्षणमित्याह– शुक्तीति ।। अनुव्यवसायमिति ।। शुक्तिरूप्यज्ञानवानहमित्यनुव्यवसायं प्रतीत्यर्थः ।
ननु साक्षात्प्रमित्यविषयत्वम् मिथ्यात्वं विवक्षितम् । शुक्तिरूप्यादिकं तु व्यवसायद्वारैवानु-व्यवसायरूपप्रमितिविषयः । न साक्षात् । अतो नासम्भव इत्यत आह– साक्षाच्चेति ।। सत्त्व-प्रकारकेति ।। बाधकज्ञानरूपप्रमां प्रति निषेध्यत्वेन साक्षाद्विषयत्वादसम्भवपरिहाराय सत्त्वप्रकारके-त्युक्तम् । अनुव्यवसायरूपसत्त्वप्रकारकप्रमां प्रति व्यवसायद्वारा विषयत्वेनासम्भवपरिहाराय साक्षादित्युक्तम् । आवश्यकत्वादिति ।। (‘‘घटादीनां सत्वप्रकारकप्रमां प्रति साक्षाद्विषयत्वमस्ति रूप्यादौ नास्तीति तावत्सिद्धं । तत्र किं नियामकमिति पृष्टे घटादौ सत्वस्य विद्यमानत्वात्सत्त्व-प्रकारकप्रमां प्रति साक्षाद्विषयत्वमस्ति । शुक्तिरूप्यादौ तदभावान्नास्तीत्युत्तरं वक्तव्यम् । तथा च सत्त्वप्रकारकप्रमां प्रति साक्षादविषयतावच्छेदकतया सत्त्वाभावस्यावश्यकत्वात्सत्त्वाभाव एव मिथ्यात्वं स्यात् । तथा च निर्धर्मके ब्रह्मणि अतिव्याप्तिरित्यर्थ इति सांप्रदायिकोऽर्थः’’ इति पाठान्तरं क्वचिद् दृश्यते ।) रूप्यादीनां सत्त्वप्रकारक प्रमां प्रति साक्षाद्विषयत्वं नास्तीत्यत्र किं नियामकमिति पृष्टे साक्षात्सत्वप्रकारकप्रमां प्रति विषयतावच्छेदकतया सत्त्वस्य घटादौ दृष्टत्वाच्छुक्तिरूप्यादौ च तदभावादिति सत्त्वाभावस्यावश्यकत्वं वाच्यम् । तथा च सत्त्वप्रकारकप्रमां प्रति साक्षादविषयत्व-प्रयोजकतया सत्त्वाभावस्यावश्यकत्वात् सत्त्वाभाव एव मिथ्यात्वं स्यात् । तथा च निर्धर्मके ब्रह्मण्यतिव्याप्तिरिति सांप्रदायिकोऽर्थः ।।
भ्रान्तिमात्रेति ।। ब्रह्म तु प्रमां प्रत्यपि विषय इति भावः ।। उक्तरीत्येति ।। व्यवसाय-द्वाराऽनुव्यवसायं प्रतीत्याद्युक्तरीत्येत्यर्थः । तथा च भ्रान्तिमात्रविषयत्वाभावादव्याप्तिरिति भावः । अस्तु तर्ह्यध्यस्तत्वमेव मिथ्यात्वमित्यत आह– विशेषणमात्रस्य चेति ।। साधकं कारणमिति यथा पर्यायः तद्वदित्यर्थः । तथा चात्माश्रयप्रसङ्ग इति ज्ञातव्यम् ।। नापि बाधकज्ञानविषयत्वमिति ।। नन्वन्यथा विज्ञातस्य सम्यग्विज्ञानविषयत्व–बाधकज्ञानविषयत्वयोः को भेद इति चेन्न । सम्यग्विज्ञानविषयत्वमित्यस्य सम्यग्विज्ञाननिवर्त्यत्वमित्यत्र तात्पर्यम् । अत्र बाधकज्ञाननिवर्त्यत्वे तात्पर्यम् । तत्र तु ज्ञाननिवर्त्यत्वमात्रे । अत एवोत्तरज्ञाननिवर्त्यत्वं पूर्वज्ञानस्य वक्ष्यति । न हि तत्पूर्वज्ञानबाधकमिति व्यवह्रियते । अतो न दोष इत्याहुः ।
अन्ये तु ब्रह्मण्यतिव्याप्तिरूपं दूषणान्तरं वक्तुं पूर्वोक्तमेवाशङ्क्य निराकरोति– नापीति ।। तथा च ब्रह्मण्यतिव्याप्तेरपि बाधकज्ञानविषयत्वं न लक्षणमित्यपिशब्दान्वयो द्रष्टव्य इत्याहुः – ब्रह्मणीति ।। अधिष्ठानत्वेन तस्यापि बाधकज्ञानविषयत्वादिति भावः ।
निषेध्यत्वेन बाधकज्ञानविषयत्वं मिथ्यात्वमतो न ब्रह्मण्यतिव्याप्तिरित्यभिप्रेत्य निषेध्यत्वं विव्रियते नास्तीत्यादिना ।। मन्मत इति ।। मिथ्यात्ववादिनो मम मते आपणस्थं रूप्यमेव नास्तीत्यादिनिषेधप्रतियोगि । न तु पुरतः प्रतीयमानं रूप्यम् । तत्र प्रातिभासिकसत्त्वाङ्गी-कारेणैवंविधनिषेधायोगात् । एवंविधनिषेधप्रतियोगि चापणस्थं रूप्यमेव । आभासस्य प्रसक्त्याऽना-भासस्य निषेध इत्यङ्गीकारात् । तथा च शुक्तिरूप्येऽसम्भव इति भावः । सत्त्वेऽपीति ।। यथा तत्र ज्ञाननिवर्त्यत्वसद्भावेऽपि न तत्प्रयुक्तो मिथ्यात्वव्यवहारस्तद्वदिति भावः । तथा चार्थान्तरतेति हृदयम् ।। स्वेति ।। प्रतियोगीत्यर्थः ।। मृत्पिण्डे व्यावहारिको घटोऽस्ति पारमार्थिकस्तदत्यन्ता-भावोऽप्यस्तीत्याशयः । स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वोपपादनायाव्याप्यवृत्तीत्युक्तम् ।।
सत्त्वेऽपीति ।। तथा च तत्प्रयुक्तो मिथ्यात्वव्यवहारो यथा नास्ति तद्वदित्यर्थः । अव्याप्य-वृत्तित्वानाश्रयेत्यत्यन्ताभावविशेषणम् । अनेन संयोगादेरिवेत्युक्तार्थान्तरानवकाश इति हृदयम् । व्याप्यवृत्तित्वाश्रयेत्येवोक्तौ गुणकर्माद्यवच्छेदेन संयोगात्यन्ताभावस्यापि व्याप्यवृत्तित्वात्पुनः संयोगादिकमादायार्थान्तरता स्यादतो नञ्द्वयगर्भत्वम् । तथा चाधिकरणभेदेनाभावभेदाभावात् । अन्यथा प्रागभावध्वंसयोर्भेदो न स्यात् । तथा च गुणकर्माद्यवच्छेदेन व्याप्यवृत्तिरेव संयोगात्यन्ताभावो द्रव्येऽव्याप्यवृत्तिरपि भवतीत्यव्याप्यवृत्तित्वानाश्रयत्वाभावान्नार्थांतरतेति भावः ।
ननु द्रव्ये अव्याप्यवृत्तित्वाल्लक्षणमसम्भवीति चेन्न । सर्वथा लक्षणाभाव एवासम्भवो वाच्यः । न हि स सम्भवति । विशेषसामान्ययोरुभयोरपि सामान्याभावप्रतियोगित्वेन विरोधित्वाद्यथाकथं-चिल्लक्षणसत्त्वे तत्सामान्याभावप्रतीतेरयोगात् । नन्वस्य लक्षणस्यारोपिते संयोगे मिथ्यात्वेन लक्ष्येऽ-व्याप्तिः । अनारोपितसंयोगप्रतियोगिकात्यन्ताभाववदारोपितसंयोगप्रतियोगिताकात्यन्ताभावोऽप्य व्याप्यवृत्तिरेवेत्यव्याप्यवृत्तित्वानाश्रयत्वाभावादुभयोरप्यत्यन्ताभावयोरेकत्वात्प्रतियोगिभेदेनाभावभेदाभावादिति मदाशङ्कानिरासायाह– आरोपितस्येति ।। अन्यत्वमेवाह– व्याप्यवृत्तिरिति ।। प्रतियोगिभेदेनाभाव-भेदादारोपितसंयोगस्य कुत्राप्यभावात्तदत्यन्ताभावो व्याप्यवृत्तिरेवेत्युक्तलक्षणसद्भावाल्लक्ष्ये मिथ्याभूते आरोपिते संयोगे नाव्याप्तिरिति भावः ।। तदभावादिति ।। शुक्तिरूप्यस्य पुरतः प्रतीयमानत्वेन स्वसमानाधिकरणनिषेधायोगादापणस्थस्य रूप्यस्यैव तत्प्रतियोगित्वं आभासस्य प्रसक्त्याऽनाभासस्य निषेध इति पूर्वमुक्तत्वादव्याप्तिरिति भावः ।। अनादाविति ।। अविद्याकार्यत्वाभावोपपादनायेदं विशेषणम् ।
‘‘जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः ।
अविद्या तच्चितोर्योगः षडस्माकमनादयः’’ ।। इति ।
तद्वचनादिति भावः ।। परमत इति ।। मिथ्यात्वं निर्वक्तुं मायावादिनोऽपेक्षया यः परस्तत्त्व-वादी तन्मत इत्यर्थः ।। सत्त्वेनेति ।। एतावन्तं कालं शुक्त्यज्ञानमासीद्रजतज्ञानमासीदित्यनु-भवेनाज्ञानादेः सत्यत्वावगमात्तत्कार्यत्वेऽपि मिथ्यात्वालाभादिति भावः । नन्वनिर्वाच्याविद्याकार्यत्वं मिथ्यात्वं साध्यते तच्च न परेषां सम्मतमित्याशङ्क्य दृष्टान्ते साध्यवैकल्यमाह– शुक्तिरूप्या-दाविति ।। ननु शुक्तिरूप्यस्यासत्त्वेन निरुक्तानिर्वाच्यत्वस्य तत्राभावाद्दृष्टान्ते साध्यवैकल्यमिति चेत्तत्राह– तत्प्रसिद्धिश्चेति ।। वक्ष्यत इति ।। सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वात् रूपरसवत् । सत्त्वं असत्वात्यन्ताभाव समानाधिकरणात्यन्ताभावप्रतियोगि धर्मत्वाद्रूपरस-वत् । असत्वं वा सत्वात्यन्ताभावसमानाधिकरणात्यन्ताभावप्रतियोगि धर्मत्वाद्रूपरसवदिति सामान्यप्रसिद्धिर्वक्ष्यत इत्यर्थः ।
न्यायकल्पलता
पराभिमतं मिथ्यात्वमवधारयितुं प्रसक्तान्मिथ्यापदार्थान्परिसञ्चष्टे -मिथ्यात्वं चेति । यद्यपीत्यस्य व्यवहितेनाग्रेतनेन तथापीत्यनेन सम्बन्धः । यदि मिथ्यात्वपदेन प्रपञ्चासत्वं प्रतिज्ञायेत तर्हि प्रपञ्चविशेष्यकमिथ्यात्वविशेषणिका अनुमितिरनुपपन्ना स्यात् । विशेष्यासत्वे विशिष्टस्य बाधितत्वात् । ननु यत्र विशेष्यसद्भावो विशेषणविरोधी तत्र विशेष्याभावे विशिष्टाभावः । यथा पुरुषाभावे दण्ड्य-भावः । प्रकृते तु प्रपञ्चरूपविशेष्यसद्भावो मिथ्यात्वलक्षणविशेषणविरोधी । ततश्च विशेष्यसद्भावाङ्गीकारे विशेषणायोगाद्विशेषणाभावप्रयुक्तो विशिष्टाभावः स्यात् । प्रध्वस्तो घट इत्यत्र घटसद्भावाङ्गीकार इव प्रध्वंसविशिष्टघटाभावः । तत्कथं विशेष्यासत्वे विशिष्टबाध इति । मैवम् । प्रतिपन्नस्वभावानुपमर्देन सत्यविवेकापरपर्यायधर्मसाधनमिति वदता परेण प्रपञ्चरूपविशेष्येऽसद्विलक्षणस्वरूपसद्भावस्य मिथ्यात्व-लक्षणविशेषणानुकूलताऽङ्गीक्रियते । ततश्च विशेष्यस्य प्रपञ्चस्यात्यन्तासत्त्वे विशेष्याभावेन विशिष्ट-बाधपरिहारादिति दूषणं हृदि निधाय दूषणान्तरमाह– अपसिद्धान्तादिति । विवर्तवादिभिरपि प्रपञ्चोऽविद्यापरिणामो ब्रह्मणो विवर्त इत्यङ्गीकृतत्वेन तस्यासद्वैलक्षण्याभ्युपगमादित्यर्थः– अप्रसिद्धे-रिति । विश्वसत्यत्ववादिभिः शुक्तिरूप्यादेरप्यनिर्वाच्यत्वानभ्युपगमात् । तार्किकाभिमतान्यथाख्यातिपक्षे रूप्यस्य सत्यत्वात् । सिद्धान्यभिमतान्यथाख्यातिपक्षे तु शुक्तेरेव दोषवशादत्यन्तासद्रजतात्मना भानाङ्गीकारेण शुक्त्यधिष्ठानचिदाश्रिताविद्योपादानकरूप्यस्य सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्या-प्रसिद्धेरित्यर्थः– सतोऽपीति । सद्विशेषप्रतियोगिकभेदस्य सत्यपि सत्त्वादित्यर्थः । निर्धर्मिक इति । तथा च प्रपञ्चस्य सत्वानधिकरणत्वेऽपि ब्रह्मवत्सद्रूपत्वेनाप्यमिथ्यात्वोपपत्तेरित्यर्थः ।
ननु सत्ववत् सत्त्वानधिकरणत्वमपि धर्मो ब्रह्मणि नास्ति निर्धर्मकत्वादित्याशङ्क्य निराकरोति– न चेति । निर्धर्मकत्वरूपहेतोरिति । निर्धर्मकत्वरूपं साधनं पक्षीकृते ब्रह्मणि सत् उतासत् । नाद्यः । निर्धर्मकत्वसाधनरूपधर्मस्य ब्रह्मणि सत्वप्राप्त्या निर्धमकत्वस्य तत्र व्याहतत्वात् । न द्वितीयः । निर्धर्मकत्वरूपहेत्वभावे हि ब्रह्मणो न निर्धर्मकत्वं सधर्मकत्वस्यैव लाभात् । एवं सत्वानधिकरणत्वा-भावरूपसाध्यस्य पक्षे सत्वे तादृशसाध्यरूपधर्मलाभेन निर्धमकत्वरूपहेतुसत्वेन व्याघातः । अथ सत्वा-नधिकरणत्वाभावरूपं साध्यं पक्षे नास्ति तथापि सत्त्वानधिकरणत्वरूपधर्मलाभेन निर्धमकत्वरूपसाधन-सत्वेन व्याघातः । सत्वानधिकरणत्वाभावरूपसाध्येन च व्याघात इत्यर्थः । -अभावरूपेति । तथा च ब्रह्मणोऽपि सत्वानधिकरणत्वे चातिव्याप्त्यापत्त्या न तन्मिथ्यात्वलक्षणमिति भावः । ब्रह्मण्यभाव-रूपाधर्मानङ्गीकारे बाधकमाह– अन्यथेति । अनिर्वाच्यलक्षण इति । सत्वानधिकरणत्वे सत्यसत्वा-नधिकरणत्वरूपानिर्वाच्यलक्षण इत्यर्थः ।
ननु प्रमित्यविषयत्वं न तल्लक्षणमदृश्यत्वेन प्रमित्यविषये ब्रह्मण्यतिव्याप्तेरित्यत आह-ब्रह्म त्विति । वृत्तिव्याप्यत्वेऽपि ब्रह्मणो घटादिवच्चिद्विषयत्वाभावाददृश्यत्वोपपत्तिरिति भावः । प्रमित्यविषयत्वं परम्परया वा साक्षाद्वा । नोभयमपीत्याह– शुक्तिरूप्यादेरपीति । तथा चैवंविधं मिथ्यात्वं शुक्ति-रूप्यादौ नास्तीति दृष्टान्तः साध्यविकल इत्यर्थः । यद्यपि तत्त्ववादिमायावादिनयेऽनुव्यवसायस्य प्रमात्वनियमो नास्ति इति दृष्टान्तस्साध्यविकल इत्यर्थः । प्रामाण्यस्य स्वतस्त्वात् । एतावांस्तु विशेषः । मायिनये अविद्यावृत्तिप्रतिफलितः साक्षी भ्रमरूपः । तत्त्वविन्नये तु भ्रमस्थले मानसानुव्यवसायस्तथापि न्यायमतेनेदमुक्तमिति बोध्यम् । सत्वेति । साक्षात्सत्वप्रकारकप्रमित्यविषयत्वमित्यर्थः । तेन यथाक्रमं परिहारः । आवश्यकत्वादिति । एवं च प्राप्ताप्राप्तविवेकेन सत्वाभावस्यैव मिथ्यात्वलक्षणत्वे तस्यां सत्त्वरूपत्वे विशिष्टानुमित्यसम्भवोऽपसिद्धान्तश्च । सत्वानधिकरणत्वमात्ररूपत्वे निर्धर्मिके ब्रह्मण्यति-व्याप्तिरित्यर्थः । उपलक्षणमेतत् । स्वाभावसत्त्वप्रकारकप्रमारूपबाधकज्ञानं प्रति साक्षाद्विषये प्रातिभासिके साध्यवैकल्यं च द्रष्टव्यम् । साक्षात्स्वसत्त्वप्रकारकप्रमित्यविषयत्वविवक्षायां तु सिद्ध्यसिद्धिविरोधः । नापीति । भ्रान्तिविषयत्वमात्रं वा भ्रान्तिमात्रविषयत्वं वा अध्यस्ततया भ्रान्तिविषयत्वं वा । नाद्यः इत्याह ।। ब्रह्मणोऽपीति । विवर्तवादिभिर्जगदारोपाधिष्ठानत्वेन तत्त्वविद्भिरपि क्षणिकत्वा-द्यध्यासाधिष्ठानत्वेन ब्रह्मणोऽङ्गीकारादित्यर्थः । द्वितीयाभावे हेतुमाह -उक्तरीत्येति । अनुव्यवसायरूप-प्रमाविषयत्वेनेत्यर्थः । तृतीयाभावे हेतुमाह -विशेष्येति । अध्यस्तत्वमेव लक्षणमस्तु इत्यर्थः । ननु तर्हि तदेव लक्षणमस्त्वित्यत आह– विशेषणेति । अध्यस्तत्वस्य दुर्वचत्वेन लक्ष्यमिथ्यात्वानतिरेकान्न लक्षणत्वमित्यर्थः । तदिति बाध्यत्वम् । बाधकेति । विपरीतप्रमामात्रविषयत्वं इत्यर्थः– ब्रह्मणीति । क्षणिकत्व विपरीतप्रपञ्चस्य सिद्धसाधनदोषोऽपि बोध्यः– नापीति । नास्तीत्यादिप्रकारत्रयेण बोध्यमानो यो निषेधस्तत्प्रतियोगित्वमित्यर्थः । मन्मत इति । आभासस्य प्रसक्त्याऽनाभासस्य निषेध इति वादिनो मम मिथ्यात्वं निर्वक्तुर्मायावादिनो मते आपणस्थरूप्यस्यैव तादृशनिषेधप्रतियोगित्वं न तु शुक्ति-रूप्यस्य । तस्य धीकाले शुक्त्यादौ सत्त्वेन तत्र तस्य तादृशनिषेधानङ्गीकारात् । तथा च शुक्तिरूप्यादौ साध्यवैकल्यमित्यर्थः । उपलक्षणमेतत् । बाध्यत्वेनानङ्गीकृतस्य तुच्छस्य तदापत्तेश्चेत्यपि ज्ञेयम् । उत्तरेति ।। एवं च ज्ञानादौ पक्षैकदेशे सिद्धसाधनं वियदादावर्थान्तरं चेति भावः । नापि स्वसमानेति । वस्तुतस्तदधिकरणे तदत्यन्ताभावानुपपत्तेः स्वाधिकरणत्वेन प्रतीयमानवृत्त्यत्यन्ताभावप्रतियोगित्वमित्यर्थः । बाध्यत्वस्याननुषङ्गाय पुनर्मिथ्यात्वमिति लक्ष्यनिर्देशः । अव्याप्यवृत्तीति । तथा च पूर्ववत्सिद्ध-साधनार्थान्तरते इति भावः । नाप्यव्याप्येति । गुणकर्मवृत्तितावच्छेदेन संयोगात्यन्ताभावस्यापि व्याप्यवृत्तित्वाधिकरणतया तत्प्रतियोगिनि संयोगादौ सिद्धसाधनतावारणायाव्याप्यवृत्तित्वानाश्रयेति निषेधद्वयान्तर्भावः । नन्वारोपितसंयोगस्यात्यन्ताभावोऽपि संयोगात्यन्ताभावत्वादव्याप्यवृत्त्याश्रय एवेति तदनाश्रयात्यन्ताभावप्रतियोगित्वं मिथ्याभूते प्रातिभासिके संयोगेऽव्याप्तमित्यत उक्तम्– आरोपितस्येति । शुक्तिरूप्यादौ इति । नेदं रजतमिति निषेधं प्रत्यापणस्थरूप्यस्यैव प्रतियोगितया शुक्तिरूप्यादेः स्वसमानाधिकरणनिषेधानुपपत्तेरित्युक्तत्वादित्यर्थः । नाप्यविद्येति । अन्यतरत्वम् अन्यान्यत्वम् । एतत्प्रत्येकाव्याप्तिनिरासाय । अनादाविति । ‘जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तर्योर्द्वयोः । अविद्या तच्चितोर्योगः षडस्माकमनादय’ इति वार्तिकाद्युक्तेस्तदनादित्वम् । परमते इति । अत्र सत्यत्वेनेत्यन्तं दृष्टान्तपरमिति ज्ञेयम् । सत्यत्ववादिनये बाधानन्तरमेतावन्तं कालं शुक्त्यज्ञानमासीदित्यज्ञानस्य, भ्रम आसीदिच्छाप्रवृत्तिश्च ममाभूदित्यज्ञानकार्यस्य भ्रान्त्यादेश्चाधिष्ठानवदबाध्यत्वेनानुभूयमानत्वादविद्या-तत्कार्यान्यतरत्वेऽपि सत्यत्वमिव वियदादेरपि सत्यत्वेनाप्युक्तसाध्योपपत्याऽर्थान्तरत्वादित्यर्थः । अज्ञानं भावरूपं ज्ञानप्रागभावो वा यथा तथाऽस्तु । तथा चाज्ञानज्ञानप्रागभावभ्रमादौ सिद्धसाधनतापि द्रष्टव्या ।
ननु तर्हि अनिर्वाच्याविद्यातत्कार्यान्यतरत्वं लक्षणमस्त्वतो नोक्तदोष इत्यत आह– शुक्ति-रूप्यादाविति । तथा चाप्रसिद्धेरनुमानाप्रवृत्तिरिति भावः । एवं मिथ्यात्वस्य दुर्निरूपत्वे प्राप्ते परः स्वाभिमतं मिथ्यात्वं निर्वक्ति– तथापीति । एतस्य पूर्वेण यद्यपीत्यनेन सम्बन्धः । तत्र पूर्वोक्तामप्रसिद्धिं निरस्यति– तत्प्रसिद्धिश्चेति । सत्वं असत्वात्यन्ताभावसमानाधिकरणात्यन्ताभावप्रतियोगि व्यतिरेकि-धर्मत्वात् । गोत्ववत् । प्रमेयत्वादेरप्यत्यन्ताभावप्रतियोगित्वपक्षे धर्मत्वादित्येव हेतुः । न च गवेतरा-वृत्तित्वमुपाधिः । रूपादौ साध्याव्यापकत्वात् । न च घटावृत्तित्वमुपाधिः । घटत्वे साध्याव्याप्तेः । न च घटे तद्वृत्तित्वरूपपक्षधर्मतावच्छिन्नसाध्यव्यापकं घटमात्रावृत्तित्वमुपाधिः । पक्षेऽपि सत्त्वादित्यादि वक्ष्यत इत्यर्थः । न च सत्वविशिष्टासत्वस्याभावः सदसत्वानधिकरणत्वं तच्च विशेष्याभावात्सत्यत्व-पक्षेऽपि सिद्धमतः सिद्धसाधनमिति वाच्यम् । मिलिताभावद्वयस्य वा विशेषणविशेष्यभावापन्नाभावद्वयस्य वाऽभिप्रेतत्वात् । अत एव तत्प्रसिद्धिर्वक्ष्यत इत्युक्तम् ।
न्यायामृतमाधुरी
व्यवसायद्वारेति । सविषयकाणां विषयनिर्मोकेण भानानुपगमेन विषयितया विषयविशेषिता-नामेव भानेनानुव्यवसायीयव्यवसायवृत्तिविशेष्यतानिरूपितविषयितासंबन्धावच्छिन्नप्रकारतारूप-विषयताश्रयत्वादित्यर्थः । निषेध्यत्वेनेति । बाधकज्ञानीयनिषेधप्रतियोगित्वरूपनिषेध्यत्ववृत्ति-प्रकारतानिरूपितविशेष्यताश्रयत्वादित्यर्थः । सत्त्वप्रकारकेति । प्रमीयसत्त्ववृत्तिप्रकारतानिरूपित-विशेष्यतानाश्रयत्वमित्यर्थः । तद्विषयत्वादिति । भ्रान्तिनिरूपितविशेष्यताख्यविषयताश्रयत्वा-दित्यर्थः ।। अध्यस्ततयेति । अध्युपसृष्टस्यास्यतेर्विपरीतनिश्चयार्थकतया सविषयकवस्त्वभिधायकधातु-समभिव्याहृत निष्ठायाश्च । विषयतारूपकर्मतार्थकतया प्रकारतारूपविषयताया एव प्रकृते अभिप्रेततया तृतीयायाश्च विषयत्वान्वय्यभेदार्थकतया अध्यासनिरूपितप्रकारत्वाभिन्नभ्रान्तिविषयत्वमित्यर्थः । न तावदिति । निराकरिष्यमाणबाध्यत्वीयकल्पत्रयावधिकप्राथम्यद्योतनार्थस्तावच्छब्दः । स्वाधिकरणा-वृत्तिधर्मोऽन्यपदेन तदुत्तरप्रत्ययेन ‘‘प्रकारवचने थालि’’त्यनुशासनादभेदेन तदर्थान्वितप्रकारस्तदुत्तर-लुप्तसुपा च निरूप्यतया धात्वर्थान्वयिन्याधेयतया प्रकृत्यर्थविशेषिता, प्रकारतालुप्तविभक्त्यननु-सन्धानपक्षे तु अभेदेन धात्वर्थान्वयिप्रकारता निरूपितविषयतारूपकर्मतापन्ने तदुत्तरविभक्त्या भावप्रत्ययार्थान्वयिनि आधेयता प्रत्याय्यते सम्यक् । स्वसमानाधिकरणधर्मोपरागेण । तथा च स्वाधिकरणावृत्तिधर्मप्रकारतानिरूपित सांप्रतिकध्वंसप्रतियोगित्वरूपातीतत्वविशेषितज्ञानीयविशेष्यता-शालित्वे सति स्वसमानाधिकरणधर्मप्रकारतानिरूपितज्ञानीयविशेष्यताशालित्वमिति समुदितार्थः । नेदं रजतमियं शुक्तिः इति च ज्ञानगोचरयोर्बाध्यत्वस्योररीकृततया सङ्ग्राह्यसङ्ग्रहः । अथ रजतत्वाभाव-ग्रहस्य ग्राह्याभावावगाहितया बोधत्वोपगमेऽपि शुक्तित्वज्ञानस्य तदनवगाहिनस्ताद्रूप्यानुपगमेन तद्विषयस्य कथं बोध्यता सङ्गमितेति चेन्न । शाब्दादिप्रतिबन्धकतया ताद्रूप्यस्य सुधाया-मेवाभिहिततया तदभावव्याप्यवत्तानिश्चयमुद्रयेति तद्व्याख्यातृभिः समर्थिततया तस्याः सङ्गमनीयत्वात् । तुल्यदिशा तद्व्यापकाभाववत्ताज्ञानस्यापि ताद्रूप्यापत्या तद्विषयस्यापि सङ्ग्राह्यतापत्तिस्त्विष्टैव ।
ननु भ्रमोत्तरचिरकालीनपुरुषान्तरीयरजतत्वाभावज्ञानशुक्लत्वादिज्ञानानां बाधत्वेनानुपगतानामपि तादृशज्ञानोत्तरादिरूपतया तद्विषयाणामपि सङ्ग्राह्यतापत्तिर्दुर्वारेति चेन्न । स्वाव्यवहितपूर्वक्षणावच्छेदेन स्वाधिकरणवृत्तित्वस्य आद्यदलनिविष्टदर्शितातीतत्वस्थानाभिषिक्तत्वोपगमेनाद्यज्ञानद्वयस्य उत्तरदल-निविष्टप्रकारतायां स्वावच्छेदकधर्मावच्छिन्नप्रतियोगितानिरूपितत्त्वतदभावनिरूपितव्याप्त्यवच्छिन्नत्व प्रतियोगितासंसर्गावच्छिन्नतद्व्यापकविषयतानिरूपितत्वान्यतमविशेषितत्वस्य निवेशनेनोत्तरस्य च निरासात् । अत्र स्वपदेन आद्यदलनिविष्टप्रकारतोपादेया । अथ तद्वत्ताज्ञानं प्रति तदभावनिरूपित-व्याप्त्यवच्छिन्नप्रकारतानिरूपिताभावप्रकारताशालिज्ञानत्वेन तद्व्यापकवृत्तिप्रतियोगिता संसर्गावच्छिन्न-प्रकारतानिरूपिताभावप्रकारताशालिज्ञानत्वेन प्रतिबन्धकतायां निर्धूमत्वव्याप्यं निर्वह्नित्वं इति ज्ञानसमवहितस्य निर्वह्निश्चायमिति ज्ञानस्य, धूमव्यापको वह्निरिति ज्ञानसमवहितस्य वह्न्यभाव-वांश्चायमिति ज्ञानस्य च समवधानदशायां धूमवत्ताज्ञानोत्पादप्रसङ्गेन दर्शितज्ञानद्वयविशिष्टैक-ज्ञानोभयसाधारणनिर्वह्नित्वधर्मिकनिर्धूमत्वव्याप्यत्वज्ञानविशेषितनिर्वह्नित्वज्ञानत्वेन वह्निधर्मिकधूम-व्यापकताज्ञानविशेषितवह्न्यभाववत्ताज्ञानत्वेन च प्रतिबध्यप्रतिबन्धकभावस्याकारे स्थिततया दर्शित-ज्ञानद्वयदशायां तद्विषयस्य बाध्यता दुःसङ्गमैवापाद्यत इति चेन्न । स्वावच्छेदकधर्मावच्छिन्न-प्रतियोगिता संसर्गावच्छिन्नप्रकारतानिरूपितत्वस्वघटित धर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता-वच्छेदकीभूतज्ञानवैशिष्ट्यविशेषितज्ञानीयत्वान्यतरविशेषितत्वस्योत्तरदलविशिष्टप्रकारतायां निवेशनेन सामञ्जस्यात् । (स्वाश्रयावृत्तिनिष्ठप्रकारताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकता-वच्छेदकीभूतप्रतियोगितासंसर्गावच्छिन्नस्वाश्रयावृत्तिधर्मप्रकारताघटित धर्मज्ञानवैशिष्ट्यान्यतरविशेषित-ज्ञानविशेष्यत्वविवक्षया सामञ्जस्यात् ।) इत्थं च वारणीयाखिलवारणस्य सङ्ग्राह्याखिलसङ्ग्रहस्य च सम्भवेन दर्शितविवक्षैव साधीयसीति ध्येयम् । न चैवमपि समूहालम्बनमादाय घटादौ अतिप्रसङ्गो दुर्वार इति वाच्यम् । यादृशयादृशविषयितात्वं दर्शितान्यतरसमानाधिकरणाभावप्रतियोगितावच्छेदकं तत्तदवच्छिन्नविषयिताशून्यत्वस्य ज्ञाने निवेशनेेनाक्षतेरित्यलं तन्त्रान्तरवासनाविजृम्भितजल्पनेनेति ।
मन्मत इति ।। मिथ्यात्वनिर्वचनकर्तुरद्वैतिनो मते एवकारेण शुक्त्यवच्छिन्नचैतन्यावरका-ज्ञानोपादानकं प्रतीतिदशायां शुक्त्यादौ वर्तमानमेव रूप्यं विपर्यासे भासत इत्युपगमेन तत्र तादृशप्रतियोगित्वानभ्युपगमेन निदर्शने साध्यवैकल्यं प्रसज्यत इति ध्वन्यते । ज्ञाननिवर्त्यत्वमिति । ज्ञानजन्यध्वंसप्रतियोगित्वमित्यर्थः ।। उत्तरेति । योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नगुणनाश्यत्वोप-गन्तृनये पूर्वपूर्वज्ञानादिगुणानामनलीकत्वेऽपि स्वसमानाधिकरणस्वोत्तरज्ञानादिगुणनाश्यतेव घटादि-ष्वपि साध्यपर्यवसानस्योपपत्त्या अभिप्रेतासिद्धिरूपार्थान्तरतेत्यर्थः । अव्याप्यवृत्तीति । इदानीं मूले महीरुहे विहङ्गमसंयोगो नाग्रे इत्यादिप्रतीतिबलात् देशकालवृत्तिविलक्षणावच्छेदकताकवृत्तिकत्व-रूपाव्याप्यवृत्तितयोपेतसंयोगादेरिवेत्यर्थः । निखिलानामेवाधेयतानां किञ्चिद्धर्मावच्छिन्नतया संसर्गा-वच्छिन्नतया च व्याप्यवृत्तीनामव्याप्यवृत्तिताव्युदसनाय तद्घटकतया विलक्षणावच्छेदकतानिवेशनम् । एवं च दर्शितदिशाऽर्थान्तरतेति भावः । द्रव्येतरगुणाद्यवच्छेदेन संयोगाद्यभावस्यापि निरवच्छिन्नवृत्ति-कत्वरूपव्याप्यवृत्तिताशालितया तन्निवेशनेनोक्तापत्तिवारणायोगेनावच्छिन्नवृत्तिकान्यत्वरूपतन्निवेशने च सामञ्जस्यमिति ध्वनयितुमनाश्रयेति । उक्तत्वादिति । मन्मत इत्यादिनेत्यादितत्पङ्क्तिव्याख्यानावसरे विवृतमेतत् । नापीति । अन्यतराव्याप्तिवारणाय सामानाधिकरण्यप्रत्यासत्या तद्भेदविशेषितैतद्भेदा-वच्छिन्नप्रतियोगिताकभेदवत्वरूपान्यतरत्वपर्यन्तानुवधावनम् । अनादाविति ।
‘जीव ईशो विशुद्धा चित् भेदस्तस्यास्तयोः द्वयोः ।
अविद्या तच्चित्तोर्योगः षडस्माकमनादयः ।।’ इति वार्तिकोक्तेः ।
अत्र नञोऽनुपलब्धिरित्यादाविवाभावार्थता, अधर्म इत्यादाविव विरुद्धार्थता वेति कल्पद्वय-मभिप्रेत्याद्यं प्रत्याचष्टे– परमत इति । तत्त्ववादिमत इत्यर्थः । अज्ञानस्य भ्रमप्रागभावस्य तत्कार्य-भ्रान्त्यादेः प्रागभावभ्रमरूपाविद्यातत्कार्यान्यतरत्वेऽपि सत्यतावदंबरादेरपि तथात्वेनापि साध्यस्य सूपपादतयाऽर्थान्तरतेत्यर्थः ।
द्वितीयं प्रत्याह– शुक्तीति । तथापीति । यद्यपीत्याशङ्कासमाधायकमिदम् । वचन इति ।। उच्यतेऽनेनेति करणसाधनोऽयं ल्युट् । मुखनासिकावचन इत्यादौ तथाव्याख्यानात् । रीत्या विन्यासेन । वक्ष्यते । सत्वमसत्वात्यन्ताभावसमानाधिकरणात्यन्ताभावप्रतियोगि व्यतिरेकिधर्मत्वा-द्गोत्ववदित्यादिनेति पूरणीयम् ।