यत्तु भामत्युक्तम् ‘श्रवणादिविध्यभावादध्ययनविधिरेव काण्डद्वयविचराक्षेपकः’ इति..

६. अध्ययनविधेर्नित्यत्वेऽपि विचारविधायकत्वम्

न्यायामृतम्

यत्तु भामत्युक्तम् ‘श्रवणादिविध्यभावादध्ययनविधिरेव काण्डद्वयविचराक्षेपकः’ इति, तत् ‘स्वाध्यायस्य हि तथात्वेन’ इत्यत्र सूत्रभाष्यादौ ‘अध्ययनस्य चार्थज्ञान-पर्यन्तत्वात्’ इति टीकायां च तस्य तदाक्षेपकताया उक्तत्वादिष्टम् । श्रवणादिविधिस्तु समर्थयिष्यते । ननु तत्रैव टीकायां ‘योऽनधीत्य’ इत्यकरणे प्रत्यवायस्मरणे-नाध्ययनस्य नित्यताप्युक्ता, तत्कथं तस्यार्थज्ञानपर्यन्तत्वमिति चेन्न, अर्थज्ञा-(नार्थत्वे)न पर्यन्तत्वेऽप्यध्ययनविधेरवैयर्थ्यायाधीतेनैव वेदेन कर्तव्यतां ज्ञात्वाऽनुष्ठितं कर्म फलायालमित्यादिनियमा श्रयणात् । असत्यध्ययने यथोक्तनित्यादिकर्मा-नुष्ठानासिद्ध्या प्रत्यवायश्रवणोपपत्तिः । तथा चार्थज्ञानार्थ स्याप्यध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरे त्वनध्ययनेन सन्ध्यानुपासनेनेव साक्षात्प्रत्यवायस्मरणे-नाध्ययनस्यादृष्टार्थत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च तादर्थ्यमपीत्युभयार्थता पशुपुरोडाशादिवदित्याहुः ।

अथवा श्रुतिबलाद्दध्यादेः क्रत्वर्थत्वपुरुषार्थत्ववद्दर्शपूर्णमासादे१र्नित्यकाम्यत्व-वच्चाध्ययनस्याप्युभयार्थता । प्रत्यवायस्येव ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादिश्रुत्या ‘वेदैश्च सर्वैरहमेव वेद्य’ इति स्मृत्या च ब्रह्मज्ञानार्थत्वस्याप्यवगमात् । यद्वोक्तश्रुत्याऽध्ययनस्य ब्रह्मज्ञानार्थत्वेऽपि ‘यदेव विद्यया करोति’ इत्यादिश्रुत्या ब्रह्मज्ञानस्यैवावश्यकत्वात् ज्ञानार्थत्वेऽप्यध्ययनस्याकरणे प्रत्यवायश्रवणं युक्तम् । एतेन नित्यत्वादध्ययनविधिर्न विचाराक्षेपक इति यद्विवरणाभिप्रेतं तन्निरस्तम् । तस्मात्–

ब्रह्मज्ञानफलस्यापि स्वाध्यायाध्ययनस्य या ।

टीकायां नित्यता प्रोक्ता सापि नैव विरुध्यते ।।

।। इति अध्ययनविधेर्नित्यत्वेऽपि विचारविधायकत्वम् ।। ६ ।।

अद्वैतसिद्धि:

प्रस्थानान्तरे तु अध्ययनविधेरेवार्थावगमपर्यन्तत्वात् काण्डद्वयविचाराक्षेपकत्वम्, श्रवणादिषु च न विधिः । तेषामन्वयव्यतिरेकसिद्धसाक्षात्कारसाधनताकत्वादित्युक्तम् । न च अध्ययनाभावे प्रत्यवायश्रवणादध्ययनस्य नित्यताया अप्यवगमात् कथं तस्यार्थावगमपर्यन्तत्वमिति वाच्यम्, अर्थज्ञानार्थत्वेऽपि अध्ययनविधेरवैयर्थ्याय अधीतेनैव वेदेन कर्तव्यतां ज्ञात्वा अनुष्ठितं कर्म फलायालमित्यादिनियमाश्रयणादसत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्ध्या प्रत्यवायश्रवणोपपत्तिः । तथा चार्थज्ञानार्थस्यापि अध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरे तु अनध्ययने सन्ध्यानुपासन इव साक्षात् प्रत्यवायश्रवणेनाध्ययनस्यादृष्टत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च तादर्थ्यमपीत्यु-भयार्थता पशुपुरोडाशादिवदिति आहुः । अत्र चाध्ययनविधेर्नित्यत्वे सत्युभयविचाराक्षेपकत्वं परेणा-प्यङ्गीकृतं, तदयुक्तम्, जिज्ञासासूत्रस्य मननविधिमूलत्ववादिनस्तस्य तदङ्गीकारानर्हत्वात् । अयुक्तत्व-शङ्कानिवर्तकमननरूपविचारस्यापि अध्ययनविध्याक्षिप्तत्वेन तत्र विधिवैयर्थ्यात् सूत्रस्य तन्मूलत्वा-सिद्धेः ।। इत्यद्वैतसिद्धौ वाचस्पत्युक्तस्वाध्यायविधि विचाराक्षेपकत्वस्योपपत्तिः ।। ६ ।।

न्यायामृततरङ्गिणी

।। श्रवणादीति ।। श्रवणादेर्ज्ञानरूपत्वात्तस्यैव विधेयत्वात्तव्यादयः श्रूयमाणा अर्हार्था एव न विधायका इत्याहुः ।। स्वाध्यायस्येति ।। सर्वशाखानामेकेन पुंसाऽध्येतुमशक्य-त्वात्सर्ववेदान्तप्रत्ययं ब्रह्म न भवतीति शङ्कायां तत्परिहारत्वेन ‘स्वाध्यायस्य हि तथात्वेन समाचारेऽधिकाराच्च’ इति सूत्रम् । तस्यार्थः । ‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधिना, ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृत्या च, हिशब्दसूचितया सर्वैः सर्वशाखोक्त कर्मानुष्ठानरूपसमाचाराच्च सर्वशाखाध्ययनमस्ति शाखाभेदस्त्वशक्तित इति । अत्र भाष्ये सरहस्य इत्यादिनाऽध्ययनस्यार्थ ज्ञानपर्यन्तत्वावगमाद् अध्ययनविधेर्विचाराक्षेप-कत्वम् अनुमतम् । अत्रैव सूत्रे टीकायाम् अध्ययनं च तदुक्तार्थज्ञानार्थमेवेत्युक्त मित्यर्थः ।। अध्ययनविधेरिति ।। वाक्यग्रहणं विना वाक्यार्थावधारणानुपपत्तेर्वेदार्थ ग्रहणकामस्य वेदाध्ययनं रागतः प्राप्तम् अतोऽध्ययनविधिवैयर्थ्यं, तन्मा भूत् ।। उभयार्थतेति ।। प्रत्यवायपरिहारोऽर्थज्ञानं चेत्युभयम् ।।

पशुपुरोडाशेति ।। चतुर्थस्य प्रथमे विचारितम् आश्रयिष्यविशेषेण भावोऽप्यप्रतीयते । अग्नीषोमीयपश्वङ्गत्वेन पुरोडाशयागः श्रुतः । ‘अग्नीषोमीयस्य वपया प्रचर्याग्नीषोमीयं पशु-पुरोडाशं निर्वपति’ इति । अग्नीषोमीयपशुयागस्य देवतास्मरणरूपसंस्कारं कुर्वन्पुरोडाशयागोऽ-ग्नीषोमीयस्य सन्निपत्योपकारक इति दाशमिकमर्थं सिद्धवत्कृत्य किमयं पशुपुरोडाशयागः पशुदेवतायाः स्मरणरूपं संस्कारं कुर्वन् दृष्टार्थ एव उतादृष्टार्थोऽपीति संशये एकं वा चोदने-नैकत्वादित्येकेनैव प्रयोजनेन विध्युपपत्तेः प्रयोजनद्वयं नाश्रयणीयमिति पूर्वपक्षे, देवतोद्देशेन त्यागरूपस्य यागस्योद्देशांशे दृष्टार्थत्वेऽपि त्यागांशेऽदृष्टार्थत्वं विनाऽनुपपत्तेरुभयार्थत्वमिति सिद्धान्तः ।। श्रुतिबलादिति ।। ‘दध्ना जुहोति’ दध्नेन्द्रियकामस्य जुहुयादिति तृतीया-श्रुतिबलात् ।। क्रत्वर्थत्वेति ।। चतुर्थस्य तृतीयेऽभिहितम् ‘एकस्य तूभयार्थत्वे संयोग-पृथक्त्वम्’ । अग्निहोत्रे श्रूयते ‘दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयात्’ इति । तत्र किं फलार्थमेव दध्युत क्रत्वर्थमपीति संशये फलवाक्येन दध्नः फलसम्बन्धविधायकेन तस्य होमसम्बन्धविधानायोगात्फलवाक्यापेक्षितदधिहोमसम्बन्धविधायकतया होमवाक्यस्य फलवाक्यैकवाक्यतया होमे दधिविधायकस्य वाक्यान्तरस्याभावात्फलार्थमेव दधीति प्राप्ते सिद्धरूपस्य दध्नः स्वतोऽननुष्ठेयस्य फलार्थत्वेन विधानायोगात्तदुपपत्तये स्वतःसाध्यरूप-क्रियाश्रयापेक्षायामपि प्रकरणेनैव होमरूपाश्रयसम्बन्धलाभान्न तदर्थं ‘दध्ना जुहोति’ इत्यस्य तदेकवाक्यतेति तेन पृथगेव क्रत्वर्थतया दधिविधानादुभयार्थं दधीति सिद्धान्तः ।

नित्यत्वकाम्यत्वेति ।। द्वितीयस्य चतुर्थेऽभिहितम् । ‘यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्’ । ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति श्रूयते । तत्र यावज्जीववाक्येन स्वर्गकामवाक्योक्ते काम्यप्रयोगे यावज्जीवमभ्यासलक्षणो गुणो विधीयत इति प्राप्ते गुणविधौ जीवनशब्देन तत्सहचरितकालो लक्षणीयो जुहोतिशब्देन चाभ्यासः । अधिकारान्तरचोदनायां श्रुत्यर्थस्य जीवनस्याधिकारिविशेषणत्वाद्यागस्यैव विधेयत्वान्न क्वापि लक्षणा । ततश्च वाक्यद्वयवशात्काम्यो नित्यश्च दर्शपूर्णमास इति सिद्धान्तः ।। आवश्यकत्वादिति ।। वीर्यवत्तरफलसाधनत्वेन ।। प्रत्यवायेति ।। तादृश-फलासिद्धिरूपः प्रत्यवायः ।। एतेनेति ।। ‘अध्ययनविधेरवैयर्थ्याय’ इत्याद्युक्तेन ।। ब्रह्मज्ञानफलस्यापीति ।। ‘सर्वे वेदाः’ इत्यादिश्रुतेः ।। इति अध्ययविधेर्नित्यत्वेऽपि विचारविधायकत्वम् ।। ६ ।।

न्यायामृतकण्टकोद्धारः

नन्वध्ययनविधेः काण्डद्वयविचाराक्षेपकत्वं भामत्युक्तं कुतो न दूष्यत इत्यत आह– यत्त्विति । ननु ‘श्रोतव्यः’ इत्यादिः किमनुवाद उत विधिरिति जिज्ञासायामाह– श्रवणादीति । अध्ययन विधेरर्थज्ञानपर्यन्तत्वमुक्तम् आक्षिपति– ननु तत्रैवेति । अन्यथा प्रत्यवायस्मरणं विरुध्येतेति भावः । अर्थज्ञानार्थत्वेऽपि प्रत्यवायश्रवणोपपत्तिरित्यन्वयः ।। अवैयर्थ्यायेति ।। अन्वयव्यतिरेकाभ्याम् अध्ययनस्यार्थज्ञानहेतुतायाः प्राप्तत्वाद् अध्ययनविधेर्वैयर्थ्ये प्राप्ते तत्परिहाराय नियम आश्रीयत इत्यर्थः ।। पशुपुरोडाशादिवदिति ।। यथा पश्वादेः प्रकृत यागस्वरूपनिष्पादकत्वेन दृष्टार्थत्वम् अदृष्टार्थत्वं च एवं प्रकृतेऽपीत्यर्थः । नन्वर्थज्ञानस्यापेक्षित्वेऽप्यध्ययनस्यार्थज्ञानार्थताया अप्रामाणिकत्वादयुक्तमुभयार्थत्वमित्यत आह– अथवेति । प्रकारान्तरेण प्रत्यवायश्रवणमुपपादयति– यद्वेति । एतेनेति । अर्थज्ञानार्थताया उपपादितत्वेनेत्यर्थः । उक्तमर्थं कारिकारूढं करोति– तस्मादिति । न चैतज्जिज्ञासूत्रस्य मननविधिमूलत्ववादिनाऽङ्गीकारानर्हम् । मननरूपविचारस्याप्यध्ययनविध्या-क्षिप्तत्वेन तत्र विधिवैयर्थ्यादिति वाच्यम् । तेन हि सामान्यतो विचाराक्षेपेऽपि अप्राप्तार्थताया वक्ष्यमाणत्वेनापूर्वविधित्वस्य नियमविधित्वस्य च सम्भवात् । ।। इति अध्ययनविधे-र्नित्यत्वेऽपि विचारविधायकत्वम् ।। ६ ।।

न्यायकल्पलता

श्रवणादेर्ज्ञानरूपत्वात्तस्य चाविधेयत्वात्तव्यादयः श्रूयमाणा अर्हार्था एव न विधायका इति परमतं दूषयितुम् अनुवदति– यत्त्वित्यादिना ।। स्वाध्यायस्येति ।। सर्वशाखानामेकेन पुंसाऽध्येतुम-शक्यत्वात्सर्ववेदान्तप्रत्ययं ब्रह्म न भवतीति शङ्कायां तत्परिहारत्वेन ‘स्वाध्यायस्य हि तथात्वेन समाचारेऽधिकाराच्च’ इति सूत्रम् । तस्यार्थः । ‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधिना, ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृत्या च, हिशब्दसूचितया सर्वैः सर्वशाखोक्तकर्मा-नुष्ठानरूपसमाचाराच्च सर्वशाखाध्ययनमस्ति । शाखाभेदस्त्वशक्तित इति । अत्र भाष्ये ‘सरहस्यः’ इत्यादिनाऽध्ययनस्यार्थज्ञानपर्यन्तत्वावगमाद् अध्ययनविधेर्विचाराक्षेपकत्वम् अनुमतम् । अत्रैव सूत्रे टीकायाम् अध्ययनं च तदुक्तार्थज्ञानार्थमेवेत्युक्तमित्यर्थः ।। अध्ययनविधेरिति ।। वाक्यग्रहणं विना वाक्यार्थावधारणानुपपत्तेर्वेदार्थ ग्रहणकामस्य वेदाध्ययनं रागतः प्राप्तम् अतोऽध्ययनविधिवैयर्थ्यं, तन्मा भूदित्यर्थः ।। उभयार्थतेति ।। प्रत्यवायपरिहारोऽर्थज्ञानं चेत्युभयम् ।।

पशुपुरोडाशेति ।। चतुर्थस्य प्रथमे विचारितम् आश्रयिष्वविशेषेण भावोऽ(र्थः प्रतीयते)प्य-प्रतीयते । ज्योतिष्टोमे अग्नीषोमीयपश्वङ्गत्वेन पुरोडाशयागः श्रुतः । ‘अग्नीषोमीयस्य वपया प्रचर्य्याग्नी-षोमीयं पशुपुरोडाशं निर्वपति’ इति । अग्नीषोमीयपशुयागस्य देवतास्मरणरूपसंस्कारं कुर्वन्पुरोडाश-यागोऽग्नीषोमीयस्य सन्निपत्योपकारक इति दाशमिकमर्थं सिद्धवत्कृत्य किमयं पशुपुरोडाशयागः पशुदेवतायाः स्मरणरूपं संस्कारं कुर्वन् दृष्टार्थ एव उतादृष्टार्थोऽपीति संशये एकं वा चोदनेनैकत्वा-दित्येकेनैव प्रयोजनेन विध्युपपत्तेः प्रयोजनद्वयं नाश्रयणीयमिति पूर्वपक्षे, देवतोद्देशेन त्यागरूपस्य यागस्योद्देशांशे दृष्टार्थत्वेऽपि त्यागांशेऽदृष्टार्थत्वं विनाऽनुपपत्तेरुभयार्थत्वमिति सिद्धान्तः ।। श्रुति-बलादिति ।। ‘दध्ना जुहोति’ दध्नेन्द्रियकामस्य जुहुयादिति तृतीयाश्रुतिबलात् ।। क्रत्वर्थत्वेति ।। चतुर्थस्य तृतीये चिन्तितम्– ‘एकस्य तूभयार्थत्वे संयोगपृथक्त्वम्’ । अग्निहोत्रे श्रूयते ‘दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयात्’ इति । तत्र किं फलार्थमेव दध्युत क्रत्वर्थमपीति संशये फलवाक्येन दध्नः फलसम्बन्धविधायकेन तस्य होमसम्बन्धविधानायोगात्फलवाक्यापेक्षितदधिहोमसम्बन्धविधायकतया होमवाक्यस्य फलवाक्यैकवाक्यतया होमे दधिविधायकस्य वाक्यान्तरस्याभावात्फलार्थमेव दधीति प्राप्ते सिद्धरूपस्य दध्नः स्वतोऽननुष्ठेयस्य फलार्थत्वेन विधानायोगात्तदुपपत्तये स्वतः साध्यक्रिया-रूपाश्रयापेक्षायामपि प्रकरणेनैव होमरूपाश्रयसम्बन्धलाभान्न तदर्थं ‘दध्ना जुहोति’ इत्यस्य तदेकवाक्यतेति तेन पृथगेव क्रत्वर्थतया दधिविधानादुभयार्थं दधीति सिद्धान्तः ।

नित्यत्वकाम्यत्वेति ।। द्वितीयस्य चतुर्थेऽभिहितम् । ‘यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्’ । ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति श्रूयते । तत्र यावज्जीववाक्येन स्वर्गकामवाक्योक्ते काम्यप्रयोगे यावज्जीवम् अभ्यासलक्षणो गुणो विधीयतेऽधि-कारान्तरं वेति संशये प्रकरणानुग्रहात्प्रकृत एव काम्यप्रयोगे यावज्जीवनकालं अभ्यासलक्षणो गणिो विधीयते पूर्वः पक्षः । गुणविधौ जीवनशब्देन तत्सहचरितकालो लक्षणीयः । जुहोतिशब्देन चाभ्यासः । अधिकारान्तरचोदनायां श्रुत्यर्थस्य जीवनस्याधिकारिविशेषणत्वाद्यागस्यैव च विधेयत्वान्न क्वापि लक्षणेत्यधिकारान्तरचोदना । ततश्च वाक्यद्वयवशात्काम्यो नित्यश्च दर्शपूर्णमासप्रयोग इति सिद्धान्तः

।। आवश्यकत्वादिति ।। वीर्यवत्तरफलसाधनत्वेन ।। प्रत्यवायेति ।। तादृशफलासिद्धिरूपः प्रत्यवायः ।। एतेनेति ।। ‘अध्ययनविधेरवैयर्थ्याय’ इत्याद्युक्तेन ।। ब्रह्मज्ञानफलस्यापीति ।। ‘सर्वे वेदाः’ इत्यादिश्रुतेः ।।

।। इति अध्ययविधेर्नित्यत्वेऽपि विचारविधायकत्वम् ।। ६ ।।