एवं चाक्षस्य लिङ्गादिबाध्यत्वे कालात्ययापदिष्टादेर्दोषता वा..

२५. मिथ्यात्वानुमितेः अग्निशैत्यानुमितिसाम्यम्

न्यायामृतम्

एवं चाक्षस्य लिङ्गादिबाध्यत्वे कालात्ययापदिष्टादेर्दोषता वा त्याज्या व्यवस्थापकं वा वक्तव्यम् । अत्रोक्तं खण्डने तत्राक्षसिद्धस्पर्शनश्रुत्युष्णत्वायजमानत्वादि- वल्लिङ्गशब्दग्राह्यसर्ववेष्टनश्रुत्यनुष्णत्वयजमानत्वादिकमपि व्यावहारिकम् । इह त्वक्षसिद्धं सत्यत्वं व्यावहारिकम् । लिङ्गशब्दग्राह्यं मिथ्यात्वं तु तात्त्विकम् । एवं च–

पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः ।

विरोधादुपजीव्येन न बिभेति कदाचन ।। (खं.खा.) इति ।

तत्र किं सत्यत्वमिथ्यात्वग्राहिणोर्व्यावहारिकतात्त्विकविषयकत्वाद्बाध्यबाधकतैव नेति भावः, किं वा मिथ्यात्वग्राहितात्त्विकविषयकत्वाद्बाधकमेव, न तु बाध्यमिति ? आद्येऽप्यनुमित्यादिकं किमक्षसिद्धव्यावहारिकसत्त्वस्याभावमगृहीत्वैव तदसिद्धस्य तात्त्विकसत्यत्वस्यैवाभावं गृह्णाति, किं वा तत्सिद्धस्यैव प्रतिपन्नोपाधौ तात्त्विकम-भावम्? नाद्यः, मिथ्यात्वश्रुत्यादेरप्रसक्तप्रतिषेधत्वापातात् । अक्षसिद्धस्य सत्त्वस्य प्रतिपन्नोपाधावभावाग्रहणे तस्य तात्त्विकत्वापाताच्च । न द्वितीयः । प्रतिपन्नोपाधौ तात्त्विकतदभावग्राहिण एव तद्बाधकत्वेनाबाधोक्त्ययोगात् । नान्त्यः, उपजीव्यप्रत्यक्ष-बाधितस्य मिथ्यात्वस्य तात्त्विकत्वायोगात् । योगे वाऽनौष्ण्यमपि तात्त्विकं स्यात् । एवं च ‘‘आदित्यो यूपः’’ इत्यादावपि–

तात्त्विकादित्यतां यूपस्याश्रित्य शरणं श्रुतिः ।

विरोधादुपजीव्येन न बिभेति कदाचन ।। इति स्यात् ।

नन्विदमनौष्ण्यमतात्त्विकविश्वान्तर्गतेन जलाद्यनौष्ण्येन तुल्यस्वभावं चेन्न तात्त्विकम् । न चेदद्वैतस्यैव नामान्तरं स्यादिति चेत्, , विश्वमिथ्यात्वमपि घटादि-तुल्यतयाऽक्षसिद्धेनातात्त्विकेन रूप्यादिमिथ्यात्वेन समस्वभावं चेन्न तात्त्विकम् । न चेत् द्वैतस्यैव नामान्तरं स्यादिति साम्यात् । ननु तात्त्विकत्वमात्रेण विलक्षणमपि तन्मिथ्यात्व-लक्षणयुक्तमिति चेदिदमपि तन्मात्रेण विलक्षणमपि स्पर्शत्वव्याप्यजातिविशेषवदाश्रयत्व-रूपानौष्ण्यलक्षणयुक्तमिति समम् । ननु प्रातिभासिकस्यैव मिथ्यात्वं व्यावहारिकं, व्यावहारिकस्य तु तात्त्विकमिति चेन्न, जलादिस्थस्य प्रातिभासिकौष्ण्यस्याभाव एव व्यावहारिकः, अग्न्यादिस्थस्य व्यावहारिकौष्ण्यस्य तु तात्त्विक इत्यापातात् । तस्मा-न्मिथ्यात्वं तात्त्विकं अनौष्ण्यं तु व्यावहारिकमिति व्यवस्था न युक्ता । अस्तु वा सा, तथापि तात्त्विकमिथ्यात्वानुमितिबाधेन सत्यत्वस्य व्यावहारिकत्ववत् व्यावहारिका-नुष्णत्वानुमितिबाधेनौष्ण्यं नभोनैल्यवत् स्वार्थक्रियया सह स्वप्नवत् प्रातिभासिकं स्यात् । तत्त्वप्रदीपिकायां तु औष्ण्यधीप्रामाण्ये उभयसम्मतिः, सत्त्वबुद्धौ तु नेत्युक्तम्, तन्न, इहाऽसम्मतौ हेत्वभावात् । तत्त्वशुद्धौ तु मिथ्यात्वानुमितिः श्रुत्यनुगृहीतेति नाक्षबाध्या । इतरा तु नेति तद्बाध्येत्युक्तम् । तन्न, मिथ्यात्वश्रुतेः (अग्निर्हिमस्य भेषजमिति श्रुतेः) अनुमितहिमनिवारणशक्त्यनुवादित्ववत् अनुमितासत्यमिथ्यात्वानुवादित्वोपपत्तेः । मिथ्यात्वानुमितिस्तर्कानुगृहीता इतरा तु नेति चेन्न, तर्काणां मिथ्यात्वानुमिति वदक्षबाधेनात्मक्षणिकत्वादितर्काणामिवाभासत्वात् । उक्तं च सुरेश्वरवार्तिके बौद्धम् प्रति–

प्रत्यभिज्ञायमानेऽर्थे तदेवेदमिति ध्रुवे ।

लिङ्गमाभासतामेति प्रत्यक्षार्थविरुद्धदृग् ।। इति ।

नन्वनौष्ण्यस्यैष्ण्यनिरूप्यत्वात्तस्य चाग्न्यादावेव ग्राह्यत्वात्तत्र तदभावानुमा बाधिता, मिथ्यात्वं तु न सत्यत्वाभावः, किं तु भावान्तरम् । अभावत्वेऽपि तत्प्रति-योगि सत्त्वं ब्रह्मणि प्रसिद्धमिति चेन्न, औष्ण्यतदभावयोर्व्यावहारिकत्वतात्त्विकत्वाभ्यां प्रातिभासिकत्वव्यावहारिकत्वाभ्यां वा व्यवस्थोक्तेः । तत्र प्रतियोगिग्राहिण उपजीव्यत्वे इह च धर्म्यादिग्राहिणस्सुतरामुपजीव्यत्वाच्च । उष्णमात्रे शैत्यस्य, उष्णविशेषे वाऽनुष्णत्वस्य साधनेऽबाधापाताच्च एतेनौष्ण्यात्यन्ताभावात्मकमनौष्ण्यं औष्ण्य मिथ्यात्वरूपमेवेति तस्य तात्त्विकतेष्टेति निरस्तम्, शैत्यस्यातद्रूपत्वात् । तस्मात्–

स्वतः प्रमात्वं प्रत्यक्षे लिङ्गाद्यैः स्वोपजीविभिः ।

स्वविरोधान्मृत्यवस्थामापन्नैर्नैव बाध्यते ।।

अद्वैतसिद्धिः

ननु यदि प्रत्यक्षबाधितमप्यनुमानं साधयेत्तदा वह्न्यनौष्ण्यमपि साधयेत् । तथा च कालात्यया-पदिष्टकथा सर्वत्रोच्छिद्येत । न च औष्ण्यप्रतियोगिकाभावे साध्ये पक्ष एव प्रतियोगिप्रसिद्धिरिति तत्र बाधः सावकाशः । प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्षसिद्धम् । तदविरुद्धं च मिथ्यात्वम्, तस्य पारमार्थिकसत्त्वविरोधित्वात् । अतो न व्यावहारिकसत्त्वग्राहकेणाध्यक्षेण बाध्यत इति वाच्यम् । वह्निविशेषे औष्ण्याभावानुमाने शैत्यानुमाने वा तदभावात् । पक्षातिरिक्तस्य प्रतियोगिप्रसिद्धिस्थलस्य तत्र सत्त्वात् । न च यत्र प्रत्यक्षं प्रबलं तत्र बाधव्यवस्था, न चात्र तथेति न बाध इति वाच्यम् । प्रकृतेऽप्यौष्ण्यप्रत्यक्षसमकक्षस्य प्राबल्यप्रयोजकस्य विद्यमानत्वात् । अनौष्ण्यानुमितेर्मिथ्यात्वानुमितेश्च समानयोगक्षेमत्वात् । न च मिथ्यात्ववादिनां प्रतिपन्नोपाधावौष्ण्यनिषेधग्राह्यनुमानेन मिथ्यात्वानुमितेः समत्वमिष्टमेवेति वाच्यम् । औष्ण्यानौष्ण्ययोर्भावाभावरूपतया तदनुमितिसाम्येऽपि शैत्यानुमिति-साम्यस्यानभ्युपगमात् शैत्यस्यौष्ण्याभावरूपत्वाभावात् । तस्माद् बाधस्य दोषता वा त्याज्या औष्ण्यप्रत्यक्षायजमानत्वप्रत्यक्षादेः सत्त्वप्रत्यक्षापेक्षया विशेषो वा वक्तव्यः । न च औष्ण्यप्रत्यक्षं परीक्षितोभयवादिसिद्धप्रामाण्यम् । सत्त्वप्रत्यक्षं तु न तथेति विशेष इति वाच्यम् । सत्त्वप्रत्यक्षेऽपि प्रामाण्यासम्मतौ हेत्वभावात् । परीक्षायास्तुल्यत्वाद् इति चेन्मैवम् । विरुद्धार्थग्राहित्वेन विशेषात् । प्रत्यक्षसिद्धायजमानत्वौष्ण्यादिवच्छब्दलिङ्गग्राह्ययजमानत्वानौष्ण्याद्यपि व्यावहारिकमिति समत्वात् प्रत्यक्षेण बाध्यते । प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्षसिद्धम् । तद्विरुद्धं च न मिथ्यात्वम् । तस्य पारमार्थिकसत्वविरोधित्वात् । अतो न तद् व्यावहारिकसत्त्वग्राहकेणाध्यक्षेण बाध्यते ।

ननु एवं वदतस्तव कोऽभिप्रायः? किं तात्त्विकविषयत्वाद् बाधकतैव मिथ्यात्वानुमानादेर्न बाध्यता? उत सत्त्वमिथ्यात्वग्राहिणोर्व्यावहारिकतात्त्विकविषययोः परस्परविरुद्धविषयत्वाभावात् न बाध्यबाधकभावः । अन्त्येऽपि किमध्यक्षसिद्धव्यावहारिकसत्त्वमगृहीत्वैव तदसिद्धस्य तात्त्विकसत्त्व-स्यैवाभावं गृह्णात्यनुमानादि? उत प्रत्यक्षविषयीकृतस्यैव तात्त्विकमभावम्? नान्त्यः । प्रत्यक्षविषया-भावग्राहिणि तदबाधकत्वोक्त्ययोगात् । न द्वितीयः । प्रत्यक्षागृहीतप्रतिषेधकत्वेनाप्रसक्तप्रतिषेधापत्तेः प्रत्यक्षविषयस्य तात्त्विकत्वापत्तेश्च । न प्रथमः । उपजीव्यप्रत्यक्षविरोधेनानुमित्यादिविषयस्य तात्विकत्वासिद्धेः इति चेन्न । प्रथमे द्वितीये च पक्षे अनुपपत्त्यभावात् । तथा हि– प्रथमे पक्षे न तात्त्विकत्वासिद्धिः, यस्मात् ‘इदं रजतं’ इत्यनेन ‘नेदं रजतं’ इत्यस्य बाधादर्शनात् परीक्षितमेव बाधकमभ्युपेयम् । परीक्षा च प्रवृत्तिसंवादादिरूपा व्यवहारदशायामबाध्यत्वं विनाऽनुपपन्ना तद्दशा बाधग्राहिणं बाधते, नाद्वैतश्रुत्यनुमानादिकमित्युक्तमेव । द्वितीयेऽपि पक्षे नाप्रसक्तप्रतिषेधः । परोक्षप्रसक्तेः सम्भवात् । यत्तु केचिदात्मनि तात्त्विकसत्त्वप्रसिद्ध्या प्रसक्तिमुपपादयन्ति, तन्न । न हि प्रतियोगिज्ञानमात्रं प्रसक्तिः, किं तर्हि निषेधाधिकरणप्रतियोगिज्ञानम् । न चात्मा निषेधाधि-करणम् । तस्मात्परोक्षप्रसक्तिरेव दर्शनीया । अथवा, मा भूत् प्रसक्तिः । अभावप्रत्यक्षे हि संसर्गा-रोपत्वेन सोपयुज्यते । शब्दानुमानयोस्तु तस्याः क्वोपयोगः । न चाप्रसक्तौ निषेधवैयर्थ्यम् । अनर्थ-निवृत्तिरूपस्य प्रयोजनस्य विद्यमानत्वात् । न च प्रत्यक्षविषयतात्त्विकत्वापत्तिः । तद्विषयाधि-करणस्यैव पारमार्थिकत्वव्यतिरेकस्य बोधनात् । तथा च न काऽप्यनुपपत्तिः । तदुक्तं खण्डनकृद्भिः

पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः ।

 विरोधादुपजीव्येन न बिभेति कदाचन ।।’ इति ।

ननु एवमप्यनौष्ण्यं तात्त्विकमिति तदनुमितिरपि न बाध्येत व्यावहारिकौष्ण्यग्राहिणाध्यक्षेण । एवं ‘च आदित्यो यूप’ इत्यादावपि

तात्त्विकादित्यतां यूपस्याश्रित्य शरणं श्रुतिः ।

 विरोधादुपजीव्येन न बिभेति कदाचन ।।’

इत्याद्यपि स्यात् इति चेन्न । अनौष्ण्यं तात्त्विकं स्यादिति कोऽर्थः ? यदि तत्त्वत औष्ण्यं नास्तीत्यर्थः, तदा औते पर्यवसानादिष्टापत्तिः । यदि व्यवहारतोऽपि नास्तीति, तदा व्यवहारा-विसंवादादिरूपपरीक्षितत्वविशिष्टमौष्ण्यप्रत्यक्षं बाधकमिति नानौष्ण्यस्य तात्त्विकत्वसिद्धिः । एतेन शैत्यानुमानं व्याख्यातम् । एवमादित्ययूपभेदस्य तत्त्वतो व्यवहारतो वा निषेधे योज्यम् । श्रुतेरन्य-शेषतया आदित्ययूपाभेदपरत्वाभावेन परीक्षितप्रत्यक्षविरोधेन गौणार्थतया स्तावकत्वोपपत्तेश्च । अत एव ‘तात्त्विकादित्यतां यूपस्य’ इत्यादिना अद्वैतश्रुतेः ‘आदित्यो यूपः’ इत्यादिश्रुतिसाम्यापादनम् अपास्तम् । न च अनुमितिसिद्धमिथ्यात्वग्राहकत्वे सत्यद्वैतश्रुतिरनुवादिका स्यात्, यथाऽग्निर्हिमस्य भेषजम् इत्यादिश्रुतिः प्रमाणान्तरगृहीतहिमनिवारणशक्त्यनुवादिकेति वाच्यम् । स्वस्वचमत्कारानु-सारिणोऽनुमानस्य सकलसाधारण्याभावेन तस्य श्रुत्यनुवादकत्वाप्रयोजकत्वात् । तदुक्तं – ‘तर्काप्रतिष्ठानात्’ इत्यत्र वाचस्पतिमिश्रैः–

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।

 अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।।’ इति ।

दृष्टान्तीकृतश्रुतौ तु हिमनिवृत्तिकारणताया वह्नौ सर्वसाधारणप्रत्यक्षार्थापत्तिभ्यामवसेयत्वा-द्वैषम्यम् । तस्मान्मिथ्यात्वानुमानस्य न वह्निशैत्यानुमितिसाम्यम् । इति मिथ्यात्वानुमानस्य शैत्यानुमितिसाम्यभङ्गः ।।

न्यायामृततरङ्गिणी

मिथ्यात्वश्रुतेरिति । अत्र केचिदात्मनि तात्विकसत्त्वप्रसिद्ध्या प्रसक्तिमुपपादयन्ति । तन्न । न हि प्रतियोगिज्ञानमात्रं प्रसक्तिः । किन्तु निषेधाधिकरणकप्रतियोगिज्ञानम् । न चात्मा निषेधाधिकरणम् । अन्ये त्वेवं वदन्ति । मा भूत्प्रसक्तिः । अभावप्रत्यक्षे हि संसर्गारोपत्वेन सोपयुज्यते । शब्दानुमानयोस्तु तस्याः क्वोपयोगः । न चाप्रसक्तौ निषेधवैयर्थ्यम् । अनर्थ-निवृत्तिरूपस्य प्रयोजनस्य विद्यमानत्वादिति । अत्र ब्रूमः । दशमाध्याये अष्टमपादे ‘‘अपूर्वे चार्थवादः स्यात्’’ इत्यधिकरणे न सोमे अध्वरे इत्यस्य नञः प्राप्त्यभावेन निषेधार्थत्वा-सम्भवादर्थवादत्वमभिहितम् । तद्विरुध्येत । तथा हि । दर्शपूर्णमासयोराज्यभागावग्नीषोमाभ्यां यजतीत्याज्यभागौ विधाय तौ न पशोः करोतीति निषिध्य पश्चान्न सोमेऽध्वर इति श्रूयते । तत्र किमयं प्रतिषेधः पर्युदासो वाऽर्थवादो वेति संशयः । तत्रासमस्तत्वात्प्रतिषेधः । प्रतिषेधोन्नीत-प्रसक्त्या च विकल्पभयात्पर्युदासः । ननु सोमस्योपदेशातिदेशाभ्यां आज्यभागप्राप्त्यभावादुभय-मप्ययुक्तम् । सत्यम् । साक्षात् सोमे नाज्यभागौ स्तः । दीक्षणीयादिद्वारेण त्याज्यभागाभ्यां सोमस्यास्ति सम्बन्धः । सप्तदशारत्निर्वाजपेयस्य यूप इति यूपवाजपेयवत्स प्रतिषिध्यते । तदनेन प्रकारेण सोमाङ्गेषु दीक्षणीयादिष्वाज्यभागप्रतिषेधः पर्युदासो वेति प्राप्ते ब्रूमः । यद्युपदेशेनाति-देशेन वाऽऽज्यभागौ सोमे प्राप्नुयातां नातो निषेधः स्यात् । यदि च सोमासोमसाधारण-माज्यभागविधानमभविष्यत्ततोऽसोम इति पर्युदासो वा कल्प्यः स्यात् । न त्वेवमस्ति । न चादीक्षणीयादिषु प्रतिषेधः । तथा सति न सोम इत्यनेनैवाग्नीषोमीयेऽपि पशौ प्रतिषेधसिद्धेः । तत एव तद्विकारेषु निरूढादिपशुष्वपि प्राप्त्यभावान्न पशाविति प्रतिषेधोऽनर्थकः स्यात् । सोम-शब्दस्यैवं लक्षणा स्यात् । न च वाजपेयस्य यूपेनेवाङ्गद्वारकः सोम आज्यभागयोः सम्बन्धोऽव-गम्यते । तत्र वाजपेयस्येति हि षष्ठ्या सामान्येन सम्बन्ध्युपात्तः । तस्य सप्तदशारत्निता विधीयते । सम्बन्धमात्रं चाङ्गाङ्गस्याप्यस्त्येवेति युक्तो यूपे निवेशः । इह त्वाधारत्वेनाङ्गितया सोमः श्रूयते न सम्बन्धिमात्रतया । न च परम्परासम्बन्धेऽस्त्याधारत्वमिति साक्षादेवायं सोम-सम्बन्धः प्रतीयते । स चाप्राप्त इति प्रतिषेधासम्भवः । तस्मान्न पशावित्यस्यायमर्थवादः । यथा सोमस्य नाज्यभागावेवं पशावपीति । इत्थं महाभागावाज्यभागौ यौ सोमेऽक्रियमाणौ तावत्र पशौ न क्रियेते इति स्तुतिः । तौ न पशाविति तु प्रतिषेध इति वक्ष्यते । तदेतद्विरुद्धं स्यात् । न च तत्र प्रयोजनाभावादप्राप्तनिषेधासम्भवेऽपि प्रकृतेऽनर्थनिवृत्तिरूपप्रयोजनसत्त्वादप्राप्तनिषेधो युज्यत इति वाच्यम् । जगन्मिथ्यात्वज्ञानादेरनर्थनिवर्तकत्वस्यासिद्धेः । तमेवं विद्वानमृत इत्यादिना सगुणब्रह्मज्ञानस्यैव मोक्षसाधनत्वोक्तेः । किं च तौ न पशौ करोतीत्यत्र वाक्ये नञः प्रतिषेधार्थत्वमाश्रित्य विकल्प उक्तः । तदप्यप्रसक्तप्रतिषेधपक्षे न सङ्गतं स्यात् । तथा हि । न तावदयं पर्युदासः । यदि पशुप्रकरणे इदं श्रूयेत तथा सति चोदकेन प्राप्तावाज्यभागौ पर्युदास्ये-याताम् । आज्यभागवर्जं प्रकृतिवत्कुर्यादिति । इह तु दर्शपूर्णमासप्रकरणे इदं विपरिवर्तते । तत्र यदीयं वचनव्यक्तिराज्यभागवर्जं दर्शपूर्णमासौ कुर्यादिति दर्शपूर्णमासविधिशेषः स्यात्ततो विधानमाज्यभागयोरनर्थकं स्यात् । पशावित्ययं च प्रमादपाठः स्यात् । तस्मान्न पशावित्ययं प्रतिषेधः । न चाप्रसक्तस्य प्रतिषेधः सम्भवतीति प्रसक्तिरपि निषेधादेवोन्नीयते । तथा च पशावाज्यभागयोर्विकल्प इति व्यवस्थापितम् । तदेतद्विरुद्धं स्यात् । यत्तु नाप्रसक्तप्रतिषेधः परोक्षप्रसक्तेः सम्भवादिति । तदपि न । परोक्षप्रसक्तिः किमनुमानेन वाऽऽगमेन वा । नाद्यः । श्रुत्या प्रत्यक्षेण वाऽननुगृहीतस्यानुमानस्यार्थासाधकत्वान्निषेधवैयर्थ्यम् । तदुक्तं – वाचस्पत्ये तर्काप्रतिष्ठानादित्यत्र–

‘‘यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।

अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।।’’ इति ।

न द्वितीयः । श्रुत्या प्रसक्तस्य श्रुत्या निषेधायोगात् । विकल्पापत्तेश्च । तस्मात्साधूक्तं मिथ्यात्वश्रुतेरप्रसक्तप्रतिषेधत्वापातादिति ।

अक्षसिद्धस्येति । अत्र केचित् । न प्रत्यक्षविषयस्य तात्विकत्वापत्तिः । तद्विषयाधि-करणस्यैव पारमार्थिकत्वव्यतिरेकस्य बोधनादित्याहुः । तन्न । व्यधिकरणत्वात् । तथा हि– श्रुत्यप्रतिपादितप्रतिपन्नोपाध्यधिकरणाभावकस्य प्रपञ्चगतव्यावहारिकसत्त्वस्य तात्विकताया आपादनीयत्वात् । प्रातिभासिके रूप्ये व्यावहारिकत्वनिषेधे प्रातिभासिकत्वस्य व्यावहारिकत्व-वद्व्यावहारिके प्रपञ्चे पारमार्थिकत्वनिषेधे व्यावहारिकत्वस्य पारमार्थिकत्वापातात् । न च व्यावहारिकत्वेऽपि प्रत्यक्षसिद्धव्यावहारिकत्वाबाधेन पारमार्थिकत्वनिषेधात् न व्यावहारिकत्वस्य तात्विकतापत्तिरिति वाच्यम् । तथा सति प्रपञ्चगतस्य प्रत्यक्षसिद्धव्यावहारिकत्वस्य निषेध-प्रसक्तावुपजीव्यविरोधेन श्रुतेरेवानुत्थानात् । योगे वेति । तथा च वन्ह्यनौष्ण्यानुमिते-स्तात्विकानौष्ण्यविषयतया न प्रत्यक्षबाध्यत्वं स्यादित्यर्थः । नन्विदमिति । इदं वह्नौ साध्यमानमनौष्ण्यमुष्णत्वाभावः जलादिसाधारणश्चेन्न तात्विकः किं तु व्यावहारिकः । तथा च प्रतियोगितदभावग्राहकयोः प्रत्यक्षानुमानयोरेकसत्तया तदुभयग्राहकत्वात्प्रत्यक्षस्यानुमानबाधकत्व-मेव । यदि तु प्रतियोग्यधिकसत्ताको ब्रह्मरूपस्तदतिरिक्तो वा अत्यन्ताभाव उष्णत्वस्य साध्यते तर्हि वह्नावुष्णत्वाभावानुमितिरप्युष्णत्वमिथ्यात्वानुमितिरेव । यत्र यत्प्रतीयते तत्र तस्य तात्त्विकाभावसाधनमेव मिथ्यात्वानुमानम् । तथा च यथा मम मते जगन्मिथ्यात्वानुमानस्य तात्विकजगदत्यन्ताभावग्राहकस्य व्यावहारिकजगद्ग्राहकेण प्रत्यक्षेण न बाधस्तथा वह्न्य-नौष्ण्यानुमानस्याप्यौष्ण्यप्रत्यक्षेण न बाध इत्यर्थः । विश्वमिथ्यात्वमपीति । जगन्मिथ्या-त्वानुमित्या साध्यमानं मिथ्यात्वं जगदन्तर्गतेन रूप्यमिथ्यात्वेन तुल्यसत्त्वं चेद्व्यावहारिकमेव । न तात्विकम् । तथा च प्रत्यक्षविरोध एव । यदि रूप्यसमसत्त्वं मिथ्यात्वं मिथ्यात्वानुमिति-विषयस्तर्हि जगतो न मिथ्यात्वसिद्धिः । प्रत्युत मिथ्याभूतमिथ्यात्वसिद्ध्या द्वैतसिद्धिरेव स्यादित्यर्थः । ननु रूप्येण वा तन्मिथ्यात्वेन वा समसत्त्वं मिथ्यात्वं न मिथ्यात्वानुमिति-विषयः । येनोक्तदोषः स्यात् । किन्तु तात्विकमित्यवोचाम । न च दृष्टान्ते साध्याप्रसिद्धिः । दृष्टान्ते रूप्यादौ विद्यमानस्य जगति साध्यमानस्य च मिथ्यात्वस्य व्यावहारिकत्वतात्विक-त्वाभ्यां वैलक्षण्येऽपि द्वयोरपि बाधधीबोधनीयत्वादिरूपमिथ्यात्वलक्षणयुक्तत्वादित्याह । ननु तात्विकत्वेति । इदमपीति । अग्नावनौष्ण्यानुमितिरपि जलादिविलक्षणमपूर्वमेवानौष्ण्यं गृह्णीयात् । तथा च न प्रत्यक्षबाधः स्यादित्यर्थः । ननु यद्यपि रूप्यमिथ्यात्वसमानमेव मिथ्यात्वं साध्यते । तथापि व्यावहारिकं साध्यमानं मिथ्यात्वं पक्षधर्मताबलात्तात्विकं सेत्स्यतीत्याह । ननु प्रातिभासिकस्येति । जलादिस्थस्येति । तथा च व्यावहारिकस्यौष्ण्यस्याभावोऽग्न्यादौ साध्यमानस्तात्विक एव सेत्स्यतीति न कालात्ययापदिष्टदोषस्यावकाशोऽस्तीत्यर्थः । ननु व्यावहारिकौष्ण्यवति तदभावः प्रातिभासिकोऽपि स्यात् । प्रतियोगिसत्त्वविरोधस्योभयथापि सम्भवादिति चेत्तर्हि व्यावहारिकसत्त्ववति मिथ्यात्वरूपसत्त्वाभावोऽपि प्रातिभासिक एव स्यान्न तात्विकः । तथा च प्रत्यक्षबाधो मिथ्यात्वानुमितेरिति भावः ।

मिथ्यात्वानुष्णत्वानुमित्योर्वैलक्षण्यं शङ्कते । तत्वप्रदीपिकायां त्विति । हेत्वभावादिति । औष्ण्यज्ञानप्रामाण्ये सम्मतिवज्जगत्सत्यत्वज्ञानप्रामाण्यमपि त्वयाङ्गीकार्यम् । तदनङ्गीकारे हेत्व-भावात् । तथा च तत्राप्युभयसम्मतिरस्त्येवेति भावः । मिथ्यात्वश्रुतेरिति । तथा च मिथ्यात्वानुवादरूपत्वेन मिथ्यात्वश्रुतेर्न मिथ्यात्वानुमित्यनुग्राहकत्वमित्यर्थः । यत्तु स्वस्वच-मत्कारानुसारिणोऽनुमानस्य सकलसाधारण्याभावेन श्रुत्यनुवादकत्वाप्रयोजकत्वमिति । तन्न । तथा सति नानुमानं परं प्रत्युपन्यसनीयम् । अनाश्वासात् । अनौष्ण्यानुमितेरपि दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्तीत्यापाततः श्रुत्यनुगृहीतत्वाच्च । आपाततः प्रतीतेऽर्थे तात्पर्याभावस्तु शीतश्रुतेरिव मिथ्यात्वश्रुतेरप्यविशिष्टः । उष्णमात्रे शैत्यस्येति । तस्यौष्ण्यनिरूप्यत्वात् उष्णविशेषे अनौष्ण्यसाधने औष्ण्यज्ञानस्य पक्षातिरिक्तेऽपि सम्भवान्न पक्षे प्रतियोगिज्ञानापेक्षेति भावः । एतेनेति । जलादिसाधारणौष्ण्यात्यन्ताभावातिरिक्तौष्ण्या-त्यन्ताभावरूपमित्यर्थः । अतद्रूपत्वादिति । औष्ण्याभावरूपत्वाभावादित्यर्थः । स्वतः प्रमात्वमिति । अनुमानाद्यविरोधानधीनमित्यर्थः ।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यां मैथ्यशैत्यानुमे समे ।।

न्यायामृतकण्टकोद्धारः

किञ्च मिथ्यात्वानुमानं वह्न्यनौष्ण्यसाधकानुमानतुल्यमित्याह– एवञ्चेति । एवञ्चेत्यस्यैव विवरणं – अक्षस्य लिङ्गबाध्यत्वे इति । व्यवस्थापकाभावे मिथ्यात्वानुमानं वह्न्यनौष्ण्यानु-मानसमानयोगक्षेममिति भावः । न च मिथ्यात्ववादिनः प्रतिपन्नोपाधौ औष्ण्यनिषेधग्राह्यानु-मानेन मिथ्यात्वानुमितेः साम्यमिष्टमेवेति वाच्यम् । अनौष्ण्यस्य उष्णत्वाभावरूपत्वानभ्युप-गमात् । स्पर्शत्वव्याप्यजातिविशेषवत्त्वस्य तत्त्वात् । शैत्यानुमानसाम्यस्यानिष्टत्वाच्च । अतः व्यवस्थापकं वक्तव्यमेवेति भावः । व्यवस्थापकमाह – अत्रेति ।। एवञ्चेति । ‘बाधनादुप-जीव्येन न बिभेति मनागपि’ इत्यपि पाठः । मनागपि ईषदपि । श्रुतिः अनुमानञ्च पारमार्थिकमद्वैतं शरणं प्रविश्य पारमार्थिकं द्वैताभावं बोधयित्वेति यावत्, उपजीव्येन व्यावहारिकद्वितीयग्राहिप्रत्यक्षरूपेण विरोधात् न बिभेति । अप्रामाण्यं न प्राप्नोति इत्यर्थः । श्रुतिरित्युपलक्षणम् । अनुमानञ्चेत्यपि ग्राह्यम् । मिथ्यात्वश्रुत्यादेरिति । न च अपरोक्ष-प्रसक्त्यभावेऽपि परोक्षप्रसक्तिसम्भवात् निषोधोपपत्तिरिति वाच्यम् । परोक्षप्रसक्तिरपि श्रुत्याऽनु-मानेन वा वाच्या । एवञ्च श्रुत्यनुमानसिद्धस्य पारमार्थिकसत्वस्याभावः न श्रुत्याऽनुमानेन वा बोधयितुं शक्यते श्रुत्यनुमानविरोधादेव । न च तयोर्दुर्बलत्वमिति वाच्यम् । प्रत्यक्षसहकृतत्वेन प्राबल्यसम्भवात् । नन्वप्रसक्तस्यैव निषेधोऽस्तु । अभावप्रत्यक्षे हि संसर्गरोपत्वेन सा उपयुज्यते । अनुमानागमयोस्तु तस्याः क्व उपयोगः । न च अप्रसक्तौ निषेधवैयर्थ्यमिति वाच्यम् । अनर्थनिवृत्तिरूपस्य प्रयोजनस्य सद्भावादिति चेन्मैवम् । शब्दानुमानयोः परार्थत्वेन परप्रसक्तस्यैव निषेद्धव्यत्वात् । प्रत्यक्षस्य च कथञ्चिदप्रसक्तप्रतिषेधसम्भवादित्यबोधविजृम्भित-मेतत् । न च प्रयोजनसद्भावेन प्रतिषेध इति वाच्यम् । द्वितीयनिषेधस्य अनर्थनिवृत्तिरूपं प्रयोजनमित्यस्याद्याप्यसिद्धेः ।

अक्षसिद्धस्येति । ननु तद्विषयाधिकरणस्यैव पारमार्थिकत्वव्यतिरेकबोधनान्न तस्य तात्त्विकत्वापत्तिरिति चेन्न । तत्सिद्धसत्त्वाभावबोधनं विना पारमार्थिकत्वव्यतिरेकस्य बोधयितु-मशक्यत्वात् । तदभावाग्रहणे तस्यैव प्रतिपन्नोपाधावभावाप्रतियोगित्वेन पारमार्थिकत्वात् । उपजीव्येति । परीक्षितत्वमप्यत्र विशेषणं बोध्यम् । तेनोपजीव्येदंरजतमिति ज्ञानबाधितत्वेऽपि रजताभावस्य नातात्त्विकत्वमिति ध्येयम् । न च परीक्षया व्यावहारिकप्रामाण्यस्यैव सिद्धत्वेन परीक्षितोपजीव्यप्रत्यक्षं व्यावहारिकसत्त्वाभावग्राहिणं बाधते, न श्रुत्यनुमानादिकमिति वाच्यम् । अबाधितपरीक्षया बाध्यरूपव्यावहारिकप्रामाण्यासिद्धेः । किंतु अबाधितप्रामाण्यमेव सिध्यति । अन्यथा प्रत्यभिज्ञारूपप्रत्यक्षस्य क्षणिकत्वानुमानं बाधकं स्यादित्युक्तत्वात् । अनौष्ण्यमपीति । न चेष्टापत्तिरद्वैतिनामिति वाच्यम् । मिथ्यात्वानुमानस्येव अनौष्ण्यानुमानस्यापि बाधकत्वापत्त्या कालात्ययापदिष्टोच्छेदापत्तेरिति भावः । ननु अनौष्ण्यं तात्त्विकं स्यादिति कोऽर्थः? यदि तत्त्वतः औष्ण्यं नास्तीत्यर्थः तदा औते पर्यवसानादिष्टापत्तिः । यदि व्यवहारतोऽपि नास्तीति तदा व्यावहारिकौष्ण्यग्राहकं बाधकमिति चेन्मैवम् । उष्णत्वविरोध्यनुष्णत्वं तात्त्विकं स्यादित्यापादनात् । न च औते पर्यवसानादिष्टापत्तिरिति वाच्यम् । अनौष्ण्यस्य स्पर्शत्व-व्याप्यजातिविशेषत्वेन भावद्वैतपर्यवसानेन इष्टापत्त्यभावात् । यद्वा, उष्णत्वाभावः तात्त्विकः स्यादित्यापाद्यते । न च इष्टापत्तिः । सर्वाद्वैतमतेऽनिष्टत्वात् । अभावद्वैतस्य च पूर्वमेव निरस्त-त्वात् । न च अभावः ब्रह्मस्वरूपम् । सोपाधिकनिरुपाधिकयोरैक्यासम्भवात् । अन्यथा परोपाधिकसार्वज्ञादीनां ब्रह्मस्वरूपत्वं स्यादित्युक्तत्वाच्च । यद्वा, व्यवहारतोऽपि उष्णत्वं न स्यादित्यापाद्यते । न च प्रत्यक्षविरोधः । यथा तात्त्विकमिथ्यात्वग्राहकानुमानविरोधात् जग-

त्सत्यत्वग्राहिप्रत्यक्षं व्यावहारिकसत्त्वपरं तथा व्यावहारिकानौष्ण्यग्राहकानुमानविरोधात् औष्ण्य- ग्राहिप्रत्यक्षं प्रातिभासिकपरं स्यादित्यत्र पर्यवसानात् । अत एवाग्रे तथैव विभावयिष्यति ।

एतेन शैत्यानुमाने शैत्यमपि व्यावहारिकसत्यं स्यात्, तद्विरोधात् उष्णत्वग्राहिप्रत्यक्षं प्रातिभासिकपरं स्यादित्युपपादितम् । एतेनैव यजमानः प्रस्तरः इत्यादीनां तात्विकयजमान-परत्वापादनमुपपादितम् । न च यजमानः प्रस्तरः इत्यादीनामन्यशेषतया स्वार्थपरत्वाभावेन परीक्षितप्रत्यक्षविरोधेन गौणार्थतया स्तावकत्वमिति कथं तात्विकयजमानपरत्वमिति वाच्यम् । अपूर्वतालक्षणतात्पर्यलिङ्गसद्भावे अन्यशेषत्वमात्रेण स्वार्थपरत्वाभावस्य वक्तुमशक्यत्वात् । अन्यथा प्रयाजादिवाक्यानामपि अन्यशेषत्वात् स्वार्थपरत्वं न स्यात् । न च परीक्षितत्प्रत्यक्ष-विरोधेन स्वार्थपरत्वाभाव इति वाच्यम् । परीक्षया हि त्वन्मते व्यावहारिकप्रामाण्यं भवति । तथा च तात्विकयजमानत्वग्राहिश्रुत्यादेः कथं तद्विरोधेन स्वार्थपरत्वाभावः । अन्यथा परीक्षितजगत्प्रत्यक्षविरोधेन औतागमादेरपि स्वार्थपरत्वं न स्यात् । अत एव ‘तात्विकादित्यतां यूपस्य’ इत्याद्युक्तं युक्ततरम् । कथमनौष्ण्यानुमितेरौष्ण्य प्रत्यक्षबाधकत्वम्? जलाद्यनौष्ण्यसम-स्वभावानौष्ण्यविषयकत्वे तात्त्विकविषयकत्वस्यैवायोगात् । तद्विलक्षणानौष्ण्यविषयकत्वे च सा मिथ्यात्वानुमितिरेवेति तस्याबाधकत्वमिष्टमेवेति वैषम्यं शङ्कते – नन्विति । न्यायसाम्येन परिहरति विश्वमिथ्यात्वमपीति । घटादितुल्यतयेति । अक्षसिद्धस्यापि रूप्यमिथ्यात्वस्य तात्विकत्वे घटादेरपि तात्त्विकत्वापत्तिरिति भावः । न चेदिति । रूप्यमिथ्यात्वेनासमस्वभावं चेत् तस्य प्रतियोगिप्रतिक्षेपकत्वाभावापत्त्या घटादेरमिथ्यात्वं स्यादिति भावः । द्वैतस्यैवेति । भिन्ने वस्तुनि मिथ्यापदस्य सङ्केतसम्भवात् । अश्वकर्णादिशब्दानां वृक्षादाविवेति भावः । तात्त्विकत्वेन विलक्षणमपीदं मिथ्यात्वं प्रतियोगिप्रतिक्षेपकत्वरूपरूप्यमिथ्यात्वस्वभावयुक्तमिति न द्वैतस्य नामान्तरतापत्तिरित्याशयेन शङ्कते – नन्विति । इदमपीति । न च नञ्शिरस्क-शब्दवाच्यत्वादनौष्ण्यमभावशब्दवाच्यवदभावरूपमेवेति वाच्यम् । भावस्यापि तादृशशब्द-वाच्यत्वसम्भवात् । पापस्याधर्मशब्दवाच्यत्ववत् । अन्यथा अज्ञानस्य भावरूपत्वं न स्यात् इति । स्पर्शत्वव्याप्येति । अत्र जातिविशेषवदाश्रयत्वपर्यन्तोक्तिः औष्ण्याभावशैत्योभय-सङ्ग्रहायैव । न चात्र वह्नावेव औष्ण्याभावो शैत्यं वा साध्यम् । न ह्युक्तो धर्मस्तथा, स्पर्श-निष्ठत्वादिति वाच्यम् । परम्परासम्बन्धेन तत्रापि साध्यसम्भवात् इत्याहुः । अनुमिति-विषयेऽनौष्ण्ये तात्त्विकत्वप्रयोजकरूपाभावान्न तात्त्विकमित्यतो न साम्यमित्याशङ्कते – ननु प्रातिभासिकस्यैवेति । अग्न्यादिस्थस्येति । उष्णत्वाभावः अनौष्ण्यमित्यङ्गीकृत्य इदमुदितम् । वस्तुतः एवं बोद्धव्यम् । प्रातिभासिकौष्ण्यविरुद्धं व्यावहारिकम् । व्यावहारिकौष्ण्यविरुद्धन्तु तात्विकम् । तेन भावरूपमभावरूपमनौष्ण्यं सङ्गृहीतमिति न पूर्वविरोधः । एतेन शैत्यानु-मानमपि सङ्गृहीतम् । तात्विकशैत्यस्य व्यावहारिकौष्ण्यवति सम्भवादिति भावः ।

मिथ्यात्वश्रुतेरिति । ननु वैषम्यम् । दार्ष्टान्तिके स्वस्वचमत्कारानुसारिणोऽनुमानस्य सर्वसाधारण्याभावात् श्रुत्यनुवादकत्वाप्रयोजकत्वम् । दृष्टान्तीकृते च श्रुतिवाक्ये वह्नौ हिमनिवृत्तिकारणतायाः सर्वसाधारणप्रत्यक्षार्थापत्तिभ्यामवसेयत्वादनुवादकत्वमिति चेन्न । मीमांसिता हि श्रुतिरद्वैतबोधिका । मीमांसा च युक्त्यनुसन्धानम् । तथा च श्रुत्यर्थज्ञप्तिवेलायां मिथ्यात्वानुमितेरावश्यकत्वात् श्रुतेरनुवादकत्वं स्यादेव । अन्यथा दृष्टान्तेऽपि प्रत्यक्षेण यदा हिमनिवारकत्वनिश्चयो न जातः तदा अग्निर्हिमस्य भेषजमिति प्रवृत्तिसम्भवेन प्रत्यक्षस्यापि तदनुवादकत्वप्रयोजकत्वासम्भवात् । तस्मात् सा प्रतिपादितार्थप्रतिपादकत्वेनानुवादिका यथा तथाऽद्वैतश्रुतिरपीति भावः । औष्ण्यतदभावयोरिति । इदमुपलक्षणम् । मिथ्यात्वं तु सत्यत्वाभाव एवेति पूर्वमुपपादितम् । तथा च सत्यत्वनिराकरणं सत्त्वप्रसक्तिमन्तरा न भवति । प्रसक्तिश्च न यत्र कुत्रापि । किंतु अभावाधिकरणे । अन्यथा प्रतिषेधवैयर्थ्यम् । तथा च सत्त्वप्रसक्तिः पक्षे प्रत्यक्षादिनेति उष्णत्वग्राहिप्रत्यक्षतुल्यं जगत्सत्त्वग्राहि प्रत्यक्षमित्यपि द्रष्टव्यम् । किञ्च प्रतियोगिग्राहित्वेनोपजीव्यत्वं न प्राबल्यप्रयोजकम् । शुक्तिरूप्यज्ञानादौ व्यभिचारात् । धर्म्यादिग्राहित्वेनैवोपजीव्यत्वं तथा । तस्य क्वचिदप्यव्यभिचारात् । तच्च प्रत्यक्षादावस्तीत्याह – इह धर्म्यादीति । सुतरामिति । प्रतियोगिज्ञानं हि परम्परयोपयोगि । धर्मिणः पक्षत्वात् तज्ज्ञानं तु साक्षादेवोपयोगीति भावः ।

उष्णमात्रे शैत्यस्येति शैत्यस्य उष्णनिरूप्यत्वात् औष्ण्यज्ञानस्य न प्रतियोगिग्राहकत्वे-नोपजीव्यत्वमिति भावः । उष्णविशेषे वेति । ब्रह्मणि मिथ्यात्वप्रतियोगिनः सत्त्वस्येव पक्षादन्यत्रैव उष्णविशेषे अनौष्ण्यप्रतियोग्यौष्ण्यग्रहसम्भवेन यथा मिथ्यात्वप्रतियोगिसत्त्वस्य पक्ष एव ग्राह्यत्वान्न बाधः, तथा प्रकृतेऽप्यापद्येतेति भावः । शैत्यस्येति । उपलक्षणं चैतत् । अनौष्ण्यस्यापि भावरूपत्वस्योक्तत्वादिति । उक्तमर्थं सङ्गृह्णाति – तस्मादिति । स्वविरोधात् प्रत्यक्षविरोधात् ।

न्यायामृतप्रकाशः

।। व्यवस्थापकं वेति ।। एतादृशस्थले अक्षस्य लिङ्गबाध्यत्वं, एतादृशस्थले नेति व्यवस्थापकं वक्तव्यमित्यर्थः । उक्तं व्यवस्थापकमुक्तमित्यर्थः ।। लिङ्गेति ।। सर्ववेष्टनस्मृत्या श्रुतिरनुमीयते यतोऽतो लिङ्गग्राह्या सर्ववेष्टनश्रुतिः । पदार्थत्वादिलिङ्गग्राह्यमनुष्णत्वम् । ‘‘यजमानः प्रस्तर’’ इति शब्दग्राह्यं यजमानत्वमिति विवेकः । तथा चोष्णत्वप्रत्यक्षेणानौष्ण्यानुमानं बाध्यते । उभयोरपि व्यावहारिकत्वेनाक्षसिद्धव्यावहारिकौष्ण्यनिषेधरूपत्वादनुमानस्य । अतोऽनुमानमेवाक्षबाध्यम् । समानविषयकत्वात् । समानविषयकत्वं नाम तत्सिद्धसाध्यसमानसत्ताकवस्तुविषयकत्वं विवक्षितम् । प्रकृते चाक्षग्राह्यसत्त्वस्य व्यावहारिकतयाऽनुमानविषयस्य सत्त्वनिषेधरूपमिथ्यात्वस्य तात्विकतया भिन्नविषयकत्वादनुमानेनैवात्र प्रत्यक्षं बाध्यम् अतः समानविषयकत्वे बाध्यबाधकभावः । भिन्न-विषयत्वे तु नेत्येवं व्यवस्थापकमस्तीत्यर्थः । औतं द्वितीयनिषेधरूपं मिथ्यात्वम् ।। शरणमिति ।। तत्प्रतिपादकत्वादिति यावत् । श्रुतिः नेहनानेत्यादिका । अनुमानं च ग्राह्यम् । व्यावहारिकसत्त्व-ग्राहिणोपजीव्यप्रत्यक्षेण विरोधान्न बिभेतीत्यर्थः ।। किंवेति ।। बाध्यबाधकभावमङ्गीकृत्य मिथ्यात्व-ग्राहिप्रमाणं तात्विकविषयकत्वाद्बाधकमेव न तु बाध्यम् । बाध्यं तु प्रत्यक्षमेवेति भाव इत्यर्थः । अनुमित्यादिकं मिथ्यात्वावगाह्यनुमित्यादिकमित्यर्थः । तदसिद्धस्य अक्षासिद्धस्य । तत्सिद्धस्यैव प्रत्यक्षसिद्धतात्विकसत्त्वस्यैव । मिथ्यात्वश्रुतेः तात्विकसत्त्वनिषेधपरायाः ।। अप्रसक्तेति ।। तात्विकसत्त्वस्य प्रत्यक्षासिद्धत्वेनाप्रसक्तत्वादित्यर्थः ।। अक्षसिद्धस्येति ।। अक्षसिद्धसत्त्वाभाव-मगृहीत्वैव तदसिद्धसत्त्वस्याभावग्रहणेऽक्षसिद्धसत्त्वाभावग्राहकत्वाभावेन तस्याबाधितत्वप्राप्त्याऽक्ष-सिद्धसत्त्वस्य तात्विकत्वं स्यादित्यर्थः ।। तात्विकतदभावेति ।। तात्विको यः सत्त्वाभावः तद्ग्राहिण एवेत्यर्थः । तद्बाधकत्वेन अक्षसिद्धसत्त्वबाधकत्वेन ।। अबाधोक्तीति ।। समानविषयकत्वप्राप्त्याऽ-बाधोक्त्ययोगादित्यर्थः ।। उपजीव्येति ।। तथा च ‘‘मिथ्यात्वग्राहितात्विकविषयकत्वाद्बाधक-मेवे’’त्ययुक्तमिति भावः ।। योगे वेति ।। उपजीव्यप्रत्यक्षबाधितस्यापि तात्विकत्वयोग इत्यर्थः । तात्विकादित्यतां तात्विकादित्याभेदम् ।। श्रुतिरिति ।। ‘‘आदित्यो यूप’’ इति श्रुतिरित्यर्थः ।। उपजीव्येनेति ।। व्यावहारिकभेदग्राह्युपजीव्यप्रत्यक्षविरोधान्न बिभेतीत्यर्थः ।

योगे वाऽनौष्ण्यमपि तात्विकं स्यादित्युक्तं तदयुक्तमित्याशङ्कते ।। नन्विदमिति ।। वह्नौ साध्यमानं तात्विकतया भवद्भिरापाद्यमानम् अनौष्ण्यमित्यर्थः । तुल्यस्वभावं व्यावहारिकम् ।। न चेदिति ।। अतात्विकजलाद्यनौष्ण्येन व्यावहारिकेण समस्वभावं न चेत्तर्ह्यौष्ण्याभावस्तात्विकः प्राप्तः । तथा चास्मादभिमततात्विकद्वितीयाभाव एव पर्यवसन्न इति तस्यैवेदं नामान्तरमित्यर्थः । तथा चेष्टापत्तिरिति भावः । विश्वमिथ्यात्वं अनुमानेन त्वया साध्यमानम् । अतात्विकेन व्यावहारिकेण । न तात्विकम् । तथा च मिथ्यात्वस्य तात्विकत्वाभावे जगतः पारमार्थिकत्वसिद्धिरिति भावः ।। न चेदिति ।। प्रपञ्चनिष्ठं मिथ्यात्वं अर्थक्रियानर्हरूप्यादिनिष्ठमिथ्यात्वसमस्वभावं न भवति, किंत्वर्थ-क्रियाकारित्वाद्यविरोधि किञ्चिदस्तीत्यङ्गीक्रियमाणे ब्रह्मभिन्नसत्यप्रपञ्चप्राप्त्या द्वैतस्यैव नामान्तरं स्यात् । अद्वैतस्यैव नामान्तरं स्यादित्येतत्प्रतिबन्दीत्वेनोक्तम् । वस्तुतस्तु – प्रपञ्चे मिथ्याभूत-रूप्यादिवैलक्षण्यप्राप्त्या तत्स्वरूपोपमर्दकं न स्यात् । तथा च तत्स्वरूपसहिष्णोस्तत्प्रतिषेधत्वस्य पारिभाषिकत्वापातादित्यत्र तात्पर्यमिति ज्ञेयम् ।

साम्याभावमाशङ्कते ।। नन्विति ।। विलक्षणं व्यावहारिकात् रूप्यमिथ्यात्वात् । तत् प्रपञ्चनिष्ठं मिथ्यात्वं ।। मिथ्यात्वेति ।। प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपमिथ्यात्वलक्षणसत्त्वमात्रेण तत्र मिथ्यात्वमिति व्यपदिश्यत इत्यर्थः । इदमपि वह्नौ साध्यमानानौष्ण्यमपि ।। तन्मात्रेणेति ।। तात्विकत्वमात्रेण विश्वांतर्गतव्यावहारिकजलाद्यनौष्ण्यविलक्षणमपि अनौष्ण्यलक्षणयुक्तत्वादेवा-नौष्ण्यमिति व्यपदिश्यत इत्यर्थः । अनौष्ण्यं लक्षयति ।। स्पर्शत्वेति ।। स्पर्शत्वव्याप्यो यो जाति-विशेषः शीतत्वं तद्वान् शीतस्पर्शः तदाश्रयो जलादिरनुष्ण इत्युच्यते तन्निष्ठधर्मत्वमेवानौष्ण्य-मित्यर्थः । पुनर्व्यवस्थापकान्तरं शङ्कते ।। नन्विति ।। प्रातिभासिकस्य मिथ्यात्वं प्रातिभासिक-प्रतियोगिकप्रतिपन्नोपाधिनिषेधः ।। व्यावहारिकस्येति ।। व्यावहारिकप्रपञ्चप्रतियोगिको निषेध-स्तात्विकः । अतस्तात्विकनिषेधग्राह्यनुमानमेव व्यावहारिकसत्त्वावगाहिप्रत्यक्षस्य बाधकमिति भावः । प्रातिभासिकप्रतियोगिको निषेध एव व्यावहारिक इत्यस्य प्रतिबन्दीमाह ।। जलादीति ।। मिथ्यात्वं निषेध इत्यव्याख्याने औष्ण्यस्याभाव इति प्रतिबन्द्ययोग इति मन्तव्यम् । व्यावहारिकप्रतियोगिक-निषेधस्तात्विक इत्यस्यापि प्रतिबन्दीमाह ।। अग्न्यादिस्थस्येति ।। औष्ण्यस्य त्वित्यनन्तरं अभाव इति वर्तते ।

खण्डनकारोक्तां व्यवस्थां दूषयित्वोपसंहरति – तस्मादिति । मिथ्यात्वं लिङ्गशब्दग्राह्यम् । व्यावहारिकं स्पर्शनश्रुत्युष्णत्वायजमानत्वादिवदित्यर्थः । सा व्यवस्था । सत्यत्वस्य अक्षसिद्धस्य ।। व्यावहारिकेति ।। तात्विकमिथ्यात्वविषयकानुमितिबाधेनाक्षसिद्धस्य व्यावहारिकत्वे व्यावहारिका-नुष्णत्वानुमितिबाधेनाक्षसिद्धमौष्ण्यं नभोनैल्यवत्प्रातिभासिकं स्यात् न्यायसाम्यादिति शेषः । न चौष्ण्यस्य प्रातिभासिकत्वे करतलानलसंयोगाद्दाहाद्यर्थक्रिया न स्यादिति वाच्यम् । अर्थक्रियया सह स्वप्नस्य यथा प्रातिभासिकत्वं तद्वत् दाहाद्यर्थक्रियया सहैवौष्ण्यं प्रातिभासिकमित्यर्थः । न च वह्नावनुमितिविषयभूतमनौष्ण्यं प्रातिभासिकमेव न व्यावहारिकमिति वाच्यम् । तर्हि मिथ्यात्वानु-मितिविषयभूतमिथ्यात्वमपि प्रातिभासिकमेव न तात्विकमिति समम् । पुनर्व्यवस्थापकमाशङ्क्य निषेधति ।। तत्वेति ।। उभयेति ।। वादिप्रतिवादीत्यर्थः । तथा च प्रत्यक्षेणैवानुमानबाधः । सत्वबुद्धिप्रामाण्येनोभयसम्मतिः । भवतां सम्मतत्वेऽपि ममासम्मतेः । अतोऽत्रानुमानमेव प्रत्यक्ष-बाधकमित्यर्थः ।। इहेति ।। सत्वबुद्धिप्रामाण्य इत्यर्थः । पुनर्व्यवस्थापकान्तरमाशङ्क्य निषेधति ।। तत्त्वशुद्धाविति ।। इतरा अनुष्णत्वानुमितिः श्रुत्यनुगृहीता नेत्यक्षबाध्येत्यर्थः ।। मिथ्यात्वेति ।। मिथ्यात्वानुमित्यनुग्राहिका श्रुतिरनुवादकत्वेनाप्रमाणम् । न च मिथ्यात्वस्याप्राप्तत्वात् श्रुतेः तदनु-वादकत्वायोगः । दृश्यत्वेनानुमितासत्यमिथ्यात्वानुवादित्वसम्भवात् । न चानुमानप्राप्तानुवादकत्वं श्रुतेः कथमिति वाच्यम् । यथा वह्नौ हिमनिवारणशक्तेरतीन्द्रियत्वेन प्रत्यक्षसिद्धत्वाभावात् अयं वह्निर्हिमनिवारणशक्तिमान् उद्भूतोष्णस्पर्श विशेषवत्त्वादित्याद्यनुमानसिद्धहिमनिवारणशक्त्यनुवादित्वम् ‘‘अग्निर्हिमस्य भेषज’’मितिश्रुतेर्दृष्टं तद्वदित्यर्थः ।

पुनर्व्यवस्थापकान्तरमाशङ्क्य निराचष्टे ।। मिथ्यात्वेति ।। अतो नाक्षबाध्येत्यर्थः । इतरा अग्न्यनौष्ण्यानुमितिर्न तर्कानुगृहीताऽतो बाध्येत्यर्थः ।। उक्तं चेति ।। अक्षबाधेनात्मक्षणिकत्वतर्काणा-माभासत्वमित्यर्थः । ध्रुवे सति ।। लिङ्गं क्षणिकत्वसाधकं सत्त्वम् ।। प्रत्यक्षेति ।। यत इति शेषः । योऽहं पाकादिकर्ताऽभवं सोऽहमधुना व्याख्याताऽभवमिति स्थैर्यग्राहिप्रत्यभिज्ञाप्रत्यक्षसिद्धार्थ-विरुद्धार्थज्ञानजनकमित्यर्थः । मिथ्यात्वानुमितेरग्न्यनौष्ण्यानुमितिवैषम्यमाशङ्कते ।। नन्विति ।। तस्य चेति ।। प्रतियोगिभूतौष्ण्यस्य । तत्र वह्नौ । तदभावानुमा अनौष्ण्यानुमा । प्रतियोगिग्राहक-तयोपजीव्येन प्रत्यक्षेण बाधितेत्यर्थः ।। मिथ्यात्वं त्विति ।। येन पक्ष एव सत्यत्वरूपप्रतियोगि-ग्राहकतयोपजीव्येन प्रत्यक्षेण बाधः स्यादित्यर्थः । अभावत्वेऽपि सत्यत्वाभावत्वेऽपि । प्रतियोगिसत्त्वं तत्प्रतियोगिभूतसत्त्वं ।। ब्रह्मणीति । तथा चौष्ण्यस्य पक्ष एव ग्रहणवत् न सत्यत्वरूपप्रतियोगिज्ञानं पक्ष एवापेक्षितं येन पक्ष एव प्रतियोगिग्राहकतयोपजीव्यप्रत्यक्षेण बाधः स्यादित्यर्थः । औष्ण्य-प्रत्यक्षानौष्ण्यानुमित्योर्भिन्नविषयत्वाद्बाध्यबाधकभाव एव नास्तीत्याह ।। औष्ण्येति ।। इहेति ।। पक्ष एव प्रतियोगिग्राहकत्वेनोपजीव्यत्वाभावेऽपीत्यर्थः । किञ्च मिथ्यात्वं न सत्यत्वाभावः, किंतु भावान्तरमभावत्वेऽपि प्रतियोगिसत्त्वं ब्रह्मणि प्रसिद्धमित्यत्र न्यायसाम्येन दोषमाह ।। उष्णमात्र इति ।। अयमर्थः । अग्न्यनौष्ण्यानुमितेर्न प्रत्यक्षबाधो युक्तः । न च प्रत्यक्षे प्रतियोग्युष्णत्व-ग्राहकत्वेनोपजीव्यत्वाद्युक्त इति वाच्यम् । यदा प्रत्यक्षसिद्धं तेजः पक्षीकृत्यानुष्णत्वं साध्यते तदा बाधो न स्यादेव । प्रतियोगिभूतौष्ण्यस्य च तेजोन्तरे ग्रहणसम्भवेन पक्ष एवाग्रहणात् । अथवा सर्वं तेजःपक्षीक्रियते । ननु तर्ह्युष्णत्वं प्रतियोगिभूतं पक्ष एव प्रत्यक्षेण ज्ञातव्यमिति तद्बाधः स्यादेवेति चेत् स्यादेतदेवं यद्यनौष्ण्यं साध्येत । न चैवं किन्तु शैत्यं साध्यते । तथा च तस्य भावरूपत्वेन न तत्र प्रतियोगिग्रहापेक्षा । अतः प्रतियोगिग्राहकतयोपजीव्येन प्रत्यक्षेण तत्राबाधापातादिति । योगे वाऽनौष्ण्यमपि तात्विकं स्यादिति पूर्वमापादितम् । तदुपरि केनचिदिष्टापत्तिः स्वग्रन्थे प्रतिपादिताऽस्ति तामाशङ्क्य दूषयति ।। एतेनेति ।। एतेनेत्युक्तं विवृणोति ।। शैत्यस्येति ।। स्यादिदं यद्यनौष्ण्यं साध्येत । नह्येवं, किंनाम शैत्यं साध्यते । तदा नैवं वक्तुं शक्यम् । शैत्यस्य भावरूपत्वेन औष्ण्यात्यन्ताभावात्मकत्वाभावात् । अस्माभिरपि योगे वा शैत्यमपि तात्विकं स्यादित्येवापाद्य-मानत्वान्नेष्टापत्तेरवकाश इति भावः । सङ्गृह्णाति ।। तस्मादिति ।। प्रत्यक्षोपजीविभिर्लिङ्गाद्यैः । स्वविरोधात् प्रत्यक्षविरोधात् । मृत्यवस्थामापन्नैः प्रत्यक्षे विद्यमानं यत् स्वतः प्रामाण्यं तन्नैव बाध्यत इति कारिकार्थः ।।

न्यायकल्पलता

एवं चेति । परीक्षितप्रमाणभावेन प्राबल्ये सत्यपीत्यर्थः । व्यवस्थापकं वेति । अपरीक्षितप्रमाणं भावत्वं तद्बाध्यत्वे प्रयोजकमित्यर्थः । परमतमनुवदति । अत्रेति । अद्वैतमिति । द्वैतमिथ्यात्वमित्यर्थः । उपन्यस्तं परमतं दूषयितुमुपक्रमते । तत्रेति । उपजीव्यत्वेन प्रत्यक्षस्य प्राबल्ये सतीत्यर्थः । आद्य-स्याद्याभावे हेतुमाह । मिथ्यात्वश्रुत्यादेरिति । प्रत्यक्षागृहीतप्रतिषेधकत्वादित्यर्थः । ननु नाप्रसक्तनिषेधः । परोक्षप्रसक्तेः सम्भवात् । यदत्र केचिदात्मनि तात्विकसत्वप्रसिध्या प्रसक्तिमाहुः । तदसत् । नहि प्रतिज्ञानमात्रं प्रसक्तिः । किन्तु निषेधाधिकरणकप्रतियोगिज्ञानम् । न चात्मा निषेधाधिकरणम् । तस्मात्परोक्षप्रसक्तिरेव दर्शनीया । अथवा माभूत्प्रसक्तिः । अभावप्रत्यक्षे हि संसर्गारोपत्वेन सोपयुज्यते । शब्दानुमानयोस्तु तस्याः क्वोपयोगः । नचाप्रसक्तौ निषेधवैय्यर्थ्यम् । अनर्थनिवृत्तिरूपस्य प्रयोजनस्य विद्यमानत्वादिति । मैवम् । परोक्षतः प्रसक्तिः किमनुमानेनोतागमेन । नाद्यः । श्रुत्या प्रत्यक्षेण वाऽननुगृहीतस्यानुमानस्यार्थासाधकत्वान्निषेधवैय्यर्थ्यम् । तदुक्तं वाचस्पतिना तर्काप्रतिष्ठानादित्यत्र ।

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।

अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।। इति ।

नचेयं केवलानुमानजन्या भ्रान्तिरूपैव प्रसक्तिरिति युक्तम्् । द्वैतसाधकानुमानस्य श्रुत्याद्यनुग्रहस्य वक्ष्यमाणतया तज्जन्यानुमितेर्भ्रान्तित्वस्यायोगात् । न द्वितीयः । श्रुत्याऽवगतस्य श्रुत्या निषेधानुपपत्तेः । विकल्पापत्तेश्च ।

यत्तूक्तं न चाप्रसक्तौ निषेधवैय्यर्थ्यमित्यादि । तदप्यसत् । तथाहि । दशमाध्यायेऽष्ठमपादे चिन्तितम् । अपूर्वे चार्थवादः स्यादित्यधिकरणे न सोमेऽध्वरे इत्यत्र श्रुतस्य नञः प्राप्त्यभावेन निषेधार्थत्वासम्भवादर्थवादत्वमभिहितम् । तद्विरोधः प्रसज्येत । दर्शपूर्णमासयोराज्यभागाग्नीषोमाभ्यां यजतीत्याज्यभागौ विधाय तौ न पशोः करोतीत्युक्त्वाऽनन्तरं सोमे अध्वरे इति श्रूयते । तत्र किमयं प्रतिषेधो वा पर्युदासो वाऽर्थवादो वेति संशयः । तत्रासमस्तत्वान्मुख्यार्थलाभाच्च प्रतिषेधः । प्रतिषेधोन्नीतप्रसक्त्या च विकल्पभयात्पर्युदासो वेति पूर्वपक्षः ।

ननु न प्रतिषेधः पर्युदासो वा सम्भवति । सोमे आज्यभागयोरनाम्नानेन सोमस्य दर्शपूर्णमास-कृतित्वाभावेन चोपदेशतो वा तत्र तयोः प्राप्त्यभावादिति । सत्यम् । यद्यपि साक्षात्सोमेनाज्यभागयो-रुपदेशतः प्राप्तिस्तथापि तदङ्गभूतेषु दीक्षणीयादिषु तयोरिति देशतः प्राप्त्याऽङ्गभूतदीक्षणीयादिद्वारेण त्वाज्यभागाभ्यां सोमस्यास्ति सम्बन्धः । सप्तदशारत्निर्वाजपेयस्य यूपवाजपेयवत् स प्रतिषिध्यते । तदनेन प्रकारेण सोमाङ्गेषु दीक्षणीयादिषु  न सोमेऽध्वर इति सोमद्वाराऽऽज्यभागयोः प्रतिषेधः पर्युदासो वेति प्राप्ते सिद्धान्तः । यद्युपदेशेनातिदेशेन वाऽऽज्यभागौ सोमे प्राप्नुयातां ततो निषेधः स्यात् । यदि सोमासोमसाधारणमाज्यभागविधानमभविष्यत्ततोऽसोम इति पर्युदासो वा कल्प्यः स्यात् । नत्वेवमस्ति । न च दीक्षणीयाद्यङ्गेषु प्रतिषेधः । तथा सति प्रकृतिपशोरग्नीषोमीयस्यापि सोमाङ्गतया न सोम इत्यनेनैव तत्राज्यभागप्रतिषेेधेन तदनुष्ठानसिद्धेस्तत एव तद्विकारेषु निरूढादिपशुष्वपि प्राप्त्यभावान्न तौ पशाविति प्रतिषेधो व्यर्थः स्यात् । सोमशब्दस्यैवं लक्षणा च स्यात् । न च वाजपेयस्य यूपेनेवाङ्गद्वारकः सोमे आज्यभागसम्बन्धोऽवगम्यते । तत्र वाजपेयस्येति षष्ठ्या सामान्येन सम्बन्ध्युपात्तः । तस्य सप्तदशा-रत्निता विधीयते । सम्बन्धमात्रं चाङ्गाङ्गस्याप्यस्त्येवेति युक्तो यूपे निवेशः । इह त्वाधारत्वेनाङ्गितया सोमः श्रूयते । न सम्बन्धिमात्रतया । न च परम्परासम्बन्धेऽस्त्याधारत्वमिति साक्षादेवायं सोमसम्बन्धः प्रतीयते । स चाप्राप्त इति प्रतिषेधासम्भवः । तस्मान्न तौ पशाविति पशावाज्यभागप्रतिषेधस्य न सोम इत्ययमर्थवादः । यथा सोमस्य नाज्यभागावेवं पशावपीति । एवमाज्यभागप्रतिषेधः प्रशस्तः । यदाज्यभागरहितेन महाक्रतुना सोमेन साम्यमापदयतीति । इत्थं महाभागावाज्यभागौ सोमे यावक्रियमाणौ तावत्र पशौ न क्रियते इति वा स्तुतिः । तौ न पशाविति तु प्रतिषेध इति वक्ष्यते । तथा च मिथ्यात्वाभिमतश्रुतेरप्रसक्तप्रतिषेधकत्वे जैमिनीयैतदधिकरणविरोधः प्रसज्यते ।

न च तत्र प्रयोजनाभावादप्राप्तनिषेधासम्भवेऽपि प्रकृतेऽनर्थनिवृत्तिरूपप्रयोजनसत्वादप्राप्तनिषेधो युज्यत इति वाच्यम् । द्वैतमिथ्यात्वज्ञानादेरनर्थनिवर्तकत्वस्य प्रमाणाभावेनासिद्धेः । ‘‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते । तमेवं विदित्वाऽतिमृत्युमेती’’त्यादिना जीवजडात्मकप्रपञ्चात्यन्तभिन्नानन्तानवद्यगुण-ब्रह्मज्ञानस्यैव मोक्षसाधनत्वश्रवणात् ।

किञ्च । नेह नानास्ति किञ्चनेति श्रुतेरप्रसक्ततात्विकद्वैतसत्वनिषेधकत्वपक्षे तौ न पशौ करोतीत्यत्र वाक्ये नञः प्रतिषेधार्थमाश्रित्य विकल्प उक्तः । तदप्यप्रसक्तनिषेधपक्षे न संगतं स्यात् । तथाहि । किमयं प्रतिषेधः पर्युदासो वेति चिन्तनीयम् । प्रतिषेधपक्षे विकल्पपरिहाराय पर्युदासार्थत्वप्राप्ताविद-मुच्यते । नायं पर्युदासः । यदीदं वाक्यं पशुप्रकरणे श्रूयेत । तथा सति चोदकेन प्राप्तावाज्यभागौ पर्युदस्येयाताम् । आज्यभागवर्ज्यं प्रकृतिवत्कुर्यादिति । इदं तु वाक्यमिह दर्शपूर्णमासप्रकरणे विपरिवर्तते । तत्र यदीयं वचनव्यक्तिः आज्यभागवर्ज्जं दर्शपूर्णमासौ कुर्यादिति दर्शपूर्णमासविधिशेषः स्यात्ततो विधानमाज्यभागयोरनर्थकं स्यात् । पशावित्ययं च प्रमादपाठः स्यात् । अपि च पर्युदासत्वे अनन्तरवृत्ताज्यभागविधिशेषत्वं तावन्न सम्भवति । तस्य पूर्णमासमात्रविषयत्वेन पशुसाधारण्याभावात् । पशुव्यतिरिक्तत्वस्य च वैय्यर्थ्येन दर्शपूर्णमासविशेषणत्वायोगात् । नापि पाशुककृप्रकतिवच्छब्दशेषत्वम् । तस्यात्रासन्निधानात् । तच्छेषत्वेन च न सोमेऽध्वरे इत्यर्थवादानन्वयप्रसङ्गात् । नह्येवं सम्भवति । यथा सोमस्याज्यभागव्यतिरिक्तमैष्टिकमङ्गं कर्तव्यं तथा पशोरपीति । तस्यापूर्वत्वादैष्टिकाङ्गाभावात् । सम्भवति त्वेवं यथा सोमस्याज्यभागौ न कर्तव्यौ तथा पशोरपीति । तस्मान्न पशावित्ययं प्रतिषेधः । तस्य च शास्त्रीयप्राप्तिसापेक्षत्वात् । प्रकारान्तरेण प्राप्तेरसम्भवात् । न चाप्रसक्तस्य प्रतिषेधः सम्भवतीति प्रसक्तिरपि निषेधादेवोन्नीयते । तथा च पशावाज्यभागतत्प्रतिषेधयोरगत्या विकल्प इति व्यवस्थापितम् । तदेतद्विरुद्धं स्यादिति । दोषान्तरमभ्युच्चिनोति । अक्षसिद्धस्येति । प्रतिपन्नोपाधौ  मिथ्यात्वश्रुत्या तस्यानिषिद्धत्वात् ।

यदत्र केनचित् प्रलपितम् । न प्रत्यक्षविषयस्य तात्विकत्वापत्तिः । तद्विषयाधिकरणस्यैव पारमार्थिकत्वव्यतिरेकस्य श्रुत्या बोधनादिति । तन्न  । प्रतिपन्नस्यानिषेधेन व्यधिकरणत्वात् । अव्यावहारिकत्वरूपपारमार्थिकत्वस्य च प्रतिषेधात् । श्रुत्यप्रतिपादितप्रतिपन्नोपाधिरूपाधिकरणाभावकस्य प्रपञ्चगतव्यावहारिकसत्वस्यास्माभिस्तात्विकताया आपदनीयत्वाच्च । तथाहि । प्रातिभासिके रूप्ये व्यावहारिकत्वनिषेधे प्रातिभासिकत्वस्य प्रतिपन्नोपाधावनिषिद्धत्वाद्यथा व्यावहारिकत्वम् । तथा व्यावहारिके प्रपञ्चे पारमार्थिकत्वस्य निषेधे तद्गतव्यावहारिकत्वस्य पारमार्थिकत्वमापद्यत इति । न च व्यावहारिकेऽपि प्रत्यक्षसिद्धव्यावहारिकत्वबाधेन पारमार्थिकत्वनिषेधान्न व्यावहारिकत्वस्य तात्विकत्वा-पत्तिरिति शङ्कनीयम् । तथासति प्रपञ्चगतस्य प्रत्यक्षसिद्धव्यावहारिकत्वस्य निषेधप्राप्तावुपजीव्यविरोधेन मिथ्यात्वश्रुतेरेवानुत्थानात् ।

मिथ्यात्वानुमित्यादिकं प्रत्यक्षसिद्धस्यैव प्रतिपन्नोपाधौ तात्विकमभावं गृह्णातीति पक्षं निषेधति । न द्वितीय इति । अबाधोक्त्ययोगादिति । व्याघातादिति भावः । तृतीयं दूषयति । नान्त्य इति । योगेवेति । एवं च वह्न्यनौष्ण्यानुमितेस्तात्विकानौष्णविषयतया न प्रत्यक्षबाधः स्यात् । तथा च यदि प्रत्यक्षबाधितमप्यनुमानं साधयेत् तदा वह्न्यनौष्ण्यमपि साधयेत् तथा च कालात्ययापदिष्टकथा सर्वत्रोच्छिद्येतेत्यर्थः । न चौष्ण्यप्रतियोगिकाभावे साध्ये पक्ष एव प्रतियोगिप्रसिद्धिरिति तत्र बाधः सावकाश इति वाच्यम् । वह्निविशेषे औष्ण्याभावानुमाने शैत्यानुमाने वा तदभावात् । पक्षातिरिक्तस्य प्रतियोगिप्रसिद्धिस्थलस्य सत्वात् । न च प्रत्यक्षं प्रबलं तत्र बाधव्यवस्था न चात्र तथेति न बाध इति वाच्यम् । प्रकृतेऽप्युष्णप्रत्यक्षस्य प्राबल्यप्रयोजकस्य विद्यमानत्वादिति भावः । खण्डनोक्ताभाससाम्येन संगृह्णाति । एवं चेत्यादिना । इष्टापत्तिं शङ्कते । नन्विदमिति । इदं वह्नौ साध्यमानमनौष्ण्यं उष्णत्वा-भावः प्रतियोगिसमसत्ताको जलादिसाधारणश्चेन्न पारमार्थिकः किन्तु व्यावहारिकः । तथाच प्रतियोगि-तदभावग्राहकयोः प्रत्यक्षानुमानयोरेकस्मिन्नेकसत्तया तदुभयग्राहकत्वात्प्रत्यक्षमेवानुमानबाधकम्् । यदि तु प्रतियोग्यधिकसत्ताको ब्रह्मरूपस्तदतिरिक्तो वा अत्यन्ताभाव उष्णत्वस्य साध्यते तर्हि उष्णत्वा-भावानुमितिरप्युष्णत्वमिथ्यात्वानुमितिरेव । अनौष्ण्यानुमितेर्मिथ्यात्वानुमितेश्च समानयोगक्षेमत्वात् । यत्र यत्प्रतीयते तत्र तस्य तात्विकाभावसाधनमेव मिथ्यात्वानुमानम् । एवं च यथा मन्मते जगन्मिथ्या-त्वानुमानस्य पारमार्थिकजगदत्यन्ताभावग्राहकस्य व्याविहारिकजगद्ग्राहकेण प्रत्यक्षेण न बाधस्तथा वह्न्यनौष्ण्यानुमानस्यापि नौष्ण्यप्रत्यक्षेण बाधः । मिथ्यात्ववादिनः प्रतिपन्नोपाधावौष्ण्यनिषेधग्राह्यानुमानेन मिथ्यात्वानुमितेः समत्वस्यैवेष्टत्वादित्यर्थः ।

सिद्धान्ती प्रतिबन्द्या समाधत्ते । न विश्वमिथ्यात्वमपीति । मिथ्यात्वानुमानेन जगति साध्यमानं मिथ्यात्वं विश्वान्तर्गतेन रजतादिमिथ्यात्वेन समसत्त्वं चेन्न तात्विकं किन्तु व्यावहारिकमेव तथाचानु-मित्सितमिथ्यात्वस्य प्रत्यक्षविरोध एव । यदि तु रूप्यादिसमसत्वं मिथ्यात्वं मिथ्यात्वानुमितिविषयस्तर्हि जगतो न मिथ्यात्वसिद्धिः । प्रत्युत मिथ्याभूतमिथ्यात्वकत्वसिद्धेर्द्वैतसिद्धिरेव स्यादित्यर्थः ।

ननु रूप्येण तन्मिथ्यात्वेन वा समसत्वं मिथ्यात्वं न मिथ्यात्वानुमितिविषयः येनोक्तदोषः स्यात् । किन्तु तात्विकमित्यवोचाम । न च दृष्टान्ते साध्यवैकल्यम्  । दृष्टान्तीकृते रूप्यादौ विद्यमानस्य जगत्यनुमीयमानस्य च मिथ्यात्वस्य व्यावहारिकत्वतात्विकत्वाभ्यां वैलक्षण्येऽपि द्वयोरपि बाधधी-विषयत्वादिरूपमिथ्यात्वलक्षणयुक्तत्वादित्याशङ्कते । ननु तात्विकत्वेति । तर्हि समः समाधिरित्याह । इदमपीति । तन्मात्रेण प्रतियोग्यधिकसत्ताकत्वेनेत्यर्थः । वह्न्यनौष्ण्यानुमितिरपि जलादिविलक्षण-मपूर्वमेवानौष्ण्यं गृह्णीयात् । मिथ्यात्वानुमितिवत् । तथा च न प्रत्यक्षबाध्या स्यादिति भावः ।

ननु यद्यपि रूप्यमिथ्यात्वसमानमेव प्रपञ्चे मिथ्यात्वं साध्यते तथापि व्यावहारिके साध्यमानं तद्धेतोः पक्षधर्मताबलात्तात्विकं सेत्स्यतीत्याशङ्कते । ननु प्रातिभासिकस्यैवेति । साम्येन दूषयति । न जलादिस्थस्येति । तथा च व्यावहारिकस्यौष्ण्यस्याभावो वह्न्यादौ साध्यमानस्तात्विक एव सेत्स्यतीति न कालातीतदोषस्यावकाशोऽस्तीत्यर्थः । ननु व्यावहारिकौष्ण्यत्ववति तदभावः प्रातीतिकोऽपि स्यात् । प्रतियोगिसत्वविरोधस्योभयथाऽपि सम्भवादिति चेत् । तर्हि व्यावहारिकसत्ववति साध्यमानो मिथ्यात्व-रूपसत्वाभावोऽपि प्रातीतिक एव स्यात् नतु तात्विकः । न्यूनसत्ताकत्वेनाधिकसत्ताकत्वेन वा विरोधस्य समाधेयत्वादित्याशयेनोक्तामव्यवस्थामुपसंहरति । तस्मादिति । तथा च प्रत्यक्षबाधो मिथ्यात्वानु-मानस्येति भावः । अभ्युपगम्यापि दोषान्तरमाह । अस्तु वा सेति । कालातीतदोषव्यवस्थेत्यर्थः । सर्वस्मिन् प्रपञ्चे प्रत्यक्षसिद्धसत्वस्य व्यावहारिकत्ववत्तेजस्त्वावच्छेदकावच्छिन्नतद्गृहीतस्यौष्ण्यस्य प्रातिभासिकत्वं स्यादविशेषादित्यर्थः । मिथ्यात्वानौष्ण्यानुमित्योर्वैषम्यं  केनचिदुक्तमनुवदति । तत्व-प्रदीपिकायां त्विति । तदववदति । तन्नेति । इहेति । तेजस्यौष्ण्यज्ञानप्रामाण्याभ्युपगमवज्जगत्सत्वधी-प्रामाण्यमपि परीक्षकाभियुक्तेन त्वया समनुमन्तव्यम् । तदभ्युपगमे हेत्वभावात् । दृश्यत्वादेरेव तद्धेतुत्वेऽन्योन्याश्रयात् । तथात्राप्युभयसम्मतिरस्त्येवेत्यर्थः ।

ग्रन्थान्तरोक्तमप्युभयवैषम्यमनूद्य दूषयति । तत्वशुद्धौत्विति । तन्नेति । मिथ्यात्वश्रुतेरिति । तथाचानुवादरूपत्वेन मिथ्यात्वश्रुतेर्न मिथ्यात्वानुमित्यनुग्राहकत्वमित्यर्थः । यत्तु स्वस्वचमत्कारानु-सारिणोऽनुमानस्य सकलसाधारण्याभावेन श्रुत्यनुवादकत्वाप्रयोजकत्वमिति । तन्न । तथासति नानुमानं परं प्रत्युपन्यस्यनीयमनाश्वासात् । अनौष्ण्यानुमितेरपि दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्तीति आपाततः श्रुत्यनुगृहीतत्वाच्च । आपातप्रतीतेऽर्थे तात्पर्याभावस्तु शीतश्रुतेरिव मिथ्यात्व-श्रुतेरप्यवशिष्टः । एतेन दृष्टान्तीकृतश्रुतौ तुहिमनिवृत्तिकारणतया वह्नौ सर्वसाधारणप्रत्यक्षार्थापत्तिभ्यामव-सेयत्वादद्वैतश्रुतेस्तद्वैषम्यमिति निरस्तम् । कारणताया अतीन्द्रियत्वेन प्रत्यक्षानवसेयत्वात् । अर्थापत्तेरनुमानविशेषत्वात् । ज्ञातमात्रज्ञापकस्यैवानुवादित्वे प्रयोजकत्वेन साधारणसिद्धस्याप्रयोजकत्वात् । तस्मात्प्रमाणसम्प्लववत्परानपेक्षया स्वार्थबोधिकाऽग्निर्हिमस्य भेषजमिति श्रुतिः किं स्विद्धिमस्य भेषजम् इति प्रश्नोत्तररूपा नानुवादिनीति वाच्यम् । अन्यथाऽहमिति सर्वसाधारणसाक्षिप्रत्यक्षसिद्धात्मसत्व-बोधिकाया अस्तीत्येवोपलब्धव्य इति श्रुतेरप्यनुवादित्वापातात् ।

ननु यदीदं जगन्न मिथ्या स्यात्तर्हि दृश्यं न स्यादिति यथा मिथ्यात्वानुमितितर्कानुगृहीता तथा यद्यग्निरनुष्णो न स्यात्तर्हि दृश्यो न स्यादित्यनौष्णानुमितिर्नसत्तर्कानुमितगृहीतेति वैषम्यमाशङ्क्य निराकरोति । मिथ्यात्वानुमितिरित्यारभ्य आभासत्वादित्यन्तेन । यथा अनौष्ण्यानुमितेः प्रत्यक्ष-विरोधात्तर्कस्याभासत्वंं तथा मिथ्यात्वानुमिततर्कस्यापि आभासत्वमपि विशेषाज्जगतो दृगध्यस्तत्व-वदग्नेरौष्ण्यविशेषाच्चेति भावः । व्याहतिं सूचयन् तदीयपूर्वाचार्यसंवादमाह । उक्तं चेति । प्रत्यक्षार्थ-विरुद्धदृगिति । प्रत्यक्षविषयीकृतार्थविरुद्धं तद्विरहरूपं तद्विरहव्याप्यं वाऽर्थं पश्यति गृह्णातीति तथोक्तम् । क्विप्चेति दृशेः कर्तरि क्विप् । करणे कर्तृत्वोपचारात् । क्विन्प्रत्ययस्य कुरिति कुत्वम् । क्विन्प्रत्ययो यस्माद्विहितस्तस्यान्यत्रापि प्रत्यये पदान्ते कुत्वमिति व्याख्यानात् । ननु प्रत्यक्षसिद्धायज-मानत्वौष्ण्यादिवच्छब्दलिङ्गग्राह्ययजमानत्वानौष्णाद्यपि व्यावहारिकमिति सत्वाद्विरुद्धग्राहितया प्रत्यक्षेण बाध्यते । प्रकृते तु सत्वं व्यावहारिकं प्रत्यक्षसिद्धम् । तद्विरुद्धं च न मिथ्यात्वं तस्य पारमार्थिकसत्व-विरोधित्वादतो न व्यावहारिकमिति सत्वग्राहकेणाध्यक्षेण बाध्यते । प्रकृते तु सत्वं व्यावहारिकं प्रत्यक्षेण बाध्यते । पारमार्थिकसत्वं तु ब्रह्मणि प्रसिद्धेरित्याशयेन शङ्कते । नन्वनौष्ण्यस्येति । दूषयति । न औष्ण्यतदभावयोरिति । भिन्नसत्ताकत्वेनाविरोधस्य सुवचत्वादित्यर्थः । अद्वैतस्य द्वैतसत्यभावापाता-दित्यपि बोध्यम् । तत्रेति । अनुष्णत्वानुमान इत्यर्थः । उष्णमात्रे शैत्यस्येति । तस्यौष्ण्यानिरूप्य-त्वात् । उष्णविशेषे सौरादौ तेजस्यौष्ण्यसाधने औष्ण्यज्ञानस्य पक्षातिरिक्ते सम्भवान्न पक्षे प्रतियोगि-ज्ञानापेेक्षेति भावः ।

ननु जलादिसाधारणौष्ण्यात्यन्ताभावोपलब्धेऽग्नावतिरिक्तौष्ण्यात्यन्ताभावरूपमनौष्ण्यं अस्मदभिमत-मिथ्यात्वरूपमेवेति तस्य तात्विकत्वसम्मतमेवेत्याशङ्क्योक्तदूषणकलापातिदेशेन निरस्यति । एतेनेति । कालातीतदोषभङ्गप्रसङ्गादित्यनेनेत्यर्थः । शैत्यस्येति । अतद्रूपत्वात् औष्ण्याभावरूपत्वाभावादित्यर्थः । उक्तमुपसंहरन् संगृह्णाति । तस्मादिति । ननु प्रामाण्यस्य परतस्त्वेनानुमानस्य प्रामाण्यग्राहकतयोप-जीव्यत्वात्तद्विरोधेनोपजीवकं प्रत्यक्षमप्रमाणमित्यत उक्तं स्वत इति । स्वत इति । यस्मात् प्रत्यक्षे स्वतः प्रमात्वं प्रामाण्यस्य सत्वस्त्वग्राह्यप्रामाण्याश्रयज्ञानग्राहकसाक्षिग्राह्यत्वं तस्मात्तस्याननुमेयत्वेनानुमानस्योप-जीव्यत्वाभावान्न तज्जातीयमिथ्यात्वानुमितिविरोधेनोपजीव्यविश्वसत्यत्वग्राहिप्रत्यक्षबाध इत्यर्थः । न विलक्षणत्वादस्य तथात्वं च शब्दादिति भगवान् बादरायणः प्रामाण्यस्य स्वतस्त्वं सूत्रयामास । जैमिनिरपि तत्प्रामाण्यं बादरायणस्यानपेक्षत्वादिति । यद्वा प्रत्यक्षे स्वतः प्रमात्वं अनुमानाद्यविरोधानपेक्षं प्रबलस्य दुर्बलविरोधे परिहारानपेक्षमेव प्रामाण्यमेव प्रामाण्यस्य स्थितेः प्रामाण्यस्य च विषयाबाध-गर्भितत्वात्प्रत्यक्षोपजीविभिरनुमानाद्यैस्तन्नैव बाध्यते इत्यर्थः ।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायां हि मिथ्याशीतानुमे समे ।।

न्यायामृतसौगन्ध्यम्

किञ्च यदि प्रत्यक्षस्य बाधितमप्यनुमानं अर्थं साधयेत् तदा वह्निशैत्यानुमितिरपि स्वसाध्यं साधयेत् । न च वह्न्यौष्ण्यप्रत्यक्षं परीक्षितमिति स्यादनुमानबाधकं प्रकृते तु न तथेति वाच्यम् । सन् घट इति प्रत्यक्षस्य सुखपर्यन्तं परीक्षायाः विद्वदविद्वत्सकलजनसिद्धत्वात् । न चाग्निशैत्य-तदौष्ण्यग्राहकानुमानाक्षयोः समसत्ताकविषयकत्वेनास्तु  प्रत्यक्षेणानुमानबाधः । स्वसमानाधिकरण-स्वान्यूनसत्ताकात्यान्ताभाववत्वज्ञानस्यैव प्रतियोगि(स)त्वज्ञानविरोधित्वेन न्यूनसत्ताकव्यावहारिक-सत्त्वज्ञानं न तात्विकमिथ्यात्वज्ञानबाधकम् । मिथ्यात्वस्य तात्विकत्वं तु तात्विकाधिकरणीभूत-चिदात्मकाभावघटितत्वम् । प्रयोगस्तु वह्निः शीतस्पर्शवान् अनुष्णाशीतस्पर्शवृत्तित्वस्पर्शत्व-साक्षाद्व्याप्यजातिमदाश्रयत्वात् जलवत् । प्रकृते तु अक्षगृहीतसत्त्वं व्यावहारिकं तद्विरुद्धं चानुमान-गृहीतमिथ्यात्वं तस्य पारमार्थिकसत्वविरुद्धत्वात् । अतो न व्यावहारिकसत्त्वग्राहकेणाक्षेण बाध्यत इति वाच्यम् । अथ वर्तमानकालावच्छिन्नसत्वज्ञानं प्रत्यक्षस्वरूपं तत्कालघटितत्रैकालिकनिषेधाव-गाह्यनुमानबाधकम् ।

वस्तुतस्तु वर्तमानकालावच्छिन्नसत्त्ववति वर्तमानकालावच्छिन्नसत्त्वनिषेधज्ञानमेव मिथ्यात्व-ग्रहणानुकूलम् । अन्यकालीननिषेधज्ञानं त्वनित्यत्वग्रहणानुकूलम् । वर्तमानपरीक्षितप्रत्यक्ष-गृहीतघटादितत्पारमार्थिकत्वयोरनुमानादिना बाधासम्भवेन त्वदभिमतत्रैकालिकनिषेधप्रतियोगित्वाव-गाह्यनुमानादेः प्रतिरोधसम्भवात् । किञ्चाक्षागृहीतसत्वनिषेधे अप्रसक्तप्रतिषेधः । तथा च वैय्यर्थ्यम् । न चानर्थनिवृत्तिरूपप्रयोजनस्य सत्त्वान्न वैय्यर्थ्यमिति वाच्यम् ।

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।।

इति श्रुतिस्मृतिभ्यां सगुणज्ञानस्यैव मोचकत्वोक्तेः । एतेनाक्षविषयाधिकरणकस्यैव पारमार्थिकत्वव्यतिरेकस्यानुमानेन बाधनान्न तस्य तात्विकत्वोपपत्तिरिति निरस्तम्् । यत्कालेऽक्षेण घटादौ पारमार्थिकत्वं गृहीतं तत्काले अनुमानादिना तद्बाधासम्भवात् । कालान्तरे बाधस्त्वनित्यत्वे पर्यवसन्न इष्ट एव । इति वह्निशैत्यानुमितिजगन्मिथ्यात्वानुमित्योः साम्यम् ।

न्यायामृतमाधुरी

मिथ्यात्वश्रुतेरिति । अत्राद्वैतसिद्धिकारः । नाप्रसक्तप्रतिषेधः, परोक्षप्रसक्तेः सम्भवात् । यत्तु केचिदात्मनि तात्विकसत्त्वप्रसिध्या प्रसक्तिमुपपादयन्ति । तन्न । न हि प्रतियोगिज्ञानमात्रं प्रसक्तिः, किं तर्हि निषेधाधिकरणकप्रतियोगिज्ञानम् । न चात्मा निषेधाधिकरणम् । तस्मात् परोक्षप्रसक्तिरेव दर्शनीया । अथवा माभूत् प्रसक्तिः । अभावप्रत्यक्षे हि संसर्गारोपत्वेन सोपयुज्यते । शब्दानु-मानायोस्तु तस्याः क्वोपयोगः । न चाप्रसक्तौ  प्रतिषेधवैय्यर्थ्यम् । अनर्थनिवृत्तिरूपस्य प्रयोजनस्य विद्यमानत्वादित्याह । तत्तुच्छम् । श्रुतिप्रत्यक्षानुपजीविनोऽनुमानस्यार्थप्रमापकतया निषेधानर्थक्यात् । वाचस्पतिमिश्रैः–

।। यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।। इत्यभिहितत्वाच्च तर्काप्रतिष्ठानादित्यत्र श्रुत्याप्रसक्तौ च तयैव निषेद्धुं दुःशकत्वात् । उभयप्रामाण्यस्यानुरोद्धव्यतया विकल्पोऽपि दुर्निवार इत्यलम् । अक्षसिद्धस्येति ।

अत्राद्वैतसिद्धिकारः । न प्रत्यक्षविषयस्य तात्विकत्वापत्तिः । तद्विषयाधिकरणकस्यैव पारमार्थिकत्वव्यतिरेकस्य बोधनादित्यवादीत् । तन्मन्दम् । प्रपञ्चे प्रत्यक्षेण विषयीकृत-व्यावहारिकसत्वव्यतिरेकस्य श्रुत्यबोधित्वे जगद्गतस्य प्रत्यक्षावगाढतादृशसत्वस्य तात्विकतायाः प्रसञ्जनीयत्वात् । हृदो निर्वह्निरिति वाक्येन जलवान् हृद इति प्रत्यक्षविषयीकृतजलव्यतिरेका-नवगाहनेन तादृशजलपारमार्थ्यस्य परीक्षकसमयसिद्धत्वात् । प्रातिभासिके रूप्ये व्यावहारिकत्वनिषेधे प्रातिभासिकत्वस्य व्यावहारिकत्ववत् व्यावहारिके प्रपञ्चे पारमार्थिकत्वस्य निषेधे व्यावहारिकत्वस्य पारमार्थिकत्वापातात् । न च व्यावहारिकत्वेऽपि प्रत्यक्षसिद्धव्यावहारिकत्वाबाधेन पारमार्थिकत्व-निषेधान्न व्यावहारिकत्वस्य तात्विकत्वापत्तिरिति वाच्यम् । तथा सति प्रपञ्चगतस्य प्रत्यक्षसिद्ध-व्यावहारिकत्वस्य निषेधप्रसक्तावुपजीव्यविरोधेन श्रुतेरेवानुत्थानादित्यपि स्थितम् ।

योगे वेति । वह्नावनौष्ण्यानुमितेस्तुल्यदिशा तात्विकानौष्ण्यविषयतापत्या तादृश प्रत्यक्षानु-मित्योर्बाध्यबाधकभावो न सङ्गच्छेतेत्याशयः । नन्वित्यादि ।। इदं प्रकृतानुमितिनिरूपित-वह्निनिष्ठोद्देश्यतानिरूपितविधेयतापन्नम् । तुल्यस्वभावं तत्सत्तासमसत्ताकम् । न तात्विकम् । किन्तु व्यावहारिकम् । इत्थं च समानसत्वोपरागेणैव प्रतियोगित्वतदभावावगाहमानयोः प्रत्यक्षानुमानयोरेक-तरस्य बाधकत्वमेव । औष्ण्यवृत्तिसत्ताधिकसत्ताकस्य ब्रह्मरूपस्य वा तदत्यन्ताभावस्य साधने तु वह्नावनौष्ण्यानुमितिस्तत्र तत्प्रतियोगिमिथ्यात्वानुमितिरूपैवेति परमार्थजगदत्यन्ताभावग्राहकेण तन्मिथ्यात्वानुमानस्य व्यावहारिकतद्ग्राहकेण प्रत्यक्षेणेव वह्न्यनौष्ण्यानुमानस्यापि तादृशस्य न तादृशप्रत्यक्षेण बाध इत्यर्थः । विश्वमिथ्यात्वमपीति । प्रकृतानुमितिनिरूपितविश्ववृत्त्युद्देश्यता-निरूपितविधेयतापन्नमिथ्यात्वं विश्वान्तर्गतशुक्तिरजतसत्तासमानसत्ताकमित्युपगमे प्रत्यक्षबाध्यताऽनु-मितेर्दुर्वा रैव । तादृशरजतसत्तासमानसत्ताकमेव मिथ्यात्वं प्रकृतानुमितिनिरूपितविषयतापन्नमित्युपगमे च न तस्यालीकता सेत्स्यति । प्रत्युतालीकभूतालीकत्वसिध्या अभिधानान्तरविशेषितद्वैतमेवा-सौत्सीदित्यर्थः । अथ सिषाधयिषितविश्वमिथ्यात्वस्य तात्विकत्वोपगमेनाध्यस्तरजतेन तदलीकत्वेन वा समसत्वानुपगमेन तत्कल्पद्वयोक्तक्षत्यनवकाशात् । धूमेन पर्वते वह्निसाधने निदर्शनीभूतमहानसादि-वृत्तिवह्नेरपर्वतीयत्वेन प्रकृतपक्षवृत्तिवह्नितो वैलक्षण्येऽपि प्रकृतसाध्यतावच्छेदकीभूतवह्नित्वाक्रान्तत्वात् निदर्शनतया यथा महानसादेः सङ्गच्छते तद्वत्प्रकृतेऽपि निदर्शनीभूताध्यस्तरजतमिथ्यात्वस्य प्रकृत-पक्षवृत्त्यलीकत्वतस्तात्विकताराहित्येन वैलक्षण्येऽपि प्रकृतसाध्यतावच्छेदकीभूतबाधधीबोधनीयत्वा-क्रान्तत्वात् निदर्शनता तस्य सङ्गच्छते  इत्याशयेन शङ्कते ।। नन्वित्यादि । इदमपीति । सममित्य-नेनान्वेति । तुल्यदिशाऽनौष्ण्यानुमितिरपि पक्षीकृते वह्नौ तात्विकमेव घटादिविलक्षणमनौष्ण्य-मवगाहमानप्रत्यक्षेण न बाध्येतेत्यर्थः ।

ननु मिथ्यात्वस्य स्वाश्रयाधिकसत्ताकतानियमेन प्रातिभासिके मिथ्यात्वस्य व्यावहारिकत्वेऽपि व्यावहारिके तत्तात्विकमेव हेतोः पक्षधर्मताबलात् सेत्स्यतीति शङ्कते नन्विति । जलादीति । तुल्यदिशा अभावस्य प्रतियोगिसत्ताधिकसत्ताकस्योपगमेन निदर्शनीभूतजलादिगतस्य तद्धर्मिक-विपर्यासविषयीभूतप्रातिभासिकौष्ण्यप्रतियोगिकाभावस्य व्यावहारिकत्वेऽपि व्यावहारिकौष्ण्य-प्रतियोगिकाभावसिषाधियिषितस्तदधिकसत्ताक एव सेत्स्यतीति बाधस्य हेत्वसत्वोपगतित्वं त्रिकाणां विरुध्येतेत्यर्थः । यदि च प्रतियोगितदभावयोरेकस्मिन् धर्मिणि समसत्ताकत्वस्य विरुद्धतया व्यावहारिकौष्ण्यप्रतियोगिकाभावस्य प्रातिभासिकत्वेनापि अनुमित्याऽवगाहनं सम्भवतीत्युच्यते तदा सिषाधयिषितमिथ्यात्वरूपसत्ताभावोऽपि व्यावहारिकसत्ताके धर्मिणि प्रातिभासिकेऽप्यनुमित्या विषयीक्रियेत न तात्विक इत्याशयः ।

हेत्वाभावादिति । वह्निविश्वयोरौष्ण्यसत्यत्वप्रतीत्योरेकस्याः प्रमात्वोपगमे परस्यास्तदनुपगमे निबन्धनराहित्यात् तद्दिशा तद्दुर्निवारमित्याशयः । मिथ्यात्वश्रुतेरिति । पञ्चम्यन्तेनान्वेति । तत्र वतिः षष्ट्यंतम् । उपमेये सुपो धात्वित षष्ट्यानुत्पातात् । इत्थं चानुवादिन्यास्तस्याः न स्वार्थप्रमापकत्व-मित्यर्थः । अत्राद्वैतसिद्धिकारः । स्वस्वचमत्कारानुसारिणोऽनुमानस्य सकलसाधारण्याभावेन श्रुत्यनु-वादकत्वाप्रयोजकत्वमित्याह । तदसाधु । तथा सति नानुमानं परं प्रत्युपन्यसनीयमनाश्वासा-दित्यादिकमन्यत्र विवेचितम् । उष्णमात्रे शैत्यस्येति । तस्य प्रतियोगिप्रतीत्यधीनप्रतीतिकत्वा-भावात् । उष्णविशेषे वह्नौ । अबाधापातादिति । प्रतियोगिज्ञानस्य पक्षान्यतरणिप्रभादावपि सम्भवेन पक्ष एव प्रतियोगिज्ञानानपेक्षणादिति भावः । औष्ण्यात्यन्ताभावात्मकं घटादि-साधारणौष्ण्यत्वात्यन्ताभावादतिरिच्यमानाभावस्वरूपमित्यर्थः । अतद्रूपत्वात् औष्ण्यप्रतियोगिका-भावानात्मकत्वात् । स्वत इति । अनुमानाद्यविरोधानधीनमित्यर्थः ।

प्रज्ञातुलायां तुलितेऽनुमिती विश्वतेजसोः ।

अलीकताशीततयोर्ग्रन्थकारेण पश्यत ।।

।। इति मिथ्यात्वानुमितेरग्निशैत्यानुमितिसाम्यविवरणम् ।।