‘‘अनृतेन हि प्रत्यूढा’’ इत्यत्रानृतशब्दो दुष्कर्मपरः

५७. श्रुतेरनिर्वाच्याविद्यापरत्वभङ्गः

न्यायामृतम्

‘‘अनृतेन हि प्रत्यूढा’’ इत्यत्रानृतशब्दो दुष्कर्मपरः । परिणामिप्रधानपरो वा । ‘‘ऋतं पिबन्ता’’वित्यादौ सत्कर्मणि ऋतशब्ददर्शनात् । ‘‘ऋतं सत्यं तथा धर्म’’ इति स्मृतेश्च । ‘‘अनृतं परिणामत’’ इति स्मृतेश्च । अज्ञाना-विद्यातमोनीहारादिशब्दा अपि प्रकृतिपराः । न च सा मिथ्या । ‘‘तम आसीत्’’, ‘‘गौरनाद्यन्तवती नित्या सततविक्रिये’’त्यादिश्रुतिभिः सत्यत्वा-न्नित्यत्वाच्च । न चास्याः श्रुतेः अपूर्वपारमार्थिकसत्त्वपरत्वसम्भवे व्यावहारिक-सत्त्वपरत्वं वा असद्वैलक्षण्यपरत्वं वा युक्तम् । मायाशब्दोऽपि क्वचित्प्रकृति-परः । क्वचिच्च विचित्रेश्वरशक्त्यादिपरः, ‘‘त्रिगुणात्मके’’त्यादिस्मृतेः । ‘‘विश्वमायानिवृत्ति’’रित्यादौ निवृत्तिस्तरणमेव । ‘‘मायामेतां तरन्ति ते’’ इति स्मृतेः । न ह्यज्ञानं मायाशब्दार्थः । मायिनो ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्व-निरवद्यत्वादिश्रुतिविरोधात् । मायाशब्दस्य मय ज्ञान’ इति धातुजत्वाच्च । वेदनिघण्टौ ‘माया वयुनं ज्ञानम्’ इति पाठाच्च । मायाविशब्दस्य विचित्र-शक्तियुक्त इवाज्ञानिन्यप्रयोगाच्च । ‘‘योगमायां समादिशद्’’ इति भागवते, ‘‘ऋते मायां विशालाक्षीम्’’ इति रामायणे च चेतने, ‘जलं संस्तभ्य मायया’ इति भारते जलस्तम्भनशक्तौ च प्रयोगाच्च । हरिवंशे–

मयश्च शम्बरश्चैव महामायाधरौ तथा ।

पार्जन्यवारुणी माये व्यधत्तां वारिविक्षरे ।।

इति पार्जन्यवरुणास्त्रयोर्मायाशब्दप्रयोगाच्च । तत्रैव ‘मायामास्थाय युध्य-स्वे’ति प्रकृतमायायाम्, ‘आस्थाय तामसीं विद्याम्’ इति विद्याशब्दप्रयोगाच्च । ‘एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्यया’’ इति भागवते शक्तिर्मायेति व्याख्यातत्वाच्च । अत एव न मिथ्याभूतं मायाशब्दार्थः, शुक्तिरूप्यादौ तदप्रयोगात् । सत्यमन्त्रौषधादिमत्येव मायाविशब्दप्रयोगाच्च । मायामृगस्यापि मारीचस्य कामरूपित्वेन रामशरवेध्यत्वेन च सत्यत्वात् । देवासुरसङ्ग्रामादौ च मायाशस्त्रादेः छेदाद्यर्थक्रियाकारित्वेन सत्यत्वात् । मिथ्याभूते ऐन्द्रजालिकादौ मायाधीनप्रतीतिकत्वेन मायाशब्दस्यामुख्यत्वात् । न च मायायाः सत्यत्वे ज्ञाननिवर्त्यत्वोक्तिविरोधः । सत्यस्यैव तन्निवर्त्यत्वात् । अत एव नाविद्यात्वोक्तिविरोधः, विद्यानिवर्त्यत्वात् । ‘दैवी ह्येषा गुणमयी मम माये’त्यादौ गुणमयत्वाद्युक्तिरपि सत्यत्वानुगुणैव । शुक्त्याद्यज्ञाने रूप्यादौ त्रिगुणत्वादर्शनात् । तस्मान्न श्रुतिः सत्यप्रकृतीश्वरशक्त्याद्यतिरिक्तपराभि-प्रेतानिर्वाच्याविद्यापरा ।

अद्वैतसिद्धिः

एवं श्रुतयश्च । तत्र छान्दोग्ये अष्टमाध्याये – ‘तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा’ इति श्रुतिर्ब्रह्मज्ञानप्रतिबन्धकत्वेनानृतं ब्रुवाणा तादृगज्ञाने प्रमाणम् । न च ऋतशब्दस्य ‘ऋतं पिबन्ता’वित्यत्र सत्कर्मणि प्रयोगदर्शनाद् ‘ऋतं सत्यं तथा धर्म’ इति स्मृतेश्च ऋतशब्दस्य सत्कर्मपरत्वादनृतशब्दस्य दुष्कर्मपरत्वमिति वाच्यम् । उत्तरत्र ‘य आत्माऽपहतपाप्मे’त्यादिना आत्मनोऽपहतपाप्मत्वप्रतिपादनेन दुष्कर्मप्रत्यूढत्व-विरोधात् । सुषुप्तौ कर्ममात्रनाशे दुष्कर्मणोऽप्यभावात् । कारणात्मनाऽवस्थाने चाज्ञान-स्यावश्यकत्वात् । कर्मण आवरणत्वानुपपत्तेश्च । ब्रह्मवेदनप्रतिबन्धकतया ह्यनादिब्रह्मावरकं ज्ञाननिवर्त्यं वाच्यम् । तथा च कर्मेव प्रधानमपि नानृतपदाभिधेयम् । तयोर्ज्ञानानिवर्त्य-त्वात् । ज्ञाननिवर्त्यत्वे च ‘भूयश्चान्ते विश्वमायानिवृत्ति’रित्यादिश्रुतिर्मानम् ।

न च अत्र निवृत्तिस्तरणमात्रम् । ‘मायामेतां तरन्ति ते’ इति स्मृतेरिति वाच्यम् । ज्ञानहेतुकतरणस्य निवृत्त्यतिरिक्तस्यासम्भवेन उभयोर्नाशमात्रार्थत्वात् । न च ‘तम आसी’दित्यस्य सत्त्वप्रतिपादकस्य बाधकं विना पारमार्थिकसत्त्वपरत्वेन कथमावरण-स्यानृतत्वमिति वाच्यम् । ‘नासदासीन्नो सदासी’दित्यनेन पारमार्थिकत्वतुच्छत्वयोर्निषेधेन व्यावहारिकसत्त्वपरत्वात् । न च अनेन माया प्रतिपाद्यते, मायाशब्दार्थश्च नाज्ञानम्, मायिनो ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्वनिरवद्यत्वादिश्रुतिविरोधादिति वाच्यम् । उपाधेः प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वज्ञ्याद्यापादनायोगात् । सार्वज्ञ्याद्यैश्वर्यस्य मायानिबन्धनत्वाच्च । न च ‘मय ज्ञान’ इति धात्वर्थानुसारात् माया कथमज्ञानमिति वाच्यम् । ‘एवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासीकरोति माया चाविद्या च स्वयमेव भवतीति श्रुत्या मायाऽविद्ययोरैक्यप्रतिपादनान्माया अज्ञानमेव । ‘घट चेष्टाया’-मिति धातुजस्यापि घटशब्दस्य चेष्टावाचकत्वाभाववदत्रापि ज्ञानवाचकत्वाभावात् । ‘माया प्रज्ञा वयुन’मिति ज्ञानपर्याये निघण्टुकारवचनं च ज्ञानाकारपरिणामित्वादज्ञानस्योपपन्नम् । वृत्तिज्ञानस्याज्ञानाभिन्नत्वाद् अज्ञानस्यैवानिर्वचनीयविचित्रशक्तियोगान्न विचित्रशक्तिमति मायाशब्दप्रयोगानुपपत्तिः । क्वचिन्मणिमन्त्रादौ तत्प्रयोगस्तूपचारात् । न च शुक्तिरूप्यादौ मायाशब्दाप्रयोगात् न मृषार्थोऽयमिति वाच्यम् । वज्रादौ पृथिवीत्वादिव्यवहाराभावेऽपि पृथिवीत्ववत् व्यवहाराभावेऽपि मायात्वानपायात् । ऐन्द्रजालिकादौ बहुशो मायाशब्द-प्रयोगदर्शनाच्च । मायाया अज्ञानान्यत्वे ज्ञाननिवर्त्यत्वविरोधाच्च । नीहारतमःशब्दावप्यस्मि-न्मते अज्ञानस्यावारकत्वाद्युज्येते, नान्यमते । अनृतनीहारादिशब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकत्वोपादानत्वादिविरोधश्च । तस्मात् ‘अनृतेन प्रत्यूढाः’, ‘नीहारेण प्रावृताः’, ‘तम आसीत्’, ‘मायां तु प्रकृतिं विद्यात्’, ‘अजामेकां लोहितशुक्लकृष्णाम्’, ‘अविद्यायामन्तरे वर्तमानाः’, ‘भूयश्चान्ते विश्वमायानिवृत्ति’रित्याद्याः श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम् ।।

न्यायामृततरङ्गिणी

ननु छान्दोग्ये दशमे(अष्टमे)ऽध्याये दहरप्रकरणे ‘‘त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभतेऽथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा’’ इत्यत्र अनृतशब्दवाच्यमिथ्या-भूताज्ञानबद्धत्वं चेतनानां प्रतीयत इति श्रुतिरविद्यायां मानमित्यत आह ।। अनृतेन हीति ।। ऋतशब्दस्य ऋतं पिबन्तौ सुकृतस्य लोक इत्यादौ सत्कर्मपरत्वादनृतशब्दो दुष्कर्मपर इत्याह ।। ऋतमिति ।। अनृतशब्दस्य परिणामिपरत्वे प्रमाणमाह ।। अनृतमिति ।। ननु उत्तरत्र प्रजापतिवाक्ये य आत्मापहतपाम्पा विजरो विमृत्यु-रित्यादिनाऽपहतपाप्मत्वोक्तेः कथं तस्य दुष्कर्मपरत्वमिति चेन्न । अपहतपाप्मन्य-ज्ञानसम्बन्धस्याप्यभावात् । आविर्भूतस्वरूपापेक्षया तदुक्तौ तु दुष्कर्मण्यपि समानम् ।

नन्वविद्यायामनेक आगमः, तथा चोक्तं पञ्चपादिकायां येयं श्रुतिस्मृतीतिहास-पुराणेषु नामरूपव्याकृतमविद्या माया प्रकृतिरग्रहणमव्यक्तं तमः कारणं लयः शक्तिर्महासुप्तिर्निद्राक्षरमाकाशमिति च तत्र तत्र बहुधा गीयते चैतन्यस्य स्वत एवा-वस्थितलक्षणब्रह्मरूपतावभासं प्रतिबध्य जीवत्वापादिकाऽविद्या कर्म पूर्वप्रज्ञा संस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्येति । अत्र अविद्याकर्मपूर्वप्रज्ञेति भ्रान्तिकर्मपूर्वानुभवसंस्कारा उच्यन्ते । विवरणेऽप्युक्तम् । समाने वृक्षे पुरुषो निमग्नोऽनीशयाशोचति मुह्यमान इति स्वभावसिद्धेश्वरस्यानीश्वरत्वं तद्भावाप्रतिपत्तिरेव वस्तुनोऽनपायात्ततश्चेश्वरभावाप्रतिपत्तेः शोकस्य च निमित्तं मोहं दर्शयति । तथा न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति । नीहारं तमोऽज्ञानमित्यनर्थान्तरम् । तेन प्रावृतत्वमेव जीवानां ब्राह्मापरिज्ञाने जल्प्यत्वाद्यध्यासे च निमित्तं दर्शयति । तथा अविद्यायामन्तरे वर्तमानाः नान्यच्छ्रेयो वेदयन्ते प्रमूढा इति श्रेयोरूपब्रह्मापरिज्ञाने क्रियाकारकाद्यध्यासे च निमित्तभूतामविद्यां दर्शयति । अज्ञानेनावृतं ज्ञानमित्याद्याः स्मृतयश्चेति ।

मन्त्रार्थस्तु माधवीयभाष्ये हे नराः यः विश्वकर्मा इमानि भूतानि जजान उत्पादितवान् तं विश्वकर्माणं न विदाथ न जानीमः तत्र हेतुः युष्माकं अन्यदेव अन्तरं व्यवधानं बभूव । तदुच्यते नीहारेण नीहारसदृशेन अज्ञानेन प्रावृताः किञ्च जल्प्या अहं मनुष्योऽहं देव इत्याद्यनृतजल्पनशीलाः असून् प्राणान् तर्पयन्ति देह-पोषकाः उक्थशासः उक्थशब्देन स्तोत्रशस्त्रादिकं लक्ष्यते नानाविधपक्षेषूक्तं प्रउग-निष्कैवल्यादिकं शंसन्ति । ऐहिकामुष्मिकभोगमात्रपरा इत्यर्थः ।

तदेतन्निराकरोति ।। अज्ञानेत्यादिना ।। सन्त्येवोदाहृतवाक्येष्वज्ञानादिशब्दाः । परन्तु ते प्रकृतिपरामर्शा इत्यर्थः । ननु मिथ्याभूता प्रकृतिरेवास्माकमविद्येत्यत आह ।। न चेति ।। उदाहृतवाक्येषु प्रकृतिमिथ्यात्वप्रतिपादकशब्दाभावादित्यर्थः । प्रत्युत वाक्यान्तरे प्रकृतेः सत्यत्वमेवोच्यत इत्याह ।। तम इति ।। गौः प्रकृतिः । ननु तस्याभिध्यानाद्योजनात्तत्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिरित्यत्र ज्ञान-निवर्त्यत्वेन श्रुताया मायाया मिथ्यात्वसिद्धिरित्यत आह ।। विश्वेति ।। तरण-मिति ।। मायायां सत्यामेव तत्कृतपराभवाभाव इत्यर्थः ।। मायिन इति ।। न चोपाधेः प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वज्ञानापादकत्वमिति वाच्यम् । त्वन्मते बिम्बातिरिक्तस्य प्रतिबिम्बस्याभावेन तत्पक्षपातो न सम्भवतीति वक्ष्यमाणत्वात् ।। मायाशब्दस्येति ।। चिन्तिपूजीत्यत्र च कारादङ्प्रत्ययो व्याख्यातव्यः ।

ननु एवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुत्या माया-विद्ययोरैक्यप्रतिपादनादज्ञानमेव मायेति चेन्न । जीवस्य परब्रह्मबोधतिरोधायिका भगवच्छक्तिरत्र प्रतिपाद्यते न तु त्वदभिमतानिर्वचनीया माया ।। वेदेति ।। न च ज्ञानाकारपरिणामित्वादज्ञानस्यापि ज्ञानत्वमुपपन्नमिति वाच्यम् । उपादानोपादेययोः साम्यदर्शनेन तथा परिणामसिद्धेः ।। व्याख्यातत्वादिति ।। आत्मशक्त्या मायाख्ययेत्यनेनेत्यर्थः ।। तदप्रयोगादिति ।। प्रामाणिकानामिति शेषः । तेन न वज्रादौ पृथिवीशब्दाप्रयोगसाम्यम् ।। सत्येति ।। अस्मायामेधास्रजोविनिरिति मत्वर्थे विन्प्रत्ययविधानादित्यर्थः । ननु मन्त्रौषधादिनिर्मिते सर्पादौ मिथ्याभूते मायाशब्दप्रयोगान्न तस्य सत्यवाचित्वनियम इत्यत आह ।। मिथ्याभूत इति ।। गौणत्वहेतुभूतमुख्यसम्बन्धस्योपपादनम् ।। मायाधीनेति ।। ज्ञाननिवर्त्य-त्वोक्तीति ।। न च तरणोक्त्यनुपपत्तिः । तत्रेश्वरीयबन्धकशक्तेस्तरणोक्तेः । अत्र तु प्रकृतेर्विनाश इति भेदात् ।। सत्यस्यैवेति ।। रूप्यादौ ज्ञाननिवर्त्यत्वादर्शना-दित्यर्थः । नन्वेकस्य विरुद्धसत्त्वादिगुणवत्त्ववचनमनिर्वचनीयत्वमावेदयतीत्यत आह ।। दैवी हीति ।। सत्त्वादीनां परस्परं सम्भिन्नत्वेन तद्विरोधोऽसिद्धः । अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपामिति तत्सामानाधिकरण्यश्रुतेरिति भावः । सत्त्वं सत्यत्वम् । ननु मायायास्त्वयाप्यङ्गीकारात्कथं तन्निराकरणमित्यत आह ।। तस्मादिति ।।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यां पराविद्या ह्यनागमा ।।

न्यायामृतकण्टकोद्धारः

एवमज्ञानेऽनुमानं निराकृत्य श्रुतिमपि निराकरोति ।। अनृतेन हीति ।। ‘‘तद्यथापि हिरण्यनिधिं पिहितम् अक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः, एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दत्यनृतेन हि प्रत्यूढा’’ इत्यत्रेत्यर्थः । ऋतशब्दस्य सत्कर्मपरत्वे स्मृतिश्रुती प्रमाणमाह ।। ऋतमिति ।। तथा चानृतशब्दो दुष्कर्मपरो युज्यत इति भावः । अनृतशब्दस्य परिणामिपरत्वे प्रमाणमाह ।। अनृतमिति ।।

‘‘ऋ गताविति धातोस्तु पूर्वावगतवत्सदा ।

  स्थितेर्ब्रह्मर्तमित्युक्तमनृतं परिणामतः ।।’’ इति स्मृतिर्द्रष्टव्या ।

न च दुष्कर्मप्रत्यूढत्वप्रतिपादने उत्तरत्र ‘य आत्मा’ इत्यादिनाऽपहतपाप्मत्वादि-प्रतिपादकेन विरोध इति वाच्यम् । अज्ञानपरत्वेऽपि तद्विरोधात् । न हि सत्य-सङ्कल्पस्याज्ञानं सम्भवति ।

किञ्च ‘य आत्मे’त्यत्र परमात्मा प्रतिपाद्यते । सत्यसङ्कल्पादितल्लिङ्गात् । ‘‘अनृतेन हि प्रत्यूढा’’ इत्यत्र जीवाः । न विन्दन्तीत्यादितल्लिङ्गात् । तथा च जीवानां दुष्कर्मप्रत्यूढत्वस्य परमात्मनोऽपहतपाप्मत्वादिना न विरोधः । न च जीवब्रह्मणोरभेदः । कल्पितभेदस्य त्वयाप्यङ्गीकारात् । तस्यासिद्ध्याऽन्योन्याश्रयाच्च । न च सुषुप्तौ अनृतप्रत्यूढत्वमुच्यते । न च तदा दुष्कर्मकार्यमात्रविनाशादिति वाच्यम् । कार्यमात्रविनाशस्य सुप्तित्वानभ्युपगमात् । सर्वेन्द्रियव्यापारविगममात्रेण सुप्तित्वो-पपत्तेश्च । न च ब्रह्मवेदनप्रतिबन्धकतया ब्रह्मज्ञाननिवर्त्यम् आवश्यकं बोध्यम् । न च प्रकृतिदुष्कर्मणी तादृशे तयोर्ज्ञानानिवर्त्यत्वादिति वाच्यम् । ‘‘ज्ञानाग्निः सर्वकर्माणि’’ इति स्मृत्या दुष्कर्मणोऽपि ज्ञाननिवर्त्यत्वाभिधानात् । प्रकृतेरपि आवश्यत्वावस्थाविशेषेण निवृत्त्युपपत्तेश्च ।। अज्ञानेति ।। ‘‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।’’ ‘‘अविद्यायामन्तरे वर्ममानाः’’ ‘‘नीहारेण प्रवृता चरन्ती’’त्यादावित्यर्थः । न च प्रकृतिरेवाज्ञानम् । तस्य मिथ्यात्वाङ्गीकारात् । अस्याश्च सत्यत्वादित्याह ।। न चेति ।। नन्वियं श्रुतिरपरमार्थिकसत्वादिपरेत्यत आह ।। न चेति ।। ब्रह्मसत्यत्वश्रुतेरपि तथात्वप्रसङ्ग इति भावः ।

ननु श्रुतिपुराणादौ मायाशब्दश्रवणात् तस्य मिथ्याभूतवस्तुवाचित्वात् तेनाज्ञानसिद्धिः स्यात् इत्यत आह ।। मायाशब्दोऽपीति ।। ननु भूयश्चान्ते विश्वमायानिवृत्तिरिति ज्ञाननिवर्त्यत्वश्रवणात्कथं माया प्रकृतिरीश्वरशक्तिर्वेत्यत आह ।। विश्वेति ।। न च ज्ञानहेतुकतरणस्य निवृत्त्यतिरिक्तस्यासम्भवेन तरणशब्देन निवृत्तिरेवेति वाच्यम् । स्वकार्याक्षमत्वापादकत्वेन उत्तेजकेन मणिस्तीर्ण इतिवत् निवृत्त्यभावेऽपि ज्ञानहेतुक-तरणोपपत्तेः । निवृत्तिपरत्वेऽपि अवस्थाविशेषेण निवृत्त्यभ्युपगमान्न विरोधः । न च ज्ञानमेव मायाशब्दार्थः किं न स्यादित्यत आह ।। न हीति ।। न चाज्ञानस्य प्रतिबिम्बपक्षपातित्वेन नेश्वरसार्वज्ञ्यादिविरोधित्वमिति वाच्यम् । अस्याज्ञानसिद्ध्युत्तर-कल्प्यत्वेनान्योन्याश्रयात् । प्रतिबिम्बोपाधेर्बिम्बत्वादर्शनाच्च । न च सार्वज्ञ्याद्यैश्वर्यं मायानिबन्धनमिति वाच्यम् । ‘‘एष सर्वेश्वर’’ इत्याद्युक्त्या ‘‘एष नित्यो महिमा ब्राह्मणस्य’’ इति तस्य नित्यत्वोक्त्या मायाधीनत्वासम्भवात् । उपपादयिष्यते चैतत् सगुणवादे ।

।। मायाशब्दस्येति ।। न चैवमेवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावभासीकरोति । माया चाविद्या च स्वयमेव भवतीति श्रुत्या मायाविद्ययोरैक्यप्रतिपादनात् अज्ञानमेव मायाशब्दार्थः । घटशब्दस्य ‘‘घट चेष्टायाम्’’ इति चेष्टार्थकधातुजत्वेऽपि चेष्टावाचकत्वाभाववत् अत्राप्युपपत्तेः । निघण्टुवचनं च ज्ञानाकारपरिणामित्वात् ज्ञानमित्यभिप्रायेणोपपन्नमित्यत आह ।। मायाशब्दस्येति ।। प्रयोगानुसारेण रूढिः कल्प्या । तथा च ज्ञानिनि कदापि मायाविशब्दाप्रयोगात् न मायाशब्दो ज्ञाने रूढः । नापि यौगिकः । विरोधादिति भावः । श्रुतौ चाविद्याशब्दो अस्य विद्येति योगेन ईश्वरविचित्रशक्तिपरत्वेऽपि न किञ्चिदनुपपन्नम् । अवभासेनेत्युक्त्या जीवेशभेदज्ञाने कारणत्वमुक्तम् । तच्च नास्माकं विरोधि । घटदृष्टान्तोपादानं च विषयम् । चेष्टाभाववति घटशब्द इव अज्ञाने मायाशब्दाप्रयोगात् । एवं च निघण्टुवचनं नान्यथा व्याख्येयम् ।

नन्वज्ञानादौ यथा न मायाशब्दप्रयोगः, तथा शक्त्यादावपि न प्रयोग इति कथं शक्तिपरत्वं तस्येत्यत आह ।। योगेति ।। नन्वस्तु मायाशब्दस्य शक्त्यादौ प्रयोग-स्तथापि ज्ञानार्थकधातुव्युत्पन्नस्य कथं तत्परत्वमित्यत आह ।। तत्रैवेति ।। तथा च ईश्वरशक्त्यादेर्ज्ञानादिरूपत्वात् तदर्थकस्यापि तस्य तत्परत्वं युक्तमिति भावः ।। एक इति ।। व्याख्यानतोऽपि विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति न्यायेन व्याख्यानस्य संशयादिनिरासकत्वेन च प्रबलत्वात् । भागवते च शक्तिपरत्वेन व्याख्यातत्वात् । तत्परत्वमेव नान्यपरत्वमिति भावः ।। अत एवेति ।। व्याख्यानस्य बलत्वादेवेत्यर्थः ।

ननु मिथ्याभूतेऽपि मायाशब्दप्रयोगात् तदपि मायाशब्दार्थ इत्यत आह ।। शक्ति-रूप्यादाविति ।। न च वज्रादौ पृथिवीत्यादिव्यवहाराभावेऽपि पृथिवीत्ववदिहापि मायेति व्यवहाराभावेऽपि मायात्वं स्यादिति वैषम्यात् । न हि वज्रादौ पृथिवीव्यवहारो नास्ति । तथात्वे पार्थिवत्वलोहलेख्यत्वव्याप्तौ वज्रे व्यभिचारकथनमसङ्गतं स्यात् । न चेन्द्रजालिके मिथ्याभूते मायाशब्दप्रयोगोऽस्तीति वाच्यम् । तत्रैन्द्रजालिकप्रदर्शनमन्त्रादावेव माया-शब्दस्य मुख्यत्वेन तज्जन्यज्ञानविषये मायाशब्दस्यौपाचारिकत्वात् । अन्यथोक्त-व्याख्यानादिविरोधात् । अत एव वक्ष्यति ।। मिथ्याभूत इति ।। मिथ्याभूतस्य गुणवत्त्वानुपपत्तेः ।

न्यायामृतप्रकाशः

नन्वनृतेन हि प्रत्यूढा इत्यत्रानृतशब्दवाच्यमिथ्याभूताज्ञानबद्धत्वं चेतनानां प्रतीयत इति श्रुतिरेवाविद्यायां मानमित्यत आह ।। अनृतेन हीति ।। ऋतशब्दस्य ‘‘ऋतं पिबन्तौ सुकृतस्य लोक’’ इत्यादौ सत्कर्मपरत्वादनृतशब्दो दुष्कर्मपर इत्याह ।। अनृतेति ।। अनृतशब्दस्य परिणामिपरत्वे प्रमाणमाह ।। अनृतमिति ।।

‘‘ऋ गताविति धातोस्तु पूर्वावगतवत्सदा ।

  स्थितेर्ब्रह्मर्त्तमित्युक्तमनृतं परिणामतः ।।’’

इति स्मृतेरित्यर्थः । तथा चानृतेन प्रकृत्या लिङ्गदेहरूपप्रकृत्या वा प्रत्यूढा बद्धाः सन्त एतं ब्रह्मलोकं न विन्दन्तीति पूर्वेण सम्बन्धः । नन्वज्ञानेनावृतं ज्ञानम्, अविद्यायामन्तरे वर्तमानाः, नीहारेण प्रावृताः, तम आसीदित्यादौ मिथ्याभूताज्ञानमविद्यादिशब्दवाच्यं श्रूयत इत्यत आह ।। अज्ञानेत्यादि ।। नन्वस्तु तर्हि मिथ्याभूता प्रकृतिरविद्येत्यत आह ।। न चेति ।। उदाहृतवाक्येषु प्रकृतिमिथ्यात्वप्रतिपादकशब्दाभावादित्यर्थः । प्रत्युत वाक्यान्तरे प्रकृतेः सत्यत्वमेवोच्यत इत्याह ।। तम आसीदिति ।। गौः प्रकृतिः अनाद्यन्तवती आद्यन्तवती न भवतीत्यर्थः । अन्तशून्यत्वोक्त्या ज्ञाननिवर्त्यत्वाभावाख्यमिथ्यात्वाभाव-स्याभिधानादित्यर्थः । नित्यत्वात् ज्ञाननिवर्त्यत्वशून्यत्वात्सत्यत्वाच्च न सा मिथ्येत्वन्वयः ।

ननु तम आसीदित्यादिश्रुतीनां व्यावहारिकसत्वपरत्वस्य सद्वैलक्षण्यपरत्वस्य वोपपत्तेर्न पारमार्थिकसत्यत्वपरत्वमित्यत आह ।। न चेति ।। क्वचिदिति ।। मम माया दुरत्यये-त्यादौ शक्त्यादीत्यादिपदेनास्त्रमन्त्रौषधादिग्रहणम् । प्रकृत्यादिपरत्वे ज्ञापकमाह ।। त्रिगुणेति ।। ननु ‘‘भूयश्चान्ते विश्वमायानिवृत्ति’’रिति ज्ञाननिवर्त्यत्वेन श्रुताया मायाया मिथ्यात्वसिद्धिरित्यत आह ।। विश्वेति ।। यद्यज्ञानं मायाशब्दार्थस्तर्हि ‘‘मायिनं तु महेश्वर’’मित्यादौ मायित्वेनोद्दिष्टस्य ब्रह्मणोऽज्ञानित्वप्राप्तेः । अस्त्विति चेत्तत्राह ।। मायिन इति ।। मय ज्ञान इत्यस्मादण्प्रत्यये सति निष्पन्नमायाशब्दस्य ज्ञानवाचित्वान्ना-ज्ञानं मायाशब्दार्थ इत्याह ।। मायाशब्दस्येति ।। मय ज्ञान इत्यस्मादण्प्रत्यये णित्त्वा-दुपधावृद्धौ स्त्रियां टापि सवर्णदीर्घे सति मायेति रूपं द्रष्टव्यम् । यदि प्रयोगवशान्माया-शब्दस्य विचित्रशक्त्यादिपरत्वं तर्हि तत एवाज्ञानादिपरत्वमस्त्वित्यत आह ।। मायावि-शब्दस्येति ।। विचित्रशक्त्यादीत्यत्रादिशब्दोक्तार्थं दर्शयति ।। योगमायामिति ।। चेतने दुर्गायाम् ।। वारिविक्षरे इति ।। क्षर विनाशसन्ततदानयोरिति धातोः वारीणि विशेषतः क्षरतः दत्त इति वारिविक्षरे इत्यर्थः । तत्रैव हरिवंश एव ।। व्याख्यातत्वादिति ।। आत्मशक्त्या मायाख्ययेत्यनेनेत्यर्थः । अत एवेत्युक्तं विशदयति ।। शुक्तीति ।। मिथ्याभूते रूप्यादौ रूप्यं मिथ्येति रूप्यं मायेति मायाशब्दाप्रयोगादित्यर्थः । ननु मिथ्याभूतमायोपेते मायाविशब्दप्रयोगो दृश्यत इति चेत्तत्राह ।। सत्येति ।।

ननु ‘‘मायामृगं दयितयेप्सित’’मित्यादौ मारीचस्य मायामृगत्वमुच्यते । तच्च मिथ्याभूतमेवेत्यत आह ।। मायामृगस्यापीति ।। कामेति ।। तथा च मायामृगत्वं न मिथ्याभूतम् । मनोजवः कामरूपमित्युक्तरूपविशिष्टासुरसिद्धिरेवेत्यर्थः ।। रामशरेति ।। ‘‘तेनाहतः शरवरेणे’’ति रामशरवेध्यत्वोक्तेस्तस्य च मिथ्याभूतेऽसम्भवादित्यर्थः । ननु देवासुरसङ्ग्रामादौ मायाशस्त्रादिकं कथ्यते तच्च मिथ्याभूतमेवेत्यत आह ।। देवासुरेति ।। मायाशस्त्रादेर्मायाशब्दवाच्यमन्त्रादिनिर्मितशस्त्रादेरित्यर्थः । ननु ऐन्द्रजालिकपुरुषेण मन्त्रौषधा-दिना निर्मिते मिथ्याभूते सर्पादौ मायाशब्दप्रयोगान्न तस्य सत्यत्वमित्यत आह ।। मिथ्याभूत इति ।। ऐन्द्रजालिकादौ मायाशब्दस्यामुख्यत्वाद्गौणत्वादित्यर्थः । गौणत्वे हेतुभूतमुख्यसम्बन्धस्योपपादनं मायाधीनेति । सङ्ग्रामादौ निर्मितस्य सत्यशस्त्रादिप्रतीते-र्मिथ्याभूतैन्द्रजालिकसर्पादिप्रतीतेश्च मायाशब्दोक्तमन्त्रौषधाद्यधीनत्वादित्यर्थः ।। ज्ञान-निवर्त्यत्वोक्तीति ।। ‘‘तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्ति’’रिति श्रुतावित्यर्थः । यद्यप्यत्र निवृत्तिः स्मरणमेव ‘‘मायामेतां तरन्ती’’ति स्मृतेरित्युक्तत्वादेषा शङ्कैव नोदेति तथापि तत्र मायामेतामिति स्मृतौ ईश्वरीयबन्धकशक्तितरणमेवाभिप्रेतम्, अत्र पुनः प्रकृतेर्विनाश एव स च प्रकृतेः सत्यत्वे न सम्भवति सत्यस्य चानिवृत्तेरित्यर्थः । तथा च तदन्यथानुपपत्त्या मिथ्यात्वं कल्पनीयमित्यर्थः ।

अर्थापत्तेरन्यथोपपत्तिमाह ।। सत्यस्यैवेति ।। सत्यस्यैव ज्ञाननिवर्त्यत्वं न मिथ्या-भूतस्य रूप्यादौ तददर्शनादिति प्राङि्नपुणतरमुपपादितमिति भावः । श्रुत्यादौ मायाया अविद्यात्वोक्त्यन्यथानुपपत्त्या मिथ्यात्वसिद्धिरित्यत आह ।। अत एवेति ।। अत एवेत्युक्तमेव विशदयति ।। विद्येति ।। तच्च सत्यस्यैवास्तीत्यर्थः । ननु ‘‘दैवी ह्येषा गुणमयी मम माये’’त्यादौ एकस्या एव मायायाः परस्परविरुद्धसत्वादिगुणत्रयात्म-कत्वोक्त्याऽर्थादनिर्वचनीयत्वमेवावगम्यते । अतो मिथ्यात्वसिद्धिरित्यत आह ।। दैवी हीति ।। सत्तानुगुणा सत्यत्वानुगुणा सत्यत्वानुकूलैव न तु तत्प्रतिकूलेत्यर्थः । सत्वादीनां परस्परं मिश्रत्वेनाविरोधः सिद्ध एव । ‘‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपा’’मिति तत्सामानाधिकरण्यश्रुतेरिति भावः । प्रत्युत गुणमयीत्युक्तं त्रिगुणात्मकत्वरूपं त्रैगुण्यं मायायाः सत्व एव युक्तं न मिथ्यात्वे कुत इत्यत आह ।। शुक्त्यादीति ।। मिथ्याभूत इति शेषः ।

ननु भवद्भिरपि मायायाः श्रुतिप्रतिपाद्यत्वाङ्गीकारात्कथं तन्निराकरणमित्यत आह ।। तस्मादिति ।। शक्त्यादीत्यादिपदेन दुर्गामन्त्रौषधादिग्रहणम् । तथा चानेनास्मन्मते श्रुतिः सत्यभूतप्रकृत्यादिपरेत्युक्तं भवति ।

न्यायकल्पलता

ननु छान्दोग्ये दशमे(अष्टमे)ऽध्याये दहरप्रकरणे ‘‘त इमे सत्याः कामा अनृतापि-धानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः पै्रति न तमिह दर्शनाय लभतेऽथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा’’ इत्यत्र अनृतशब्दाभिधेयमिथ्याभूताज्ञानबद्धत्वं चेतनानां प्रतीयत इति श्रुतिरविद्यायां मानमित्यत आह ।। अनृतेन हीति ।। ऋतं पिबन्तौ सुकृतस्य लोक इत्यादौ ऋतशब्दस्य सत्कर्मपरत्वादनृतशब्दो दुष्कर्मपर इत्याह ।। ऋतमिति ।। अनृतशब्दस्य विकारिपरत्व-मभिप्रेत्यापि तत्र प्रमाणं वक्ति ।। अनृतमिति ।। ऋ गताविति धातोस्तु पूर्वावगत-वत्सदा । स्थितेर्ब्रह्मर्तमित्युक्तमनृतं परिणामत इति स्मृतेरिति ज्ञेयम् । ननु उत्तरत्र प्रजा-पतिवाक्ये य आत्माऽपहतपाप्मा विजरो विमृत्युरित्यादिनाऽपहतपाप्मत्वोक्तेः कथं तस्य दुष्कर्मपरत्वमिति चेन्न । अपहतपाप्मनि अज्ञानसम्बन्धस्याप्यभावात् । आविर्भूतस्वरूपा-पेक्षया तदुक्तौ तु दुष्कर्मण्यपि समानम् । एतेन सुषुप्तौ कार्यमात्रनाशे दुष्कर्मणोऽप्यभाव इति निरस्तम् । धर्माधर्माद्यभावे पुनरुद्बोधायोगात् ।

१((वस्तुतस्तु दहर उत्तरेभ्य इति दहराधिकरणे य आत्माऽपहतपाप्मा विजरो विमृत्यु-र्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवा-चेत्युत्तरेभ्यो गुणेभ्यो दहराकाशे परमात्मैवेति विज्ञेयम् । सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वी-कर्तव्यम् । सत्यकामोऽपरो नास्ति तमृते विष्णुमव्ययम् । सत्यकामत्वमन्येषां भवेत्तत्काम्य-कामितेति स्कान्दवचनात् ।।))

नन्विद्यायामनेके आगमाः । तथा चोक्तं पञ्चपादिकायाम् । येयं श्रुतिस्मृतीतिहास-पुराणेषु नामरूपव्याकृतमविद्या माया प्रकृतिरग्रहणमव्यक्तं तमः कारणं लयः शक्तिर्महासुप्ति-र्निद्राऽक्षरमाकाशमिति च तत्र तत्र बहुधा गीयते चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मरूप-तावभासं प्रतिबध्य जीवत्वापादिकाऽविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादन- विक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्येति । अत्र अविद्याकर्मपूर्वप्रज्ञेति भ्रान्तिकर्मपूर्वानुभव-संस्कारा उच्यन्ते । विवरणेऽप्युक्तम् । समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमान इति स्वभावसिद्धेश्वरस्यानीश्वरत्वं तद्भावाप्रतिपत्तिरेव वस्तुनोऽनपायात् ततश्चेश्वरभावा-प्रतिपत्तेः शोकस्य च निमित्तं मोहं दर्शयति । तथा न तं विदाथ य इमा जजानान्य-द्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति । नीहारं तमोऽज्ञानमित्यनर्थान्तरम् । तेन प्रावृतत्वमेव जीवानां ब्रह्मापरिज्ञाने जल्प्यत्वाद्यध्यासे च निमित्तं दर्शयति । तथा अविद्यायामन्तरे वर्तमानाः नान्यच्छ्रेयो वेदयन्ते प्रमूढा इति श्रेयोरूपब्रह्मापरिज्ञाने क्रियाकारकाद्यध्यासे च निमित्तभूतामविद्यां दर्शयति । अज्ञानेनातृतं ज्ञानमित्याद्याः स्मृतयश्चेति ।।

मन्त्रार्थस्तु माधवीये । हे नराः यः विश्वकर्मा इमानि भूतानि जजान । उत्पादितवान् तं विश्वकर्माणं न विदाथ न जानीथ । तत्र हेतुः युष्माकं अन्यदेव अन्तरं व्यवधानं बभूव । तदुच्यते नीहारेण नीहारसदृशेन अज्ञानेन प्रावृताः । किञ्च जल्प्या अहं मनुष्योऽहं देव इत्याद्यनृतजल्पनशीलाः । असून्प्राणान् तर्पयन्ति ते असुतृपः देहपोषकाः । उक्थशास उक्थशब्देन स्तोत्रशस्त्रादिकं गृह्यते । नानाविधपक्षेषूक्तम् । प्रउगनिष्कैवल्यादिकं शंसन्ति । ऐहिकामुष्मिकभोगमात्रपरा इत्यर्थः ।

तदेतन्निराकरोति ।। अज्ञानेत्यादिना ।। सन्त्येवोदाहृतवाक्येष्वज्ञानादिशब्दाः । परन्तु ते प्रकृतिपरा इत्यर्थः । ननु मिथ्याभूता प्रकृतिरेवास्मकमविद्येत्याशङ्क्य निराकरोति ।। न चेति ।। उदाहृतवाक्येषु प्रकृतिमिथ्यात्वप्रतिपादकशब्दाभावादित्यर्थः । प्रत्युत वाक्यान्तरे प्रकृतेः सत्यत्वमेवोच्यत इत्याह ।। तम इति ।। गौः प्रकृतिः । ननु तस्याभिध्याना-द्योजनात्तत्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिरित्यत्र ज्ञाननिवर्त्यत्वेन श्रुताया मायाया मिथ्यात्वसिद्धिरित्यत आह ।। विश्वेति ।। मायाया मिथ्यात्वे निवर्त्यत्वानुपपत्तेर्निवृत्ति-शब्दार्थमाह ।। तरणमिति ।। मायायां सत्यामेव परमेश्वरानुग्रहेण तत्कृतपराभवाभाव इत्यर्थः । मामेव ये प्रपद्यन्त इत्यादिगीतोक्तेरिति भावः । प्रपत्तिः शरणागतिः ।। मायिन इति ।। मायाशब्दस्य व्रीह्यादित्वात् व्रीह्यादिभ्यश्चेति मत्वर्थे इनिप्रत्ययः । ननूपाधेः प्रतिबिम्बपक्षपातित्वेनेश्वरासर्वज्ञ्यानापादकत्वमिति चेन्न ।  सार्वज्ञ्यादेरनौपाधिकत्वापातात् । त्वन्मते बिम्बातिरिक्तस्य प्रतिबिम्बस्याभावेन तत्पक्षपातो न सम्भवतीति वक्ष्यमाणत्वाच्च ।। मायाशब्दस्येति ।। चिन्तिपूजिकथिकुम्भिचर्चश्चेति सूत्रे चकारादनुक्तसमुच्चयार्थादङ्प्रत्ययो व्याख्यातव्यः । न च घटचेष्टायामिति धातुजन्यस्यापि घटशब्दस्य चेष्ठावाचकत्वाभाव-वदत्रापि ज्ञानवाचकत्वाभाव इति युक्तम् । क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातव इति वचनात् । मायाशब्दस्य मिथ्याभूते प्रयोगाभावं च वक्ष्यति ।

ननु एवमेवैषा स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवतीति श्रुत्या मायाऽविद्ययोरैक्यप्रतिपादनादज्ञानमेव मायेति चेन्न । जीवस्य परब्रह्मबोधतिरोधायिका भगवच्छक्तिरत्र प्रतिपाद्यते । न तु पराभिमता-निर्वचनीया माया । स्वाधीनानि क्षेत्राणि महदहङ्कारादीनि दृष्ट्वा सृष्ट्वा जीवेशौ आभासयति । शक्तिशक्तिमतोरभेदात् । जीवबद्धत्वेन  ईशं अप्रतिहेतेच्छत्वेनेत्यर्थः ।। वेदेति ।। न च ज्ञानाकारपरिणामित्वादज्ञानस्यापि ज्ञानत्वमुपपन्नमिति वाच्यम् । उपादानोपादेययोः साम्य-दर्शनेन परिणामसिद्धेः ।। वारिविक्षर इति ।। वारि जलं विक्षरतः विसृजतस्ते तथोक्ते । क्षरविनाशसततदानयोरिति धातोः ।। व्याख्यातत्वादिति ।। आत्मशक्त्या मायाख्ययेत्य-नेनेत्यर्थः ।। तदप्रयोगादिति ।। प्रामाणिकानामिति शेषः । तेन न वज्रादौ पृथिवीशब्दा-प्रयोगसाम्यम् ।। सत्येति ।। अस्मायामेधास्रजो विनिरिति मत्वर्थे विन्प्रत्ययविधाना-दित्यर्थः । ननु मन्त्रौषधादिनिर्मिते सर्पादौ मिथ्याभूते मायाशब्दप्रयोगान्न तस्य सत्य-वाचित्वनियम इत्यत आह ।। मिथ्याभूत इति ।। गौणत्वहेतुभूतमुख्यार्थसम्बन्धमुप-पादयितुमुक्तम् ।। मायाधीनेति ।। सत्यस्यैवेति ।। तथा च रूप्यादौ ज्ञाननिवर्त्यत्वा-दर्शनात् । मिथ्यात्वे हेतुर्विरुद्ध इत्यर्थः । न च मायाया ईश्वरशक्तित्वे तत्तरणोक्तिविरोधः । ईशानुग्रहेण तदीयबन्धकशक्तेस्तिरोधानोक्तेः  विश्वमायानिवृत्तिरित्यत्र । उक्तं हि श्रीभागवते यद्येषोपरता देवी माया वैशारदीमतिः । सम्पन्न एवेति विदुर्महिमि्न स्वमहीयत इति । नैनं जीवं संसारयामीति निवृत्तव्यापारा  उपरता । बन्धको भवपाशेन भवपाशाच्च मोचक इति स्कान्दोक्तेश्च । अत्र तु प्रकृतिबन्धस्य विनाश इति भेदात् । प्रकृतेर्नित्यत्वं च गौरनाद्यन्त-वतीति श्रुतिसिद्धम् । नन्वेकस्य विरुद्धसत्वादिवचनमनिर्वचनीयत्वमावेदयतीत्यत आह ।। दैवी हीति ।। सत्वादीनां परस्परं सम्भिन्नत्वेन तद्विरोधोऽसिद्धः । अजामेकां लोहितशुक्ल-कृष्णां बह्वीं प्रजां जनयन्तीं सरूपामिति तत्सामानाधिकरण्यश्रुतेरिति भावः । सत्वं कालत्रयाबाध्यत्वलक्षणं सत्यत्वम् । एषेति भगवद्दृष्टत्वान्न मिथ्यात्वम् । ननु मायायास्त्वया-प्यङ्गीकारात्कथं तन्निराकरणमित्यत आह ।। तस्मादिति ।।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायां हि पराविद्या त्वनागमा ।।

न्यायामृतसौगन्ध्यम्

नापि श्रुतिस्तत्र मानम् । ‘अनृतेन हि प्रत्यूढाः’ इत्यत्रानृतशब्दो हि दुष्कर्मपरः । ‘ऋतं पिबन्तौ’ इत्यादौ ऋतशब्दस्य सत्कर्मणि प्रयोगदर्शनात् । अविद्यानीहारादिशब्दाः प्रकृतिपराः । न तु सा मिथ्या । ‘तम आसीत्’ ‘गौरनाद्यन्तवती नित्या सततविक्रिये’-त्यादिश्रुतिभिः सत्यत्वनित्यत्वोक्तेः । मायाशब्दोऽपि क्वचित् प्रकृतिपरः, क्वचित् विचित्रेश्वर- शक्त्यादिपरः । ‘विश्वमायानिवृत्तिरि’त्यादौ निवृत्तिस्तरणमेव । ‘तरति शोकमात्मविदि’ति श्रुतेः । ‘मायामेतां तरन्ति ते’ इति स्मृतेश्च । तरणं तु सत्यस्यैव । न हि मरुमरीचिका-जलस्य तरणमस्ति । न ह्यज्ञानं मायाशब्दार्थः । मायिनो ब्रह्मणोऽज्ञत्वे सर्वज्ञत्वनिरव-द्यत्वादिश्रुतिविरोधात् । वेदनिघण्टौ ‘माया वयुनं ज्ञानमि’ति पाठाच्च । मायाविशब्दस्य विचित्रशक्तिमति प्रयोगच्च । ‘योगमायां समादिशत्’ इति भागवते, ‘ऋते मायां विशालाक्षी-मि’ति रामायणे च चेतने, ‘जलं संस्तभ्य मायये’ति भारते जलस्तम्भनशक्तौ च प्रयोगात् । हरिवंशे च–

मयश्च शंबरश्चैव महामायाधरौ तथा ।

पार्जन्यवारुणी माये व्यधत्तां वारिविक्षरे ।।

इति पार्जन्यवारुणास्त्रयोस्तत्प्रयोगाच्च । तत्रैव ‘मायामास्थाय युद्ध्यस्वे’ति प्रकृत-मायायां, ‘आस्थाय तामसीं विद्यामि’ति विद्याशब्दप्रयोगाच्चेति ।

न मिथ्याभूतं मायाशब्दार्थः, शुक्तिरूप्यादौ तदप्रयोगात् । सत्यमन्त्रौषधादिमत्येव मायाविशब्दप्रयोगाच्च । मायामृगस्य मारीचस्य कामरूपित्वेन रामशरवेध्यत्वेन च सत्य-त्वात् । मिथ्याभूते ऐन्द्रजालिकादौ मायाधीनप्रतीतिकत्वेन मायाशब्दस्यामुख्यत्वात् । न च मायायाः सत्यत्वे ज्ञाननिवर्त्यत्वोक्तिविरोधः । सत्यस्यैव तन्निवर्त्यत्वात् । क्वचिद-विद्यात्वोक्तिर्विद्यानिवर्त्यत्वात् । ‘दैवी ह्येषे’त्यादौ गुणमयत्वाद्युक्तिः सत्वानुगुणैव ।

एतेन ज्ञानहेतुकतरणस्य निवृत्यतिरिक्तस्यासम्भव इति निरस्तम् । ‘गौरनाद्यन्तवती’-त्यादिश्रुत्यनुरोधात् नाशातिरिक्तस्यैव तरणपदार्थत्वात् ।

एतेन ‘तम आसीदि’त्यस्य ‘नासदासीन्नो सदासीदि’त्यनेन पारमार्थिकत्वतुच्छत्वयो-र्निषेधेन व्यावहारिकसत्वपरत्वमिति निरस्तम् । ‘नासदासीदि’त्यस्य पञ्चभूतनिषेधपरत्वात् ।

यत्तु ‘ऋतेऽर्थं यत् प्रतीयते’ इत्यादिस्मृत्या मृषार्थस्य मायापदशब्दशक्यत्वं बोध्यते दुर्घटकारिणि निरूढलक्षणेति । तन्न । तत्र प्रतीत्यप्रतीतिभ्यां आगन्तुकत्वस्योक्तत्वात्, मायाशब्दस्य प्रकृतिपरत्वात् कार्यकारणयोरभेदात् ।

यत्तु मन्त्रौषधादौ मिथ्यार्थनिमित्तत्वात् मायापदप्रयोगः उपचारात्, क्वचिद्व्यवहाराभावो व्यञ्जकाभावात्, व्यञ्जके सति वज्रादौ पृथिवीत्वादेरिव रूप्यादावपि मायात्वं व्यवह्रियत एव । किञ्च कष्टं कर्मेत्यनुभवेन क्रियामात्रस्य दुःखजनकत्वेऽपि इदानीं मे दुःखमिति संवदानव्यवहारः प्रकृष्टदुःख एव तद्व्यवहारात् तथा चमत्कारविशेषाधायकत्वेन प्रकृष्टमायाया-मेव मायापदप्रयोगः (मायात्वव्यवहारः) । अत एव ‘माया ह्येषा मया सृष्टा’ ‘नैवं मां द्रष्टुमर्हसी’ति नारदं प्रति भगवद्वाक्ये दृश्यमानस्य विश्वरूपप्रतिपन्नोपाधौ निषेध्यत्वे मायात्वं हेतूकृतं इति ।

तन्न । मायाशब्दस्य मिथ्यार्थे कुत्रापि प्रयोगाभावात् । रूप्यादौ तवैव हि तथा व्यवहारः । विचित्रमन्त्रादिमति मायाविपदप्रयोगस्य (आज्ञानिकत्वेन?) औपचारिकत्वा-नौचित्यात् । १((दृष्ठियथाप्राप्त तन्न्यायैवेत्यत्र)) माया प्रकृतिः कार्यकारणयोरभेदात् । कष्टं कर्मेत्यत्र नान्तरीयकदुःखाधिजनककर्मण एवोक्तत्वात् । सति दुःखे व्यवहारो हि भवत्येव । न हि दुःखं अज्ञातं तिष्ठति । प्रकृष्टदुःखे तु ममाधिकं दुःखमिति व्यवहारात् । अन्यथा दुःखे तारतम्यव्यवहारो न स्यात् । माया ह्येषेत्यत्र तु पूर्वमुक्तस्य विराट्स्वरूपस्य मायापदेनोक्तेः कार्यकारणयोरभेदात् । इदमेव मदीयं मुमुक्षुज्ञेयं स्वरूपं इत्येवं मां द्रष्टुं नार्हसि किन्तु इतःपरं अप्राकृतरूपमस्तीति भावः । दिव्यविग्राहाभिप्राये तु मया एषा मायारूपा सृष्टा प्रकटिता पश्यसि ।।

।। श्रुतेरनिर्वाच्याविद्यापरत्वभङ्गविवरणम् ।।