किञ्च ‘द्वा सुपर्णा’ ‘य आत्मनि तिष्ठन्’ ..

२२. भेदश्रुतेरनुवादकत्वभङ्गः

न्यायामृतम्

किञ्च ‘द्वा सुपर्णा’ ‘य आत्मनि तिष्ठन्’ ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य’ इत्यादिश्रुतिभिः,

नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।

अन्यश्च परमो राजंस्तथाऽन्यः पञ्चविंशकः ।।

यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । इत्यादिस्मृतिभिः ‘भेदव्यपदेशाद्, भेदव्यपदेशाच्चान्यः, शारीरश्चोभयेऽपि हि भेदेनैनमधीयते, पृथगुपदेशाद्’ इत्यादि-भिर्निर्णायकसूत्रैश्च सिद्धो भेदः । न च श्रुतिरनुवादः । जगत्सत्यत्वश्रुतेरनुवादकत्व-प्रस्तावोक्तन्यायैर्जीवत्वावच्छिन्नजीवभेदस्याप्राप्त्या ‘न हिंस्यात्’ इत्यादिवद् अननु-वादकत्वोपपत्तेः । शाखान्तरस्थविधिवाक्यस्येव पुंविशेषं प्रत्यर्थवत्त्वाच्च । ‘द्वयोः प्रणयन्ति’ इत्यादिवद्वर्तमानमात्रग्राहिप्रत्यक्षाप्राप्तकालत्रयाबाध्यभेदप्रापकत्वोपपत्तेश्च । ऐक्ये षड्विधतात्पर्यलिङ्गवद्दार्ढ्यार्थ त्वाच्च । ‘षड्विंशतिरित्येव ब्रूयात्’ इतिवत् प्रतिप्रसवार्थत्वाच्च । प्रत्यक्षस्याप्रामाण्ये श्रुतेरनुवादकत्वायोगाच्च । श्रुतेः प्रत्यक्ष-निरपेक्षानुवादत्वेन धारावाहिकद्वितीयादिज्ञानवत् प्रमात्वोपपत्तेश्च । विद्वद्वाक्य-वत्सप्रयोजनानु वादत्वेन स्वार्थपरत्वाच्च । ‘यत्तन्न’ इत्यादिनिषेधार्थानुवादलिङ्गाभावेन विधेयान्तरश्रवणेन च निषेधार्थानुवादायोगात् । विधानार्थानुवादे चानुवाद्यस्य तात्त्विकत्वनियमाच्च । अनुवादकत्वेऽपि यथार्थ्यरूपप्रमाण्याहानेश्च । किञ्चौपनिषदस्य ब्रह्मणोऽशास्त्रेणाप्राप्तेः तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य कथं शास्त्रनिरपेक्ष-प्रत्यक्षादिना प्राप्तिः ? न च शास्त्रसापेक्षप्राप्त्या शास्त्रस्यानुवादकता । भेदमात्रस्य प्राप्त्यनुवादत्वे तु घटेन घटैक्यश्रुतिरप्यनुवादः स्यात् । इति भेदश्रुतेरनुवादकत्वभङ्गः ।।

अद्वैतसिद्धि:

ननु– भेदतात्त्विकत्वे ‘द्वा सुपर्णा,’ ‘य आत्मनि तिष्ठन्,’ ‘नित्यो नित्यानां चेतन-श्चेतनानाम्,’‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य’इति श्रुतयो मानमिति– चेन्न । द्वा सुपर्णेत्यत्र पूर्वार्धे न भेदः प्रमेयः, अपदार्थत्वाद् अवाक्यार्थत्वाच्च । द्वित्वस्य स्वाश्रय-प्रतियोगिकभेदसमानाधिकरणत्वनियमात् । श्रुतद्वित्वार्थापत्तिसमधिगम्यस्यापि भेदस्य श्रौतत्वमिति चेन्न । ‘द्वौ चन्द्रमस•ै’ इत्यत्रेव कल्पितभेदेनाप्युपपत्तेः तात्विकभेदानाक्षेपकत्वात् । अत एव नोत्तरार्धस्यापि तात्त्विकभेदपरत्वम् । वस्तुतस्त्वस्याः श्रुतेः पैङ्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवेशभेदपरत्वस्य वक्तुम् अशक्यत्वात् । ‘य आत्मनि तिष्ठन्’ इत्यादावाधाराधेयभावस्य ‘चेतनश्चेतनानाम्’ इति निर्धारणस्य ‘अजोऽन्यः’ इत्यत्र भेदव्यपदेशस्य काल्पनिकभेदमादायाप्युपपत्तेः भेदतात्त्विकत्वापर्यवसायित्वात्, श्रुत्यन्तरविरोधाच्च । न चैतच्छ्रुतिविरोधात् सैव श्रुतिरन्यपरा । भेदश्रुतेः प्रत्यक्षसिद्ध भेदानुवादत्वेन हीनबलत्वात् । न च जीवत्वावच्छिन्नजीवभेदस्याप्राप्त्या ‘न हिंस्यात्’ इत्यादिवदननुवादत्वम् । जीवेश्वरभेदस्य प्रत्यक्षसिद्धतया तदन्यथानुपपत्तिसिद्धेशधर्मिकजीवत्वा-वच्छिन्नभेदस्यापि प्रत्यक्षसिद्धतुल्यकक्ष्यतया तद्बोधकश्रुतेरनुवादत्वोपपत्तेः । ‘न हिंस्यात्’ इत्यत्र नानुवादत्वशङ्कापि । ‘ब्राह्मणो न हन्तव्यः’ इत्यादेः पुरोवादकत्व निर्णायकाभावात् । न च पुंविशेषं प्रत्यस्यार्थवत्त्वं, शाखान्तरस्थविधिवाक्यवदिति वाच्यम्, एकस्यानेकशाखाध्ययना सम्भवात् । प्रत्यक्षस्य सर्वपुरुषसाधारण्येन प्राथमिकप्रसरत्वेन च पुरुषविशेषं प्रत्यपि सार्थकत्वस्य वक्तुं शक्यत्वात् । न च ‘द्वयोः प्रणयन्ति’ इत्यादिवद् वर्तमानमात्रग्राहिप्रत्यक्षाप्राप्तकालत्रयाबाध्य-भेदप्रापकत्वमिति वाच्यम् । ‘अजो ह्यन्यः’ इत्यादौ त्रिकालाबाध्यत्वबोधकपदाभावात् ।

न चाभेदे षड्विधतात्पर्यलिङ्गवद्दार्ढ्यार्थत्वं भेदश्रुतेरिति– वाच्यम् । तत्र प्रयोजन-वत्त्वेऽप्यनु-वादत्वापरिहाराद् ‘अग्निर्हिमस्य भेषजम्’ इतिवत् । न च ‘षड्विंशतिरित्येव ब्रूयात्’ इतिवत् प्रतिप्रसवार्थत्वम्, तदपेक्षया हीनबलत्वेन प्रतिप्रसवायोगात्, भेदनिषेधकश्रुतेः भेदतात्त्विकत्व-निषेधपरत्वेन भेदस्वरूपप्रतिपादकवाक्यस्य तत्प्रतिप्रसवायोगात् । न च प्रत्यक्षस्याप्रामाण्ये श्रुतेस्तत्सिद्धानुवादकत्वायोगः । तस्या ज्ञातज्ञापकत्वमात्रेणानुवादकत्वोपपत्तेः । न च– एवमपि निरपेक्षानुवादत्वेन धारावाहिकद्वितीयादिज्ञानवत् प्रमात्वोपपत्तिरिति वाच्यम् । निरपेक्षसापेक्ष-साधारणानुवादत्व मात्रस्याप्रामाण्यप्रयोजकत्वाद्, दृष्टान्तस्यातिरिक्तकालकलाविषयत्वेनानधिगतार्थ-विषयतया विषमत्वात् । न च विद्वद्वाक्यवत् सप्रयोजनानुवादत्वेन स्वार्थपरता । तस्य स्वार्थबोध-कत्वेऽपि द्वित्वसम्पादकतया स्वार्थपरत्वाभावात् । न च ‘यत्तन्न’ इत्यादिनिषेधार्थानुवादलिङ्गाभावेन विधेयान्तरश्रवणेन च निषेधार्थानुवादत्वायोगः । ‘यत्तत्’ इत्यादेरनुवादलिङ्गत्वेऽपि अनुवाद-व्यापकत्वाभावाद्, अन्येनापि ह्युन्नयनसम्भवाद्, ‘ब्राह्मणो न हन्तव्यः’ इत्यादौ यत्तत्पदाभावेऽपि निषेधानुवाददर्शनाद्, विधेयान्तरसत्त्वे तु निषेधार्थानुवादकत्वाभावेऽपि तदर्थानुवादत्वापरिहारात् । न चैवंविधानार्थानुवादे तात्त्विकत्वनियमः । ‘यद्रजतं तदानय’ इत्यादावन्यविधानार्थं भ्रान्तिसिद्धानुवादे तात्त्विकत्वादर्शनात् । न चानुवादत्वेऽपि यथार्थत्वरूपप्रामाण्याहानिरिति वाच्यम् । तस्य बाधकाभावनिबन्धनत्वेन प्रकृतेऽसम्भवात् । ननु औपनिषदस्य ब्रह्मणः शास्त्रातिरिक्तेनाप्राप्तेस्तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य कथं शास्त्रनिरपेक्ष प्रत्यक्षादिना प्राप्तिरिति चेन्न । प्रतियोगिग्रहार्थं तदपेक्षत्वेऽपि स्वसमानविषयप्रमाणपूर्वकत्वानियमेन प्रत्यक्षस्य भेद प्रापकत्वोपपत्तेः । यद्यपीशधर्मिकस्य भेदस्य प्रत्यक्षेणाप्राप्तिस्तथापि प्रत्यक्षसिद्धजीवधर्मिकेशभेदान्यथानुपपत्ति सिद्धस्यापि तस्य श्रुतार्थापत्तिसिद्धस्य श्रौतत्ववत्प्रत्यक्षसिद्धत्वोपपत्तेः । इत्यद्वैतसिद्धौ भेदश्रुतेरनुवादकत्वम् ।। २२ ।।

न्यायामृततरङ्गिणी

सिद्धो भेद इति ।। न च श्रुत्यादिषु काल्पनिकभेद एवोच्यते । स्वतःप्रमाण-श्रुत्यादि-सिद्धस्य भेदस्य काल्पनिकत्वायोगात् । सत्यत्वे बाधकाभावाच्च । अनुपदमेव निरसिष्य-माणत्वाच्च ।। जीवत्वावच्छिन्नेति ।। स्वप्रत्यक्षेण स्वस्मादीशस्य भेदसिद्धावपि परजीवात्तदसिध्द्या नानुवादः श्रुतिरित्यर्थः ।। न हिंस्यादित्यादीति ।। एतच्च सर्वं व्याख्यातं मिथ्यात्वानुमानस्यागमबाधप्रस्तावे ।। भेदश्रुतेरनुवादकत्वभङ्गः ।। २२ ।।

न्यायामृतकण्टकोद्धारः

ननु सन्तु भेदेऽनुमानानि । तथापि न तेषां प्रामाण्यम् । मूलप्रमाणाभावेन प्रामाण्य-सन्देहास्कन्दनात् । न च प्रत्यक्षं मूलप्रमाणमुक्तमिति वाच्यम् । तस्य दोषशङ्काकलङ्कितत्वेन प्रामाण्यासम्मतेः । न च श्रुतिरेव प्रमाणम् । तदभावादित्यत आह– किञ्चेति । ननु ‘द्वा सुपर्णा’ इत्यत्र द्विशब्देन द्वित्वसङ्ख्यैवोच्यते, न भेदः । तथा च कथमस्य भेदे प्रमाणत्वेनोदाहरणमिति चेन्न । द्विशब्दस्य कुत्रापि भेदवाचित्वं नाङ्गीक्रियते, अत्रैव वा ? नाद्यः । द्वौ गुणौ, द्वे कर्मणी, द्वे जाती इत्यादिषु सङ्ख्यारहिते प्रयोगात् । द्विशब्दस्य भेदवाचित्वानङ्गीकारे द्वौ घटौ भिन्नावित्यत्र भवदीयान्योन्याश्रयोक्तिः, ‘द्वौ चन्द्रौ’ इति भेदमिथ्यात्वदृष्टान्तोक्तिः, ‘मायामात्रमिदं द्वैतम्’ इति भेदमिथ्यात्वप्रमाणोक्तिरित्यादिकं न स्यात् । न द्वितीयः । नियामकाभावात्, द्विशब्दवैयर्थ्याच्च । न च सङ्ख्याप्रतीत्यर्थं द्विशब्द इति वाच्यम् । द्विवचनेनैव तत्प्रतीतेः । न च द्विशब्दोपक्रमं वाक्यम् । सामान्यविशेषपरतया न वैयर्थ्यम् । अत एव ‘द्वावपूपौ आनय’ इत्यादीनि वाक्यानीति वाच्यम् । सामान्यविशेष-भावेन परिहारस्यानन्यगतिकत्वात् । अर्थान्तराभावेऽपि तदाश्रयणात् । न चाभिधानाद्यभावात् द्विशब्दस्य कथं भेदवाचित्वमिति वाच्यम् । अभियुक्तबहुलप्रयोगस्योक्तत्वात् ।

न च लक्षणया प्रयोगः । मुख्यार्थानुपपत्त्यनुसन्धानपूर्वकत्वाभावात् । न चेयं श्रुतिः पैङ्गिरहस्यब्राह्मणेन बुद्धिक्षेत्रज्ञपरतया व्याख्यातेति नानया जीवपरमात्मभेदसिद्धिरिति वाच्यम् । तस्य बुध्यत इति व्युत्पत्त्या जीवपरत्वसम्भवात् । ‘सुपर्णावेतौ’ इत्यनेनै-तच्छ्रुतेस्तथा व्याख्यानात् । न च ब्राह्मणमपि व्याख्यानरूपमिति वाच्यम् । तस्य व्याख्यानरूपत्वेऽपि जडस्य कर्मफलभोक्तृत्वासम्भवेनोपपत्ति हीनत्वात् । न च जड एव कर्तृत्वं मुख्यमिति वाच्यम् । तस्य स्वातन्त्र्यरूपत्वेन जडे च तदभावेन चैतन्यसमानाधि-करणतया प्रतीयमानत्वेन जडाप्रतीत्या च तत्र मुख्यत्वायोगात् । तथा चोपपत्ति युक्तया स्मृत्या ब्राह्मणस्यापि जीवपरमात्मपरत्वेनैव व्याख्यानं कर्तव्यम् । तत्रोक्तसत्वशब्दस्य सत्वगुणयुक्तत्वेन वा ज्ञानबलसमाहाररूपत्वेन वा जीवे सम्भवात् । अतो द्वासुपर्णेत्यस्य भेदप्रमाणत्वेनोदाहरणं युक्तम् ।

ननु रामकृष्णावित्यादाविव विशेषबलाद् द्विशब्दोपपत्तेर्नानेन जीवपरमात्मभेदसिद्धिरिति चेन्न । भेदाभावे विशेषस्योपपादत्वाङ्गीकारात् रामकृष्णयोर्भेदाभावस्य ‘न स्थानतोऽपि’ इत्यत्र सूत्रकारेणोक्तत्वात् । जीवस्य तु सूत्रकारेण वक्ष्यमाणसूत्रैर्भेदस्योक्तत्वात् ।। य इति ।। अत्राधाराधेयभावसम्बन्धोक्त्या भेदाभिधानम् । आधाराधेयभावस्योत्सर्गतो भेदनियतत्वात् ।। नित्य इति ।। अत्र निर्धारणषष्ठ्या निर्धार्यमाणस्य निर्धारणावधेर्भेद उक्तः । निर्धारणस्य भेदाधीनत्वात् ।। अन्य इति । अत्रान्यशब्देनैव साक्षाद् भेदाभिधानम् । आदिशब्देन ‘सत्यं भिदा’ इत्यादयः । ननु श्रुतिव्याख्यानरूपस्मृत्या भेदस्यानुक्तत्वान्न श्रुतेस्तत्र तात्पर्यमित्यतः स्मृतिभिरपि भेदसिद्धिरित्याशयेन ता उदाहरति– नैतदित्यादिना । ननु व्यावहारिकभेदपराः श्रुतिस्मृतयः किं न स्युरित्यत आह– यथेति । अत्र सत्यत्वविशेषणान्न मिथ्यात्वं भेदस्य । अन्यथा ब्रह्मणोऽपि सत्यत्वं व्यावहारिकं स्यात् । आदिशब्देन ‘द्वाविमौ पुरुषौ’ इत्यादिस्मृतयो ग्राह्याः ।

ननु श्रुत्यर्थनिर्णायकसूत्रैर्भेदस्याप्रतिपादनान्न स श्रुत्यर्थ इत्यत आह– भेदेति । जगत्सत्यत्वश्रुतेरिति । न्यायास्तु तत्रैव विवृताः । न्यायैरिति सामान्येनोक्तमेव स्मरणार्थं किञ्चिद्विशदयति– जीवत्वेति । यथा घटे सत्यत्वस्य प्रत्यक्षेण प्राप्तावपि विश्वत्वावच्छेदेन न प्राप्तिस्तथा जीवविशेषे तत्प्राप्तावपि न जीवत्वावच्छिन्ने तत्प्राप्तिरित्यर्थः । ईश्वरधर्मिकस्य सर्वथाऽप्राप्तेश्च । न चेशप्रतियोगिकभेदान्यथानुपपत्त्या तत्प्राप्तिरिति वाच्यम् । ईश-प्रतियोगिकस्येशधर्मिकस्य वेशसिद्धिं विनाऽसिद्धेः । तत्सिद्धिश्च न प्रत्यक्षेण । नाप्यनुमानेन । ‘नेन्द्रियाणि’ इति श्रुतेः । आगमेन तत्सिद्धौ तेन भिन्नत्वेनैव सिद्धेर्नानुवादकत्वं श्रुतेः । श्रुतिसिद्धत्वेन श्रुतेरनुवादकत्वे तत्सत्यमित्यादेरप्यनुवादकत्वं स्यात् । सत्यं ज्ञानमित्यादिना सिद्धत्वात् ।। न हिंस्यादित्यादिवदिति ।। ननु विषमोऽयं दृष्टान्तः । ‘न हिंस्यात्’ इत्यादेः ‘ब्राह्मणो न हन्तव्यः’ इति पुरोवादपूर्वताभावात् । प्रत्यक्षं तु सर्वेषामस्त्येवेति चेन्न । सर्वेषां प्रत्यक्षसत्वेऽपि भेदश्रुतेस्तत्पूर्वकत्वनियमाभावात् । न हि प्रत्यक्षप्रवृत्त एवागमप्रवृत्तिः । अतीन्द्रियोच्छेदापत्तेः । न च धर्मिभूतजीवज्ञानार्थं प्रत्यक्षप्रवृत्तिरावश्यकीति वाच्यम् । तावतापि भेदप्रत्यक्ष पूर्वकत्वानुपपादनात् । न हि जीवप्रत्यक्षमेव भेदप्रत्यक्षम् । प्रतियोगि-ज्ञानविलम्बेन विलम्बोपपत्तेः । प्रमाणान्तरेणापि धर्मिज्ञानसम्भवेन वाक्यप्रवृत्तिसम्भवाच्च । स्वमात्रे भेदग्रहेऽपि जीवत्वावच्छिन्ने तदग्रहाच्च । अन्यूनानतिरिक्तसमान विषयत्वेन ह्यनुवादकत्वम् । अन्यथा सर्वत्राप्यनुवादकत्वप्रसङ्गात् । क्वचित् तत्पूर्वकता तु ‘न हिंस्यात्’ इत्यत्रापि तुल्येत्यलम् ।। शाखान्तरेति । न्यायाः सर्वेऽपि पूर्वमेव विवृताः । न च सर्वेषां सर्वशाखाध्ययननियमाभावाद् युक्ता पुरुषविशेषं प्रत्यर्थवत्ता । प्रत्यक्षं तु सर्वसाधारणं प्राथमिकप्रसरं चेति वाच्यम् । प्रत्यक्षस्य सर्वसाधारणत्वेऽपि प्रथमप्रसरेऽपि भेदविषये तदभावादित्युक्तत्वात् । प्रतियोगिज्ञानादिविलम्बस्याप्युक्तत्वात् ।।

द्वयोरिति ।। न च भेदप्रमाणेषु त्रिकालाबाध्यत्ववाचकाभावात् नापूर्वसत्वप्रापकत्वमिति वाच्यम् । तर्हि ब्रह्मणोऽपि तन्न स्यात् । न च तत्र सत्यपदमेव तद्वाचकमिति वाच्यम् । सत्यत्वस्यापि त्रिकालाबाध्यत्वे प्रमाणाभावात् । न च तत्रापि सत्यपदान्तरमस्ति । श्रुतिविषयत्वेन तत्वे तुल्यं प्रकृतेऽपि । अस्ति च ‘सत्यं भिदा’ इत्यादौ सत्यपदम् । स्मृतौ च ‘सत्यभेदौ’ इति ।। ऐक्य इति ।। न च सप्रयोजनत्वेऽपि नानुवादकत्वं परिहृतमिति वाच्यम् । अनुवादकत्वस्य बाधवत् स्वरूपेणादोषत्वात् ।। षडिं्वशतिरित्येवेति । न च भेदश्रुतेर्हीनबलवत्त्वेन न प्रतिप्रसव इति वाच्यम् । हीनबलत्वम् अनुवादकत्वेन प्रकारान्तरेण वा ? न द्वितीयः । अनभिधानात् । नाद्यः । प्रतिप्रसवेन तस्यैवाभावादित्युक्तत्वात् । न चाभेदश्रुतेर्भेद तात्विकत्वनिषेधपरत्वेन स्वरूपपरेणानेन न प्रतिप्रसव इति वाच्यम् । ‘नेह नाना’ इत्यादौ तात्विकत्वबोधकपदाभावात् । स्वरूपनिषेधस्यैव प्रतीतेः । न हि भेदस्तात्विको नेति श्रुतिरस्ति । मिथ्यात्वबोधकं तु प्रागेव निरस्तम् ।

किञ्च प्रत्यक्षं प्रमाणम् अप्रमाणं वा ? नाद्यः । अभेदश्रुतेस्तद्बाधप्रसङ्गात् । न द्वितीय इत्याह– प्रत्यक्षस्येति । न च ज्ञात ज्ञापकत्वेनानुवादकत्वमिति वाच्यम् । यत्किञ्चिज्ज्ञात-ज्ञापकत्वस्याद्वैतप्रमाणेऽपि सम्भवात् । पूर्वप्रवृत्तानवच्छिन्नार्थविषयत्वस्य प्रकृतेऽप्यभावात् । प्रमाणयोरन्योन्यानतिरिक्तविषयत्वायोगात् । न च श्रुतेर्न प्रामाण्यमिति वाच्यम् । अपौरुषेयत्वेन तदयोगात् । अन्यथाऽद्वैतश्रुतेरपि तन्न स्यात् ।। श्रुतेरिति । न च निरपेक्ष सापेक्षसाधारणम् अनुवादकत्वमात्रम् अप्रामाण्यकारणमिति वाच्यम् । तथात्वे प्रमाण-संप्लवस्थलमात्रमुच्छिद्येत । औतश्रुतीनामपि यथाकथञ्चिदनुवादकत्वस्य वक्तुं शक्यत्वेना-प्रामाण्यप्रसङ्गात् । न च धारावाहिकद्वितीयादिज्ञानेषु तत्तत्क्षणविषयत्वेन नानुवादकत्वमिति वाच्यम् । क्षणस्य नीरूपद्रव्यत्वेन चाक्षुषादिज्ञानविषयत्वायोगात् । उपनीतभानाङ्गीकारे चोपनायक प्रमाणनियमाभावेनानुवादकत्वापरिहारात् । उपनीतस्योत्तरक्षणस्य पूर्वज्ञानेऽपि भानसम्भवेन तद्दोषतादवस्थ्यात् ।

विद्वदिति । न च विद्वद्वाक्यस्य स्वार्थबोधकत्वेऽपि न तत्परत्वमिति वाच्यम् । स्वार्थपरत्वे बाधकाभावात् । अन्यथाऽर्थवादाविशेषात् । तत्र पदैकवाक्यताऽत्र तु वाक्यैकवाक्यतेत्येवं विशेषो न स्यात् । अर्थवादवाक्यस्यापि स्वार्थबोधकत्वात् । शाब्द-भावनेतिकर्तव्यतारूपप्ररोचनार्थत्वेन सप्रयोजनत्वाच्च ।। यत्तन्नेति । न च यत्तदित्यादे-रनुवादलिङ्गत्वे न तद्व्यापकत्वं ब्रह्मण इत्यादौ व्यभिचारादिति वाच्यम् । व्यापकत्वस्या-नुक्तत्वेनानुक्तोपालम्भात् । लिङ्गाभावेनानुवादत्वस्य ज्ञातुम् अशक्यत्वाभिधानात् । न च ब्रह्मण इत्यादाविवानुवादत्वं ज्ञातुं शक्यमिति वाच्यम् । तत्रेवात्र प्रत्यक्षसिद्ध त्वाभावात् । अत एवाह ‘जीवावच्छिन्न’ इति । किञ्च निषेधायानुवादो विधानाय वा ? नाद्य इत्याह विधेयान्तरेति । न चैतावता कथम् अनुवादत्वपरिहार इति चेत् न तावत् येन भेदः सिद्धस्तस्यानुवादत्वम् । तेनापूर्वस्य भेदस्य बोधनात् । नापि विधेयान्तरवतः । तस्य विधेयान्तरसंसर्गे तात्पर्येणानुवादकत्वाभावात् । अन्यथा ‘पर्वतो वह्निमान्’ इत्यनुमितेः पर्वते सिद्धसाधनत्वं स्यात् । विधानार्थानुवादे चेति । न च ‘यद् रजतं तदानय’ इत्यादावन्य-विधानार्थं भ्रान्तिसिद्धानुवादेऽनुवाद्ये तात्विकत्वं न दृश्यत इति वाच्यम् । यत्रानुवाद्यता-वच्छेदकावच्छिन्ने विधेयसंसर्गे तात्पर्यं तत्रानुवाद्ये तात्विकत्वाभिधानात् । प्रकृते च तथाभावात् । यद् रजतमित्यादौ च न तथा तात्पर्यम् । अन्यथा वाक्यस्याप्रामाण्यापत्तेः । किन्तु रजतारोपाधिष्ठाने । अतो न व्यभिचारः ।। अनुवादकत्वेऽपीति । न च बाधा भावनिबन्धनं प्रामाण्यं कथम् अनुवाद्य इति वाच्यम् । प्रकृते बाधकानां परिहृतत्वात् । परिहरिष्यमाणत्वाच्च ।

किञ्चेति । न च प्रतियोगिग्रहार्थं शास्त्रापेक्षायामपि स्वसमानविषयप्रमाणानपेक्षणेन भेदप्रापकत्वोपपत्तिरिति वाच्यम् । प्रतियोगिग्रहस्य प्रतियोगितावच्छेदकविषयत्वनियमेन समानविषयत्वसम्भवात् । शास्त्रसापेक्षप्राप्तिमात्रस्य शास्त्रानुवादकत्वानापादकत्वात् । अन्यथा ऐक्यस्यापि शास्त्रसापेक्षप्रत्यक्षप्राप्तिसम्भवेन ‘तत्वमसि’ इत्यादेरप्यनुवादकत्वापत्तेः । अत एव ‘समानविषये’ ति विशेषणं दत्तमिति वाच्यम् । प्रत्यक्षस्य कालादिविषयत्वेन प्रत्यक्षागमयोः समानविषयत्वसम्भवात् । अत एवानुपपत्त्या ईशधर्मिकभेदस्य प्रत्यक्ष-प्रापकत्वमपि परिहृतम् । एवं हि भवतोऽभिमतं यथा श्रुत्यर्थापत्तिसिद्धस्य श्रौतत्वं तथा जीवधर्मिकप्रत्यक्षभेदसिध्यन्यथानुपपत्तिसिद्धस्येशधर्मिक भेदस्यापि प्रत्यक्षत्वमिति तदयुक्तम् । प्रत्यक्षस्य दोषशङ्काकलङ्कितस्य स्वसमानविषयकशास्त्रं विना भेदप्रापकत्वायोगात् । तदन्यथानुपपत्तेश्च सुतरां तत्वायोगात् । अन्यथा सिन्दिग्धप्रामाण्येन जीवब्रह्मैक्यप्राप्तिसम्भवेन ‘तत्वमसि’ इत्यस्याप्यनुवादकत्वापत्तेरित्यलम् ।। भेदश्रुतेरनुवादकत्वभङ्गः ।। २२ ।।

न्यायामृतप्रकाशः

उक्तन्यायैर्जीवत्वावच्छिन्नेति ।। यथा ‘पृथिवी इतरभिन्ना’, ‘न हिंस्यात्’ इत्यत्र एकदेशघटादौ विधेय भूतेतरभेदादिसिद्धावपि पृथिवीत्वाद्यवच्छेदेनासिद्धिवद्विश्वत्वावच्छेदेन तदसिद्ध्याननुवादकत्वादि-त्युक्तन्यायेन प्रत्यक्षेण देवदत्तयज्ञदत्तभेदसिद्धावपि जीवत्वावच्छेदेनासिद्ध्याननुवादकत्वमित्यर्थः । शाखान्तरेत्यादिकं विश्व मिथ्यात्वस्यागमबाध प्रस्तावे सम्यग्व्याख्यातं तद्रीत्यैव द्रष्टव्यम् । ननु शास्त्रप्राप्तमेव शास्त्रेणानूद्यत इति तु न शङ्कनीयम् । तथात्वे श्रुतेरुन्मत्तवाक्यत्वप्रसङ्गादित्याशयेनाह– न चेति ।। न हीत्यर्थः । ननु जीवेश्वरभेदस्य प्राप्त्याऽनुवादकत्वं भेदश्रुतेर्नोच्यते येनोक्तदोषः । किं नाम भेदमात्रं तावत्प्राप्तं घटपटयोर्भेदस्य प्रत्यक्षसिद्धत्वात् । तथा च भेदश्रुतिरनुवाद इत्यत आह– भेदमात्रस्येति ।। ।। भेदश्रुतेरनुवादकत्वभङ्गविवरणम् ।। २२ ।।

न्यायकल्पलता

इत्यादिश्रुतिभिरिति ।। ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ इति श्वेताश्वतरश्रुतिरादिपदेन सङ्गृह्यते । ‘इत्यादिस्मृतिभिः’ इत्यत्रादिपदेन ‘सुपर्णावेतौ सयुजौ सखायौ’ इत्यादिभागवत वाक्यसङ्ग्रहः । सिद्धो भेद इति ।। न च श्रुत्यादिषु द्वौ चन्द्रमसौ इत्यत्रेव कल्पित-भेदेनाप्युपपत्तेस्तात्त्विक भेदाविषयत्वमिति युक्तम् । स्वतःप्रमाणश्रुत्यादिसिद्धस्य भेदस्य काल्पनिकत्वा-योगात् । सत्यत्वे बाधकाभावाच्च । अनुपदमेव निरसिष्यमाणत्वाच्च ।। जीवत्वावच्छिन्नेति ।। स्वप्रत्यक्षेण शास्त्रगम्येश्वरात् स्वस्य भेदसिद्धावपि १परजीवे तदसिध्या नानुवादः श्रुतिरित्यर्थः ।। न हिंस्यादित्यादीति ।। एतच्च सर्वं व्याख्यातं मिथ्यात्वानुमानस्यागम बाधप्रस्तावे । ऐक्यधुतिरपीति ।। विनिगमकाभावादिति भावः । वस्तुतस्तु ऐक्यस्य निर्विशेषात्मस्वरूपतस्वप्रकाशत्वेन सिद्धिः । भेदस्य तु श्रुतिमन्तरेण न सिद्धिरिति बोध्यम् ।

।। इति भेदश्रुतेरनुवादकत्वभङ्गः ।। २२ ।।