यदप्युच्यते अहमर्थो नात्मा पश्चात्परामर्शान्यथानुपपत्त्या ..
श्रीवेदव्यासाय नमः
पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्
६६. अहमर्थस्यानात्मत्वभङ्गः
न्यायामृतम्
यदप्युच्यते अहमर्थो नात्मा पश्चात्परामर्शान्यथानुपपत्त्या सुषुप्तौ स्वतः प्रकाशमानस्यात्मनः सद्भावेऽप्यनेवंविधस्याहमर्थस्याभावाद्, ‘अथातोऽहङ्कारा-देशः अथात आत्मादेशः’ इति श्रुतौ पृथगुपदेशाच्च, ‘महाभूतान्यहङ्कार’ इति स्मृतावहङ्कारस्य क्षेत्रज्ञात्पार्थक्येन क्षेत्रत्वोक्तेश्च । तस्मादहमनुभवा-मीत्यात्मानुबन्ध्यनुभवस्याहं कर्तेत्यनात्मानुबन्धि कर्तृत्वादेश्चाश्रयोऽहङ्कारः, चिदचित्संवलनात्कत्वादध्यस्तः । यदि च सुषुप्तावहमर्थः प्रकाशेत, तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्यमाणात्म-मात्रत्वादिति ।
तत्र न तावत् स्वप्रकाशत्वास्वप्रकाशत्वाभ्यां सुषुप्तावात्माहमर्थयोः प्रकाशाप्रकाशौ । अहमर्थः स्वप्रकाशात्मान्य इत्यस्याद्याप्यसिद्ध्याऽन्योन्या-श्रयात् । नापि परामार्शापरामर्शाभ्याम्, अहमस्वाप्सं न किञ्चिदहमवेदिष-मित्यहमर्थस्यैव परामर्शात् ।
अहमर्थे परामर्शो न चेत् स कथमात्मनि ।
अहंज्ञानान्नान्य आत्मपरामर्शो हि दृश्यते ।।
अस्वाप्समित्यत्रापि उत्तमपुरुषप्रयोगयोग्याहमर्थस्यैव स्फुरणात् । उक्तं च विवरणेऽपि ‘अन्तःकरणाविशिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमो, न निष्कलङ्के, तस्य मोक्षावस्थायिनः शास्त्रैकसमाधिगम्यत्वात्’ इति । यदि चेदमर्थ-व्यावृत्तोऽहमर्थो न परामृश्येत, तर्ह्येतावन्तं कालं सुप्तोऽहं वाऽन्यो वेति संशयादि स्यात्, न त्वहमेवेति निश्चयः । ननु परामृश्यमानात्मन एवं प्रत्यक्त्वात्तथा निश्चय इति चेत्, प्रत्यक्त्वं न तावत् चिन्निर्भास्यप्रतिद्वन्द्वि चित्त्वं अन्यत्वप्रतिद्वन्द्वि स्वत्वं वा चिदस्वपीदिति वा स्वयमस्वपीदिति वा परामर्शापातेनाहमिति परामर्शायोगात् । घटादिः स्वस्माद् भिन्नो नेत्यादि-प्रतीत्यात्मनीव घटादावपि स्वत्त्वस्य सत्त्वाच्च । नापि युष्मदर्थरूपपरा-ग्व्यावृत्तत्वम्, अहमर्थस्यैव तद्व्यावृत्तेः । न हि त्वन्मते आत्मनः पराग्व्यावृत्तिः । विवरणे ‘आत्मनः सर्वात्मकत्वान्न पराग्व्यावृत्तिरहमुपरागादेव व्यावृत्यवभासः’ इत्युक्तेः । तस्मादहमर्थत्वमेव प्रत्यक्त्वं वाच्यमिति घट्टकुट्टीप्रभातवृत्तान्तः । ननु नाहमंशे परामर्शः किं तु परामृश्यमान आत्मा इदानीं जातेनान्तःकरणेनावच्छेदादहन्त्वं प्राप्तस्तथानुभूयत इति चेन्न, न किञ्चिदहमवेदिषमित्यादावज्ञानाद्यंशेऽप्यपरामर्शत्वापातात् । न ह्यज्ञानादिकं निराश्रयमन्याश्रयं वा परामृश्यते, किं त्वहमर्थाश्रयमेव । एतावन्तं कालमहं स्वप्नं पश्यन्नासं जाग्रदासमित्यत्रेवाहमस्वाप्समित्यत्राप्यहमंशे परामर्शत्वानु-भवाच्च । अन्यथा यः पूर्वं दुःखी सोऽधुना सुखी जात इतिवद् यः पूर्वं मदन्यः सुप्तः सोऽधुनाऽहं जात इति धीः स्यात् ।
नन्वहङ्कारे परामृश्यमानात्मैक्यारोपात्तज्ज्ञाने परामर्शत्वाभिमान इति चेन्न, अपरामर्शे परामर्शत्वारोपादर्शनात् । सिद्धेऽहमर्थस्यात्मान्यत्वे परामृश्य-मानात्मैक्यारोपः, सिद्धे च तस्मिन्सुषुप्तावप्रकाशेनाहमर्थ स्यात्मान्यत्व-मितीतरेतराश्रयाच्च । अहमित्यतोऽन्य आत्मपरामर्शो नेत्युक्तत्वेन दृष्टहाना-दृष्टकल्पनापाताच्च । एतेन सुषुप्तावहमर्थप्रकाशे स्मर्येत ह्यस्तन इवाहङ्कार इति निरस्तम् । अहंशब्दोल्लेखिपरामर्शापादने सुषुप्तौ तदुल्लेख्यनुभवाभावादेव तदभावोपपत्तेः । तावन्मात्रेण च ह्यस्तनवैषम्यात् । अहमर्थविशेष्य-कस्याहन्त्वप्रकारकस्य वा परामर्शस्यापादने इष्टापत्तेः । स्मर्यते हि एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्तिकालीनसुखावच्छिन्नोऽहमर्थः । अन्यथा स्यर्येत ह्यस्तन इवात्मेति चोद्यं निरुत्तरं स्यात् । ननु तथाप्येतावन्तं काल-महमित्यभिमन्यमान आसमिति परामर्शः स्यादिति चेत्, कर्णे स्पृष्टः कटिं चालयति । अहमर्थप्रकाशेन तदभिमानपरार्शापादनस्य व्यधिकरणत्वात् । अन्यथा तवाप्यात्मेत्यभिमन्यमान आसमिति परामर्शः स्यात् । तस्मा-त्सुषुप्तावहमर्थः प्रकाशत एव । न किञ्चिदहमवेदिषमित्यज्ञानपरामर्शस्य त्वात्माद्यज्ञानादन्यदिवाहमर्थाज्ञानादन्यदेवाज्ञानं विषयः, अन्यथा विरोधात् । या तु न विजानात्ययमहमस्मीति सुषुप्तिविषया श्रुतिः, सापि नात्मानं न परांश्चेति सुषुप्तावात्माज्ञानश्रुतिवद्विशेषाज्ञानपरा ।
किं च सौषुप्तिकाज्ञानादिस्मर्तृत्वं किमनहमर्थस्य अविद्यावच्छिन्न-चैतन्यस्य ? अन्तःकरणावच्छिन्नस्याहमर्थस्य वा ? नाद्यः, योऽहमकार्षं सोऽहं सौषुप्तिकाज्ञानादि स्मरामीत्यबाधितानुभवात् । अन्त्ये त्वहमर्थस्यैेव तदनु-भवितृत्वं वाच्यम् । स्मृतिसंस्कारानुभवानामेकाधिकरणानामेव कार्यकारणा-भावात् । योऽहमन्वभूवं सोऽहं स्मरामीति प्रत्यभिज्ञानाच्चेति सुषुप्तावप्यहमर्थ-सिद्धिः । यद्यपि चैत्रमैत्रादिसाधारणं चैतन्यमेकं जीवत्वोपाध्यविद्यैक्यात् जीवश्चैकः, तथापि तयोरस्मर्तृत्वात् स्मर्तुश्चाहमर्थस्याविद्यावच्छिन्नानु-भवितृचैतन्यादन्यत्वेन नानुभवितृस्मर्त्रोरैक्यम् । यद्यप्यविद्या चैतन्यं प्रत्यवच्छेदिका, अन्तःकरणं तु अविद्यावच्छिन्नचैतन्यं प्रत्येवावच्छेदकं, न तु स्वातन्त्र्येण । तथाप्यविद्यान्तःकरणरूपोपाधिभेदे शुद्धचैतन्याविद्यावच्छिन्न-चैतन्यरूपोपधेयभेदे च सति मठाकाशतत्स्थघटाकाशयोरिव सुतरामुपहितभेदेन प्रत्यभिज्ञानविरोधो दुस्तरः । किं च सुषुप्तावहमर्थाभावेऽहं निर्दुःखः स्यामितीच्छया सुषुप्तौ प्रवृत्त्ययोगः । योऽहं सुषुप्तः सोऽहं जागर्मीति-प्रत्यभिज्ञाबाधश्च । योऽहं पूर्वेद्युरकार्षं सोऽहमद्य करोमीति प्रत्यभि-ज्ञानानुपपत्तिश्च, अहङ्कारव्यक्तिभेदात् । कृतहानाकृताभ्यागमप्रसङ्गश्च, कर्तुर्भोक्तुश्चाहमर्थस्य भिन्नत्वाद्, अभिन्ने चैतन्ये कर्तृत्वाद्यभावात् । कर्तृत्वाद्यारोपस्य च देहादावपि सत्त्वात् । अहं करोमीत्येव प्रतीत्याहमर्था-न्यात्मनि कर्तृत्वारोपस्याप्यभावाच्च । किं च अहङ्कार एव क्रियाशक्त्या प्राणः, विज्ञानशक्त्या मन इति गीयत इति त्वन्मतम् । तथा च सुषुप्तावहङ्कारविलये प्राणकार्यश्वासादि न स्यात् । ननु प्राणस्याहङ्काराद् भेदपक्षेऽहङ्कारस्य लयो युक्तः । अभेदपक्षेऽपि प्राणांशं विहायाविशिष्टांशस्यैव लयः कल्प्यत इति चेत्, न, प्राणस्याहमर्थत्वाभावे कर्तृत्वस्य प्राणोपाधिकत्वेनाहं कर्तेति बुद्ध्ययोगात् । अहमर्थत्वे सुषुप्तावहमुल्लेखापातात् । किं च न सुषुप्तावन्तःकरणस्य लयः ‘अथ हैतत्पुरुषः स्वपिति’ इत्यारभ्य ‘गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः’ इत्यादिश्रुतौ मनआदीनामुपरमस्यैवोक्तेः । ‘अथात आत्मादेश’ इति श्रुतौ चात्मनस्त्वन्मते स एवाधस्तात्’ इत्युपदिष्टेन भूम्नेवाहङ्कारेणाप्यैक्येऽपि पृथगुपदेशो युक्तः ।
ननु भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेशो ऐक्यार्थः, द्वयोः सार्वात्म्यायोगात् । अहङ्कारस्य त्वात्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति चेन्न, अहमर्थादन्यस्यात्मनः भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वा-त्तयोरुपदेशो भेदार्थः । अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोरुपदेश ऐक्यार्थ इति वैपरीत्यापत्तेः । त्वत्पक्षे श्रुत्युक्तानां भूमाहङ्कारात्मनां बिम्बप्रतिबिम्बमुखस्थानीयाविद्योपाधिकब्रह्मजीवचिन्मात्रत्व सम्भवेनाहङ्कारस्य जीवात्पार्थक्यासिद्धेश्च । ‘स एवेदं सर्वम्’ आत्मैवैदं सर्वम् ‘इत्युपसंहाराणां स एवाधस्तादहमेवाधस्तादात्मैवाधस्तात्’ इत्युपक्रमैः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादिस्मृतिभिश्च सर्वगतत्वपरत्वेन सार्वात्म्योपदेशाभावाच्च । सर्वगत-त्वस्य चानेकेषु सम्भवात् । भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्ध्या मध्येऽ-हङ्कारोपदेशवैयर्थ्याच्च । ननु परोक्षस्य ब्रह्मण आपरोक्ष्याय स्थूलारुन्धतीन्याये-नाहङ्कारैक्योक्तिरिति चेन्न, त्वत्पक्षे प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्वेन तदैक्योक्त्यैवापरोक्षसिद्ध्या अहङ्कारे अविद्यमानसार्वात्म्योक्त्ययोगात् । आत्मन आपरोक्ष्याभावे चात्मब्रह्मभेदस्य प्रत्यक्षत्वोक्त्ययोगात् । अपरोक्षाहङ्कारैक्योप-देशलब्धापरोक्ष्यस्य परोक्षात्मैक्योपदेशेन हान्यापाताच्च । श्रुत्यर्थस्तु–
भूमा नारायणाख्यः स्यात्स एवाहङ्कृतिः स्मृतः ।
जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ।।
अणुरूपोऽपि भगवान्वासुदेवः परो विभुः ।
आत्मेत्युक्तः स च व्यापी................।।
इत्यादि छान्दोग्यभाष्योदाहृतस्मृत्याऽवगन्तव्यः ।
मोक्षधर्मे च–
अनिरुद्धो हि लोकेषु महानात्मा परात्परः ।
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ।।
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ।। इति ।
सूत्रं च– सैव हि सत्यादय इति । अन्यथाऽहङ्कारस्य व्याप्त्युक्त्ययोगात् । अहङ्कारश्चाहङ्कर्तव्यं चेति श्रुतौ महाभूतान्यहङ्कार इति स्मृतौ च महत्तत्वकार्यं मनआदिकारणं वैकारिकादिभेदेन त्रिविधं च तत्त्वमुच्यते, न त्वहमर्थः,
महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यचोदितात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ।।
वैकारिकस्तैजसश्च तामसश्चेत्यतो भवः ।
मनसश्चेन्द्रियाणां च भूतानां महतामपि ।। इत्यादिस्मृतेः ।
अन्यथा संविद्वाचिनो बुद्धिशब्दस्य बुद्धिरव्यक्तमेव चेति क्षेत्रे प्रयोगात् संविदपि क्षेत्रं स्यात् । अहङ्कारशब्दस्य दम्भाहङ्कारसंयुक्ता इत्यादौ देहेऽहम्बुद्धौ गर्वे च प्रयोगेण गर्वोऽभिमानोऽहङ्कार इत्यभिधानेन चाहमर्थवाचित्वनियमा-भावाच्च । अहमर्थेऽहंशब्दप्रयोगेऽप्यहङ्कारशब्दाप्रयोगाच्च । आत्मवाचिनोऽहं-शब्दस्य दकारान्तास्मच्छब्दजत्वेनाहङ्कारतत्त्ववाचिनश्च मकारान्ताव्ययत्वेन भेदस्य स्पष्टत्वाच्च । अहमर्थे आत्मानात्मधर्मदर्शनं त्वसिद्धं कर्तृत्वादेरात्म-धर्मत्वस्य वक्ष्यमाणत्वात् । अन्तःकरणधर्मत्वेऽपि गौरोऽहमित्यादौ देहस्येवाहं कर्तेत्यत्राप्यन्तःकरणस्याहमर्थानन्तर्भावेऽपि धर्ममात्रारोपसम्भवाच्च । या तु परकीयाहमर्थे अयमिति धीः सा अहमर्थस्यैव, प्रतिसम्बन्धिभेदेनेदमर्थत्वात्, न त्वहमर्थे, अनात्मांशसद्भावात् । अन्यथा परात्मन्ययमितिधीर्न स्यात् । न च ज्ञानानन्दरूप आत्माऽहं सुखीत्यहमर्थाद् भेदेन भातीति युक्तम्, अहमर्था-श्रितत्वेन प्रतीयमानयोरनयोरात्मत्वायोगात् । अस्याः प्रतीतेर्भ्रान्तित्वे च विरोधात् । न चात्मा सर्वात्मकः, अहमर्थस्त्विदमर्थव्यावृत्त इति वाच्यम्, सर्वात्मकेऽहमर्थे आत्मनीवेदमर्थव्यावृत्तिधियो भ्रान्तित्वोपपत्तेः । यत्त्वह-मर्थोऽनात्मा, अहम्प्रत्ययविषयत्वाच्छरीरवदिति । तन्न, त्वन्मतेऽअहमर्थान्त-र्गताधिष्ठानभूतचितोऽपि तत्प्रत्ययविषयत्वात् ।
किं च त्वयाऽऽत्मनो गौरोऽहमित्यनात्मारोपाधिष्ठानत्वं, मा न भूवं भूयासमित्यादिना परमप्रेमास्पदत्वमहमर्थस्य स्वसत्तायां प्रकाशव्यतिरेकवैधुर्ये-णात्मनः स्वप्रकाशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तम् । न च प्रेमास्पदात्मैक्यारोपादहमर्थे तद्धीः, अन्योन्याश्रयात् । अहमर्थप्रेम्णोऽ-न्यस्यात्मप्रेम्णोऽननुभावाच्च । अहिते हितबुद्ध्या प्रेमोत्पत्तावपि अप्रेमास्पदे तदास्पदतारोपस्यादर्शनाच्च ।
वाचस्पतिना–
समारोप्यस्य रूपेण विषयो रूपवान् भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ।।
इत्युक्तत्वेनाध्यस्तान्तःकरणगताप्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तेश्च । त्वद्रीत्या सुखानुभवरूपस्यात्मनः अहं सुखमनुभवामीत्यहमर्थाद् भेदेनैव प्रतीतेश्च । किं च मोक्षे अहमर्थाभावे आत्मनाशो मोक्ष इति बाह्यमतापत्तिः, प्रेमास्पदस्याहमर्थस्य च त्वन्मतेऽपि नाशात् । तदन्यस्य शून्यादेस्तन्मतेऽप्य-नाशात् । अपि चैवाहं मुक्तः स्यामितीच्छा न स्यात् ।
नन्वात्मन एव मुक्तिरिष्यते अहङ्कारे तु तदभेदारोपान्मुक्तः स्यामितीच्छा यथा शरीरस्यैव पुष्टीच्छायामप्यात्मनि तदैक्यारोपादहं पुष्टः स्यामितीच्छा यथा आत्मन एव सुखेच्छायामपि तदैक्यारोपाच्छरीरं सुखि स्यादितीच्छेति चेन्न, अन्योऽन्याश्रयस्योक्तेः । ‘तत्र माममृतं कृधि’ ‘ज्योतिरहं विरजा विपाप्मा भूयासम्’ इत्यादिश्रुतिविरोधाच्च । तत्र शरीरं पुष्टं स्यादित्यपीच्छावद् अहं सुखी स्यामित्यपीच्छावच्चेह चिन्मात्रं मुक्तं स्यादितीच्छायाः कदाप्यदर्शनेन मुक्तेरनिष्टत्वापाताच्च । यः कश्चिदात्मा मुक्तः स्यादितीच्छया च न मुमुक्षुप्रवृत्तिः । ममात्मा मुक्तः स्यादितीच्छा त्वहमर्थस्यैव मुक्तीच्छा । न च स्वतः पुरुषार्थ इच्छा नियन्तुं शक्या बौद्धतार्किकादिनियमितेच्छया आत्मनाशसुखानाशादेरपि पुमर्थत्वापातात् । किं चाहमर्थोऽन्तःकरण-गर्भितश्चेन्मम मन इति धीर्न स्यात् तदवच्छिन्नस्य पुनः तदनन्वयात् । किं चैवं मनः स्फुरति मनोऽस्तीति ज्ञानादहमिति ज्ञानस्य वैषम्यानुभवो न स्यात् चिदचित्संवलनविषयत्वाविशेषात् । किं च सर्वाऽपि भ्रान्तिर्द्व्यंशविषया अन्यथा निरधिष्ठानभ्रमापातात् । न चाहमिति बुद्धेर्द्व्यंशत्वमनुभूयते । यदि कल्प्यते तदाऽऽत्मेति बुद्धेरपि द्व्यंशत्वं कल्प्यताम् । ननु रूप्यं स्फुरति रूप्यमस्तीत्यत्रेवाहं स्फुराम्यहमस्मीति द्व्यंशता भाति । रूप्यभ्रमे त्विदमंशा-वच्छिन्नं स्फुरणमधिष्ठानमितीदं रूप्यमितिधीः, इह तु स्फुरणमात्र-मधिष्ठानमिति स्फुरामीत्येव धीरिति चेन्न । त्वन्मते भ्रमज्ञानस्याप्यध्य-स्तत्वेनाधिष्ठानत्वायोगात् । अहमिच्छामीतिवदहं स्फुरामीत्यहमर्थाद् भिन्नत्वेन भासमानस्य स्फुरणस्य तदैक्यारोपाधिष्ठानत्वायोगाच्च । बाधकेन बाधिष्य-माणस्याध्यस्तधर्मत्वेन भासमानस्य चास्तित्वस्याधिष्ठानत्वायोगाच्च । त्वदभिप्रेतस्याहमित्यत्रैवांशद्वयमित्यस्यासिद्धेश्च । तस्मान्नाहमर्थस्यानात्मत्वे मानम् । आत्मत्वे तु प्रत्यक्षं तावत् ।
अनुमानानि च– अहमर्थः मोक्षान्वयी, तत्साधनकृत्याश्रयत्वात्, सम्मतवत् । ‘अहमर्थोऽनर्थनिवृत्याश्रयः, अनर्थाश्रयत्वात्, सम्मतवत् ।’ न चासिद्धिः, अहमज्ञः अहं दुःखमनुभवामीत्यबाधितानुभवात् । अनात्मत्वं नाहमर्थनिष्ठं, अनात्ममात्रवृत्तित्वात् घटत्ववदित्यादीनि । श्रुतयश्च कस्मिन्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठा-स्यामिति, स प्राणमसृजत हन्ताहमिमास्तिस्रो देवता इत्यादौ जगत्कारणे सति प्राणमनस्सृष्टेः प्रागेवाहन्त्वोक्तेः । तदात्मानमेवावेदहं ब्रह्मास्मीत्यत्र चावधारणेन शुद्धात्मनोऽहन्त्वोक्तेः । अनवद्यस्य ब्रह्मणोऽहमुल्लेखोक्तेः ।
अहमित्येव यो वेद्यः स जीव इति कीर्तितः ।
स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ।।
इति श्रुतौ मोक्षान्वयोक्तेश्च । स्मृतयश्च ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति’ इति स्वप्रपन्नमायानिरसनशक्तस्येश्वरस्याहमुल्लेखोक्तेः । ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलस्तथा’ इत्यत्राहमर्थस्य मन आदिसर्वकारण-त्वोक्तेः । ‘न चैव न भविष्यामः सर्वे वयमतः परम्’ इत्यत्रानिवृत्युक्तेः । ‘वेदैश्च सर्वैरहमेव वेद्यः’ इत्यत्र सर्ववेदवेद्यत्वोक्तेः । ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ इत्यत्र मुक्तप्राप्यत्वोक्तेः । ‘अहमात्मा गुडाकेश’ इत्यादावात्मत्वाद्युक्तेः । एवं चाहं ब्रह्मास्मि तद्योऽहं सोऽसावित्यादौ परेणापि लक्षणा नाश्रयणीया । तस्मात्–
अज्ञोऽहमित्याद्यध्यक्षात् तदात्मानमिति श्रुतेः ।
अहमात्मेति च स्मृत्याऽहन्त्वं शुद्वात्मनः स्थितम् ।।
श्रीमधुसूदनसरस्वतीविरचिता
अद्वैतसिद्धि:
ततश्चाहङ्कारादिसृष्टिः । ननु अहमर्थ आत्मैव, तस्य कथमविद्यातः सृष्टिः? न च सुषुप्तौ स्वयं प्रकाशमानस्यात्मनः सम्भवेऽप्यनेवंविधस्याहमर्थस्याभावः, यदि च सुषुप्तावहमर्थः प्रकाशेत, तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्यमाणात्म-मात्रत्वादिति वाच्यम्, हेतोरसिद्धेः, तर्के इष्टापत्तेः । न ह्यद्यापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति । आत्मान्यत्वेनाप्रकाशत्वसाधने तेन च तदन्यत्वसाधने अन्योन्याश्रयः । न चाहमर्थस्यापरामर्शः, सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति तस्यैव परामर्शादिति चेन्न, अहङ्कारस्तावदिच्छादिविशिष्टतयैव गृह्यत इत्यावयोः समम् । सुषुप्तौ च नेच्छादय इति कथं तदाऽहमर्थानुभवः? न च इच्छादिगुणविशिष्ट एवाहमर्थो गृह्यत इत्यत्र न नः सम्प्रतिपत्तिरिति वाच्यम्, गुणिग्रहणस्य गुणग्रहणव्याप्तत्वाद्, अन्यथा रूपादिहीनोऽपि घटः प्रथेत । न च रूपादिरहितानां तेषामसत्त्वं तत्र बीजमिति वाच्यम्, पूर्वरूपनाशाग्रिमरूपानुत्पत्तिक्षणाद्य-क्षणादौ तद्विनापि सत्त्वात् । एवं च गुणग्रहणे कथं गुणिग्रहणम् ? तथा च निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम् । अनुभवाभावे च न तस्य जागरे परामर्शः । तथा चा-ज्ञानाश्रयत्वेन सुषुप्तावनुभूयमानादात्मनोऽहङ्कारो भिन्नः । एवमेवात्मान्यत्वे सिद्धे अस्वप्रकाशत्वसाधने नान्योन्याश्रयः । न च तर्हि ‘अहमस्वाप्सम्’ इत्यहमर्थस्य परामर्शानु-प्रवेशानुपपत्तिः, तदंशे परामर्शत्वासिद्धेः । एवं सत्यपि यथाऽज्ञानांशे तस्य परामर्शत्वं, तथोपपादितमधस्तात् । यद्यप्यहमस्वाप्समित्यादिज्ञानान्नान्य आत्मपरामर्शः, तथाप्यहमर्थस्य सुषुप्तिकालाननुभूतत्वेन तत्काले अज्ञानाश्रयत्वेन चानुभूतात्मन्येव परामर्शत्वपर्यवसानम् । अत एव चिदस्वपीत् स्वयमस्वपीदिति परामर्शाकारतापत्तिर्निरस्ता, तत्कालानुभूतान्तःकरण-संसर्गेण अहमित्याकारोपपत्तेः । यत्तूक्तं विवरणे– ‘अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमः, न निष्कलङ्कचैतन्ये, तस्य मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वाद्’ इति । तदत्र न विरोधाय, मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वादिति हेतूक्त्या न निष्कलङ्क इति उपाधिमात्रविरहिणि प्रत्यभिज्ञाननिषेधेन चान्तःकरणपदस्य उपाधिमात्रपरत्वात् । तथा च सुषुप्तावप्यज्ञानोपहित एवात्मा गृह्यते । किं चान्तःकरणविशिष्टे प्रत्यभिज्ञाननिषेधो नाभिज्ञानिषेधोऽपीति न विरोधः सुषुप्तावभिज्ञाया एवोक्तत्वात् । न च यद्यहमर्थो न परामृश्येत तर्हि एतावन्तं कालं सुप्तोऽहमन्यो वेति संशयः स्यात् न त्वहमेवेति निश्चय इति वाच्यम् सुषुप्तिकालानुभूतात्मैक्याध्यासादिति गृहाण । यथा पूर्वदिनानुभूतदेवदत्तादभिन्न-तयाऽनुभूते चैत्रे सोऽयं न वेति न संशयः किन्तु स एवेति निश्चयः । किञ्च निश्चये सति संशयाभावनियमः न तु निश्चयाभावे संशयनियमः । तदुक्तम्– ‘आरोपे सति निमित्तानुसरणम्, न तु निमित्तमस्तीत्यारोपः’ इति । न च एतावन्तं कालमहं स्वप्नं पश्यन्नासं जाग्रदास-मित्यत्रेवाहमस्वाप्समित्यत्रापि अहमंशे परामर्शत्वानुभवात् कथं तत्रापरामर्शत्वमिति वाच्यम्, परामृश्यमानात्मैक्यारोपात्तद्भानांशे परामर्शत्वाभिमानात् । न च अपरामर्शे परामर्शत्वारोपो न दृष्ट इति वाच्यम्, तद्भिन्ने तत्त्वेनानुभूयमाने परामर्शत्वारोपदर्शनात् ।
अत एव अहमर्थस्यात्मान्यत्वे यः पूर्वं दुःखी सोऽधुना सुखी जात इतिवद् यः पूर्वं मदन्यः सुषुप्तः सोऽधुना अहं जात इति धीः स्यादिति निरस्तम्, यथा दुःखित्वेन प्राक् ज्ञानं तथा मदन्यत्वेन प्राक् ज्ञानाभावात् । सुषुप्तावहमर्थाप्रकाशवत् तदन्यत्वस्याप्यप्रकाश एव । एवं च प्रागसत्त्वाग्रहणात् पूर्वकालगृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्ययः विवेकिनां चैतादृग्बुद्धाविष्टापत्तेः । न च सिद्धे अहमर्थस्यात्मान्यत्वे परामृश्यमानात्मैक्यारोपः सिद्धे च तस्मिन् सुप्तावप्रकाशेनाहमर्थस्यात्मान्यत्वसिद्धिरित्यन्योन्याश्रय इति वाच्यम् आत्मान्यत्वसिद्धेः प्रागेवाहमर्थापरामर्शस्य साधनाद्, अहमस्वाप्समित्यस्यैवात्मपरामर्श-त्वाङ्गीकारेण न दृष्टहानादृष्टकल्पनापत्तिः । अत एव च सुषुप्तावहमर्थप्रकाशे ह्यस्तन इव स्मर्येतेत्यत्र नेष्टापत्त्यवकाशः । किं च ‘एतावन्तं कालमहमित्यभिमन्यमान आसम्’ इति परामर्शः स्यात् । न च अहमर्थप्रकाशे तदभिमानापादनं कर्णस्पर्शे कटिचालनमिति वाच्यम्, तवैव हि तत् । अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततया परस्पर-प्रकाशेन परस्परपरामर्शापादनस्या व्यधिकरणत्वात् । न च तवापि ‘आत्मेत्यभिमन्यमान आसम्’ इति परामर्शापत्तिः, अहङ्कारस्य तत्र तन्त्रतया तदभावे तदापादयितुमशक्यत्वात् । यत्तु सुषुप्तावहमर्थो भासत एव । ‘न किञ्चिदहमवेदिषम्’ इति अज्ञानपरामर्शस्यात्माद्यज्ञाना-दन्यदिवाहमर्थाज्ञानादन्यदेवाज्ञानं विषयः, अन्यथा विरोधाद् इति । तदज्ञानविजृम्भितम्, न हि साक्षिवेदनमज्ञानविरोधि । सुषुप्तौ च यथाहमर्थानवभासः तथोक्तम् । न विजानात्यय-महमस्तीति श्रुतिरपि तदानीन्तनाहमर्थाज्ञाने प्रमाणम् । न चेयं श्रुतिर्नात्मानं न परांश्चेति सुषुप्तावात्माज्ञानश्रुतिवद्विशेषाज्ञानपरा ‘अहरहर्ब्रह्म गच्छन्ति सति सम्पद्य न विदुः’ इत्यात्मवेदनबोधकश्रुतिविरोधेन विशेषाज्ञानपरत्वं युक्तम् । न च प्रकृते तथा विरोधाभावात् ।
यत्तु अहमर्थस्तावत् स्मर्ता । स चाविद्यावच्छिन्नचैतन्यं वा ? अन्तःकरणा-वच्छिन्नचैतन्यं वा ? आद्ये योऽहमकार्षं सोऽहं सौषुप्तिकाज्ञानादि स्मरामीत्यनुभवविरोधः । अन्त्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यम् स्मृतिसंस्कारानुभवानामेकाश्रयाणामेव कार्य-कारणभावाद्, ‘योऽहमन्वभूवं सोऽहं स्मरामि’ इति प्रत्यभिज्ञानाच्च इति । तन्न, दत्तोत्तर-त्वात् । उक्तं ह्यविद्यावच्छिन्नचैतन्यमनुभवितृ तदेव चान्तःकरणावच्छेदेनानुभूयमानं स्मर्त्रिति न तयोर्वैरूप्यम् । न च अविद्यावच्छिन्नचितोऽपि नैक्यमस्ति अन्तःकरणरूपोपाधिभेदेन भेदादिति वाच्यम्, अविद्यावच्छिन्न एवान्तःकरणावच्छेदात् । न च तथाप्यविद्यान्तःकरण-रूपोपाधिभेदेन मठाकाशतदन्तःस्थघटाकाशयोरिव उपहितभेदः स्यादिति वाच्यम् दृष्टान्ता-सम्प्रतिपत्तेः । तयोरेवोपाध्योः परस्परमुपहितभेदकत्वम् यौ परस्परानुपहितमुपधत्तः । अन्यथा कम्ब्वच्छिन्नग्रीवावच्छिन्नाकाशादन्य एव घटाकाशः स्यात् । न चैवं सुषुप्ता-वहमर्थाभावे अहं निर्दुःखः स्यामितीच्छया सुषुप्त्यर्थं प्रवृत्त्ययोगः, ‘कृशोऽहं स्थूलो भवामि’ इतिवत् प्रवृत्त्युपपत्तेः । न च तत्र कार्श्यादिनिष्कृष्टस्य शरीरस्यैव स्थौल्याधिकरणतया विवेकिनामुद्देश्यत्वमिति वाच्यम् प्रकृतेऽप्यन्तःकरणादिनिष्कृष्टस्यैव तदुद्देशविषयत्वात् ।
ननु ‘योऽहं सुप्तः सोऽहं जागर्मि’ ‘योऽहं पूर्वेद्युरकार्षं सोऽहमद्य करोमि’ इति प्रत्यभि-ज्ञानुपपत्तिः अहमर्थस्य भेदात् । कृतहानाकृताभ्यागमप्रसङ्गश्च, कर्तुर्भोक्तुश्चाहमर्थस्य भिन्न-त्वाद्, अभिन्ने चैतन्ये कर्तृत्वाद्यभावात् तदारोपस्याप्यभावाद्, देहादावतिप्रसङ्गाच्चेति चेन्न, सुषुप्तौ कारणात्मना स्थितस्यैव उत्पत्त्यङ्गीकारेण सर्वोपपत्तेः । न च ‘अथ हैतत्पुरुषः स्वपिति’ इत्यारभ्य ‘गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः’ इत्यादिश्रुतौ मनआदीनामेवो-परमोक्तेर्नाहङ्कारोपरम इति वाच्यम्, मनस उपरमे तेनैवाहङ्कारोपरमस्यापि प्राप्तेः । अहङ्कारो हि अनुभवामीत्यात्मानुबन्ध्यनुभवस्याहं कर्तेत्यचिदनुबन्धिकर्तृत्वादेश्चाश्रयः चिदचित्संवल-नात्मकत्वादध्यस्तः । तस्य चाचितोऽन्तःकरणस्योपरमे उपरतिः । ‘अथातोऽहङ्कारादेशः अथात आत्मादेशः’ इति श्रुतिरपि पृथगुपदेशेन पार्थक्ये प्रमाणम् ।
ननु आत्मनस्त्वन्मते ‘स एवाधस्तात्’ इत्युपदिष्टेन भूम्नेवाहङ्कारेणाप्यैक्येऽपि पृथगुपदेशो युक्तः । न च भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोः सार्वात्म्या-योगाद्, अहङ्कारस्य तु आत्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति वाच्यम्, अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरप्युपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्यार्थ एव किं न स्यादिति चेन्न । अहङ्काराद् भिन्नात्मनो भूमरूपब्रह्मभिन्नत्वस्य प्रत्यक्षासिद्धत्वेऽपि तदभिन्नत्वस्यापि तदसिद्धतया उभयोः सार्वात्म्योपदेशानुपपत्तिसहकारेणास्याः श्रुतेस्तयोरभेदपरत्वमुचितम् । प्रकृते चाभेदपरत्वे विरोधः जडाजडयोरैक्यायोगात् । न च त्वन्मते भूमाहङ्कारात्मनां बिम्ब-प्रतिबिम्बमुखस्थानीया विद्योपाधिकब्रह्मजीवचिन्मात्रत्वसम्भवेनाहङ्कारस्य जीवात् पार्थक्या-सिद्धिरिति वाच्यम् । ‘यत्र नान्यत् पश्यति’ ‘स एवाधस्तात्’इत्यादिना भूमस्वरूपोक्त्यनन्तरं यत्रेत्यधिकरणाधिकर्तव्यनिर्देशात्स इति पारोक्ष्यनिर्देशाच्च द्रष्टृजीवादन्यत्वप्रसक्तौ तद्वारणार्थं ‘अथातोऽहङ्कारादेश’ इत्यहङ्कारेण भूमि्न निर्दिष्टे अहङ्कारस्य देहादिसङ्घाते अविवेकिप्रयोग-दर्शनात् तदभेदप्रसक्तौ निष्कृष्टाहङ्कारकेवलात्मस्वरूपमादाय ‘अथात आत्मादेश’ इति द्रष्टृभेद उच्यत इत्येतादृशार्थपरत्वेन बिम्बप्रतिबिम्बकल्पनाया अत्रासम्भवात् । सम्भवे वा अविद्योपाधिकजीवस्याहङ्कारत्वोक्तिः स्थूलारुन्धतीन्यायेन । अत एव ‘स एवेदं सर्वम्’ ‘अहमेवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ इत्याद्युपसंहाराणां ‘स एवाधस्तादहमेवाधस्तादात्मै-वाधस्तात्’ इत्युपक्रमैः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादिस्मृतिभिश्च सर्वगतत्वपरत्वेन न सार्वात्म्यपरत्वम्, येनाहम्पदस्य निष्कृष्टाहङ्कारचैतन्यपरत्वं स्यात् । सर्वगतत्वं चानेकेष्वपि सम्भवत्येव । भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्ध्या मध्ये अहङ्कारोपदेशवैयर्थ्यं चेति निरस्तम् । ‘स भगवः कस्मिन् प्रतिष्ठित’ इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टम् ? परमार्थतः क्वचिदधिष्ठितत्वं वा ? आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थपर ‘अन्यो ह्यन्यस्मिन् प्रतिष्ठित’ इति पूर्ववाक्यानुसारेण ‘स एवाधस्तात्’ इत्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकत्रैव वाक्ये उपक्रमादिकल्पनेनार्थान्तराकल्पनात् कल्प्यमानस्य च प्रकृतार्थानुपपादकत्वात्, सर्वगता जातिरिति पक्षे व्यापकजातेरिव भूम्नोऽपि अन्याधिष्ठितत्वसम्भवात्, ‘सर्वं समाप्नोषि’ इत्यादिस्मृतेः सार्वात्म्यपरत्वस्य उपपादि-तत्वात् । नापि मध्ये अहङ्कारोपदेशवैयर्थ्यम्, ब्रह्मण आपरोक्ष्याय अहङ्कारैक्योक्तेः । न च त्वन्मते प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्वेन तदैक्योक्त्यैवापरोक्ष्यसिद्ध्या अहङ्कारे अविद्यमानसार्वात्म्योक्त्ययोग इति वाच्यम्, आत्मसम्बन्धेनैवाहङ्कारोऽप्यपरोक्ष इत्यात्मैक्या-देवापरोक्ष्यं यद्यपि सिद्धं, तथाप्यहङ्कारे आपरोक्ष्यस्य सुप्रसिद्धत्वादहङ्कारोक्तिर्नायुक्ता । यत्तु–
‘भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः ।
जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ।
अणुरूपोऽपि भगवान् वासुदेवः परो विभुः ।
आत्मेत्युक्तः स च व्यापी’
इत्यादिस्मृत्या श्रुतेः सार्वात्म्यं नार्थः, किं तु सर्वगतत्वम् इति । तन्न, श्रुतिविरोधेन स्मृतेरेव सार्वात्म्यपरत्वम्, न तु स्मृत्या श्रुतेरन्यथा नयनम् । न च मोक्षधर्मे
अनिरुद्धो हि लोकेषु महानात्मा परात्परः ।
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ।।
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ।
इत्यनेन ‘सैव हि सत्यादयः’ इति सूत्रेण साहङ्कारस्यात्मत्वम्, अन्यथा व्याप्त्युक्तिरयुक्ता स्यादिति वाच्यम्, ‘अहङ्कारश्चाहङ्कर्तव्यं च’ इति श्रुतेः ‘महाभूतान्यहङ्कार’ इति स्मृतेः अहङ्कारस्य व्यापकत्वासम्भवाद् ‘अहं मनुरभवमित्यादाविवाहम्पदस्य निष्कृष्टाहङ्कार-चैतन्यपरत्वात् । ननु अनयोः श्रुतिस्मृत्योर्महत्तत्त्वकार्यं मनआदीनां कारणं वैकारिकादिभेदेन त्रिविधमहङ्कारादिपदवाच्यं विषयः न त्वहमर्थः तथा च स्मृतिः–
महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यचोदितात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ।।
इत्यादेरविरुद्धार्थमादायोपपत्तेः । विरुद्धार्थत्वकल्पनायां ‘बुद्धिरव्यक्तमेव च’ इत्यत्र क्षेत्रे प्रत्युक्तबुद्धिशब्देन संविद उक्तौ संविदोऽपि क्षेत्रत्वापत्तिः । न च बुद्धिशब्दस्य नानार्थत्वम्, न त्वहङ्कारस्यात्मातिरिक्तार्थकत्वमिति वाच्यम्, ‘दम्भाहङ्कारसंयुक्ता’ इत्यादौ देहे अहम्बुद्धौ गर्वे च प्रयोगेण ‘गर्वोऽभिमानोऽहङ्कार’ इत्यभिधानेन चाहमर्थवाचित्वनियमाभावात्, तथा चात्मवाच्यहंशब्दोऽस्मच्छब्दसिद्धः, अहङ्कारशब्दोऽनात्मवाची । तत्पर्यायस्त्वहंशब्दो मान्ता-व्ययमिति चेन्न, मान्तदान्तत्वभेदेनार्थभेदकल्पनमयुक्तम् । सर्वेषामेव तेषां ‘अहम्’ इति प्रतीयमानाहङ्कारविषयत्वमेव, पर्यायतयैव प्रयोगदर्शनात् । अहङ्कारातिरिक्तात्मनि प्रयोगस्तु लक्षणया, मान्तदान्तत्वनानिर्धारिताहंशब्दस्याहङ्कारे प्रयोगदर्शनस्य नियामकत्वात् । यथा–
अनिरुद्धो हि लोकेषु महानात्मा परात्परः ।
योऽसौ व्यक्तव्यमापन्नो निर्ममे च पितामहम् ।। इति ।
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ।
इत्यत्र लक्षणयाऽहङ्कारशब्दः आत्मनीति । यत्तु अहमर्थे आत्मानात्मधर्मदर्शनमसिद्धम्, कर्तृत्वादेरात्मधर्मत्वाद् इति । तत्र कर्तृत्वादेरनात्मधर्मत्वं यथा तथा वक्ष्यामः । ननु अनात्मधर्मत्वेऽपि कर्तृत्वादेस्तदाश्रयस्याभानेऽपि कर्तृत्वादिकमात्मनि भासताम् ‘गौरोऽहम्’ इत्यत्र शरीरगतगौरत्वमिवेति चेन्न, दृष्टान्तासम्प्रतिपत्तेः, तत्रापि देहत्वेनाभानेऽपि गौरत्व-मनुष्यत्वादिना तत्प्रतीतेः ।
अनुमानं च अहमर्थः अनात्मा अहम्प्रत्ययविषयत्वात् शरीरवत् । न चाह-मर्थान्तर्गताधिष्ठानभूतचितोऽपि तत्प्रत्ययविषयत्वात् तत्र व्यभिचारः येन रूपेणाहम्प्रत्यय-विषयता तेन रूपेण तस्याप्यनात्मत्वात् स्वरूपेणाहम्प्रत्ययविषयत्वाभावान्न व्यभिचारः । अहमर्थः, आत्मान्यः, अहंशब्दाभिधेयत्वात्, अहङ्कारशब्दाभिधेयवत् । न चात्रासिद्धिः, पर्यायताया दर्शितत्वात् । न च त्वयाप्यात्मनो गौरोऽहमित्यनात्मारोपा धिष्ठानत्वं, मा न भूवं भूयासमित्यादिना परमप्रेमास्पदत्वं, अहमर्थस्य स्वसत्तायां प्रकाशाव्यभिचारेणात्मनः स्वप्रकाशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तं स्यादिति वाच्यम्, इदम इवाधिष्ठानावच्छेदकत्वेनाधिष्ठानत्वोक्तेः । परमप्रेमास्पदत्वमहमर्थे आत्मैक्यारोपात् । न चैवमन्योन्याश्रयः सुषुप्तिकालीनप्रकाशाप्रकाशाभ्यां वैधर्म्येण भेदसाधनात् । न चाहमर्थ-प्रेम्णोऽन्यस्य प्रेम्णोऽननुभवः परामर्शसिद्धसुषुप्तिकालीनतादृशप्रेमानुभवस्य सत्त्वात् । न च अहिते हितबुद्ध्या प्रेमोत्पत्तिदर्शनेऽपि अप्रेमास्पदे प्रमास्पदतारोपो न दृष्ट इति वाच्यम्, अहमर्थे आत्मैक्यारोपनिबन्धनं प्रेमास्पदत्वम्, न तु स्वाभाविकमिति ब्रूमः, न तु प्रेमास्पदत्वारोपम् । अहमर्थात्मनोर्भेदेऽपि अहमर्थस्य प्रकाशाव्यभिचारः स्वप्रकाशात्मसम्बन्धं विना न घटत इति सोऽपि तत्र प्रमाणमिति नायुक्तिलेशोऽपि । न च–
समारोप्यस्य रूपेण विषयो रूपवान् भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ।।
इति वाचस्पत्युक्तेरन्तःकरणगता प्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तिरिति वाच्यम्, किमधिष्ठानगतधर्मस्यारोप्येऽभानमापाद्यते ? आरोप्यगतधर्मस्याधिष्ठाने भानं वा ? नाद्यः, यद्धर्मवत्तया ज्ञायमाने अधिष्ठाने आरोप्यनिवृत्तिस्तस्यैवारोप्येऽभाननियमेन प्रकृते तदभावात् । न द्वितीयः, अधिष्ठानगतधर्मप्रतीत्यविरोधिनः आरोप्यगतस्याधिष्ठाने भानेऽपि प्रकृते अविरोधात् । आत्मैक्याध्यासकाल एव प्रेमास्पदत्वसम्भवेनारोप्येऽपि अप्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिः ? यथा इदमिति रजताध्यासकाल एव रजते अनिदन्त्वाप्रतीतिः । यत्तु कैश्चित् परिह्रियते सुखानुभवरूपस्यात्मनो अहमर्थात् भेदेनैव सुखमनुभवामीत्यादौ प्रतीतिः इति, तन्न, वैषयिकसुखानुभवस्यात्मान्यत्वात् । न च मोक्षे अहमर्थाभावेनात्मनाशो मोक्ष इति बाह्यमतापत्तिः, प्रेमास्पदस्याहमर्थस्य त्वन्मतेऽपि नाशात्, तदन्यस्य शून्यस्य तन्मतेऽप्यनाशादिति वाच्यम्, औपाधिकप्रेमास्पदनाशेन बाह्यमतप्रवेशापत्तौ शरीरनाशेऽपि तदापत्तेः । एतावताहमर्थस्य मुक्त्यनन्वयेऽपि ‘माममृतं कृधि’ ‘ज्योतिरहं विरजा विपाम्पा भूयासमिति श्रुतिरपि चैतन्यगतमेवामृतत्वं विषयीकरोति, ‘अहं पुष्टः स्याम्’ इतीच्छेव स्वसमयविद्यमानशरीरवृत्तिपुष्टिम् । न च ‘शरीरं पुष्टं स्यात्’ इति शरीरमात्रे पुष्टीच्छावद् ‘आत्ममात्रं मुक्तं स्यात्’ इतीच्छाया अदर्शनेन मुक्तेरनिष्टत्वापत्तिरिति वाच्यम् । इच्छा-समये अन्तःकरणाध्याससम्भवेन यद्यपि नात्ममात्रगतमुक्तीच्छा तथापि विशिष्टगत-मुक्तीच्छाया एव विवक्षितविवेकेन विशेष्यमात्रगतमुक्तिविषयत्वपर्यवसानात् तस्यामिष्ट-त्वोपपत्तेः । न चाहमर्थस्यान्तःकरणग्रन्थित्वे ‘मम मन इति धीर्न स्यात् चिदचिद्ग्रन्थिरहङ्कारः अचिन्मात्रमन्तःकरणम् इति भेदेन षष्ठ्युपपत्तेः । न चैवं ‘मनः स्फुरति, मनोऽस्ति’ इत्यादिज्ञानादहमिति ज्ञानस्य वैषम्यानुभवो न स्यात् चिदचित्संवलनविषयत्वा विशेषादिति वाच्यम्, संवलनं हि न सम्बन्धमात्रम्, किन्तु तादात्म्येन प्रतिभासः । स च तत्र नास्तीति विशेषात् ।
ननु सर्वापि भ्रान्तिर्द्व्यंशविषया अन्यथा निरधिष्ठानकभ्रमापत्तेः न च ‘अहम्’ इति बुद्धेः द्व्यंशत्वमनुभूयते । कल्प्यते चेत्, आत्मेति बुद्धेरपि द्व्यंशत्वं कल्प्यतामिति चेन्न, किमिदं द्व्यंशविषयत्वम् ? अधिष्ठानारोप्यविषयत्वं चेत्तर्हीष्टापत्तिः । अहमर्थमिथ्यात्वस्यैव द्वितीयांशविषयत्वे प्रमाणत्वात् । आत्मेत्यत्र तु द्व्यंशविषयत्वे नैवं प्रमाणमस्ति येन तथा कल्प्यते । न च द्व्यंशविषयत्वं भिन्नभिन्नप्रकारावच्छिन्नाधिष्ठानारोप्यविषयत्वम्, रजतत्व-संसर्गारोपनिबन्धनेदंरजतमिति प्रतीतौ व्यभिचारात् । न हि रजतत्वेऽपि तत्र कश्चन प्रकारो भासते, रजतादेस्तत्र प्रकारत्वकल्पने मानाभावात्, तत्कल्पनां विनैवोपपत्तेः तथा कल्पनायामतिप्रसङ्गादप्रयोजकत्वाच्च । यद्वा अत्रापि ‘अहं स्फुरामि’ ‘अहमस्मि’ इति द्व्यंशता भात्येव ‘रूप्यं स्फुरति’ ‘रूप्यमस्तीत्यत्रेव । इयांस्तु विशेषः यत्तत्र इदन्त्वा-वच्छिन्नस्फुरणमधिष्ठानमिति इदं रूप्यमिति धीः इह तु स्फुरणमात्रमधिष्ठानमिति स्फुरामीत्येव बुद्धिः । न च भ्रमस्याप्यध्यस्तत्वेनाधिष्ठानत्वायोगः भ्रान्तोऽसि, स्फुरणं चैतन्यं ब्रूमः न त्वविद्यावृत्त्यादिकम् । एवं च न प्रत्यक्षमहमर्थस्यात्मत्वे प्रमाणम् ।
नाप्यनुमानम् । तथा हि अहमर्थो मोक्षान्वयी तत्साधनकृत्याश्रयत्वात् सम्मतवद् इत्यत्र विशेषव्याप्तौ दृष्टान्ताभावः । न हि कृत्याश्रये मोक्षान्वयित्वं क्वचित् सम्प्रतिपन्नमस्ति । सामान्यव्याप्तेः स्वर्गसाधनकृत्याश्रये ऋत्विजि स्वर्गानन्वयेन व्यभिचारात् । अहमर्थः अनर्थ-निवृत्त्याश्रयः अनर्थाश्रयत्वात् सम्मतवदित्यत्र शरीरे व्यभिचारः । न च तत्रानर्थाश्रयत्व-मसिद्धम्, ‘अहमज्ञ’ इति प्रतीत्या अहमीव ‘स्थूलोऽहमज्ञ’ इति प्रतीत्या शरीरेऽपि तत्स-त्त्वादन्यथा असिद्धिप्रसङ्गात् । अनात्मत्वं नाहमर्थवृत्ति अनात्ममात्रवृत्तित्वाद्, घटत्व-वदित्यत्र कृत्याश्रयावृत्तित्वमुपाधिः । नापि ‘कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि’ ‘स प्राणमसृजत हन्ताहमिमास्तिस्रो देवता’ इत्यादौ जगत्कारणे सति प्राणमनःसृष्टेः पूर्वमहन्त्वोक्तेः, ‘तदात्मानमेवावेद् अहं ब्रह्मास्मीत्यवधारणेन शुद्धात्मनोऽहन्त्वोक्तेः अनवद्यस्य ब्रह्मणोऽहमुल्लेखोक्तेः ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः । स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ।।’ इत्यादौ मोक्षान्वयोक्तेश्चैताः श्रुतयः प्रमाणम्, विशिष्टवाचकस्यैवाहम्पदस्य लक्षणया निष्कृष्टाहङ्कारचैतन्ये प्रयोगात् । लक्षणाबीजभूताऽनुपपत्तिरुक्ता । एतेन ‘मामेव ये प्रपद्यन्ते’ इत्यादिस्मृतयोऽपि व्याख्याताः । अत एव ‘तद्योऽहं सोऽसौ’ इत्यादावपि लक्षणाऽऽश्रयणीया विशिष्टवाचकत्वेन क्लृप्तस्य विशेष्ये लक्षणाया आवश्यकत्वात् ।
।। इत्यद्वैतसिद्धावमहर्थस्यानात्मत्वोपपत्तिः ।।
श्रीव्यासरामाचार्यविरचिता
न्यायामृततरङ्गिणी
अहमर्थो नात्मा आत्मनि प्रकाशमानेऽप्यप्रकाशमानत्वादित्यत्र विशेषणासिद्धिमाह ।। पश्चादित्यादिना ।। विशेष्यासिद्धिमाह ।। अनेवंविधस्येति ।। अप्रकाशमानस्य । अथ इत्यादिछान्दोग्ये भूमप्रकरणे ‘यत्र नान्यत्पश्यति नान्यच्छ्रुणोति नान्यद्विजानाति स भूमा’ इत्यादिनोक्तभूमानं स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतस्स उत्तरतः स एवेदं सर्वमिति सर्वात्मकत्वेनोक्त्वा अथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादित्यादि नाहङ्कारं च सर्वात्मकत्वेन निरूप्य अथात आत्मादेश एवात्मैवाधस्तादात्मैवोप रिष्टादित्यादिनाहङ्कारोपदेशादात्मन उपदेशान्त रादहङ्कारो नात्मेत्यर्थः ।। आत्मानु-बन्धीति ।। आत्मत्वनियतः । अनात्मानुबन्धी अनात्मत्वव्याप्यत्वान्नियतः ।। चिदचिदिति ।। शुद्धचिद्रूपत्वाभावादित्यर्थः । विशेष्यासिद्धिं परिहरति ।। यदि चेति ।। ह्यस्तन इति ।। यथा पूर्वदिनेऽहमित्यनुभूतोऽहमर्थोद्य स्मर्यते तथा सुषुप्तावहमर्थोऽनुभूत-श्चेत्सुप्तोत्थितेन स्मर्येतेत्यर्थः ।। आत्मेति ।। आत्मनानतिभिन्नत्वादित्यर्थः । आत्माह-मर्थयोरभेदवादिनं प्रत्यात्मनः प्रकाशे सत्यहमर्थस्याप्रकाश इत्येतदसिद्धमित्यभिसन्धायाह ।। तत्रेति ।। अहमर्थ इति ।। अहमर्थस्याप्रकाशमानात्मान्यत्वेन सुषुप्तौ न प्रकाशसिद्धिः तत्सिद्धौ च तथाविधात्मभिन्नत्वसिद्धिरित्यर्थः ।। अहमर्थ इति ।। सुप्तोत्थितमात्रस्यात्म परामर्शोऽहमर्थगोचरः आत्मपरामर्शत्वात् यथा सम्प्रतिपन्न इत्यन्वयव्यतिरेकव्याप्तिक मनुमानमित्यर्थः । हेतौ व्यभिचारं परिहरति ।। अस्वाप्समितीति ।। अभिज्ञाभिलपनयोः समानार्थत्वादित्यर्थः ।। अन्तःकरणेति ।। स्वयम्प्रकाशस्य ज्ञानान्तरागम्यत्वा-त्तद्विनाशप्रयुक्तसंस्काराभावात्स्वरूपस्य चाविनाशादविनाशिनः संस्काराभावान्नात्मनि प्रत्यभिज्ञा सम्भवतीत्याशङ्क्योक्तं विवरणे अन्तःकरणविशिष्ट इत्यादीत्यवगन्तव्यम् । निष्कलङ्के निष्कलङ्कात्मस्वरूपमात्रे ।
ननु विवरणवाक्यस्य निरुपाधिकात्मपरामर्शनिषेधे तात्पर्यम् । न त्वहङ्कार-विशिष्टतद्विधान इति चेन्न । अन्तःकरणस्यान्वहं विनाशात्तद्विशिष्टस्यापि विनाशित्वमिति न प्रत्यभिज्ञाविषयत्वमिति शङ्कोत्तररूपेण संसारावस्थायामन्तःकरणविशिष्टरूपानपाया-दित्युत्तरविवरणवाक्येन विरोधात् । ननु निश्चये सति संशयाभावनियमेऽपि निश्चयाभावे संशयनियमोऽसिद्ध इत्यत आह ।। न त्विति ।। कदाचिदपि तादृशसंशयः स्यादित्यर्थः । ननु परामृश्यमानात्मनि प्रत्यक्त्वनिश्चयान्न तत्र तद्विरुद्धपराक्त्वरूपान्यत्वसंशय इति शङ्कते ।। नन्विति ।। प्रत्यक्त्वनिश्चय एवाहन्त्वनिश्चय इति वक्तुमाह ।। प्रत्यक्त्वमिति ।। निर्भास्येति ।। निर्भास्यं दृश्यं पराक् तत्प्रतिकूलं चित्त्वं प्रत्यक्त्वमित्यर्थः ।। अन्यत्वेति ।। अन्यत्वं पराक्त्वं स्वत्वं प्रत्यक्त्वमित्यर्थः । आद्य आह ।। चिदिति ।। द्वितीय आह ।। स्वयमिति ।। द्वितीये दोषान्तरमाह ।। घटादिरिति ।। घटादिरपि प्रत्यगर्थः स्यादित्यर्थः ।। विवरण इति ।। अहङ्कारस्य पराक्त्वसापेक्षत्वादात्मनश्चानपेक्षत्वान्न तयोर-भेद इत्युक्ते तर्ह्यात्मनोऽपि पराग्व्यावृत्त्या सापेक्षत्वान्नात्मत्वं स्यादिति शङ्कायां विवरणे उक्तमात्मन इति । सर्वात्मकत्वात् । पूर्णत्वात् ।। घट्टकुटीति ।। केचिद्वणिजः शुल्क-मदित्सन्तः शुल्कग्रहणस्थलं वञ्चयित्वाऽन्येन पथा जिगमिषन्तो विस्मृतमार्गाः यत्र घट्टे शुल्कग्राहिणां कुटी स्थिता तत्रैव प्रभाते आगताः । सोऽयं घट्टकुटीप्रभातवृत्तान्तः ।। नन्विति ।। आत्मांशे परामर्शोऽहमर्थे त्वनुभव इत्यर्थः ।। न किञ्चिदिति ।। अज्ञानांशे परामर्शस्तु तवापि सम्मतः । अत एव न किञ्चिदवेदिषमित्यादावित्युक्तम् ।
ननु सुषुप्तावज्ञानस्य सत्त्वात्तदनुभवेन तस्य परामर्शो युज्यते अहमर्थस्य तु तदाऽसत्त्वान्न तस्य जाग्रति परामर्श इत्यत आह ।। न हीति ।। अज्ञानस्याहमर्थाश्रितस्यैव परामर्शात्तथैव सुषुप्तावनुभवो वाच्य इति तदाप्यहमर्थसत्त्वसिद्धिरित्यर्थः ।। एतावन्त-मिति ।। स्वप्नावस्थायामहमर्थस्य सत्त्वात्स्वप्नादुत्थितस्य स्वप्नं पश्यन्नासमित्यहमर्थविषयः परामर्शो भवति । तस्मिंश्च परामर्शे स्वप्नं पश्यन्नासमिति परामर्शवानस्मीत्यादिनाऽह मर्थविषयपरामर्शत्वमनुभूयते यथा । यथा वा जाग्रत्यनुभूतार्थेऽहमर्थविषयपरामर्शे जाग्रदन्तरकालीने जाग्रदासमिति परामर्शवानस्मीत्यनेन परामर्शत्वमनुभूयते । तथाऽ-स्वाप्समित्यत्राप्यस्वाप्समिति परामर्शवानस्मीत्यनुभवेनाहमर्थविषयकज्ञाने परामर्शत्व-मनुभूयत इत्यर्थः ।। अन्यथेति ।। अहमर्थे परामर्शाभावे ।। यः पूर्वमिति ।।
ननु दुःखित्वेन प्राक् ज्ञानवन्मदन्यत्वेन प्राक् ज्ञानाभावात्कथमेवं परामर्श आपाद्यते । सुषुप्तौ चाहमर्थो प्रकाश एव न तु प्रागसत्वग्रहणम् । अतः कथं तत्र जन्मप्रत्ययोऽपीति चेन्मैवम् । अस्वाप्समिति स्वापक्रियाकर्तृत्वेनाहमर्थपरामर्शो न स्यादित्यत्र तात्पर्यात् । यत्तु प्रागसत्त्वाग्रहणान्न जन्मप्रत्यय इति तन्न । प्राक्सत्त्वाग्रहणमात्रेण जन्मप्रत्ययोपपत्तेः । अहमर्थे परामर्शत्वानुभवादित्यत्रान्यथासिद्धिं शङ्कते ।। नन्विति ।। पुरोवर्तिरजतयो-रैक्यारोपात्तज्ज्ञानयोस्तदारोपदर्शनेऽप्यनुभवपरामर्शयोः परामर्शत्वारोपादर्शनादित्याह ।। अपरामर्श इति ।। सिद्ध इति ।। अहमर्थस्यैव परामृश्यमानत्वेन तयोरैक्यारोपः सम्भवतीत्यर्थः ।। सिद्धे चेति ।। परामृश्यमानात्मैक्यारोपे सिद्धे तन्निबन्धनोऽह-मर्थानुभवेऽपि परामर्शत्वाभिमान इति तस्यापरामृश्यमानत्वसिद्धौ सुषुप्तावप्रकाशमानत्वेन प्रकाशमानात्मान्यत्वसिद्धिरितीतरेतराश्रयत्वमित्यर्थः । एतेन स्वापकर्त्रैक्यारोपादहमर्थेऽ-स्वाप्समिति तत्कर्तृत्वारोपः पूर्वकालगृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्यय इति निरस्तम् । स्वापकर्तुरात्मनः पूर्वकालवर्तिनश्च तस्यैवाहमर्थत्वेन तदैक्यारोपा-सम्भवात् । अन्यथाऽन्योन्याश्रयात् । आत्मपरामर्शस्याहमर्थांशापरामर्शत्वे दोषान्तरमाह ।। अहमितीति ।। अहमंशे परामर्शादन्य आत्मपरामर्शो नास्तीत्युक्तं त्वया पुनरहमर्थे परामर्शत्वरहितस्यैवात्मप रामर्शत्वमुक्तमतो दृष्टहानादीत्यर्थः । एतेनास्वाप्समित्यस्यैवात्म-परामर्शत्वाङ्गीकारान्न दृष्टहानादीति निरस्तम् । अस्वाप्समित्यस्य तव मतेऽहमर्थांशे परामर्शत्वाभावात् ।। एतेनेति ।। अहमर्थे परामर्शत्वोपपादनेनेत्यर्थः । सुप्तोत्थितस्यात्म-परामर्शो यद्यहमर्थपरामर्शः स्यादहंशब्दोल्लेखी स्यात् यथा ह्यस्तनाहमर्थपरामर्श इत्यत्राहं-शब्दोल्लेख्यनुभवजन्यत्वमुपाधिरित्याह ।। अहंशब्देति ।। अन्यथेति ।। ह्यस्तनवैषम्य-मात्रेणाहमर्थे परामर्शत्वाभावे आत्मांशेऽपि परामर्शत्वं न स्यादित्यर्थः ।। निरुत्तरमिति ।। अस्मदुक्तादन्यदुत्तरं नास्तीत्यर्थः ।। तथापीति ।। आत्मपरामर्शस्याहमर्थपरामर्शत्वेऽहं-शब्दोल्लेखाभावेऽपीत्यर्थः ।। अहमर्थप्रकाशेनेति ।। तदभिमानाप्रकाशसहितेनेत्यर्थः । एतेन अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततयाऽभिमानपरामर्शापादनं व्यधिकरणमिति निरस्तम् । अभिमानप्रकाशयोः समव्याप्तत्वेऽप्यभिमानपरामर्शप्रयोजकस्य सुषुप्तावभिमानप्रकाशस्याभावात् । न चाहमर्थप्रकाश एवाभिमानप्रकाश इति वाच्यम् । तथात्वे इष्टापत्तेः ।। अन्यथेति ।। अहमर्थप्रकाशमात्रेण तदभिमानपरामर्शापादने आत्म-प्रकाशमात्रेण तदभिमानपरामर्शोऽपि स्यादित्यर्थः । न चाहङ्कारस्य तादृशपरामर्शप्रयोजक-तया तदभावे तदापादनासम्भव इति वाच्यम् । तर्हि मां प्रति तदापादनस्येष्टत्वात् । ननु सुषुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमित्यहमर्थावच्छिन्नाज्ञानपरामर्शो न स्यात् । प्रकाशमाने तादृशज्ञानविरोधादित्यत आह ।। न किञ्चिदहमिति ।। न किञ्चिदह-मवेदिषमिति परामृश्यमानज्ञानं प्रति यथाऽऽत्मा नावच्छेदकः प्रकाशमानत्वात्तथाह-मर्थोऽपि । अज्ञानं त्वात्माहमर्थाश्रयं तदन्यविषयमात्माद्यज्ञानादन्यदेव परामृश्यत इत्यर्थः ।
ननु दृष्टान्तासम्प्रतिपत्तिः साक्षिणि प्रकाशमान एवाज्ञानस्य मयाङ्गीकृतत्वादित्यत आह ।। अन्यथेति ।। साक्षिणोऽप्यज्ञानविरोधित्वस्योपपादितत्वादित्यर्थः । ननु छान्दोग्ये आत्मज्ञानार्थिनमिन्द्रं प्रति प्रजापतिना सुप्ते पुरुषे आत्मत्वेन निर्दिष्टे नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति इन्द्रेणाहमर्थाद्यज्ञानेन दूष्यत इत्यत आह ।। या त्विति ।। श्रुतावात्माज्ञानस्याप्युक्तश्रुतिरित्यर्थः । न चाहरर्ब्रह्म गच्छन्ति सति सम्पद्य न विदुरित्यात्मवेदनबोधकश्रुतिविरोधेन नात्मानमित्यस्य विशेषाज्ञानपरत्वं युक्तं उक्तश्रुतेस्तु न श्रुत्यन्तरविरोध इति वाच्यम् । अहरहरित्यादेरात्मवेदन बोधकत्वाभावात् । प्रत्युत न विदुरित्यनेन स्वस्वरूपाज्ञानस्यैव प्रतीतेः । नात्मानमित्यादिनैवाहरहः श्रुतिबाधसम्भवाच्च । अन्तःकरणावच्छिन्नस्याज्ञानादिस्मर्तृत्वानुरोधेन तस्यैव तदनुभवितृत्वमित्यर्थापत्त्या सुषुप्तावहमर्थसिद्धिरित्याह ।। किं चेत्यादिना ।। अहमर्थस्यानुभवितृत्वे प्रत्यक्षं प्रमाण-मप्याह ।। योऽहमिति ।। स्मर्त्रनुभवित्रोर्भेदे प्रत्यभिज्ञानविरोध इति भावेन तयोर्भेदा-भावमाशङ्क्य भेदमुपपादयति ।। यद्यपीति ।। तथापीति ।। चैतन्यजीवयोः स्मर्त्रनु-भवित्रनुगमेऽपीत्यर्थः ।। तयोरिति ।। चैतन्यजीवयोः ।
ननु कौन्तेयस्यैव राधेयत्ववदविद्योपहितस्यानुभवितुरेवान्तःकरणोपहितस्य स्मर्तृत्वान्न तयोर्भेद इत्याशङ्क्य परिहरति ।। यद्यप्यविद्येति ।। ननूपाधिभेदेनोपधेयभेदस्तत्रैव यत्र परस्परानुपहित उपाधी उपधत्तः । अन्यथा कम्ब्ववच्छिन्नग्रीवावच्छिन्नाकाशादन्य एव घटाकाशः स्यात् । मैवम् । उपाधिभेदादुपधेयभेदस्यावश्यकत्वात् । अन्यथा साक्षिण एवान्तःकरणतद्वृत्तिघटाद्यवच्छिन्न इति साक्ष्येव प्रमाता प्रमाणं फलं प्रमेयं च स्यादिति सर्वसङ्करः स्यात् । कम्ब्वाद्यवच्छिन्नादन्यस्यैव घटाकाशत्वात् । अन्तःकरणरूपोपाधि-सम्बन्धविनैतदुपधेयस्याविद्योपधेयस्य च भेदोऽस्तीत्याह ।। शुद्धचैतन्यस्येति ।। अत एवोपधेयभेदे च सतीति चकारः ।। अहं निर्दुःखः स्यामिति ।। न च कृशोऽहं स्थूलो भवामीतिवत्प्रवृत्त्युपपत्तिरिति वाच्यम् । तत्र कार्श्न्यादिविशिष्टस्य शरीरस्यैव स्थौल्याधि-करणतया विवेकिनामुद्देश्यत्वात् । तत्र शरीरं स्थूलं स्यादितिवच्चिन्मात्रं निर्दुःखं स्यादितीच्छायाः प्रकृतेऽभावात् ।। योऽहं सुप्त इति ।। तव मतेऽहमर्थस्यासुप्तत्वादित्यर्थः । अहमर्थव्यक्त्यैक्यप्रत्यभिज्ञाबाधमप्याह ।। पूर्वेद्युरिति ।। अहङ्कारेति ।। अहङ्कारव्यक्तेः पूर्वेद्युर्विद्यमानायाः सुषुप्तौ विनाशादित्यर्थः ।
ननु सुषुप्तौ कारणात्मनावस्थितस्याहमर्थस्य जागरे उत्पत्त्यङ्गीकारे न प्रत्यभिज्ञान-विरोधादीति चेन्न । कारणात्मनावस्थितस्याकर्तृत्वात् । कर्तृभूतपरिणामविशेषस्य च विनाशादित्यभिसन्धायोक्तं व्यक्तिभेदादिति । ननु कर्तृभोक्त्रोश्चैतन्यानुगमान्न कृतहा-न्यादीत्यत आह ।। अभिन्न इति ।। ननु चैतन्ये कर्तृत्वाद्यभावेऽप्यारोपितेन कर्तृत्वादिना तयोरभेद इत्याशङ्क्य परिहरति ।। कर्तृत्वाद्यारोपस्येति ।। स्थूलः करोमीति केवले चैतन्ये आरोपितकर्तृत्वाप्रतीतेरहं करोमीत्येव तदारोपो वाच्यः । तथा च कर्तृत्वस्य मुख्यः प्रत्ययोऽन्यो नास्तीत्येव मुख्य इति न तदारोप इत्यर्थः ।। अहङ्कारलय इति ।। प्राणस्यापि लयापत्त्येति शेषः ।। भेदपक्ष इति ।। अभिमन्तृत्वेन प्राणनादिधर्मित्वेन तयोर्भेदादित्यर्थः । तदुक्तं विवरणे । ‘नाहङ्कारमात्रत्वं प्राणस्योच्यते किं तु प्राणस्य पृथक्सतः पञ्चधा व्यापारहेतोः कारणीभूतस्याहङ्कारस्य क्रियाशक्तिरस्ति मनोऽधीनता-दर्शनात्प्राणवृत्तेः’ इति ।। अभेदपक्षेऽपीति ।। प्राणांशं प्राणशक्तिम् । तदुक्तं विवरणे । प्राणलक्षणक्रियाशक्त्यंशं वा विहाय विज्ञानशक्त्यंशस्य लयः कल्प्यताम् । सांशत्वा-दन्तःकरणस्येति । आद्यपक्षे दोषमाह ।। प्राणस्येति ।। द्वितीये शक्तितद्वतोर्भेदे स एव दोषः । अभेदे त्वाह ।। अहमर्थत्व इति ।। प्राणस्य सत्त्वात् सुप्तावहमर्थस्यापि सत्त्वा-पत्त्या तदुल्लेखः स्यादित्यर्थः ।। किं चेति ।। ‘य एष विज्ञानमयः पुरुषस्तदेतेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुरित्यादौ वागादीनामुपरम एवोक्तो गृहीतम्’ इति श्रवणात् । न तु लय इत्यर्थः । यस्तु मनआदीनामुपरम-स्यैवोक्तेरित्यनेन मूलवाक्येन अथ हैतत्पुरुष इति श्रुतिर्मन आदीनामुपरमपरतया व्याख्याता नाहमर्थस्येति बुद्धा आक्षिपति मनउपरमे तेनैवाहङ्कारोपरमस्यापि प्राप्तेरिति सो बोधात् । न हि श्रुतावहङ्कारस्यानुक्तिं ब्रूमः किं तु लयस्य मनस आहङ्कारिकत्वेनानहङ्कारत्वाच्च ।। अहङ्कारेणैक्येऽपीति ।। अनेकेषां सर्वात्मनोपदेशानुपपत्तेरिति भावः ।
ननु नोपदेशानुपपत्तिः । अन्यथाऽप्युपपत्तेरिति शङ्कते ।। नन्विति ।। भिन्नत्वे-नेति ।। व्यर्थस्य किञ्चिदिष्टज्ञापकत्वादिति भावः । ननु भेदोपदेशस्य व्यर्थस्यापि कथं भूमात्मनोरभेदज्ञापकत्वमित्यत आह ।। द्वयोरिति ।। तन्मात्रवृत्तिधर्मबोधनमुखेन तन्मात्रत्वमवगम्यत इति भावः ।। अहङ्कारस्य त्विति ।। अहङ्कारे सार्वात्म्योपदेशस्तु तदधिष्ठानात्मसम्बन्धेनोपचारादिति भावः ।। अहमर्थादिति ।। अहमर्थान्यात्मनि सार्वा-त्म्योपदेशस्त्वहमर्थवदुपचारादिति भावः । एतेन अहङ्कारभिन्नात्मनो भूमरूपब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वेऽपि तदभिन्नस्यापि तदसिद्धतयोभयोः सार्वात्म्योपदेशानुपपत्तिसहकारे-णास्याः श्रुतेस्तयोरभेदपरत्वमिति निरस्तम् । अहङ्कारभिन्नात्मभूम्नोरभेदस्य प्रत्यक्षा-सिद्धत्वेऽपि तयोर्भेदस्यापि तदसिद्धतया तद्बोधनेन वाक्यस्यार्थवत्त्वात् । सार्वज्ञं त्वहमर्थ- वदुपपत्स्यते ।। ऐक्यार्थ इति ।। अहमर्थस्य जहत्वान्न तदैक्यायोग इत्यत आह ।। त्वत्-
पक्ष इति ।। चिदैक्योपदेशसामर्थ्यादेवाहमर्थस्य कर्तृत्वाद्याश्रयस्याप्यजडत्वसिद्धेरिति भावः ।। स एवेदमित्यादि ।। तथा च नानेकेषां सार्वात्म्यानुपपत्त्या तदभेदासिद्धिरिति भावः ।
ननु स भगवः कस्मिन्प्रतिष्ठित इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टं परमार्थतः क्वचिदधिष्ठितत्वं वा । आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थपरान्योह्यस्मिन्प्रतिष्ठित इति पूर्ववाक्यानुसारेण स एवाधस्तादित्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकवाक्ये उपक्रमादिकल्पना न युक्तेति चेत् । मैवम् । यतस्स भगवः कस्मिन् प्रतिष्ठित इति पृष्टे स्वे महिम्नीत्युत्तरिते महिमशब्देन गवाश्वादिकं चेत् तन्मया महिमत्त्वेन नोक्तमिति यदि वा न महिम्नीत्यनेनोक्ते तत्र हेत्वाकाङ्क्षायां ब्रवीमीति होवाच अन्यो ह्यन्यस्मिन् प्रतिष्ठितः अन्योऽल्पज्ञः अन्यस्मिन् प्रतिष्ठितः भूमा परिपूर्णः अतो नान्यस्मिन् प्रतिष्ठित इत्युक्ते तर्हि कथं स्वे महिमि्न प्रतिष्ठित इत्युच्यत इत्याकाङ्क्षायां भूम्न आधारभूतः स्वमहिम्नोच्यते स एवाधस्तादित्यादिना । तत्र कः प्रसङ्गः सार्वात्म्यस्य ।
ननु भूम्नस्स इति परोक्षनिर्देशात्परोक्षत्वप्राप्तौ तद्वारणायापरोक्षाहङ्कारैक्यमथातोऽ-हङ्कारादेश इत्यनेनाभिधायनिष्कृष्टाहङ्कारकेवलात्मस्वरूपैक्यं बोध्यते अथात आत्मादेश इत्यनेनेति नाहङ्कारवाक्यवैयर्थ्यमिति शङ्कते ।। नन्विति ।। ब्रह्मणः भूमरूपस्य ।। आपरोक्ष्यायेति ।। अपरोक्षद्रष्टृभेदायेत्यर्थः ।। अहङ्कारेति ।। अहङ्कारस्यापरोक्षत्वात् भूम्नस्तदभेदोक्त्याऽपरोक्षत्वसिद्धिः । अन्यथा परोक्षापरोक्षयोरैक्यानुपपत्तेरित्यर्थः ।। त्वत्पक्ष इति ।। त्वन्मतेऽपरोक्षात्मसम्बन्धादेवाहङ्कारेऽप्यापरोक्ष्यमिति मुख्यापरोक्षात्माभेदोपदेशेनैव
भूम्नोऽप्यापरोक्ष्यस्यापि सिद्धिरित्यर्थः ।। लब्धापरोक्ष्यस्येति ।। भूमाख्यब्रह्मण इति शेषः ।
ननु तव मते ब्रह्मभिन्नाहङ्कारस्य कथं सर्वव्यापित्वमपीत्यतः श्रुत्यर्थमाह ।। श्रुत्यर्थस्त्विति ।। स एवाहङ्कृतिः स्मृत इत्यतः परं अकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । जीवस्थ इत्यादिपाठः । स च व्यापीत्येतदनन्तरं न च भेदो हरौ क्वचिदिति पाठः । यत्तु श्रुतिविरोधेन स्मृतेरेवान्यथा नयनमिति तन्न । उक्तरीत्याऽनुपपन्नायाः श्रुतेः स्मृत्या व्याख्यातत्वात् । न तु स्मृतिविरोधेन सान्यथा नीयते ।। सैव हीति ।। ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इत्यादौ सत्यत्वे च विजिज्ञासितव्यमित्यादिनोक्ताः सत्यविज्ञानमतिश्रद्धानिष्ठा कृतिसुखभूमाहङ्कारात्मान्ताः सत्यादयः सर्वे परदेवतारूपाः इत्यर्थः ।। अन्यथेति ।। अहङ्कारस्याब्रह्मत्व इत्यर्थः ।
नन्वहङ्कारस्य ब्रह्मत्वे प्रश्नोपनिषदि ‘यथा सोम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते पृथिवी च पृथिवीमात्रा चेत्यारभ्य अहङ्कारश्चाहङ्कर्तव्यं च’ इत्यादिनाहङ्कारस्य पृथिव्यादिवत् परमात्माश्रितत्वं प्रतीयमानं विरुध्यत इत्यत आह ।। अहङ्कारश्चेति ।। न त्वहमर्थ इति ।। जीवो जीवस्थोऽनिरुद्धश्चेत्यर्थः ।। अतो भव इति ।। एतस्मान्त्रिविधाहङ्कारान्मनः प्रभृतीनां भव उत्पत्तिरित्यर्थः । नन्वेवमहङ्कारशब्दो नानार्थः स्यादित्यत आह ।। संविद्वाचिन इति ।। स्मार्तप्रयोगाद्बुद्धिशब्दवन्नानार्थत्वं न दोष इत्यर्थः । प्रयोगबाहुल्यमेवाह ।। अहङ्कारशब्दस्येति ।। देहेऽहम्बुद्धाविति ।। देह-विषयकाहम्बुद्धावित्यर्थः ।। अहमर्थ इति ।। शब्दभेदान्न नानार्थत्वमित्यर्थः । शब्दभेदमेव साधयति ।। आत्मेति ।। तस्मात् अथातोऽहङ्कारादेश इति श्रुतौ न जडोऽहंशब्देनोच्यते । किं तु जीवस्थोऽनिरुद्धः । अहङ्कारश्चाहङ्कर्तव्यं चेत्यादिश्रुतिस्मृत्योस्त्वहङ्कारशब्देन न जीव उच्यते किं तु त्रिविधोऽहङ्कार इति न श्रुतिस्मृती आत्मभिन्नाहमर्थे प्रमाणमिति ।। अहमर्थ इति ।। तथा च चिदचित्संवलनात्मकमित्यर्थः ।। अन्तःकरणेति ।। सर्वांशा-वच्छेदेनाहमर्थे न कर्तृत्वादिकमित्यर्थः । ननु गौरोऽहमित्यादावपि देहत्वेनाभानेऽपि गौरत्वमनुष्यत्वादिना त्प्रतीतेर्दृष्टान्तासम्प्रतिपत्तिरिति चेन्न । यत्र सामग्रीवशात्सुरभि-जलमितिवद्गौरोऽहमिति धर्ममात्रारोपस्तस्यैव दृष्टान्तत्वात् । न हि सर्वत्राभेदारोप-सामग्रीनियमः ।
नन्वहमर्थस्य प्रत्यङ्मात्रत्वे परकीयघटे घटशब्दवत्परकीयेऽहमर्थेऽहंशब्दः प्रयुज्येतेत्यत आह ।। या त्विति ।। सम्बन्धिभेदेनाहंशब्दवाच्यस्यापीदं शब्दाभावे बाधकमाह ।। अन्यथेति ।। एतच्चोपलक्षणं परकीयाहमर्थेऽचित्सम्बन्धे नेदंशब्दत्वे स्वकीयाहमर्थोऽपीदं-शब्दः स्यादिति च बोध्यम् । अहमर्थस्यानात्मत्वे प्रत्यक्षमाशङ्क्य निराकरोति ।। न चेति ।। अस्या इति ।। चिदचित्सम्वलनमपि न सिद्ध्येदित्यर्थः ।। त्वन्मत इति ।। आत्म-न्येव व्यभिचार इत्यर्थः । नन्वधिष्ठानचितो येन रूपेणाहम्प्रत्ययविषयत्वं तेन रूपेणानात्मत्वमपि । स्वरूपेण त्वात्मत्वेऽपि तेन रूपेणाहम्प्रत्ययविषयत्वस्याप्यभावान्न व्यभिचार इति चेन्न । चिदंशं विना स्वरूपेणाहम्प्रत्ययविषयत्वस्य पक्षेऽप्यभावात् ।। गौरोऽहमितीति ।। अहमर्थस्यैव गौरभ्रमाधिष्ठानत्वप्रेमास्पदत्वप्रतीतेरित्यर्थः ।। अन्यो-न्येति ।। माहं न भूवं भूयासमित्यहमर्थप्रेमास्पदनिबन्धनैवात्मनः प्रेमास्पदत्वसिद्धिः तत्सिद्धौ चाहमर्थे तदारोप इत्यर्थः । ननु नाहमर्थद्वारात्मनि प्रेमसिद्धिः किं तु स्वत एवेति नान्योन्याश्रय इत्यत आह ।। अहमर्थेति ।। न च सुषुप्तिकालीनात्मप्रेमैव तादृश इति वाच्यम् । तदाप्यहमर्थप्रेमातिरिक्तात्मप्रेम्णोऽभावात् । अन्योन्याश्रयाच्च ।। अहित इति ।।
ननु न प्रेमास्पदत्वारोपं ब्रूमः किं तु प्रेमास्पदात्मैक्यारोपादहमर्थे प्रेमास्पदत्वं न तु तत्स्वाभाविकमितीति चेन्न । अहमर्थमनन्तर्भाव्यात्मनि प्रेमादर्शनादित्युक्तत्वात् । अन्यस्यान्यात्मनावभास स्यैवारोपत्वाच्च ।। समारोप्यस्येति ।। आरोप्यसर्पादेर्भीषण-त्वादिना रूपेण विषयो रज्ज्वादी रूपवान् भीषणत्वादियुक्तो भवति विषयस्य रज्ज्वादिरूपेणाभिगम्यत्वादिना समारोप्यं सर्पादिरूपवदभिगम्यं न भवतीत्यर्थः । ननु सर्पगतानिदन्त्वादिवदन्तः करणगताप्रेमास्पदत्वस्यापि नात्मन्यारोप इति चेन्न । अधिष्ठान-त्वौपयिकतत्सामान्य धर्माविरुद्धानां समारोप्यगतानां विषये आरोपदर्शनात् । न हीदन्त्वादिवत्प्रेमास्पद त्वमप्यहमर्थारोपहेतुः । येन तद्विरुद्धानिदन्त्ववदप्रेमास्पदत्व-स्याप्यारोपो न स्यात् । यत्त्वधिष्ठानगतधर्मप्रतीत्यविरोधिन आरोप्यगतस्याधिष्ठाने भानमिति तन्न । अन्योन्याश्रयात् । यत्त्वात्मैक्याध्यासकाल एव प्रेमास्पदत्वसम्भवेना-रोप्येप्य प्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिरिति तन्न । वैपरीत्यस्यैवोचितत्वात् । अहमर्थे प्रेमास्पदत्वारोपहेतुमात्मैक्यारोपं दूषयति ।। त्वद्रीत्येति ।। आत्मनोऽ-हमर्थोद्भेदप्रतीतेर्न तत्र तस्यारोप इत्यर्थः । क्वचित्त्वहमनुभवामीति सुखानुभवाद्भेदेनैव प्रतीतेश्चेति पाठः । तत्र सुखस्यानुभवो यस्मिन्नित्यहमर्थ एव विवक्षितः । न चायं वैषयिकसुखानुभवः स चानात्मेति वाच्यम् । त्वन्मते विषयसम्बन्धेनापि स्वरूपसुख-मेवाभिव्यज्यत इत्युक्तेः । अहं स्फुरामीत्यत्र भेदप्रतीतेश्च ।। मोक्ष इति ।। न चौपाधिकप्रेमास्पदनाशेऽपि न बाह्यमतापत्तिः । अन्यथा शरीरनाशेऽपि तदापत्तिः स्यादिति वाच्यम् । स्वाभाविकप्रेमास्पदस्यान्यस्याननुभवेनाहमर्थस्यैव स्वाभाविकप्रेमास्प-दत्वात् ।। अहं मुक्त इति ।। अहमर्थस्य मुक्त्यनन्वयादित्यर्थः ।। अन्योन्येति ।। आत्माहमर्थयोर्भेदाधीनारोपसिद्धावुक्तेच्छाया अबाधकत्वं तदबाधकत्वे च भेदसिद्धिरित्यर्थः ।। तत्र मामिति ।। ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतौ मदर्थस्यैवामृतत्वप्रार्थनश्रवणान्न तत्र तदारोप इत्यर्थः ।। अनिष्टत्वेति ।। इच्छाविषयत्वाभावापातादित्यर्थः । आत्मन्यहमर्थमनन्तर्भाव्येच्छा नास्तीत्याह ।। यः कश्चिदिति ।। ममेति ।। चिन्मात्रस्य ममात्मत्वाभावादित्यर्थः । नन्वहं मुक्तः स्यामितीच्छा नास्त्येव । किं तु मुच्यतामित्यादिरूपेत्यत आह ।। न च स्वत इति ।। ममेति ।। ममेत्यत्र मनः प्रवेशादित्यर्थः ।
ननु दण्डिनो दण्ड इतिवदुपलक्षणत्वमस्त्वित्यत आह ।। तदवच्छिन्नस्येति ।। तद्विशिष्टस्येत्यर्थः । उत्सर्गप्राप्तविशेषणत्वे बाधकाभावेनोपलक्षणत्वायोगात् ।। चिद-चिदिति ।। न च सम्वलनं न सम्बन्धमात्रं किं तु तादात्म्येन प्रतिभास इति वाच्यम् । त्वन्मते स्फुरणादावपि तदारोपात् ।। द्व्यंशविषयेति ।। भिन्नभिन्नप्रकारावच्छिन्नाधिष्ठा नारोप्यविषयेत्यर्थः । तेन नेष्टापत्तिः । न च रजतत्वसंसर्गारोपनिबन्धे नेदंरजतमिति प्रतीतौ व्यभिचार इति वाच्यम् । रजतादेरेव तत्र प्रकारत्वात् । नन्वहमिति बुद्धे-र्भ्रमत्वानुरोधेन द्व्यंशत्वमपि तत्र कल्प्यत इत्यत आह ।। यदीति ।। त्वन्मत इति ।। नन्वविद्यावृत्तिरूपभ्रमज्ञनास्याध्यस्तत्वेऽपि चैतन्यरूपस्फुरणस्य न तथात्वमिति चेन्न । चैतन्यमात्रस्याहंज्ञानत्वे सुषुप्त्यादावपि प्रतीतिमात्रशरीराहमनु वृत्त्यापातेनाविद्यावृत्त्य-वच्छिन्नचित एवाहंज्ञानस्य त्वया वाच्यत्वात् । तस्य चाध्यस्तत्वादिति भावः । रूप्यमस्तीत्यादौ न सत्ता रूप्याधिष्ठानमित्याह ।। बाधकेनेति ।। तथा च दृष्टान्ता-सम्प्रतिपत्तिरिति भावः ।। प्रत्यक्षमिति ।। अहमनुभवामीत्यादिकम् ।। तत्साधनेति ।। अपरिक्रीतसम्बन्धिकृतिर्विवक्षिता । तेन विशेषव्याप्तौ दृष्टान्ताभावः सामान्यव्याप्तौ तु स्वर्गसाधनकृत्याश्रये ऋत्विजि व्यभिचार इति निरस्तम् । नन्वविद्यादिरूपस्यानर्थस्य चिन्मात्राश्रितत्वेनासिद्धिरित्यत आह ।। न चेति ।। अहमज्ञ इति ।। अहमर्थाश्रित-त्वेनैवामानप्रतीतेरित्यर्थः ।
ननु स्थूलोऽहं न जानामीति शरीरस्याप्यज्ञानाश्रयत्वात्तत्र व्यभिचार इत्यत उक्तमबाधितेति । शरीरमनन्तर्भाव्याहमज्ञ इत्येव प्रतीतेः शरीरस्य तदाश्रयत्वं बाधितमिति भावः ।। अनात्मत्वमिति ।। न च कृत्याश्रयावृत्तित्वमुपाधिः । त्वन्मते मुक्तौ साध्या-व्याप्तेः । अहं करोमीत्यहमर्थान्तर्गताधिष्ठानचितोऽपि कृत्याश्रयत्वात्तत्र मुक्तेर्वृत्तेः ।। कस्मिन्न्वहमिति ।। प्रश्नोपनिषदि कस्मिन्न्वहमित्यादिप्रतिष्ठा स्यामीत्यनन्तरं स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्वीर्यमित्यत्र प्राणमनःसृष्टेः पूर्वमहन्त्वोक्तिः । तथा छान्दोग्येऽपि हन्ताहमिमास्तिस्रो देवता इत्यादौ तेजोऽबन्नादिस्वरूपेण त्रिवृन्तं कुर्वति सच्छब्दनिर्दिष्टे ब्रह्मणि अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन आपः पीतास्त्रेधा विधीयन्त इत्यादौ योऽणिष्ठः स प्राण इत्यादिनोक्तमनःप्राणसृष्टेः पूर्वमह-न्त्वोक्तिरित्यर्थः ।। तदात्मानमिति ।। बृहदारण्यके ब्रह्म वा इदमग्र आसीत्तदात्मा-नमेवावेदहं ब्रह्मास्मीत्यत्रावधारणब्रह्मशब्दाभ्यां शुद्धत्वानवद्यत्वप्रतीतिरित्यर्थः ।। मोक्षेति ।। बन्धान्वयोऽपि द्रष्टव्यः । न च श्रुतिस्मृत्योर्विशिष्टवाचकाहम्पदस्य लक्षणया निष्कृष्टाहङ्कारचैतन्यपरत्वमिति वाच्यम् । तद्बीजस्यानुपपत्तेरभावात् । अन्योन्याश्रय-त्वोक्तेश्च । अहमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सेति अहं मनुरभवं सूर्यश्चेति त्वद्रीत्या वामदेवस्य सर्वात्मकत्वविज्ञानप्रतिपादकं चोदाहर्तव्यम् ।। एवं चेति ।। अहमर्थस्यैवात्मत्वादित्यर्थः । कर्तृत्वादिविशिष्टस्य कथमैक्यमिति चेन्न । न ह्यहंशब्देन कर्तृत्वविशिष्टात्मोच्यत इति ब्रूमः । किं त्वात्मत्वविशिष्ट आत्मा । स तु वस्तुतः कर्तृत्वाश्रय इत्यन्यदेतत् । तर्ह्येतावताहंशब्दे लक्षणा कर्तृत्वादेर्मिथ्यात्वेनाप्यैक्य-स्योपपत्तेः ।। अज्ञोऽहमिति ।। अज्ञानाश्रयत्वेनाभिमते चिन्मात्रे प्रत्यक्षेण तदात्मान-मित्यादिश्रुत्याऽनवद्यस्य शुद्धस्य चाहन्त्वप्रतीतेरित्यर्थः ।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगंयजि ।
न्यायामृततरङ्गिण्यां नानात्मास्मत्पदास्पदम् ।
पाण्डुरङ्गि आनन्दभट्टारकविरचितः
न्यायामृतकण्टकोद्धारः
नन्वथाप्यविद्या स्वीकर्तव्या । अन्यथाऽहङ्कारादिकार्यानुपपत्तेः । तथा च कार्या-न्यथानुपपत्तिरेवाविद्यायां प्रमाणम् । प्रामाणिके चार्थे प्रमाणमेव विषयादि कल्प-यिष्यतीत्यतोऽहमिति प्रतीयमानो नाज्ञानकार्यं किन्त्वात्मैवेति प्रतिपादयितुं परमत-मनुवदति ।। यदपीति ।। तथा च स्वप्रकाशत्वास्वप्रकाशत्वा भ्यामात्माहमर्थयोर्नैक्यमिति भावः । श्रुत्यापि तयोर्भेदमुपपादयति ।। अथात इति ।। ऐक्ये पृथगुपदेशानुपपत्तेः पौनरुक्त्यादिति भावः । स्मृत्याप्येतमर्थं साधयति ।। महाभूतानीति ।। नन्वह-मर्थस्यात्मस्वरूपाद्भेदे आत्मसम्बन्ध्यनुभवाश्रयत्वप्रतीतिः कथमित्यतस्तदुपपादयन्नुपसंहरति ।। तस्मादिति ।। न चात्मवत् सुप्तावप्यहमर्थस्य प्रतीयमानत्वादस्वप्रकाशत्वमसिद्धमित्यत आह ।। यदि चेति ।। अनुभवकार्यस्मरणाभावेनानुभवस्याप्यसिद्धिरिति भावः ।
नन्वेवं तर्हि उदासीनानुभवासिद्धिरित्यत आह ।। अनुभूत इति ।। अहमर्थ इति ।। नन्वहमर्थस्य स्वप्रकाशात्मान्यत्वसिद्धिः सुषुप्तौ प्रकाशानुपपत्यैव । तदनुपपत्तिश्चनात्मा-न्यत्वेन येनान्योन्याश्रयः स्यात् । किन्तु प्रकारान्तरेण । तथाहि । अहमर्थस्ताव-दिच्छाविशिष्टो गृह्यते । गुणिग्रहणस्य गुणग्रहणव्याप्तत्वात् । अन्यथा रूपादिहीनोऽपि घटः प्रथेत । तथा चेच्छाभावेन सुषुप्तौ नाहमर्थग्रहणम् । तथाचाप्रकाशमानस्य प्रकाश-मानाद्भेदसिद्धिरिति चेन्न । इच्छाविशिष्टाहमर्थग्रहणस्य ममासिद्धेः । न चोक्तगुणिग्रहणं गुणव्याप्तमिति वाच्यम् । व्याप्तेरसिद्धेः । किञ्च किं गुणग्रहणं यावद्गुणग्रहणव्याप्तम् किं वा यत्किञ्चिद्गुणग्रहणव्याप्तमिति ? नाद्योऽसम्भवात् । न हि घटादिप्रकाशे यावद्गुणप्रकाशः । न द्वितीयः । सङ्ख्यादिगुणप्रकाशस्य प्रकृतेऽपि सम्भवात् । सुखमस्वाप्समिति सुखप्रकाशस्य तदानीमपि सत्त्वाच्च । अन्यथा उक्तव्याप्त्या एकात्मापि न प्रकाशेत । न चात्मा निर्गुण एवेति वाच्यम् । वास्तवगुणवत्त्वस्याहङ्कारेऽप्यभावाद् । कल्पितगुणवत्त्वस्यात्मन्यपि सुवचत्वात् । घटादिदृष्टान्तश्च विषमः । चाक्षुषत्वादौ महत्त्वसमानाधिकरणोद्भूत-रूपत्वादेरिव गुणिग्रहणे गुणवत्त्वादेरप्रयोजकत्वात् । तथा च सुषुप्तौ प्रकाशान्यथानुपपत्त्या न स्वप्रकाशान्यत्वसिद्धिः । एवञ्च कथं नान्योन्याश्रयः ।। अप्रकाशत्वेन तदन्यत्वं तदन्यत्वेनाप्रकाश इति ।। अहमस्वाप्समिति ।। न च परामर्शस्य चिन्मात्र एव पर्यवसानमिति वाच्यम् । अनुपपत्तेरभावात् । अन्यथाऽतिप्रसङ्गात् । नन्वयं परामर्शोऽहमर्थविषयक इति मया नाङ्गीक्रियते इति तत्राह ।। अहमर्थ इति ।।
ननु परामर्शो नाहमस्वाप्समित्येवं रूपोऽपि तु अस्वाप्समित्येव तद्रूपमतः कथमहमर्थ परामर्श इत्यत अस्वाप्समित्येतावत एव परामर्शत्वमङ्गीकृत्यापि तस्याप्यहमर्थविषयत्व-मनिवार्यमित्याह ।। अस्वाप्समित्यत्रापीति ।। अहमर्थविषयत्वानङ्गीकारे उत्तम-पुरुषप्रयोगो न स्यादित्याह ।। अस्वाप्समितीति ।। परामर्शस्याहमर्थविषयत्वे विवरण-सम्मतिमाह ।। उक्तञ्चेति ।। न चान्तःकरणपदस्योपाधिमात्रपरत्वं शास्त्रैकसमधिगम्य-त्वादिति हेतूक्त्या न निष्कलङ्क इति उपाधिमात्रविरहिणि प्रत्यभिज्ञाननिषेधाच्चेति वाच्यम् । तथात्वे सुप्तावपि चिन्मात्रस्य भानाभावापत्तेः । न चाहमर्थांशे न परामर्शत्वम् । अज्ञानांशेऽपि तदभावापत्तेः । न चान्तःकरणविशिष्टे प्रत्यभिज्ञानिषेधो नाभिज्ञानिषेधः । सुप्तौ त्वभिज्ञैवेति वाच्यम् । प्रत्यभिज्ञाभावे अभिज्ञाया अप्यभावापत्तेः । कार्याभावे कारणसत्त्वस्यानवश्यकत्वात् ।। यदि चेति ।।
ननु सुषुप्तिकालानुभूतात्मैक्याध्यासान्न संशयः । किन्त्वहमेवेति निश्चयो यथा पूर्वदिनानुभूतदेवदत्ताभिन्नतयाऽनुभूते चैत्रे सोऽयं न वेति न संशयः । किन्तु स एवेति निश्चय इति चेन्न । अनुभूताननुभूतयोर्विरुद्धधर्माकरणत्वेनैक्याध्यासासम्भवात् । अहमर्था-भेदेनैव संशयाद्यभावोपपत्तौ ऐक्याध्यासेन तदुपपादनस्यायुक्तत्वात् । अन्यथा स्थायि-पदार्थोन्मज्जनापत्तेः । प्रत्यभिज्ञाया अप्यैक्याध्यासेनापि सम्भवात् । न चात्र नाहमिति बाधकमस्ति । अन्योन्याश्रयाच्च । तस्मात् संशयादिकं दुर्वचम् । नन्वहमेवेति निश्चये प्रत्यक्त्वं भासते । तच्चात्मनिष्ठमेवेति तथा निश्चयो भविष्यतीति शङ्कते ।। नन्विति ।। चिदिति ।। अत्र उभयत्र चित्त्वं स्वत्वं वा प्रत्यक्त्वमभिमतम् । चिन्निर्भास्यप्रतिद्वन्द्वि इत्यनेन चित्त्वमेव व्याख्यातम् । तथा अन्यत्वप्रतिद्वन्द्वीत्यनेन स्वत्वम् । एवञ्च चिदित्यादि सङ्गच्छत इति द्रष्टव्यम् । यदा स्वत्वमत्यक्तं तन्नात्ममात्रनिष्ठमित्याह ।। नापीति ।। अहमर्थस्यैवेति ।। परागर्थव्यावृत्तत्वं नाम तदभेदेनाप्रतीयमानत्वम् । आत्मा तु घटः सन्निति परागर्थसम्भेदेनैव प्रतीयत इति तादृशं प्रत्यक्त्वमहमर्थनिष्ठमेवेति भावः ।। तस्मादिति ।। तथा च नाहमर्थभेद आत्मनीति भावः । प्रतिबन्द्या समाधत्ते ।। न किञ्चिदिति ।। अविशेषादिति भावः ।
नन्वज्ञानपरामर्शेऽहमर्थो नैव विषय इत्यत आह ।। न हीति ।। तथा चाज्ञान-परामर्शान्यथानुपपत्तिरेवाहमर्थपरामर्शे प्रमाणमिति भावः । अहमर्थपरामर्शेऽनुभवोऽपि प्रमाणमित्याह ।। एतावन्तमिति ।। अन्यथेति ।। अहमर्थस्य परामर्शत्वाभावे इत्यर्थः । न च यथा दुःखित्वेन प्राक्ज्ञानं तथा मदन्यत्वेन प्राक् ज्ञानाभावान्न तथा परामर्श इति वाच्यम् । तथापि यः सुप्तः सोऽधुना अहं जात इति परामर्शस्य वज्रलेपत्वापत्तेः । अहमिदानीं सुखी जात इतिवत् घटाद्यन्यत्वादिवत् मदन्यत्वग्रहणस्याप्यवश्यकत्वाच्च । अन्यथा कदाचित् घटान्यत्वादौ सन्देहः स्यात् ।। अपरामर्श इति ।। न च परामर्शभिन्ने तत्त्वेनाग्रहदशायां परामर्शत्वारोपोऽस्तु । घटभिन्ने घटत्वारोपदर्शनादिति वाच्यम् । अज्ञानांशे परामर्शत्वानुभवेन तद्भिन्नत्वस्यैवायोगात् । अज्ञाने ज्ञानत्वारोपस्य अविषये विषयत्वारोपस्य क्वाप्यदर्शनाच्च । अत एवानुव्यवसायस्य तदंशे यथार्थत्वनियमः सिद्ध इति । न चात्मान्यसिद्धेः प्रागेवाहमर्थापरामर्शः साध्यत इति वाच्यम् । आत्मान्यत्वाति-रिक्तस्य तत्साधनोपायस्य दूषितत्वात् ।। अहमित्यतोऽन्य इति ।। न चास्यैव परामर्शत्वेनाभ्युपगमात् नायं दोष इति वाच्यम् । तथात्वेऽहमर्थांशेऽपि तदापत्तेः ।। एतेनेति ।। सुप्तावहमर्थप्रकाशोपपादनेनेत्यर्थः । इष्टापत्तिमेवाह ।। स्मर्यते हीति ।। अन्यथेति ।। यद्युक्तः परिहारः स्मर्यते इत्यस्य न भवेदित्यर्थः ।। करणत्वादिति ।। न चाहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततया परस्परप्रकाशेन परस्पर-परामर्शापादनेन व्यधिकरणत्वमिति वाच्यम् । अहमर्थस्यात्ममात्रत्ववादिनं प्रति अहमर्थ-मात्रसापेक्षत्वसमव्याप्त्योरसिद्धेः ।। अन्यथेति ।। यद्यर्थप्रकाशेन तदभिमान आपाद्ये-तेत्यर्थः । न चाभिमानपरामर्शेऽहङ्कारस्य तन्त्रतया सुप्तौ चाहमर्थाभावेन तादृशपरामर्शाभाव इति वाच्यम् । अहमर्थस्यात्ममात्रत्ववादिनः सुप्तौ तदभावासिद्धेः ।। तस्मादिति ।। सुप्तावहमर्थप्रकाशे स्मर्येतेति बाधकाभावादेवेत्यर्थः ।
ननु सुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमिति परामर्शानुपपत्तिः । तत्र सर्व-विषयकाज्ञानप्रतीतेरित्यत आह ।। न किञ्चिदिति ।। आत्मान्यविषयत्वेन सङ्कोचे अहमर्थान्यत्वेनापि सङ्कोचनीयम् । अविशेषादिति भावः ।। विरोधादिति ।। न च साक्षिरूपज्ञानं नाज्ञानविरोधीति न परामर्शस्य सङ्कोच इति वाच्यम् । तर्ह्यहमर्थोऽपि साक्षिणैव भासत इत्यङ्गीकारेण तस्य प्रकाशेऽप्यज्ञानविषयतोपपत्तेः साक्षिणोऽप्यज्ञान-विरोधस्योपपादितत्वाच्च । ननु सुप्तावहमर्थप्रकाशे न विजानाम्ययमहमस्मीति श्रुतिविरोधः तत्र सुप्तावहमर्थप्रकाशस्योक्तत्वादित्यत आह ।। या त्विति ।। न चात्मावेदनश्रुतिः विशेषाज्ञानविषयेति युक्तमहरहर्ब्रह्म गच्छन्ति सति सम्पद्येत्यादि श्रुत्यनुसारात् । न च तथा प्रकृते श्रुतिरस्तीति वाच्यम् । तदात्मानमेवावेदहं ब्रह्मास्मीति श्रुतिसद्भावात् अहमर्थ-स्यात्मानन्यत्वेन तद्वेदनश्रुतेरेवाहमर्थवेदनश्रुतित्वोपपत्तेश्च ।। किञ्चेति ।। न चात्राप्य-विद्यावच्छिन्नाहमर्थावच्छिन्नयोरभेदात् स्मर्त्रनुभवित्रोरैक्यमुक्तमेवेति वाच्यम् । उपहितानु-पहितयोर्भेदस्य त्वयापि वाच्यत्वात् । अन्यथा चिद्गतमुक्तेर्विशिष्टनिष्ठत्वं विशिष्टगतसंसारस्य चिन्मात्रनिष्ठत्वे बन्धमोक्षयोः समानकालीनत्वापत्तेः । तथा चाहमर्थस्यैवानुभवितृत्वमिति सुप्तावहमर्थसिद्धिरिति भावः ।
ननु जीवचैतन्यस्य सर्वसाधारणत्वात् तदुपाधेश्चाविद्यायाश्चैकत्वात् अनुभवितृस्मत्रोरैक्यं भविष्यतीत्यत आह ।। यद्यपीति ।। तयोरिति ।। चैतन्यजीवत्वोपाध्योरित्यर्थः ।। स्मर्तुरिति ।। बन्धमोक्षयोः समकालत्वापत्येत्यर्थः । नन्वन्तःकरणस्याविद्यावच्छिन्नचैतन्यं प्रत्येवावच्छेदकत्वात् स्वातन्त्र्येण तदभावात् नाविद्यावच्छिन्नान्तःकरणावच्छिन्नयोर्भेद इति न प्रत्यभिज्ञाविरोध इत्यत आह ।। यद्यपीति ।। न च दृष्टान्तासम्प्रतिपत्तिः । तयोरेवोपाध्योः उपहितभेदकत्वं यौ परस्परानुपहितमुपधत्त अन्यथा कम्बवच्छिन्नग्रीवा-वच्छिन्नादन्य एव घटाकाशः स्यादिति वाच्यम् । विशेष्यविशिष्टयोर्भेदनियमेन परस्परानुपहितत्वस्याप्रयोजकत्वात् । अन्यथा शुद्धविशिष्टयोरप्यभेदापत्तौ शुद्धस्य मिथ्यात्वं विशिष्टस्य वा सत्यत्वं स्यात् । प्रकृतेऽप्यविद्यावच्छिन्नस्य विशेष्यत्वात् अन्तःकरणा-वच्छिन्नस्य विशिष्टत्वात् । तथा च कथं न प्रत्यभिज्ञाविरोध इति ।। किञ्चेति ।। न च कृशोऽहं स्थूलो भवामीतिवत् प्रवृत्युपपत्तिरिति वाच्यम् । तत्र देहस्थौल्यार्थमेव प्रवृत्तेः । अहम्पदार्थे स्थौल्याद्युपचारात् तथा प्रयोगोपपत्तेः । न च प्रकृतेऽपि चैतन्यसुखार्थमेव प्रवृत्तिः, चैतन्येऽहन्त्वोपचारात् तथा प्रयोग इति वाच्यम् । देह एव कार्श्यादि नाहम्पदार्थे इतिवत् चैतन्य एव सुखं नाहम्पदार्थ इति बाधकाभावात् । बाधकाप्रवृत्तावप्युपचारकल्पने इदं रजतमित्यत्रापि तत्कल्पनापत्तेरिति ।
नन्वभिन्नं चैतन्यमेव प्रत्यभिज्ञाविषयो नाहमर्थ इत्यत आह ।। अभिन्न इति ।। तथापि प्रत्यभिज्ञानुपपत्तिरेवेति भावः । उपलक्षणमेतत् । उत्तमपुरुषप्रयोगानुपपत्तिश्चेति द्रष्टव्यम् । ननु वास्तवकर्तृत्वाभावेऽपि तदारोपस्य सम्भवात् प्रत्यभिज्ञोपपत्तिरित्यत आह ।। कर्तृत्वेति ।। तथा च तस्यापि प्रत्यभिज्ञाविषयत्वं स्यादिति भावः ।। किञ्चेति ।। यदा मनआदीनामुपरम एवोक्ते न विनाशः तदाऽहङ्कारस्य न विनाश इति कैमुत्येन सिद्धिरिति भावः । न चोपरमशब्देन विनाश एव विवक्षित इति वाच्यम् । स्वव्यापाररहिते वस्तुनि उपरमशब्दप्रयोगेन विनाशे तस्याशक्तत्वात्, तथाप्यहङ्कारनाशानुक्तेश्च । न च मनस उपरम उक्ते अहङ्कारस्यापि स उक्त एवेति वाच्यम् । अहंमनसोर्भेदात् । अन्यथा मनोनिर्गमे पिबन्नास्तैवेति श्रुतौ अहमर्थावस्थानोक्त्यसम्भवापातात् । न ह्यहमर्थाभावेऽशन-पानादिसम्भवः । सुप्तावप्यहङ्कारकार्यप्राणावस्थानस्य प्रत्यक्षसिद्धत्वाच्चेति दिक् ।
नन्वात्वाहमर्थयोरैक्ये श्रुतौ अथात आत्मादेशः अथातोऽहङ्कारादेश इति पृथगुपदेशो न स्यात् । तथा च तदन्यथानुपपत्या तयोर्भेद इत्यत आह ।। अथात इति ।। तथा च पृथगुपदेशस्य व्यभिचारितया न भेदसाधकत्वमिति भावः । भूमात्मनोः प्रथगुपदेशो न भेदसाधनक्षमः तस्यान्यथासिद्धत्वात् । आत्माहमर्थयोस्तु नान्यथासिद्ध इत्याशङ्कते ।। नन्विति ।। दृष्टान्ते पृथगुपदेशस्यैक्यसाधकत्वे द्वयोर्भिन्नत्वेन प्रत्यक्षसिद्धत्वं प्रयोजकम् ? उभयोः सार्वात्म्यायोगो वा ? नाद्य इत्याह ।। अहमर्थादन्यस्येति ।। ननु अहङ्कारात् भिन्नात्मनो भूम्ना भिन्नत्वेन प्रत्यक्षासिद्धत्वेऽपि तदभिन्नतयाप्यसिद्धत्वात् पृथगुपदेशस्य द्वयो र्सार्वात्म्यानुपपत्तिसहकारेणाभेदसाधकत्वमस्त्विति द्वितीय एवास्त्विति चेन्न । तर्ह्यहमर्थ-स्यापि तत एवाभेदसाधकत्वं स्यात् । पृथगुपदेशस्य द्वयोः सार्वात्म्यानुपपत्तेरविशेषात् । न च तत्र जडाजडयोरभेदानुपपत्याऽनुपपत्तेः क्षीणशक्तित्वमिति वाच्यम् । अहमर्थजडत्व-स्याद्याप्यसिद्धेः । सुप्तावप्रकाशत्वादेः प्रागेव दूषितत्वात् ।। त्वत्पक्ष इति ।।
ननु ‘यत्र नान्यत् पश्यति’ ‘स एवाधस्तादित्यादिना भूमस्वरूपोक्त्यनन्तरं यत्रे-त्याद्यधिकरणाधिकर्तव्यनिर्देशात् स इति परोक्षनिर्देशाच्च द्रष्टुर्जीवादन्यत्वप्रसक्तौ तद्वारणार्थ-मथातोऽहङ्कारादेश इत्यहङ्कारेण भूमि्न निर्दिष्टेऽहङ्कारस्य देहादिसङ्घातेऽविवेकप्रयोगदर्शनात् तदभेदप्रसक्तौ निष्कृष्टाहङ्कारकेवलात्मरूपमादाय अथात आत्मादेश इति द्रष्ट्रभेद उच्यत इत्यर्थपरत्वेन बिम्बादिपरत्वमिति चेन्न । त्वन्मते शुद्धस्याद्रष्ट्रत्वेन द्रष्ट्रभेदसिद्ध्यर्थमथात आत्मादेश इत्यादेर्वैयर्थ्यापातात् । द्रष्ट्रभेदे निर्विशेषत्वानुपपत्तेश्च । न चाभेदस्य कल्पित-त्वान्न निर्विशेषत्वविरोध इति वाच्यम् । तर्हि वास्तवभेदप्राप्तेः । न हि वस्तुतो भिन्नेऽभेदप्रसक्तिं सम्पाद्य तन्निवृत्यर्थं पुनरन्याभेदोपदेश इति सम्भवति । तथात्वे उन्मत्तवाक्यत्वापत्तेः । ‘अथात आत्मादेश’ इत्यनेनैव द्रष्ट्रभेदसिद्धौ अहङ्कारेण निर्देश-वैयर्थ्याच्च । न च बिम्बादिपरत्वेऽपि स्थूलारुन्धतीन्यायेनाहङ्कारोपदेश इति वाच्यम् । तथापि भूमोपदेशानन्तरमहमर्थोपदेशानुपपत्तेः । न ह्यरुन्धत्युपदेशार्थं काञ्चित् सूक्ष्मां तारकामुपदिश्य स्थूलामुपदिशति । तस्माद्यत्किञ्चिदेतत् । किञ्चानेकेषां सार्वात्म्यायोगात् तयोरुपदेशोऽभेदार्थ इति ते मतम् । न च तद्युक्तमत्र सार्वात्म्योपदेशाभावात् किन्तु सर्वगतत्वस्यैवेत्याह ।। स एवेदमिति ।। न चेदं वाक्यं स भगवः कस्मिन् प्रतिष्ठित इत्यादिवाक्यानुसारेण भूमातिरिक्तं किमपि नास्तीत्येतदर्थपरम् । तद्वाक्ये भूम्न अधिकरणे पृष्टे परमार्थतः स्वयमधिकरणमित्याद्युक्तेरिति वाच्यम् । स भगव इत्यादिवाक्ये ब्रह्मणः स्वाधारत्वेन स्वातन्त्र्यमन्यस्य ब्रह्माधारत्वेन पारतन्त्र्यमेवोच्यते । न तु भूमातिरिक्त-वस्त्वभावोऽपदार्थत्वात् अवाक्यार्थत्वाच्च । तथा च न तदनुसारेणेदं वाक्यं सार्वात्म्यपरम् । किन्तु ब्रह्मणः सर्वनियमनार्थं सर्वगतत्वपरमेवेति ।
ननु सार्वात्म्यवत् सर्वगतत्वमप्यनेकेष्वपि सम्भवतीति तदन्यथानुपपत्या तदभेद-सिद्धिरित्यत आह ।। सर्वगतत्वस्य चेति ।। किञ्च ब्रह्मात्माभेदसिध्यर्थं हि सर्वोपदेश इति ते मतम् । तस्य चाहङ्कारोपदेशं विनैव सिद्धेरहङ्कारोपदेशवैयर्थ्यमित्याह ।। भूमेति ।। आत्मन इति ।। न चात्मन अपरोक्षत्वेऽपि अहङ्कारे तत्सुप्रसिद्धमिति तदुपदेश इति वाच्यम् । अपरोक्षैकरसेऽप्रसिद्धं तत्सम्बन्धेनापरोक्षे तत्सुप्रसिद्धमित्यस्यायोगात् । अन्य-थाऽत्मनोऽपरोक्षैकरसतासिद्धेरिति । ननु श्रुतेरुक्तार्थपरत्वाभावेऽर्थान्तराभावेनाप्रामाण्यप्रसङ्ग इत्यत आह ।। श्रुत्यर्थस्त्विति ।। तथा च स्मृत्यैव श्रुतेर्व्याख्यातत्वात् अर्थान्तरसम्भवेन नाप्रामाण्यम् । न च श्रुत्या स्मृतेर्बाधः श्रुतेर्बलवत्वादिति वाच्यम् । स्मृतेर्व्याख्यानरूपत्वेन निर्णीतार्थत्वात् । श्रुतेश्च व्याख्येयत्वेन सन्दिग्धार्थत्वात् स्मृत्यनुसारेणैव श्रुतेर्व्याख्ये-यत्वात् । अन्यथा अपि स्मर्यते इत्यादिसूत्रैः स्मृत्यनुसारेण श्रुत्यर्थप्रतिपादनानुपपत्तेः । मोक्षधर्मवचनाच्चाहङ्कारशब्दोऽहमर्थवाचीत्याह ।। मोक्षधर्मे चेति ।। न चात्र लक्षण-याऽहङ्कारशब्दः आत्मपर इत्युच्यते इति वाच्यम् । प्रोक्त इत्यनेन शक्तेरेव प्रतिपादनात् । अहङ्कारशब्दस्यात्मपरत्वानङ्गीकारे सूत्रविरोधोऽपीत्याह ।। सूत्रं चेति ।। न च सैव हि सत्यादय इत्यत्रादिशब्द अहङ्कारान्यपर इति वाच्यम् । सङ्कोचे बाधकाभावात् । अन्यथा भूमान्यपर इत्यपि स्यात् । अहङ्कारशब्दस्यात्मपरत्वानङ्गीकारे बाधकमप्याह ।। अन्य-थेति ।। न चात्र व्याप्त्युक्तिरौपचारिकीति वाच्यम् । भूमादावपि तथाभावप्रसङ्गात् ।
ननु अहङ्कारशब्दस्यात्मवाचित्वे अहङ्कारश्चेत्यादिश्रुतिस्मृतिविरोधः । तत्राहङ्कार-स्यात्मनः पार्थक्येन क्षेत्रत्वस्योक्तत्वादित्यत आह ।। अहङ्कारश्चेति ।। अहङ्कारशब्दस्य नानार्थत्वान्न कोऽपि विरोधः । न चैवं नानार्थत्वकल्पनायां कल्पनागौरवमिति वाच्यम् । अक्षादिपदवत् प्रामाणिकत्वात् । अस्तु वा अहङ्कारशब्दस्य तत्त्ववाचित्वम् । प्रकृतश्रुतौ व्याप्त्युक्तिबाधकात् लक्षणयाऽनिरुद्धपरत्वे बाधकाभावात् । नन्वहङ्काराख्यं तत्वमस्तीत्यत्र किं प्रमाणमित्यत आह ।। महत्तत्त्वादिति ।। नन्वहमर्थपरस्याहंङ्कारशब्दस्य क्षेत्रे प्रयोगात् अहमर्थस्य क्षेत्रत्वमित्यत आह ।। अन्यथेति ।। नन्वहङ्कारशब्दोऽहमर्थत्वनियतो न बुद्धिशब्दस्तथेत्यत आह ।। अहङ्कारशब्दस्येति ।। तथा च व्यभिचारात् नाहङ्कार-शब्दस्याहमर्थत्वनियम इति भावः । किञ्चाहङ्कारशब्दस्याहमर्थे प्रयोगे सति तदर्थत्वमिति शङ्कनीयम् । तदेव नास्तीत्याह ।। अहमर्थ इति ।। नन्वहमर्थेऽहंशब्दप्रयोगात् अहंशब्दाहङ्कारशब्दयोश्च पर्यायत्वात् अहङ्कारशब्दोऽपि तत्र प्रयुक्त एवेत्यत आह ।। आत्म-वाचिन इति ।। अहङ्कारशब्दपर्यायोऽहंशब्दो मकारान्तमव्ययम् । तच्चात्मनि कदापि न प्रयुज्यते । आत्मवाच्यहंशब्दस्तु दकारान्तास्मच्छब्दजः । स त्वहङ्कारे कदापि न प्रयुज्यत इति तयोरर्थभेद आवश्यकः । तथाचाहंशब्दप्रयोगात् नाहङ्कारशब्दप्रयोग इति भावः । ननु त्रयाणामपि पर्यायत्वमेवाऽहमिति प्रतीयमानाहङ्कारविषयत्वादिति चेन्न । अहमिति प्रतीतेरहङ्कारविषयत्वासिद्धेः । त्रयाणामहङ्कारविषयत्वस्य सुतरामसिद्धेश्च । अन्यथाऽहङ्कारे मामित्यादिप्रयोगापत्तेश्च । तथा च मान्तदान्तत्वभेदेनार्थभेदकल्पनमेव युक्तमन्यथा साङ्कर्यप्रसङ्गादिति भावः । नन्वहमर्थेऽचिद्धर्मस्य कर्तृत्वादेः प्रतीयमानत्वात् अचिदंशोऽपि स्वीकर्तव्य एव । तथा चागतमहमर्थे चिदचित्संवलनात्मकत्वम् । आत्मा तु चिन्मात्रमिति तस्मात्तस्य भेदसिद्धिरित्यत आह ।। अहमर्थ इति ।।
ननु कथमसिद्धिः कर्तृत्वादेरचिद्धर्मस्यात्मनि प्रतीयमानत्वात् । अहं कर्तेति हि सर्वेषां प्रतीतिरित्यत आह ।। कर्तृत्वादेरिति ।। ननु भोक्तृत्वादीनां भोगाद्युपाधिकत्वात् भोगा-देश्चान्तःकरण परिणामत्वेन तद्धर्मत्वमावश्यकमित्यत आह ।। अन्तःकरणधर्मत्व इति ।। न च तदंशाभावे तद्धर्मप्रतीतिरसिद्धैवेति वाच्यम् । संसर्गारोपपक्षे शुक्त्यादावपि रजतत्वादि-धर्मप्रतीत्या रजतांशस्वीकारापत्तेः । तथा च गौरोऽहमित्यादिसर्वे प्रत्यया यथार्थाः प्रसज्येरन्निति भावः । नन्वहमर्थे इदमंशाभावे परकीयाहमर्थे इदमिति प्रतीतिर्न स्यात् । तस्या अचिदंशनियतत्वादित्यत आह ।। यत्विति ।। अन्येति ।। यद्ययमिति बुध्याऽनात्मांशसद्भावस्तदेत्यर्थः । नन्वहमर्थाश्रितत्वेन प्रतीयमानत्वादात्मनो नाहमर्थत्व-मित्याशङ्क्य निषेधति ।। न चेति ।। अहमर्थाश्रितत्वेनेति ।। अस्यां प्रतीतौ वैषयिकयोर्ज्ञानसुखयोरेव प्रतीत्या तयोरात्मत्वाभावादिति भावः ।। विरोधादिति ।। भ्रान्तेर्विषयाभावनियतत्वेन तया भेदसाधने नित्यत्वसाधनकृतकत्ववत् विरुद्धमिति भावः । ननु तथापि विरुद्धधर्माधिकरणत्वात् नाहमर्थात्मनोरैक्यमित्याशङ्क्य निषेधति ।। न चेति ।। अहमर्थ इति ।। तथा चासिद्धिरिति भावः ।। त्वन्मत इति ।। न च चितोऽपि येन रूपेणाहमिति प्रतीतिविषयत्वं तेन रूपेणानात्मत्वमिष्टमेवेति नानैकान्तिकतेति वाच्यम् । हेतौ साध्ये वा तेन रूपेणेत्यस्याप्रवेशात् । अहमर्थस्यापि तेन रूपेणानात्मत्वेऽपि स्वरूपेणात्मत्वोपपत्तेः । चैतन्यमनात्मा अहमिति प्रत्ययविषयत्वात् शरीरवदित्यपि प्रयोगात् आभाससाम्यं च । बाधादिकं चोभयत्रापि तुल्यमिति ।
नन्वहमर्थः आत्मानः अहंशब्दाभिधेयत्वात् अहङ्कारशब्दाभिधेयत्वाच्छ रीरादि-वदित्यादिनाऽहमर्थस्यान्यत्वसिद्धिरिति चेन्न । ब्रह्मण्यपि तदात्मानमेवावेदित्यादिप्रयोगेण हेतुसत्त्वेनानैकान्त्यात् । तत्र लक्षणयैव प्रयोगान्न हेतुसत्त्वमिति यदि तदा प्रकृतेऽपि तथा प्रयोगसम्भवादसिद्धिः । अहमर्थाज्ञानान्यात्मज्ञाना भावेनाहमिति ज्ञानविषयत्वस्यात्मत्व-नियतत्वेन बाधाद्यापाताच्च । नात्मेति प्रतीतिविषयत्वस्योपाधित्वाच्च । द्वितीयहेतुश्च स्वरूपासिद्धः । पर्यायताया निरस्तत्वादप्रयोजकत्वाच्च । नानार्थन्यायेनोभयोरप्युभय-शब्दवाच्यत्वसम्भवाच्च ।। किञ्चेति ।। न चेदमानात्मनोऽधिष्ठानावच्छेदकत्वेनाधिष्ठान-त्वोक्तिरिति वाच्यम् । दृष्टान्तासम्प्रतिपत्तेः । अहमर्थस्यात्मान्यत्वसिद्ध्यनन्तरमेवा-धिष्ठानावच्छेदकत्वस्य कल्पनीयत्वेनान्योन्याश्रयाच्च । त्वन्मते प्रपञ्चारोपेऽपि ब्रह्मणोऽधिष्ठानावच्छेदकत्वापाताच्च ।। अन्योन्याश्रयादिति ।। सिद्धे अहमर्थात्मनोर्भेदे तदैक्यारोपसिद्धिः । तत्सिद्धौ च भेदसिद्धिरिति । न च प्रकाशाव्यभिचारः स्वप्रकाशात्मसम्बन्धं विना न सम्भवतीति अहङ्कारस्य स्वसत्तायां प्रकाशावैधुर्येण स्वप्रकाशत्वसाधनं युक्तमेवेति वाच्यम् । अस्याप्यात्माहमर्थयोर्भेदसाध्यत्वेनान्योन्या-श्रयात् । प्रकारान्तरेण भेदसिद्धेर्निरस्तत्वात् । तथा चात्मनः स्वप्रकाशत्वादिसिद्धयेऽह-मर्थत्वमवश्यमभ्युपेयमिति भावः ।। वाचस्पतिनेति ।। न चाधिष्ठानगतेदन्तावत् आत्मगतप्रेमास्पदत्वस्याहमर्थे भानमविरुद्धमिति वाच्यम् । सत्यस्थलेऽपीदं रजतमिति प्रतीत्येदन्तायाः साधारणत्वात् । वाचस्पतिवचनस्य तु अधिष्ठानगतासाधारणधर्मस्य नाध्यस्ते भानमध्यस्तगतासाधारणस्य तु अधिष्ठाने भानमित्येवम्परत्वेनारोप्यगतस्यैव निरुपाधिकपरमप्रेमास्पदत्वाभावस्य प्रतीतिः स्यादित्यापादनाददोष इति भावः ।। अहमिति ।। तथा च नात्मैक्याध्यासेन तद्गतपरमप्रेमास्पदत्वानुभव इति शेषः । न चायमनुभवो वैषयिकसुखविषय इति वाच्यम् । इतोऽतिरिक्तस्याजन्यसुखानुभवस्याभावात् विषयैरपि नित्यं सुखमभिव्यज्यत इत्युक्तत्वेन त्वन्मते जन्यसुखस्याभावाच्च ।। किञ्चेति ।। न च सोपाधिकप्रेमास्पदनाशेन बाह्यमतप्रवेशः । तथात्वे शरीरनाशेनापि तदापत्तेरिति वाच्यम् । अहमर्थातिरिक्तस्य निरुपाधिकप्रेमास्पदस्याननुभवात् अहमर्थ एव निरुपाधिक-प्रेमास्पदताया दर्शितत्वाच्च । तथा चाहमर्थनाशे कथं न बाह्यमतप्रवेशापत्तिरिति । नन्वहमर्थनाशेऽपि चिन्मात्रस्यानाशान्न बौद्धमतप्रवेश इति चेन्न । तत्तुल्यस्य तन्मतेऽपि सत्त्वादित्याह ।। तदन्यस्येति ।। निर्विशेषत्वेन चिन्मात्रस्य शून्यतुल्यत्वादिति भावः ।। एवमिति ।। चिन्मात्रस्यैव मुक्तिरहमर्थस्य तु नाश एवेत्यङ्गीकार इत्यर्थः । किन्तु चिन्मात्रं मुक्तं स्यादिति इच्छा स्यादिति शेषः । चिन्मात्रस्यैव मुक्त्यन्वयेऽपि मुक्तः स्यामि-तीच्छोपपद्यत इति शङ्कते ।। नन्विति ।। अत्रैवानुरूपदृष्टान्तद्वयमाह ।। यथेति ।। अन्योन्येति ।। आत्माहमर्थयोर्भेदसिद्धौ तथा कल्पनम् । तत्कल्पने च तयोर्भेद-सिद्धिरित्यन्योन्याश्रय इत्यर्थः ।। तत्रेति ।। न च श्रुतिरपि शुद्धचैतन्यगतममृतत्वं विषयीकरोति नाहमर्थनिष्ठमिति वाच्यम् । अहमर्थवाच्यस्मच्छब्दप्रयोगानुपपत्तेः । न च लक्षणया चिन्मात्रपरोऽस्मच्छब्द इति वाच्यम् । मुख्यार्थबाधकस्यात्मान्यत्वस्यासिध्याऽ-न्योन्याश्रयात् । एवमेव लक्षणाश्रयणेऽतिप्रसङ्गाच्च ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमुपपादयन् मुक्तेरनिष्टत्वमप्याह ।। तत्रेति ।। न चेच्छा-समयेऽन्तःकरणाध्याससम्भवेन तथेच्छाया अभावेऽपि विवक्षितविवेकेन विशेष्यगतमुक्ति-विषयत्वमेव कल्पनीयमिति वाच्यम् । अन्योन्याश्रयत्वस्योक्तत्वात् । अहमर्थस्याद्या-प्यात्मभेदासिध्या अन्तःकरणाध्यासकल्पनासम्भवात् । ननु प्रकृतेऽप्यात्मा मुक्तः स्यादिति विपरीतेच्छा अस्तीत्यत आह ।। यः कश्चिदिति ।। तथात्वे यः कश्चित् तृप्तः स्यादितीच्छया भोजनादौ प्रवृत्तिः स्यादिति भावः । ननु ममात्मा मुक्तः स्यादितीच्छया प्रवृत्तौ अङ्गीक्रियमाणायां नातिप्रसङ्ग इत्यत आह ।। ममेति ।। मामात्मा तृप्तः स्यादितीच्छावदिति भावः । ननु सेच्छा नाहमर्थं विषयीकरोति । किन्त्वात्ममात्र-गतत्वमित्यत आह ।। न चेति ।। तथा चातिप्रसङ्गः स्यादिति भावः ।। किञ्चैवमिति ।। न च संवलनं न सम्बन्धमात्रम् । किन्तु तादात्म्यम् । अहमिति प्रतिभासे चिदचितोस्तादात्म्यं विषयः । मनः स्फुरतीत्यत्र तु न तद्विषय इति विशेष इति वाच्यम् । इदं रजतमित्यत्रेव मनः स्फुरति प्रकाशते इत्यत्रापि सामानाधिकरण्येन तादात्म्य-भानस्यावश्यकत्वात् । अन्यथा इदं रजतमित्ययं तादात्म्यारोपो न स्यात् । तथा च विशेषापादनं युक्तमेवेति ।। यदि कल्प्यत इति ।। न चाहमर्थस्य मिथ्यात्वान्यथानु-पपत्तिप्रमाणादहमित्यत्र द्व्यंशता कल्प्यते । आत्मेत्यत्र तु कल्पकं न प्रमाणमिति न द्व्यंशताकल्पनमिति वाच्यम् । अन्योन्याश्रयात् । अहमर्थमिथ्यात्वस्याद्याप्यसिद्धत्वात् । न चात्मान्यत्वेन मिथ्यात्वम् । तस्याप्यसिद्धत्वात् । किञ्च विषयत्वं भिन्नभिन्न-प्रकारावच्छिन्नाधिष्ठानारोप्यविषयत्वम् । न च तदहमिति प्रतिभासेऽस्ति । न च तादृशद्व्यंशविषयत्वस्य रजतमिदमिति संसर्गारोपे व्यभिचारः । न च तत्रापि रजत-प्रकारावच्छिन्नत्वमेव रजतत्वांश इति वाच्यम् । तत्र मानाभावादिति वाच्यम् । रजतत्वं स्मृतमारोपणीयम् । न च स्मृतिर्निष्प्रकारिका । न वा तदन्यः प्रकारोऽनुभूयत इति रजतावच्छिन्नमेव रजतत्वमारोप्यमिति क्व संसर्गारोपे व्यभिचारः ।। त्वन्मत इति ।। न च स्फुरामीत्यत्राविद्यावृत्तिर्न विषयः । किन्तु स्फुरणं चैतन्यम् । तस्य चान-ध्यस्तत्वादधिष्ठानत्वं भविष्यतीति वाच्यम् । एवं हि रजतं स्फुरतीति प्रतीत्या रजतस्यापि स्फुरणरूपचैतन्यमेवाधिष्ठानं स्यात् । तथा च इदमर्थासन्निकर्षेऽपि अहमितिवत् रजतमिति प्रतीतिः स्यादिति विज्ञानवादप्रवेशः । न च तत्र स्फुरतीति वृत्तेरेवोल्लेखो न चैतन्यस्येति वाच्यम् । तर्हि प्रकृतेऽपि स्फुरामीति भ्रमस्यैवोल्लेख इति गृहाण । तथा च भ्रमस्याध्यस्तत्वात् कथमधिष्ठानत्वम् । किञ्च स्फुरणस्याधिष्ठानत्वे स्फुरणमहमिति प्रतीतिः स्यात् । न तु स्फुरामीति । किञ्च देवदत्तो गच्छतीतिवत् अहमर्थस्फुरणयोराश्रयाश्रयिभावेन प्रतीत्या भेदप्रतीतेर्नाधिष्ठानाध्यस्तभाव इत्याह ।। अहमिच्छामीतीति ।।
ननु तथाप्यस्तित्वमेवाधिष्ठानं भविष्यति । तस्यानध्यस्तत्वेनाधिष्ठानसम्भवात् इत्यत आह ।। बाधकेनेति ।। तथा च बाध्यत्वेन तस्याप्यध्यस्तत्वमवश्यमुपेयमिति भावः । अस्तु वाऽन्यत्र यथा तथा अहमित्यत्र तु न सर्वथा द्वयंशत्वमित्याह ।। त्वदभिप्रेत-स्येति ।। कल्पनं तु प्रागेव प्रमाणाभावेन दूषितमिति भावः । तथा चाहमर्थस्यात्मभिन्नत्वे न किमपि प्रमाणमित्युपसंहरति ।। तस्मादिति ।। नन्वहमर्थस्यात्मत्वेऽपि प्रमाणा-भावात् । कथमात्मत्वमित्यत आह ।। आत्मत्वे त्विति ।। अहम् इत्यादिकं योऽहं सुप्तः सोऽहं सुप्तः सोऽहं करोमीत्यादिकञ्च । अत्र यावती अनुपपत्तिः सा सर्वापि परिहृतैवेति ।
अनुमानमप्याह ।। अहमर्थ इति ।। नन्वत्र विशेषव्याप्तिर्वा सामान्यव्याप्तिर्वा ? नाद्यो दृष्टान्ताभावात् । न द्वितीयः स्वर्गसाधनकृत्याश्रये ऋत्विजि व्यभिचारात् इति चेन्न । स्वर्गेतरफलानपेक्षत्वे सति इति विशेषणान्नर्त्विजि व्यभिचारः । तस्य स्वर्गेतर-दक्षिणाद्यपेक्षत्वात् । तथा च सामान्यव्याप्तौ न दोषः ।। अहमर्थ इति ।। न च शरीरे व्यभिचारः । तत्रानर्थाश्रयत्वहेतोरभावात् । न ह्यहं कर्ता भोक्तेत्यादिवत् शरीरं कर्तृ भोक्तृ इत्याद्यनुभवोऽस्ति । तथा च न व्यभिचारः । अहमर्थस्य च तदाश्रयावृत्तित्वमुपाधिः । कृत्यादय आत्मगुणा इति पक्षे तस्य सत्त्वेन साधनव्यापकत्वात् अनुकूलतर्काभावेन साध्याव्यापकत्वाच्च । कृत्यादयोऽन्तःकरणधर्मा इति पक्षे तु अन्तःकरणादौ साध्या-व्यापकत्वाच्च मम मन इति प्रतीत्याऽन्तःकरणस्याहमर्थाद्भेदेनाहमर्थस्यान्तःकरणत्वा-नाश्रयत्वात् ।। श्रुतयश्चेति ।। अहमर्थस्यात्मत्वे प्रमाणमिति शेषः । न च सर्वत्राहंशब्दो लक्षणया निष्कृष्टचैतन्यपर इति वाच्यम् । लक्षणाबीजमुख्यार्थानुपपत्तेरभावात् । एवमेव लक्षणास्वीकारेऽतिप्रसङ्गाच्च । तदेवमहमर्थात्मनोरभेदात् नाहङ्कारादिकार्यानुपपत्याऽ-विद्यास्वीकरणीयेति मत्वोपसंहरन् उक्तमर्थं कारिकारूढं करोति ।। तस्मादिति ।।
।। इति अहमर्थस्यानात्मत्वभङ्गः ।।
श्रीनिवासतीर्थविरचितः
न्यायामृतप्रकाशः
अहमर्थो नात्मा तस्मिन्प्रकाशमानेऽप्यप्रकाशमानत्वादित्यनुमाने विशेषणासिद्धिं परिहरति ।। पश्चादिति ।। परामर्शः स्मरणम् । हेतौ विशेष्यभागं दर्शयति ।। अनेवंविधस्येति ।। अप्रकाशमानस्येत्यर्थः । अनुमानानुग्राहिकां श्रुतिं चाह ।। अथात इति ।। छान्दोग्ये भूमप्रकरणे ‘यत्र नान्यत्पश्यति’ इत्याद्युक्त्वा ‘स एवाधस्तात्’ इत्यादिना भूमानं सर्वात्म-कत्वेनोक्त्वा ‘अथातोऽहङ्कारादेशः अहमेवाधस्तात्’ इत्यादिना अहङ्कारं च निरूप्य ‘अथात आत्मादेशः आत्मैवाधस्तात्’ इत्यादिनाऽहङ्कारादात्मनः पार्थक्येनोपदेशाच्चाहमर्थो नात्मा अन्यथा तदनुपपत्तेरित्यर्थः । क्षेत्रज्ञात् जीवात् ‘क्षेत्रज्ञ आत्मा पुरुषः’ इत्यभिधानात् । अहङ्कारस्य चिदचित्संवलनात्मकत्वमुपपादयति ।। तस्मादिति ।। तत् चित्संवलनो-पपादनायाह ।। अहमिति ।। आत्मानुबन्धीति ।। तथा चात्मानुबन्ध्यनुभवाश्रयत्वस्या-हङ्कारे प्रतीयमानत्वादहमर्थे चिद्भागोऽस्तीत्यर्थः अचित्संवलनोपपादनायाह ।। अनात्मानु-बन्धीति ।। अनात्मत्वनियतं यत् कर्तृत्वं तस्याप्यत्र प्रतीयमानत्वात् अचित्संवलन-मस्तीत्यर्थः ।। अध्यस्त इति ।। अनुभवितृत्वाद्याश्रयस्य शुद्धचिद्रूपत्वकेवलाचिद्रूपत्वयोर-भावात् उभयसंवलनात्मकस्य तु सत्यत्वायोगादध्यस्त इत्यर्थः । उक्तहेतौ विशेष्यासिद्धिं परिहरति ।। यदि चेति ।। ह्यस्तन इवेति ।। पूर्वदिनानुभूताहमर्थ इवेत्यर्थः । यथा पूर्व-दिनेऽहमित्यनुभूतोऽहमर्थोऽद्य स्मर्यते तथा सुषुप्तौ अहमर्थोऽनुभूतश्चेत्सुप्तोत्थितेन स्मर्ये-तेत्याशयः ।
नन्वहमस्वाप्समिति स्मर्यत इति चेत् तदंशेऽनुभवरूपताया वक्ष्यमाणत्वात् । अनुभूते स्मरणनियमाभावात्सुप्तावह मर्थानुभवेऽपि इदानीं स्मरणाभावो युक्त इत्यत आह ।। अनुभूत इति ।। स्मर्यमाणेति ।। स्मर्यमाणात्ममात्रत्वाङ्गीकारात् । स्मर्यमाणात्मानतिभिन्नत्वाङ्गी-कारात् तथा च स्मरणमावश्यकमेव । न स्मर्यते च । अतोऽप्रकाशरूपविशेष्यस्य नासिद्धि-रित्यर्थः । इति यदप्युच्यत इत्यन्वयः । आत्माहमर्थयोरभेदवादिनं प्रति आत्मनः प्रकाशे सति अहमर्थस्याप्रकाश इत्येतदसिद्धमित्यभिसन्धायाह ।। तत्रेति ।। आत्मनः स्वप्रकाशत्वात्प्रकाशः अहमर्थस्यान्यप्रकाशत्वादप्रकाश इत्यर्थः ।। अद्यापीति ।। अहमर्थस्य प्रकाशमानात्मान्यत्वसिद्धौ सुषुप्तावप्रकाशसिद्धिः तत्सिद्धौ च तथाविधात्मभिन्नत्वसिद्धि-रित्यन्योन्याश्रय इत्यर्थः ।। नापीति ।। आत्मनः परामर्शात्सुषुप्तौ प्रकाशः अहमर्थ-स्यापरामर्शात्सुषुप्तावप्रकाश इत्यर्थः । अहमर्थापरामर्श एवासिद्ध इत्याह ।। अहमिति ।। अवेदिषमित्यत्राहमर्थस्यैवोत्तमपुरुषविषयत्वादित्यर्थः ।। परामर्शादिति ।। तथा च न तस्य परामृश्यमानात्मान्यत्वमित्यर्थः ।
नन्वयमात्मन एव परामर्शो न त्वहमर्थस्येत्याशङ्क्य तत्र दूषणं कारिकयैव सङ्गृह्णाति ।। अहमर्थ इति ।। आत्मविषये स परामर्शः कथमित्यर्थः । नन्वहंज्ञानादन्यत्वमेवात्म-परामर्शस्य अस्वाप्समित्यत्राहमर्थाप्रतीतेः । येन तद्विषयत्वं स्यादित्यत आह ।। अस्वाप्समित्यत्रापीति ।। अभिज्ञाभिलपनयोः समानार्थत्वात् ज्ञानप्रसङ्गे प्रयोगोदाहरणं नासङ्गतमिति ज्ञेयम् । अहमर्थस्यैव परामर्शविषयत्वमित्येतद्विवरणकारस्यापि संमतमित्याह ।। उक्तं चेति ।। प्रत्यभिज्ञानं स्मरणरूपपरामर्शः ।। शास्त्रेति ।। तथा च तस्यास्मि-न्परामर्शे भानमयुक्तमित्यर्थः । एवमहमर्थस्यैव परामर्शविषयत्वमुपपाद्य विपक्षे बाधकमप्याह ।। यदि चेति ।। इदमर्थः परागर्थः । तद्व्यावृत्तः प्रत्यग्रूपः । प्रत्यक्त्वमेवाहमर्थत्वं न ततो भिन्नं तथा च यदि परागर्थव्यावृत्तः प्रत्यगर्थरूपोऽहमर्थो न परामृश्यते तर्ह्येतावन्तं कालं सुप्तोऽहं वा प्रत्यगर्थो वेत्यर्थः । अन्यः परागर्थो वेति सन्देहः स्यात् न त्वहमेवेति निश्चयः अन्यत्वाख्येदमर्थरूपपरागर्थव्यावृत्तेः सुप्तावभानात् । पुरुषत्वव्यावृत्त्यप्रतीतिदशायां पुरोवृत्तिनि तत्कोटिकसंशयदर्शनात् । न ह्येवं भवति संशयः कस्यचित् । अतः सुप्ता-विदमर्थव्यावृत्तं प्रत्यक्त्वरूपमहमर्थत्वमेव प्रतीयत इत्यङ्गीकार्यम् । ततश्च तस्यैव परामर्श-विषयत्वसिद्धिरिति भावः ।
ननु अहमर्थो न परामृश्यते किन्त्वात्मैकः स एव च प्रत्यगर्थः तथा च परामृश्य-मानात्मनि प्रत्यक्त्वनिश्चयान्न एवाहन्त्वनिश्चय इति वक्तुं प्रत्यक्त्वं विकल्प्य दूषयति ।। प्रत्यक्त्वमिति ।। चिन्निर्भास्येति ।। चिज्ज्ञानं तेन निर्भास्यं दृश्यपराग्भूतं जडं तत्प्रति-द्वन्द्वि तत्प्रतिकूलं यत् चित्त्वं तदेव प्रत्यक्त्वमित्यर्थः । अन्यत्वं पराक्त्वं तद्विरुद्धं यत्स्वत्वं तदेव प्रत्यक्त्वमित्यर्थः । आद्य आह ।। चिदिति ।। अहमर्थभिन्नपरागर्थविरोधिचित्त्वरूप-प्रत्यगर्थपरामर्शाङ्गीकारे चिदस्वपीदिति परामर्शः स्यादित्यर्थः । द्वितीय आह ।। स्वय-मिति ।। अहमर्थभिन्नपरागर्थभूतान्यत्वविरोधिस्वत्वरूपप्रत्यगर्थपरामर्शाङ्गीकारे स्वयमस्व-पीदिति परामर्शः स्यादित्यर्थः । किञ्च स्वत्वरूपप्रत्यक्त्वस्य घटादावतिव्याप्तिश्च स्यात् न च तत्र स्वत्वाभाव इति वाच्यम् । घटादिः स्वस्माद्भिन्नो नेत्यादिप्रतीत्या स्वत्वस्य प्रतीय-मानत्वात् अन्यथा स्वस्मादित्यप्रयोगात् अतो घटादिरपि प्रत्यगर्थः स्यादित्याह ।। घटादि-रिति ।। युष्मदर्थेति ।। पराग्व्यावृत्तत्वमेव प्रत्यक्त्वम् । पराक्त्वनिर्वचनाय युष्मदर्थे-त्युक्तम् । नेदमहमर्थव्यावृत्तमित्याह ।। अहमर्थस्यैवेति ।। तदिति ।। युष्मदर्थरूप-पराग्विरुद्धत्वादित्यर्थः । किञ्च युष्मदर्थभूतपराग्व्यावृत्तत्वरूपप्रत्यक्त्वस्यात्मन्यसम्भवः अनावृतात्मचैतन्यस्य व्याप्तत्वेन युष्मदर्थत्वरूपपराक्त्वस्यैव सत्त्वेन तद्व्यावृत्तेरभावादित्या-शयेनाह ।। न हीति ।। आत्मनो युष्मदर्थत्वं विवरणेऽप्युक्तमस्तीत्याह ।। विवरण इति ।। सर्वात्मकत्वात् अपरिच्छिन्नत्वात् । तर्हि युष्मदर्थव्यावृत्त्यवभासः कथमित्यत उक्तम् ।। अहमुपरागादिति ।। देहान्तरावस्थितत्वेनयुष्मदर्थाहङ्काराभेदारोपादेवेत्यर्थः ।। घट्ट-कुटीति ।। केचिद्वणिजः शुल्कमदित्सन्तः शुल्कग्रहणस्थलं वञ्चयित्वाऽन्येन पथा जिगमिषन्तो विस्मृतमार्गाः यत्र घट्टे शुल्कग्राहिणी कुटी स्थिता तत्रैव प्रभाते समागताः सोऽयं घट्टकुटीप्रभातवृत्तान्तः । तथा च प्रकृतेऽहमर्थस्य परामर्शविषयत्वं सिद्धमित्यवधेयम् । तथा च सुषुप्तावप्रकाशमानत्वमसिद्धमिति भावः ।
ननु नाहमर्थस्य परामर्शविषयत्वं किन्त्वाऽऽत्मन एवेत्याशङ्कते ।। नन्विति ।। नाहमंश इति ।। आत्मांशे परामर्शः अहमर्थे त्वनुभव इत्यर्थः । नन्वहमस्वाप्यमित्यह-न्त्वाश्रय एव परामृश्यते नात्मा तस्याहन्त्वानाश्रयत्वादित्यत आह ।। इदानीमिति ।। जाग्रद्दशायामित्यर्थः । सुप्तावहङ्काराभावेनेदानीं तस्योत्पन्नत्वादित्यवधेयम् । अवच्छेदात् सम्बन्धात् । तथा अहन्त्वेन अनुभूयते ज्ञायते । तथा च नृसिंहाकारमिदं ज्ञानमिति भावः ।। न किञ्चिदिति ।। अविद्यायाः सुप्तौ सद्भावात्तदंशे परामर्शरूपत्वं तवापि सम्मतम् । तन्न स्यादिति भावः । कुत इत्यत आह ।। न हीति ।। अन्येति ।। अहमर्थान्येत्यर्थः ।। परामृश्यत इति ।। येन सुप्तावपि तथानुभवः सिद्ध्येदिति भावः ।। अहमर्थेति ।। तथा च न किञ्चिदवेदिषमित्यहमर्थाश्रितत्वेनैवाज्ञानस्य परामृश्यमानत्वात्सुप्तावपि तथैवानुभवो वाच्यः । स तु न सम्भवति तदा त्वयाऽहमर्थानङ्गीकारात् । तथा चाहमर्थांश इवा-ज्ञानांशेऽप्यनुभवापत्त्या सुप्तावविद्या न सिद्ध्येदिति सुप्तावपि परामर्शानुसारेणाहमर्था श्रितत्वे-नैवानुभवे वाच्ये तदाप्यहमर्थसिद्ध्याऽस्मदिष्टसिद्धिरिति भावः । नाहमंशे परामर्श इत्ये-तदसदित्याह ।। एतावन्तमिति ।। यथा स्वप्नावस्थायामहमर्थसद्भावात्स्वप्नादुत्थितस्य स्वप्नं पश्यन्नहमासमित्यहमर्थविषयः परामर्शो भवति तस्मिंश्च परामर्शे स्वप्नं पश्यन्नासमिति परामर्शवानस्मीत्यनुव्यवसायेनाहमर्थविषयकपरामर्शत्वमनुभूयते, यथा वा जाग्रदवस्थायां अहमर्थसद्भावाज्जाग्रदहमासमिति जाग्रदनुभूताहमर्थविषयकः परामर्शः जाग्रदन्तरकाले भवति तस्मिंश्च परामर्शे जाग्रदहमासमिति परामर्शवानस्मीत्यनुव्यवसाये नाहमर्थविषयकज्ञाने परामर्शत्वमनुभूयते तथाऽहमस्वाप्समिति परामर्शवानस्मीत्यनुव्यवसायेनाहमर्थविषयकज्ञाने परामर्शत्वमनुभूयतेऽतो नाहमंशे परामर्श इत्युक्तमसदिति भावः ।। अन्यथेति ।। अहमंशे अहमर्थे परामर्शत्वानुभवादित्युक्तमसदित्याशङ्कते ।।
।। नन्विति ।। परामृश्यमानो य आत्मा तदैक्यारोपात्तज्ज्ञानेऽनुभवरूपे परामर्शत्वस्य स्मृतित्वस्य अभिमान आरोप इत्यर्थः ।। अपरामर्श इति ।। अनुभव इत्यर्थः ।। परमर्श-त्वेति ।। स्मृतित्वेत्यर्थः । पुरोवृत्तिन्यारोपो युक्तः अनुभवे स्मृतित्वारोपस्य कुत्राप्यदर्शनात् तथात्वेऽनुव्यवसायस्य प्रमात्वनियमभङ्गापातादित्याशयः ।। सिद्ध इति ।। अहमर्थस्य परामृश्यमानात्मत्वे तु वास्तवैक्यस्यैव प्राप्त्या न तयोरैक्यारोपः सम्भवतीति भावः ।। सिद्धे चेति ।। परामृश्यमानात्मैक्यारोपे सिद्धे तन्निबन्धनाहमर्थानुभवेऽपि परामर्शत्वाभिमान इति तस्यापरामृश्यमानत्वसिद्धौ च सुषुप्तावप्रकाशमानत्वेन प्रकाशमानात्मान्यत्वसिद्धिरित्यर्थः । अहंज्ञानस्यैवात्मपरामर्शरूपत्वानङ्गीकारे दृष्टहानादिकमित्याह ।। अहमितीति ।। दृष्ट-शब्दोऽनुभवसिद्धत्वपरः । अहमर्थस्यैवात्मत्वेनाऽहमर्थज्ञानस्यैवात्मपरामर्शत्वस्यानुभवसिद्धस्य हानं अहमित्यतोऽन्य आत्मपरामर्श इत्यनुभवासिद्धस्य कल्पनमित्यर्थः । अहङ्कारः स्मर्येतेत्यत्र अहं शब्दोल्लेखिपरामर्शस्स्यादित्यापाद्यते उताहमर्थविशेष्यकाहन्त्वप्रकारकपरा-मर्शस्स्यादिति । नाद्य इत्याह ।। अहंशब्देति ।। तदुल्लेखीति ।। अहंशब्दोल्लेखिनाम-सविकल्पकं नास्तीत्यर्थः ।। तदभावेति ।। स्मृतेः समानविषयकानुभवजन्यत्वादिति भावः । नन्वेतावता सुप्तावहमर्थप्रकाशोऽङ्गीकृतः । तर्हि ह्यस्तनेऽपि जाग्रदवस्थायामहमर्थानुभव-सद्भावात् ह्यस्तनसुषुप्त्योर्वैषम्यं न स्यादित्यत आह ।। तावन्मात्रेणेति ।। ह्यस्तनेऽहं-शब्दोल्लेखिनामसविकल्पकमस्ति । सुषुप्तौ तन्नास्तीत्येतावन्मात्रेणैव वैषम्यमित्यर्थः । द्वितीये त्विष्टापत्तिरित्याह ।। अहमर्थेति ।। इष्टापत्तिमेवोपपादयति ।। स्मर्यते हीति ।। अहमर्थः अहन्त्वप्रकारक इति शेषः । ह्यस्तनवैषम्यमात्रेणाहमर्थे परामर्शत्वाभावे आत्मांशेऽपि परामर्शत्वं न स्यात् । यदि सुषुप्तावात्मा प्रकाशेत तर्हि स्मर्येत ह्यस्तन इवात्मेति चोद्यमस्मदुक्तोत्तरान्योत्तरशून्यं स्यादित्याह ।। अन्यथेति ।। ह्यस्तन आत्मेवेति सम्बन्धः । तत्रात्मशब्दोल्लेखिपरामर्शापादने सुषुप्तौ तदुल्लेख्यनुभवाभावादेव तदभावोपपत्तेः । आत्म-विशेष्यकपरामर्शापादने अस्वाप्समिति तत्परामर्शसद्भावेनेष्टापत्तिरित्येवोत्तरं वाच्यं तदस्माक-मपि समानमित्यर्थः ।।
ननु तथापीति ।। यदि सुषुप्तौ अहमर्थः प्रकाशेत तर्हि एतावन्तं कालमहमित्यभि-मन्यमान आसमिति परामर्शः स्यादित्यापाद्यत इत्याशङ्कते ।। नन्विति ।। अहमर्थेति ।। अहमर्थप्रकाशेऽङ्गीक्रियमाणे तदभिमानपरामर्शापादनस्य व्यधिकरणत्वात् । न ह्यस्माभिः सुषुप्तावहमर्थाभिमानप्रकाश उक्त इति भावः ।। अन्यथेति ।। अहमर्थप्रकाशेन तदभिमान-परामर्शापादने आत्मप्रकाशमात्रेणात्मेत्यभिमन्यमान आसमित्यभिमानपरामर्शः स्यादित्या-पादयितुं शक्यत्वात् । तत्र व्यधिकरणत्वान्नैवमापादनं युक्तमित्युत्तरमिति वाच्यं तन्ममापि तुल्यमिति भावः । ननु सुषुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमिति अर्थावच्छिन्नाज्ञान-परामर्शस्तावदनुभूयते स न स्यात् प्रकाशमानेऽहमर्थेऽज्ञानविरोधादिति चेत् तर्ह्यात्मनोऽपि सुषुप्तौ प्रकाशेन किञ्चिदहमवेदिषमिति परामर्शो न स्यात् । तस्याप्यज्ञानावच्छेदकत्वप्राप्त्या प्रकाशमाने आत्मनि अज्ञानायोगात् । आत्मान्यविषयकमेवाज्ञानमिति चेत् तर्ह्यत्राप्यह-मर्थान्यविषयकमेवाज्ञानमस्तु तथा चाहमर्थविषयकाज्ञानादन्यदेव घटादिप्रपञ्चविषयकमेवाज्ञानं सुषुप्तावनुभूतं सत्स्मर्यते इत्याह ।। न किञ्चिदिति ।।
ननु आत्माज्ञानादन्यदिवेति दृष्टान्त अयुक्तः प्रकाशमान एवात्मन्यज्ञानाङ्गीकारात् साक्षिणोऽज्ञानाविरोधित्वादित्यत आह ।। अन्यथेति ।। प्रकाशमानेऽज्ञानस्य विरुद्धत्वा-दित्यर्थः । साक्षिणोऽप्यज्ञानविरोधित्वमुपपादितमिति भावः ।। अयमिति ।। अयं पुमान् सुप्तोऽहमस्मीति स्वात्मानं न विजानातीति श्रुत्या सुप्तावहमर्थाज्ञानाभिधानादित्यर्थः । नात्मानमिति श्रुतेः सुषुप्तावात्माज्ञानमपि न स्यादित्युक्ते तत्र त्वया वाच्यं ऐषा श्रुतिरात्म-निष्ठविशेषाज्ञानपरेति तदेतदत्रापि समम् । अहमर्थनिष्ठविशेषाज्ञानपरा न विजानातीति श्रुतिरित्यपि सुवचत्वादित्यर्थः । अन्तःकरणावच्छिन्नस्य स्मर्तृत्वानुरोधेन तस्यैव तदनु-भवितृत्वात्स्मर्तृत्वानु भवितृत्वयोरैकाधिकरण्यनियमादित्यर्थापत्त्याऽहमर्थसिद्धिरित्याह ।। किं चेति ।। अनहमर्थस्य अहमर्थभिन्नस्य ।। अविद्येति ।। साक्षिचैतन्यस्येत्यर्थः । कुतो नाद्य इति चेत् अहमर्थस्यैव स्मर्तृतायाः प्रत्यक्षसिद्धत्वादित्याह ।। योऽहमिति ।। नन्वन्तः करणावच्छिन्नस्याहमर्थस्य स्मर्तृत्वेऽनुभवितृत्वमपि तस्यैव कुत इति चेत्तत्राह ।। स्मृतीति ।।
स्मर्तृत्वानुभवितृत्वयोरहमर्थनिष्ठत्वं प्रत्यभिज्ञाप्रत्यक्षसिद्धं चेत्याह ।। योऽहमन्वभूवमिति ।।
ननु न प्रत्यभिज्ञाविरोधः अनुभवितृचैतन्यस्य सर्वदा सर्वगतत्वात् । तथा च योऽहमित्यनुभवितुश्चैतन्यस्यैव स्मर्तृत्वमङ्गीकृतं तस्य पूर्वदिनानुभवितृतया द्वितीयदिने स्मर्तृतया चैत्रादिदेहस्थितत्वात् । तथाविद्यारूपोपाधेः चैतन्यसम्बन्ध्यजीवत्ससम्पादक-स्यैकत्वेन तदवच्छिन्नो जीवश्चैक एव । तथा च तस्यैवानुभवितृत्वं स्मर्तृत्वं चैति तयो-रैकाधिकरण्यप्राप्त्या न प्रत्यभिज्ञाविरोध इत्याशङ्क्य निराकरोति ।। यद्यपीति ।। तयो-श्चैतन्यजीवयोः । अविद्यावच्छिन्नादनुभवितृजीवादननुभवितृचैतन्यमात्राच्चेत्यर्थः । तथा च प्रत्यभिज्ञाविरोधस्तदवस्थ एवेति भावः । ननु पुनरनुभवितृस्मर्त्रोरैक्यमेव । तथा हि अविद्या शुद्धचैतन्यं अवच्छिद्यजीवत्वं सम्पादयति स एवानुभविता अन्तःकरणं चाविद्यावच्छिन्नं जीवं सम्बन्ध्य स्मर्तृत्वं सम्पादयति । यथा हि महाकाशसम्बन्धी मठोपाधिर्मठावच्छिन्नाकाशं करोति । मठान्तर्गतो घटोपाधिर्मठाकाशसम्बन्धी सन् घटाकाशं करोति । तथा चानुभवितुर-विद्यावच्छिन्नजीवस्यैवान्तःकरणावच्छिन्नाहमर्थत्वेन स्मर्तृत्वात्तयोरैकाधिकरण्येन न प्रत्यभिज्ञाविरोध इत्याशङ्क्य निराकरोति ।। यद्यपीति ।। अविद्यावच्छिन्नचैतन्यं जीव-मित्यर्थः । तर्हि सुतरां अनुभवितृस्मर्त्रोर्भेदसिद्धिः अविद्यान्तःकरणोपाधिभेदात् ताभ्यामुप-धेययोः शुद्धचैतन्याविद्यावच्छिन्नयोश्च भेदात् । यथा हि मठावच्छिन्नाकाशतदन्त स्थघटा-वच्छिन्नाकाशयोर्भेदः उपाध्योर्मठघटयोर्भेदात् तदुपाधेययोः शुद्धमहाकाशमठाकाशयोर्भेदात् एवमिहाप्यनुभवितुरविद्यावच्छिन्नचैतन्यात्स्मर्तुरन्तः करणावच्छिन्नस्य भिन्नत्वेन प्रत्यभिज्ञा-विरोधस्तरितुमशक्य इत्याह ।। तथापीति ।। प्रवृत्त्ययोग इति ।। प्रत्युताहमर्थस्य सुषुप्तौ नाशादिति भावः ।। योऽहमिति ।। त्वन्मतेऽहमर्थस्यासुप्तत्वादिति भावः ।। प्रत्यभि-ज्ञेति ।। सुप्तिजागरयोरहमर्थैक्यावगाहि प्रत्यभिज्ञेत्यर्थः ।। प्रत्यभिज्ञानेति ।। त्वन्मतेऽह-मर्थस्यैव कर्तृत्वात्कर्तृत्वाधिकरणयोः पूर्वतनाद्यतनयोरहमर्थयोरैक्यावगाहिप्रत्यभिज्ञेत्यर्थः । कथं तदनुपपत्तिरित्यत आह ।। अहङ्कारेति ।। पूर्वतनाहमर्थनाशेन पुनरद्यतनाहमर्थो-त्पत्त्यङ्गीकारेण पूर्वतनाद्यतनाहङ्कारव्यक्त्यो र्भेदादित्यर्थः ।। कर्तुरिति ।। कर्तृत्वभोक्तृत्वयो-रुभयोरपि त्वन्मतेऽहमर्थनिष्ठत्वेन पूर्वतनकर्तुरिदानीं तत्फलभोक्तुश्चाहमर्थस्य भिन्नत्वात्पूर्वत-नाहमर्थस्य कृतहानिः अद्यतनाहमर्थस्य कर्माभावेऽपि भोगप्रसङ्ग इत्यर्थः । ननु कर्तृभोक्त्रो-श्चैतन्यानुगमेनानुगमेनाभेदोपपत्तेर्न कृतहानादीत्यत आह ।। अभिन्न इति ।।
ननु चैतन्ये वास्तवकर्तृत्वाद्यभावेऽपि आरोपितं कर्तृत्वमस्तीति तादृशकर्तृत्वोपेत-चैतन्यानुगमेनाभेदसद्भावान्नाकृतहानादीत्यत आह ।। कर्तृत्वादिति ।। स्थूलः करोतीति प्रतीतेरित्यर्थः । तथा चारोपितकर्तृत्वस्यापि प्रसङ्गेनाप्रयोजकत्वेन न तेन व्यावहारिक-कर्तृभोक्तृभेदप्रमानिर्वाहः । गुञ्जापुञ्जे वह्नित्वारोपेणारोपितदाहकर्तृत्वसद्भावात्तेनापि वास्तव-स्फोटादिरूपकार्यापत्तिरिति भावः ।। अहमिति ।। अहमर्थान्यस्मिन् चैतन्ये कर्तृत्वारोपो न युक्तः । तथा हि चैतन्यं कर्त्रिति कदाप्यारोपादर्शनात् अहं करोमीत्येव तदारोपो वाच्यः । आरोपश्च प्रधानपूर्वक इति मुख्यकर्तृत्वप्रत्ययोऽन्यत्र वक्तव्यः । स चैतदन्यो नास्तीति अयमेव मुख्यप्रत्यय इति न तदारोप इति भावः । अहङ्कारविलये क्रियाशक्तेरपि नाशेन प्राणस्यापि प्रविलयापत्त्येति शेषः ।। नन्विति ।। प्राणस्याहङ्काराद्भेद इत्येकं मतं अभेद इत्यपरं मतमिति मतद्वयसत्वादेवमुक्तिः ।। तल्लयो युक्त इति ।। तथा च तल्लयेऽपि प्राणकार्यश्वासाद्युपपत्तिरिति भावः । प्राणस्याहङ्कारभेदपक्षे आह ।। प्राणस्येति ।। प्राणेति ।। चेष्टनेत्यर्थः । अहमर्थे चेष्टाभावेन क्रियाकर्तृत्वाभावादिति भावः । अभेदपक्षे त्वाह ।। अहमर्थत्वेति ।। प्राणस्येति वर्तते । स्वान्यथानुपपत्त्या सुषुप्तौ प्राणस्य सत्वा-त्तदभिन्नाहमर्थस्यापि सत्वापत्त्या तदुल्लेखः स्यादित्यर्थः । स्वरूपतः सत्वेऽपि तदुल्लेखः किमर्थः ? न हि यावदस्ति तावतोल्लेखितव्यमित्यस्ति नियम इत्यस्वरसादाह ।। किं चेति ।। न सुषुप्ताविति ।। न स्वरूपेण नाशः किं तूपरम एवेत्यर्थः । गृहीतं स्वव्यापारा-दुपरतम् ।। उपरमस्यैवेति ।। तथा च मनो गृहीतमिति सतोऽन्तःकरणस्योपरम एवोक्तो न तु लय इत्यर्थः ‘अथातोऽहंकारादेशः अथात आत्मादेश’ इति श्रुतौ पृथगुक्तत्वाच्चा-हङ्कारात्मनोर्भेद इत्युक्तमयुक्तम् । तथात्वे आत्मनोऽपि भूम्नो भेदेनोपदेशान्यथानुपपत्त्या आत्मापि भूम्नो भिन्नः स्यात् । तस्माद्वेदोपदेशेऽपि यथा भूमात्मनोरैक्यमेवाङ्गीकृतं द्वयोः श्रुत्युक्तसार्वात्म्यानुपपत्तेः एवमात्माहङ्कारयोर्भेदोपदेशे सत्यपि ऐक्यमेवास्तु । तथा च भेदोपदेशोऽप्रयोजक इत्याह ।। अथात इति ।।
ननु नोपदेशानुपपत्तिः, ऐक्यार्थत्वेनान्यथासिद्धत्वादिति शङ्कते ।। नन्विति ।। भूमा-त्मनोः परमात्मजीवात्मनोः ।। प्रत्यक्षसिद्धयोरिति ।। अन्योन्याभावप्रत्यक्षेऽधिकरण-प्रत्यक्षस्य तन्त्रत्वादत्र च जीवस्य प्रत्यक्षसिद्धत्वात्तद्भेदोऽपि प्रत्यक्षसिद्ध एवेति भावः ।। पृथगिति ।। ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायेन प्रत्यक्षसिद्धभेदोपदेशस्य व्यर्थत्वात् व्यर्थं सत् किञ्चिदिष्टं ज्ञापयतीति न्यायेन ऐक्यार्थ इत्यर्थः । ननु भेदोपदेशस्य व्यर्थस्यापि कथं भूमात्मनोरभेदज्ञापकमित्यत आह ।। द्वयोरिति ।। द्वयोः ‘स एवेदं सर्वम्’ इत्याद्युक्तसार्वात्म्यस्य च श्रुतावुच्यमानत्वादिति भावः ।। पृथगिति ।। पूर्वन्यायेनेति भावः । अहङ्कारे सार्वात्म्योपदेशस्तु तदारोपाधिष्ठानात्मसम्बन्धेनोपचरित इति ज्ञातव्यम् । आत्मनो जीवस्याहमित्यनुभवव्यतिरेकेणात्मनि प्रत्यक्षाप्रवृत्तेरित्यर्थः । उपदेशः पृथगुप-देशः ।। भेदार्थ इति ।। तथा च भूमात्मनोर्भेदप्रतिपादकत्वोपपत्त्या त्वदिष्टव्याघात इति भावः ।। ब्रह्मेति ।। भूमशब्दोक्तेत्यर्थः ।। तयोरिति ।। अहङ्कारभूम्नोः पृथगुपदेश इत्यर्थः ।। ऐक्यार्थ इति ।। उक्तन्यायादित्यर्थः । तथा च भूमाहङ्कारयोरप्यैकप्रतिपादकत्वोपपत्त्या तवात्यन्तानिष्टप्राप्तिरिति भावः ।। भूमेत्यादि ।। अविद्याशब्देन मायापि ग्राह्या । तथा च भूम्नो बिम्बस्थानीयमायोपाधिकब्रह्मत्वात् अहङ्कारस्य प्रतिबिम्बस्थानीयाविद्योपाधिकजीवत्वात् आत्मनश्च मुखमात्रस्थानीयब्रह्मजीवानुस्यूतचिन्मात्रत्वेन तत्प्रतिपादकत्वाङ्गीकारेण त्वदभि-प्रेतचिदचित्संवलनात्मकाहङ्कारप्रतिपादनप्रसक्तेरेवाभावेन तच्छ्रुतिबलादहमर्थस्य जीवात्मैक्या-सिद्धिरित्यर्थः । द्वयोः सर्वात्म्यानुपपत्तेः पृथगुपदेश ऐक्यार्थ इत्युक्तं दूषयति ।। स एवेति ।। उपसंहाराणां भूमाहङ्कारात्मप्रकरणेषु श्रुतानामित्यर्थः ।। उपक्रमैरिति ।। भूम-प्रभृतीनामाधाराधेयभावेन सर्वगतत्वप्रतिपादकोपक्रमैः सर्वगतत्वपरत्वेन व्याख्येयत्वा-दित्यर्थः । उपक्रमस्यासञ्जातविरोधित्वेन प्रबलत्वात्तदनुरोधेनोपसंहाराणां नेयत्वादिति भावः ।
ननु भवत्पक्षेऽपि कथमनेकेषां सर्वगतत्वमित्यत आह ।। सर्वगतत्वस्य चेति ।। तार्किकादिमते गगनादीनामनेकेषामपि सर्वगतत्वाङ्गीकारादिति भावः ।। भूमेति ।। जीव-ब्रह्मणोरभेदप्रतिपादनायास्य प्रकरणस्य त्वन्मते आरब्धत्वादिति भावः ।। स्थूलारुन्धती-न्यायेनेति ।। यथाऽरुन्धतीं दर्शयितुं तत्समीपस्था प्रत्यक्षसिद्धा स्थूलतारका इयम-रुन्धतीत्यभेदेनादावुपदिश्यते अनन्तरं तस्यां बुद्धौ प्रसृतायां पश्चान्नेयमरुन्धती किं तु तत्समीपस्थेति प्रदर्श्यते एवं प्रत्यक्षसिद्धाहङ्कारैक्यमपि द्वारत्वेनोपदिश्यत इत्यर्थः । ऐक्योक्तिः सार्वात्म्योपदेशेनेति शेषः । आत्मन एव जीवस्यैव ।। तदैक्येति ।। भूमशब्दोक्तब्रह्मण इति शेषः ।। सिद्ध्येति ।। ततश्च न द्वारापेक्षेति भावः । अरुन्धत्यास्तु शैघ््रयेण प्रत्यक्षसिद्धत्वा-भावात्तत्र द्वारापेक्षेति वैषम्यं ज्ञातव्यम् । नन्वात्मन आपरोक्ष्याभावादपरोक्षाहङ्कारो द्वारत्वे-नोपदिश्यत इति चेत्तत्राह ।। उक्तीति ।। आत्मन इति ।। भूमात्मनोर्भिन्नत्वेन प्रत्यक्ष-सिद्धयोः पृथगुपदेश ऐक्यार्थ इत्यनेनेत्यर्थः । अन्योन्याभावप्रत्यक्षत्वे तन्त्रस्याधिकरण-प्रत्यक्षत्वस्यालाभादिति भावः । आत्मनो जीवस्यापरोक्ष्याभावे दूषणान्तरमाह ।। अपरोक्षेति ।। द्वारभूतेत्यर्थः ।। आपरोक्ष्यस्येति ।। भूमाख्यब्रह्मण इति शेषः ।। उपदेशे-नेति ।। लब्धेन परोक्षत्वेनेत्यर्थः ।। हानीति ।। बाधः सत्प्रतिपक्षो वा स्यात् उभयथापि त्वदिष्टासिद्धिरिति भावः ।
ननु भवन्मतेऽपि कथं ब्रह्मभिन्नाहङ्कारस्य सर्वव्यापित्वं सञ्जाघटीतीत्यत आह ।। श्रुत्यर्थस्त्विति ।। तथा चाहंशब्दोऽनिरुद्धपरं इति भावः ।। सैव हीति ।। सत्याद्या अहमात्मान्ताः सा परदेवतैव तत्स्वरूपभूता एवेत्यर्थः । प्रत्युत प्रसिद्धाहङ्कारपक्ष एवेयं श्रुतिरनुपपन्नेत्याह ।। अन्यथेति ।। ननु षट्प्रश्नोपनिषदि अहङ्कारश्चेत्यादिनाहमर्थस्य पृथिव्यादिवत्परमात्माश्रितत्वं प्रतीयते तदहमर्थापरपर्यायाहङ्कारस्यानिरुद्धत्वे विरुद्धमित्यत आह ।। अहङ्कारश्चेति ।। न त्वहमर्थः अस्मदभिप्रेतो जीवस्थोऽनिरुद्धः । अहङ्कारस्य महत्तत्वकार्यादित्वे प्रमाणमाह ।। महत्तत्वादिति ।। अतो भवः एतस्मात् त्रिविधाहङ्कारात् मनःप्रभृतीनां भव उत्पत्तिरित्यर्थः । अस्मदुक्तार्थमनङ्गीकृत्य महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव चेति स्मृतौ अहङ्कारस्य क्षेत्रज्ञाज्जीवात्पार्थक्येन क्षेत्रत्वोक्त्या नाहमर्थो जीव इत्यङ्गीकारे संविद्रूपचैतन्यवाचिनो बुद्धिशब्दस्य बुद्धिरव्यक्तमेव चेति क्षेत्रमध्ये पाठात् संविदोऽपि क्षेत्रत्वापत्तिः । अतः तत्र बुद्धिशब्दो नानार्थक इत्यङ्गीकार्यम् । तदहङ्कारशब्देऽपि सममित्याह ।। अन्यथेति ।। अहङ्कारशब्दस्य नानार्थत्वमेव दर्शयति ।। अहङ्कार-शब्दस्येति ।। देहेऽहम्बुद्धाविति ।। देहविषये याहम्बुद्धिस्तत्रेत्यर्थः ।। अहमर्थेति ।। त्वदभिमतान्तःकरणरूपाह मर्थेत्यर्थः ।। अहंशब्देति ।। कारशब्दरहितकेवलाहंशब्देत्यर्थः ।। दकारान्तेति ।। अस्मदः त्वाहौ सावित्यहादेशे सति निष्पन्नत्वादित्यर्थः । तस्मादह-मनुभवामीत्यादिनाहमर्थेऽनुभवितृत्वकर्तृत्व रूपात्मानात्मधर्मदर्शनाच्चिदचित्संवलनसिद्धिरित्युक्तं दूषयति ।। अहमर्थ इति ।। वक्ष्यमाणत्वात् । उत्तरभङ्गस्यादावेवेति शेषः । अस्तु वान्तःकरणधर्मत्वं कर्तृत्वादेः तथाप्यहङ्कर्तेत्यत्रान्तःकरणस्य अहमर्थभूतजीवस्वरूपानन्त-र्भावेन ततो भिन्नत्वेऽपि अन्तःकरणगतकर्तृत्वाख्यधर्ममात्रारोपेणैवाहं कर्तेति प्रतीतिरस्तु । न धर्म्यैक्यम् । यथा विदेहनिष्ठगौरत्वादेरात्मन्यारोपेऽपि न देहस्यात्मस्वरूपान्तर्भाव-स्तद्वदित्याह ।। अन्तःकरणधर्मत्वेऽपीति ।।
ननु सर्वत्राहमर्थस्य जीवाख्यप्रत्यङ्मात्रत्वे परकीये घटे घटशब्दवत् परकीयेऽहमर्थेऽहं-शब्दस्य प्रत्ययप्रयोगौ स्यातां न त्वयमिति धीः प्रयोगो वा । अस्ति चायमिति धीः प्रयोगश्च । तेन ज्ञायतेऽहमर्थेनात्मांशोऽस्तीति तत्राह ।। या त्विति ।। सत्यं सोऽपि वस्तुतोऽहमर्थ एव । तथापि स्वदेहापेक्षया तदीयदेहाख्यप्रतिसम्बन्धिभेदेन इदमर्थत्वात् परागर्थत्वात् अयमिति धीरित्यर्थः ।। अयमिति ।। अनात्मांशाभावादित्यर्थः । अहमर्थ-स्यात्मभिन्नत्वे प्रत्यक्षमाशङ्क्य निराकरोति ।। न चेति ।। जानामि ज्ञानवानित्यर्थः । अहमर्थस्य ज्ञानसुखरूपात्माभिन्नत्वे तद्वत्त्वमहमर्थे प्रतीयमानमयुक्तं स्यात् । तेन ज्ञायते नाहमर्थः सुखादिरूपात्मेतीति भावः ।। अनयोरिति ।। प्रकृतज्ञानानन्दरूप आत्मा अहमर्थाद्भेदेन भातीत्येतदित्युक्तं भवति ।
ननु ज्ञानसुखयोरहमर्थाश्रितत्वेन प्रतीतिर्भ्रान्तिरिति चेत्तत्राह ।। अस्या इति ।। विरोधादिति ।। अहं जानाम्यहं सुखीति प्रतीत्यैवाहमर्थभेदेनात्मा भातीत्युच्यते । इदानीं तस्या भ्रान्तित्वाङ्गीकारे त्वदभिमतप्रमेयासिद्ध्या विरोधादित्यर्थः ।। सर्वात्मक इति ।। अविद्यानावृतजीवचैतन्यस्यापरिच्छिन्नत्वेन सर्वगतत्वेन प्रत्यक् पराक् च भवति अहमर्थ-स्त्विदमर्थव्यावृत्तः परागर्थव्यावृत्तः प्रत्यगर्थ एवेति यावत् । तथा च नात्माहमर्थयोरैक्यमिति भावः ।। सर्वात्मक इति ।। यथा आत्मनः सर्वात्मकत्वेन इदमर्थव्यावृत्तिधियः प्रत्यक्त्व-मात्रधियो भ्रान्तित्वमुच्यते तथाहङ्कारस्यापि अहमेवेदं सर्वमिति सर्वात्मकत्वेन प्रतीतेऽह-मर्थेऽपि इदमर्थव्यावृत्तिधियः प्रत्यक्त्वमात्रधियो भ्रान्तित्वोपपत्तेरित्यर्थः । चिदचित्संवल-नात्मकाहमर्थान्तर्गतेऽचिद्भागारोपाधिष्ठानभूते आत्मचैतन्यभागेऽहम्प्रत्ययविषये व्यभिचार इत्याह ।। त्वन्मत इति ।। किं चेति ।। आत्मानात्मनोरन्योन्यात्मकतामन्योन्य-धर्मांश्चाध्यस्य सर्वे प्रमातृत्वभोक्तृत्वादिव्यवहाराः प्रवर्तन्त इति भाष्ये इतरेतराध्यासं प्रतिपाद्य तत्रात्मन्यनात्मारोपोपपादनाय गौरोऽहमित्याद्युदाहृतम् । तदहमर्थस्यात्मभिन्नत्वेऽत्युक्तं स्यात् । अत्र गौरदेहैक्याध्यासोऽहमर्थ एव प्राप्तो नात्मनीत्यर्थः ।। मा न भूवमिति ।। माहं न भूवं अपि तु भूयासमित्यर्थः । परमप्रेमास्पदत्वमात्मन उपपादयितुं इयं प्रतीतिरुदाहृता । अनया चाहमर्थस्यैव प्रेमास्पदत्वमनुमीयते । अतोऽहमर्थस्यानात्मत्वे इदमयुक्तं स्यादित्यर्थः ।। अहमर्थेति ।। आत्मा स्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरेकवैधुर्यात् अप्रकाशरहित-त्वादिति यावत् इत्यनेनात्मनः स्वप्रकाशत्वं साधितम् । तत्र च हेतोः स्वरूपासिद्धि-परिहाराय आत्मनः प्रकाशव्यतिरेकवैधुर्योपपादनाय अहमिति सदा प्रकाशोपपादनं कृतं इदमप्यहमर्थस्यानात्मत्वे अयुक्तं स्यात् । अहमर्थसम्बन्धिप्रकाशव्यतिरेकवैधुर्येणात्मनः स्वप्रकाशत्वसाधनस्याप्ययुक्तत्वादित्यर्थः । आत्मनः प्रेमास्पदत्वोपपादनाय मा न भूव-मित्यहमर्थस्य प्रेमास्पदत्वोक्तिरयुक्तेति यदुक्तं तदयुक्तं परमप्रेमास्पदीभूतात्मैक्यारोपादहमर्थे परमप्रेमास्पदत्वधिय उपपत्तेरित्याशङ्क्य निराकरोति ।। न चेति ।। अन्योन्याश्रया-दिति ।। आत्मनः प्रेमास्पदत्वे सिद्धे तदैक्यारोपादहमर्थस्य प्रेमास्पदत्वारोपसिद्धिः तत्सिद्धौ चात्मनः प्रेमास्पदत्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः । नन्वात्मनः प्रेमास्पदत्वसिद्धिर्नाहमर्थस्य प्रेमास्पदत्वारोपसिद्ध्यधीना । अतो नान्योन्याश्रय इत्यत आह ।। अहमर्थेति ।। तथा चाहमर्थप्रेम्णो योऽनुभवस्तद्व्यतिरिक्तात्मप्रेमानुभवाभावादात्मप्रेमास्पदत्वमहमर्थप्रेमास्पद-त्वाधीनमित्यन्योन्याश्रय इत्यर्थ इत्याहुः ।
सम्प्रदायस्तु अहमर्थे प्रेमास्पदत्वारोपसिद्धौ प्रकारान्तरेणात्मप्रेमास्पदत्वोपपादना-सम्भवात्तन्निबन्धानात्मप्रेमास्पदत्वसिद्धिरित्यन्योन्याश्रयत्वोपपादनं पूर्वमेव कर्तव्यम् । इतोऽ-प्यहमर्थे प्रेमास्पदत्वधीर्न भ्रान्तिरित्याह ।। अहमर्थेति ।। अहमर्थप्रेम्णोऽनुभवस्य वक्तुम-शक्यत्वादतो मा न भूवमित्ययमेवात्मप्रेमानुभव इति वाच्यम् । तथा च प्रधाना-भावादस्यैवानुभवस्यानारोपत्वसिद्धिरित्यर्थः । किं च वस्तुतोऽप्रेमास्पदेऽहमर्थे प्रेमास्पद-त्वारोपो न युक्तः । इच्छारोपः साक्षिरूपो वाच्यः । स न युक्तः । तथात्वे साक्षिणो भ्रमत्वापत्तेः । नन्वनिष्टसाधने सर्पादौ मालात्वभ्रमेण इदमिष्टसाधनं मालात्वादितीष्टसाधनता भ्रमानन्तरं इष्टसाधनताया अभावेऽपि इदं मे स्यादितीच्छानुभूयत इति चेत्तत्राह ।। अहित इति ।। अनिष्टसाधने इष्टसाधनताबुद्ध्या प्रेमोत्पत्तौ सत्यामेव वस्तुतः प्रेम्णः सत्वा-त्प्रेमानुभवो भवति । अहिते प्रेमोत्पत्तिश्च भवति । परं तु प्रेमाभावे प्रेमज्ञानं तु न भवत्येवेत्याशयः । आत्मरूपाधिष्ठानगतप्रेमास्पदत्वस्य आरोप्येऽङ्गीकारे वाचस्पतिग्रन्थ-विरोधोऽत आरोप्यान्तःकरणगताप्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तिरित्याह ।। वाचस्पति-नेति ।। अयं श्लोकः कल्पतरौ व्याख्यातः । समारोप्यस्य सर्पादेर्भीषणत्वादिरूपेण धर्मेण विषयोऽधिष्ठानभूतो रज्ज्वादिर्भीषणत्वादियुक्तो भवति विषयस्य रज्ज्वादिरूपेण पुरतो गम्यमानत्वादिना समारोप्यं सर्पादिरूपवत् अभिगम्यमानं न भवतीत्यर्थः । अहमर्थे प्रेमा-स्पदत्वारोपहेतुं आत्मैक्यारोपं दूषयति ।। त्वद्रीत्येति ।। सुखविषयकानुभवरूपस्य सुख-मनुभवामि सुखानुभववानस्मि । अहमर्थाद्भेदेनेत्येव पाठः । सुखानुभवादिति पाठस्तु चिन्त्यः । तथा चात्मनोऽहमर्थाद्भेदेन प्रतीतेर्न तत्र तस्यारोप इत्यर्थः । बाह्यमतापत्तिः वेदबाह्यो यो बौद्धः तन्मतापत्तिः ।
ननु प्रेमास्पदरूपात्मभूतवस्तुनाशाङ्गीकारात्तन्मतस्य निन्द्यत्वं न मन्मतस्येत्यतः प्रेमास्पदवस्तुनाशस्त्वन्मतेऽप्यविशिष्ट इत्याह ।। प्रेमास्पदस्येति ।। वास्तवं नाहङ्कारस्य प्रेमास्पदत्वम् । किं तु आत्मैक्यारोपादहमर्थे तद्धीरित्येतद्दूषितमिति भावः । ननु मोक्षे प्रेमास्पदाहङ्कारनाशेऽपि तदन्यस्य ब्रह्मणोऽविनाशात्तद्भावस्य पुरुषार्थत्वमिति चेत्तर्हि समं शून्यवादेऽपीत्याह ।। तदन्यस्येति ।। आत्मान्यस्येत्यर्थः । तद्भाव एव तन्मते पुरुषार्थ इति साम्यमिति भावः । एवं अहमर्थस्य आत्मान्यत्वे ।। न स्यादिति ।। अहमर्थस्य मुक्त्यनन्वयादित्यर्थः ।। तदभेदेति ।। मुक्तावप्यात्माभेदेत्यर्थः । तर्ह्यहं मुक्तः स्यामितीच्छा कथमित्यत आह ।। अहङ्कारे त्विति ।। तदैक्येति ।। पुष्टत्वाश्रयशरीरैक्यारोपादित्यर्थः ।। तदैक्येति ।। सुख्यात्मैक्येत्यर्थः ।। अन्योन्येति ।। आत्माहमर्थयोर्भेदादीना मारोपसिद्धौ उक्तेच्छाया अबाधकत्वसिद्धिः तदबाधकत्वसिद्धौ भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।। तत्र मामिति ।। तथा च मां अहमिति अहमर्थस्यैवामृतत्वप्रार्थनश्रवणादात्मन एव मुक्तिरिष्यत इत्युक्तमसदिति भावः ।। तत्रेति ।। ऐक्यारोपादहं पुष्टः स्यामितीच्छायामपि कदाचिच्छरीरं पुष्टं स्यादिति मुख्येच्छा भवति । तथा ऐक्यारोपादेव शरीरं सुखि स्यादितीच्छायामपि कदाचिदहं सुखी स्यामीतीच्छा भवति । तद्वत् मुक्त्यन्वय्यात्माभेदारोपेणाहं मुक्तः स्यामि-तीच्छायामपि कदाचिद्वाचिन्मात्रं मुक्तं स्यादितीच्छा प्रसज्येत । न ह्येवं कदाचित्कस्य-चिदिच्छा दृष्टा । अतो मुक्तेरनिष्टत्वापातात् आत्मसम्बन्धितयेच्छाविषयत्वाभावापाता-दित्यर्थः । ननु कश्चिदात्मा मुक्तः स्यादित्यात्मसम्बन्धितया मुक्तेरिच्छाविषयत्वं सम्भवतीति चेत्तत्राह ।। कश्चिदात्मेति ।। कस्यचिदात्मनो मुक्तीच्छया मुमुक्षोः स्वस्य न प्रवृत्ति-र्युक्तेत्यर्थः । न ह्यन्यस्य स्वर्गेच्छया स्वस्य यागे प्रवृत्तिर्दृष्टेति भावः । ननु ममात्मा मुक्तः स्यादित्यात्मनो मुक्तीच्छा सम्भवतीति चेत्तत्राह ।। ममेति ।। अहमर्थस्यैवेति ।। तदतिरिक्तस्य चिन्मात्रस्य ममात्मेत्यहमर्थवाचिशब्दाविषयत्वादिति भावः ।
नन्वहं मुक्तः स्यामितीच्छा नास्त्येव किं तु चिन्मुच्यतामित्यादिरूपैव । एवमिच्छयैव मुमुक्षुप्रवृत्तिरिति मया हि नियम्यते इति चेत्तत्राह ।। न चेति ।। कुतो न नियन्तुं शक्येत्यत आह ।। बौद्धेति ।। तथात्वे आत्मनाशो भूयादिति बौद्धकल्पितमुक्तीच्छया आत्मनाशस्य पुरुषार्थत्वापातात् । तथा एकविंशतिसुखध्वंसो भूयादिति तार्किककल्पित-मुक्तीच्छया सुखनाशस्यापि पुरुषार्थत्वापात इत्यर्थः । अहमर्थस्य चिदचित्संवलनात्मकत्वे बाधकान्तरं चाह ।। किं चेति ।। वस्तुगत्याऽहमर्थोऽस्मन्मते आत्मैव । तत्र त्वयान्तः-करणरूपा चिद्भागाङ्गीकार इत्यर्थः ।। मम मन इति ।। ममेति प्रतीयमानेऽहमर्थे मनसः प्रविष्टत्वात् मम मन इति प्रतीतिर्न स्यात् । न हि दण्डिनो दण्ड इति प्रतीतिः सम्भव-तीत्यर्थः । एतदेवाह ।। तदवच्छिन्नस्येति ।। तद्विशिष्टस्येत्यर्थः । तथात्वे अवच्छेदककोटौ स्वस्यैव प्रवेशापत्त्या आत्माश्रयः स्यादिति भावः । कुत इत्यत आह ।। चिदचिदिति ।। मनः स्फुरतीत्यत्र मनसोऽचित्त्वात् स्फुरणस्य चित्त्वाच्चिदचित्संवलनसद्भावादहमर्थेऽपि तत्संवलनस्य त्वयैवाङ्गीकारात्तयोर्ज्ञानयोश्चिदचित्संवलनविषयकत्वाविशेषाद्वैषम्यमनुभूयमानं न स्यादित्यर्थः ।। द्व्यंशेति ।। अधिष्ठानारोप्यरूपांशद्वयेत्यर्थः ।
ननु आरोप्यविषयकत्वमेवावश्यकं किमधिष्ठानविषयकत्वेनेत्यत आह ।। अन्यथेति ।। ततः किं प्रकृत इत्यत आह ।। न चेति ।। अधिष्ठानभूतचिदंशो नानुभूयत इत्याशयः । नन्वहमिति बुद्धेर्भ्रमत्वान्यथानुपपत्त्यैवाननुभूतमपि द्व्यंशत्वं कल्प्यत इत्यत आह ।। यदीति ।। तथा चात्मस्वरूपेऽपि चिदचित्संवलनापातेन तद्बुद्धेरपि भ्रमत्वापात इत्याशयः । नन्वत्रापि द्व्यंशत्वमनुभूयत एव । अहं स्फुरामि अहमस्मीत्यत्र स्फुरणसदर्थयोश्चैतन्यस्वरूप-त्वेनाधिष्ठानांशत्वात् । यथा हि रूप्यं स्फुरति रूप्यमस्तीत्यत्र स्फुरणसदर्थयोरधिष्ठानत्वं दृष्टं तद्वत् । ननु तर्हि तत्र यथा इदं रूप्यमिति धीर्भवति तथाहमिदमिति धीः स्यात् न तु स्फुरामीति धीरिति चेन्न । तत्र रूप्यं प्रति शुद्धं स्फुरणं सदर्थश्च नाधिष्ठानं किन्त्विद-मंशावच्छिन्नमेव तत्रत्येदं रूप्यमिति धीर्भवति अत्र तु शुद्धचिदाख्यस्फुरणस्यैवाधिष्ठानत्वादहं स्फुरामीत्येव धीर्भवतीति शङ्कते ।। नन्विति ।। त्वन्मत इति ।। अविद्यावृत्तिरूप-भ्रमरूपज्ञानस्वरूपस्याप्यध्यस्तत्वेनारोप्याधिकसत्ताकत्वाभावान्नाधिष्ठानत्वमिति भावः । नन्वविद्यावृत्तिरूपभ्रमरूपज्ञानस्याध्यस्तत्वेऽपि चैतन्यरूपस्फुरणस्य अहंज्ञानरूपस्य न तथात्वं अतो युक्तमधिष्ठानत्वमिति चेन्न । चैतन्यमात्रस्याहंज्ञानत्वे सुषुप्त्यादावप्यह-मनुवृत्त्यापातेनाविद्यावृत्त्यवच्छिन्नचित एवाहंज्ञानत्वेन त्वया वाच्यत्वात्तस्य चाध्यस्तत्वे-नानधिष्ठानत्वादिति भावः । लोकेऽधिष्ठानमारोप्यसम्भिन्नत्वेन प्रतीयमानं दृष्टं न तु तद्भिन्नत्वेन । प्रकृतेऽहं स्फुरामीत्यस्य स्फुरणवानहमित्यर्थकत्वेनाश्रयाश्रयिभावप्रतीत्याऽह-मर्थाद्भेदेनैव स्फुरणं भासते अहमिच्छामीत्यत्र यथा इच्छावत्त्वं प्रतीयते तद्वत् । अतः स्फुरणं नाहमर्थारोपाधिष्ठानं अन्यथेच्छाया अप्यहमर्थारोपाधिष्ठानत्वं स्यादित्याशयेनाह ।। अह-मिच्छामीतिवदिति ।। रूप्यमस्तीत्यत्रेवाहमस्मीत्यत्रापि सदर्थोऽधिष्ठानत्वेन प्रतीयत इत्युक्तं तत्र दृष्टान्त एवासम्प्रतिपन्न इत्याह ।। बाधकेनेति ।। नेदं रूप्यं सदिति बाधकप्रत्ययेनेत्यर्थः । किं चाहमिति प्रतीतावेव चिद्रूपाधिष्ठानारोप्यांशद्वयमस्तीति त्वदभिप्रेतं तन्न प्राप्तं किन्त्वहं स्फुरामीति ज्ञान एव द्व्यंशत्वं अतोऽहमिति ज्ञानस्य द्व्यंशत्वोपपादनायाहं स्फुरामीत्यादौ द्व्यंशत्वोपपादनमसङ्गतमित्याह ।। त्वदभिप्रेतस्येति ।। किं तर्ह्यहमर्थ-स्यात्मत्वे प्रमाणमित्यत आह ।। आत्मत्वे त्विति ।। प्रत्यक्षं अहमज्ञ इत्यादिकम् ।। तत्साधनेति ।। यो यत्फलसाधनकृत्याश्रयः स तत्फलसम्बन्धवान् यथा स्वर्गसाधन-कृत्याश्रयो यजमानः स्वर्गफलान्वयीत्यर्थः ।
ननु पुत्रः पूतः स्यादिति पुत्रगतपूतत्वरूपफलोद्देशेन पिता जातेष्टिकरणे प्रवर्तते तत्र पुत्रसम्बन्धिपूतत्वरूपफलसाधनीभूतकृत्याश्रये पितरि पूतत्वरूपफलसम्बन्धाभावेन व्यभिचारः स्यादिति चेन्न । उत्तरभङ्गे वक्ष्यमाणरीत्या पुत्रगतं पूतत्वं न जातेष्टिफलं किं तु पूतपुत्रकत्वम् । तच्च पितृगतमेवेति व्यभिचारशङ्काया एवाभावात् । इममर्थमजानानाः केचित् स्वसम्बन्धिफलसाधनकृत्याश्रयत्वं हेत्वर्थो विवक्षितोऽतो न पितरि व्यभिचार इत्याहुः । स्वर्गसाधनहोमादिकृत्याश्रये ऋत्विजि स्वर्गान्वयशून्ये व्यभिचारः स्यादिति चेन्न । अपरिकीर्त- सम्बन्धिकृत्याश्रयत्वादित्यर्थः । अपरिक्रीतः प्रधानो यजमानः । ऋत्विजस्तु द्रव्यदानेन यजमानपरिक्रीतत्वान्न व्यभिचार इत्यवधेयम् । अनर्थेत्यादिना मोक्ष एव नामान्तरेण निर्दिष्टः ।। संमतवदिति ।। अत्र यो यदाश्रयः स तन्निवृत्त्याश्रयः यथा घटाश्रयः कपालः तन्निवृत्त्याश्रय इति द्रष्टव्यम् । अनर्थाश्रयत्वहेतोरसिद्धिमाशङ्क्य निराकरोति ।। न चेति ।। अहमज्ञ इत्यादि ।। अज्ञानवैषयिकसुखादेरेवानर्थत्वादिति भावः । प्रमेयत्वादौ व्यभिचार-वारणाय मात्रपदम् । सति सच्छब्दवाच्ये ब्रह्मणि ।। प्रागिति ।। अहमर्थनाशवत्त्वेन त्वत्संमते प्रलयकालेऽपीत्यर्थः । त्वन्मते तु चिदचिद्रूपमनस्संवलनात्मकाहमर्थस्य मन-आदिसृष्ट्युत्तरकालीनत्वादिति भावः ।। शुद्धेति ।। तथा च नाहमर्थस्यात्मभिन्नत्वमिति भावः ।। अनवद्यस्येति ।। त्वन्मतेऽहमर्थसम्बन्धस्यैव मुख्यावद्यत्वेन निरवद्यस्य ब्रह्मणोऽहमित्यवेदिति श्रुत्युक्ताहमुल्लेखायोगादिति भावः ।। मोक्षान्वयेति ।। बन्धान्वयोऽपि द्रष्टव्यः । अहमर्थस्य मायाकल्पितस्य मिथ्यात्वेनात्मभिन्नत्वे बाधकमाह ।। मामे-वेत्यादि ।। स्वप्रपन्नमायानिरसनसमर्थस्य मायिकाहमर्थसम्बन्धो न युक्त इति भावः । अस्मदुक्तरीत्याऽहमर्थस्यात्मत्वाङ्गीकारे तद्योऽहं सोऽसावित्यादौ विशिष्टयोरैक्यायोगात् पदद्वयस्य भागत्यागेन चैतन्यमात्रस्य लक्षणाजघन्यवृत्तिराश्रीयते । इतः परं सा नाश्रयणीया । अहमर्थस्यास्मदुक्तरीत्यात्मत्वेन एकस्यायंशब्दस्य मुख्यार्थत्वे सम्भवति पदद्वयस्य लक्षणा-श्रयणं न त्वया कार्यमित्याह ।। एवञ्चेति ।। नन्वथापि कर्तृत्वादिविशिष्टस्यैवात्म-शब्दार्थत्वात्तदभेदायोगेनाहमर्थस्यैवात्मत्वेऽपि तत्पदे लक्षणा मया कार्यैवेति चेन्न । ‘तदात्मानमेवावेदहं ब्रह्मास्मि’ इति शुद्धचैतन्यस्यैवाहन्त्वोक्तेर्न लक्षणा कार्येति भावः । उत्तरत्र कारिकायामेतत्सूचनार्थमेव तदात्मानमिति श्रुतेरिति शुद्धचैतन्यस्यैवाहन्त्वप्रतिपादिका श्रुतिः सङ्गृहीतेति द्रष्टव्यम् । सङ्गृह्णाति ।। तस्मादिति ।। अहमात्मेतीति ।। ‘अहमात्मा गुडाकेश’ इत्यादिस्मृतेरित्यर्थः ।।
श्रीकूर्मनरहरिआचार्यविरचिता
न्यायकल्पलता
अहमर्थस्यानात्मत्वं निराचिकीर्षुर्परमतमनुवदति ।। यदपीति ।। अहमर्थो नात्मा आत्मनि प्रकाशमानेऽप्यप्रकाशमानत्वादिति बुद्धिस्थहेतौ विशेषणासिद्धिमुद्धरति पश्चा-दित्यादिना ।। विशेष्यासिद्धिमप्याकरोति अनेेवमिति ।। अप्रकाशमानस्येत्यर्थः । अथात इत्यादि । छान्दोग्ये भूमप्रकरणे । भूमात्वेन विजिज्ञासितव्य इति सनत्कुमारेण प्रोक्तं प्रति भूमानं भगवो विजिज्ञास इति । नारदेन पृष्टो सनत्कुमारस्तं प्रति प्रोवाच । ‘यत्र नान्य-त्पश्यति नान्यच्छ्रुणोति नान्यद्विजिज्ञासे तं भूमा’ इत्यादिनोपदिष्टभूमानम् । ‘स एवाधस्तात्् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वम्’ इति सर्वात्मकत्वेनोपदिश्य अथातोऽहंकारादेश एवाहमधस्तादहमुपरिष्टादहंपश्चादहं पुरस्तादित्या-दिना अहङ्कारं च सर्वात्मकत्वेन निरूप्य अथात आत्मोदेश एवात्मैवाधस्तादात्मैवोपरिष्टा-दित्यादिना अहंकारोपदेशादात्मन उपदेशान्तरादहंकारो नात्मेत्यर्थः । आत्मानुबन्धीनीति ।। आत्मत्वनियतः । अनात्मानुबन्धी । अनात्मत्वनियतः चिदचिदिति । शुद्धचिद्रूपत्वा-भावादित्यर्थः । विशेष्यानङ्गीकारे बाधकमाह ।। यदि चेति ।। ह्यस्तन इति ।। यथा पूर्वेद्युरहमित्यनुभूतोऽहमर्थोऽद्य स्मर्यते । तथा सुषुप्तावहमर्थोऽनुभूतश्चेत्तर्हि सुप्तोत्थितेन स्मर्ये-तेत्यर्थः । स्मर्यमाणेति परामृश्यमानात्मात्यन्ताभिन्नत्वादित्यर्थः । समाधत्ते तत्रेति ।। पूर्वपक्षे प्राप्ते समाधानमुच्यत इति शेषः । आत्माऽहमर्थयोस्तदभेदवादिनं प्रति आत्मनः प्रकाशे सति अहमर्थस्याप्रकाश इत्येदसिद्धमिति भावः ।। अन्योन्याश्रयादिति ।। अहमर्थस्य प्रकाशमानात्मान्यत्वेन सुषुप्तावप्रकाशसिद्धिः । तत्सिद्धौ च तथाविधात्मभिन्नत्व-सिद्धिरित्यर्थः । सङ्गृह्णाति ।। अहमर्थ इति ।। सुप्तोत्थितमात्रस्यात्मपरामर्शः अहमर्थगोचरः आत्मपरामर्शत्वात् । यथा सम्प्रतिपन्न इत्यन्वयव्यतिरेकव्याप्तिकमनुमानमित्यर्थः । हेतौ व्यभिचारं निरस्यति ।। अस्वाप्समितीति ।। ‘अस्मद्युत्तम’ इति सूत्रेणाप्रयुज्यमानेऽप्यस्मदि उत्तमपुरुषप्रयोगविधानेन ज्ञायमानार्थत्वादभिज्ञाभिलपनयोः समानार्थत्वमित्यर्थः ।। अन्तः-करणेति ।। स्वयं प्रकाशस्य ज्ञानान्तरगम्यत्वेन तद्विनाशप्रयुक्तसंस्काराभावात्स्वरूपस्य चाविनाशादविनाशिनः संस्कारजनकत्वान्नात्मनि प्रत्यभिज्ञासम्भवतीत्यशङ्क्योक्तं विवरणे । अन्तःकरणविशिष्ट एवेत्यादि । न निष्कलङ्के न निष्कलङ्कात्मस्वरूपमात्रे । ननु विवरणवाक्यस्य निरुपाधिकात्मपरामर्शनिषेधे तात्पर्यम् । नत्वहङ्कारविशिष्टतद्विधान इति । मैवम् । अन्तःकरणस्यान्वहं विनाशात्तद्विशिष्टस्यापि विनाशित्वमिति न प्रत्यभिज्ञा-विषयत्वमिति शङ्कोत्तररूपेण संसारावस्थायामन्तःकरणविशिष्टरूपानपायादित्युत्तरविवरण-वाक्येन विरोधात् । ननु निश्चये सति संशयाभावनियमेऽपि न निश्चयाभावे संशयनियमो सिद्ध इत्यत आह न त्विति ।। कदाचिदपि तादृशसंशयः स्यादित्यर्थः ।
ननु परामृश्यात्मनि प्रत्यक्त्वनिश्चयान्न तत्र तद्विरुद्धपराक्त्वरूपान्यत्वसंशय इति शङ्कते नन्विति ।। प्रत्यक्त्वनिश्चय एवाहंत्वनिश्चय इति वक्तुमाह ।। प्रत्यक्त्वमिति ।। निर्भास्येति ।। निर्भास्यं दृश्यं पराक् तत्प्रतिकूलचित्त्वं प्रत्यक्त्वमित्यर्थः ।। अन्यत्वेति ।। अन्यत्वं पराक्त्वं तद्विरुद्धचित्त्वं प्रत्यक्त्वमित्यर्थः । आद्यं दूषयति ।। चिदिति ।। द्वितीयं प्रत्याह ।। स्वयमिति ।। द्वितीये दोषान्तरमाह घटादिरिति ।। घटादिरपि प्रत्यगर्थः स्यादित्यर्थः ।। विवरण इति ।। अहङ्कारस्य पराक्त्वसापेक्षत्वादात्मनश्चानपेक्षत्वान्न तयोरभेद इत्युक्ते तर्ह्यात्मनोऽपि पराग्व्यावृत्त्या सापेक्षत्वान्नात्मत्वं स्यादिति शङ्कायां विवरणे उक्तमात्मन इति । सर्वात्मकत्वात् । पूर्णत्वात् ।। घट्टकुटीति ।। केचिद्वणिजः शुल्कमदित्सन्तः शुल्कग्रहणस्थलं वञ्चयित्वाऽन्येन पथा जिगमिषन्तो विस्मृतपथाः यत्र घट्टे शुल्कग्राहिणां कुटी स्थिता तत्रैव प्रभाते आगताः । सोऽयं घट्टकुटीप्रभातवृत्तान्तः । आत्मांशे परामर्शः । अहमर्थेत्वनुभव इति मत्वा शङ्कते ।। नन्विति ।। न किञ्चिदिति ।। अज्ञानांशे परामर्शस्तु तवापि सम्मतः । अत एव न किञ्चिदवेदिषमित्यादावित्युक्तम् ।
ननु सुषुप्तावज्ञानस्य सत्त्वात्तदनुभवेन तस्य परामर्शो युज्यते अहमर्थस्य तु तदानीम-सत्त्वान्न तस्य जाग्रति परामर्श इत्यत आह ।। न हीति ।। अज्ञानस्याहमर्थाश्रितस्यैव परामर्शात्तथैव सुषुप्तावनुभवो वाच्य इति तदाप्यहमर्थसत्त्वसिद्धिरित्यर्थः ।। एतावन्त-मिति ।। स्वप्नावस्थायामहमर्थस्य सत्त्वात्स्वप्नादुत्थितस्य स्वप्नं पश्यन्नासमित्यहमर्थविषयः परामर्शो भवति । तस्मिंश्च परामर्शे स्वप्नं पश्यन्नासमिति परामर्शवानस्मीत्यादिनाऽह मर्थविषयपरामर्शत्वमनुभूयते यथा । यथा वा जाग्रत्यनुभूतार्थेऽहमर्थविषयपरामर्शे जाग्रदन्तर-कालीने जाग्रदासमिति परामर्शवानस्मीत्यनेन परामर्शत्वमनुभूयते । तथाऽस्वाप्समित्यत्राप्य-स्वाप्समिति परामर्शवानस्मीत्यनुभवेनाहमर्थविषयकज्ञाने परामर्शत्वमनुभूयत इत्यर्थः ।। अन्यथेति ।। अहमर्थे परामर्शाभावे ।। यः पूर्वमिति ।।
ननु दुःखित्वेन प्राक् ज्ञानवन्मदन्यत्वेन प्राक् ज्ञानाभावात्कथमेवं परामर्श आपाद्यते । सुषुप्तौ चाहमर्थाप्रकाश एव न तु प्रागसत्वग्रहणम् । अतः कथं तत्र जन्मप्रत्ययोऽपीति । चेन्मैवम् । अस्वाप्समिति स्वापक्रियाकर्तृत्वेनाहमर्थपरामर्शो न स्यादित्यत्र तात्पर्यात् । यत्तु प्रागभावसत्त्वाग्रहणान्न जन्मप्रत्यय इति । तदज्ञानविजृम्भितम् । प्राक्सत्त्वाग्रहणमात्रेण जन्मप्रत्ययोपपत्तेः । अहमर्थे परामर्शत्वानुभवादित्यत्रान्यथासिद्धिं शङ्कते ।। नन्विति ।। अपरामर्श इति ।। पुरोवतिर्रजतयोरैक्यारोपात्तज्ज्ञानयोस्तदारोपदर्शनेऽप्यनुभवपरामर्शत्वारो-पादर्शनादित्यर्थः सिद्ध्यति । अहमर्थस्यैव परामृश्यमानत्वेन तयोरैक्यारोपः सम्भवतीत्यर्थः ।। सिद्धे चेति ।। परामृश्यमानात्माभेदारोपे सिद्धे तन्निबन्धनोऽहमर्थानुभवे परामर्शत्वाभिमान इति तस्यापरामृश्यमानत्वसिद्धौ सुषुप्तावप्रकाशमानत्वेन प्रकाशमानात्मान्यत्वसिद्धिरितीतरे-तराश्रयत्वमित्यर्थः । एतेन स्वापकर्त्रैक्यारोपादहमर्थेऽस्वाप्समिति तत्कर्तृत्वारोपः पूर्वकाल-गृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्यय इति निरस्तम् । स्वापकर्तुरात्मनः पूर्वकालवर्तिनश्च तस्यैवाहमर्थत्वेन तदैक्यारोपासम्भवात् । अन्यथाऽन्योन्याश्रयादिति भावः । आत्मपरामर्शस्याहमर्थांशापरामर्शे दोषान्तरमाह ।। अहमितीति ।। अहमंशे परामर्शादन्य आत्मपरामर्शो नास्तीत्युक्तम् । त्वया पुनरहमर्थे परामर्शभिन्नस्यैवात्मपरामर्शत्वमतो दृष्ट-हानादीत्यर्थः । एतेनास्वाप्समित्यस्यैवात्मपरामर्शत्वाङ्गीकारान्न दृष्टहानादीति निरस्तम् । त्वन्मतेऽस्वाप्समित्यस्याहमर्थांशे परामर्शत्वाभावात् ।। एतेनेति ।। अहमर्थे परामर्श-त्वोपपादनेनेत्यर्थः ।
ननु सुप्तोत्थितस्यात्मपरामर्शः । यद्यहमर्थपरामर्शः स्यात्तर्हि अहंशब्दोल्लेखी स्यात् यथा ह्यस्तनोऽहमर्थपरामर्श इत्यत्राहंशब्दोल्लेख्यनुभवजन्यत्वमुपाधिरित्याह ।। अहंशब्देति ।। साधनाव्यपकतामुपपादयति तावन्मात्रेणेति ।। प्रामाणिकत्वेनेष्टापत्तिं विशदयति ।। स्मर्यते इति ।। परामृश्यत इत्यर्थः । साक्ष्यनुभवस्य नित्यतया संस्कारजन्यत्वाभावात् । अन्यथेति ।। ह्यस्तनवैषम्यमात्रेणाहमर्थे परामर्शत्वाभावे आत्मांशेऽपि परामर्शत्वं न स्यादित्यर्थः ।। निरुत्तरमिति ।। अस्मदुक्तादन्यदुत्तरं नास्तीत्यर्थः ।। तथापीति ।। आत्मपरामर्शस्याहमर्थपरामर्शत्वेऽहंशब्दोल्लेखाभावेऽपीत्यर्थः । सोपहासं दूषयति ।। अहमर्थ-प्रकाशेनेति ।। तदभिमानप्रकाशसहितेनेत्यर्थः । एतेन अहमर्थमात्रसापेक्षतया तदभिमान-प्रकाशयोरुभयोः समव्याप्ततयाऽभिमानपरामर्शापादनं व्यधिकरणमिति व्युदस्तम् । अभिमान-प्रकाशयोः समव्याप्तत्वेऽप्यभिमानपरामर्शप्रयोजकस्य सुषुप्तावभिमानप्रकाशस्याभावात् । न चाहमर्थप्रकाश एवाभिमानप्रकाश इति वाच्यम् । तथात्वे इष्टापत्तेः ।। अन्यथेति ।। अहमर्थप्रकाशमात्रेण तदभिमानपरामर्शापादने आत्मप्रकाशमात्रेण तदभिमानपरामर्शोऽपि स्यादित्यर्थः । न चाहङ्कारस्य तादृशपरामर्शप्रयोजकतया तदभावे तदापादनासम्भव इति युक्तम् । तर्हि मां प्रति तदापादनस्येष्टत्वात् ।
ननु सुषुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमित्यहमर्थावच्छिन्नाज्ञानपरामर्शो न स्यात् । प्रकाशमाने तदज्ञानविरोधादित्यत आह ।। न किञ्चिदहमिति ।। न किञ्चिदहमवेदिषमिति परामृश्यमानमज्ञानं प्रति यथाऽऽत्मा नावच्छेदकः प्रकाशमानत्वात्तथाहमर्थोऽपि । अज्ञानं तु अहमर्थात्माश्रयम् । तदन्यविषयमात्माद्यज्ञानादन्यदेव परामृश्यत इत्यर्थः । ननु दृष्टान्ता-सम्प्रतिपत्तिः साक्षिणि प्रकाशमान एवाज्ञानस्य मयाङ्गीकृतत्वादित्यत आह ।। अन्यथेति ।। साक्षिणोऽप्यज्ञानविरोधित्वस्योपपादितत्वादित्यर्थः । ननु आत्मज्ञानार्थिनमिन्द्रं प्रति प्रजापतिना सुषुप्तपुरुषे आत्मत्वेन निर्दिष्टेनाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्यय-महमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति इन्द्रेणाह-मर्थाद्यज्ञानेन दूष्यत इत्यत आह ।। यात्विति ।। नाहेत्यत्र छान्दसं दीर्घत्वम् । श्रुतावात्माज्ञानस्याप्युक्तत्वात् सावश्यं सङ्कोचनीयेत्याह सापीति ।। ‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा’ माण्डूक्यश्रुतिर्यथा । आत्मविशेषाज्ञानपरा तथाऽहमर्थविशेषाज्ञानपरोक्तश्रुतिरित्यर्थः । प्राज्ञपदेन प्राज्ञसम्परिष्वक्तो जीवो गृह्यते । प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदनान्तरमिति श्रुतेः । यत्तु अहरर्ब्रह्म गच्छन्ति, सति सम्पद्य न विदुरित्यात्मवेदनश्रुतिविरोधेन नात्मानमित्यस्य विशेषा-ज्ञानपरत्वं युक्तं उक्तश्रुतेस्तु न श्रुत्यन्तरविरोध इति । तदज्ञानविजृम्भितम् । अहरह-रित्यादेरात्मवेदनबोधकत्वाभावात् । प्रत्युत न विदुरित्यनेन स्वस्वरूपाज्ञानस्यैव प्रतीतेश्च । नात्मानमित्यादिनैवाहरहः श्रुतिबाधसम्भवाच्च । अन्तःकरणावच्छिन्नस्याज्ञानादिस्मर्तृत्वानुरोधेन तस्यैव तदनुभवितृत्वमित्यर्थापत्त्या सुषुप्तावहमर्थसिद्धिरित्याह ।। किं चेत्यादिना ।। अह-मर्थानुभवितृत्वे प्रत्यभिज्ञाप्रत्यक्षमपि प्रमाणयति ।। योऽहमन्वभूवमिति ।। स्मर्त्रनु-भवित्रोर्भेदे प्रत्यभिज्ञानविरोध इति भावेन तयोर्भेदाभावमाशङ्क्य भेदमुपपादयति ।। यद्यपीति ।। तथापीति ।। चैतन्यजीवयोः स्मर्त्रनुभवित्रनुगमेऽपीत्यर्थः । तयोः चैतन्यजीवयोः ।
ननु कौन्तेयस्यैव राधेयत्ववदविद्योपहितस्यानुभवितुरेवान्तःकरणोपहितस्य स्मर्तृत्वान्न तयोर्भेद इत्याशङ्क्य परिहरति ।। यद्यप्यविद्येति ।। ननूपाधिभेदेनोपधेयभेदस्तत्रैव यत्र परस्परानुपहित उपाधी उपधत्तः । अन्यथा कम्ब्ववच्छिन्नग्रीवावच्छिन्नाकाशादन्य एव घटा-काशः स्यादिति । मैवम् । उपाधिभेदादुपधेयभेदस्यावश्यकत्वात् । अन्यथा साक्ष्यैव एवान्तः-करणतद्वृत्तिघटाद्यवच्छिन्न इति प्रमाता प्रमाणं फलं प्रमेयं च स्यादिति सर्वसङ्करः स्यात् । कम्ब्वाद्यवच्छिन्नाकाशादन्यस्यैव घटाकाशत्वात् । अन्तःकरणरूपोपाधिसम्बन्धं विनैव तदुपधेयस्याविद्योपधेयस्य च भेदोऽस्तीत्याह ।। शुद्धचैतन्यस्येति ।। अत एवोपधेयभेदे च सतीति चकारः ।। अहं निर्दुःखः स्यामिति ।। न च कृशोऽहं स्थूलो भवामीति-वत्प्रवृत्त्युपपत्तिरित्युक्तम् । तत्र कार्श्यादिविशिष्टस्य शरीरस्यैव स्थौल्याधिकरणतया विवेकिनामुद्देश्यत्वात् । तत्र शरीरं स्थूलं स्यादितिवच्चिन्मात्रं निर्दुःखं स्यादितीच्छायाः प्रकृतेऽभावात् ।। योऽहं सुप्त इति ।। तव मतेऽहमर्थस्यासुप्तत्वादित्यर्थः । अहमर्थ-व्यक्त्यभेदप्रत्यभिज्ञाबाधकमाह ।। योऽहं पूर्वेद्युरिति ।। अहङ्कारेति ।। पूर्वेद्युर्विद्यमानस्या-हङ्कारस्य सुषुप्तौ विनाशाङ्गीकारादित्यर्थः ।
ननु सुषुप्तौ कारणात्मनावस्थितस्याहमर्थस्य जागरे उत्पत्त्यङ्गीकारे न प्रत्यभिज्ञा-विरोधादीति चेन्न । कारणावस्थितस्याकर्तृत्वात् । कर्तृभूतपरिणामविशेषस्य च विनष्टत्वा-दित्यभिसन्धायोक्तं व्यक्तिभेदादिति । ननु कर्तृभोक्त्रोश्चैतन्यानुगमान्न कृतहान्यादीत्यत आह ।। अभिन्न इति ।। ननु चैतन्ये कर्तृत्वाद्यभावेऽप्यारोपितेन कर्तृत्वादिना तयोरभेद इत्या-शङ्क्य परिहरति ।। कर्तृत्वाद्यारोपस्येति ।। स्थूलः करोमीति प्रतीतेरित्यर्थः । आरोपितेन कर्तृत्वादिना व्यावहारिककर्त्राभेदेन प्रमायाः अनिर्वाहादिति भावः । अहंकरोमीति केवले चैतन्ये आरोपितकर्तृत्वाप्रतीतेरहं करोमीत्येव तदारोपो वाच्यः । तथा च कर्तृत्वस्य मुख्यः प्रत्ययोऽन्यो नास्तीत्येव मुख्य इति न तदारोप इत्यर्थः ।। अहङ्कारलय इति ।। प्राणस्यापि लयापत्त्येति शेषः ।। भेदपक्ष इति ।। अभिमन्तृत्वेन प्राणनादिधर्मित्वेन तयोर्भेदादित्यर्थः । तदुक्तं विवरणे । ‘नाहङ्कारमात्रत्वं प्राणस्योच्यते किं तु प्राणस्य पृथक्सतः पञ्चधा व्यापारहेतोः कारणीभूतस्याहङ्कारस्य क्रियाशक्तिरस्ति मनोऽधीनतादर्शनात्प्राणवृत्तेः’ इति ।। अभेदपक्षेऽपीति ।। प्राणांशं प्राणशक्तिम् । तथोक्तं विवरणे । प्राणलक्षणक्रियाशक्त्यंशं वा विहाय विज्ञान-शक्त्यंशस्य लयः कल्प्यताम् । सांशत्वादन्तःकरणस्येति । आद्यपक्षे दूषणमाह ।। प्राण-स्येति ।। द्वितीये शक्तितद्वतोर्भेदे स एव दोषः । अभेदे त्वाह ।। अहमर्थत्व इति ।। प्राणस्य सत्त्वात् सुप्तावहमर्थस्यापि सत्त्वापत्त्या तदुल्लेखः स्यादित्यर्थः ।। किं चेति ।। बृहदारण्यके ‘य एष विज्ञानमयः पुरुषस्तदेतेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुरित्यादौ वागादीनामुपरम एवोक्तो गृहीतमिति श्रवणात् । न तु लय इत्यर्थः । यत्तु मनआदीनामुपरमस्यैवोक्तेरित्यनेन मूलग्रन्थेन अथ हैतत्पुरुष इति श्रुतिर्मन आदीनामुपरमपरतया व्याख्याता नाहमर्थस्येति बुद्ध्वा आक्षिपति । मनउपरमे तेनैवाहङ्कारोपरमस्यापि प्राप्तेरिति । तदबोधविजृम्भितम् । श्रुतौ लयस्यानुक्तिं ब्रूमः । न तु अहंकारस्य । मनस आहङ्कारिकत्वेनानहङ्कारत्वाच्च । वैकारिकान्मनोजज्ञ इति भागवतोक्तेः ।। अहङ्कारेणाप्यैक्येऽपीति ।। अनेकेषां सर्वात्म्योपदेशानुपपत्तेरिति भावः । ननु नोपदेशानु-पपत्तिः । अन्यथाऽप्युपपत्तेरिति शङ्कते ।। नन्विति ।। भिन्नत्वेनेति ।। व्यर्थस्य किञ्चिदिष्टज्ञापकत्वादिति भावः ।
ननु भेदोपदेशस्य व्यर्थस्यापि कथं भूमात्मनोरभेदज्ञापकत्वमित्यत उक्तम् ।। द्वयो-रिति ।। तन्मात्रवृत्तिधर्मबोधनमुखेन तन्मात्रत्वमवगम्यत इति भावः ।। अहङ्कारस्य त्विति ।। अहङ्कारे सार्वाभेदोपदेशस्तु तदधिष्ठानात्मसम्बन्धेनोपचारादिति भावः । कुतो नेत्यत आह ।। अहमर्थादिति ।। अहमर्थान्यात्मनि सार्वात्म्योपदेशस्त्वहमर्थवदुपचारादिति भावः । एतेनाहमर्थभिन्नात्मनो भूमरूपब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वेऽपि तदभिन्नस्यापि तदसिद्धतयोभयोः सार्वात्म्योपदेशानुपपत्तिसहकारेणास्याः श्रुतेस्तयोरभेदपरत्वमिति निरस्तम् । अहङ्कारभिन्नात्मभूम्नोरभेदस्य प्रत्यक्षादिसिद्धत्वेऽपि तयोर्भेदस्यापि तदसिद्धतया तद्बोधनेन वाक्यस्यार्थवत्त्वात् । सार्वज्ञं त्वहमर्थवदुपपत्स्यते ।। ऐक्यार्थ इति ।। नन्वहमर्थस्य जडत्वान्न तदैक्यायोग इत्यत आह ।। त्वत्पक्ष इति ।। चिदैक्योपदेशसामर्थ्यादेवाहमर्थस्य कर्तृत्वाद्याश्रयस्याप्यजडत्वसिद्धेरिति भावः ।। स एवेदमित्यादि ।। तथा च नानेकेषां सार्वात्म्यानुपपत्त्या तदभेदासिद्धिरिति भावः ।
ननु ‘स भगवः कस्मिन्प्रतिष्ठित’ इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टं परमार्थतः क्वचिदधिष्ठितत्वं वा । आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थ-पराऽन्यो ह्यन्यस्मिन्प्रतिष्ठित इति पूर्ववाक्यानुसारेण स एवाधस्तादित्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकत्रैव वाक्ये उपक्रमादिकल्पना न युक्तेति चेत् । मैवम् । यतस्स भगवः कस्मिन् प्रतिष्ठित इति पृष्टे स्वे महिम्नीत्युत्तरिते महिमशब्देन गवाश्वादिकं चेत् तन्मया महिमत्त्वेन नोक्तमिति । यदि वा न महिमि्न इति गो अश्वमिह महिमेत्याचक्षतेऽस्तिहिरण्यमित्यादिनोक्ते तत्र हेतुत्वाकाङ्क्षायां ब्रवीमीति होवाच अन्यो ह्यन्यस्मिन् प्रतिष्ठितः अन्यः परमात्मलक्षणः । अल्पशक्तिरल्पज्ञः अन्यस्मिन् स्वोत्कृष्टप्रतिष्ठितः । भूमा तु परिपूर्णः । भावभवित्रोरभेदात् । अतो नान्यस्मिन् प्रतिष्ठित इत्युक्ते तर्हि कथं स्वे महिमि्न प्रतिष्ठित इत्युच्यत इत्याकाङ्क्षायां भूम्न आधारभूतः स्वमहिम्नोच्यते स एवाधस्तादित्यादिना । तत्र कः प्रसङ्गः सार्वात्म्यस्य । ननु भूम्नस्स इति परोक्षनिर्देशात्परोक्षत्वप्राप्तौ तद्वारणायापरोक्षाहङ्कारेणैक्यमथातोऽहङ्कारादेश इत्यनेनाभिधाय निष्कृष्टाहङ्कारकेवलात्मस्वरूपैक्यं बोध्यते । अथात आत्मादेश इत्यनेनेति नाहङ्कारवाक्यवैयर्थ्यमिति शङ्कते ।। नन्विति ।। ब्रह्मणः भूमरूपस्य ।। आपरोक्ष्यायेति ।। अपरोक्षद्रष्टृभेदायेत्यर्थः ।। अहङ्कारस्यापरोक्षत्वात् भूम्नस्तदभेदोक्त्याऽपरोक्षत्वसिद्धिः । अन्यथा परोक्षापरोक्षयोरभेदानुपपत्तेरित्यभिसन्धायोक्तम् ।। अहं करोति समाधत्ते त्वत्पक्ष इति ।। त्वन्मतेऽपरोक्षैकरसात्मसम्बन्धादेवाहङ्कारेऽप्यापरोक्ष्यमिति मुख्यापरोक्षात्माभेदोप-देशेनैव भूम्नोऽप्यापरोक्ष्यस्यापि सिद्धिरित्यर्थः । विपक्षे बाधकमाह आत्मन इति ।। लब्धा-परोक्ष्यस्येति ।। भूमाख्यब्रह्मण इति शेषः ।
ननु तत्त्वविन्मते ब्रह्मभिन्नाहङ्कारस्य कथं सर्वव्यापित्वमपीत्यतः स्मृत्या श्रुत्यर्थमाह ।। श्रुत्यर्थस्त्विति ।। अबाधितत्वपरविशेषार्थस्तुशब्दः । स एवाहङ्कृतिः स्मृत इति । अहंकृतिरितिशब्दवाच्य इत्यर्थः । अतः परं अकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । जीवस्थ इत्यादिपाठः । स च व्यापी न च भेदो हरौ क्वचिदित्यन्तः पाठः । यत्तु श्रुति-विरोधेन स्मृतेरेवान्यथानयनमिति तन्न । उक्तरीत्याऽनुपपन्नायाः श्रुतेः स्मृत्या व्याख्या-तत्वात् । न तु स्मृतिविरोधेन सान्यथा नीयते सूत्रं चेति ।। उक्तार्थे प्रमाणमिति शेषः ।। सैव हीति ।। एष तु वा अतिवदति यः सत्येनातिवदतीत्यादौ सत्यत्वे च विजिज्ञासितव्यमित्यादिनोक्ताः सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखभूमाहङ्कारात्मान्ताः सत्यादयः सर्वे परदेवतारूपाः इत्यर्थः । सत्याद्या अहमात्मान्ता यद्गुणा समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते इति स्मृतेरित्याशयः ।। अन्यथेति ।। अहङ्कारस्याब्रह्मत्व इत्यर्थः ।
नन्वहङ्कारस्य ब्रह्मत्वे षट्प्र्रश्नोपनिषदि यथा सोम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते एवं ह वै तत्सर्वं परे आत्मनि सम्प्रतिष्ठते पृथिवी च पृथिवीमात्रा चेत्यारभ्य अहङ्कारश्चाहङ्कर्तव्यं चित्तं च चेतयितव्यं चेत्यादिनाहङ्कारस्य पृथिव्यादिवत् परमात्माश्रितत्वं प्रतीयमानं विरुध्यत इत्यत आह ।। अहङ्कारश्चेति ।। न त्वहमर्थ इति ।। जीवो जीवस्थोऽनिरुद्धश्चेत्यर्थः । अस्मदादेशादहमर्थो नेत्यर्थः । किन्तु जीवो जीवस्थो अनिरुद्धश्चेति । नन्वेवमहङ्कारशब्दो नानार्थः स्यादित्याशङ्क्य विपक्षे बाधकमाह अन्यथेति ।। स्मार्तप्रयोगाद्बुद्धिशब्दवन्नानार्थत्वं न दोषः किन्तु इष्टमेवेत्यर्थः । प्रयोगबाहुल्यमेवाह ।। अहङ्कारशब्दस्येति ।। देहेऽहम्बुद्धा-विति ।। देहविषयकाहं कर्तेतिमानसबुद्धावित्यर्थः । । एतच्च परमतेनोक्तमिति ध्येयम् ।। अहमर्थेति ।। वस्तुतस्तु शब्दभेदान्नानार्थत्वमित्यर्थः अहमर्थेति ।। साक्षिणीत्यर्थः । शब्दभेदमेव साधयति ।। आत्मेति ।। तस्मात् ‘अथातोऽहङ्कारादेश’ इति छन्दोगश्रुतौ न जडोऽमहत्तत्वविकारोऽहंशब्देनोच्यते । किं तु जीवस्थोऽनिरुद्धः । अहङ्कारश्चाहङ्कर्तव्यं चेत्यादिश्रुतिस्मृत्योस्त्वहङ्कारशब्देन जीवो नोक्तः । किं तु त्रिविधोऽहङ्कार इति न श्रुतिस्मृती आत्मभिन्नाहमर्थे प्रमाणमिति ।। अहमर्थ इति ।। तथा च चिदचित्संवलनात्मकमित्यर्थः ।। अन्तःकरणेति ।। सर्वांशावच्छेदेनाहमर्थेन कर्तृत्वादिकमित्यर्थः ।
ननु गौरोऽहमित्यादावपि देहत्वेनाभानेऽपि गौरत्वमनुष्यत्वादिना त्प्रतीतेर्दृष्टान्तासम्प्रति-पत्तिरिति चेन्न । यत्र सामग्रीवशात्सुरभिजलमितिवद्गौरोऽहमिति धर्ममात्रारोपस्तस्यैव दृष्टान्त-त्वात् । न हि सर्वत्राभेदारोपसामग्रीनियमः । नन्वहमर्थस्य प्रत्यङ्मात्रत्वे परकीयघटे घटशब्द-वत्परकीयेऽहमर्थेऽहंशब्दः प्रयुज्येतेत्यत आह ।। या त्विति ।। सम्बन्धिभेदेनाहंशब्द-वाच्यस्यापीदं शब्दाभावे बाधकमाह ।। अन्यथेति ।। एतच्चोपलक्षणं परकीयाहमर्थेऽ-चित्सम्बन्धे नेदंशब्दत्वे स्वकीयाहमर्थोऽपीदंशब्दः स्यादिति च ज्ञेयम् । अहमर्थस्यानात्मत्वे प्रत्यक्षमाशङ्क्य अपाकरोति ।। न चेति ।। अस्या इति ।। चिदचित्सम्वलनमपि न सिद्ध्येदित्यर्थः । परमतमवष्टभ्योत्तरयति ।। सर्वात्मक इति ।। वस्तुतस्तु इदं शब्दः प्रमितत्वमाह । तच्च जगतीवात्मन्यपि अस्त्येव । तथाचाहृदयवाचामहृदया एव प्रतिवाचो भवन्तीति न्यायेनोक्तमित्यवगन्तव्यम् ।। त्वन्मत इति ।। आत्मन्येव व्यभिचार इत्यर्थः ।
नन्वधिष्ठानचितो येन रूपेणाहम्प्रत्ययविषयत्वं तेन रूपेणात्मत्वमपि । स्वरूपेण त्वात्मत्वेऽपि तेन रूपेणाहम्प्रत्ययविषयत्वस्याप्यभावान्न व्यभिचार इति । मैवम् । चिदंशं विना स्वरूपेणाहम्प्रत्ययविषयत्वस्य पक्षेऽप्यभावात् । एतेनाहमर्थः आत्मान्यः अहंशब्दाभि-धेयत्वात् । अहंकारशब्दाभिधेयवदिति निरस्तम् । महत्तत्वविकारपक्षीकारे सिद्धसाधनात् । अस्मदर्थस्य पक्षत्वे बाधात् । सास्नादिमद्व्यक्तिः स्वभिन्ना गोशब्दाभिधेयत्वात् पृथिवीवदित्या-दावसाम्याच्च । स्वव्याहतिमभ्युच्चिनोति किञ्चेति ।। गौरोऽहमितीति ।। अहमर्थस्यैव गौरभ्रमाधिष्ठानत्वनिरुपाधिप्रेमास्पदत्वप्रतीतेरित्यर्थः ।। अन्योन्येति ।। माहं न भूवं भूयास-मित्यहमर्थप्रेमास्पदनिबन्धनैवात्मनः प्रेमास्पदत्वसिद्धिः तत्सिद्धौ चाहमर्थे तदारोप इत्यर्थः ।
ननु नाहमर्थद्वारात्मनि प्रेमसिद्धिः किं तु स्वत एवेति नान्योन्याश्रय इत्यत आह ।। अहमर्थेति ।। न च सुषुप्तिकालीनात्मप्रेमैव तादृश इति युक्तम् । तदाप्यहमर्थ-प्रेमातिरिक्तात्मप्रेम्णोऽभावात् । अन्योन्याश्रयाच्च ।। अहित इति ।। ननु न प्रेमास्पदत्वारोपं ब्रूमः किं तु प्रेमास्पदात्मैक्यारोपादहमर्थे प्रेमास्पदत्वं न तु तत्स्वाभाविकमितीति । मैवम् । अहमर्थमनन्तर्भाव्यात्मनि प्रेमादर्शनादित्युक्तत्वात् । अन्यस्यान्यात्मनावभासस्यैवारोपत्वाच्च ।। समारोप्यस्येति ।। आरोप्यस्य सर्पादेर्भीषणत्वादिना रूपेण विषयो रज्ज्वादी रूपवान् भीषणत्वादियुक्तो भवति । विषयस्य रज्ज्वादेः रूपेणाभिगम्यत्वादिना । समारोप्यं सर्पादि-रूपवदभिगम्यं न भवतीत्यर्थः । न च सर्पगतानिदन्त्वादिवदन्तः करणगताप्रेमास्पदत्वस्यापि नात्मन्यारोप इति वाच्यम् । अधिष्ठानत्वौपयिकतद्गतसामान्यधर्माविरुद्धानां समारोप्यगतानां विषये आरोपदर्शनात् । न हीदन्त्वादिवत्प्रेमास्पदत्वमप्यहमर्थारोपहेतुः । येन तद्विरुद्धानि-दन्त्ववदप्रेमास्पदत्वस्याप्यारोपो न स्यात् । यत्त्वधिष्ठानगतधर्मप्रतीत्यविरोधिन आरोप्य-गतस्याधिष्ठाने भानमिति तन्न । अन्योन्याश्रयात् । न चात्मैक्याध्यासकाल एव प्रेमा-स्पदत्वसम्भवेनारोप्येऽप्य प्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिरिति वाच्यम् । वैपरीत्यस्यैवोचितत्वात् । अहमर्थे प्रेमास्पदत्वारोपहेतुमात्मैक्याध्यासं दूषयति ।। त्वद्रीत्येति ।। आत्मनोऽहमर्थाद्भेदप्रतीतेर्न तत्र तस्यारोप इत्यर्थः । न चायं वैषयिक-सुखानुभवः स चानात्मेति वाच्यम् । तस्यापि साक्षिग्राह्यत्वात् । त्वन्मते विषयसम्बन्धेन स्वरूपसुखमेवाभिव्यज्यत इत्युक्तेश्च । अहं स्फुरामीत्यत्र भेदप्रतीतेश्च ।। मोक्ष इति ।। न चौपाधिकप्रेमास्पदनाशेऽपि न बाह्यमतप्रवेशापत्तिः । अन्यथा शरीरनाशेऽपि तदापत्तिः स्यादिति वाच्यम् । अनौपाधिकप्रेमास्पदस्यान्यस्याननुभवेनाहमर्थस्यैव स्वाभाविकप्रेमास्पद-त्वात् । त्वन्मतेऽपीति ।। निर्विशेषब्रह्मणः शून्याविशेषात् । अन्यथा निर्विशेषव्याघात इत्यर्थः ।। अहं मुक्त इति ।। अहमर्थस्य मुक्त्यनन्वयादित्यर्थः ।। अन्योन्येति ।। आत्माहमर्थयोर्भेदाधीनारोपसिद्धावुक्तेच्छाया अबाधकत्वं तदबाधकत्वे च भेदसिद्धिरित्यर्थः । अहमर्थस्यानात्मत्वश्रुतिविरोधमप्याह ।। तत्र मामिति ।। ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतौ मदर्थस्यैवामृतत्वप्रार्थन-श्रवणान्न तत्र तदारोप इत्यर्थः ।। अनिष्टत्वेति ।। इच्छाविषयत्वाभावापातादित्यर्थः । आत्मन्यहमर्थमनन्तर्भाव्येच्छा नास्तीत्याह ।। यः कश्चिदिति ।। ममेति ।। चिन्मात्रस्य ममात्मत्वाभावादित्यर्थः । नन्वहं मुक्तः स्यामितीच्छा नास्त्येव । किं तु मुच्यतामित्यादि-रूपेत्यत आह ।। न च स्वत इति ।। मम मन इति ।। ममेत्यत्र मनः प्रवेशादित्यर्थः ।
ननु दण्डिनो दण्ड इतिवदुपलक्षणत्वमस्त्वित्यत आह ।। तदवच्छिन्नस्येति ।। तद्विशिष्टस्येत्यर्थः । उत्सर्गप्राप्तविशेषणत्वे बाधकाभावेनोपलक्षणत्वायोगात् ।। चिद-चिदिति ।। न च सम्वलनं न सम्बन्धमात्रं किं तु तादात्म्येन प्रतिभास इति युक्तम् । त्वन्मते स्फुरणादावपि तदारोपात् ।। द्व्यंशविषयेति ।। भिन्नभिन्नप्रकारावच्छिन्नाधिष्ठा-नारोप्यविषयेत्यर्थः । तेन नेष्टापत्तिः । न च रजतत्वसंसर्गारोपनिबन्धनेदंरजतमिति प्रतीतौ व्यभिचार इति वाच्यम् । रजतादेरेव तत्र प्रकारत्वात् । नन्वहमिति बुद्धेर्भ्रमत्वानुरोधेन द्व्यंशत्वमपि तत्र कल्प्यत इत्यत आह ।। यदीति ।। त्वन्मत इति ।। नन्वविद्यावृत्ति-रूपभ्रमज्ञनास्याध्यस्तत्वेऽपि चैतन्यरूपस्फुरणस्य न तथात्वमिति चेन्न । चैतन्यमात्र-स्याहंज्ञानत्वे सुषुप्त्यादावपि प्रतीतिमात्रशरीराहमनुवृत्त्यापातेनाविद्यावृत्त्यवच्छिन्नचित एवाहं-ज्ञानस्य त्वया वाच्यत्वात् । तस्य चाध्यस्तत्वादिति भावः । रूप्यमस्तीत्यादौ न सत्ता रूप्याधिष्ठानमित्याह ।। बाधकेनेति ।। तथा च दृष्टान्तासम्प्रतिपत्तिरिति भावः ।। तस्मा-दिति ।। बाधकज्ञानादित्यर्थः । उपजीव्यत्वादिना प्रबलप्रमाणं प्रथममाह ।। प्रत्यक्षमिति ।। अहमनुभवामीत्यादिकम् । अन्यथात्वतदभिमताद्वैतज्ञानप्रामाण्यं न सिद्ध्येदिति भावः ।। तत्साधनेति ।। अपरिक्रीतसम्बन्धिकृतिर्विवक्षिता । तेन विशेषव्याप्तौ दृष्टान्ताभावः सामान्यव्याप्तौ तु स्वर्गसाधनकृत्याश्रये ऋत्विजि व्यभिचार इति निरस्तम् । नन्वविद्यादि-रूपस्यानर्थस्य चिन्मात्राश्रितत्वेनासिद्धिरित्यत आह ।। न चेति ।। अहमज्ञ इति ।। अहमर्थाश्रितत्वेनैवाज्ञानप्रतीतेरित्यर्थः ।
ननु स्थूलोऽहं न जानामीति शरीरस्याप्यज्ञानाश्रयत्वात्तत्र व्यभिचार इत्यत उक्तम्–अबाधितेति ।। शरीरमनन्तर्भाव्याहमज्ञ इत्येव प्रतीतेः शरीरस्य तदाश्रयत्वं बाधितमिति भावः ।। अनात्मत्वमिति ।। न च कृत्याश्रयावृत्तित्वमुपाधिः । त्वन्मते मुक्तौ साध्याव्याप्तेः । अहं करोमीत्यहमर्थान्तर्गताधिष्ठानचितोऽपि कृत्याश्रयत्वात्तत्र मुक्तेर्वृत्तेः ।। कस्मिन्न्वह-मिति ।। षट्प्रश्नोपनिषदि ‘स ईक्षाञ्चक्रे कस्मिन्न्वहम्’ इत्यादिप्रतिष्ठास्यामीतीक्षणानन्तरं ‘स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापःपृथिवीमिन्द्रियं मनोऽन्नमन्नाद्वीर्यम््’ इत्यत्र प्राणमनःसृष्टेः पूर्वमहन्त्वोक्तिः । तथा छान्दोग्येऽपि ‘हन्ताहमिमास्तिस्रो देवता’ इत्यादौ तेजोऽबन्नानि स्वरूपेण त्रिवृतिं कुर्वन्ति स्वातन्त्र्यात् सच्छब्दनिर्दिष्टे ब्रह्मणि अन्नमशितं त्रेधा विधीयते, तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठ-स्तन्मन, आपः पीतास्त्रेधा विधीयन्ते, तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यस्तल्लोहितः, योऽणिष्ठः स प्राण इत्यादिनोक्तमनःप्राणसृष्टेः पूर्वमहन्त्वोक्तिरित्यर्थः ।। तदात्मानमिति ।। बृहदारण्यके ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मी-त्यत्रावधारणब्रह्मशब्दाभ्यां शुद्धत्वानवद्यत्वप्रतीतिरित्यर्थः ।। अहमित्येेवेति ।। एवकारो भिन्नक्रमः अहन्त्वप्रकारकवित्तिविषयत्वायोगव्यवच्छिन्न इत्यर्थः ।। मोक्षेति ।। बन्धा-न्वयोऽपि द्रष्टव्यः । न च श्रुतिस्मृत्योर्विशिष्टवाचकाहम्पदस्य लक्षणया निष्कृष्टाहङ्कार-चैतन्यपरत्वमिति युक्तम् । तद्बीजस्यानुपपत्तेरभावात् । अन्योन्याश्रयत्वोक्तेश्च । अहमितः-प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सेति अहं मनुरभवं सूर्यश्चेति त्वद्रीत्या वामदेवस्य सर्वात्मकत्वविज्ञानप्रतिपादकं चोदाहर्तव्यम् ।। एवं चेति ।। अहमर्थ-स्यैवात्मत्वादित्यर्थः । कर्तृत्वादिविशिष्टस्य कथमैक्यमिति चेन्न । न ह्यहंशब्देन कर्तृत्व-विशिष्टात्मोच्यत इति ब्रूमः । किं त्वात्मत्वविशिष्ट आत्मा । स तु वस्तुतः कर्तृत्वाद्याश्रय इत्यन्यदेतत् । न ह्येतावताहंशब्दे लक्षणा । आनन्दादिवदहन्त्वमपि स्वरूपमेवास्तु । कर्तृत्वादेर्मिथ्यात्वेनाप्यैक्यस्योपपत्तेः । उपसंहरन्सङ्गृह्णाति ।। तस्मादिति ।। अज्ञानाश्रय-त्वेनाभिमते चिन्मात्रे अज्ञोऽहमिति प्रत्यक्षेण तदात्मानमित्यादिश्रुत्याऽनवद्यस्य शुद्धस्य चाहन्त्वप्रतीतेरित्यर्थः ।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां हि नानात्माऽस्मत्पदास्पदम् ।।
।। इति अहमर्थस्यानात्मत्वभङ्गः ।।