आत्माभेदे त्वन्योन्यं सुखदुःखाद्यनुसन्धानं स्यात्
२०. आत्मभेदे अनुकूलतर्काः
न्यायामृतम्
आत्माभेदे त्वन्योन्यं सुखदुःखाद्यनुसन्धानं स्यात् । न चोपाधिभेदोऽननुसन्धाने तन्त्रम् । हस्तपादाद्युपाधि भेदेऽप्यनुसन्धानदृष्टेः । नापि विश्लिष्टोपाधिभेदस्तत्र तन्त्रम् । मातृसुखादेर्गर्भस्थेनानुसन्धानापातात् ।
उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः ।
पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ।।
इति भारतोक्त्या विश्लेषेऽप्यनुसन्धानदृष्टेश्च । नाप्यतीतादिशरीरेष्विव शरीरभेदस्तत्र तन्त्रम् । तद्भेदेऽपि ‘बाल्येऽहं दुःखी’ इत्यनुसन्धानस्य, जातिस्मरस्य च जन्मान्तरेऽहं दुःखीत्यनुसन्धानस्य, योगिनश्च नानादेहगभोगानुसन्धानस्य च दर्शनात् । न च वयं सदा वर्तमानतया अनुभवं स्मरणं वा अनुसन्धानं ब्रूमः, किं नाम कदाचित् स्वीयतयाऽनुभवमात्रम् । न च तन्नास्त्यतीते सुखादौ । न चान्तःकरणरूपोपाधि-भेदस्तत्र तन्त्रम् । योगिनोऽन्तःकरणमेकमेवेति वाच्यम् । चैतन्यैक्येऽप्यन्तःकरणभेदाद् अननुसन्धानस्य मां प्रत्यद्याप्यसिद्धत्वेन शरीरभेदवच्चक्षुरादिकरणभेदवच्च तद्भेदस्याप्य-प्रयोजकत्वात् । त्वन्मते प्रत्यहं सुषुप्तावन्तःकरणलयेऽपि ‘पूर्वेद्युरहं दुःखी’ इत्यनु-सन्धानाच्च । १सुषुप्तप्रलीनमुक्तानाम् अन्तःकरणभेदाभावेन संसारिदुःखाद्यनुभावापाताच्च । न चान्तःकरणैकत्वानैकत्वे अनुसन्धानाननुसन्धानयोस्तन्त्रे । मुक्तादेः स्वरूपसुखा-ननुभवापातात् । अन्तःकरणा(नां) नानात्वेऽप्यनुसन्धानस्योक्तत्वाच्च । न चाविद्या-रूपोपाधिभेदस्तत्र तन्त्रम् । सुषुप्तौ चाविद्याऽस्तीति वाच्यम् । उक्तरीत्या ज्ञानप्राग-भावभेदस्याप्यप्रयोजकत्वात् । यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते एकस्मिन्नपि जीवे ब्रह्मविषयकाज्ञानानां भिन्नत्वाच्च । मुक्तस्य संसारिदुःखाद्यनुसन्धानापाताच्च । न चाविद्यैकत्वानेकत्वे अनुसन्धानाननुसन्धानयोस्तन्त्रे । मुक्तस्य स्वरूपसुखाननु-भवापातात् ।
किञ्चानेकाविद्यासम्बन्धस्य दुःखानुसन्धानरूपानर्थस्य च विशिष्टगतत्वे बन्धमोक्षयोर्वैय्यधिकरण्या पातेन शुद्धगतत्वे वाच्ये यच्छुद्धं चैत्रीयदुःखाननुसन्धातृ तदेव मैत्रीयदुःखानुसन्धात्रिति कथम् अनुसन्धानाननुसन्धानव्यवस्था । एतेन बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्ववद् घटाकाशमहाकाशयोः परिच्छिन्नत्वापरिच्छिन्नत्व-वद् एकस्यैव नभसस्तत्तत्कर्णपुटावच्छेदेन तत्र तत्र श्रोत्रभाववच्चौपाधिकभेदेन जीवब्रह्मणोरनुसन्धानाननुसन्धाने इति निरस्तम् । दुःखानुसन्धानरूपस्यानर्थस्योप-हितनिष्ठत्वेन तस्य कल्पितत्वेन बद्धस्य निवृत्तिरेव, न तु मोक्ष इत्यापातात् । दुःखाद्यनुसन्धानस्य साक्षिरूपतयोपाधिधर्मत्वाभावेन श्यामत्वादिवैषम्याच्च । प्रतिबिम्बस्य छायावद्वस्त्वन्तरत्वेनाकाशस्य तु त्वन्मतेऽपि कार्यद्रव्यतया सावयवत्वेन तैजसाहंकारकार्याणां श्रोत्राणां स्वत एव भिन्नत्वेन दृष्टान्तासम्मतेश्च ।
एतेन ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुः’ इति श्रुतेर्विशिष्टस्यैव भोक्तृत्वात्तस्य च भिन्नत्वाद् व्यवस्थेति कौमुद्यक्तं निरस्तम् । शुद्धचिन्मात्रनिष्ठत्वे तु तत्र भेदप्रतीत्या कल्पितभेदस्याप्याभावात् । भावे वा भेदस्यैव व्यवस्थारूपस्वकार्यकारिणो वह्नावुष्णत्ववद्धर्मिज्ञानाबाध्यत्वम् । अभेदस्य त्वव्यवस्थारूपस्वकार्याकारिणोऽ-नुष्णत्ववन्मिथ्यात्वमित्यापाताच्च । कल्पितभेदहीनस्य मुक्तस्य संसारिदुःखानु-भवापाताच्च । एतेन नोपहितेऽनुसन्धानं किन्तु तार्किकमते आत्मनि दुःखाद्याश्रयता-देहादिनेवेहापि चिन्मात्रेऽनुसन्धातृता अविद्यारूपोपाधिनाऽवच्छिद्यत इति निरस्तम् । तन्मते आत्मन इवात्र चित एवानर्थान्वयेन ब्रह्म दुखित्वापादकस्य संसारिदुःखस्य सत्त्वेन तद्भावरूपमुक्तेरपुमर्थत्वापातात् । नित्यमुक्तत्वश्रुतेर्निर्विषयत्वापाताच्च । विस्तृतं चैतदविद्याश्रयभङ्गे ।
ननु किमत्रांशानां जीवानाम् अनुसन्धानमापाद्यम् ? अंशिनो ब्रह्मणो वा ? नाद्यः, हस्तावच्छिन्नेन पादावच्छिन्नदुःखाद्यननुसन्धानात् । नान्त्यः, तस्याभोक्तृत्वेन भोगाप्रसङ्गात् । दुःखादिज्ञानमात्रस्य च सर्वज्ञे तस्मिन्निष्टत्वादिति चेन्न तावदाद्ये दोषः । न हि भोगायतनानां साङ्कर्यमापाद्यते । येन ‘पादे मे वेदना शिरसि मे सुखम्’ इति न स्यात् । किन्त्वनुसन्धानमात्रम् । तच्चांशानामस्त्येव । अन्यथा चैत्रदेहलग्नकण्ट कोद्धाराय मैत्रस्येव पादे लग्नकण्टकोद्धरणाय हस्तव्यापारो न स्यात् । न च पुत्रादाविवोपपत्तिः, दुःखाद्यनुमानपूर्वककृपादेरनुपलम्भात् । एतेन नेत्रा-द्यवच्छिन्नस्यात्मनः शब्दाद्यनुपलम्भवदेकशरीरविशिष्टस्य शरीरान्तरेऽननुसन्धानमिति निरस्तम् । ‘योऽहं रूपमद्राक्षं सोऽहं शृणोमि’ इत्यनुभवात् । नाप्यन्ते दोषः । भोक्तृजीवाभिन्नत्वेन ब्रह्मणोऽपि भोक्तृत्वस्यापादनात् । आपादने च प्रमाणविरोधस्या-लङ्कारत्वात् । न चान्तःकरणस्य तदवच्छिन्नस्य वाऽनुसन्धातृत्वान्न ब्रह्मणस्तदिति वाच्यम् । दुःखभोगस्य शुद्धब्रह्मगतत्वोक्तेः ।
एतेनानवच्छिन्नेऽभ्रान्ते च ब्रह्मण्यनुसन्धाने तन्त्रस्यान्तःकरणावच्छेदस्याभावान्न तस्याहं दुःखीति भ्रान्तिरूपमनुसन्धानमिति निरस्तम् । कल्पितस्याकल्पितस्य वा दुःखभोगस्य शुद्धचिद्गतत्वावश्यम्भावाद् भ्रान्तजीवाभिन्नेश्वरस्याभ्रान्तत्वायोगाच्च । एतेनान्तःकरणावच्छिन्नान् अनुसन्धातॄन् प्रत्यविद्यावच्छिन्नस्यांशित्वात्तस्यैव दुःखानु-सन्धानम्, न तु शुद्धस्येति निरस्तम् । चिन्मात्रमेवानुसन्धात्रित्युक्तत्वात् । अवच्छिन्नस्यानु सन्धातृत्वेऽप्यवस्थात्रयानुस्यूताविद्यावच्छिन्नस्य वाऽनुसन्धातृत्वेन तद्द्वारा शुद्धस्यानुसन्धानापरिहाराच्च । अन्तःकरणावच्छिन्नस्यैवानुसन्धातृत्वेऽपि तद्गतस्यानुसन्धानस्य तदवच्छेद्याविद्यावच्छिन्ननिष्ठत्ववद्, अविद्यावच्छिन्ननिष्ठस्य तदवच्छेद्यशुद्धनिष्ठत्वापत्तेश्च । एतेन यथा स्वकर्णपुटपरिच्छिन्ननादोपलम्भेऽपि भागान्तरवर्तिनादानुपलम्भः, तथा सुखदुःखाद्युपलम्भानुपलम्भाविति निरस्तम् । आत्मभेदे कर्णपुटानां तत्तदीयत्वनियमवद् ऐकात्म्यवादे सर्वदेहानां स्वीयत्वेन तत्तदीयत्वनियमाभावेन स्वीयकर्णपुटद्वयपरिच्छिन्न नादोपलम्भवत् सर्वदेहस्थदुःखाद्यनु-सन्धानस्य दुर्वारत्वात् । न च कर्मणां तत्तदीयत्वेन शरीराणां तत्तदीयत्वम् । आत्मैक्ये कर्मणामपि तत्तदीयत्वनियमायोगात् । शरीरनियमेन कर्मनियमे त्वन्योन्याश्रयात् । तदुक्तम्–
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता ।
तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ।। इति ।।
एतेन यत्केनचिदुक्तम्– न सुखदुःखव्यवस्थया भेदसिद्धिः । व्यवस्थाशब्देन धर्मभेदोक्तौ एकस्मिन्नेकदैव सुखदुःखदर्शनेन व्यभिचारात् । भिन्नाश्रयधर्मोक्तौ अन्योन्याश्रयात् । विरुद्धधर्मोक्तौ विरोधस्य सहानवस्थानरूपत्वेऽसिद्धेः । वध्यघातुक-भावरूपत्वे ‘नाजात’ इति न्यायेन भेदासाधकत्वादिति निरस्तम् । व्यवस्थाशब्देनानु-सन्धानाननुसन्धानयोरुक्तेः । तस्मादात्मैक्ये सुखदुःखादिव्यवस्था न स्यादेव । तदुक्तं–
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ।
दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ।।
नानादेहगभोगानुसन्धानं योगिनो यथा ।
न चेद्भोगानुसन्धानं तदिच्छायोगिनः कुतः ।। इति ।।
उक्तं च–
अनुसन्धानरहितमैक्यं चेदेकता न तत् ।
चैतन्यैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ।। इति ।।
एवं बद्धमुक्तव्यवस्था, पण्डितमूर्खव्यवस्था, चैत्रप्रमया मैत्रस्य भ्रान्त्यनिवृत्तिः, चैत्रानुभूते मैत्रस्यास्मृतिरित्यादिव्यवस्था च न स्यात् । न च तत्तदुपाध्यपगमे तस्य तस्य मुक्तिः, उपाधिसम्बन्धस्योपहित निष्ठत्वेऽऽत्मान्योन्याश्रयचक्रकानवस्था-न्यतरापातात् । शुद्धनिष्ठत्वेऽपि किमेकैकोपाध्यपगमो मुक्तिः ? उत सर्वोपाध्यपगमः ? नाद्यः– सदा मुक्तिरेव, न तु बन्ध इत्यापातात् । नान्त्यः, अधुना बन्ध एव, न कस्यापि मुक्तिरित्यापातात् । त्वन्मते इदानीं कल्पितबन्धवतः तत्त्वतो मुक्तत्वेऽपि यादृशः कल्पितोऽप्यनर्थरूपः ज्ञानेनोच्छेत्तव्यः बन्धः, तद्रहितस्य मुक्तशब्दार्थस्या-भावात् । तदेवं नौपाधिकभेदमात्रेण बद्धमुक्तादिव्यवस्था युक्ता ।
किञ्चोपाधेर्भेदकत्वमेवायुक्तम् । तथा हि– उपाधिः किमेकदेशेन सम्बध्यते ? कृत्स्नेन वा ? आद्ये त्वन्मते स्वाभाविकांशाभावेन औपाधिकत्वे वाच्येऽनवस्था । अन्त्ये न भेदकता, कृत्स्नस्यैकोपाधिग्रस्तत्वात् । एवं गगनादावपि स्वाभाविकांशा-नङ्गीकारे घटाद्युपाधिसम्बन्धो न स्यादेव । तदुक्तम्–
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ।
एकदेशेऽनवस्था स्यात्सर्वगश्चेन्न भेदकः ।। इति ।।
।। आत्मभेदे अनुकूलतर्काः ।। २० ।।
अद्वैतसिद्धि:
ननु– यद्यात्मैक्यं स्यात्, चैत्रेण सर्वदुःखाद्यनुसन्धानं स्याद् इति– चेन्न, औपाधिक-भेदेनाननुसन्धानोपपत्तेः । ननु– हस्तपादाद्युपाधिभेदेऽप्यनुसन्धानदर्शनाद् उपाधिभेदोऽप्रयोजकः, न च विश्लिष्टोपाधिभेदस्तत्र तन्त्रम्, मातृसुखादेर्गर्भस्थेनानुसन्धानापातात् । भारते–
‘उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः ।
पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि’ ।।
इत्यादिना विश्लेषेऽप्यनुसन्धानोक्तेश्चेति चेन्न, न हि वयं यत्किञ्चिदुपाधिमात्रम् अननु-सन्धानप्रयोजकं ब्रूमः, किन्त्वन्तःकरणरूपोपाधिभेदम् अविद्याभेदं वा । स च भेदः कबन्धे योगिनि च नास्त्येव । तेन तत्रानुसन्धानं, चैत्रमैत्रयोश्चास्तीति अननुसन्धानम् । एतेन शरीररूपोपाधि-भेदस्याननुसन्धानप्रयोजकत्वे बाल्यानुभूतस्य यौवने जातिस्मरेण पूर्वजन्मानुभूतस्य योगिना नानाशरीरानुभूतस्य च स्मरणं न स्यादिति निरस्तम् । शरीरभेदस्य तत्रातन्त्रत्वात् । योगिजातिस्मृर्तणाम् अन्तःकरणैक्यात् । न च चैतन्यैक्ये अन्तःकरणभेदस्य नाननुसन्धानप्रयोजकत्वम्, चक्षुरादि-करणभेदेऽप्यनुसन्धानदर्शनादिति वाच्यम् । अन्यकरणभेदेन तथा दर्शनेऽप्यन्तःकरणभेदस्य तदैक्याध्यासापन्ने अननुसन्धानप्रयोजकत्वं कल्प्यते । अन्यथा ब्रह्मैक्यस्य जीवे श्रुतिसिद्धतया सर्वानुसन्धानापत्तेः । न चान्तःकरणस्य प्रत्यहं सुषुप्तौ विलयेन पूर्वदिनानुभूतस्याननुसन्धानापत्तिरिति वाच्यम् । संस्कारात्मनावस्थितस्यैव पुनरुद्बोधेन तत्रान्तःकरणभेदाभावात् । न चैवं सुषुप्तप्रलीनमुक्तानाम् अननुसन्धानप्रयोजकान्तःकरणभेदाभावात् संसारिदुःखानुसन्धानापत्तिरिति वाच्यम् । तेषामनु-सन्धानप्रयोजकान्तःकरणैक्याध्यासरूपसामग्रीविरहात् । न हि प्रतिबन्धकमात्रेण कार्यविरहः, किन्तु सामग्रीविरहेणापि ।
न चैवं मुक्तस्य स्वरूपसुखानुभवोऽपि न स्यादिति वाच्यम् । तस्याजन्यत्वेनान्तःकरणानपेक्ष-त्वात् । जीवविभाजकोपाध्यज्ञानभेदाभेदाभ्याम् अनुसन्धानाननुसन्धानोपपत्तेश्च । न च– ज्ञानप्रागभाववदज्ञानस्यापि भेदाभेदयोस्तत्राप्रयोजकत्वम्, यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते एकस्मिन्नपि जीवे ब्रह्मविषयकाज्ञानानां भिन्नत्वेनानुसन्धानविरहप्रसङ्ग इति वाच्यम् । ज्ञानप्रागभावानां ज्ञानसमसङ्ख्याज्ञानानां च जीवविभाजकत्वाभावेनानु सन्धानादावप्रयोजकत्वात् । यत्तु मुक्तस्यैव संसारदुःखानुसन्धानापत्तिः, अविद्यारूपोपाधिभेदाननुसन्धाने स्वरूपसुखस्याप्यननुभवापातः इति, तन्न, वैषयिकसुखाद्यनुसन्धाने तस्य तन्त्रत्वेन स्वप्रकाशस्वरूपस्फुरणे तदनपेक्षत्वात् । नन्वेवम् अनेकाविद्यासम्बन्धस्य दुःखानुसन्धानस्वरूपस्यानर्थस्य च विशिष्टगतत्वे बन्धमोक्षयोर्वैयधिकरण्यापातेन शुद्धगतत्वे वाच्ये यच्छुद्धं चैत्रीयदुःखानुसन्धातृ, तदेव मैत्रीयदुःखानुसन्धात्रिति कथम् अनुसन्धानाननुसन्धानव्यवस्थेति चेन्न । अविद्यात्मकबन्धनिवृत्त्यात्मकमोक्षस्य शुद्धगतत्वेऽपि दुःखाद्यनुसन्धातृत्वस्य उपहितवृत्तितया शुद्धभेदापादनायोगात् । न च संसारस्य शुद्धगतत्वे ब्रह्मणोऽपि संसारित्वापत्तिः । बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्ववद् घटाकाशमहाकाशयोः परिच्छिन्नत्वा-परिच्छिन्नत्ववद् एकस्यैव नभसस्तत्तत्कर्णपुटावच्छेदेन तत्र तत्र श्रोत्रतावच्च औपाधिकभेदेन संसारित्वासंसारित्वव्यवस्थोपपत्तेः ।
अत एव दुःखानुसन्धानरूपस्यानर्थस्य उपहितनिष्ठत्वेन तस्य कल्पितत्वेन बद्धस्य निवृत्तिरेव, न तु मोक्ष इत्यापात इति निरस्तम् । उपाधेः कल्पितत्वेन निवृत्तावप्युपधेयस्याकल्पिततया तन्निवृत्त्ययोगान्मोक्षान्वयोपपत्तेः । न च प्रतिबिम्बस्य छायावद्वस्त्वन्तरत्वेनाकाशस्यापि त्वन्मतेऽपि कार्यद्रव्यतया सावयवत्वेन तैजसाहङ्कारकार्याणां श्रोत्राणां स्वत एव भिन्नत्वेन दृष्टान्तासम्मतिरिति वाच्यम् । प्रतिबिम्बे वस्त्वन्तरत्वस्य निरसिष्यमाणत्वाद्, आकाशश्रोत्रभावस्य पररीत्या दृष्टान्तत्वाद्, ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति श्रुतेर्विशिष्टस्यैव भोक्तृत्वात्तस्य भिन्नत्वाद् व्यवस्थेति कौमुद्युक्तप्रकारेणापि अनुसन्धानाननुसन्धानोपपत्तेश्च ।
अत एव शुद्धचिन्मात्रगतत्वे तत्र भेदाप्रतीत्या भेदस्य कल्पितस्याप्यभावः । भावे वा भेदस्यैव व्यवस्थारूप स्वकार्यकारिणो वह्नावुष्णत्ववद्धर्मिज्ञानाबाध्यत्वम् । अभेदस्य त्वव्यवस्थारूप-स्वकार्याकारिणोऽनुष्णत्ववन्मिथ्यात्व मित्यापातः । आविद्यकभेदहीनस्य मुक्तस्य संसारिदुःखानु-भवापातश्च इति निरस्तम् । व्यवस्थायाः स्वसमानसत्ताकभेदकार्यत्वेन स्वाधिकसत्ताक-भेदाऽनाक्षेपकत्वाद्, अव्यवस्थायाः शुद्धचैतन्याभेदाकार्यत्वेन तदकारित्व प्रयुक्तमिथ्यात्वस्यापादयितुम् अशक्यत्वात् । उपाध्यभेदस्यैव तत्र तन्त्रत्वात् । किञ्चोपाधिकल्पितांशजीवानां वाऽनुसन्धानमापाद्यते? अंशिनो ब्रह्मणो वा? नाद्यः, हस्तावच्छिन्नेन पादावच्छिन्नदुःखाद्यननुसन्धानात् । न च न वयं भोगायतनानां साङ्कर्यमापादयामः । येन पादे मे वेदना शिरसि मे सुखमिति न स्यात्, किंत्वनुसन्धानमात्रम्, तच्चांशानामस्त्येव, अन्यथा चैत्रदेहलग्नकण्टकोद्धरणाय मैत्रस्येव पादलग्नकण्टकोद्धरणाय हस्तस्य व्यापारो न स्यादिति वाच्यम् । पादावच्छिन्नदुःखस्य हस्तावच्छिन्नेऽनुत्पादनवत् चैत्रीयदुःखाद्यनुसन्धानस्य मैत्रेऽनुत्पादः । हस्ते दुःखप्रयोजकसामग्रीविरहवत् मैत्रेऽनुसन्धानप्रयोजकोपाध्यैक्याभावात् । तथा च हस्तावच्छेदेनानुसन्धानमस्त्येवेति न तत्र व्यापाराभावापत्तिः । नान्त्यः । तस्याभोक्तृत्वेन भोगाप्रसङ्गात्, दुःखादिज्ञानमात्रस्य च सर्वज्ञे तस्मिन्निष्टत्वात् । न च भोक्तृजीवाभिन्नत्वेन ब्रह्मणोऽपि भोक्तृत्वापत्तिः, बिम्बप्रतिबिम्बवद्व्यव-स्थोपपत्तेः । अनुसन्धानस्यावच्छिन्नगततया शुद्धब्रह्मण्यापादनायोगाच्च ।
न चैतावता बन्धमोक्षयोर्वैयधिकरण्यम्, अविद्यात्मकबन्धस्य शुद्धगतत्वेन सामानाधिकरण्योपपत्तेः अवच्छिन्नस्यानु सन्धातृत्वेऽप्यवस्थात्रयानुस्यूताविद्यावच्छिन्नद्वारा शुद्धे अनुसन्धातृत्वस्येष्टत्वाद्, ‘अनेन जीवेन’ इत्यादिश्रुतेः । किञ्च यथा स्वकर्णपुटपरिच्छिन्ननादोपलम्भे भागान्तरवर्त्तिनादानुपलम्भः, तथा सुखदुःखाद्युपलम्भानुपलम्भौ । न चात्मभेदे कर्णपुटानां तत्तदीयत्वनियामकवदेकात्मवादे सर्वदेहानां स्वीयत्वेन तत्तदीयत्वनियमाभावेन व्यवस्थानुपपत्तिरिति वाच्यम् । तवात्मभेदेनेवावच्छेदकज्ञानादिभेदेन मम व्यवस्थोपपत्तेः । किञ्च व्यवस्थया भेदं वदन् प्रष्टव्यः केयं व्यवस्था ? न तावद्धर्मभेदः । एकस्मिन्नेव सुखदुःखदर्शनेन व्यभिचारात् । भिन्नाश्रयधर्मोक्तौ अन्योन्याश्रयात् । विरुद्धधर्मोक्तौ तु विरुद्धत्वस्य सहानवस्थानरूपत्वे असिद्धेः । बाध्यबाधकभावरूपत्वे तस्यैकाश्रयत्वेनोपपत्त्या भेदासाधकत्वात् । नाप्यनुसन्धानाननुसन्धाने । तयोरुक्तेन प्रकारेण उपाधिभेदेनोपपत्तेरात्म-भेदासाधकत्वस्योक्तत्वात् । अत एव बन्धमुक्त्यादिव्यवस्थापिन स्वाभाविकभेदसाधनाय, तत्तदुपाध्युपगमापगमाभ्यामेव व्यवस्थोपपत्तेः । न चोपाधेरप्युपहित निष्ठत्वेनात्माश्रयादिर्दोषः । उपाधेरविशेषणत्वेन व्यक्त्यन्तरानपेक्षत्वेन चात्माश्रयादिचतुर्णामनवकाशात् ।
एतेन शुद्धनिष्ठत्वे किमेकैकोपाध्यपगमो मुक्तिः ? उत सर्वोपाध्यपगमः ? नाद्यः, सदा मुक्तिरेव, न तु बन्ध इत्यापातात् । नान्त्यः, अधुना बन्धः एव न कस्यापि मुक्तिरित्यापातादिति निरस्तम् । येनोपाधिना यस्य चैतन्यस्य परिच्छिन्नत्वं तस्मिन् चैतन्ये तदुपाध्यपगमस्यैव मुक्तित्वे नानाजीववादे पूर्वोक्तदोषानवकाशात् । एकजीववादे सर्वोपाध्यपगमस्यैव मुक्तितया इदानीं मुक्त्यभावस्येष्टत्वात् । ननूपाधेः कथं भेदकत्वम् । तथा हि– उपाधिः किमेकदेशेन सम्बध्यते कृत्स्नेन वा ? आद्ये त्वन्मते स्वाभाविकांशाभावेनौपाधिकत्वं वाच्यम् । तथा चानवस्था । अन्त्ये न भेदकता । कृत्स्नस्यैको-पाधिग्रस्तत्वात् । गगनादावपि स्वाभाविकांशाभावे घटाद्युपाधिसम्बन्धो न स्यादेव । तदुक्तम्–
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ।
एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ।। इति चेन्न ।
सर्वविकल्पासहत्वेन मिथ्याभूतस्यैवोपाधेर्मिथ्याभेद प्रयोजकत्वस्य प्रागेवोपपादनात् । यथा चात्मनां सर्वगतानां भेदे व्यवस्थानुपपत्तिः, तथा प्रपञ्चितं भाष्यकृद्भिः ।। इत्यद्वैतसिद्धौ जीवभेदानुकूलतर्कभङ्गः
।। २० ।।
न्यायामृततरङ्गिणी
चक्षुरादिकरणभेदवदिति ।। नन्वन्यकरणभेदेन तथाऽदर्शनेऽप्यन्तःकरणभेदस्य तदैक्याध्यासापन्नेऽननु सन्धानप्रयोजकत्वं कल्प्यते । अन्यथा ब्रह्मैक्यस्य जीवे श्रुतिसिद्धतया सर्वानुसन्धानापत्तेः । मैवम् । जीवब्रह्मभेदस्यैव श्रुतिसिद्धतया तद्भेदेऽप्यननुसन्धानोपपत्तेः ।। प्रत्यहमिति ।। ननु संस्कारात्मना स्थितस्यैव पुनरुद्बोधेन तत्रान्तःकरण भेदाभावः । मैवम् । संस्कारस्यानन्तःकरणत्वेऽननुसन्धानप्रसङ्गात् । तत्त्वे सुप्तौ लयानुपपत्तेः ।। सुप्तप्रलीनेति ।। ननु तेषामनुसन्धानप्रयोजकान्तःकरणैक्याध्यासरूपसामग्रीविरहान्न संसारिदुःखानुभवः । न हि प्रतिबन्धकमात्रेण कार्यविरहः किन्तु सामग्रीविरहेणापि । मैवम् । मुक्तौ स्वरूपसुखाननुसन्धानस्य वक्ष्यमाणत्वात् ।। मुक्ताविति ।। न च तस्याजन्यत्वे-नान्तःकरणानपेक्षा । सुखादिसाक्षिणोऽपि तत्त्वात् ।। उक्तरीत्येति ।। चक्षुरादिभेदवदित्यर्थः ।। मुक्तस्येति ।। ननु वैषयिकसुखाद्यनुसन्धानेऽविद्यैकत्वस्य तन्त्रत्वेन स्वप्रकाशस्वरूपस्फुरणे तदनपेक्षेति न स्वरूप सुखाननुभवप्रसङ्गः । मैवम् । मोक्षकालीनसुखस्फुरणस्येदानीमपि सत्त्वापातात् । नन्वविद्यातन्निवृत्त्योर्बन्धमोक्षयोः शुद्धगतत्वेऽपि दुःखाद्यनुसन्धातृत्वमुपहित एवेति न शुद्धभेदापादकमित्यत आह– दुःखानुसन्धानरूपस्येति ।।
निवृत्तिरेवेति ।। ननूपाधेः कल्पितत्वेन निवृत्तावप्युपधेयस्याकल्पिततया तदनिवृत्तेस्तस्य मोक्षान्वयितोपपद्यते । मैवम् । घटे निवृत्ते घटाकाशस्येवोपाधिनिवृत्तावुपहितस्वरूपस्यापि निवृत्यवश्यम्भावात् ।। प्रतिबिम्बस्येति ।। तस्योपपादयिष्यमाणत्वात् ।। एतेनेति ।। तत्वज्ञानेन भोक्तुर्निवृत्तिरेव न तु मुक्तिरित्यापातेन । ननु दुःखाद्यनुसन्धातृत्वरूपः संसारः शुद्धगत एव । न च तस्य सर्वजीवदुःखानुसन्धानापत्तिः । कल्पितभेदादननुसन्धानोपपत्तेरत आह– शुद्धचिन्मात्रेति ।। धर्मिज्ञानाबाध्यत्वमिति ।। ननु व्यवस्थायाः स्वसमान-सत्ताकभेदकार्यत्वेन न तया भेदस्य धर्मिज्ञानाबाध्यत्वाक्षेपः । मैवम् । यस्मिन्धर्मिणि यत् स्वकार्यकारि तत् तद्धर्मिज्ञानाबाध्यमिति व्याप्तिबलेन तदाक्षेपसम्भवात् ।। अभेदस्य त्विति ।। पूर्ववद्व्याप्तिबलेनाभेदस्य मिथ्यात्वम् ।। एतेन नेत्राद्यवच्छिन्नस्येति ।। हस्ताद्यवच्छिन्नस्याप्यनुसन्धानस्यानुभवसिद्धत्वेन नेत्राद्यवच्छिन्नस्य शब्दाद्युपलम्भजन्य-सुखाद्यनुसन्धानस्य च सत्त्वेन तदननुसन्धानम् असिद्धमित्यर्थः । योऽहमिति ।। द्रष्टुः शब्दानुसन्धानवच्चेतनैक्ये सति शरीरभेदेऽप्यनुसन्धानानुभवाच्छरीरान्तरेऽननुसन्धानम् असिद्धमित्यर्थः ।।
अन्तःकरणस्येति ।। अन्तःकरणतदवच्छिन्नानां भिन्नत्वान्नानुसन्धानम् ।। शुद्धब्रह्मगतत्वोक्तेरिति ।। बन्धमोक्षयोः सामानाधिकरण्यानुरोधेन त्वया शुद्ध एवानुसन्धा-नात्मकभोगस्य वाच्यत्वात् । ननु शुद्धेऽविद्या, भोगस्त्वन्तःकरणावच्छिन्ने । मैवम् । चोरा-पराधेन माण्डव्यनिग्रहवद्व्यधिकरणत्वेन निरस्तत्वात् ।। तद्द्वारेति ।। अविद्यावच्छिन्नद्वारेत्यर्थः ।। शुद्धनिष्ठत्वापत्तेश्चेति ।। यत्त्वविद्यावच्छिन्नद्वारा शुद्धेऽनुसन्धातृत्वमिष्टमेव । ‘अनेन जीवेन’ इत्यादिश्रुतेरिति । तन्न । नित्यमुक्तत्वादिश्रुतेर्निर्विषयत्वस्य मुक्तोपसृप्याभावस्य च प्रसङ्गस्योक्तत्वात् ।। आत्मभेद इति ।। ननु तवात्मभेद इवावच्छेदकाज्ञानादिभेदेन मम व्यवस्थोपपत्तिः । मैवम् । चेतनैक्ये सत्यज्ञानादिभेदस्य हस्तादिभेदवदननुसन्धाना-प्रयोजकत्वस्य बहुकृत्व उक्तत्वात् ।। केनचिदिति ।। तत्वप्रदीपिकाकृता ।। नाजात इतीति ।। ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायस्तु व्याख्यातः ।।
तदुक्तमिति ।। उपाधिखण्डन इति शेषः ।। सुखदुःखादीति ।। चैतन्यैक्ये सत्यन्तःकरणाद्युपाधिभेदमात्रात्सुखदुःखादिभोगो भेदेन न दृश्येत । हस्तपादादिगतभोगवत् । यद्यपि सत्योपाधिकृतसत्यभेदे दूषणतयेदं टीकायां व्याख्यातं तथापि स्वाभाविके चैतन्यैक्ये सति सत्ये भेदेऽपि नाननुसन्धानं युज्यते किं पुनः कल्पिते भेद इत्यत्र तात्पर्यम् ।। नानादेहगेति ।। स्वरूपैक्ये सति नानादेहगतसुखाद्यनुसन्धानं सौभर्यादेर्योगिनो दृष्टम् अतस्तदेवानुसन्धाने प्रयोजकम् । ननु नानादेहगभोगानुसन्धानं योगिनोऽस्तीत्यत्र न मानं परबुद्धेरप्रत्यक्षत्वादत आह– न चेदिति ।। भोगं विना नानादेहधारणे प्रयोजनाभावात्प्रेक्षावतो योगिनो नानादेहेच्छा न स्यात् । अतोऽस्त्येव योगिनो नानादेहगभोगानुसन्धानमित्यनुमीयत इत्यर्थः । स्वाधिकरणे स्वकार्याकारिण ऐक्यस्य मिथ्यात्वं स्यादित्यत्र सम्मतिमाह– अनुसन्धानरहितमिति ।। ननु निरंशेऽप्याकाशे यथोपाधिसम्बन्धस्तथा चैतन्येऽपि स्यादत आह– एवमिति ।। गगनादावपि स्वाभाविकांशभेदे सत्येवोपाधिः सम्बध्यते ।। न चेदिति ।। स्वाभाविकांशो गगनादौ नाङ्गीक्रियत इति चेत्तर्ह्युपाधिसम्बन्धस्तत्रैकदेशे वा भवति सर्वस्मिन् वा । आद्ये त्वन्मते गगने स्वाभाविकांशाभावेनानवस्था । अन्त्ये न भेदकः ।। आत्मभेदेऽनुकूलतर्काः ।। २० ।।
न्यायामृतकण्टकोद्धारः
ननूक्तानुमानानां विपक्षे बाधकाभावेनाप्रयोजकत्वान्न तैर्भेदसिद्धिरित्यत आह– आत्माभेदे त्विति ।। न चेति ।। उपाधिकृतो भेद उपाधिभेदः । तथा चोपाधिकृतभेदाभावस्यानुसन्धाने तन्त्रत्वात् । तस्य च प्रकृतेऽभावान्नानु सन्धानमिति भावः ।। मातृसुखादेरिति ।। न च स्वरूपैक्यमपि प्रवेश्यते, अतो नातिप्रसङ्ग इति वाच्यम् । तथा च तस्यावश्यकतया तदेवास्त्वनुसन्धाने प्रयोजकं, न विश्लिष्टोपाधिभेदाभावोऽपि । गौरवात् । अतिप्रसङ्गाभावाच्च ।। उद्यतेति ।। उद्यतायुधदोर्दण्डाः कबन्धाः । पतितानि यानि स्वशिरांसि तद्गताक्षिभिः पश्यन्तः अरीन् युधि पातयन्ति स्मेत्यन्वयः । अत्र विश्लिष्टोपाधिभेदेऽपि अनुसन्धानम् अङ्गी-कर्तव्यम् । अन्यथा पतित स्वशिरोऽक्षिभिर्दर्शनस्यायुक्तत्वापत्तेः । न च पूर्वसंश्लेष-मात्रेणानुसन्धानम् । भिन्नकालीनसंश्लेषस्य भिन्नकालीनानु सन्धानाप्रयोजकत्वात् । तत्र अननुसन्धाने ।। तद्भेदेऽपीति ।। शरीरभेदेऽपीत्यर्थः । तथा च शरीरभेदोऽननुसन्धानेऽ-प्रयोजक इति भावः ।
नन्वतीतसुखादौ शरीरभेदस्यानुसन्धानप्रतिबन्धकत्वदर्शनात् शरीर भेदोऽननुसन्धान-प्रयोजक इत्यत आह– न च वयमिति । चैतन्यैक्येऽपीति । न च शरीरादि-भेदस्याप्रयोजकत्वेऽपि अन्तःकरणभेदस्याननुसन्धान प्रयोजकताऽवश्यकी । अन्तःकरणे चिदैक्याध्यासेन शरीराद्यपेक्षया तस्य विशेषवत्त्वादिति वाच्यम् । अन्तःकरणे चिदैक्या-ध्यासस्य ममासम्प्रतिपत्तेः । ‘अहं गौरः’ इत्यादि प्रतीत्या शरीरादावपि चिदैक्याध्यासस्य त्वया स्वीकृतत्वाच्च । न च ‘मम शरीरम्’ इति भेदप्रतीत्या तद्व्यपदेशस्य गौणत्वमिति वाच्यम् । ‘मम मनः’ इति प्रतीत्या तत्रापि तत्वापत्तेः । न चान्तःकरणे चिदैक्याध्यासोऽवश्यं स्वीकर्तव्यः । अन्यथा जीवब्रह्मैक्यस्य श्रुतिसिद्धतया सर्वानुसन्धानापत्तेरिति वाच्यम् । जीवब्रह्मभेदेनैवानुसन्धानाभावोपपत्तेः । न चैक्यप्रतिपादकश्रुतिविरोध इति वाच्यम् । अनुपदमेव श्रुतीनामन्यथा व्याख्यानात् ।। त्वन्मत इति ।। न च तत्र संस्कारात्मनाऽवस्थितस्यैव पुनरुद्बोधेन न तत्रान्तःकरणभेद इति वाच्यम् । संस्कारात्मकस्य कार्याप्रयोजकत्वेनोप-चितस्यैव तथात्वेन तद्भेदस्यावश्यकत्वात् । अन्यथा स्मृतिसाधनसंस्कारे उद्बोधानुद्बोधमात्रे-णोत्पत्तिविनाशव्यवहाराभावेन सुप्तावन्तःकरणस्य लय इत्यङ्गीकारानुपपत्तेः । उद्बोधस्य सहकारिसमवधानमात्रत्वेन सर्वदा सूक्ष्मत्वापत्त्या सावयवत्वाङ्गीकारेण प्रतिकर्मव्यवस्थोप-पादनानुपपत्तेश्च ।।
।। सुप्तप्रलीनेति ।। सुप्ताश्च प्रलीनाश्च मुक्ताश्चेति द्वन्द्वः । तेषाम् अनुसन्धान-प्रयोजकान्तःकरणभेदाभावस्य सत्वादिति भावः । न चान्तःकरणैक्याध्यास एवानुसन्धानप्रयोजको, नान्तःकरणभेदाभाव इति वाच्यम् । अननुसन्धान प्रयोजका-भावस्यैवानुसन्धानप्रयोजकत्वस्यौचित्यात् । न चानुसन्धानेऽन्तःकरणैक्याध्यासः प्रयोजकोऽ-ननुसन्धाने तदभावः प्रयोजक इति वाच्यम् । ममान्तःकरणमित्यन्तःकरणैक्याध्यास-रहितानामप्यनुसन्धानदर्शनात् । एतदभिप्रायेणैवाशङ्क्य निराकरोति– न चेति । मुक्तादेरिति । न च मुक्तस्वरूपसुखानुभवस्य नित्यत्वान्न तत्र नियामकापेक्षेति वाच्यम् । जीवब्रह्मविभागादेरनादेरपि अविद्यापेक्षावत् जातेर्व्यक्तिसापेक्षतावद् अनादेरपि स्वरूपसुखानु-भवस्य तदपेक्षाया आवश्यकत्वात् ।। अन्तःकरणेति ।। ‘नानादेहगभोगानुसन्धान’ इत्यादिनेति भावः । न चात्रान्तःकरण भेद एव नेति वाच्यम् । तथात्वे चक्षुरादिभेदोऽपि न स्यात् । एकसमयावच्छेदेन विलक्षणभोगान्तःकरणाभेदस्यावश्यकत्वात् । अन्यथानेकजीवानामपि तन्न स्यात् । एकस्यानेकशरीरावच्छेदेन भोगवत् अनेकेषामपि भोगोपपत्तेरिति ।। न चेति । तथा चानेकजीवानाम् अविद्याभेदस्य सत्वान्नानुसन्धानम् । योग्यादीनां तदभावादनुसन्धानमित्यर्थः ।
ननु सुप्तावविद्याभेदाभावात् अनुसन्धानं स्यादित्यत आह– १सुप्ताविति । उक्तरीत्येति । ‘चक्षुरादिभेदवत्’ इत्याद्युक्तरीत्येत्यर्थः । न चाविद्याभेदस्य जीवभेदप्रयोजकत्वात् तद्भेदस्या-ननुसन्धानप्रयोजकत्वं स्यादिति वाच्यम् । स्वाभाविकजीवभेदवादिनां तदसिद्धेः । अन्यथा ज्ञानप्रागभावादीनामपि जीवभेदप्रयोजकत्वं स्यात् । न चाभावत्वे गौरवमिति वाच्यम् । कप्तत्वेन लघुत्वात् । न चैकस्मिन् ज्ञानप्रागभावानाम् अनेकत्वात् एकस्यापि भेदप्रसङ्ग इति वाच्यम् । अविद्याया अपि समत्वात् । अत एवाह– यावन्तीति । न च तन्मतम् अप्रामाणिकमिति वाच्यम् । ज्ञानस्याज्ञानविरोधितयाऽनुभवस्यैव तत्र मानत्वात् ।। मुक्तस्येति । तत्राविद्याभेदस्याननुसन्धानप्रयोजकस्याभावादिति भावः ।। मुक्तस्येति । न च वैषयिकसुखस्य जन्यत्वेन तदपेक्षत्वेऽपि स्वरूपसुखस्फुरणस्य नित्यत्वेन न तदपेक्षेति वाच्यम् । नित्यत्वेऽपि आवरणविगमापेक्षावत् तदपेक्षाया आवश्यकत्वात् । अन्यथा जीवब्रह्म-विभागादेरपि अविद्यापेक्षा न स्यात् । स्वाभाविकाभेदेनैवोपपत्तेर्नाविद्यादेर्जीवादिभेदकत्वम् । तदङ्गीकारे बाधकमप्यस्तीत्याह– किञ्चेति । तथा च चैतन्यस्यापि भेदप्रसङ्गः । अन्यथाऽ-नवस्थेति भावः । न चाविद्यादेरुपहितवृत्तित्वाङ्गीकारान्नोक्तदोष इति वाच्यम् । वैयधिकरण्यापरिहारात् । उपहितस्याज्ञानादिविशिष्टत्वेन अज्ञानाद्यधिष्ठानत्वायोगात् । उपहितस्य मिथ्यात्वेन निवृत्तेरावश्यकत्वे बद्धस्य मुक्तिरित्यस्याभावापाताच्च । न चोपहितशब्देनोपाध्युपलक्षितमुच्यतेऽतो नोक्तदोष इति वाच्यम् । उपलक्षितस्य चिन्मात्रत्वे चिन्मात्रवृत्तीत्यनुक्त्वा उपहितवृत्तीत्युक्तेर्व्यर्थत्वात् । उपलक्ष्येऽप्युपलक्ष्यताव च्छेदकादेरा-वश्यकतया विशिष्टत्वापरिहाराच्च । शुद्धगतत्वेच शुद्धस्य संसारित्वे तद्भावस्यामुक्तित्वापाताच्च ।
नन्वभेदे बिम्बप्रतिबिम्बादेरवदातत्वादिवत् व्यवस्था भविष्यतीत्यत आह– एतेनेति । अनेन हि श्यामत्वादिकं यथोपहितनिष्ठं तथाऽज्ञानादिसंसार उपहितनिष्ठ इत्युक्तं भवति । तन्नोपपद्यत इत्याह– दुःखानुसन्धानरूपस्येति । न च विशेषणस्योपाधेर्निवृत्तावपि न विशेष्यस्य निवृत्तिरिति वाच्यम् । विशेष्यस्य बन्धानाधारत्वेनाबद्धत्वात् । अन्यथा व्यवस्थाद्यापातात् ।। प्रतिबिम्बस्येति । न च बिम्बप्रतिबिम्बयोरैक्यं साधयिष्यत इति वाच्यम् । तस्याग्रे विस्पष्टमाकर एव निराकरिष्यमाणत्वात् । न च परमताभिप्रायेणाकाश-दृष्टान्त इति वाच्यम् । नैयायिकैस्तथाऽङ्गीकृतत्वेऽपि मया कार्यद्रव्यत्वाङ्गीकारात् । अव्याकृताकाशे च स्वाभाविकप्रदेशभेदाङ्गीकारात् ।। एतेनेति । बद्धस्य निवृत्त्यापातेनेत्यर्थः । श्रुतौ युक्तशब्दप्रयोगात् सङ्गो भोक्तेत्यादिवत् आत्मनिष्ठमेव भोक्तृत्वं, मन आदिकं तु सहकारीति श्रुतेरर्थः । न तु विशिष्टं भोक्तृ इत्यर्थः । बन्धस्य शुद्धचिन्मात्रनिष्ठत्वे दूषणान्तरमाह– शुद्धेति । तत्र शुद्धचितीत्यर्थः । भेदस्य प्रतीतावेव तस्य कल्पितत्वम् । भ्रान्तिप्रतीतत्वस्यैव कल्पितत्वत्वात् । तथा च प्रतीतत्वं कल्पितत्वव्यापकम् । अतस्तन्निवृत्त्या तन्निवृत्त्यापादनं युक्तमित्यर्थः ।। भावे चेति । कथञ्चन । उपाध्यादिनेत्यर्थः । मिथ्यात्वं प्रातिभासिकत्वम् । न च व्यवस्थायाः स्वसमानसत्ताकभेदसापेक्षत्वेन व्यावहारिकभेदाक्षेपकत्वेऽपि न पारमार्थिकभेदाक्षेपकत्वमिति वाच्यम् । बाधकाभावेन व्यवस्थासत्यत्वात् । बाधकत्वेनाभिमतानां परिहृतत्वात् । परिहरिष्यमाणत्वाच्च । अन्यथाऽऽरोपस्य स्वसमानसत्ताकाधिष्ठानसापेक्षत्वेन ब्रह्मणोऽपि सत्यत्वं न स्यात् । न चाव्यवस्था नाभेदकार्यमिति वाच्यम् । अन्वयव्यतिरेकाभ्यां तस्यास्तत्कार्यत्वावधारणात् । अन्यथा व्यवस्थाया भेदकार्यत्वं न स्यात् । ततश्च कल्पितभेदाङ्गीकारो व्यर्थः स्यात् ।। कल्पितेति । त्वया कल्पितभेदस्याविद्याकार्यत्वेनाविद्याहीने मुक्ते तदनङ्गीकारादिति भावः ।
ननु बन्धस्य नोपाधिविशिष्टनिष्ठत्वम् । किन्तु चिन्मात्रनिष्ठत्वम् । उपाधिस्तु तदवच्छेदकः । नैतावतोपाधेराधारकोटौ निवेशः । दण्डत्वस्य कारणतावच्छेदकत्वेऽपि कारणकोटौ निवेशाभावात् । अतो न बद्धस्य निवृत्तिरित्यत आह – एतेनेति । नित्यमुक्तत्वश्रुतेरिति । चिन्मात्रस्य सदाबद्धत्वादिति भावः । ननु नित्यमुक्तत्वश्रुतेर्न निर्विषयत्वम् । उपाध्यनवच्छिन्नविषयत्वसम्भवादित्यत आह– विस्तृतं चेति । यथा चैतत्तथा तत्रैवास्माभिर्निरूपितम् । तस्मात् स्वरूपैक्यस्यैव प्रयोजकत्वात् । अत्र व्यभिचारं बाधं वा शङ्कते– नन्विति । हस्तावच्छिन्नस्य पादावच्छिन्नदुःखानुसन्धाने पादावच्छिन्नदुःखादि-साक्षात्कारकृतनीचोच्चत्वादिविक्रियारूपत्वे पूर्वोक्तं किं दूषणम् ? ज्ञानमात्ररूपत्वे त्विष्टापादनमेवेति द्रष्टव्यम् । न तावदित्येकं वाक्यम् । नन्वनुसन्धाने हस्त इत्यादि न स्यादित्युक्तमित्यत आह– न हीति । साङ्कर्यम् ऐक्यम् । तच्चेति । नन्वननुसन्धान-प्रयोजकोपाधिभेदस्य सत्वात् कथम् अनुसन्धानमिति वाच्यम् । तस्याप्रयोजकत्वस्य तवापि सम्मतत्वात् । त्वदभिप्रेतस्यान्तःकरणभेदस्याविद्या भेदस्य वा तत्राभावात् । अन्यथांऽशिनोऽपि न स्यात् । उपाधिभेदस्य तत्र विद्यमानत्वात् । न चानुसन्धानप्रयोजक-मुपाध्यैक्यं हस्तावच्छिन्नपादावच्छिन्नयोर्नेति वाच्यम् । तथात्वे हस्तावच्छिन्नदुःखानुसन्धानं शरीरावच्छिन्नेंऽशिनो न स्यात् । न चेष्टापत्तिः । अपसिद्धान्तात् । अंशिनोऽसंसारित्वापत्तेश्च । अन्यथेति । हस्तावच्छिन्नस्य पादावच्छिन्नदुःखाननुसन्धान इत्यर्थः । नन्वंशिप्रेरणया तदुपपत्तिः । अंशिव्यापारकल्पने गौरवात् । व्यवस्थानानुपलब्धेश्च । अनेनैवाभिप्रायेणाशङ्क्य निषेधति– न चेति ।
नन्वेकोपाधिविशिष्टस्य यद्यपरोपाध्यवच्छिन्नधर्मोपलम्भस्तर्हि नेत्रावच्छिन्नात्मनः कर्णावच्छिन्नशब्दोपलम्भः स्यात् । तत्रैकोपाधिविशिष्टतैव प्रतिबन्धिकेति वाच्यम् । तद्वत् प्रकृतेऽपि भविष्यतीति कस्यचिन्मतं दूषयति– एतेनेति । अत्र शब्दानुपलम्भो नेत्रस्या-स्तीत्युच्यते उत नेत्रावच्छेदेन विद्यमानस्य ? नाद्यः । इष्टत्वात् । न द्वितीय इत्याह– योऽहमिति । न चेदमंशिनोऽनुसन्धानं, नांशस्येति वाच्यम् । एवं वदतस्तव कोऽभिप्रायः ? किमंशानाम् अनुसन्धानं नास्त्येव ? अथवा नेदम् अनुसन्धानं, किन्त्वतिरिक्तमेवेति ? नाद्यः । जीवानामपि तदभावापत्तेः । ब्रह्मण एव तदापत्तेः । न द्वितीयः । एतदतिरिक्त-स्यानुसन्धानस्यानानुभविकत्वात् । तस्मादिदमेवांशानुसन्धानमिति वक्तव्यम् । भोक्तृ-त्वस्येति । न च सुखादिसाक्षात्कारूपम् अनुसन्धानं सर्वज्ञब्रह्मण इष्टमेवेति कथमापादनमिति वाच्यम् । सुखादिसाक्षात्कारकृतोच्चतादिरूपस्यापादनात् । त्वया शुद्धब्रह्मणः सार्वज्ञानङ्गी-काराच्च । न च बिम्बप्रतिबिम्बयोरेव तत्वादिवत् व्यवस्थोपपत्तिरिति वाच्यम् । प्रतिबिम्बादेर्वस्त्वन्तरत्वस्याग्रे साधनात् । ननु ‘अनश्नन्नन्यः’ इति श्रुत्या बाधितत्वान्न ब्रह्मणो दुःखानुसन्धानापादनमित्यत आह– आपादने चेति । अन्यथा निर्धूमत्वाद्यापादनमपि न स्यात् । प्रत्यक्षबाधादिति भावः ।
ननु तथापि नेदमापादनं सम्भवति । अनुसन्धातृत्वस्यान्तःकरणत्वतदवच्छिन्नत्वान्यतर व्याप्यत्वात् । ब्रह्मणि च व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वात् । अतः प्रशिथिल-मूलमिदमापादनमित्याशङ्क्य निषेधति– न चेति । दुःखभोगस्येति । अन्यथा बन्धमोक्षयोर्वैयधिकरण्यापातादिति भावः । तथा च तदुभयम् अनुसन्धातृत्वव्यापकं न भवति । क्वाप्यदृष्टत्वात् अप्रयोजकत्वाच्च । ननु तथापि नेदमापादनं सङ्गच्छते कारणा-भावादिनाऽन्यथासिद्धत्वादित्याह– एतेनेति । नन्वभ्रान्तत्वस्य कथम् अनुसन्धानाभावे हेतुत्वमत आह– भ्रान्तिरूपमिति । अहं दुःखीत्यादेर्भ्रान्तिरूपत्वं च दुःखादेर्मिथ्यात्वादिति पराभिमानः ।। कल्पितस्येति ।। पूर्वोक्तयुक्तेरिति भावः । तथा चान्तःकरणादेरपि कारणस्य तत्रापादनान्न कारणाभावादिनाऽन्यथासिद्धिरिति भावः ।। भ्रान्तेति । इदं च परमताभि-प्रायेण । दुःखादेः सत्यत्वस्योपपादितत्वात् ।
ननु ब्रह्मण्यनुसन्धानापादनमयुक्तम् । तस्यानंशित्वात् । अविद्यावच्छिन्नजीव-स्यान्तःकरणावच्छिन्नाननुसन्धातॄन् प्रत्यंशित्वाङ्गीकारात् । तत्र चान्तःकरणावच्छिन्नद्वारे-ष्टत्वात् । तथा चेष्टापादनरूपत्वात् तर्काभासोऽयमित्येतदतिदेशेन दूषयति– एतेनेति । चिन्मात्र एवेति । उपलक्षणमेतत् । नांशित्वमुखेनापादनं, किन्त्वभेदमुखेन । तथा च ब्रह्मणोंऽशित्वाभावेऽपि जीवाभेदस्य सत्वादापादनम् अक्षतमेवेति द्रष्टव्यम् । किञ्च ब्रह्मणोऽनंशित्वाङ्गीकरणं व्यर्थम् । अनुसन्धानस्यापरिहार्यत्वादित्याह– अवच्छिन्नस्येति । ननु विशिष्टनिष्ठम् अनुसन्धातृत्वं कथं शुद्धचित्यापाद्यते ? विशिष्टशुद्धचितोर्भेदात् । अन्यथाऽतिप्रसङ्गादित्यत आह– अन्तःकरणावच्छिन्नस्यैवेति । तथा च ब्रह्मणो दुःखाद्यनुसन्धानापादनम् अक्षतम् । ननु तथापि जीवानाम् अन्योन्यदुःखाद्यनुसन्धानापादनम् अयुक्तम् । यथाऽऽकाशस्यैकत्वेऽपि स्वकर्णपुटावच्छेदेन नाद उपलभ्यते, न कर्णान्तरा-वच्छेदेन, तथा चैतन्यैक्येऽपि स्वशरीरावच्छेदेनोत्पन्नम् अनुसन्धीयते, न परशरीरावच्छेदेन । अतो व्यवस्थोपपद्यत इत्येतदप्यतिदेशेन दूषयति– एतेनेति । स्वीयपरविभागो न भवन्मते सम्भवति, तन्नियामकाभावात् ।
भेदवादे तु भेदस्यैव नियामकत्वात् । अतो दृष्टान्तो दार्ष्टान्तिकं वा न युज्यत इति दूषयति– आत्मभेद इति । न च तव भेदस्येव ममाप्यज्ञानभेदस्य नियामकत्वं भविष्यतीति वाच्यम् । यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते तद्भेदेऽप्यनुसन्धानदर्शनात् । तद्भेदेन नियमस्य क्वाप्यदृष्टत्वात् । उपाधिभेदस्य त्वप्रयोजकत्वात् । इदम् अन्योन्याश्रयत्वं सिद्धान्त उक्तमित्याह– तदिति । कर्मभेदस्य कर्मनियमस्य इदं कर्म तदीयं नान्यदीयमिति नियमस्य सिद्धौ तत्कर्मनिर्मितत्वेनोपाधिविभिन्नता, अयमुपाधिरेतदीयो नान्यदीय इति नियमः सिध्यति । तत्सिद्धौ उपाधिनियमसिद्धौ तत्सिद्धिः कर्मनियमसिद्धिरित्यन्योन्याश्रय इत्यर्थः । अत उभयथाप्यापादने न कोऽपि दोषः । तस्मात् व्यवस्थानुपपत्त्या जीवानां जीवब्रह्मणोश्च भेदोऽङ्गीकार्यः ।
अत्र मकरन्दोक्तदूषणम् अनूद्यातिदेशेन दूषयति– एतेनेति । अत्र व्यवस्था किं धर्मभेदो वा, विरुद्धधर्मभेदो वा ? अत्रापि विरोधः भावाभावरूपो वा, परस्पराभावव्याप्यत्व-रूपसहानवस्थानरूपो वा, वध्यधातुकभावरूपो वेति विकल्पं हृदि निधाय दूषयति– व्यवस्थाशब्देनेति । अन्योन्याश्रयादिति । आत्मनां भेदसिद्धौ सुखादिना भिन्नाश्रय-धर्मभेदसिद्धिः । तत्सिद्धौ च तद्रूपव्यवस्थया आत्मनां धर्मिणां भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः । सुखादीनाम् अन्तःकरणधर्मत्वेन तद्भेदात् कथञ्चिदन्तःकरणभेदसिद्धावपि नात्मभेदसिद्धिरित्यपि द्रष्टव्यम् ।। सहेति ।। उपलक्षणमेतत् । भावाभावपक्षस्याप्य-सिद्धिर्द्रष्टव्या ।। नाजात इति न्यायेनेति । ‘नाजात एकोऽन्यं हन्ति, नाप्यन्याश्रितम् अन्यकालीनं च । मूषकमार्जारयोरजातयोरन्यदेशयोर्भिन्नकालीनयोर्वध्यग्घातुकभावादर्शनात् वध्यधातुकविरोधं वदताऽवश्यं तयोः सामानाधिकरण्यं वाच्यम् । तथा च न तादृशधर्मभेदेन धर्मिभेदसिद्धिरित्यर्थः । एतेनेति परामृष्टं हेतुं दर्शयति– व्यवस्थेति । न चोपाधिभेदादिनाऽनु-सन्धानादिव्यवस्थोपपत्तिरिति वाच्यम् । तदप्रयोजकत्वादेः पूर्वमुक्तत्वात् । तर्कव्युत्पादन-मुपसंहरति– तस्मादिति । सुखादीति । तदनुसन्धानादीत्यर्थः ।
उक्तं तर्कस्वरूपं सिद्धान्तारूढं करोति– तदिति । स्वरूपैक्ये चेतनानां स्वरूपैक्ये । सुखदुःखादिभोगः सुखाद्यनुसन्धानरूपः । भेदतः अयं सुखी अयं नेति व्यवस्थया । न दृश्यः न दृश्येत । व्याप्तेः प्रसिद्धत्वद्योतनाय हिशब्दः । ननूपाधिभेदादनुसन्धानोपपत्तिरित्यत आह– उपाधिभेदोऽपीति । उदाहरति– यथेति । ननु विश्लिष्टोपाधि भेदोऽननुसन्धाने प्रयोजक इत्यत आह– नानेति । तथा च स्वरूपैक्यमेव प्रयोजकमिति भावः । नन्वनु-सन्धानाभावेऽपि स्वरूपैक्यं किं न स्यादित्यत आह– उक्तं चेति । सुखादिव्यवस्थान्तरा-ण्यप्यनुपपन्नानीत्याह– एवमिति । ननु कथं मुक्तव्यवस्थानुपपत्तिः ? तत्तदुपाध्यवच्छिन्नस्य तत्तदुपाध्यपगमेन मुक्तत्वसम्भवादित्याशङ्क्य निषेधति– न चेति । उपाधीति । तथा चोपाधिसम्बन्ध एवानुपपन्न इति भावः । न चोपाधीनाम् अविशेषणत्वान्नान्योन्याश्रयादिक-मिति वाच्यम् । उपलक्षणत्वेऽपि कदाचित् सम्बन्धस्यावश्यकत्वात् अन्यथोपलक्षणत्वा-सम्भवात् ।
ननूपाधिसम्बन्धो नोपहितनिष्ठः, येनान्योन्याश्रयादिकम् । किन्तु शुद्ध एवेत्यत आह– शुद्धनिष्ठत्वेऽपीति । उपलक्षणमेतत् । शुद्धस्यासङ्गतयोपाधिसम्बन्धायोगात् । उपाधीनां चैतन्यमात्रावच्छेदकतया साङ्कर्यापादकत्वानुपपत्तेश्चेत्यपि द्रष्टव्यम् । ननु बन्धस्य कल्पिततया सदा मुक्तत्वेन नोक्तदोष इत्यत आह– त्वन्मत इति । न च कल्पितसम्बन्ध निवृत्ति-र्नापेक्षितेति तदभावो नानिष्ट इति वाच्यम् । तथात्वे तदभावार्थं श्रवणादिप्रयत्नो न स्यात् । ‘तरति शोकमात्मवित्’ इत्यादिश्रुतीनां निर्विषयत्वं च स्यात् । तथा च बद्धमुक्तव्यवस्थादौ औपाधिकभेदोऽप्रयोजक इत्युपसंहरति– तदेवमिति । उपाधेर्भेदकत्वम् अङ्गीकृत्य दूषण-मुक्तम् । इदानीमुपाधेर्भेदकत्वमेव न सम्भवतीत्याह– किञ्चेति । ननु गगनादावुपाधेर्भेदकत्वम् अवश्यम् अङ्गीकर्तव्यम् । तत्र स्वाभाविक भेदाभावात् । औपाधिकभेदाभावे च ‘इह पक्षी नेह पक्षी’ इति पक्षितदभावौ न स्याताम् । विरोधादित्यत आह– एवमिति । तथा च तत्रापि स्वाभाविका अंशा अङ्गीकर्तव्याः । अन्यथोक्तदोषस्तत्रापि स्यादिति भावः । गगना-दावौपाधिकभेदाभावं सिद्धान्तारूढं करोति– तदुक्तमिति । न चेत् स्वाभाविकभेद इत्यर्थः । आत्मभेदेऽनुकूलतर्काः ।। २० ।।
न्यायामृतप्रकाशः
अतीतादीति ।। भवन्मतेऽतीतादिशरीरभेदसद्भावान्न तत्र सुखाद्यनुसन्धानमिति शरीरभेदस्याननुसन्धान प्रयोजकतायाः कप्तत्वात्तद्वन्मयाऽप्यननुसन्धाने शरीरभेदस्तन्त्रत्वेनोच्यत इत्यर्थः । ननु यौवनावस्थापन्नदेहस्य बाल्यशरीरेणात्यन्तभेदाभावाद्युक्तम् अनुसन्धानमित्यस्वरसादाह– जातीति ।। नन्वनुसन्धानं नाम वर्तमानत्वेनानु भवस्तथा स्मरणं वा । तथा च यौवनावस्थायाम् ‘अहं बाल्ये सुखीत्यादिकम् अनुसन्धानमेव न भवतीत्यतो नोक्त दोष इत्यत आह– न चेति ।। अननुसन्धास्येति ।। तथा च तत्रान्तःकरणभेदे सत्यप्यनुसन्धान सद्भावाद्व्यभिचार इति भावः ।। सुषुप्ताविति ।। तत्रान्तःकरणस्यैवाभावेन तदेकत्वादेर्दूरापास्तत्वादिति भावः ।। उक्तत्वादिति ।। त्वन्मत इत्यव्यवहितपूर्वग्रन्थेनेत्यर्थः ।। ज्ञानप्रागभावेति ।। उक्तरीत्या चक्षुरादिभेदवज्ज्ञान-प्रागभावभेदस्यानुसन्धान भेदप्रयोजकत्वं नास्ति । एकस्मिन्नेव पुरुषेऽनेकेषां ज्ञानप्रागभावानां सत्वेऽपि अनुसन्धान दर्शात्तद्वदित्यर्थः ।। मुक्तस्येति ।। अननुसन्धानप्रयोजकाविद्यारूपोपाध्यभावादित्यर्थः ।। वैयधिकरण्येति ।। मुक्तेः शुद्धचिन्मात्र निष्ठत्वाङ्गीकारादिति भावः । ‘श्यामत्ववत्’ इत्यादौ सर्वत्र औपाधिकभेदेनेति शेषः ।। औपाधिकभेदेनेति ।। उपाधिकृतभेदस्य भास्करमते चैतन्य एव सत्वेनेत्यर्थः ।। बद्धस्येति ।। बन्धरूपानर्थवतो विशिष्टस्योपाधिनिवृत्तौ निवृत्तिर्नाश एव स्यात् न तु मोक्षः । तथा च बन्धमोक्षयोर्वैयधिकरण्यमेवेति भावः ।
पूर्वोपन्यस्ते एतेनेति मते श्यामत्वादिदृष्टान्तवैषम्यरूपदोषान्तरमाह– दुःखादीति ।। उपाधि-धर्मत्वाभावेन उपाधिप्रयुक्तधर्मवत्त्वाभावेन । एवमेव क्वचित्पाठोऽपि । श्यामत्वादेरुपाधिप्रयुक्तत्वादिति भावः ।। वस्त्वन्तरत्वेनेति ।। बिम्बादत्यन्तभिन्नपदार्थत्वेनेत्यर्थः ।। सावयवत्वेनेति ।। तथा च ‘आत्मन आकाशः सम्भूतः’ इति श्रुतेः कार्यद्रव्यतया आकाशस्य सावयवत्वेन तत्र परस्परं भेदः स्वाभाविक एवेति त्वयाऽङ्गीकारादित्याशयः । यच्चोक्तम् ‘एकस्यैव नभसः’ इत्यादि तत्र परस्परं भेदस्यौपाधिकत्वाभावमुक्त्वांशिनो नभसः सकाशादपि भेदः स्वाभाविक एवेत्याह– तैजसेति ।। भिन्नत्वेनेति ।। परस्परमिति शेषः । तथा चोपाधिप्रयुक्तश्चैतन्ययोः परस्परं भेद इत्ययुक्तमित्यर्थः ।। एतेनेति ।। विशिष्टस्यैवानार्थान्वयेन कल्पितस्य तस्य निवृत्तिरेव न तु मोक्ष इति बन्धमोक्षयोर्वैयधि करण्यापातेनेत्यर्थः ।। विशिष्टस्यैवेति ।। आत्मशब्दोक्तदेहेन्द्रियमनोयुक्तस्य विशिष्टत्वादित्यर्थः । व्यवस्था अनुसन्धानतदभावरूपा ।। तद्द्वारेति ।। विशिष्टे विशेष्यस्यानुस्यूतत्वाद् अविद्यावच्छिन्न-स्यानुसन्धाने तद्द्वारा शुद्धस्याप्यनुसन्धानापरिहारादित्यर्थः ।। तद्गतस्येत्यादि ।। अन्तःकरणा-वच्छिन्नगतस्येत्यर्थः । शुद्धस्याविद्या अवच्छेदिका अविद्यावच्छिन्नस्यान्तःकरणम् अवच्छेदकम् इत्यङ्गीकारेणान्तःकरणावच्छिन्नगतस्याशुद्धनिष्ठत्वं स्यादेवेत्यर्थः ।। तथेति ।। स्वशरीरावच्छिन्न-सुखाद्युपलम्भ एव भवति न परशरीरावच्छिन्नेत्यर्थः । आत्मभेदे आत्मभेदपक्षे ।। सर्वदेहस्थेति ।। सर्वदेहानामपि स्वीयकर्णपुटस्थानीयत्वादिति भावः । तत्र बद्धमुक्तव्यवस्थोपपत्तिमाशङ्क्य निराकरोति– न चेति ।। मुक्तिरिति ।। यस्यान्तःकरणरूपोपाध्यपगमः न स बद्ध इति शेषः । कुतो न चेत्यतः उपाधिसम्बन्धस्यैवायोगादित्याह– उपाधीति ।। अधुनेति ।। सर्वोपाध्यपगमाभावादित्यर्थः ।। अभावादिति ।। तथा च तद्भावरूपमुक्तेरपुरुषार्थत्वं स्यात् । नित्यमुक्तत्वश्रुतिविरोधश्चेत्यर्थः ।। आत्मभेदे अनुकूलतर्कविवरणं समाप्तम् ।। २० ।।
न्यायकल्पलता
अनुकूलतर्कसाचिव्यमाह– आत्माभेदे त्विति ।। चक्षुरादिकरणभेदवदिति ।। नन्वन्यकरणभेदेन तथाऽदर्शनेऽप्यन्तःकरणभेदस्य तदैक्याध्यासापन्नेऽननु सन्धानप्रयोजकत्वं कल्प्यते । अन्यथा ब्रह्मैक्यस्य जीवे श्रुतिसिद्धतया सर्वानुसन्धानापत्तेः । मैवम् । जीवब्रह्मभेदस्यैव श्रुतिसिद्धतया तद्भेदेऽप्यननुसन्धानोपपत्तेः ।। प्रत्यहमिति ।। ननु संस्कारात्मनाऽवस्थितस्य पुनरुद्बोधेन तत्रान्तःकरणभेदाभावः । मैवम् । संस्कारस्यानन्तःकरणत्वेऽननुसन्धानप्रसङ्गात् । तत्त्वे सुप्तौ लया(नुप)पत्तेः ।। सुप्तप्रलीनेति ।। ननु तेषाम् अनुसन्धानप्रयोजकान्तःकरणैक्याध्यासरूप-सामग्री-विरहान्न संसारिदुःखानुभवः । न हि प्रतिबन्धकमात्रेण कार्यविरहः किन्तु सामग्रीविरहेणापि । मैवम् । मुक्तौ स्वरूपसुखाननुसन्धानस्य वक्ष्यमाणत्वात् ।। मुक्ताविति ।। न च तस्याजन्यत्वेनान्तःकरणा-नपेक्षा । सुखादिसाक्षिणोऽपि तत्त्वात् ।। उक्तरीत्येति ।। चक्षुरादिभेदवदित्यर्थः ।। मुक्तस्येति ।। ननु वैषयिकसुखाद्यनुसन्धानेऽविद्यैकत्वस्य तन्त्रत्वेन स्वप्रकाशस्वरूपस्फुरणे तदनपेक्षेति न मुक्तस्य स्वरूपसुखा(न)नुभवप्रसङ्गः । मैवम् । मोक्षकालीनसुखस्फुरणस्येदानीमपि सत्त्वापातात् । नन्वविद्यातन्निवृत्त्योर्बन्धमोक्षयोः शुद्धगतत्वेऽपि दुःखाद्यनुसन्धातृत्वमुपहित एवेति न शुद्धभेदा-पादकमित्यत आह– दुःखानुसन्धानरूपस्येति ।।
निवृत्तिरेवेति ।। ननूपाधेः कल्पितत्वेन निवृत्तावप्युपधेयस्याकल्पिततया तदनिवृत्तेस्तस्य मोक्षान्वयितोपपद्यते । मैवम् । घटे निवृत्ते घटाकाशस्येवोपाधिनिवृत्तावुपहितस्वरूपस्यापि निवृत्यवश्यम्भावात् ।। प्रतिबिम्बस्येति ।। तद्वस्त्वन्तरस्योपपादयिष्यमाणत्वात् ।। एतेनेति ।। तत्वज्ञानेन भोक्तुर्निवृत्तिरेव न तु मुक्तिरित्यापातेन । कठकश्रुत्यर्थस्तु– मनीषिणः इन्द्रियमनोयुक्तम् आत्मानं भोक्तेत्याहुः । ‘सुपां सुलुक्’ इति ...... वचनस्य सुरादेशः । ननु दुःखाद्यनुसन्धातृत्वरूपः संसारः शुद्धगत एव । न च तस्य सर्वजीवदुःखानुसन्धानापत्तिः । कल्पितभेदादननुसन्धानोपपत्तेरत आह– शुद्धचिन्मात्रेति ।। धर्मिज्ञानाबाध्यत्वमिति ।। ननु व्यवस्थायाः स्वसमानसत्ताकभेदकार्यत्वेन न तया भेदस्य धर्मिज्ञानाबाध्यत्वाक्षेपः । मैवम् । यस्मिन्धर्मिणि यत् स्वकार्यकारि तत् तद्धर्मिज्ञाना-बाध्यमिति व्याप्तिबलेन तदाक्षेपसम्भवात् ।। अभेदस्य त्विति ।। पूर्ववद्व्याप्तिबलेनाभेदस्य मिथ्यात्वम् ।। एतेन नेत्राद्यवच्छिन्नस्येति ।। हस्ताद्यवच्छिन्नस्याप्यनुसन्धानस्यानुभवसिद्धत्वेन नेत्राद्यवच्छिन्नस्य शब्दाद्युपलम्भजन्यसुखाद्यनुसन्धानस्य च सत्त्वेन तदननुसन्धानम् असिद्धमित्यर्थः ।। योऽहमिति ।। द्रष्टुः शब्दानुसन्धानवच्चेतनैक्ये सति शरीरभेदेऽप्यनुसन्धानानु भवाच्छरीरान्तरेऽननुसन्धानम् असिद्धमित्यर्थः ।।
अन्तःकरणस्येति ।। अन्तःकरणानां तदवच्छिन्नानां च भिन्नत्वान्नानुसन्धानम् ।। शुद्धब्रह्म-गतत्वोक्तेरिति ।। बन्धमोक्षयोः सामानाधिकरण्यानुरोधेन त्वया शुद्ध एवानुसन्धानात्मकभोगस्य वाच्यत्वादित्यर्थः । यत्तु शुद्धेऽविद्या, सम्भोगस्त्वन्तःकरणावच्छिन्ने आत्मनीति । तन्न । चोरापराधेन माण्डव्यनिग्रहवद्व्यधिकरणत्वेन निरस्तत्वात् ।। तद्द्वारेति ।। अविद्यावच्छिन्नद्वारेत्यर्थः ।। शुद्धनिष्ठत्वा-पत्तेश्चेति ।। यत्त्वविद्यावच्छिन्नद्वारा शुद्धेऽनुसन्धातृत्वमिष्टमेव । ‘अनेन जीवेन’ इत्यादिश्रुतेरिति । मैवम् । नित्यमुक्तत्वादिश्रुतेर्निर्विषयत्वस्य मुक्तोपसृप्याभावस्य च प्रसङ्गस्योक्तत्वात् ।। आत्मभेद इति ।। न च तवात्मभेद इवावच्छेदकाज्ञानादिभेदेन मम व्यवस्थोपपत्तिरिति युक्तम् । चेतनैक्ये सत्यज्ञानादिभेदस्य हस्तादिभेदवदननुसन्धानाप्रयोजकत्वस्य बहुकृत्व उक्तत्वात् ।। केनचिदिति ।। तत्वप्रदीपिकाकृता ।। नाजात इतीति ।। ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायस्तु व्याख्यातः ।। तदुक्तमिति ।। उपाधिखण्डन इति शेषः ।। सुखदुःखादीति ।। चैतन्यैक्ये सत्यन्तःकरणाद्युपाधिभेदमात्रात्सुखदुःखादिभोगो भेदेन न दृश्येत । हस्तपादादिगतभोगवत् । यद्यपि सत्योपाधिकृतसत्यभेदे दूषणतयेदं टीकायां व्याख्यातं तथापि स्वाभाविके चैतन्यैक्ये सति सत्ये भेदेऽपि नाननुसन्धानं युज्यते किं पुनः कल्पिते भेद इत्यत्र तात्पर्यम् ।।
नानादेहगेति ।। स्वरूपैक्ये सति नानादेहगतसुखाद्यनुसन्धानं सौभर्यादेर्योगिनो दृष्टम् अतस्तदेवानुसन्धाने प्रयोजकम् । ननु नानादेहगभोगानुसन्धानं योगिनोऽस्तीत्यत्र न मानं परबुद्धेरप्रत्यक्षत्वादत आह– न चेदिति ।। भोगं विना नानादेहधारणे प्रयोजनाभावात्प्रेक्षावतो योगिनो नानादेहोपादित्सा न स्यात् । अतोऽस्त्येव योगिनो नानादेहगभोगानुसन्धानमित्यनुमीयत इत्यर्थः । स्वाश्रये स्वकार्याकारिण ऐक्यस्य मिथ्यात्वं स्यादित्यत्र सम्मतिमाह– अनुसन्धानरहितमिति ।। ननु निरंशेऽप्याकाशे यथोपाधिसम्बन्धस्तथा चैतन्येऽपि स्यादत आह– एवमिति ।। गगनादावपि स्वाभाविकांशभेदे सत्येवोपाधिः सम्बध्यते ।। न चेदिति ।। स्वाभाविकांशो गगनादौ नाङ्गीक्रियत इति चेत्तर्ह्युपाधिसम्बन्धस्तत्रैकदेशे वा भवति सर्वत्र वा । आद्ये त्वन्मते गगने स्वाभाविकांशा-भावेनानवस्था । अन्त्ये न भेदकः ।
।। इति आत्मभेदेऽनुकूलतर्काः ।। २० ।।