ननु मिथ्यैव विश्वम्
२. विप्रतिपत्तिविचारः
न्यायामृतम्
ननु मिथ्यैव विश्वम् । तथा हि तत्र विप्रतिपत्तिः– ब्रह्मप्रमान्येन वा सप्रकारेण वा अबाध्यत्वे सति असद्विलक्षणत्वे सति ब्रह्मान्यत् प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगि, न वा? पारमार्थिकत्वाकारेण त्रैकालिकनिषेधप्रतियोगि न वा ? अखण्डार्थनिष्ठवेदान्तजन्यनिष्प्रकारकब्रह्मप्रमाबाध्यमपि विश्वं ब्रह्मप्रमान्येन वा सप्रकारेण वा न बाध्यमिति नाश्रयासिद्धिः । एवमुत्तरत्रापि पूर्वोत्तरपक्षानुमानप्रतिज्ञे सङ्कलय्य विप्रतिपत्तिरुह्या ।
श्रीमधुसूदनसरस्वतीविरचिता
अद्वैतसिद्धिः
मायाकल्पितमातृतामुखमृषाद्वैतप्रपञ्चाश्रयः
सत्यज्ञानसुखात्मकः श्रुतिशिखोत्थाखण्डधीगोचरः ।
मिथ्याबन्धविधूननेन परमानन्दैकतानात्मकं
मोक्षं प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झितः ।। १ ।।
श्रीरामविश्वेश्वरमाधवानामैक्येन साक्षात्कृतमाधवानाम् ।
स्पर्शेन निर्धूततमोरजोभ्यः पादोत्थितेभ्योऽस्तु नमो रजोभ्यः ।। २ ।।
बहुभिर्विहिता बुधैः परार्थं विजयन्तेऽमितविस्तृता निबन्धाः ।
मम तु श्रम एष नूनमात्मम्भरितां भावयितुं भविष्यतीह ।। ३ ।।
श्रद्धाधनेन मुनिना मधुसूदनेन संगृह्य शास्त्रनिचयं रचितातियत्नात् ।
बोधाय वादिविजयाय च सत्वराणामद्वैतसिद्धिरियमस्तु मुदे बुधानाम् ।। ४ ।।
तत्राद्वैतसिद्धेर्द्वैतमिथ्यात्वसिद्धिपूर्वकत्वाद् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम् । उपपादनं च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयम् । तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीया । यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासंपादकतयोपयोगः, सिषाधयिषाविरहसहकृत-साधकमानाभावरूपायास्तस्याः संशयाघटितत्वात् । अन्यथा श्रुत्याऽऽत्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात् । वाद्यादीनां निश्चयवत्त्वेन संशयासम्भवादाहार्यसंशयस्यातिप्रसंजकत्वाच्च । नापि विप्रतिपत्तेः स्वरूपत एव पक्षप्रतिपक्षपरिग्रहफलकतयोपयोगः । ‘त्वयेदं साधनीयम्’ ‘अनेनेदं दूषणीयम्’ इत्यादिमध्यस्थवाक्यादेव तल्लाभेन विप्रतिप्रत्तिवैयर्थ्यात् । तथापि विप्रतिपत्तिजन्य-संशयस्यानुमित्यनङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्त्येव । तादृशसंशयं प्रति विप्रतिपत्तेः क्वचिन्निश्चयादिना प्रतिबन्धादजनकत्वेऽपि स्वरूपयोग्यत्वात् । वाद्यादीनां च निश्चयवत्त्वनियमा-भावात् । ‘निश्चितौ हि वादं कुरुतः’ इत्याभिमानिकनिश्चयाभिप्रायम् । परपक्षमालम्ब्याप्यहंकारिणो विपरीतनिश्चयवतो जल्पादौ प्रवृत्तिदर्शनात् । तस्मात् समयबन्धादिवत् स्वकर्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव ।
तत्र मिथ्यात्वे विप्रतिपत्तिः– ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति सत्त्वेन प्रतीत्यर्हं चिद्भिन्नं प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न वा ? । पारमार्थिकत्वाकारेणोक्तनिषेधप्रतियोगि न वेति । अत्र च पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात् पक्षैकदेशे साध्यसिद्धावपि सिद्ध-साधनतेति मते शुक्तिरूप्ये सिद्धसाधनवारणाय ब्रह्मज्ञानेतराबाध्यत्वं पक्षविशेषणम् । यदि पुनः पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्या तदैकदेशे साध्यसिद्धावपि सिद्धसाधनाभावात् तद्वारकं विशेषणमनुपादेयम् । इतरविशेषणद्वयं तु तुच्छे ब्रह्मणि च बाधवारणायादरणीयमेव । प्रत्येकं वा विप्रतिपत्तिः – वियन्मिथ्या न वा? पृथिवी मिथ्या न वेति । एवं वियदादेः प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धानैकान्तिकता । पक्षसमत्वाद् घटादेः । तथा हि– पक्षे साध्याभावसन्देह-स्यानुगुणत्वात् पक्षभिन्न एव तस्य दूषणत्वं वाच्यम् । अत एवोक्तं ‘साध्याभावनिश्चयवति हेतुसन्देहे एव सन्दिग्धानैकान्तिकते’ति । पक्षत्वं तु साध्यसन्देहवत्त्वं साध्यगोचरसाधकमानाभाववत्त्वं वा । एतच्च घटादिसाधारणम् । अत एव तत्रापि सन्दिग्धानैकान्तिकत्वं न दोषः । पक्षसमत्वोक्तिस्तु प्रतिज्ञाविषयत्वाभावमात्रेण । न च तर्हि प्रतिज्ञाविषयत्वमेव पक्षत्वम् । स्वार्थानुमाने तदभावात् ।
न्यायामृततरङ्गिणी
आचार्योपदेशपरिगृहीतार्थस्य न्यायतोऽवधारणरूपमननस्यावधार्यमाणार्थविपरीतनिरास-साध्यत्वात् परपक्षं प्रतिक्षेप्तुमुपक्षिपति– नन्विति । अत्र विशेषणसङ्गतेनैवकारेण ‘शङ्खः पाण्डुर एवे’तिवद्विशेष्यतावच्छेदकावच्छिन्ने सर्वस्मिन् विशेषणसम्बन्धबोधनात् ‘सत्याशेषविश्वस्य कारणमि’त्यनेन सूचितस्य स्वपक्षस्य विपरीतस्य निर्देशः कृतः । प्रतिवाद्यवधानाय परो ‘मिथ्यैव विश्वमि’ति स्वपक्षस्य प्रमाणिकत्वं जानीहीत्याह– तथा हीति । ननु ‘मिथ्यैव विश्वमि’ति परपक्षोपक्षेपो न सम्भवति, ब्रह्मादिषु बाधाद्यापत्तेः इत्याशङ्कामपनेतुं विवादाङ्गं विप्रतिपत्तिजन्मानं च संशयं वक्तुमाह – तत्रेति । प्रवर्त्स्यन्त्यां मिथ्यात्वकथायां विप्रतिपत्तिः पूर्वं मध्यस्थपरिदर्शिताऽस्तीति शेषः । तथा च विप्रतिपत्तौ पक्षत्वेन निर्दिष्टस्यैव विश्वशब्देन ग्रहणात् न ब्रह्मादौ बाधादीति भावः । विप्रतिपत्तिस्वरूपमाह – ब्रह्मप्रमेत्यादिना । अत्र विश्वस्य धर्मित्वे ब्रह्मणि बाधासिद्धी स्याताम् । अतो ब्रह्मान्यदित्युक्तम् ।
ननु – पक्षतावच्छेदकैक्ये तन्न दूषणम् । समानप्रकारकविरहज्ञानस्यैव प्रतिबन्धकतया ब्रह्मत्वावच्छेदेन साध्यहेत्वभावनिश्चयेऽपि विश्वत्वावच्छेदेन तदनिश्चयादिति चेत्, न ; एवमपि तत्र तज्ज्ञानस्य भ्रमत्वेन तत्त्वनिर्णयाभावेन वादकथया निर्णयसिद्धये तदुपादानस्य सर्वसिद्ध-त्वात् । तुच्छे बाधासिद्धी मा भूताम् इति असद्विलक्षणत्वे सतीति ।
पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे पक्षैकदेशे साध्यसिद्धावपि सिद्ध-साधनमिति मते शुक्तिरूप्ये सिद्धसाधनवारणाय ‘अबाध्यत्वे सती’ति विशेषणम् । यदि पुनः पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्या, तदैकदेशे साध्यसिद्धावपि सिद्धसाधनाभावात् तद्वारकविशेषणमनुपादेयम् । परमते वियदादेरपि बाध्यत्वात्पक्षालाभो मा भूत् इति ‘ब्रह्म-प्रमान्येनेत्यबाध्यत्वविशेषणम् । ननु ब्रह्मण्यारोपितस्य क्षणिकत्वादेरधिष्ठान ब्रह्मप्रमामात्र-निवर्त्यत्वात्तत्र सिद्धसाधनम्, शुक्तिज्ञानादेरपि ब्रह्मज्ञानत्वात् तद्बाध्यरजतादौ च सिद्धसाधनम्, ‘शुद्धं ब्रह्म वृत्तिव्याप्यमपि ने’ति मते वियदादेरपि ब्रह्मप्रमान्यबाध्यत्वात् पक्षालाभश्चेत्यनुशयेन ‘सप्रकारेणे’त्यबाध्यत्वविशेषणम् ।
इदं च विप्रतिपत्तिस्वरूपं तार्किकादिरीत्यैवेत्यनुपदमेव वक्ष्यति । तेन स्वमते तुच्छस्यापि निषेधप्रतियोगित्वात् तत्र बाधाभावेन तद्वारणाय ‘असद्विलक्षणत्वे सती’ति विशेषणमसङ्गतम् । शुक्तिरूप्यादेरसत्त्वेन ‘असद्विलक्षणत्वे सती’त्यनेनैव तद्वारणात् तत्र सिद्धसाधनवारणायाद्यं विकल्पितं विशेषणद्वयं च व्यर्थमित्यादिदूषणमनवकाशं वेदितव्यम् ।
सिंह– माणवकयोरिव ‘मम शरीरमि’ति देहात्मनोः स्पष्टतरभेदावभासेन देहात्मैक्या रोपासम्भव इति मताश्रयणात् न देहात्मैक्ये सिद्धसाधनम् । नभोनैल्य–चन्द्रपरिमाणभ्रमयोः सप्रकारकबाधार्हत्वात् न तत्रापि सिद्धसाधनम् ।
ननु – इयं विप्रतिपत्तिस्तार्किकादेर्मायावादिना वा? तत्त्ववादिनो मायावादिना वा? तदुभयेषां मायावादिना वा? नाद्यः ; तार्किकादिमत आपणस्थरूप्यातिरिक्तस्य शुक्तिरूप्यस्या-भावेन तत्र सिद्धसाधनवारणार्थोपात्ताबाध्यत्वविशेषणानुपपत्तेः । न च आपणस्थरूप्य एव तन्मते सिद्धसाधनवारणाय तद्विशेषणमिति वाच्यम् । ‘प्रतिपन्नोपाधावि’त्यत्र साध्ये ‘सर्वस्मि-न्नि’त्यस्य विशेषणस्यावश्यकतया रूप्ये सिद्धसाधनानवकाशात् । अन्यथा वियदादेरपि क्वचिदधिकरणे भ्रमसम्भवेन भ्रमप्रतिपन्नाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वस्य सत्त्वपक्षेऽपि सम्भवेन सर्वत्रैव सिद्धसाधनापातात् । तार्किकमते शुक्तिरूप्यज्ञानस्यैव भ्रमत्वख्यापनरूपबाध-विषयतया रजतस्याबाध्यतया तद्विशेषणेन तदवारणाच्च । मायावादिमते शुक्तिरूप्ये सिद्धसाधन-सम्भवेऽपि साध्यनिर्देष्टारं स्वं प्रति स्वस्य सिद्धसाधनोद्भावनतयासम्भवदुक्तिकत्वात् । नापि द्वितीयः । ‘असद्विलक्षणत्वे सती’त्यनेनैव शुक्तिरूप्यव्यवच्छेदे तद्व्यावृत्त्यर्थं विशेषणान्त-रोपादानवैयर्थ्यात् । अत एव न तृतीयः । पक्षद्वयोक्तदोषात् एकदाऽनेकैर्विवादायोगाच्चेति चेत्, अत्रोच्यते– तृतीयपक्षे दोषाभावात् । ‘शुक्तिरूप्यं तात्कालिकमुत्पन्नं तत्रैव सदि’ति भास्करादि-मते शुक्तिरूप्ये सिद्धसाधनवारणायाद्यं सत्यन्तं विशेषणम् । भास्करादिभिरपि भ्रम–प्रमा-विभागाय रजतस्य घटादिवैलक्षण्यमङ्गीकृतमेव इति तन्मतेऽपि तस्य पक्षबहिर्भावस्यावश्यं वाच्यत्वात् तार्किकादिमते स्वमते च तदुपरक्ते साध्यसिद्धिः प्रयोजनम् । इति सर्वमतेऽपि सप्रयोजनं विशेषणम् । विशेषणत्वे प्रयोजनवत्त्वं तन्त्रम्, न तु विशेषणप्रयोजनस्य सर्व-सिद्धत्वमपि । सत्यत्ववाद्यनेकमतानुसारिणः कुशलस्यैकस्य मिथ्यात्वादिना कथासम्भवादिति सर्वमनवद्यम् ।
प्रतिपन्नेति । अत्र त्रैकालिकनिषेधे’त्यनेनात्यन्ताभाव एव विवक्षितः । तथा चान्योन्या भावमादाय सिद्धसाधनम्, तद्वारणाय निषेधपदस्यात्यन्ताभावपरत्वे च ‘त्रैकालिके’ति व्यर्थमिति शङ्कानवकाशः । ‘प्रतिपन्ने’ति च घटादावत्यन्ताभावप्रतियोगित्वमिति मते घटादावेव सिद्ध-साधनवारणाय । प्रतिपन्नत्वं च प्रतीतत्वमात्रम्; अतः प्रमाप्रतिपन्नत्वं भ्रमप्रतिपन्नत्वं वाऽऽदाय न विरोध–सिद्धसाधने । यावत्त्वं च विवक्षितम्; अतो भ्रमप्रतिपन्नाधिकरणनिष्ठात्यन्ताभाव-प्रतियोगित्वमादाय सत्त्वपक्षे न सिद्धसाधनम् । ननु स्वाधिकरणाभिमतयावन्निष्ठात्यन्ताभाव-प्रतियोगित्वमिति पर्यवसितेऽर्थे केवलान्वय्यत्यन्ताभावप्रतियोगिगगनादिषु सिद्धसाधनम् । यदधिकरणे यत् सत् तत् तन्निष्ठात्यन्ताभावप्रतियोगीति कृते विरोधः । कथञ्चिद्विरोधपरिहारेऽपि संयोगादिसम्बन्धेन घटाद्यधिकरणे समवायसम्बन्धेन घटाद्यत्यन्ताभावसत्त्वेन घटादौ सिद्ध-साधनम् । येन सम्बन्धेन यद् यस्याधिकरणम् तेन सम्बन्धेन तत् तन्निष्ठात्यन्ताभावप्रतियोगीति विवक्षायामव्याप्यवृत्तिषु संयोगादिषु सिद्धसाधनमिति चेत्, मैवम् । यत्सम्बन्धावच्छेदक-विशेषाभ्यां यत्र यस्य प्रतीतिर्भवितुमर्हति तत्सम्बन्धावच्छेदकविशेषाभ्यां तस्यैव तन्निष्ठात्यन्ता-भावप्रतियोगित्वमिति विवक्षितम् । आकाशादेरपि संयोगादिसम्बन्धेनास्त्येव वृत्तिरिति नोक्तदोषः । यदि पुनर्घटादेर्नात्यन्ताभावप्रतियोगित्वम्, न वा स्वात्यन्ताभावसामानाधि-करण्यम् । लाघवेन घटात्यन्ताभावत्वेनैव घटसामानाधिकरण्यविरोधित्वकल्पनात्, सम्बन्ध-विशेषप्रवेशे च गौरवात्, घटसम्बन्धाभावमात्रविषयतया चाभावप्रतीत्युपपत्तेः, आधाराधेय-भावस्य प्रत्यक्षसिद्धत्वेन घटस्यावृत्तित्वाशङ्कानुदयात्, एवं संयोगादेरपि नाव्याप्यवृत्तितेति पक्षः तदाऽत्यन्ताभावप्रतियोगित्वमेव विवक्षितम् ।
न्यायामृतकण्टकोद्धारः
‘सत्याशेषविश्वस्ये’त्युक्तं विश्वसत्यत्वं समाधातुं प्रतिक्षिपति – नन्विति । न चात्रैवकार-वैयर्थ्यम् । अत्र हि स्वपक्षसाधनं परपक्षदूषणं द्वयमपि कर्तव्यम् । तत्तु मिथ्या न सत्य-मित्यर्थलाभाय तस्योपात्तत्वात् । अथवा मिथ्येत्युक्ते यादृशतादृशमिथ्यात्वस्य मयाऽङ्गीकारात् सिद्धसाधनमित्याशङ्कानिरासायैवेत्युक्तम् । तेनायोगव्यवच्छेदवाचिना एवकारेण भवदङ्गीकृत-सत्यत्वविरोधिमिथ्यात्वं साध्यत इति न सिद्धसाधनशङ्केत्युक्तं भवति । यद्वा एवकारो भिन्नक्रमः विश्वमित्यनेन सम्बद्धयते । स च कार्त्स्न्यमाह । जगदेव दुःखपङ्कमग्नमुद्दिधीर्षुरिति यथा । तेन कृत्स्नं जगन्मिथ्येत्यर्थः ।
विवादप्रयोजकीभूतसंशयजननीं विप्रतिपत्तिं दर्शयति – ब्रह्मप्रमान्येनेति । अस्यार्थः – ब्रह्मप्रमाया अन्येन सप्रकारेण वाऽबाध्यत्वे सति असद्विलक्षणत्वे सति ब्रह्मान्यत् पक्षः । सर्वस्मिन् प्रतिपन्नोपाधौ यस्त्रैकालिकनिषेधः तत्प्रतियोगि न वेति साध्यम् । अत्र सर्वं पक्ष इत्युक्ते ब्रह्मण्यंशे बाधः । तत्र परेण मिथ्यात्वानङ्गीकारात् । न चायमेतत्संयोगी एतत्त्वादित्यत्रेव बाधितांश-मपहायाबाधितांशे अनुमितिर्भविष्यतीति नांशबाधो दोषायेति वाच्यम् । तत्र पक्षतावच्छेदक-सामानाधिकरण्येन क्वचिदंशे साध्यसिद्धेरुद्देश्यत्वेन तत्रानुमितावपि प्रकृते पक्षतावच्छेदकावच्छेदेन साध्यसिद्देरुद्देश्यत्वेन तत्प्रतिबन्धादंशबाधस्य दोषत्वात् । अन्यथा सर्वान्तर्गतयत्किञ्चिद्व्यक्तौ साध्यस्य सिद्धत्वेन सिद्धसाधनापत्तेः । तथा चांशबाधवारणार्थं ब्रह्मान्यदिति ।
नन्वत्र सगुणब्रह्मान्यत्वं निर्गुणब्रह्मान्यत्वं वा विवक्षितम् ? नाद्यः । सगुणस्य मिथ्या-त्वेन पक्षतया तद्व्यावर्तनानुपपत्तेः । निर्गुणस्यापि पक्षत्वादंशे बाधापत्तेश्च । न द्वितीयः । परमते निर्गुणस्य ब्रह्मणोऽसिद्धतयाऽश्रयासिद्ध्यापत्तेरिति चेन्न । सदित्यादिपदतात्पर्यविषयी-भूतान्यत्वस्य ब्रह्मान्यपदेन विवक्षणात् । तादृशस्य चोभयसम्मतत्वात् । ब्रह्मान्यदित्युक्ते शशविषाणादेरपि पक्षत्वं स्यात् । तस्य च परेण मिथ्यात्वानङ्गीकारादंशबाधः । न च ब्रह्मान्य-पदस्य ब्रह्मप्रतियोगिकान्योन्याभावार्थतयाऽन्योन्याभावस्य च धर्मिस्वरूपतया शशविषाणादेर-सत्त्वेन तद्धर्मिकान्योन्याभावस्यैवासत्त्वेन तस्य पक्षत्वानापत्त्या नांशबाधापत्तिरिति वाच्यम् । ब्रह्मान्यशब्देन ब्रह्मलक्षणविरुद्धलक्षणत्वस्य विवक्षणात् । ब्रह्मलक्षणविरुद्धासत्त्वादेस्तत्र सत्त्वात् । न च धर्म्यसत्त्वे कथं धर्मसत्त्वमिति वाच्यम् । धर्मिसत्ताविरोधिधर्मस्य धर्म्यसत्त्वेऽपि सत्त्वोपपत्तेः । प्रकृते चात्यन्ताभावप्रतियोगित्वरूपासत्त्वस्य धर्मिसत्ताविरोधित्वात् । किञ्च घटः पटो नेतिवदसत् घटो नेत्यबाधितप्रतीत्याऽसद्धर्मिकान्योन्याभावस्याप्यवश्यमङ्गीकार्यत्वात् । नैयायिकमतेऽभावस्य प्रतियोगिविरोधित्वेऽपि अन्योन्याभावस्य तादात्म्यविरोधित्ववदन्यत्रा-न्योन्याभावस्य धर्मिस्वरूपत्वेऽपि असद्धर्मिकान्योन्याभावस्यासदात्मकत्वासम्भवे असत्त्वात्मक-त्वस्य सम्भवेन दोषाभावात् । यथा चैतत्तथोपपादयिष्यति भङ्गान्ते । वस्तुतस्तु ब्रह्म अन्यद्यस्मा-दिति ब्रह्मान्यपदेन ब्रह्मनिष्ठान्योन्याभावप्रतियोगित्वोक्तेरसतोऽपि ब्रह्मनिष्ठान्योन्याभाव-प्रतियोगित्वेन ब्रह्मान्यत्वात् पक्षत्वापत्तिरेवेत्यवधेयम् । तथा च शशविषाणाद्यंशे बाध-वारणायासद्विलक्षणत्वे सतीति ।
नन्वत्रासच्छब्देन त्रैकालिकनिषेधप्रतियोग्युक्तौ मायिमते प्रपञ्चस्यापि तादृशासत्त्वसम्भवेन तद्विलक्षणत्वाभावादाश्रयासिद्धिः । नापि निरुपाख्यत्वमसत्त्वम् । तद्धि प्रतीत्यविषयत्वं वा शब्दशक्त्यविषयत्वं वा निर्वक्तव्यम् । नोभयथाऽपि । तादृशासत्त्वस्य शशविषाणादावभावेन तस्यापि पक्षत्वापत्तौ उक्तदोषतादवस्थ्यादिति चेन्न । अर्थक्रियानर्हत्वस्यासच्छब्देनोक्तत्वात् । न च शुक्तिरजतस्यार्थक्रियानर्हत्वेन तद्विलक्षणत्वाभावान्न पक्षत्वमिति न सिद्धसाधनावकाश इति वाच्यम् । तस्यापि ध्वंसादिरूपासद्व्यावृत्तार्थक्रियाकारित्वाङ्गीकारेणादोषात् । मायिमते क्वचित्साध्यसिद्धौ सिद्धसाधनमिति मतेन शुक्तिरजताद्यंशे सिद्धसाधनं माऽभूदित्यतोऽबाध्यत्वे सतीति । तेन पक्षवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् प्रकृते तदभावान्नांशतः सिद्ध-साधनम् । अत एव पृथिवी इतरभिन्नेत्यत्र घटत्वावच्छेदेन जलादित्रयोदशप्रतियोगिकान्योन्या-भावे सिद्धेऽपि पृथिवीत्वावच्छेदेन तदसिद्धेर्नांशतः सिद्धसाधनमिति न शङ्क्यम् । मायिमते प्रपञ्चस्य ब्रह्मप्रमाबाध्यत्वेनाश्रयासिद्धिर्मा भूदित्यतो ब्रह्मप्रमान्येनेति । तथा च तदन्येना-बाध्यत्वान्नाश्रयासिद्धिः । न च नञ्द्वयवैय्यर्थ्यं, ब्रह्मप्रमाबाध्यत्वे सतीत्येतावतैव सामंजस्यादिति वाच्यम् । तथा सति परमते आश्रयासिद्ध्यापत्तेः । न च ब्रह्मप्रमेत्यत्र प्रमापदवैय्यर्थ्यं, ब्रह्म-ज्ञानान्येनेत्येतावता पूर्तेरिति वाच्यम् । सर्वज्ञानानां सत्ताविषयत्वेन ब्रह्मज्ञानत्वाद्बाधकज्ञानानां तदन्यत्वासिद्धेः ।
ननु ब्रह्मप्रमेत्यत्र ब्रह्मविषयकसप्रकारकयथार्थज्ञानत्वं वा विवक्षितं, निष्प्रकारकज्ञानत्वं वा ? नाद्यः । परेण सप्रकारकज्ञानमात्रस्यायर्थार्थत्वस्याङ्गीकारेण प्रमात्वासिद्धेः । न च प्रत्यक्षादीनां व्यावहारिकप्रमाणत्वेन तज्जन्यज्ञानानामपि व्यावहारिकं प्रमात्वमस्त्येवेति वाच्यम् । तथात्वे शुक्तिः सतीत्यादिज्ञानानामपि ब्रह्मप्रमात्वेन तद्बाध्यशुक्तिरजतादेः पक्षतापत्तावंशतः सिद्धसाधनस्य दुष्परिहरत्वापत्तेः । न द्वितीयः । तत्त्ववादिना निष्प्रकारकज्ञानानङ्गीकारेण तं प्रत्याश्रयासिद्धेः । नैयायिकैरपि ब्रह्मविषयकनिष्प्रकारकज्ञानानङ्गीकारेण तन्मतेऽप्याश्रया-सिद्धिरिति चेन्न । ब्रह्मविषयकभ्रमभिन्नज्ञानस्य ब्रह्मप्रमेत्यनेन विवक्षणात् । वेदान्तजन्यचर-मान्तःकरणवृत्तेस्तादृशत्वेन दोषाभावात् । तस्माद् ब्रह्मविषयकभ्रमभिन्नज्ञानान्येनाबाध्यत्वे सति असद्विलक्षणत्वे सति ब्रह्मान्यत्वं पक्षतावच्छेदकमित्युक्तं भवति ।
शुद्धं ब्रह्म वृत्तिव्याप्यं नेति मतसाधारणपक्षलाभायाह – सप्रकारेण वेति । अस्मिंश्च पक्षे ब्रह्माकारैव वृत्तिः, न तु तद्विषयाऽपीत्युभयमतसाधारण्यमित्याहुः ।
यत्तु ब्रह्मण्यारोपितस्य क्षणिकत्वादेरधिष्ठानब्रह्मप्रमामात्रनिवर्त्यत्वेन सिद्धसाधनम् । शुक्ति-ज्ञानादेरपि ब्रह्मज्ञानत्वात् तद्बाध्यरजतादौ च सिद्धसाधनम् । ‘शुद्धं ब्रह्म वृत्तिव्याप्यं ने’ति मते वियदादेरपि ब्रह्मप्रमाबाध्यत्वाभावेन पक्षालाभश्चेत्यनुशयत्रयात् ‘सप्रकारेण वे’त्युक्तमिति व्याख्यानम्, तत्र नाद्योऽनुशयः । तथाहि– ‘सप्रकारेण अबाध्यत्वे सती’त्युक्तावप्यधिष्ठानीभूत- ब्रह्मप्रमाबाध्यत्वात् क्षणिकत्वादेः सप्रकारेणाबाध्यत्वेन पूर्वोक्तसिद्धसाधनावकाशस्तदवस्थ एव । नापि द्वितीयः, ब्रह्मप्रमापदेन भ्रमभिन्नज्ञानस्य विवक्षितत्वेन मायिमते सप्रकारज्ञानमात्रस्य भ्रमत्वेन शुक्तिज्ञानस्यापि सप्रकारत्वेन भ्रमत्वाद् भ्रमभिन्नत्वाभावेन सिद्धसाधनानवकाशात् । नापि तृतीयः; यन्मते ब्रह्म वृत्तिव्याप्यम्, तन्मतेनैव विप्रतिपत्तेः प्रणीतत्वात् । अत एवानुमानबाधकथनावसरे मतभेदेन पक्षभेदं वक्ष्यति ।
ननु एवमपि विकल्पितप्रथमसत्यन्तविशेषणवैयर्थ्यम्, प्रयोजनाभावादिति चेत्, अत्राहुः– वादिमते शुक्तिरूप्यांशे सिद्धसाधनवारणाय तत्त्ववादिमते च शुक्तिरूप्यस्यासत्त्वेन – ‘असद्विलक्षणत्वे सतीत्यनेनैव सिद्धसाधनोद्धारसम्भवे तार्किकमते च तस्य घटादितुल्यत्वेन सिद्धसाधनानवकाशेऽप्युद्देश्यसिद्ध्यर्थं प्रथमसत्यन्तं सप्रयोजनम् । न च उभयमत एकविशेषण-प्रयोजनं नास्तीति वाच्यम् । विशेषणस्य सर्वसिद्धप्रयोजनवत्त्वस्यैव तन्त्रत्वेनोभयमत एकविशेषणप्रयोजनस्यातन्त्रत्वादिति, तन्न । तत्रैव ह्युद्देश्यसिद्ध्यर्थं विशेषणमुपादीयते यद्विशेषणानुपादानेऽन्यतरमत आश्रयासिद्धिर्वाऽप्रयोजकत्वं वा सिद्धसाधनत्वादिकं वा समापतति । यथा ‘जन्यकृतिजन्यभिन्नजन्यानि समवेतानि, इत्यत्र न्यायमते जन्येतिविशेषणा-भावे आश्रयासिद्धिर्भवतीति जन्येति विशेषणोपादानम् । यथा वा तन्मत एव ‘तद्वति तत्प्रकारकं ज्ञानं प्रमा’ इत्यत्र ‘तद्वती’ति विशेषणाभावे सिद्धसाधनता भवतीति ‘तद्वती’ति विशेषणम्, तद्वत् प्रकृत एतद्विशेषणाभावे आश्रयासिद्ध्यादेरभावात्तदर्थं तद्विशेषणं व्यर्थम् । नच– अत्रापि वादिमतेंऽशतः सिद्धसाधनतोद्धारः प्रयोजनमित्युक्तमिति वाच्यम्; सिद्ध-साधनतायाः प्रतिवादिनैवोद्भाव्यत्वेन वादिना स्वं प्रति स्वेनैव तदुद्भावनस्य कर्तुमशक्यत्वात् । अन्यथा वादिमते सम्पूर्णसाध्यस्य सिद्धत्वेन तन्मते सम्पूर्णसिद्धसाधनतापत्तेः । किञ्च अयम्, एतत्संयोगी, एतत्त्वादित्यत्रेव बाधितांशमपहायाबाधितांशेऽप्यनुमित्यापत्तौ ‘ब्रह्मान्यद्’ इति विशेषणवैयर्थ्यं स्यादिति तत्सार्थक्याय पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यताया अवश्य-वक्तव्यत्वेनांशतः सिद्धसाधनत्वस्योद्भावयितुमशक्यत्वात् । न च– तत्त्ववादिना सत्यत्वे साध्य-माने मायिना स्वमतावलम्बनेन शुक्तिरजतादौ बाधः शङ्क्येत । तद्वारणार्थं तद्विशेषण-स्यावश्यकत्वमिति वाच्यम् । तं प्रत्यसत्त्वसाधनेनापि बाधपरिहारसम्भवादिति । यच्च ग्रन्थस्य तत्त्वनिर्णिनीषु कथात्वेन गुरुशिष्यकथारूपे ग्रन्थे यदाऽनिर्वचनीयरजतादौ मिथ्यात्वं निश्चितवन्तं शिष्यं प्रति गुरुणा ‘ब्रह्मप्रमान्येने’त्यादिपक्षविशेषणमदत्त्वा ‘सद्विलक्षणं ब्रह्मा-न्यदि’त्येव पक्षं निर्दिश्य मिथ्यात्वं साध्यते, तदा तदंशे शिष्योद्भावनीयसिद्धसाधनवारकत्वेन तस्यावैयर्थ्योपपत्तेरिति, तदप्यसत्; शिष्यो हि वादिमुखे स्थित्वा वा सिद्धसाधनतामुद्भावयति? उत प्रतिवादिमुखे? नाद्यः; सिद्धसाधनस्य प्रतिवादिनैवोद्भाव्यत्वेन वादिमुखे स्थितेन शिष्येण तदुद्भावनस्य कर्तुमशक्यत्वात् । अन्यथा वादिमुखे स्थित्वा सम्पूर्णसिद्धसाधनस्याप्युद्भावयितुं शक्यत्वेन तदुद्धारायापि प्रयासः क्रियेत । न द्वितीयः । प्रतिवादिमुखे स्थितस्या-निर्वचनीयरजतादौ मिथ्यात्वनिश्चयस्यैवायोगात् । न च प्रमारूपस्य निश्चयस्यायोगेऽपि भ्रमरूपे निश्चयः स्यादिति वाच्यम् । तथा सति भ्रमस्यैव परिहर्तव्यत्वेन विशेषणदानेन भ्रमदृढीकरण-स्यात्यन्तायुक्तत्वादिति यत्किञ्चिदेतत् ।
अत्र ब्रूमः– ‘असद्विलक्षणत्वे सति ब्रह्मान्यदि’त्येव पक्षनिर्देशः । अन्यत्तु प्रतिकूलतर्क-निरासार्थम् । ब्रह्मान्यस्य सर्वस्य मिथ्यात्वे शुक्तिरजतादिवद् घटादिकमपि प्रातिभासिकत्वेन जलाहरणाद्यर्थक्रियाक्षमं न स्यादित्युक्ते, मिथ्यात्वाविशेषेऽपि ‘ब्रह्मप्रमान्येन सप्रकारेण वाऽबाध्यत्वाद् घटादिकमर्थक्रियाकारि, शुक्तिरजतादिकं तद्बाध्यत्वान्नार्थक्रियाक्षममिति सर्वमवदातम् ।
न च ‘असद्विलक्षणत्वे सति ब्रह्मान्यदि’त्येव पक्षनिर्देशेऽबाध्यत्वस्य पक्षनिवेशा-भावेनाश्रयासिद्धेरभावात् तन्निवृत्त्यर्थं ‘ब्रह्मप्रमान्येने’त्याद्यग्रिमग्रन्थविरोध इति वाच्यम् । यथाश्रुताभिप्रायेण तथोक्तत्वात् । यद्वा आश्रये पक्षे प्रतिकूलतर्कपराहत्या प्राप्ता साध्यस्या-भावरूपा सिद्धिर्नेति व्याख्यानात् न विरोध इति ।
साध्ये तु निषेधप्रतियोगीत्युक्ते घटादौ सिद्धसाधनता स्यात् । सर्वेषामन्योन्याभावरूप-निषेधप्रतियोगित्वात् । तदर्थमुक्तम् – त्रैकालिकेति ।। तथापि घटादीनां तन्त्वादिनिष्ठ-त्रैकालिकनिषेधप्रतियोगित्वेन पुनः सिद्धसाधनतेत्यतः प्रतिपन्नोपाधाविति । तावत्युक्ते भ्रान्तिप्रतिपन्नाधिकरणनिष्ठत्रैकालिकनिषेधप्रतियोगित्वेन पुनस्सिद्धसाधनतेत्यतः ‘‘सर्वस्मि-न्नि’’ति प्रतिपन्नोपाधिविशेषणं विवक्षणीयम् । घटादीनां च स्वोपादान रूपाधिकरणनिष्ठ-त्रैकालिकनिषेधप्रतियोगित्वाभावेन सर्वस्मिन्निषेधप्रतियोगित्वाभावात् न सिद्धसाधनम् ।
ननु – अन्यत्रासतः प्रतिपन्नोपाधावपि निषेधप्रतियोगित्वेऽत्यन्तासत्त्वापत्तिरित्यरुचेराह पारमार्थिकत्वाकारेणेति । यद्वा, ननु संयोगादौ साध्यस्य सिद्धत्वात् सिद्धसाधनं तदवस्थ-मेव । न च तद्भिन्नस्य पक्षत्वात् नांशतः सिद्धसाधनमिति वाच्यम् । ब्रह्मान्यस्य सर्वस्य मिथ्यात्वविप्रतिपत्तौ एतादृशसाधनस्य प्रकृतानुपयुक्तत्वात् । न च पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् उद्देश्यासिद्ध्या नांशतः सिद्धसाधनमिति वाच्यम् । तथापि संयोगादेरिव प्रकृतेऽप्युक्तनिषेधप्रतियोगित्वे मिथ्यात्वोपपत्त्याऽर्थान्तरानिस्तारात् । न च यदवच्छेदेन यत् प्रतीतम् तदवच्छेदेन त्रैकालिकेत्यादि विवक्षितमिति वाच्यम् । तथापि समवायसम्बन्धेन प्रतीतस्य संयोगसम्बन्धेन तन्निष्ठत्रैकालिकनिषेधप्रतियोगित्वेनोक्तदोषतादवस्थ्यात् । न च यत्सम्बन्धपुरस्कारेण यत् प्रतीतम्, तत्सम्बन्धपुरस्कारेण तन्निष्ठेत्यादि विवक्षितमिति वाच्यम् । तथापि व्यधिकरणधर्ममवच्छेदकमादाय तन्निष्ठत्रैकालिकनिषेधप्रतियोगित्वसम्भवेनोक्तदोष-तादवस्थ्यात् । न च – स्वनिष्ठासाधारणधर्मपुरस्कारेणेति विवक्षितमिति वाच्यम् । एवं हि यत् स्वनिष्ठासाधारणधर्मपुरस्कारेण यत्सम्बन्धपुरस्कारेण यदवच्छेदेन यत्र सर्वत्र विद्यमानम्, तत्र तेन रूपेण तत्सम्बन्धपुरस्कारेण तन्निष्ठत्रैकालिकनिषेधप्रतियोगित्वं मिथ्यात्वमित्युक्तं भवति । एवमप्यपारमार्थिकत्वाकारेण घटादेरप्युक्तनिषेधप्रतियोगित्वाङ्गीकारेण सिद्धसाधनं तदवस्थमेवेत्य-रुचेराह – पारमार्थिकत्वाकारेणेति ।।
ननु – येन सम्बन्धेन यदवच्छेदेन तत्र यदस्ति, तत्र सर्वत्र तस्य पारमार्थिकत्वाकारेणैव सत्त्वात् तेन रूपेण त्रैकालिकनिषेधप्रतियोगित्वं प्रतिवादिमतेऽप्रसिद्धमिति चेत्, न । येन सम्बन्धेन यत्र यत् प्रतीतम् इत्यर्थस्य विवक्षितत्वात् । तस्य च शुक्तिरूप्यादौ प्रसिद्धत्वात् । न च सर्वत्र यद्येन सम्बन्धेन प्रतीतं तन्निष्ठत्रैकालिकनिषेधप्रतियोगित्वं तेन रूपेणाप्रसिद्धमिति वाच्यम् । एवमपि तत्त्ववादिनं प्रति प्रसिद्ध्युपपत्तेः । तेन शुक्तिरूप्यादेस्तथाभावाङ्गीकारात् ।
ननु तत्त्ववादिनं प्रत्यत्यन्ताभावप्रतियोगित्वमात्रं साध्यमस्तु, तेनासत एव तत्प्रति-योगित्वाङ्गीकारेण प्रपञ्चे तदनङ्गीकारात् । न च उद्देश्यसिद्ध्यर्थमेतानि विशेषणानीति वाच्यम् । एतादृशोद्देश्यत्वस्य सर्वत्र वक्तुं शक्यत्वेनातिप्रसङ्गात् । साध्ये उपरञ्जकविशेषणस्यासाम्प्रदायि-कत्वाच्चेति चेत्, यथा तार्किकमतेऽत्यन्ताभावप्रतियोगित्वं सत्त्वेऽप्युपपन्नम् तथा मन्मतेऽपि भविष्यतीत्यर्थान्तरनिरासकत्वेन तत्त्ववादिमते सार्थकत्वात् । यद्वा तार्किकस्यापि प्रतिवादित्वेन तन्मताभिप्रायेणैवैतादृशसाध्यकरणात् न कश्चिद् दोष इति सर्वं समञ्जसम् ।
ननु बाध्यत्वरूपमिथ्यात्वमादायैव विप्रतिपत्तिप्रदर्शनमयुक्तम्; अग्रे पञ्चविधमिथ्यात्वस्य निरुच्यमानत्वेन तेन रूपेणापि प्रदर्शनस्य न्यायप्राप्तत्वात् । न च बाध्यत्वरूपमिथ्यात्वमादाय विप्रतिपत्तिप्रदर्शनमग्रे पञ्चधानिरुच्यमानमिथ्यात्वकोटिकविप्रतिपत्तिप्रदर्शनोपलक्षकमिति वाच्यम् । सत्त्वासत्त्वाभ्यां निर्वक्तुमशक्यत्वज्ञानत्वेन ज्ञाननिवर्त्यत्वादीनां निरुच्यमानानां मिथ्यात्वानाम-प्रसिद्धत्वेन कोटिप्रसिद्ध्यभावाद् विप्रतिपत्तिप्रदर्शनस्यैवायोगेनोपलक्षणपरत्वासम्भवात् । न च ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्याज्ञाने प्रसिद्धिरस्तीति वाच्यम्; अज्ञानं हि ज्ञानप्रागभावरूपं वा भावरूपं वा ? नाद्यः । ज्ञानस्य स्वप्रागभावनिवृत्तिरूपत्वेन निवर्तकत्वासम्भवात् । न द्वितीयः । ज्ञानत्वस्य परोक्षज्ञानेऽपि विद्यमानत्वेना ज्ञाननिवर्तकतावच्छेदकत्वासम्भवात्, परोक्षज्ञानस्य त्वयाऽज्ञाननिवर्तकत्वानङ्गीकारात् । तस्मात्कथमिति चेत्, मैवम्; विप्रतिपत्ते-रनावश्यकत्वेन मिथ्यात्वनिर्वचनान्तरमादाय विप्रतिपत्तेरप्रदर्शनात् । न चैवं बाध्यत्वमादायापि विप्रतिपत्तिप्रदर्शनं कर्तव्यमिति वाच्यम् । शिष्यबुद्धिव्युत्पादनार्थत्वात् । तस्य चैकप्रकार-प्रदर्शनेनापि सम्भवात् । बाध्यत्वस्य च सम्यक्कोटिप्रसिद्धिसत्त्वात् एतदेवोपादाय विप्रतिपत्ति-प्रदर्शनमिति । प्रथमविशेषणफलमाह– अखण्डार्थनिष्ठेति ।। उक्तप्रकारमन्यत्रातिदिशति– एवमिति ।
न्यायामृतप्रकाशः
सत्याशेषविश्वस्य कारणमित्युपक्षिप्तं विश्वस्य सत्यत्वमसहमानो मायावादी प्रत्यवतिष्ठते ।। नन्विति ।। अत्रैवकारार्थश्चिंत्यते ।। विशेषणसङ्गतोऽयमेवकारः । तस्य च विशेष्यतावच्छेदके एवकारसमभिव्याहृतपदार्थतावच्छेदकव्याप्यत्वार्थकत्वस्य शङ्खः पाण्डुर एवेत्यादौ दर्शनेन विश्वत्वे मिथ्यात्वव्याप्यत्वलाभात् सर्वोऽपि शङ्खः पाण्डुर इति लाभवत्सर्वमपि विश्वं मिथ्येति प्राप्त्या सत्याशेषविश्वस्य कारणमिति यत्सत्याशेषविश्वस्य कारणत्वमुक्तं तदसदिति भावः । यद्वा विश्वमेव मिथ्येति विशेष्यसङ्गतोऽयमेवकारः । तस्य च विशेष्यतावच्छेदकानवच्छिन्ने विशेषणसम्बन्ध-व्युदासार्थत्वस्य पार्थ एव धनुर्धर इत्यादौ दर्शनेनात्र विश्वत्वानाक्रान्ते ब्रह्मणि तुच्छे च मिथ्यात्व-सम्बन्धव्यवच्छेदस्तदर्थः । तथा च विश्वमेव मिथ्या तत्कारणत्वं दूरोत्सारितमिति भावः । अथवा एवकारः कार्त्स्न्यार्थे । जगदेव दुःखपंकनिमग्नमितिवत् । तथा च मिथ्याशब्दैवशब्दाभ्यां सत्याशेषेत्युक्तविशेषणद्वयाक्षेपलाभ इत्याशयः । संप्रदायस्तु प्रमाणबाधाद्यशेषप्रतिज्ञादोषोद्धारार्थोऽत्र एवकारः । नचैतदलौकिकम् । ‘‘मिथ्यैव भेदो विमतो भेदत्वाच्चंद्रभेदवदि’’त्यनुव्याख्यानव्याख्यावसरे सुधायां साध्यावधारणेनाऽऽभासोद्धारं सूचयतीति टीकाकारैरुक्तत्वादिति ध्येयम् ।
इममेवैवकारार्थमेतादृशप्रतिज्ञया सिद्धे विश्वमिथ्यात्वे दूषणाभिधातृभिर्भवद्भिरतीव सावधानै-र्भवितव्यमित्याशयेन विशदयति । तथा हीति ।। तथा यत्प्रतिज्ञातं विश्वमिथ्यात्वं तत् हि प्रमाणप्रसिद्धं न तु प्रमाणबाधादिदोषोपेतमित्यर्थः । पूर्वोत्तरपक्षपरिग्रहाभ्यां प्रवर्तनीयस्य विचारस्य संशयजन्यत्वाद्विचाराङ्गसंशयापरनाम्नीं विप्रतिपत्तिं दर्शयति ।। तत्रेति ।। प्रवर्तनीयायां मिथ्यात्व-सत्यत्वकथायां । विप्रतिपत्तिः संशयः । ननु कस्येयं विप्रतिपत्तिः । न तावद्वादिनः । तस्य मिथ्यात्वनिश्चयवत्त्वात् । नापि प्रतिवादिनः । तस्य सत्यत्वनिश्चयवत्त्वादिति चेत्सत्यम् । न वादिप्रतिवादिनोरियं विप्रतिपत्तिः । किं तु तदुभयव्यतिरिक्तानां सभापत्यादीनामेव तत्वनिर्णयेप्सु-सभापत्याद्यर्थिताभ्यामपि वादिप्रतिवादिभ्यां क्रियमाणायाः कथायास्तत्संशयनिरासद्वारा तत्वनिर्णय-फलकत्वाद्ग्रन्थस्यापि वादप्रक्रियया प्रवर्तमानत्वात् । अतः कथातः पूर्वं वादिप्रतिवादिव्यतिरिक्तानां सभापत्यादीनां वादिप्रतिवादिप्रवर्तनीयविचाराङ्गसंशयापरनाम्नी विप्रतिपत्तिरस्तीति व्याख्येयम् । यथोक्तम् । ‘‘वा समितेःशुभेती’’ति सम्प्रदायः । अन्ये तु नेयं विप्रतिपत्तिर्वादिनो नापि प्रतिवादिनः किं नामोभौ प्रति एकैकपक्षपरिग्रहाय विरुद्धार्थप्रतिपादकवाक्यद्वयरूपा विप्रतिपत्ति-र्मध्यस्थप्रदर्शिताऽस्तीत्यर्थ इत्याहुः ।
ननु विप्रतिपत्तिमादौ प्रदर्श्य पश्चात्पूर्वपक्ष उत्थापनीयः । विषयो विशयश्चैव पूर्वपक्षस्तथोत्तर इति वचनात् । अतोऽत्र वैपरीत्यं कस्मादाचरितमिति चेदुच्यते । मिथ्यैवेत्यस्य न पूर्वपक्षप्रदर्शन एव तात्पर्यं किंनाम संशयस्य विरुद्धार्थप्रतिपादकपूर्वोत्तरपक्षप्रतिपादकवाक्यद्वयजन्यत्वेन विप्रतिपत्ति-वाक्यद्वयाज्ञाने प्रदर्शयितुमशक्यत्वात् सत्याशेषेति सत्यत्वप्रतिपादकं, मिथ्यैव विश्वमिति मिथ्यात्व-प्रतिपादकं वाक्यं चादौ प्रदर्श्यानंतरं संशयापरनाम्नी विप्रतिपत्तिः प्रदर्शितेत्यदोष इति ।
विश्वं मिथ्येति सामान्येन प्रतिज्ञातम् । तथा च ब्रह्मादेरपि विश्वशब्देन ग्रहणे बाधाद्यापत्तेः धर्मिणं निर्धारयंस्तामेव विप्रतिपत्तिं विवृणोति ।। ब्रह्मप्रमान्येन वेत्यादिना ।। अत्र विद्वत्प्रमोदार्थं पदानां कृत्यं चिन्त्यते । तथा हि । ब्रह्मान्यन्मिथ्येत्युक्ते तुच्छे बाधः स्यात् । अतः असद्विलक्षणत्वे सतीत्युक्तम् । तावत्युक्ते शुक्तिरूप्ये सिद्धसाधनता स्यात् । अतोऽबाध्यत्वे सतीत्युक्तम् । नन्विदं विशेषणं व्यर्थम् । सिद्धसाधनताया वक्तुमशक्यत्वात् । असद्विलक्षणत्वे सति ब्रह्मान्यन्मिथ्येति वादिना प्रयुक्ते सति प्रतिवादिभिरस्माभिः सिद्धसाधनता वाच्या । न हि सा वक्तुं शक्या । अस्मन्मते शुक्तिरूप्यस्यासत्त्वेन पक्षतावच्छेदकानाक्रान्तत्वादिति चेन्न । परार्थानुमाने वक्तुम-शक्यत्वेऽपि यदा तवैव स्वार्थानुमितिः तदा त्वन्मते तस्यासद्विलक्षणत्वेन सिद्धसाधनताप्राप्त्या अबाध्यत्वविशेषणसार्थक्यात् ।
न च विशेषणप्रयोजनस्योभयवादिसिद्धत्वाभाव इति वाच्यम् । विशेषणस्य सार्थक्ये प्रयोजनवत्त्वमेव तन्त्रं न तूभयवादिसिद्धप्रयोजनवत्त्वम् । गौरवात् । न चैतददृष्टचरमिति वाच्यम् । निरीश्वरवादिनं मीमांसकं प्रतीश्वरसाधनाय तार्किकेण प्रयुज्यते ‘‘जन्यकृत्यजन्यानि जन्यानि सकर्तृकाणी’’त्यादि । तत्र जन्यानि सकर्तृकाणीत्युक्ते घटादीनां कुलालादिकर्तृकतायाः सिद्धत्वेन सिद्धसाधनता स्यात् । अतः कृत्यजन्यानीत्युक्तम् । तर्हि तार्किकमते सर्वस्यापीश्वरकृति-जन्यत्वेनाऽऽश्रयासिद्धौ प्राप्तायां जन्यत्वं कृतिविशेषणमुपात्तम् । नहीदं सम्भवति । आद्यजन्यपदस्य तार्किकरीत्या कृत्यसद्भावेऽपि मीमांसकरीत्या तदभावात् तस्य निरीश्वरवादित्वेनाश्रयासिद्धे-स्तेनोद्भावयितुम् अशक्यतयोभयसिद्धप्रयोजनाभावेन तद्वैयर्थ्यशङ्कायां विशेषणस्य सार्थक्ये प्रयोजन-वत्त्वमेव तन्त्रं न तु तस्योभयसिद्धत्वमपीति यथा तार्किकैः समाधीयते तथेहापीति ।
अत्रेदं चिन्त्यम् । यदुक्तं स्वार्थानुमितिदशायां सिद्धसाधनतावारणाय विशेषणं सार्थकमिति तदयुक्तम् । पक्षतावच्छेदकावच्छिन्ने सर्वत्र साध्यसिद्धेरुद्देश्यत्वपक्षे सिद्धसाधनताऽभावः पृथिवी इतरभिन्नेत्यत्र दृष्टः । यथा हि घटत्वावच्छेदेनेतरभेदसिद्धावपि पृथिवीत्वरूपपक्षतावच्छेदकावच्छिन्ने सर्वत्र साध्यसिद्धेरभावेन सिद्धसाधनताया अभावात् । एवमिहापि शुक्तिरूप्यत्वावच्छेदेन मिथ्यात्व-रूपसाध्यसिद्धावपि असद्विलक्षणत्वे सति ब्रह्मान्यत्वावच्छेदेन सर्वत्र वियदादौ मिथ्यात्वरूपसाध्य-सिद्ध्यभावेन सिद्धसाधनताया अभावादबाध्यत्वविशेषणं व्यर्थमिति । केचित्तु पक्षतावच्छेदकावच्छिन्ने यत्र कुत्रचित्साध्यसिद्धेरुद्देश्यत्वपक्षे अंशे सिद्धसाधनतायाः सम्भवाद्विशेषणं सार्थकमित्याहुः । अत्र पृथिवी इतरभिन्नेत्यस्यापि दुष्टत्वापत्तेस्तदयुक्तम् । अपरे तु असद्विलक्षणत्वे सति ब्रह्मान्यत्सत्यमिति प्रतिवादिना साधनीयम् । तत्र मायिना शुक्तिरूप्ये बाध उद्भाव्येत । तदर्थमबाध्यत्वे सतीत्युक्त-मित्याहुः ।
ननु नात्र बाधः सम्भवति । तथा हि । यद्धर्मावच्छेदेन यस्मिन्धर्मिणि साध्यं साध्यते तद्धर्मा-वच्छेदेन तत्र तदभावज्ञानं बाधः । यथाऽग्नित्वावच्छेदेनाग्नावनुष्णत्वं साध्यते तद्धर्मावच्छेदेनैवग्ना-वुष्णत्वज्ञानं चेद्बाधः । न तु अग्नित्वावच्छेदेनानुष्णत्वे साध्ये द्रव्यत्वावच्छेदेन यत्र कुत्र-चिदुष्णत्वज्ञानं बाधः । समानप्रकारकविरहज्ञानस्यैव बाधत्वात् ।
एवं च पक्षतावच्छेदकावच्छिन्ने सर्वत्र साध्यसिद्धेरुद्देश्यत्वेनाऽसद्विलक्षणत्वे सति ब्रह्मान्यत्वा-वच्छेदेन सर्वत्र प्रपंचे सत्यत्वस्यास्माभिः साध्यमानत्वाच्छुक्तिरूप्यत्वावच्छेदेन सत्यत्वाभावस्य सिद्धत्वमादाय बाधोक्त्ययोग इति चेन्न । त्वदुक्तं हि संपूर्णबाधलक्षणं । यदा हि पक्षतावच्छेदका-वच्छिन्ने यत्र कुत्रचित्साध्यसिद्धेरुद्देश्यत्वं तदा पक्षतावच्छेदकावच्छिन्ने यत्र कुत्रचित्साध्याभावस्य सिद्धौ अंशे बाधः । तथा चासद्विलक्षणत्वे सति ब्रह्मान्यत्वावच्छेदेन यत्र कुत्रचित्सत्यत्वसिद्धे-रुद्देश्यत्वं यदा तदाऽसद्विलक्षणत्वे सति ब्रह्मान्यत्वावच्छिन्ने यत्र कुत्रचिच्छुक्तिरूप्ये सत्यत्वाभावसिद्ध्यांऽशे बाधो मायिनोद्भाव्येतापि । तदर्थमबाध्यत्वविशेषणमिति न कोपि दोषः । अथाऽबाध्यत्वे सतीत्याद्युक्तौ मायिमते आश्रयासिद्धिः । तन्मते विश्वस्य बाध्यत्वेन पक्षालाभात् । अतो ब्रह्मप्रमान्येनेत्युक्तम् । तथा च तन्मते जगतो ब्रह्मप्रमाबाध्यत्वेऽपि तदन्येनाबाध्यत्व-सत्त्वान्नाश्रयासिद्धिरिति भावः ।
नन्वत्र नञ्द्वयं कस्मादुपात्तं ब्रह्मप्रमाबाध्यत्वे सतीत्येव कस्मान्नोक्तमिति चेदुच्यते । तथात्वे तत्ववादिमते आश्रयासिद्धिः । तन्मते जगतः सत्यत्वेन ब्रह्मप्रमाबाध्यत्वाभावात् । अतो नञ्द्वय-गर्भता । तथा चास्मन्मते सर्वथाऽबाध्यत्वेन विशेषणपर्यवसानं । तन्मते तु ब्रह्मज्ञानबाध्यत्वेनेति न कोपि दोष इति द्रष्टव्यम् ।
नन्वत्र प्रमापदं किमर्थं ब्रह्मज्ञानान्यज्ञानाबाध्यत्वे सतीत्येव कस्मान्नोक्तमिति चेदुच्यते । ब्रह्मज्ञानान्यज्ञानाबाध्यत्वे सतीत्युक्तौ सर्वप्रत्ययवेद्ये चेत्यादिवचनान्नेदं रूप्यमिति बाधकज्ञानस्यापि शुक्त्यवच्छिन्नचैतन्यविषयकत्वेन ब्रह्मज्ञानत्वात्तद्बाध्ये अत एव ब्रह्मज्ञानान्यज्ञानाबाध्ये शुक्तिरूप्ये मिथ्यात्वसिद्ध्या सिद्धसाधनता स्यात्तदर्थं प्रमापदम् । वेदान्तजन्यनिष्प्रकारकब्रह्मज्ञानस्यैव वस्तुगत्या प्रमात्वेन नेदं रूप्यमिति ज्ञानस्य वस्तुगत्या तन्मतेऽप्रमात्वात् । ब्रह्मप्रमान्येनाबाध्यत्वस्य शुक्तिरूप्येऽभावेन धर्मिकोटावप्रवेशान्न सिद्धसाधनतेति ध्येयम् ।
अत्र यद्यपि प्रमात्वं नाम न तद्वति तत्प्रकारकत्वं विवक्षितम् । निर्विकल्पकेऽव्याप्तेः । ब्रह्म-प्रमाया निष्प्रकारकत्वेन ब्रह्मत्ववति ब्रह्मत्वप्रकारकत्वाभावात् । तथापि विशेष्यावृत्त्यप्रकारकत्वं विवक्षितं सविकल्पकप्रमायां विशेष्यवृत्तिप्रकारकत्वमादाय निर्विकल्पकायां तु सर्वथा निष्प्रकारकत्वेन लक्षणपर्यवसानं । प्रकृते च वेदान्तजन्यप्रमायाः निर्विकल्पकरूपतया सर्वथा निष्प्रकारकत्वेन ब्रह्मावृत्त्यप्रकारकत्वात् उक्तं प्रमालक्षणमस्तीति न कोपि दोष इति ध्येयम् ।
अथ ब्रह्मप्रमान्येनाबाध्यत्वे सतीत्याद्युक्तौ ब्रह्मण्यारोपितक्षणिकत्वे ब्रह्म स्थायीति प्रमाबाध्ये ब्रह्मप्रमान्येनेत्यादिविशेषणजातस्य सत्त्वेन धर्मित्वप्राप्तौ तत्र मिथ्यात्वसाधने सिद्धसाधनता स्यादित्यस्वरसादाह ।। सप्रकारेण वेति ।। तथा च न ब्रह्मण्यारोपितक्षणिकत्वस्य विप्रतिपत्तिधर्मिता । तस्य स्थायि ब्रह्मेति सप्रकारकप्रमाबाध्यत्वेन सप्रकारकेणाबाध्यत्वाभावादित्याहुः । तच्चिंत्यम् ।
नेदमस्वरसोद्भावनं युक्तम् । तथा हि । अत्र ब्रह्मप्रमाशब्देन निष्प्रकारकप्रमाया एव विवक्षित-त्वेन ब्रह्म स्थायीति प्रमाया ब्रह्मप्रमात्वाभावेन ब्रह्मण्यारोपितक्षणिकत्वमादाय सिद्धसाधनताया वक्तुमशक्यत्वात् । किं च ब्रह्मप्रमेत्यत्र प्रमाशब्देनातत्वावेदकप्रमाविवक्षितोत तत्वावेदकप्रमा । नाद्यः । शुक्तिरूप्यस्यापि नेदं रजतमित्यतत्वावेदकप्रमाबाध्यत्वेनातत्वावेदकब्रह्मप्रमान्येनाबाध्यत्वादेः सत्त्वेन तस्य मिथ्यात्वसाधने पुनः सिद्धसाधनताया दुर्वारत्वापातात् । न द्वितीयः । तथात्वे ब्रह्मण्यारोपितक्षणिकत्वमादाय सिद्धसाधनताया वक्तुमशक्यत्वात् । ब्रह्म स्थायीति प्रमायाः तत्वावेदकत्वाभावेन ब्रह्मण्यारोपितक्षणिकत्वे तत्वावेदकप्रमान्येनाबाध्यत्वस्याभावेन तदादाय सिद्धसाधनताया अयोगेन सप्रकारकेण वेत्यस्य वैयर्थ्यापत्तेरिति ।
सम्प्रदायस्तु । ब्रह्मप्रमेत्यस्य हि ब्रह्मविषयिणी प्रमेत्यर्थः । ब्रह्म वेदान्तजन्यवृत्तिविषयं नेति मते ब्रह्मप्रमाया एवाभावेन तद्धटितविप्रतिपत्त्ययोग इत्यस्वरसादाह ।। सप्रकारेण वेति । यद्वक्ष्यति विश्वमिथ्यात्वस्याऽनुमानबाधकथनावसरे ‘‘ब्रह्म वृत्तिव्याप्यमपि नेति मतेन तु द्वितीयतृतीये’’ इति ।
ननु च ब्रह्मान्यदित्यस्य यदि ब्रह्मप्रतियोगिकान्योन्याभाववत्त्वमर्थस्तर्ह्यसतो निस्स्वरूपत्वेन ब्रह्मप्रतियोगिकान्योन्याभावस्य धर्मिस्वरूपभूतस्यासत्यसम्भवेन तदाऽऽदाय बाधाप्रसक्तेरसद्विलक्षणत्वे सतीति विशेषणवैयर्थ्यात् । यदि चान्योन्याभावस्य प्रतियोगितावच्छेदकात्यन्ताभावव्याप्यतया ब्रह्मत्वात्यन्ताभाववत्त्वमर्थस्तर्हि निर्धर्मके ब्रह्मण्यपि तस्य सत्त्वेन तत्र मिथ्यात्वसाधने बाधापत्तेः । न च ब्रह्मणो निर्धर्मकत्वेन ब्रह्मत्वात्यन्ताभावाधिकरणत्वमपि नास्तीति वाच्यम् । अभावरूपा धर्मा नाद्वैतं निघ्नन्तीति मण्डनमिश्रोक्तेरिति चेदुच्यते । द्वितीयपक्षांगीकारे दोषाभावात् । न चोक्तरीत्या बाध इति वाच्यम् । मायिकब्रह्मत्वसद्भावेन तदत्यन्ताभावाधिकरणत्वाभावेन तस्य पक्षबहिर्भूतत्वेन तत्र बाधाप्रसक्तेः । अथवाऽऽद्य एव पक्षोऽभिप्रेतः । न चोक्तदोषः । तस्यास्मन्मते धर्मिस्वरूप-त्वेऽपि परमते तदभावेन तद्रीत्या बाधवारणाय विशेषणसार्थक्यादित्याहुः ।
वस्तुतस्तु ब्रह्मान्यत्वं नाम ब्रह्मविलक्षणत्वम् । वैलक्षण्यं च तद्विरुद्धधर्मयोगित्वम् । तच्चास्त्य-सति निषेधबुद्धिविषयत्वादिरूपब्रह्मविरुद्धधर्मसद्भावात् । अतस्तदादाय बाधपरिहारायासद्विलक्षणत्वे सतीत्युक्तमित्यवगन्तव्यम् । अथवा ब्रह्मान्यदित्यस्य ब्रह्म अन्यद यस्माद इत्यर्थकरणेनासतोपि प्राप्त्या तत्र बाधपरिहारायासद्विलक्षणत्वे सतीति विशेषणस्य सार्थक्यात् । प्रतियोगित्वादिधर्माणां रूपादिवद्धर्मिसत्तासापेक्षत्वाभावादित्यालोचनीयम् ।
प्रतिपन्नोपाधाविति ।। यस्य यद् अधिष्ठानत्वेन प्रतिपन्नं तत्रेत्यर्थः । तुच्छेऽतिव्याप्तिवारणायेदं विशेषणम् । तत्र प्रतिपन्नोपाधेरेवाभावादिति भावः । नन्वत्र निषेधशब्दो यदि प्रागभावध्वंसा-न्योन्याभावपरस्तर्हि तत्प्रतियोगित्वस्य घटादिप्रपञ्चे सत्त्वेन सिद्धसाधनताप्रसङ्गः । प्रागभावविवक्षाया-मविद्यादावनादौ बाधापत्तिश्च । अतोऽत्यन्ताभावपर एव वाच्यः । तथा च त्रैकालिकपदं व्यर्थमिति चेत् । अत्र केचित् । त्रैकालिकनिषेधशब्देनाखण्डवृत्त्यात्यन्ताभाव एव विवक्षित इत्यदोष इत्याहुः । गुरुचरणास्तु । निषेधशब्दः संसर्गाभावपरः । तथा च त्रैकालिकसंसर्गाभावोऽत्यन्ताभाव एवेति न कोपि क्षुद्रोपद्रव इति निरूपयन्ति ।
प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वे साध्येऽत्यन्तासत्त्वप्राप्तिः । न चेष्टापत्तिः । असद्विलक्षणस्वरूपाङ्गीकारात्तथाच बाध इत्यस्वरसादाह ।। पारमार्थिकत्वेति ।। असद्विलक्षणं व्यावहारिकं स्वरूपमनुपमृद्य पारमार्थिकत्वाकारेण नास्तीति साध्यत इति न दोष इति भावः । ब्रह्मप्रमान्येन वा सप्रकारकेण वेत्यनयोर्विशेषणयोः कृत्यं दर्शयति ।। अखण्डार्थेति ।। ब्रह्म-प्रमाबाध्यमपीत्युक्त्या ब्रह्मप्रमान्येनाबाध्यत्वमुपपादितम् । निष्प्रकारकब्रह्मप्रमेत्युक्त्या सप्रकारेणा-बाध्यत्वमुपपादितम् । वेदान्तजन्यप्रमाया निष्प्रकारकत्वोपपादनायाखण्डार्थनिष्ठेत्युक्तम् । निर्विशेषार्थ-निष्ठेत्यर्थः । विप्रतिपत्तिरूह्येति ।। अत्र विप्रतिपत्तिर्नाम संशयजनिका विरुद्धार्थप्रतिपादक-वाक्यद्वयरूपैव विवक्षिता द्रष्टव्या ।
न्यायकल्पलता
सत्सम्प्रदायविदाचार्योपदेशपरिगृहीतस्यार्थस्य श्रौतन्यायजन्यावधारणरूपस्य मननस्यावधार्यमाणार्थ-विपरीतोपालम्भसाध्यत्वात्परपक्षं प्रतिक्षेप्तुं प्रस्तावयति– नन्विति । अत्र विश्वमेव मिथ्येत्युक्तौ विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदार्थकत्वात् विश्वान्यस्मिन् मिथ्यात्वयोगव्यवच्छेदाच्छब्दतश्च विश्वस्मिन्् मिथ्यात्वयोगालाभात् सत्याशेषेति प्रदर्शितपक्षस्य प्रतिक्षेपो न भवतीति मिथ्यैव विश्वमित्युक्तम् । विशेषणसङ्गतत्वपक्षे तु शङ्खः पाण्डुर एव इतिवत् कुमुदं श्वेतमेवेतिवच्च विशेषणसङ्गतेन विशेषणायोगव्यवच्छेदार्थेनैवकारेण विशेष्यतावच्छेदकावच्छिन्ने सर्वस्मिन्मिथ्यात्वरूपविशेषणसम्बन्ध-बोधनात् ‘सत्याशेषविश्वस्य कारणम्’ इत्यनेन ज्ञापितस्वपक्षविपरीतनिर्देशः प्रतिवाद्यवधानायेति ज्ञेयम् । ननु ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुत्या श्रवणादेः ब्रह्म-साक्षात्कारार्थता ज्ञायते । श्रवणादिना जन्यब्रह्मदर्शनस्य मोक्षसाधनत्वं श्रूयते ‘सर्वान् परो मायया अयं सिनीते’ ‘दृष्ट्वैव तं मुच्यते नापरेण’ इति । तदेकसाध्यपरमात्मप्रसादस्य निःश्रेयस्साधनता च श्रूयते ‘यमेवैष वृणुते तेन लभ्य’ इति । अतोऽपवर्गचरमकारणब्रह्मात्यर्थप्रसादसाधारणकारणब्रह्मदर्शनार्थिना ब्रह्मैव श्रोतव्यम् । आचार्योपदेशपरिगृहीतमर्थमवधारयिषुणा तदेव मन्तव्यम् । तथा च विश्वसत्यत्वावधारणस्य प्रकृतानुपयोगात्तद्विपरीतनिरासफलकतदुपक्षेपोऽनुपपन्नमिति ।
उच्यते । परविद्यादिमसूत्रे विहिता ब्रह्मजिज्ञासा श्रौतन्यायानुसन्धानात्मकमननविचारमीमांसापरनामिका जन्मादिसूत्रैः क्रियते । स्वरूपसाधनफलगोचरजिज्ञासा हि ब्रह्मजिज्ञासोच्यते । ब्रह्मण इति कर्मणि षष्ठी-परिग्रहेऽपि लिङ्गसमवायन्यायेन तत्प्रधानवाचकब्रह्मपदेनाप्रधानोपलक्षणात् । साधनादिजिज्ञा-सामन्तरेणाकाङ्क्षानुपरमाच्च । तत्र साधनफलयोर्ब्रह्मोपहितत्वेनाप्रधानत्वात् । ब्रह्मणश्चानन्यशेषत्वेन स्वप्रधानत्वात् अभ्यर्हितत्वेन तत्स्वरूपजिज्ञासैव प्रथमं प्राप्ता । स्वरूपविचारश्च लक्षणप्रमाणाभ्यां भवति । तत्रापि लक्षणेन स्वेतरसजातीयविजातीयसमस्तवस्तुव्यावृत्ततया स्वरूपे प्रतिपादिते सत्येव तद्विशिष्टे प्रमाणाकाङ्क्षा जायते । धर्मिस्वरूपे कश्चिन्न हि विप्रतिपद्यते । इत्यन्तरङ्गत्वाल्लक्षणस्य प्रथमतो निरूपणीयत्वम् । ततोऽशेषविश्वनिर्मातृत्वरूपलक्षणनिरूपणानन्तरमेव प्रमाणं निरूपितवान्भगवान् सूत्रकारः । जन्माद्यस्य यतः, शास्त्रयोनित्वादिति ।
ननु च बृह वृद्धाविति धातोः कर्तरि मनिन् प्रत्ययेऽमागमे च कृते बृंहति तद्ब्रह्मेति सिद्ध्यति । एवं च सामान्यतो योग्येतरान्वितस्वार्थपदशक्तेः सत्वेन ‘अथ कस्मादुच्यते ब्रह्मेति, बृहन्तो ह्यस्मिन्गुणाः’ इति श्रुत्यन्तरबलाच्च ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इति जिज्ञासाविधायकवाक्ये जिज्ञास्ये प्रयुक्तब्रह्म-शब्देनैवाभिहितं परिपूर्णसमस्तकल्याणगुणवत्वं ब्रह्मशब्दप्रवृत्तिनिमित्तं, पृथिव्याः पृथिवीत्ववत् ब्रह्मणो लक्षणं प्रसिद्धमेव । तत्किमिति भगवतः सूत्रकारस्य लक्षणान्तरोपदेशायासः । सत्यम् । तथापि तद-विहायैव तदुपपादनार्थमेतल्लक्षणप्रणयनमित्यदोषः । कार्यत्वादिलिङ्गेनाविगीतलोकप्रवादादिना च सिद्धेनाशेषविश्वोद्भवादिकर्तृत्वेनाद्यसाधारणधर्मेणालौकिकत्वादप्रसिद्धमीश्वराख्यं वस्तु सङ्कीर्णतया सिद्धमपि स्वेतरसमस्तवस्तुव्यावृत्तत्वेनासङ्कीर्णतयाऽवगन्तव्यम् । न च परमेश्वरस्य समस्तकल्याणगुणसम्पूर्णत्वं विश्वकर्तृत्ववल्लोकप्रवादादिप्रसिद्धम् । येन लक्षणतया निर्देष्टुं शक्येत । अनेन तु विश्वकर्तृत्वरूपलक्षणेन लिलक्षयिषितेतरसमस्तवस्तुव्यवच्छेदकेन स्वेतरव्यावृत्ततया सिद्धे ब्रह्मणि समस्तकल्याणगुणपरिपूर्णत्व-मुद्देश्यं प्रधानलक्षणमपि सिद्ध्यति । अविनाभूतत्वात् । विश्वसत्यत्वं तु परमेश्वरस्य वास्तव-कर्तृत्वोपपादनार्थमवधारणीयम् । कर्तृत्वस्य कार्यसत्तासमानसत्ताकत्वेनाविनाभावस्य लोके घटादिकर्तरि कुलालादौ दर्शनात् । भ्रान्ते चाध्यस्तश्रुतिरूपादिकं प्रति तदुपादानगोचरापरोक्षज्ञानचिकीर्षा-कृतिमत्वरूपकर्तृत्वासम्भवात् । विप्रलम्भके चैन्द्रजालके मायाविनि मायाप्रदर्शिततदनभिज्ञदृष्टमायिक-कार्यत्वाभिमतस्य चर्मभुजङ्गादेर्मिथ्यात्वेन वा तत्कर्तृत्वादर्शनात् । विश्वस्य मिथ्यात्वे श्रुतिसूत्राद्युपदिष्टं ब्रह्मणस्तत्कर्तृत्वं तात्विकं न स्यात् । अतः सूत्रकृदुपदेशपरिगृहीताशेषकर्तृत्वावधारणस्य विश्वसत्यत्वा-वधारणसाध्यत्वात्तदवधारणस्य च तद्विपरीतमिथ्यात्वोपलम्भमन्तरेणासम्भवाद्विवर्तमतं प्रतिक्षेप्तुं तदुपक्षेपोऽयं परविद्योपयुक्तः । किञ्च । अशेषविश्वनिर्मातृत्वादिरूपपरमेश्वरमहामाहात्म्यस्य मोक्षसाधन-ज्ञानविषयत्वश्रवणात्तत्सत्यत्वं सिद्ध्यति । ‘तमेवं विदित्वाऽतिमृत्युमेति’ ‘तमेवं विद्वानमृत इह भवति’ । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति’ ‘वीतशोकः पृथगात्मानं प्रेरितारं च मत्वा’ जुष्टस्ततस्तेनामृतत्वमेतीत्यादिश्रुतिभ्यः । अतः क्षणिकत्वादिवादिमतवद्विवर्तवादिनो वेदान्तिब्रुवस्य पक्षं प्रतिक्षेप्तुं तत्प्रस्तावोऽयमिति । एतेनाद्वैतसिद्धेर्द्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथम-मुपपादनीयमिति निरस्तम् । यद्वा मिथ्यैव विश्वमित्येवकारो भिन्नक्रमः । तेन विश्वमेव यदा मिथ्या तदा यदभिप्रेतं सशेषविश्वनिर्मातृत्वं वास्तवमित्यनेन तद्विपरीतनिर्देशः । विवर्तवादी विश्वं मिथ्येति स्वपक्षस्य प्रामाणिकत्वं विद्धीत्याह– तथा हीति ।।
ननु मिथ्यैव विश्वमिति परपक्षोपक्षेपो न युक्तः । ब्रह्मादिषु बाधाद्यापत्तेरित्याशङ्कामपाकर्तुं विप्रतिपत्तिं वक्तुमाह ।। तत्रेति ।। प्रवर्तनीयायां मिथ्यात्वकथायाम् । विप्रतिपद्यते अनयेति वा, विरुद्धा प्रतिपत्तिरनयेति वा विप्रतिपत्तिः । वादिप्रतिवादिनोर्विरुद्धार्थप्रतिपादकवचनद्वयीति यावत् । पूर्वं मध्यस्थपरिदर्शिताऽस्तीति शेषः । विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वात्तदङ्गसंशयबीजभूता विप्रतिपत्तिर्मध्यस्थेनादौ प्रदर्शनीयेत्यर्थः । विप्रतिपत्तौ धर्मित्वेन निर्दिश्यमानस्यैव विश्वशब्देन गृह्यमाणत्वान्न बाधादीति भावः । कथं न बाधादीत्यतो वरिष्यमाणानुमाने पक्षसपक्षविपक्षविवेचनाय विप्रतिपत्तिधर्मितावच्छेदकं प्रदर्शयितुं प्रकृतविप्रतिपत्तिस्वरूपं निर्दिशति– ब्रह्मेति । विशेष्यासंसृष्टाप्रकारकं ज्ञानं प्रमेति हृदयम् । अत्र विश्वस्य धर्मित्वे तदन्तःपातित्वाद्ब्रह्मणि विधिकोटौ बाधासिद्धी प्रसज्येयातां, निषेधकोटौ सिद्धसाधनमेव स्यादतो– ब्रह्मान्यदित्युक्तम् ।
ननु पक्षतावच्छेदकैक्ये तन्न दूषणम् । समानप्रकारकविरहनिश्चयस्यैव प्रतिबन्धकतया ब्रह्मत्व-सामानाधिकरण्येन साध्यहेत्वभावनिश्चयेऽपि विश्वत्वावच्छेदेन तदनिश्चयादेवं निषेधकोटावपि न सिद्ध-साधनमिति चेत् । न । तदवच्छेदेन तद्विशेषप्रकारविरहनिश्चयस्य तत्सामान्यप्रकारकसिद्धि-प्रतिबन्धकत्वात् । अन्यथा स्पर्शवद्द्रव्यम् अनुष्णं द्रव्यत्वा दाकाशवदित्यादेरनाभासत्वप्रसङ्गः । सत्प्रतिपक्षस्याप्रतिबद्धत्वापातश्च ।
किञ्च न्यायतौल्येन पक्षतावच्छेदकैक्ये क्वचिदपि पक्षे साध्यसिध्या सिद्धसाधनवत् साध्यविरह-निश्चयस्यापि बाधत्वेन प्रतिबन्धकत्वमास्थेयम् । अन्ये तु एवमपि तत्र मिथ्यात्वानुमितेर्भ्रमत्वेन तत्त्वनिर्णयाभावेन वादकथया निर्णयसिद्धये तदुपादानमित्याहुः । निषेधकोटौ तु सिद्धसाधनमेव पक्षतावच्छेदकधर्मसामानाधिकरण्येनोद्देश्यायाः क्वचिदपि पक्षे साध्यसिद्धेर्जातत्वात् । अन्यथा शब्दोऽनित्य इत्यत्र ध्वनिभिः सिद्धसाधनं नोद्भाव्येत । अतो ब्रह्मान्यदिति तन्निर्देशः । तावत्येवोच्यमाने तुच्छस्यापि पक्षान्तःप्रवेशापत्या विधिकोटौ मायावादिमते बाधस्तत्त्ववादिनये तु सिद्धसाधनं निषेधकोटौ बाधश्चातस्तत्परिहारजिहीर्षयाऽसद्विलक्षणत्वे सतीत्युक्तम् । एवमपि शुक्तिरूप्यादेः पक्षान्तःप्रवेशेन विधिकोटौ सिद्धसाधनं मा प्रसाङ्क्षीदिति तज्जिहासयाऽबाध्यत्वे सतीति । इदं च पक्षताव-च्छेदकधर्मसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात्पक्षैकदेशे साध्यसिद्धावपि सिद्धसाधनतेति मते तद्वारणाय । यदि पुनः पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्या तदैकदेशे साध्यसिद्धावपि सिद्धसाधनाभावात्तद्वारकं विशेषणं अनुपादेयम् ।
ननु प्रयोक्तृसिद्धिमादाय सिद्धसाधनस्य दोषत्वे सर्वानुमानोच्छेदापत्याऽतिप्रसङ्गः । तत्त्वविन्नये तु भ्रान्तिप्रतिपन्नस्य शुक्तिरूप्यादेरसत्वेनासद्विलक्षणत्वे सतीत्यनेनैव व्यावर्तितत्वात् पक्षान्तःप्रवेशाभावेन सिद्धसाधनाप्रसक्तिरित्यबाध्यत्वे सतीति पक्षो न विशेषणीय इति । उच्यते । स्वार्थानुमानपूर्वकत्वा-त्परार्थानुमानस्य सिषाधयिषाविरहसहकृतसिद्ध्यभावरूपायाः उभयानुगतायाः पक्षतायाः अवश्याभ्युपगम-नीयत्वेन स्वार्थानुमाने पक्षादिविवेचनसिद्ध्यर्थं तदुपादानमिति न तद्वैय्यर्थ्यम् । यद्यप्येकस्यैवाभेदानुमान इव सिषाधयिषितधर्मत्वेन पक्षत्वस्य, निश्चितसाध्यवत्वेन सपक्षत्वस्य च सम्भवे सिषाधयिषित-धर्मवद्भिन्ननिश्चितसाध्यवत्वस्य तदप्रयोजकत्वात् सपक्षव्यावृत्यर्थं पक्षविशेषणोपादानमयुक्तम् तथापि नानुमित्सामात्रेण न मिथ्यात्वानुमानप्रवृत्तिः किन्तु विप्रतिपत्याऽपि । तथा च यदवच्छेदेन विप्रति-पत्तिस्तदनुपदर्शनेन मिथ्यात्वानुमानावतार इति विप्रतिपत्तिधर्मिप्रदर्शनार्थं तद्विशेषणमिति द्रष्टव्यम् ।
यद्वा भ्रान्तिप्रतिपन्नार्थस्यान्यत्र सत्वमभ्युपगच्छतां विश्वसत्यत्ववादिनां नैय्यायिकादीनां सत्ख्याति-वादिनां भट्टभास्करादीनां च मतेन सिद्धसाधनं मा भूदिति भ्रान्तिप्रतिपन्नार्थव्यावृत्यर्थमबाध्यत्वे सतीति पक्षो विशेषितः । तथापि विवर्तमते वियदादेरपि बाध्यत्वात्पक्षालाभः स्यादतस्तदर्थं वैकल्पिकं विशेषणद्वयं ब्रह्मप्रमान्येनाबाध्यत्वे सतीति, सप्रकारेणाबाध्यत्वे सतीति वेति उपात्तम् । तत्रापि यन्मते ब्रह्म, वेदान्तमहावाक्यजन्यवृत्तिव्याप्यं तन्मतेनाद्यं विशेषणम् । यन्मते तु न ब्रह्म वृत्तिव्याप्यं तन्मतेन गगनादेरपि ब्रह्मप्रमान्यतदविषयकप्रमाबाध्यत्वात् पक्षालाभः तदवस्थ इति द्वितीयमिति विवेक्तव्यम् । न च ब्रह्मणाऽरोपितक्षणिकत्वादेरधिष्ठानब्रह्मप्रमामात्रनिवर्त्यत्वात्तत्र सिद्धसाधनम् । शुक्तिज्ञानादेरपि ब्रह्मज्ञानत्वात् तद्बाध्ये शुक्तिरजतादौ च सिद्धसाधनं निषेधकोटौ बाधश्चेति न मन्तव्यम् । अत्र प्रमापदेनाखण्डार्थत्वाभिमतवेदान्तमहावाक्यजन्यप्रमैवाभिप्रेतेति वक्ष्यमाणत्वात् । आत्मारोपितक्षणिकत्वा-देस्तु योऽहं बाल्ये पितरावन्वभूवं सोऽहमिदानीं प्रणष्टौ पश्यामीति सप्रकारकप्रत्यभिज्ञारूपसाक्षि-प्रत्यक्षबाधितत्वात् । वादिविमतिप्रसक्तस्य तु तदनुग्रहीतयौक्तिकबाधव्युदसनीयत्वात् । अन्यथाऽ-खण्डार्थत्वभङ्गः । निष्प्रकारकत्वाविशेषेऽप्याद्ये मते निष्प्रकारिका ब्रह्मविषयिका प्रमा, द्वितीये तु तदविषयिका निष्प्रकारका प्रमेति भेदः । एतदेवाखण्डार्थनिष्ठवेदान्तजन्येत्यादिना विभावयिष्यते । नापि देहात्मैक्ये सिद्धसाधनम् । अग्निमाणवकयोरिव मम देह इति देहात्मनोः स्पष्टतरभेदापरोक्षावभासेन देहात्मैक्यारोपासम्भव इति मताश्रयणेन विप्रतिपत्तिस्वरूपावतारात् । न च तत्त्ववादिनये सत्यन्त-विशेषणद्वयान्यतरवैय्यर्थ्यं तदवस्थमिति वाच्यम् । उभयसिद्धप्रयोजनवत्वस्यावैय्यर्थे तन्त्रत्वात् । न त्वेकस्य प्रयोजनस्योभयमते सिद्धिरवैय्यर्थ्ये तन्त्रं, गौरवात् ।
यद्वा आद्यसत्यन्तविशेषणस्थाने सत्यत्वविवर्तवाद्युभयवादिसिद्धमिथ्यात्वकभिन्नत्वं विशेषणं देयम् । अस्ति च शुक्तिरूप्ये देहात्मैक्ये च सत्यत्ववादिनां वैशेषिकादीनां विवर्तवादिनां च मिथ्यात्व-सम्प्रतिपत्तिरतस्तस्य न पक्षता । प्रपञ्चे च तार्किकादीनां च न मिथ्यात्वसम्मतिरतः पक्षतोपपत्तिः । सिद्धान्ते देहात्मैक्यभ्रमाभावेऽपि दोषाभावश्च । इदं च विप्रतिपत्तिस्वरूपं तार्किकादिरीत्यैवेति अनुपदमेव वक्ष्यति । तेन तुच्छस्यापि निषेधप्रतियोगित्वात्तत्र विधिकोटौ बाधाभावेन तद्वारणायासद्विलक्षणत्वे सतीति विशेषणमसङ्गतम् । शुक्तिरूप्यादेरसत्वेनासद्विलक्षणत्वे सतीत्यनेनैव तद्वारणात् । तत्र सिद्धसाधनवारणायाद्यं वैकल्पिकं विशेषणद्वयं च व्यर्थमित्यादिदूषणमनवकाशं वेदितव्यम् । स्वमते निषेधकोटौ बाधवारकत्वाच्च । नभोनैल्यचन्द्रप्रादेशिकत्वयोः सप्रकारकबाधार्हत्वात्तत्रापि सिद्धसाधनमिति । यत्र ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति सत्वेन प्रतीत्यर्हं चिद्भिन्नमिति विप्रतिपत्तिधर्मिस्वरूपप्रदर्शनं तत्स्वमताज्ञानविजृम्भितत्वादसारम् । शुद्धं ब्रह्म वृत्तिव्याप्यमपि नेति मते वियदादेरपि ब्रह्मप्रमान्यतद-विषयनिष्प्रकारकप्रमाबाध्यत्वात्पक्षमात्रालाभापातात् । देहात्मैक्ये सिद्धसाधनाच्च । आत्मक्षणिकत्वादावपि तथात्वप्रसङ्गाच्च । शशविषाणमस्तीति वाक्याभासादिना तुच्छस्यापि सत्वेन प्रतीयमानतया पक्षान्तः-प्रवेशापत्या त्वन्मतेनैव बाधापत्तेश्च । अथ तुच्छेऽपि सद्रूपत्वविरहरूपमिथ्यात्वमस्तीति न बाध इति मनुषे तर्हि तद्व्यावृत्यर्थस्य सत्वेन प्रतीत्यर्हत्वरूपविशेषणस्य वैय्यर्थ्यापत्तेः । तस्मान्मूलोक्तमेव विप्रतिपत्तिधर्मितावच्छेदकं साधीयः । नन्वियं विप्रतिपत्तिः सर्वेषां विश्वसत्यत्ववादिनां नैय्यायिकादीनां विवर्तवादिनां नोपपद्यते । एकदा नैकैः विवादासम्भवादिति । सा च तत्त्ववादिनो मायावादिनेति तावद्ब्रूमः । न च तत्रासद्विलक्षणत्वे सतीत्यनेनैव विशेषणेन शुक्तिरूप्यव्यवच्छेदे सिद्धे तद्व्यावृत्यर्थं विशेषणान्तरोपादानमनर्थकमिति देश्यम् । परमते सिद्धसाधनवारणार्थत्वात् । स्वमते तु तदुपरक्तं बुद्धेरुद्धेश्यत्वात् ।
यद्वा तार्किकस्य मायावादिना सेति वदामः । न च सचेतसां तत्र मूकतैवोचितेत्युक्तत्वेन तान्प्रति द्वितीयसत्यन्तविशेषणवैय्यर्थ्यमिति वाच्यम् । तथात्वे क्षणिकत्वादिवादानिरासप्रसङ्गात् । न च तार्किकादिमते आपणस्थरूप्यातिरिक्तशुक्तिरूप्यस्याभावेन तत्र सिद्धसाधनवारणार्थोपात्ताबाध्यत्व-विशेषणानुपपत्तिरिति वाच्यम् । दोषवशात् शुक्तिसंसृष्टतया प्रतीयमाने वस्तुत आपणस्थरूप्य एव तन्मते सिद्धसाधनवारणाय तद्विशेषणोपादानोपपत्तेः । अन्यथा बाध्याबाध्यविवेकानापत्तिः । न च प्रतिपन्नोपाधावित्यत्र साध्ये सर्वस्मिन्नित्यस्य विशेषणस्यावश्यकतया रूप्ये सिद्धसाधनानावकाश इति वाच्यम् । तथात्वे दृष्टान्ताभावेनाप्रसिद्धविशेषणत्वापातात् । न च वियदादेरपि क्वचिदधिकरणे भ्रम-सम्भवेन भ्रान्तिप्रतिपन्नाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वस्य सत्वपक्षेऽपि सुवचत्वेन सर्वत्रैव सिद्ध-साधनापात इति शङ्क्यम् । भ्रान्तिप्रतिपन्नस्याधिष्ठानातिरिक्तस्य शुक्तिरूप्यतौल्येेनेष्टापत्तेः । व्यधिकरण-प्रकारकत्वेन ज्ञानस्य भ्रमत्वं ब्रुवता तद्विषयबाध्यताया अवश्याभ्युपगमनीयत्वात् । प्रतिपन्नोपाधौ भ्रम्यमाणगोचरस्य नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधावगमस्य बाधत्वात् । न च तार्किकमते शुक्तिरूप्यज्ञानस्यैव भ्रमत्वख्यापनरूपबाधविषयतया रजतस्याबाध्यतेति देश्यम् । नास्त्यत्र रजतत्व-मित्याकारकस्य नेदं रजतमित्याकारस्य वा बाधकप्रत्ययस्य विषयासत्वगोचरत्वेन रजतज्ञानभ्रमत्वाख्याप-कत्वात् । भ्रमोत्तरकालीनबाधेन तद्विषयासत्वे उपस्थापिते स्मृत्युपनीते भ्रमे विषयासत्वगर्भभ्रमत्वा-परपर्यायाप्रामाण्यस्य विसंवादलक्षणापवादसहकृतेनानुव्यवसायख्यापनीयत्वात् । जरन्नैय्यायिकमते तु शुक्त्यनुयोगिकरजतत्वप्रतियोगिकसंसर्गस्यासत एव सत्त्वेन प्रतीयमानतया तदुपरक्ते रूप्ये बाधोपपत्तेः । न च तथापि भट्टभास्करस्य कथं मायिना विवादः । तेन शुक्तौ रूप्यं तात्कालिकमुत्पन्नं तत्रैव सदित्यङ्गीकारेणाद्यसत्यन्तविशेषणस्य तद्वारकत्वासम्भवात् तस्य पक्षाबहिर्भावेन तत्र सिद्धसाधनं तदवस्थमेवेति साम्प्रतम् । भास्करादिभिरपि स्वोचितक्रियार्हत्वतदनर्हत्वाभ्यां शुक्तिरूप्यस्यापणस्थ-रूप्यादिवैलक्ष्यण्यमङ्गीकार्यमेवेति तन्मतेऽपि भ्रान्ति(प्रति)पन्नस्य पक्षबहिर्भावस्यावश्याभ्युपगन्तव्यत्वात् । अन्यथा प्रमाभ्रमव्यवस्थानुपपत्तिः ।
अथवा सत्यत्ववाद्यनेकमतानुवर्तिनः कुशलस्यैकस्य विश्वसत्यत्ववादिनो विवर्तवादिना कथारम्भो-पपत्तिः । तार्किकादिमते स्वमते चोद्देश्या तदुपरक्ते साध्यसिद्धिः प्रयोजनमिति सर्वमतेऽपि विशेषण-मर्थवत् । विशेषणवैय्यर्थ्ये सर्वसिद्धं प्रयोजनवत्वं तन्त्रम् । न तु विशेषणप्रयोजनस्य सर्वसिद्धत्वमपि गौरवादिति सर्वमवदातम् । धर्मिणमुल्लिख्य कोटिद्वयं निर्दिशति– प्रतिपन्नेति । अत्र निषेधपदेन संसर्गा-भावो विवक्षितस्तेन नान्योन्याभावमादाय सिद्धसाधनम् । तथापि सत्यत्ववादिना घटादेः कालान्तरा-वच्छिन्ननिषेधाङ्गीकारेण सिद्धसाधनं स्यात्तत्परिहर्तुं त्रैकालिकत्वेन निषेधो विशेषितः । प्रतिपन्नेतिपदाभावे पुनस्तदेव सिद्धसाधनं, सत्यत्ववादिना गोत्वादेरश्वादावुक्तप्रतिषेधाभ्युपगमात्तदर्थं प्रतिपन्नेति पदम् । उपाधिपदाभावे तु प्रतिपन्नस्य घटादेरेव स्ववृत्तित्रैकालिकनिषेधप्रतियोगित्वेन सिद्धसाधनम् । प्रतियोगिवृत्यभावस्यैवात्यन्ताभावत्वात् तदर्थमुपाधिपदं, तच्च प्रतियोग्यधिकरणपरम् । प्रतियोगिपदादाने तु प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधस्यैव मिथ्यात्वसिद्ध्या विश्वसत्यत्वाप्रतिक्षेपादर्थान्तरं स्यात्तदर्थं प्रतियोगीति । प्रतिपन्नत्वं च प्रतीतत्वमात्रम् । अतः प्रमीयमाणत्वं भ्रम्यमाणत्वं चादाय न बाधसिद्धसाधने । न चैवमपि सत्त्वपक्षे भ्रमप्रतिपन्नाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वमादाय सिद्धसाधनं स्यादतोऽधिकरणं यावत्त्वेन विशेषणीयमिति साम्प्रतम् । यावत्प्रतिपन्नसदधिकरणकात्यन्ताभाव-प्रतियोगित्वस्याप्रसिद्धत्वेनाप्रसिद्धविशेषणत्वापातात् । पक्षधर्मताबललभ्यतादृशसाध्यपर्यवसितिमादाय सिद्धसाधनस्य प्रसिद्धानुमानवत्सुपरिहरत्वात् । विधिकोटिप्रसिद्धिः शुक्तिरूप्यादौ निषेधकोटिप्रसिद्धिस्तु ब्रह्मणीति ज्ञेयम् ।
ननु मायिकस्याविद्यकस्य वियदादेः शुक्तिरूप्यादेश्च विवर्तवादिना प्रतिभासकालेऽवस्थित्यङ्गीकारेण स्वरूपतस्त्रैकालिकनिषेधप्रतियोगित्वानङ्गीकारान्नैतद्युक्तमित्यत आह– पारमार्थिकत्वाकारेणेति । शुक्ति-रूप्यादौ लौकिकं प्रपञ्चे तु कालत्रयाबाध्यत्वलक्षणं पारमार्थिकत्वमिति विवेकः । वैकल्पिका-बाध्यत्वविशेषणद्वयसिद्धमर्थं दर्शयति– अखण्डार्थेति । संसर्गागोचरप्रमाजनकत्वं प्रातीतिकार्थमात्रपरत्वं च द्विविधमखण्डार्थनिष्ठत्वम् । ऐक्यपरवेदान्तमहावाक्यस्य पूर्वम् । सत्यं ज्ञानमित्यादिवेदान्त-महावाक्यस्य तु द्वितीयमिति विशेषः । निष्प्रकारकप्रमाजनकत्वेनानुगमः । ब्रह्म वृत्तिव्याप्यमपि नेति मते ब्रह्मविषयकनिष्प्रकारकज्ञानजनकत्वमिति भेदः नाश्रयासिद्धिर्नाश्रयालाभ इत्यर्थः । उक्तं प्रकारमन्यत्रातिदिशति । एवमिति ।
न्यायामृतसौगन्ध्यम्
‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ ‘तद् ब्रह्म’ ‘तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिश्शाश्वती नेतरेषाम्’ ‘ब्रह्मविदाप्नोति परम्’
‘ज्ञात्वाऽऽत्मस्थं हरिं चैव न निवर्तन्ति तेऽव्ययाः ।’
‘भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।।’
‘ततस्त्रौगुण्यहीनास्ते परमात्मानमञ्जसा ।
एकान्तभावोपगताः वासुदेवं विशन्ति ।।
इत्यादिश्रुतिस्मृतिभिस्सगुणं ब्रह्म जिज्ञास्यम्, तज्ज्ञानादेव मुक्तिः, तदेव मुक्तानां प्राप्यमित्युक्तम् । ब्रह्मणस्सगुणत्वं तु विश्वस्य सत्यत्वव्यवस्थापनेन सिद्ध्यति, तत्सत्यत्वं तु विश्वमिथ्यात्ववादनिरसनेन सिद्ध्यतीति तन्निरासाय तन्मतमुत्थाप्यते ।
‘‘ननु मिथ्यैव विश्वम् । तथा हि तत्र विप्रतिपत्तिः । ब्रह्मप्रमेतराबाध्यत्वे सत्यसद्भिन्नत्वे सति ब्रह्मान्यन्मिथ्या ? न वा ? । पारमार्थिकत्वाकारेण प्रतिपन्नोपाधौ निषेधप्रतियोगि न वा ?’’ इति । पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यतायां– ब्रह्मप्रमेत्यादि । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतायां तु तन्नोपादेयमेव । असति बाधासिद्धिवारणाय– असद्भिन्नेत्यादि । ब्रह्मणि बाधासिद्धिवारणाय– ब्रह्मान्यदिति ।।
इदं विप्रतिपत्तिप्रदर्शनं नावश्यकम् । सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपपक्षतायां संशयस्यानुपयोगात् । यत्तु विप्रतिपत्तिजन्यसंशयस्यानुमित्यनङ्गत्वेऽपि विचारसाध्याभावप्रतियोगितया व्युदसनीयतया विचाराङ्गत्वमस्त्येवेति । तन्न । वादिप्रतिवादिनोर्मध्यस्थानां च निश्चयवत्वेन व्युदसनीयसंशयस्यैवाभावात् ।
ननु विप्रतिपत्तिवाक्यस्य वाद्यादिषु संशयाजनकत्वेऽपि मध्यस्थादिषु संशयजनकत्वमस्त्येव । तेषां विशेषादर्शनात् । न चान्यदीयसंशयस्य पक्षत्वाप्रयोजकत्वेनानुमानाङ्गत्वं नेति वाच्यम् । अन्यदीय-संशयस्यानुमानानङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्त्येव । वाद्यादिषु संशयं प्रति विप्रतिपत्तेर्निश्चयादिना प्रतिबन्धादजनकत्वेऽपि स्वरूपयोग्यत्वात् समयबन्धादिवत् स्वकर्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव । वाद्यादीनां निश्चयवत्वनियमाभावाच्च । ‘निश्चितौ हि वादं कुरुतः’ इत्याभिमानिक- निश्चयाभिप्रायम् । परपक्षमालम्ब्याहंकारिणो विपरीतनिश्चयवतो जल्पादौ प्रवृत्तिदर्शनादिति चेत् । न । वाद्यादीनां विशेषदर्शनवत्त्वध्रौव्येण क्वचिदपि वाद्यादिनिष्ठसंशयानुपहितत्वेनातादृशसंशयं प्रति तस्याः स्वरूपयोग्यत्वस्याप्यकल्पनात् । क्वचित् फलोपहितजातीयस्यैव स्वरूपयोग्यत्वात्् । वाद्यादीनां निश्चयवत्वस्य कथातः पूर्र्वं समविद्यत्वज्ञापकपरीक्षादिना सिद्धत्वात् । अहङ्कारिणः परपक्षमालम्ब्य ख्यात्याद्यर्थं जल्पादौ प्रवृत्तिसम्भवाच्च । व्युदसनीयतया विचाराङ्गत्वेऽपि पारिषद्येषु संशयस्य विप्रतिपत्तिं विनाऽपि वादि-प्रतिवादिसन्नाहादिना कोट्युपस्थितौ विशेषादर्शने सति सम्भवेन विप्रतिपत्तिवाक्यस्यानावश्यकत्वात् ।
यत्तु स्वस्य परस्य वा संशयाभाववत्त्वे निश्चिते वादिनोस्तत्र सिद्धत्वज्ञानात् न तदुद्देशेन प्रवृत्तिः । अतः संशयाभाववत्त्वनिश्चयविरोधिनी (संशयवत्त्व)धीरपेक्ष्यत एवेति । तन्न । वादिभ्यां स्वस्य सभास्थानां च संशयाभाववत्त्वे निश्चिते संशयाभावमुद्दिश्य न हि विचारे तयोः प्रवृत्तिः किन्तु विजयादिकमुद्दिश्य । तत्र च विप्रतिपत्तिर्नोपयुज्यत एव । एतेन उक्तस्थले तात्कालिकसंशयाभाववत्वे निश्चितेऽपि निश्चयजन्य-संस्कारस्य कालान्तरोच्छेदशङ्कया संशयोत्पत्तिसम्भवज्ञानेन तदापि संशयाभावोऽनुवर्ततामितीच्छायाः सम्भवात् न विजयादिकमात्रमुद्दिश्य प्रवृत्तिरिति निरस्तम् । तादृशशङ्कायां बीजाभावात् । निर्बीजशङ्कायाः सर्वत्र सम्भवात् ।
यत्तु समयबन्ध एतन्मतमवलम्ब्यैव युवाभ्यां विचारणीयमित्याकारो मध्यस्थेन क्रियते । अन्यथा वादिनोर्मतान्तरे प्रवेशेऽव्यवस्थापत्तेः । यथा वा वादिनौ परीक्ष्येते । अन्यथा मूर्खस्य विचारे मध्यस्थस्यैव हन्त हास्यतापत्तेः । तथा विप्रतिपत्तिरपि मध्यस्थेन कार्यैव । अन्यथा अन्यप्रासङ्गिकविषयमादाय वादिनोरेकस्य जयस्वीकारापत्त्या प्रकृतविषये तयोर्जयपराजयव्यवस्थापनरूपस्य मध्यस्थकर्तव्यस्यानिर्वाहात् । विप्रतिपत्तौ कृतायां तु सभास्थैस्तच्छ्रवणात् विप्रतिपत्तिविषयकोटी अपलप्य प्रासङ्गिकविषयान्तरं न वादिभ्यामवलम्ब्य विजयः स्वीकर्तुं शक्यते । तस्मात् सार्वकालिकसंशयाभावप्रयोजकसंस्कारदार्ढ्यस्योक्त-व्यवस्थापनस्य च स्वकर्तव्यस्य निर्वाहाय मध्यस्थेन विप्रतिपत्तिः कार्यैवेति । तन्न । समयबन्धस्य विजिगीषोः जल्पकथायामङ्गत्वेन प्रदर्शनीयत्वेऽपि संशयस्य तद्धेतुविप्रतिपत्तेश्च तदनङ्गत्वेन प्रदर्शनीयत्वाभावात् । प्रासङ्गिकविषयादानेन जयादिस्वीकारापत्तेर्मध्यस्थपरिकल्पितविषयस्वीकारेणैव निरस्तत्वात् ।
न्यायामृतमाधुरी
मिथ्यैव विश्वमिति । एवकारस्यायोगान्ययोगात्यन्तायोगव्यवच्छेदसाधारणं व्यवच्छेदत्व-मवच्छेदकीकृत्य तद्धर्मावच्छिन्ने शक्तिर्न प्रातिस्विकधर्मावच्छिन्नेषु, तत्तद्धर्मावच्छिन्नानामेवकारस्य विशेषणविशेष्यक्रियावाचकपदसमभिव्याहारादेव लाभादिति प्राचीनपथदर्शितसमभिव्याहारस्या-काङ्क्षात्मकतया एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गरूपवाक्यार्थस्य तदधीनशाब्दधी-विषयतायामपि प्रातिस्विकधर्मावच्छिन्नानां तदनात्मकतया तदधीनतद्विषयत्वायोगेन पराकृत्य दर्शित-प्रातिस्विकधर्मावच्छिन्नेष्वेव विशेषणविशेष्यक्रियावाचकपदसमभिव्याहृतत्वरूपतत्तत्सङ्गतत्व-विशेषितैवकारत्वावच्छिन्नानां शक्तिमुपगच्छन्ति नैय्यायिकाः ।
दीधितिकारीयन्तु– अत्यन्तायोगव्यवच्छेदत्वावच्छिन्ने क्रियावाचकपदसमभिव्याहृतैवकारत्वा-वच्छिन्नस्य शक्तिर्दुरुपगमैव । व्यवच्छेदविशेषणीभूतायोगेऽन्वयितावच्छेदकव्यापकत्वरूपात्यन्तिकत्व-स्यान्वयोपगमस्य नीलं सरोजं भवत्येवेत्यादौ तादृशसरोजत्वादिव्यापकनीलाद्ययोगस्य सिद्ध्य-सिद्धिव्याहततया तद्व्यवच्छेदबोधासम्भवेन नीलायोगे दर्शितव्यापकतारूपतदन्वयोपगमस्य बाधित-तयाऽयोगात् । न चैवकारेण नीलायोगेे दर्शितात्यन्तिकत्वव्यवच्छेद एव बोध्यते । अत्यन्ताभावा-प्रतियोगित्वव्यवच्छेदघटकनिखिलार्थेषु खण्डशः शक्तिव्युत्पत्तिवैचित्र्येण एकपदोपस्थितानामपि विशेषणविशेष्यविधया भानं घटकाभावे सरोजस्याधेयतयाऽन्वय दर्शितव्यवच्छेदविशेषितनीलायोगं प्रति विशेष्यतयाऽपि व्यवच्छेदस्य व्युत्पत्तिवैचित्र्येण भानं, तस्य चान्वयितावच्छेदकीभूतसरोजत्व- सामानाधिकरण्येन भानमुपेत्य शाब्दधीः सूपपादेति सरोजत्वत्वेन तदनुपस्थित्या तदाश्रयनिष्ठाभावा-प्रतियोगित्वव्यवच्छेदस्य दुष्प्रतिपदत्वेऽपि न क्षतिरिति वाच्यम् । द्वितीयाभावस्य प्रथमाभाव-प्रतियोगिस्वरूपतया दर्शिताप्रतियोगित्वव्यवच्छेदस्य दर्शितप्रतियोगितात्मकतया घटकीभूताभाव-प्रतियोगित्वव्यवच्छेदेषु प्रातिस्विकीं शक्तिमुपेत्य तादृशनीलायोगव्यवच्छेदस्य सरोजत्वसामानाधि-करण्येनान्वयाभ्युपगतौ नीलयोगस्य सरोजनिष्ठत्व एव पर्यवसानेनायोगव्यवच्छेदत्वावच्छिन्न एव तस्य शक्तिः । सा चान्वयितावच्छेदकसामानाधिकरण्यमात्रेणान्वयस्थले नीलं सरोजं भवत्येवेत्यादौ अत्यन्तायोगव्यवच्छेद इति, तदवच्छेदकावच्छेदेनान्वयस्थले ज्ञानमर्थं गृह्णात्येवेत्यादौ अयोगव्यवच्छेद इति व्यवह्रीयते । अत एव प्रत्यक्षमणिदीधितौ स्वाश्रयग्राहकेण गृह्यत एव न वेति तृतीय-विप्रतिपत्तिग्रन्थव्याख्यानावसरे ग्राहकपदस्य गृह्णाति विषयीकरोतीति व्युत्पत्या ग्रहपरत्वं, गृह्यत इत्यस्य च विषयीक्रियत इत्यर्थपरत्वमभिसन्धाय स्वाश्रयविषयकनिखिलग्रहविषयत्वरूपमीमांस-काभिमतसाध्यस्य मूले यावत्पदाश्रवणेऽपि एवकारस्यायोगव्यवच्छेदार्थकत्वोपगत्यैव ग्रहे यावत्त्वं सेत्स्यतीत्याशयेनाभिहितं दीधितिकारैः ‘‘यथा चेतीत्यादिना एवकारार्थविवेचने प्रपञ्चितमिती’’त्यन्तेन तादृशदीधितिग्रन्थम् ।
ननु तत्र यावत्पदाश्रवणात्कुतो ज्ञानग्रहे यावत्त्वलाभः । न चैवकारादेव तल्लाभः । एवकारस्य यावत्पदसमानार्थकताविरहात् । न च विशेषणसङ्गतैवकारस्यायोगव्यवच्छेदार्थकतया शङ्खः पाण्डुर एवेत्यादौ यावच्छङ्खे पाण्डुरत्वबोधस्तथाऽत्रापि यावद्ग्रहे प्रामाण्यग्राहकत्वबोधनिर्वाह इति वाच्यम् । शङ्खः पाण्डुर एवेत्यादौ पाण्डुरत्वस्य शङ्खे विशेषणतया पाण्डुरत्वे शङ्खनिष्ठाभावाप्रतियोगित्ववत्प्रामाण्य-विशेषणग्राह्यतावबोधकपदसमभिव्याहृतैवकारात्प्रकृते स्वाश्रयग्रहविषयतायामेव प्रामाण्यत्वव्यापकतायाः लाभसम्भवेन विवक्षितस्य प्रामाण्यग्रहत्वे स्वाश्रयग्रहत्वव्यापकत्वस्यालाभात् । नीलेन सरोजेन भूयत एवेत्यादौ क्रियासङ्गतैवकारेणात्यन्तायोगव्यवच्छेदस्य प्रत्यायनात् प्रकृतेऽप्येवकारस्य क्रियासङ्गत-तयाऽयोगव्यवच्छेदबोधकत्वासम्भवाच्चेत्याशङ्कां परिहरति । यथा चेतीत्यवतार्य, ज्ञानमर्थं गृह्णात्ये-वेतिवत् ज्ञानं रजतं गृह्णात्येवेत्यप्रयोगात् । ग्रहणादिरूपार्थवाचकधातुसमभिव्याहृतेनाप्येवकारेणा-योगव्यवच्छेदः प्रत्याय्यते । ज्ञानमर्थं गृह्णात्येवेत्यादौ कर्तृप्रत्ययस्थले कर्तृज्ञाने यथा क्रियाकर्तृत्वायोग-व्यवच्छेदः प्रतीयते तथा ज्ञानेनार्थो गृह्यत एवेत्यादौ कर्मप्रत्ययस्थले विशेषणविशेष्यभाववैपरीत्येऽपि विशेषणीभूतकर्तरि अविशेषणस्यापि क्रियाकर्तृत्वस्यायोगव्यवच्छेदः प्रतीयते । न तु विशेष्यकर्मणि विशेषणीभूततत्कर्तृकक्रियाकर्मत्वायोगव्यवच्छेदः । ज्ञानग्राह्यत्वायोगव्यवच्छेदस्याप्रसिद्धेः । विशेषणे विशेष्यनिष्ठाभावप्रतियोगित्वव्यवच्छेदस्यायोगव्यवच्छेदरूपत्वे अप्रसिद्धिविरहेऽपि उक्तस्थले तद्बोध-स्वीकारे ज्ञानग्राह्यत्वे रजतत्वव्यापकतायाः अबाधेन ज्ञानेन रजतं गृह्यत एवेत्यादिप्रयोगापत्ते-र्दुर्वारत्वात् । एतज्ज्ञानग्राह्यत्वे अर्थत्वव्यापकताविरहेणैतज्ज्ञानेनार्थो गृह्यत एवेत्यादिप्रयोगानुपपत्तेश्च । एवं च प्रकृतेऽपि प्रामाण्यग्राहकत्वे स्वाश्रयग्रहत्वव्यापकत्वं प्रत्येतव्यमिति विवक्षितार्थलाभा-त्तद्बोधोऽपि कथंचिदुपपादनीय इति गदाधरप्रभृतयो व्याचक्षते । इत्थं चायोगव्यवछेदत्वा-वच्छिन्नार्थकतैवकारस्य स्थितैव ।
वस्तुतस्तु । गुणवद्द्रव्यमेवेत्यादौ जातिरूपतया स्वरूपतो भासमानद्रव्यत्वादेः द्रव्यत्वत्वाद्युप-रागेणानुपस्थित्येतरविशेषणतापन्नतया च एकविशेषणतया भासमानस्यान्यत्र विशेषणतयाऽन्वया-योगादिति व्युत्पत्तिविरोधेन तदयोगव्यवच्छेदबोधसम्भवेन गुणवत्वाद्यवच्छेदेन द्रव्याद्यन्ययोगव्यवच्छेद एव प्रत्यापयितव्यः । इत्थं च ज्ञानमर्थं गृह्णात्येवेत्यादौ तिङो धर्मिपरतया अर्थग्राहकान्ययोगो नीलं सरोजं भवत्येवेत्यादौ, जातिमद्द्रव्यं भवत्येवेत्यादौ नीलभवनान्वययोगोे नीलाद्ययोगव्यवच्छेदो बोध्यः । तथा चान्ययोगव्यवच्छेदत्वावच्छिन्न एव शक्तिः । न तु पूर्वोक्तधर्मावच्छिन्नेऽपि शक्तिद्वयकल्पना-प्रसङ्गेन गौरवात् । अयोगव्यवच्छेदस्येवान्ययोगव्यवच्छेदस्यापि नीलं सरोजं भवत्येवेत्यादौ सामानाधिकरण्येन, ज्ञानमर्थं गृह्णात्येवेत्यादौ त्वच्छेदकावच्छेदेनान्वये क्रियाविशेषणायोगादेरेव नियामकत्वमास्थेयम् । शङ्खः पाण्डुर एव इत्यादौ तादात्म्यसम्बन्धेन पाण्डुरविशेष्ये शङ्खादौ पाण्डुरान्यतादात्म्यावच्छेदबोधं प्रति विशेष्ये तादात्म्येन तत्प्रकारकबोधप्रयोजकपदोत्तरैवकारत्वेन पार्थ एव धनुर्धर इत्यादौ पार्थविशेषणे धनुर्धरे पार्थान्यतादात्म्यव्यवच्छेदबोधं प्रति तद्विशेष्यकबोध-प्रयोजकपदोत्तरैवकारत्वेन हेतुत्वमुपेयमित्यादिकमाकरे निरूढमेव ।
इत्थं च मिथ्यैव विश्वमित्यत्रैवकारस्य विशेषणसङ्गततया अन्वयितावच्छेदकीभूतविश्वत्वावच्छेदेन मिथ्यापदोपस्थाप्यालीकान्यतादात्म्यव्यवच्छेदबोधनात् । सत्याशेषविश्वस्य कारणमित्यनेन ध्वनितात्मीयसिद्धान्तवैपरीत्येन निर्देशः । विशेष्यतावच्छेदकावच्छिन्ने सर्वस्मिन् विशेषण-सम्बन्धबोधनादित्यभिदधतां व्याकर्तॄणां विन्यासोऽपि दर्शाभिप्रायकतया नेयः । द्वितीयाभावस्य प्रथमाभावप्रतियोगिस्वरूपतयाऽयोगव्यवच्छेदस्य योगात्मकत्वात् । परन्तु अयोगव्यवच्छेदत्वेन भासत इत्यन्यदेतत् । तत्रेति । सन्देहजनकवाक्यस्यैव विप्रतिपत्तिपदार्थतया विप्रतिपत्तिपदार्थतावच्छेदक-घटकसन्देहान्वयिनी विषयिता प्रकृतकोटिद्वयार्थकसर्वनामप्रकृतिकसप्तम्या प्रत्याय्यते । भाष्यकारा-द्युदाहृतश्रुत्यादिशतव्युत्पादितसर्वकर्तृत्वपालकत्वात्तृत्वाद्युपरागेण ब्रह्मगोचराधिगतेः कैवल्योपधायक-प्रसादौपयिकसाक्षात्कृतिहेतुभूतायाः जगत्सत्यत्वनिबन्धनतया तदवधारणसाधनीभूतस्वपक्ष-समर्थनपरपक्षबाधनोभयविशेषितविपरीतोद्भावकपरविजिगीषापूर्वकन्याय प्रयोगरूपजल्पात्मकविचाराङ्ग-संशयजननीं विप्रतिपत्तिमाह– ब्रह्मप्रमेत्यादिना ।
अत्राद्वैतसिद्धिकारः । औतसिद्धेर्द्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथममुपपाद-नीयम् । उपपादनं च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयमित्युपोद्धातमभ्यधात् । तत्रत्यानि वादजल्पवितण्डादिपदानि– वादस्तत्त्व-बुभुत्सुना सह कथा, जल्पो विजिगीषुणा सह, वितण्डा स्वपक्षस्थापनहीनेत्यादिना ब्रह्मानन्दो व्याक्षासीत् । उभावपि स्थूलदृश्वानौ । वितण्डायां स्वपक्षस्थापनविरहेण तद्घटितोभयस्य तादृश-कथामाश्रित्य सम्पादनीयत्वायोगेन तत्पदोपादानस्य, वादे मध्यस्थप्रदर्शनीयविप्रतिपत्तेरनादरणेन तत्पदोपादानस्य च पूर्वोत्तरविन्यासाननुसन्धानविजृम्भितत्वात् । कथमन्यथा प्रत्यक्षमणिदीधितौ ‘विप्रतिपत्तिग्रन्थावतरणिकास्थविचाराङ्गे’ति प्रतीकमुपाददानास्त्रितयानुगतधर्मावच्छिन्ननिरूपित-शक्तिकमपि विचारपदं, ‘विचारो जल्पः विपरीतोद्भावकपरविजिगीषया न्यायप्रयोगः’ इति व्याचक्रिरे गदाधरप्रभृतय इत्यलं आकरादिविरोधोद्भावनेन ।
अत्र विधिकोटिरद्वैतवादिनाम् । निषेधकोटिस्तत्त्ववादिनामेव । असत्पदस्य कतिपयदेशकाला-सत्वार्थकतायामविभुसामान्यस्यैव तादृशतया तादृशघटादिवृत्तिव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिता-कस्य प्रातिस्विकधर्मावच्छिन्नप्रतियोगिताकस्य वा भेदस्यालीकसाधारणतया विधिसाधने द्वैतिदिशा असिद्धिप्रसङ्गेन निखिलदेशकालासत्त्वावच्छिन्नप्रतियोगिताकभेदपर्यन्तमवश्यं विवक्षणीयम् ।
इत्थं चान्यथाख्यातिमुपगच्छतां नैय्यायिकानामलीकावगमाभावेन तत्प्रतिसन्धाननिबन्धनप्रति-सन्धानकतद्वैलक्षण्यघटितपक्षतावच्छेदकवैशिष्ट्यस्य न्यायनये दुष्प्रतिपदतयोक्तधर्मावच्छिन्ने नैय्यायिकं प्रति विधिसाधनायोगेन नैय्यायिकानां प्रकृतविप्रतिपत्तिप्रतिग्रहीतृत्वायोगात् । अत एव ईश्वर-ज्ञानान्यज्ञानत्वावच्छेदेन जीववृत्तित्वस्य तत्सामानाधिकरण्येन तदभावस्य च सिषाधयिषायां तादृशज्ञानं जीववृत्ति न वेति विप्रतिपत्तिगृहीतृता नैय्यायिकवेदान्तिनोर्न त्वीश्वरद्विषो मीमांसकस्यापि काञ्चनमयपर्वतो वह्निमानित्यादाविवाश्रयासिद्धेरिति सङ्गच्छते । इत्थं च तत्तन्मतदिशा तत्तत्कोटि-सत्त्वमुपपादनीयम् । तत उत्तरं पूर्वपक्षः परिष्करणीय इत्यवधेयम् । अत्र विश्वत्वावच्छेदेन विधेः सिषाधयिषिततया पक्षतावच्छेदकसामानाधिकरण्येन ब्रह्मणि बाधनिरसनाय ब्रह्मान्यदिति पदोपादानम् । तत्पदोपादाने च ब्रह्मान्यत्वघटितपक्षतावच्छेदकानाक्रान्ततया क्षतिविरहात् । अथ भूतलत्वावच्छिन्नधर्मिकघटाभाववत्ताग्रहदशायां द्रव्यत्वाद्यवच्छिन्नधर्मिकघटवत्ताग्रहानुत्पादवारणाय समानधर्मितावच्छेदककप्रतियोगितदभाववत्ताग्रहयोरेव प्रतिबध्यप्रतिबन्धकभावस्याकरे स्थिततया ब्रह्मत्वधर्मितावच्छेदिकिका बाधधीः कथं विश्वत्वधर्मितावच्छेदकिकामनुमितिं प्रतिबध्नीयादिति चेन्न ।
अत्र गुरुपादाः । द्रव्यत्वावच्छेदेन गन्धवत्वेन पृथिवीत्वसाधने द्रव्यत्वेन जलाद्यवगाहिन्याः पक्षतावच्छेदकसामानाधिकरण्येन बाधबुद्धेः तद्व्यापकताविशिष्टसंसर्गावच्छिन्नविधेयताकानुमिति-प्रतिबन्धकतावत्प्रकृतेऽपि विश्वत्वेन ब्रह्मविषयीकुर्वाणायाः बाधबुद्धेः तदवछिन्नानुमितिप्रतिबन्धकतायाः निरर्गलत्वात् । न हि निदर्शनीकृते जलत्वावच्छिन्नधर्मिकबाधबुद्धेः प्रतिबन्धकतामुपगच्छतीति । असत्ख्यात्युपगन्तॄणां तत्त्ववादिनां मते अलीकस्य पक्षतायामपि तत्र साध्यहेत्वोस्सम्प्रतिपत्त्या बाधसिध्योरुद्भावनायोगेन तद्वारकतया सार्थक्यस्य दुःसम्पादतायामपि प्रमिते पक्षे उभयसिद्धेन हेतुना सन्दिग्धं साध्यं साधनीयमिति कथकानां सम्प्रदायानुरोधेन विधिसाधनदशायामद्वैतिरीत्या पक्षता-वच्छेदकसामानाधिकरण्येन बाधासिद्धिवारणायासद्विलक्षणत्वांशनिवेशनम् । वैकल्पिकविशेषणद्वय-घटिताबाध्यत्वोपादानस्य तु तत्त्ववादिनो सत्ख्यात्युपगन्तृतया विधौ साध्ये शुक्तिरजतादेस्तद्वैलक्षण्य-घटितपक्षतावच्छेदकानाक्रान्ततया सिद्धसाधनस्यानुद्भावनीयतायामपि निषेधसाधने औतिदिशा विपर्यस्तस्य पक्षतापत्त्या बाधोद्भावनसम्भवेन तन्निवारकताऽवसेया । यद्यपि पक्षतावच्छेदक-सामानाधिकरण्येन निषेधसाधनेऽपि तत्त्ववादिनो निगृहीतवादित्वोपपत्त्या तादृशनिषेधानुमितौ च तत्सामानाधिकरण्येन बाधस्याकिञ्चित्करतया न तन्निवारकाबाध्यतोपादानावश्यकता तथापि मिथ्यैव विश्वमिति प्रतिजानतो वादिन एवकारमहिम्नौक्तदिशा विश्वत्वावच्छेदेन विधिगोचरानुमितेरेवोद्देश्यता यथाऽध्यवस्यते तथा सत्याशेषविश्वस्य कारणमिति प्रतिजानतः प्रतिवादिनोऽपि विश्वत्वावच्छेदेन निषेधगोचरानुमितेरेव उद्देश्यताध्यवसित्या तादृशानुमितेश्च तत्सामानाधिकरण्येन बाधधीप्रतिबध्यतया तद्वारकतया तदुपादानावश्यम्भावात् । तत्सामानाधिकरण्येन निषेधानुमितेर्वादिनिग्रहफलकत्वेऽपि प्रतिवाद्यनुद्देश्यत्वादेव तदनादर्तव्यत्वात् । तदानीं तस्य मन्दप्रयोजनत्वेऽपि क्षत्यभावात् ।
न हि विप्रतिपत्तिवाक्यघटकपदानामुभयदिशापि प्रयोजनवत्तयैव भवितव्यमिति नियमोऽस्ति । अत एव तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वेति द्वितीयविप्रतिपत्तिग्रन्थव्याख्यावसरे तज्ज्ञान-विषयकज्ञानाजन्यमीश्वरज्ञानं तद्विषयत्वस्य केवलान्वयितया निषेधसाधने साध्याप्रसिद्धिर्विधिसाधने च सिद्धसाधनं चरमज्ञाने तज्ज्ञानसमानाधिकरणत्वनिवेशेऽपि तज्ज्ञानसमानाधिकरणज्ञानमात्रस्यैव तज्ज्ञानविषयकेश्वरज्ञानजन्यतया तज्ज्ञानविषयकज्ञानजन्यतत्समानाधिकरणज्ञानाप्रसिध्या तदभावा-प्रसिद्धितादवस्थ्यमतस्तज्ज्ञानविषयकज्ञाने तदजन्यज्ञाने च तज्ज्ञानसामानाधिकरण्यविशेषणं दीधितिकारैर्निवेशितम् । तत्र शेषज्ञाने तज्ज्ञानसामानाधिकरण्यस्य दर्शितदिशा कोटिद्वयसाधनदशायां प्रयोजनवत्वेऽपि तज्ज्ञानविषयकज्ञाने तत्सामानाधिकरण्यस्य निषेधे साध्याप्रसिद्धिवारकतया सार्थक्यम् । विधिसाधने तु न किञ्चिदपि प्रयोजनमित्याकरदृशां निरूढःपन्थाः । वैकल्पिक-विशेषणद्वयोपादानं आश्रयासिद्धिव्युदसनायेति ग्रन्थकृदेव स्फुटीकरिष्यति । तत्र तादृशपूर्वविशेषण-परित्यागेन विशेषणान्तरोपादानबीजं तु निबन्धान्तरेषु स्फुटम् । यद्यपि ज्ञानजन्यध्वंसप्रतियोगित्व-रूपबाध्यत्वस्य तत्त्ववादिना क्वाप्यनुपगततया तद्व्यतिरेकघटितपक्षतावच्छेदकवैशिष्ट्यं तन्मते दुर्ग्रहमेव । तथापि प्रत्यक्षमणिदीधितौ ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वेति प्रथमविप्रतिपत्तिग्रन्थव्याख्यानावसरे ज्ञानं गुणः घटज्ञानं गुण इत्यादिसामग्रीमादाय घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वरूपघटत्वघटितप्रामाण्ये बाधवारणाय अप्रामाण्याग्राहकपदं प्रामाण्याग्राहकत्वेन ज्ञानग्राहकत्वेन भट्टमतसिद्धा या सामग्री तदन्यार्थकतया यथा व्याख्यातं तद्वत्प्रकृतेऽपि ज्ञानजन्यध्वंसप्रतियोगित्वरूपबाध्यत्वविशेषिततयाऽद्वैतिमतसिद्धं यत्तदन्यार्थकतया व्याख्याने सामञ्जस्यात् ।
अत्राद्वैतसिद्धिकारः । पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात्पक्षैकदेशे साध्य-सिद्धावपि सिद्धसाधनतेति मते शुक्तिरूप्ये सिद्धसाधनवारणाय ब्रह्मज्ञानेतराबाध्यत्वं पक्षविशेषणम् । यदि पुनः पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्या तदैकदेशे साध्यसिद्धावपि सिद्धसाधना-भावात्तद्वारक विशेषणमनुपादेयम् । इतरविशेषणद्वयन्तु तुच्छे ब्रह्मणि च बाधवारणायादरणीय-मेवेत्यभाषत । (गौडब्रह्मानन्दीयम्) मत इति । यद्व्यक्तौ साध्यं सिद्धं तत्र नानुमितिर्भवति व्यक्त्यन्तरे तु भवत्येव । समानविशेष्यत्वसम्बन्धेन बाधविशिष्टबुध्योरिव सिद्ध्यनुमित्योः प्रतिबन्धकत्वौ-चित्यादिति प्राचां मतम् । नव्यमते तु यद्धर्मविशिष्टे क्वचित्साध्यं सिद्धं तद्धर्मविशिष्टव्यक्त्यन्तरेऽपि नानुमितिरिति भावः । पक्षविशेषणं पक्षतावच्छेदकतापर्याप्त्यधिकरणं तन्मात्रं पक्षतावच्छेदकम् । ब्रह्मज्ञानान्याबाध्यत्वसामानाधिकरण्येनानुमितिं प्रति तत्सामानाधिकरण्येन ब्रह्मतुच्छयोः साध्याभाव-ज्ञानस्याविरोधित्वेनान्यविशेषणद्वयस्य पक्षतावच्छेदकप्रवेशे प्रयोजनाभावादिति भावः ।। बाध-वारणायेति ।। वस्तुतस्तु बाधपदं असिद्धेरप्युपलक्षकम् । यदा त्ववच्छेदकावच्छेदेनानुमितिमुद्दिश्य विप्रतिपतिस्तार्किकादिना सह, तदेतरविशेषणे एव देये । तत्राप्यलीकवादिनं प्रत्येवार्हान्तविशेषणं देयम् । एकदा तु न द्वाभ्यां सह विप्रतिपत्तिस्तथैव कथकानां सम्प्रदायात् । तथा च यदेव यं प्रति विप्रतिपत्तौ पक्षे विशेषणं तदेव तं प्रति न्यायप्रयोगेऽपीति भावः इति तद्ग्रन्थाशयं ब्रह्मनन्दोह्युदबी-भवत् । उभावप्याकरानवधानविजृम्भितौ । पक्षतावच्छेदकावच्छेदेन विधिसाधने ब्रह्मणि बाध-वारकतया ब्रह्मान्यदित्यस्य सार्थक्यसम्पादनेऽपि असत्ख्यात्युपगन्तृत्ववादिनाऽलीके साध्यसम्प्रतिपत्या बाधस्यानुद्भावनीयतया तद्वारणफलकत्वोक्तेर्विशेषणान्तरस्य दुःसङ्गमत्वात् ।
न च तत्त्ववादिदिशा बाधस्यानुद्भावनीयतायामपि औतिमते अलीकस्य प्रतिपन्नोपाध्यभावेन साध्यासम्प्रतिपत्त्या तद्दिशैव बाधस्योद्भावनीयता तत्ववादिनः सङ्गछत इति वाच्यम् । तथा सति तुल्यदिशा नैय्यायिकेनापि औतदिशोद्भावनीयतासम्भवेन तं प्रत्यपि तद्विशेषणस्योपादेयतया अलीकवादिनं प्रत्येवेत्येवकारासाङ्गत्यात् । कण्ठोक्तबाधवारकतां प्रमादापतितां व्याख्याय असिद्धि-वारकत्वस्यैव व्याख्येयतया बाधपदस्यासिध्युपलक्ष्यत्वोक्तेरसङ्गतत्वात् । ब्रह्मज्ञानेतराबाध्यत्वस्य पक्षतावच्छेदकावच्छेदेन विप्रतिपत्तावप्युक्तरीत्या निषेधसाधनदशायां बाधकवारकतायां सार्थक्यस्य सम्पादितत्वात् । एकदा तु न द्वाभ्यामित्यसङ्गतमेव । उभयमताभिज्ञेन सह विप्रतिपत्तिसम्भवात् । कथमन्यथा प्रत्यक्षचिन्तामणौ मीमांसकत्रितयसाधारणविप्रतिपत्तित्रयप्रदर्शनं सङ्गच्छेत । गुर्वाद्येकैक-मीमांसकमतासाधारणविप्रतिपत्तित्रितयस्यापि तत्र प्रदर्शनात्तदवतरणिकायां बहुभिः सह विवादायोगा-दित्युक्तिः पूर्वापरग्रन्थसामञ्जस्यानुरोधेन तत्तन्मताभिज्ञैकसमवधानाभावाभिप्रायतया नेया । मिथ्यैव विश्वमिति वदतोऽवच्छेदकावच्छेदेनैवानुमितेरुद्धेश्यतया व्यवस्थया पदानां सार्थक्यसम्पादनस्या-कौशलापादकत्वादित्यलम् । चिरन्तनग्रन्थास्तु व्याकर्तृप्रामाण्येन दर्शिततात्पर्यकतया नेयाः ।
प्रतिपन्नेति । प्रत्युपसृष्टात्पद्यतेः तयोरेवेति लक्षणानुशिष्टकर्मसाधननिष्ठायां ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ इति धातुप्रत्ययावयवदकारतकारयोर्नत्वे सविषयकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयतारूपकर्मतावचनतयोपाधिशब्दस्य ‘उपसर्गे घोः किः’ ‘कर्मण्यधिकरणे च’ इत्यनुशिष्टाधि-करणसाधनकिप्रत्ययान्ततया सप्तम्याश्च निषेधान्विताधेयत्वार्थकतया काले वृतौ देशस्य, देशे वृतौ कालस्यावच्छेदकतया स्वप्रकारकप्रतिपत्तिनिरूपितविशेष्यतापन्नाधिकरणनिरूपितकालत्रयावच्छिन्ना-धेयताकात्यन्ताभावीयप्रतियोगिताश्रयो न वेति समुदितार्थः । अभावांशे तादृशाधेयताकत्वानिवेशनेऽपि तत्त्ववादिनये प्रामाणिकप्रतियोगिकात्यन्ताभावाभ्युपगमेन प्रतियोग्यनधिकरणे वर्तमानं तदधिकरणेऽपि तदनवच्छेदकदेशकालावच्छेदेन वर्तमानं चाभावमादाय विधिनिषेधसाधनयोर्बाधसिद्धसाधनानवकाशेन तद्घटकतया तन्निवेशनानवश्यम्भावेऽपि प्रागुपदर्शितद्वितीयविप्रतिपत्तिग्रन्थव्याख्यावसरे प्रथमज्ञाने तज्ज्ञानसामानाधिकरण्यस्य मीमांसकदिशा बाधसिद्धसाधनावारकस्याप्युपादनं युज्यत एव ।
व्यापके व्यर्थविशेषणता न दोष इति दीधितिकारोक्तेरभावस्य सञ्चिस्कीर्षयैव निवेशन-मित्यवधेयम् । अथ नैय्यायिकसाधारण्येन प्रकृतविप्रतिपत्तिगृहीतृतां व्याकुर्वाणानां चिरन्तनानां मते स्वप्रकारकभ्रमविशेष्यीभूताधिकरणे वर्तमानं व्यासृज्यवृत्तिधर्मावच्छिन्नाभावम्, अवृत्तिगगनाद्यभावं, व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिकाभावं, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावं, दैशिका-व्याप्यवृत्तिसंयोगाद्यभावं, संयोगेन वर्तमानस्य समवायेनाभावं चादाय नैय्यायिकदिशा विधिसाधने सिद्धसाधनस्य निषेधसाधने बाधस्य च तादवस्थ्यमेव ।
न चाधेयतानिरूपकतायां स्वप्रकारकप्रतिपत्तित्वावच्छिन्ननिरूपितविशेष्यता त्वावच्छिन्न-व्यापकत्वपर्यवसितस्याधिष्ठाने यावत्वस्य प्रतियोगितायां व्यासज्यवृत्तिधर्मानवच्छिन्नत्वस्य स्वसमानाधि- करणाधेयताघटकसंसर्गावच्छिन्नत्वस्य स्वनिरूपितावच्छेदकताघटकसम्बन्धेन स्वाधिकरणावृत्तिधर्मा-नवच्छिन्नत्वस्य च प्रतियोगितायां त्रैकालिकेत्यस्य निरवच्छिन्नत्वे तात्पर्यमुपेत्याधेयतायां निरवच्छिन्नत्वस्य विवक्षया तच्छङ्कानवकाश इति वाच्यम् । एवमपि विरुद्धघटत्वपटत्वो-भयावच्छिन्नप्रमेयसामान्यनिष्ठप्रतियोगिताकाभावमादाय तस्य कः प्रतीकारः ।
न चायमलीकः । अनुमानमणिदीधिताववतरणग्रन्थे विरुद्धघटत्वपटत्वाभ्यां च प्रमेयमात्रस्या-भावः सुलभ इति सोन्दडमतसिद्धत्वोक्तेः वक्ष्यमाणाभावानां च तद्ग्रन्थं व्याचक्षाणैः गदाधरप्रभृतिभिः तन्मतसिद्धत्वोररीकारात् । न च व्यासज्यवृत्तिधर्मावच्छिन्नावच्छेदकत्वानिरूपकत्वस्य स्वसमानाधि-करणभेदप्रतियोगितावच्छेदकत्वरूपस्वन्यूनवृत्तित्वविशेषितधर्मानवच्छिन्नत्वस्य वा तत्र विवक्षणेन तद्वारणं सङ्गच्छत इति वाच्यम् । अवृत्तिगगनादिवृत्तिसंयोगाद्यवच्छिन्नावच्छेदकताकप्रतियोगिताकाभावं पटत्वादिव्यधिकरणधर्मावच्छिन्नघटत्वादिवृत्त्यवच्छेदकताकघटादिवृत्तिप्रतियोगिताकाभावं चादाय तदापत्तेर्दुर्वारत्वात् ।
न च स्वनिरूपितावच्छेदकताघटकसम्बन्धेन स्वाधिकरणावृत्तिधर्मावच्छिन्नावच्छेदकत्वा-निरूपकत्वस्य स्वनिरूपितावच्छेदकताघटकसम्बन्धेन स्वाधिकरणावृत्तिधर्मानवच्छिन्नत्वरूप-व्यधिकरणधर्मानवच्छिन्नत्वघटकतया वृत्तिमत्वरूपधर्मत्वाविवक्षया च तन्निरसनसम्भव इति वाच्यम् । एवमपि कालिकसम्बन्धेन घटाद्यभावानां घटाद्यधिकरणवृत्तितया तदापत्तिस्तदवस्थैव । न चाधिकरणतायां विशेषणताविशेषावच्छिन्नत्वनिवेशेनापि सा सुनिरासेति वाच्यम् । कालिक-सम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावाभावत्वावच्छिन्नाभावस्याकाशाभावात्मकतया प्राचीनमते अंशतः साध्यसिद्धेर्विरोधित्वोपगमेन तमादाय तादृशाकाशाभावे विधिसाधने सिद्धसाधनस्य तन्मतानादरेण वारणेऽपि निषेधसाधने सामानाधिकरण्येन बाधस्य कथं व्युदसनीयतेति चेन्न । अभावाधिकरणतायां स्ववृत्तिप्रकारताघटकसंसर्गावच्छिन्नप्रकारताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकघटकीभूतप्रकारताघटकसंसर्गावच्छिन्नत्वपर्यवसितस्य येन सम्बन्धेन स्वप्रकारक- ज्ञानं प्रति येन सम्बन्धेन स्वाभावप्रकारकज्ञानस्य विरोधिता तत्सम्बन्धावच्छिन्नत्वस्य निवेशे सामञ्जस्यात् । कालिकसम्बन्धेनाकाशाभावरूपस्वाभाववत्ताज्ञानस्यैव विशेषणताविशेषणस्ववत्ताज्ञानं प्रति विरोधितया तेन सम्बन्धेन केवलान्वयिताविरहेणोक्तक्षत्यनवकाशात् । दर्शितसंसर्गावच्छिन्नत्व-घटकस्ववृत्ति(चरम)प्रकारतायां व्यधिकरणप्रकारकान्यज्ञानीयत्वनिवेशात् संयोगेन घटवत्ताज्ञानं प्रति दैशिकविशेषणताप्रत्यासत्या घटाभाववत्ताज्ञानस्य विरोधितया यादृशज्ञानेन घटाभावत्वेनाकाशाभाव एवावगाढस्तत्र तादृशज्ञानीयाकाशाभाववृत्तिप्रकारताया अपि प्रतियोगितासंसर्गावच्छिन्नघटत्वा-वच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नप्रकारतात्वेन भ्रमप्रमासाधारण्यानुरोधेन प्रतिबन्धकता-वच्छेदकघटकत्वेेऽपि न क्षतिः । तदन्यत्वं च व्यधिकरणप्रकारकत्वेन व्यवहारदशायामद्वैतिमतसिद्धं यत्तदन्यत्वरूपं तेन निखिलज्ञानानामेव परमार्थतस्तन्मते तादृशतया न विधिसाधने साध्याप्रसिद्धिः । तेनापि व्यवहारदशायां प्रमाभ्रमविभागाय निखिलज्ञानानां तत्प्रकारकत्वानभ्युपगतेरित्यलं तत्रान्तरवासनाविजृम्भितजल्पनेन ।
अत्र ब्रह्मानन्दः– प्रतिपन्नोपाधावित्यादि । स्वसम्बन्धितया ज्ञाते सर्वत्र धर्मिणि, त्रैकालिकस्य =सर्वदा विद्यमानस्य, निषेधस्यात्यन्ताभावस्य प्रतियोगि न वा । येन सम्बन्धेन यद्रूपविशिष्ट-सम्बन्धितया यज्ज्ञातं तत्सम्बन्धतद्रूपावच्छिन्नतन्निष्ठोक्ताभावस्य प्रतियोगित्वं निवेश्यमन्यथा सम्बन्धान्तररूपान्तरावच्छिन्नमुक्तप्रतियोगित्वमादाय सिद्धिसाध्यतापत्तेः । तथा च रजततादात्म्येन ज्ञायमानं यत्तु शुक्त्यादिकं तन्निष्ठाभावीयं यद्रजतत्वतादात्म्यसम्बन्धावच्छिन्नप्रतियोगित्वं तस्य प्रातीतिक इव व्यावहारिकेऽपि रजते सत्त्वात्तत्र सिद्धसाधनवारणाय सर्वत्रेत्युक्तम् । कालिका-व्याप्यवृत्तिमदत्यन्ताभावमादायार्थान्तरतापत्तेस्त्रैकालिकेत्युक्तम् । यद्यप्यत्यन्ताभावस्यैव प्रतियोगिता, भेदसहिष्णुना तादात्म्येनावच्छिन्ना, न तु भेदस्य, तादृशतादात्म्यस्य भेदाविरोधित्वात् । भेदासहिष्णु च तादात्म्यं नास्त्येव । अत्यन्ताभेदे तादात्म्यादिसम्बन्धासम्भवात्, तथापि प्रकृतानुमानात्तद-वच्छिन्नभेदप्रतियोगितासिद्धिमादायार्थान्तरं स्यादतोऽत्यन्ताभावेत्युक्तम् । संसर्गाभावो वा निवेश्य इत्यादि न्यभांत्सीत् । तद्दीधित्याद्यनधीतिमनोरमम् । निषेधस्य अत्यन्ताभावस्यात्यन्ताभावेत्युक्तम् । संसर्गाभावो वेति पूर्वापरग्रन्थानुरोधेन स्वप्रकारकभ्रमविशेष्यीभूताधिष्ठानवृत्त्यत्यन्ताभावमादाय सिद्ध-साधनवारणाय सर्वत्रेतीति विन्यासौचित्यां व्यावहारिकरजतप्रतियोगिकभेदमादाय व्यावृत्तिप्रदर्शनपरस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगित्वमित्यादिपदघटितग्रन्थस्य तद्विरुद्धत्वात् । अत एवानुमान-चिन्तामणौ पञ्चलक्षण्यां सकलसाध्याभाववन्निष्ठात्यन्ताभावप्रतियोगित्वमिति तृतीयलक्षणव्याख्यावसरे दीधितौ ‘तेन विपक्षैकदेशनिष्ठाभावप्रतियोगिनि व्यभिचारिणि नातिव्याप्तिरि’ति ग्रन्थे साध्याभाववति साकल्यांशस्य निर्धूमत्वविशेषितहृदादिवृत्त्यत्यन्ताभावप्रतियोगितां वह्नेरादाय व्यावृत्तिर्दर्शिता न तु तद्घटित(तद्वृत्ति)वह्निभेदप्रतियोगितामादाय । यथाश्रुते साध्याभाववति साकल्योपादाने निर्धूमत्व-वत्सकलान्तर्गतो वन्हिस्तद्वृत्तिभेदप्रतियोगित्वं न वह्नेरित्यतिप्रसङ्गनिरसनसम्भवात् । यदि तत्रात्यन्ताभावत्वांशेनैव व्यावृत्तिर्भेदस्य न साकल्यांशेनेति तदाशयस्तदा प्रकृतेऽपि तथैव किमिति न विभाव्यते । त्रैकालिकपदस्य सर्वदा विद्यमानत्वरूपयथाश्रुतार्थपरत्वे दैशिकाव्याप्यवृत्तिसंयोगा-द्यत्यन्ताभावमादाय निषेधसाधनदशायां संयोगादौ बाधात् त्रैकालिकेत्यस्याभावीयाधेयत्वान्वित-निरवच्छिन्नत्वतात्पर्यकतया व्याख्येयतया यथाश्रुतार्थोपवर्णनस्याकौशल्यापादकत्वात् । प्रथमलक्षणादौ अत्यन्तपदमभावीयप्रतियोगितायां साध्यतावच्छेदकसंसर्गावच्छिन्नत्वं ध्वनयितुमेव न तु तेन रूपेण निवेशनार्थमित्याकरे स्थिततया तेन रूपेण निवेशनोक्तेरसङ्गतत्वात् । रजतत्वाद्यवच्छिन्नभेदस्य सार्वत्रिकत्वाभावादेवार्थान्तराप्रसक्तेः अर्थापन्नदशायां यद्रूपविशिष्टवत्तयेत्येव वक्तव्यतया सम्बन्धितये-त्यंशोऽपि मन्दप्रयोजनश्चेत्यलम् ।
अथाद्वैतिनये सत्तात्रैविध्योपगमेन प्रमाभ्रमवैलक्षण्यानुरोधेन व्यवहारदशायां घटादीनां तन्निर्वाहकसत्ताविशेषिततयाऽवस्थित्युपगमेन कालत्रयघटितविधिकोटेर्दुरुपपादतेत्यतः सोदण्डोपाध्यायै-र्गवि शशीयतया शृङ्गं नास्तीत्यादिप्रतीत्यनुरोधेन यथा व्यधिकरणधर्मावच्छिन्नाभावोऽङ्गीकृत-स्तद्वत्पारमार्थिकत्वेन व्यावहारिकं नास्तीति प्रतीतिबलात्तादृशाभावोपगत्या तादृशाभावघटित-विधिकोटेः सिषाधयिषिततया न क्षतिरित्याशयेन विप्रतिपत्त्यन्तरमनुसरति– पारमार्थिकत्वाकारे-णेति । प्रतियोगिपदार्थतावच्छेदकान्वय्यवच्छिन्नत्वं तृतीयार्थः । पारमार्थिकत्वावच्छिन्ना या प्रतिपन्नोपाधिवृत्त्यभावीयप्रतियोगिता तदाश्रयो न वेत्यर्थः ।
अत्र ब्रह्मानन्दः । न चैवं सर्वदेशकालवृत्यन्ताभावप्रतियोगित्वं पर्यवसितं तथा चालीकत्वापत्तिः प्रपञ्चस्येति वाच्यम् । कालसम्बन्धित्वसमानाधिकरणस्य तस्य निवेश्यत्वात् । ननु कालसम्बन्धित्व-मास्तां प्रपञ्चे विशेष्यभूतमुक्तप्रतियोगित्वं तु न तत्रास्ति येन रूपेण येन सम्बन्धेन च यत्र यत्सम्बध्यते तेन रूपेण तेन सम्बन्धेन च तत्र न तदभावः, विरोधादिति मन्वानं वादिनं प्रति तुष्यतु दुर्जन इति न्यायेन तन्मतमनुसृत्य साध्यान्तरमाह । पारमार्थिकेत्यादि इत्यवातीतरत् । तदसङ्गतम् । सकलतान्त्रिकोररीकृतविरोधव्युदसनेन पूर्वसाध्यसमर्थनमन्तरेण तन्न्यायमात्रोदाहरणस्य परीक्षक-सम्प्रदायविरुद्धतया आत्मन एवापरीक्षकत्वापादकत्वात् । प्रत्यक्षचिन्तामण्यादौ तद्व्याचक्षाणैः विप्रतिपत्यन्तरमाहेत्येवावतारिततया न्यायप्रयोगोत्तरमेव पूर्वसाध्यपरित्यागेन साध्यान्तरमाहेति अवतारणशैलीनिश्चयेनैवंविन्यासस्य व्याकर्तृपथातिगामित्वात् । अथाद्वैतवादिना यस्य सोदण्डो-पाध्यायस्य मतमालम्ब्य व्यधिकरणधर्मावच्छिन्नाभावघटितकोटिकविप्रतिपत्तौ विधिकोटिः परिगृह्यते । तन्मतमेवात्यन्तनिर्युक्तिकम् । शशीयतया शृङ्गं नास्ति, समवायितया वाच्यत्वं नास्तीत्याद्याकारिकायाः व्यधिकरणधर्मावच्छिन्नाभावबुद्धेः शशीयत्वसमवायित्वाद्यवच्छिन्नप्रतियोगिताकानुयोगितारूपवैशिष्ठ्या-वगाहितया तत्तद्धर्मप्रकारेण शृङ्गवाच्यत्वादिरूपविशेषणज्ञानमन्तरा तादृशी बुद्धिः कथमुदीयात् । न च शृङ्गं शशीयं, वाचत्वं समवायीति भ्रमानन्तरमेव तादृशबुध्युपगमान्न दोष इति वाच्यम् । शृङ्गं न शशीयं, वाच्यत्वं न समवायीति विशेषदर्शनदशायामपि तादृशप्रतीतेरानुभाविकत्वात् । तदपलापे सर्वत्रैव तदपलापसम्भवात्तन्मतस्यैवातीव निर्दलतापत्तेः । तादृशविशेषदर्शनकालीनतद्बुद्धेः शृङ्ग-वाच्यत्वादौ शशीयत्वसमवायित्वाद्यभावावगाहितास्वीकारे सर्वत्रैव तत्सम्भवेनोक्तक्षतितादवस्थ्यापातात् ।
न च वैशिष्ट्यप्रतियोगितांशे विशेषणतावच्छेदकविशेषितमवच्छिन्नत्वं यत्र विशेषणसंसर्गघटक-तया भासते तत्रैव विशेषणतावच्छेदकप्रकारकज्ञानापेक्षस्वावच्छिन्नप्रतियोगिताकानुयोगितासम्बन्धेना-भावांशे शशीयत्वादिप्रकारस्य शशीयतया शृङ्गं नास्तीत्यादिव्यधिकरणधर्मावच्छिन्नाभावप्रत्ययस्योक्त-विशेषदर्शनदशायां निष्प्रत्यूहत्वात् । पटो नास्तीत्यादि विशिष्टवैशिष्ट्यबोधे तु पटत्वा-द्यवच्छिन्नप्रतियोगिताकत्वविशिष्ट एवानुयोगित्वादिः सम्बन्ध इति तत्र पटत्वादिप्रकारकज्ञानापेक्षा । यदि च शुद्ध एवानुयोगित्वादिरभावादौ पटादेः संसर्गः पटत्वादेस्तु स्वावच्छिन्नप्रतियोगिताकानु-योगित्वादिकं तत्र तथेति उच्यते तदा स्वावच्छिन्नप्रतियोगिताकत्वविशिष्टसंसर्गावच्छिन्ना या विशेषणपारतन्त्र्येण विशेष्यनिरूपिततद्धर्मप्रकारता तच्छालिबुद्धावेव विशेषणतावच्छेदकप्रकारकज्ञानस्य कारणता कल्पनीया । शशीयतया शृङ्गं नास्तीत्यादौ चाभावांशे तादृशसम्बन्धेन शशीयत्वादेः स्वातन्त्र्येणैव प्रकारता न तु विशेषणीभूतशृङ्गादिपारतन्त्र्येण, तस्य शृङ्गादावविशेषणत्वात् तन्निरूपितप्रकारतावच्छिन्नायाः प्रकारताया एव तत्पारतन्त्र्येण प्रकारतापदार्थत्वादिति वाच्यम् । प्रतियोगिविशेषणतापन्नस्यैव धर्मस्य प्रतियोगितायामवच्छेदकतया भानमनुभवसिद्धम् । न तदनापन्न-स्येत्युक्त्या प्रतियोग्यवृत्तिधर्मस्य प्रतियोगितावच्छेदकतायाश्चिन्तामणिकारादिभिर्दूषिततया कथं दूषित-सोदण्डमताश्रयणेनाद्वैतवादिना विधिकोटिः साधनीया । निषेधकोटिर्वा कथं तत्त्ववादिना समर्थनीया । औतवादिवत्तेन सोदण्डचरणाशरणीकरणेन व्यधिकरणधर्मावच्छिन्नाभावानुपगत्या तस्यासत्ख्यात्युप-गन्तृत्वेऽपि ‘‘अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना’’ इति सदृशतथ्यभूतविधिकोट्यप्रसिध्या निषेधसाधनस्य दुःशकत्वात् । तादृशीं विप्रतिपत्तिं वा कथमद्वैतिसिद्धिकारः प्रादर्शयत् । ब्रह्मानन्दो वा तत्रोपपत्तिं नाचिचिन्तदिति चेन्न । भट्टोपगतज्ञाततयाः मीमांसकोपगतप्रामाण्यस्वतस्त्वस्य च नैय्यायिकैर्दूषितत्वेऽपि भट्टनयमालम्ब्याद्वैतवादिना ज्ञाततादिकं कथायां यथा व्यवह्रीयते तद्वत्सोदण्डमतसिद्धस्य व्यधिकरणधर्मावच्छिन्नाभावस्य व्यवहारेऽपि क्षतिविरहात् । प्रत्यक्षमणि-दीधितौ प्रथमविप्रतिपत्तिघटकयावत्पदसार्थक्यसम्पादनावसरे दीधितिकारोक्तस्य ‘‘निषेधे साध्ये बाध’’ इत्यस्य सामग्रीग्राह्यताभावनिषेधस्याप्रसिध्या तदभावरूपबाधस्य दुस्सङ्गमतेत्याशङ्क्य यथा सामग्रीग्राह्यत्वरूपविधौ प्रामाण्यवृत्त्यभावप्रतियोगित्वसाधनेन नैय्यायिकस्य कृतकृत्यत्वादिति तत्सङ्गमयितम् तद्वत्प्रकृतेऽपि पारमार्थिकत्वे तादृशनिषेधप्रतियोगितानवच्छेदकत्वसाधनेनैव तत्त्व-वादिनो निगृहीतवादित्वोपपत्तेरिति सामञ्जस्यं विभावनीयम् ।