नापि प्रत्यक्षं कालत्रयाबाध्यत्वग्रहाक्षममिति द्वितीयः
२८. अथ प्रत्यक्षस्य पारमार्थिकसत्त्वग्राहित्वविवरणम्
न्यायामृतम्
नापि प्रत्यक्षं कालत्रयाबाध्यत्वग्रहाक्षममिति द्वितीयः । तद्धि न कालत्रयेऽपि सत्त्वम् । मन्मतेऽप्यनित्यप्रपञ्चे तदभावात् । किन्तु कालत्रयवृत्ति यदसत्त्वं तदभावः । स च कदाचित्सत्त्वे गृहीतेऽपि गृहीत एवेति प्रतिपन्नोपाधौ सत्त्वग्राहिणा प्रत्यक्षेण तदुपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वाभावसिद्धिः ।
स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् ।
प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम् ।।
वेदेऽपि हि विषयस्याबाध्यत्वे ज्ञानप्रामाण्यमेव तन्त्रं न तु शब्दत्वं वा, वर्तमानकालाद्यनवच्छेदेन स्वविषयसत्त्वग्राहित्वं वा, सर्वकालादिसम्बन्धित्वेन स्वविषयसत्त्वग्राहित्वं वा तन्त्रम् । उक्तप्रकारत्रययुक्तानाप्तवाक्यविषयस्यात्यन्ता बाध्यत्वापातात् । तच्च तत्त्वावेदनरूपं प्रामाण्यं श्रौतज्ञानस्येवाक्षजज्ञानस्यापि ज्ञानग्राहिणा साक्षिणा गृह्यते । प्रामाण्यस्य स्वतस्त्वात् । न च रूप्यादिज्ञानेष्विव बाधो वा, दोषो वा निश्चितः । येन तदपोद्येत । तदुक्तम्–
१यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ।
प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।। इति ।
इयांस्तु भेदः– ‘‘तत्सत्यम्’’ इत्यादिश्रुत्या ब्रह्मणो वर्तमानादिकालाद्यनवच्छेदेन सत्ता गृहीतेति तत्र सा तदनवच्छिन्नेति । प्रत्यक्षेण तु घटादेस्तदवच्छिन्ना सा गृहीतेति तत्र तदवच्छिन्नेति । यद्देशकालप्रकारावच्छेदेन तु यस्य येन सत्ता गृहीता तदवच्छेदेन तस्याबाध्यत्वं प्रामाण्यप्रयुक्तम् उभयसाधारणमिति प्रमाणेन प्रत्यक्षेण नित्यत्वाद्यसिद्धावपि स्वोपाधौ त्रैकालिकनिषेधाप्रतियोगित्वरूपमात्यन्तिकाबाध्यत्वं सिद्ध्यत्येव । कालान्तरादिस्थमपि हि बाधकं किं यत्कालाद्यवच्छेदेनानेन स्वार्थो गृहीतस्तदवच्छेदेनैव तन्निषेधति? अन्यावच्छेदेन वा? आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये त्वनित्यत्वादिकमेव स्यान्न तु मिथ्यात्वम् । किञ्चानागतकालग्राही साक्षी स्वविषयस्य गगनादेः साक्षात्स्वाविषयस्य घटादेरपि निर्दोषतद्धीप्रामाण्यग्रहणद्वारा भाविबाधाभावं गृह्णात्येव । न हि विषयाबाधमनन्तर्भाव्य प्रामाण्यग्रहणं नाम । त्यक्तव्यं च परेणैव प्रत्यक्षस्य वर्तमानमात्रग्राहित्वम् । अन्यथा रूप्यादेः प्रतिपन्नो-पाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वं प्रत्यक्षं न स्यात् । किञ्च–
प्रातिभासिकवैधर्म्यं तव येन प्रसिध्यति ।
घटादेः परमार्थत्वं मम तेनैव सेत्स्यति ।।
अस्ति हि त्वन्मतेऽपि घटादेर्व्यावहारिकसत्त्वाय तज्ज्ञाने रूप्यादिधीतो विशेषः । तथा च तेनैव विशेषेण तात्त्विकत्वसिद्धिः । किञ्च–
यद्यक्षसिद्धं विश्वस्य सत्यत्वं नैव तात्त्विकम् ।
तर्ह्यक्षसिद्धं रूप्यादिमिथ्यात्वं तात्त्विकं कथम् ।।
न हि घटस्सन्, रूप्यं मिथ्येति प्रत्यक्षयोर्मात्रयापि विशेषोऽनुभूयते । रूप्य-मिथ्यात्वस्य कालान्तरबाध्यत्वे च रूप्यं तात्त्विकं स्यात् । किञ्च–
पारमार्थिकसत्यत्वं न चेत् प्रत्यक्षगोचरः ।
तन्निषेधश्रुतीनां स्यादप्रसक्तनिषधेता ।।
किञ्च–
अतत्त्वं तात्त्विकत्वेन प्रपञ्चं नावभासयेत् ।
अक्षं यदि तदा तस्याऽतत्त्वावेदकता कथम् ।।
न हि व्यावहारिकं तथैव गृह्णद् अतत्त्वावेदकं भवति, किन्तु पारमार्थिकत्वेन । अनुभूयते च जगति लौकिकानां पारमार्थिकत्वधीः । तस्मात्प्रत्यक्षस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वाभावग्राहित्वात्तद्बाधिता दृश्यत्वादयः ।
इति प्रत्यक्षस्य पारमार्थिकसत्त्वग्राहित्वम् ।
(एतत्प्रकरणस्य विचारः अद्वैतसिद्धौ पूर्वतन (सत्वनिरुक्ति) प्रकरणे प्रस्तुतः । तत्रैव द्रष्टव्यः)
न्यायामृततरङ्गिणी
पूर्वं किं प्रत्यक्षमप्रमाणमेवोत प्रमाणमपि त्रिकालाबाध्यत्वरूपसत्त्वग्रहाक्षममिति द्वौ विकल्पावुक्तौ । तत्राद्यस्त्रेधा विकल्प्य निराकृतः । सम्प्रति द्वितीयं निराकरोति– नापीति ।। प्रत्यक्षस्य वर्तमानमात्रग्राहित्वाद्रसग्रहादौ चक्षुष इव सत्त्वग्रहेऽक्षमत्वा-दित्यर्थः ।। तद्धीति ।। अबाध्यत्वरूपसत्यत्वमित्यर्थः । सत्त्वं विद्यमानता ।। किन्त्विति ।। सर्वकालावच्छेदेन सर्वाधिकरणसंसृष्टव्याप्यवृत्त्यत्यन्ताभावप्रतियोगिविद्य-मानताकत्वरूपं यदसत्वं तदभाव इत्यर्थः । यथाश्रुते असत्त्वशब्दस्य विद्यानतात्यन्ता-भावार्थकत्वे कालत्रयवर्तित्वस्य विशेषणस्याव्यावर्तकता । अभावमात्रार्थत्वे तादृश-विद्यमानतान्योन्याभावस्य घटादौ सत्यत्वपक्षे सत्त्वात्तदभावासिद्धिरित्यादि शङ्कावकाशः स्यात् । तार्किकादिसाधारणमिदमुच्यत इति न क्षुद्रोपद्रवः ।। स चेति ।। घटादौ स्वकाले विद्यमानत्वस्य संसर्गे प्रत्यक्षेण गृहीते अधिकरणे तत्काले तदत्यन्ताभावसम्बन्धाभावस्य ग्रहणात् । प्रतियोग्यधिकरणसंसर्गाभावस्यैवाधिकरणेऽत्यन्ताभावसम्बन्धरूपतया अधिकरणे प्रतियोगिसंसर्गस्यात्यन्ताभावसम्बन्धाभावरूपत्वादिति युक्तमुत्पश्यामः । सत्त्वे विद्यमानत्वसंसर्गे । सत्त्वग्राहिणा विद्यमानत्वसंसर्गग्राहिणा । अस्तितां विद्यमानता-सम्बन्धम् । प्रतिषेधं निरुन्धानः अत्यन्ताभावसम्बन्धाभावं विषयीकुर्वन् । ननु घटादिसाक्षात्कारो न स्वार्थस्य घटादेर्विद्यमानतां गृह्णाति । घटादिज्ञाने प्रामाण्य-संशयस्यानुभवसिद्धत्वात् । अन्यथा स्वार्थसत्त्वनिश्चयस्य स्वस्यैव स्वप्रामाण्यसंशय-विरोधित्वात्तदनुपपत्तिप्रसङ्गादित्यत आह– वेदेऽपि हीति ।। घटादिज्ञाने अर्थसत्त्वगर्भ-प्रामाण्यस्य घटादिज्ञानानन्तरमेव साक्षिणा ग्रहणाच्छ्रौतज्ञान इव प्रत्यक्षेऽप्यर्थसत्त्व-सिद्धिरित्यर्थः ।। उक्तप्रकारत्रयेति ।। चतुर्थस्तु वेदेऽप्यसम्भवी । अपदार्थतयाऽ-वाक्यार्थतया च भाविबाधाभावस्य श्रौतज्ञानाविषयत्वात् । नन्वेवं प्रामाण्यग्रहेऽनुभूय-मानस्तत्संशयोऽनुपपन्नः स्यादित्यत आह– प्रामाण्यस्येति ।। स्वतस्त्वात् दोषाभावे सति ज्ञानग्राहकग्राह्यत्वात् । तथा च संशयस्थले दोषसत्त्वेन प्रामाण्याग्रहात्संशय उपपद्यत इत्यर्थः ।
ननु घटादिज्ञानेऽपि कश्चिद्दोषो भविष्यतीत्यत आह– न च रूप्यादीति ।। घटादिज्ञान इति वाक्यशेषः । प्रत्युत योग्यानुपलब्ध्या दोषाभाव एव निश्चित इति भावः । ननु गृह्यत एव प्रामाण्यं, मम मतेऽपि ज्ञानग्राहकेण । परं तु चरमबाधावधीत्या-शङ्कामनुव्याख्यानवचनेन परिहरति – तदुक्तमिति ।। कालतो मर्यादा व्यवहारे प्रामाण्यं परमार्थतो नेत्येवंरूपा । श्रुतिप्रत्यक्षयोः सत्त्वग्रहणे अवान्तरवैषम्यमाह ।। इयांस्त्विति ।। वर्तमानेति ।। तत्सत्यमित्यादिश्रुतौ वर्तमानकालोपस्थापक-पदाभावादित्यर्थः ।। प्रत्यक्षेणेति ।। प्रत्यक्षज्ञाने वर्तमानकालस्यावश्यं विषयता । इदमिदानीमेवमिति हि प्रत्यक्षानुभवः । अत एव कालस्य षडिन्द्रियवेद्यतामाहुः । तच्चोपनयाद्वाऽन्यथा वेति प्रकारमात्रे विवादः । जागराद्यनुभवेऽपीदन्ता भासत एव । विशिष्टानुभवस्य विशेषणज्ञानजन्यत्वानभ्युपगमात् । अनुभवस्य वा जागराद्यत्वम-सिद्धमिति भावः ।। नित्यत्वाद्यसिद्धावपीति ।। कालानवच्छिन्नसत्तासम्बन्ध-रूपनित्यत्वाद्यसिद्धावपीत्यर्थः । प्रागभावप्रध्वंसाभावाप्रतियोगित्वरूपनित्यत्वस्य तत्सत्य-मिति श्रुतितोऽप्यसिद्धेः ।
ननु यद्देशकालप्रकारावच्छेदेन यत्र यस्य येन सत्ता गृहीता तद्देशकालप्रकारावच्छेदेन तत्र तस्य तेन सत्त्वसिद्धावपि न त्रैकालिकनिषधाप्रतियोगित्वसिद्धिः । नेह नानेति भाविबाधबाधितत्वात् । न चैतावताऽन्यतराप्रामाण्यम् । पूर्वोत्तरकालव्यवस्थयो-भयोपपत्तेरित्यत आह – कालान्तरादिस्थमपीति ।। आद्य इति ।। रूप्यज्ञान-वद्यस्मिन्काले यत्रार्थो गृहीतस्तस्मिन्नेव काले तत्रैवार्थापहारादित्यर्थः ।। अन्त्य इति ।। यस्मिन्कालादौ योऽर्थो गृहीतः पूर्वज्ञानेन तस्मिन्कालादौ बाधकज्ञानेन सोऽर्थो प्रतिषिद्ध एव । अन्यदा निषिद्ध इत्यनित्यत्वमेव स्यादित्यर्थः । वेदेऽपि हि विषयस्याबाध्यत्वे ज्ञानप्रामाण्यमेव तन्त्रम् । न तु शब्दत्वादयश्चत्वारः प्रकाराः । आद्यानां त्रयाणा-मनाप्तवाक्यसाधारण्यात् । चतुर्थस्तु प्रत्यक्ष इव शब्देऽप्यसम्भवीत्युक्तम् । यदि कश्चिद्वैयात्याद्ब्रूयात् शब्देऽस्त्येव भाविबाधाभावग्रहणं प्रामाण्यग्रहणद्वारेति तर्हि प्रत्यक्षेऽप्यस्ति प्रामाण्यग्रहणद्वारा भाविबाधाभावग्रहणमित्याह ।। किञ्चानागतेति ।। त्यक्तव्यं चेति ।। घटात्यन्ताभावस्य कालत्रयसम्बन्धग्रहं विना घटादिमिथ्यात्वग्रहो न सम्भवतीत्यर्थः । कालत्रयसंसृष्टो योऽत्यन्ताभावस्तत्प्रतियोगित्वरूपमिथ्यात्वाभावस्त्वेक-काले प्रतियोगिसत्तामात्रग्रहेऽपि सुग्रह इति दर्शयति परेणैवेत्येवकारेण ।। प्रातिभासि-केति ।। प्रत्यक्षस्याप्रामाण्ये घटादेः प्रातिभासिकवैधर्म्यासिद्ध्या तत्प्रामाण्यं त्वयाऽ-प्यभ्युपेयमित्यर्थः ।। यद्यक्षसिद्धमिति ।। दोषाभावादिनिश्चयस्य रूप्यमिथ्यात्वप्रत्यक्ष इव विश्वसत्यत्वप्रत्यक्षेऽप्यविशेषादित्यर्थः ।
ननु रूप्यधर्मो मिथ्यात्वमपि मम मते मिथ्यैव । धर्मिण एव मिथ्यात्वे धर्मस्यापि मिथ्यात्वात् । न हि वन्ध्यासुते श्यामरूपं नास्तीत्येतावता गौररूपं सेत्स्यतीत्यत आह रूप्यमिथ्यात्वस्येति ।। परस्परात्यन्ताभावरूपयोरन्यतरनिषेधे अन्यतरसत्यत्वम् । गौरश्यामरूपयोस्तु न परस्परविरहरूपत्वम् । अतो नैकाभावे अपरस्य सत्वमित्यर्थः । न च वृद्धिमिच्छत इत्यनेन पौनरुक्त्यम् । तत्र नेदं रजतमित्यस्य बाध्यत्वे रजतस्य मिथ्यात्वं न सिध्द्यतीत्युक्तम् । अत्र तु प्रत्यक्षस्य पारमार्थिकसत्यत्वाग्राहकत्वे रूप्यमिथ्यात्वस्य पारमार्थिकत्वं न सिध्यतीत्युच्यत इति भेदः ।। पारमार्थिकेति ।। न च मिथ्यात्व-श्रुतेरप्रसक्तप्रतिषेधापात इत्यनेन पुनरुक्तिः । तत्र प्रत्यक्षानुमानयोर्व्यावहारिकपारमार्थिक-प्रतियोगितदभावविषयत्वेन कालात्ययापदिष्टव्यवस्थोक्तौ श्रुतेरप्रसक्तप्रतिषेधतोक्तिः । इह तु प्रत्यक्षस्य तात्विकसत्त्वाविषयत्वे सोच्यत इति भेदः । प्रत्यक्षबाधमुपसंहरति ।। तस्मादिति ।।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।
न्यायामृततरङ्गिण्यां सत्सत्त्वेऽपि क्षमाऽक्षधीः ।।
न्यायामृतकण्टकोद्धारः
नन्वस्तु प्रत्यक्षस्य प्रामाण्यम् । तथापि तस्य कालत्रयाबाध्यत्वग्रहाक्षमत्वात् आत्यन्तिका-बाध्यत्वं न तद्विषय इति द्वितीयं पक्षमाशङ्क्य निषेधति– नापीति । आत्यन्तिकाबाध्यत्वं न प्रत्यक्षविषय इति वदन् प्रष्टव्यः, किमिदमात्यन्तिकाबाध्यत्वम्? त्रिकाले सत्त्वम्, किं वा त्रिकाले यदसत्त्वं तदभावो वा? नाद्य इत्याह– तद्धीति । द्वितीयं स्वीकृत्याह– किन्त्विति । ननु कदाचित् सत्त्वे गृहीते कथं कालत्रयासत्त्वाभावग्रहः? न हि कदाचित् सत्त्वमेव कालत्रयासत्त्वाभावः । तथा सत्याकाशादेः कालत्रयासत्त्वाभावाधिकरणत्वं न स्यात् । कदाचिन्मात्रसत्त्वाभावादिति गृहीत एवेत्युक्तिरनुपपन्नेति चेन्न । भावानवबोधात् । कदाचि-त्सत्त्वे गृहीते कालत्रयासत्त्वाभावो गृहीत एवेत्युक्तेरयमर्थः – कालत्रयासत्त्वाभावग्रहस्य यत् कार्यं मिथ्यात्वानुमितिप्रतिबन्धरूपं तत् कदाचित्सत्त्वग्रहोऽपि शक्नोति कर्तुमिति । न हि मिथ्यात्वमपि यदा कदाचिदसत्त्वम् । किं नाम, त्रिकालेऽसत्त्वम् । तथा च यत्कालावच्छेदेन सत्त्वं गृहीतं तत्कालावच्छेदेन तदभावग्रहणमनुमानेन विरुद्धम् इति साधूक्तं गृहीत एवेति । अत एवाह ।। मिथ्यात्वाभावसिद्धिरिति । कदाचित्सत्त्वस्य मिथ्यात्वाभावव्याप्तत्वादिति भावः । तदेतत्स्ववचनस्याभिप्रायमाविष्करोति – स्वकाल इति । वर्तमानमात्रास्तित्वग्राहकः साक्षात्कारो मिथ्यात्वानुमितिं प्रतिबध्नन् अत्यबाध्यतां कालत्रयासत्त्वाभावं गृह्णाति । अनुमानविधयेति शेषः । तथा च प्रत्यक्षस्य साक्षात् कालत्रयासत्त्वाभावग्राहकत्वाभावेऽपि कदाचित् सत्त्वमात्रग्राहकत्वात् बाधकत्वोपपत्तिरिति भावः । ननु सत्त्वसाक्षात्कारस्य विषयात्यबाध्यत्वसाधकत्वे रजतास्तित्वसाक्षात्कारस्यापि तथात्वं स्यादविशेषात् । न चावधृतप्रामाण्यस्य तथात्वम् । तस्य वेदेऽप्यभावेन तद्विषयस्याबाध्यत्वं न स्यात् । किन्तु तदन्यच्छब्दत्वादिकमेव तद्विषयाबाध्यत्वे प्रयोजकं वक्तव्यम् । प्रत्यक्षे च तदभावान्न तस्याबाध्यत्वसाधकत्वमपीत्यत आह– वेदेऽपीति । तथा च वेदे प्रयोजकान्तरासम्भवेन ज्ञान-प्रामाण्यमेव स्वीकर्तव्यम् । तस्य चोक्तप्रत्यक्षे सत्त्वात् तस्य विषयाबाध्यत्वसाधकत्वं युक्तम् । रजतास्तित्वसाक्षात्कारस्य च तथात्वाभावान्न तथात्वमिति भावः । प्रयोजकान्तराभाव-मेवोपपादयति – न तु शब्दत्वं वेत्यादिना । शब्दत्वस्य प्रामाण्यप्रयोजकत्वस्य ‘‘न हि प्रत्यक्षशब्दत्वकृतं वैषम्यमीक्ष्यते’’ इत्यत्र शून्यमेव तत्वमिति शब्देऽपि तस्य सत्त्वेन तस्यापि प्रामाण्यापत्त्या दूषितत्वात् स्फुटतरदूषणेन परानभिप्रेतत्वाद्वा एतद्दूषणविषयत्वेऽपि उत्तर-प्रकारत्रयमेव दूषयति – उक्तप्रकारत्रययुक्तेति । यद्वा अस्मत्प्रत्यक्षस्येवाद्वैतज्ञानस्यापि भाविबाधाभावग्रहाक्षमत्वेन तस्य प्रामाण्यप्रयोजकत्वस्य परानभिप्रेतत्वात् बहिरेव दूषयित्वा आद्यप्रकारत्रयमेव दूषयति – उक्तप्रकारेति ।
ननु तथापि न प्रत्यक्षज्ञानस्य विषयात्यबाध्यत्वसाधकत्वम् । तत्र प्रामाण्यग्राहकाभावेन प्रामाण्यानिश्चयादित्यतो यदेव तव श्रौतज्ञाने प्रामाण्यग्राहकं तदेव ममापीति भावेनाह– तच्चेति । ननु ज्ञानग्राहिणा ज्ञानमेव गृह्येत । कुतस्तत्प्रामाण्यमपीत्यत आह– प्रामाण्य-स्येति । तथा सामर्थ्यादिति भावः । नन्वेवं रूप्यज्ञानग्राहिणापि साक्षिणा तत्प्रामाण्यमपि गृह्यतामविशेषादित्यत आह – न चेति । तथा च स्वयं प्रामाण्यग्रहणे समर्थोऽपि बाधदोषनिश्चयेन प्रतिबद्धत्वादसमर्थस्तत्प्रामाण्यग्रहणे साक्षी । स्वयं गतिसमर्थोऽपि गजो गोक्षुरकादिना प्रतिबद्धोऽसमर्थो गताविव । अप्रतिबद्धस्यैव च प्रामाण्यग्राहकत्वाङ्गीकारात् । प्रकृते च प्रतिबन्धाभावात् अद्वैतज्ञान इव प्रत्यक्षे प्रामाण्यं गृह्णातीति भावः । उक्तमर्थ-माचार्यवचसा द्रढयति– तदुक्तमिति । ते मते यदि प्रामाण्ये स्वतस्त्वं तर्हि विश्वसत्ता कथं न स्यात्? बाधकाभावेन साक्षिणा तद्ग्रहणात् स्यादेव । ननु तावत्कालपर्यन्तं प्रामाण्यं ममापीष्टमेवेत्यत आह– प्रामाण्यस्य चेति । प्रामाण्यस्य कालतो मर्यादा किञ्चित् काले प्रामाण्यं, पश्चात् प्रामाण्यं नेति व्याहतम् । यत् प्रमाणं तत् प्रमाणमेव सर्वदा । यदप्रमाणं तत् सर्वदाऽप्रमाणमेवेति व्याप्तेरिति भावः ।
नन्वेवं ब्रह्मसत्त्वविषयकश्रौतज्ञान इव घटादिसत्त्वविषयकप्रत्यक्षज्ञानेऽपि प्रामाण्यं साक्षिसिद्धं चेत् ब्रह्मघटयोः सत्त्वाविशेषः स्यादित्यत आह– इयांस्तु भेद इति । अविशेषः किं देशकालानवच्छिन्नत्वेन, उताबाध्यत्वेन? नाद्य इत्याह – तत्सत्यमिति । एवं च श्रुतेस्तथा सामर्थ्यात् तद्गृहीता सत्ता देशाद्यनवच्छिन्ना । प्रत्यक्षस्यातीतकालादिग्रहणे सामर्थ्या-भावात् तद्गृहीता वर्तमानमात्रकालावच्छिन्नेति विशेषादिति भावः । द्वितीयस्वीकारमुखेन प्रत्यक्षस्य वर्तमानसत्त्वग्राहित्वेऽपि उक्तमिथ्यात्व प्रतिबन्धकत्वमिति प्रमेयमुपसंहरति ।। यद्देशेति । ननु कालान्तरादिबाधकसम्भवात् कथमत्यबाध्यत्वसिद्धिरपीत्यत आह– कालान्तरादिस्थमिति । आद्य इति । तत्प्रामाण्यस्य पूर्वमेव साधितत्वादिति भावः ।
एतावता ग्रन्थकलापेन प्रत्यक्षस्य वर्तमानमात्रसत्त्वग्राहकत्वं स्वीकृत्य तावताऽपि मिथ्यात्वानुमितिप्रतिबन्धः सम्भवतीत्युक्तम् । इदानीं कालत्रयाबाध्यत्वमपि साक्षिणा स्वविषयस्य सुखादेः साक्षात्, घटादेश्च प्रामाण्यग्रहणद्वारा गृह्यते । प्रामाण्यस्य विषयाबाध्यत्वघटितत्वात् । ततश्च कालत्रयाबाध्यत्वग्रहाक्षमत्वं नेत्याह – किञ्चेति । किञ्च बाह्यप्रत्यक्षस्यापि न वर्तमानमात्रग्राहकत्वनियमः । केवलस्य तथात्वेऽपि सहकारिसमवहितस्य प्रत्यभिज्ञाव्याप्तिप्रत्यक्षादाविवातीतादिग्राहकत्वसम्भवात् । तथा च बाह््यप्रत्यक्षादिनाऽप्यत्य-बाध्यत्वं सिद्ध्यतीत्येवं हृदि निधायाऽह– त्यक्तव्यं चेति । अन्यथेति । प्रत्यक्षस्य वर्तमान-मात्रग्राहकत्वाङ्गीकार इत्यर्थः । इदमपि विस्तरेण तत्रैवोक्तं द्रष्टव्यम् । प्रकारान्तरेण घटादेः तात्विकत्वं साधयितुमाह – किञ्चेति । न च मम ब्रह्मज्ञानबाध्यत्वेनैव प्रातिभासिकवैधर्म्यं सिध्यतीति वाच्यम् । ब्रह्मण्यारोपितक्षणिकत्वादौ ब्रह्मज्ञानबाध्यत्वेऽपि प्रातिभासिकवैधर्म्या-भावात् । नाप्यर्थक्रियाकारित्वेन प्रातिभासिकवैधर्म्यसिद्धिरिति वाच्यम् । तेनैव तात्विकत्वस्य सिद्धत्वात् । न च दृष्टान्ताभावः । ब्रह्मण एव दृष्टान्तत्वोपपत्तेः । न च तत्रार्थक्रियाकारित्वं नेति वाच्यम् । मन्मते तस्य स्वतः, त्वन्मते परतस्तदुपपत्तेः ।
न च प्रत्यक्षविशेषेण मम प्रातिभासिकवैधर्म्यसिद्धिरिति वाच्यम् । प्रत्यक्षे विशेषः किं जातिरूप उपाधिरूपो वा । नाद्यः । तस्यासिद्धेः । तेनैव तात्विकत्वस्यापि सिद्ध्यापत्तेश्च । न द्वितीयः । तस्यानिर्वचनात् । न च व्यावहारिकप्रामाण्यमेवोपाधिरिति वाच्यम् । व्यावहारिक-पदेन बाध्यत्वविवक्षायां शुक्तिरूप्यप्रत्यक्षेऽपि तस्य सत्त्वेन तेनापि तद्विषयस्य व्यावहारि-कत्वापत्तेः । अथाबाध्यत्वं विवक्षितं तर्हि तेनैव तात्विकत्वापत्तेः । अथ प्रत्यक्षं सहकारिवशात् प्रातिभासिक वैधर्म्यं गृह्णातीति यदि, तर्हि तदेव तादृशमत्यबाध्यत्वं गृह्णीयादिति दिक् । ननु प्रत्यक्षसिद्धं सत्त्वं न तात्विकं, प्रत्यक्षसिद्धत्वादेवेत्यत आह– किञ्चेति । ननु रूप्यमिथ्यात्वमपि तात्विकमेव । तस्य कालान्तराबाध्यत्वादित्यत आह – रूप्यमिथ्यात्वस्येति । यथा चैतत् तथोक्तमधस्तात् । पारमार्थिकसत्त्वस्य प्रत्यक्षाविषयत्वे बाधकमाह ।। किञ्चेति । न चाप्रसक्त-स्यैव वा परोक्षप्रसक्तस्यैव वा प्रतिषेधोऽस्त्विति वाच्यम् । परार्थेन शब्देन पराप्रसक्तनिषेधे वैयर्थ्यापत्तेरित्युक्तत्वात् । परोक्षप्रसक्तेश्च प्रागेव दूषितत्वाच्च । प्रत्यक्षस्य पारमार्थिकसत्त्वा-विषयत्वे बाधकान्तरमाह– किञ्चेति । तत्रैवानुभवविरोधमाह– अनुभूयते चेति । तस्मात् प्रत्यक्षं पारमार्थिकसत्त्वग्राहीति तद्बाधिताः दृश्यत्वादय इत्युपसंहरति ।। तस्मादिति ।।
न्यायामृतप्रकाशः
पूर्वं प्रत्यक्षमप्रमाणमेव उत प्रमाणमपि कालत्रयाबाध्यत्वरूपसत्त्वग्रहाक्षममिति द्वौ विकल्पावुक्तौ । तत्राद्यस्त्रेधा विकल्प्य निराकृतः । सम्प्रति द्वितीयमनूद्य निराकरोति ।। नापीति ।। प्रत्यक्षस्य वर्तमानमात्रग्राहित्वात् रसग्रहणादौ चक्षुष इव त्रिकालाबाध्यत्व-रूपसत्यताग्रहणेऽक्षमत्वादित्यर्थः ।। तद्धीति ।। अबाध्यत्वरूपं सत्यत्वमित्यर्थः । सत्त्वं विद्यमानत्वम् । तदभावात् कालत्रयेऽपि सत्त्वरूपाबाध्यत्वाभावादित्यर्थः ।। कदाचित्सत्त्व इति ।। वर्तमानकालीने सत्त्व इत्यर्थः ।। स्वकाल इति ।। ननु कथमत्र विरोधः । न हि वर्तमानकालीनं सत्त्वं कालत्रयवृत्तिसत्ताप्रतिषेधाभावरूपमिति चेत् उच्यते । अनुमानग्राह्यं यत्कालत्रयवृत्तिसत्त्वप्रतिषेधरूपमिथ्यात्वं तदभावव्याप्यभूतैककालीनसत्त्वावगाहित्वेन विरोधोऽत्राभिप्रेत इत्याहुः । तन्न । वह्निरनुष्ण इत्यत्रापि कालत्रये औष्ण्याभावस्य साध्यत्वात्प्रत्यक्षेण च वर्तमानकाल एव औष्ण्यग्रहणात् त्रैकालिका नौष्ण्याभावव्याप्य-भूतैककालीनौष्ण्यग्रहणात्साक्षात्साध्याभावावगाहित्वेन बाधकत्वं सर्वसम्मतं न स्यादिति । गुरुचरणास्तु प्रतिपन्नोपाधौ त्रैकालिकसत्तानिषेध इत्यत्र देशकालयोरपि न निषेध्यकोटौ प्रवेशः किन्त्वधिकरणकोटावेव । तथा च सर्वदेशे कालत्रये च या सत्ता तत्प्रतिषेधो विवक्षितस्तथा च वर्तमानकालेऽस्तितां सत्तां गृह्णन्साक्षात्कारः कालत्रये सत्ताप्रतिषेधमात्र-रूपबाध्यत्वं निरुन्धानोऽत्यबाध्यतां गृह्णात्येव । तथा च साक्षाद्ग्राह्याभावावगाहित्वेनैव विरोध इति ।
यथोक्तं भक्तिपादीयसुधायां ‘‘तत्सत्ताप्रतिषेधमात्ररूपबाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावादि’ति । एतच्च तट्टिप्पण्यां गुरुचरणैर्निपुणतरमुपपादितमनुसन्धेयम् । किञ्च प्रत्यक्षं स्वविषयस्य वास्तवाबाध्यत्वग्राहि प्रमाणत्वात् वेदवत् । न च वेदे शब्दत्वादिकमेव स्वविषयाबाध्यत्वे प्रयोजकं न तु तज्जन्यज्ञानप्रामाण्यमिति वाच्यम् । मद्वाक्यविषयः सर्वकालसम्बन्धी भाविबाधकशून्यश्चेत्यनाप्तवाक्ये व्यभिचारेण शब्दत्वाद्युपाधेः समव्याप्त्य-भावात् । ततश्च ज्ञानप्रामाण्यमेव विषयाबाध्यत्वे तन्त्रमित्यङ्गीकार्यमित्याह ।। वेदेऽपीति ।। उक्तानुमानदृष्टान्तभूते वेदेऽपीत्यर्थः । उक्तप्रकारयुक्तानाप्तवाक्येत्येव पाठः । उक्तप्रकारत्रय-युक्तेति पाठे शब्दत्वस्य सिद्धत्वात् तदनभिप्रेतमिति मन्तव्यम् । ततः किमित्यत आह ।। तच्चेति ।।
ननु ज्ञानग्राहकेण साक्षिणा प्रामाण्यस्य ग्राह्यत्वं कुत इत्यत आह ।। प्रामाण्यस्येति ।। स्वतस्त्वादिति ।। ज्ञानग्राहकग्राह्यत्वस्यैव स्वतस्त्वादित्यर्थः । ननु घटादिज्ञाने कश्चिद्दोषो बाधो वा भविष्यतीति न विषयाबाध्यत्वगर्भं प्रामाण्यमित्यत आह ।। न चेति ।। कालतो मर्यादेत्यन्वयः । मर्यादा व्यवच्छेदः तात्कालिकत्वमिति यावत् । श्रुतिप्रत्यक्षयोः सत्यत्व-ग्रहणेऽप्यवान्तरवैषम्यमस्तीत्याह । इयांस्त्विति ।। वर्तमानेति ।। ‘‘तत्सत्य’’मित्यादिश्रुतौ वर्तमानकालोपस्थापकपदाभावादिति भावः । तत्र ब्रह्मणि । सा सत्ता, तदनवच्छिन्ना वर्तमानकालानवच्छिन्ना ।। प्रत्यक्षेणेति ।। प्रत्यक्षज्ञाने वर्तमानकालस्यावश्यं विषयता प्रतीयते । इदमिदानीमिति हि प्रत्यक्षानुभवः । अत एव ‘‘कालःषडिन्द्रियवेद्य’’ इति प्रवाद इत्यर्थः । तत्र घटादौ, सा सत्ता, तदवच्छिन्ना वर्तमानकालावच्छिन्ना । प्रामाण्यप्रयुक्ता-बाध्यत्वं वेदाक्षोभयसाधारणमित्याह ।। यद्देशेति ।। उभयेति ।। वेदप्रत्यक्षोभयेत्यर्थः ।। नित्यत्वादीति ।। सर्वकालावच्छिन्नसत्तासम्बन्धरूपनित्यत्वाद्यसिद्धावपीत्यर्थः ।। त्रैकालि-केति ।। तद्व्याप्यावगाहित्व इति केचित् । उक्तरीत्या कालस्य अधिकरणकोटावेव प्रवेशेन निषेध्यकोटावप्रवेशात्सत्ताग्राहित्वेन कालत्रये यस्सत्यताप्रतिषेधस्तदप्रतियोगित्वरूपाबाध्यत्व-ग्राहित्वं साक्षादस्त्येवेति गुरुचरणाः ।
ननु यद्देशकालप्रकारावच्छेदेन यत्र यस्य येन सत्ता गृहीता तद्देशकालप्रकारावच्छेदेन तत्र तस्य तेन सत्त्वसिद्धावपि न त्रैकालिकनिषेधाप्रतियोगित्वसिद्धिः । ‘‘नेह नाने’’ति भाविबाधबाधितत्वादित्यत आह ।। कालान्तरेति ।। अन्येति ।। यत्कालाद्यवच्छेदेन तेन स्वार्थो गृहीतस्तत्कालभिन्नकालावच्छेदेन तन्निषेधतीत्यर्थः ।। आद्य इति ।। अनेन बाधकप्रमाणेन रूप्यज्ञानवत् यस्मिन्काले यत्रार्थो गृहीतस्तस्मिन्नेव काले तत्रार्थापहारा-दित्यर्थः ।। अन्त्य इति ।। यस्मिन्कालादौ योऽर्थो गृहीतः पूर्वज्ञानेन तस्मिन्नेव कालादौ बाधकज्ञानेन सोऽर्थोऽप्रतिषिद्ध एव । अन्यदैव तु निषिद्ध इति अनित्यत्वमेव स्यादित्यर्थः । कथमित्यत आह ।। न हीति ।। अन्यथेति ।। वर्तमानमात्रग्राहित्व इत्यर्थः । प्रत्यक्षस्य त्रिकालाबाध्यत्वरूपपारमार्थिकसत्त्वग्राहित्वाभावेनाप्रामाण्ये घटादेः प्रातिभासिकवैधर्म्यरूप-व्यावहारिकत्वं न सिद्ध्येत् । न चार्थाक्रियाकारित्वेन तद्वैधर्म्यसिद्धिरिति वाच्यम् । तस्यैव मम तात्विकत्वसाधकत्वात् । तथा च प्रत्यक्षस्य त्रिकालाबाध्यत्वरूपतात्विकसत्ताग्राहित्वं सिद्ध्यतीत्याह ।। किञ्चेति ।। येन विशेषेण । वैधर्म्यं व्यावहारिकत्वम् । कारिकार्थमाह ।। अस्ति हीति ।। विशेषः अर्थक्रियाकारित्वरूपः । तात्विकं त्रिकालाबाध्यम् ।। तर्हीति ।। तथा च तदपि तात्विकं न स्यादित्यर्थः । कथमिदमापादनमित्यतस्तयोरविशेषादित्याह ।। न हि घट इति ।। दोषाभावादिनिश्चयस्य रूप्यमिथ्यात्वप्रत्यक्ष इव विश्वसत्यत्वप्रत्यक्षेऽप्य-विशेषादित्यर्थः ।
ननु अक्षसिद्धत्वाविशेषाद्रूप्यमिथ्यात्वं तात्विकं न स्यादित्यत्रेष्टापत्तिः । यतः रूप्यधर्मो मिथ्यात्वमपि मिथ्यैव । धर्मिण एव मिथ्यात्वे धर्मस्यापि मिथ्यात्वात् । न हि वन्ध्यासुतस्य श्यामत्वाभावे गौरत्वं सेत्स्यतीत्यत आह ।। रूप्येति ।। कालान्तरबाध्यत्वे मिथ्यात्व इत्यर्थः ।। तात्विकं स्यादिति ।। मिथ्याभूतमिथ्यात्वकत्वाद्रूप्यं सत्यं स्यादित्यर्थः । तथा च परस्परात्यन्ताभावरूपयोरेवान्यतरनिषेधेऽन्यतरस्य सत्यत्वं, गौरश्यामरूपयोस्तु न परस्पर-विरहरूपत्वम् अतो नैकाभावेऽपरस्य सत्यत्वमिति भावः । किञ्च प्रत्यक्षस्यातत्वावेदकत्वं तावदङ्गीकृतम् । तत्रातत्त्वं नामान्यस्यान्यात्मत्वं, तथा च वस्तुतो व्यावहारिकस्य प्रपञ्चस्य त्रिकालाबाध्यत्वरूपपारमार्थिकत्वरूपं यदन्यात्मत्वाख्यमतत्वं तदावेदकत्वे खलु प्रत्यक्षस्या-तत्वावेदकत्वं सिद्ध्यति । एवं च त्रिकालाबाध्यत्वरूपपारमार्थिकसत्त्वागाहिताया आवश्य-कत्वेन न वर्तमानमात्रग्राहित्वनियम इत्याह ।। किञ्चेति ।। अतत्वं– तत्वं पारमार्थिकं तद्भिन्नमतत्वं व्यावहारिकम् । इदमेव व्यावहारिकत्वं जगतस्तत्त्वं वास्तवं रूपं तन्मत इत्यर्थः । तथैव व्यावहारिकतयैव । यद्यथास्ति तत्तथैव गृह्णतस्तत्वावेदकत्वमेव स्यात् । त्वदभिमतमतत्वावेदकत्वं न सिद्ध्येदित्यर्थः । त्रिकालाबाध्यत्वरूपपारमार्थिकसत्त्वग्राहित्व-मनुभवसिद्धं चेत्याह । अनुभूयते चेति ।। प्रत्यक्षबाधमुपसंहरति ।। तस्मादिति ।।
न्यायकल्पलता
पूर्वं किं प्रत्यक्षमप्रमाणमेव उत प्रमाणमपि कालत्रयाबाध्यत्वरूपसत्त्वग्रहाक्षममिति विकल्पावुक्तौ । तत्राद्यस्त्रेधा विकल्प्य निराकृतः । सम्प्रति द्वितीयं पक्षं निषेधति - नापीति । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वाद्रासग्रहादौ चक्षुष इव निरुक्तसत्त्वग्रहेऽक्षमत्वादित्यर्थः - तद्धीति । कालत्रयाबाध्यत्वरूपसत्यत्वमित्यर्थः । सत्त्वं निवृत्यभावलक्षणा विद्यमानता । किन्त्विति । कालत्रयवर्ति यदसत्वं अत्यन्ताभावः, तदभावः अत्यन्ताभावाप्रतियोगित्वमित्यर्थः । यद्वा सर्वकालावच्छेदेन सर्वाधिकरणसंसृष्टव्याप्यवृत्त्यत्यन्ताभावप्रतियोगिविद्यमानताकत्वरूपं यदसत्वं तदत्यन्ताभाव इत्यर्थः । तार्किकादिसाधारणमिदं निरुच्यत इति न क्षुद्रोपद्रवः । एतेनासत्त्व-शब्दस्य विद्यमानतात्यन्ताभावार्थत्वे कालत्रयवर्तित्वस्य तद्विशेषणस्याव्यावर्तकता । अभाव-मात्रार्थत्वे तादृशविद्यमानतान्योन्याभावस्य घटादौ सत्यत्वपक्षे सत्वात् । तदभावासिद्धिरित्यादि निरस्तम् । विशेषणस्यात्यन्ताभावलाभार्थत्वात् । विद्यमानताया घटादिस्वरूपत्वेन तदन्योन्या-भावस्य तत्रासत्त्वात् । स चेति । घटादौ स्वकाले विद्यमानत्वस्य संसर्गे प्रत्यक्षेण गृहीते तदधिकरणे तत्काले तदत्यन्ताभावसम्बन्धाभावस्य ग्रहात् । प्रतियोग्यधिकरणसम्बन्धाभाव-स्यैवाधिकरणे अत्यन्ताभावसम्बन्धरूपतया अधिकरणे प्रतियोगिसंसर्गस्यात्यन्ताभावसम्बन्ध-विरोधिसम्बन्धरूपत्वान्मिथ्यात्वाभावसिद्धिरिति भावः । सत्त्वे विद्यमानत्वसंसर्गे । सत्त्वग्राहिणा विद्यमानत्वसंसर्गग्राहिणा । सङ्गृह्णाति – स्वकाले हीति । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तितां विद्यमानसम्बन्धम् । प्रतिषेधं निरुन्धानः अत्यन्ताभावसम्बन्धाभावं विषयीकुर्वन् ।
ननु घटादिसाक्षात्कारो न स्वार्थस्य घटादेर्विद्यमानतां गृह्णाति । घटादिज्ञाने प्रामाण्य-संशयस्यानुभवसिद्धत्वात् । अन्यथा स्वार्थसत्त्वनिश्चयस्य स्वस्यैव स्वप्रामाण्यसंशयविरोधित्वेन तदनुपपत्तिप्रसङ्गादित्यत आह– वेदेऽपि हीति । घटादिज्ञानेऽर्थसत्त्वगर्भप्रामाण्यस्य घटादि-ज्ञानान्तरमेव ज्ञानग्राहकेण साक्षिणा ग्रहात् श्रौतज्ञान इव प्रत्यक्षेऽपि अर्थसत्त्वसिद्धिरित्यर्थः । उक्तप्रकारत्रयेति । चतुर्थस्तु वेदेऽप्यसम्भवी । अर्थपदार्थतया अवाक्यार्थतया च भाविबाधा-भावस्य श्रौतज्ञानाविषयत्वात् । नन्वेवं प्रामाण्यग्रहेऽनुभूयमानस्तत्संशयोऽनुपपन्नः स्यादित्यत आह– प्रामाण्यस्येति । स्वतस्त्वात् दोषाभावे सति स्वाश्रयग्राहकग्राह्यत्वात् । तथा च संशयस्थले दोषसत्त्वेन ज्ञानग्रहेऽपि तदीयप्रामाण्याग्रहात्संशय उपपद्यत इत्यर्थः ।
ननु यथा भ्रमे दोषे सति प्रामाण्यबाधेन च ज्ञप्तिप्रामाण्यमपोद्यते तथा घटादिप्रत्यक्षेऽपि कश्चिद्दोषो भविष्यतीत्याशङ्क्य निराकरोति ।। न च रूप्यादीति । घटादिज्ञाने तत्प्रामाण्य-मपोद्येतेत्यर्थः । प्रत्युत बलवत्प्रमाणविरोधाभावेन निश्चितः । बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथेति ब्रह्मतर्कोक्तेरिति भावः । नन्वस्त्येव प्रामाण्यं घटादिज्ञाने मन्मतेऽपि । ज्ञानग्राहकेण गृह्यते च । परं तु चरमबाधावधिकमेवेत्याशङ्कामनुव्याख्यानेन परिहरति – तदुक्तमिति । कालतो मर्यादा ‘इयन्तं कालं प्रामाण्यमस्ति उत्तरकालं तु न’’ इत्येवंरूपा । यदेवाबाध्यं तदेव बाध्यमितिवद्व्याहतेत्यर्थः । शुक्तिरजतज्ञाने तु यावद्बाधं प्रामाण्यग्रहणं न तु प्रामाण्यमतो न व्याहतिरिति भावः । अत एवोक्तं– प्रामाण्यस्येति । श्रुतिप्रत्यक्षाभ्यां स्वविषयसत्त्वग्रहणे अवान्तरविशेषमाह– इयांस्त्विति । वर्तमानेति । तत्सत्यमित्यादिश्रुतौ वर्तमानकालोप-स्थापकपदाभावादित्यर्थः । प्रत्यक्षेणेति । प्रत्यक्षज्ञाने वर्तमानकालस्यावश्यं विषयता । इदमिदानीमेवमिति हि प्रत्यक्षानुभवः । अयमित्यनुभवोऽप्येतद्देशकालविशिष्टवस्तुविषयकः । अत एव जैमिनीयाः कालस्य षडिन्द्रियवेद्यतामाहुः । साक्ष्युपनीतकालभानमिति बादरायणीयाः । अनुमानोपनीतकालभानमिति वैशेषिकादयः इति प्रकारमात्रे विवादः । अन्यथा सोऽयमिति प्रत्यभिज्ञाप्रत्यक्षेण पदार्थस्थायित्वं न सिद्ध्येत् । जागराद्यनुभवेऽपीदं ताभासत एव । केषाञ्चिन्मते स्मृत्युपनीतकालभानसम्भवात् । विशिष्टानुभवस्य विशेषणज्ञानजन्यत्वा-नभ्युपगमाद्वा अनुभवस्य वा जागराद्यत्वमसिद्धमिति भावः ।
विशेषव्यापकमुभयानुगतं विषयाबाधगर्भितप्रामाण्यप्रयुक्तमबाध्यत्वसामान्यं परिच्छिन्ना-परिच्छिन्नसद्रूपयोर्जगद्ब्रह्मणोरस्तीत्याह । यद्देशेति । नित्यत्वाद्यसिद्धावपीति । काला-परिच्छिन्नसत्तासम्बन्धरूपनित्यत्वस्य देशापरिच्छिन्नसत्तासम्बन्धित्वरूपविभुत्वस्य चासिद्धा-वपीत्यर्थः । प्रागभावप्रध्वंसाप्रतियोगित्वरूपनित्यत्वस्य तत्सत्यमिति श्रुतितोऽप्यसिद्धेः । ननु यद्देशकालप्रकारावच्छेदेन यत्र यस्य येन सत्ता गृहीता तद्देशकालप्रकारावच्छेदेन तत्र तस्य तेन सत्वसिद्धावपि न त्रैकालिकनिषेधाप्रतियोगित्वरूपसत्वसिद्धिः । नेह नानेति भाविबाधक-बाधितत्वात् । न चैतावताऽन्यतराप्रामाण्यम् । पूर्वोत्तरकालव्यवस्थयोपपत्तेरित्यत आह । कालान्तरादिस्थमपि हीति । आद्ये कथमिति । अप्रमाणे बाधावधिप्रामाण्यभ्रम एव स्यान्नतु प्रामाण्यम् । अतस्मिंस्तद्ग्रहो भ्रम इति तल्लक्षणम् । रूप्यज्ञानवद्यस्मिन्काले यत्र यो अर्थो गृहीतस्तस्मिन्नेव काले तत्रैव तस्यार्थस्यापहारादित्यर्थः । अन्त्य इति । यस्मिन्देशे काले वा योऽर्थो गृहीतः पूर्वज्ञानेन तस्मिन्कालादौ बाधकज्ञानेन सोऽर्थोऽप्रतिषिद्ध एव । अन्यदाऽन्यत्र च निषिद्ध इत्यनित्यत्वं वा मूर्तत्वं वा स्यान्नतु मिथ्यात्वमित्यर्थः । वेदेऽपि हि विषयस्याबाधत्वे तद्ग्राहिज्ञानप्रामाण्यमेव प्रयोजकम् । तदबाधगर्भितत्वात् । न तु शब्दत्वादयश्चत्वारः प्रकाराः । आद्यानां त्रयाणामनाप्तवाक्यसाधारण्यात् । चतुर्थस्तु प्रत्यक्ष इव शब्देऽप्यसम्भवीत्युक्तम् । तत्र यदि कश्चिद्वैय्यात्त्याद्ब्रूयात् । शब्देऽस्त्येव भाविबाधाभावग्रहणं प्रामाण्यग्रहणद्वारा तर्हि प्रत्यक्षेऽप्यस्ति प्रामाण्यग्रहणद्वारा भाविबाधाभावग्रहणमित्याह । किञ्चानागतेति । तदुक्त-मनुव्याख्याने ।
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ।।
सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ।।
अतीतानागतौ कालावपि नासाक्षिगोचरौ ।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ।।
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ।।
स्मृत्या गोचरो विषयीकरणं यस्य तद्वस्तु स्मृतिगोचरमित्यर्थः ।
तस्मान्न तं विना किञ्चित्स्मर्र्तंु द्रष्टुमथापि वा ।
शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ।।
अतो दोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ।।
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ।।
त्यक्तव्यं चेति । अत्यन्ताभावस्य कालत्रयसम्बन्धग्रहं विना घटादिमिथ्यात्वग्रहो न सम्भवतीत्यर्थः । अत्र परेणैवेत्येवकारेण कालत्रयसंसृष्टो योऽत्यत्यन्ताभावस्तत्प्रतियोगित्व-रूपमिथ्यात्वाभावस्त्वेककाले प्रतियोगिसत्तामात्रग्रहेऽपि सुग्रह इति दर्शयति । अन्यथेति । तथा च साध्यशून्यं निदर्शनमापद्येतेत्यर्थः । प्रातिभासिकेति । सङ्गृहीतमर्थं विवृणोति । अस्ति हीति । प्रत्यक्षस्याप्रामाण्ये घटादेरप्रातिभासिकत्वासिद्ध्या तत्प्रामाण्यं त्वयाऽभ्युपेयमित्यर्थः । यद्यक्षसिद्धमिति । सङ्गृहीतं विशदयति । न हीति । दोषाभावादिनिश्चयस्य रूप्यमिथ्यात्वप्रत्यक्ष इव विश्वसत्यत्वप्रत्यक्षेऽप्यविशेषादित्यर्थः । ननु रूप्यधर्मो मिथ्यात्वमपि मन्मते मिथ्यैव । धर्मिण एव मिथ्यात्वे धर्मस्यापि मिथ्यात्वात् । न हि वन्ध्यासुते श्यामरूपं नास्तीत्येतावता गौरं रूपं सेत्स्यतीत्यत आह । रूप्यमिथ्यात्वस्येति ।
यद्वा बाध्यमिथ्यात्वकं तदबाध्यसत्ताकं यथा ब्रह्मेति व्याप्तेः । परस्परात्यन्ताभाव-रूपयोरन्यतरनिषेधे अन्यतरस्य सत्यत्वम् । गौरश्यामरूपयोस्तु न परस्परविरहरूपत्वमतो नैकाभावे अपरस्य सत्वमित्यर्थः । न च वृद्धिमिच्छत इत्यनेन पौनरुक्त्यम् । तत्र नेदं रजतमिति बाधस्य बाध्यत्वे रजतस्य मिथ्यात्वं न सिद्ध्येत् इत्युक्तम् । अत्र तु प्रत्यक्षस्य पारमार्थिक-सत्यत्वग्राहकत्वे रूप्यमिथ्यात्वस्य पारमार्थिकत्वं न सिद्ध्यतीत्युच्यत इति भेदः । पारमार्थिकेति । न च मिथ्यात्वश्रुतेरप्रसक्तप्रतिषेधत्वापात इत्यनेन पुनरुक्तिः । तत्र प्रत्यक्षानु-मानयोर्व्यावहारिकपारमार्थिकप्रतियोगितदभावविषयत्वेन कालात्ययापदिष्टव्यवस्थोक्तौ श्रुतेर-प्रसक्तनिषेधतोक्तिरिह तु प्रत्यक्षस्य तात्विकत्वाविषयकत्वे सोच्यत इति भेदः । अतत्वमिति । सङ्गृहीतमुपपादयति । न हि व्यावहारिकमिति । लौकिकानां इष्टानिष्टसाधनता-ज्ञानसाध्यप्रवृत्तिनिवृत्तिमताम् । हानोपादानोपेक्षाबुद्धिमतां प्रेक्षावतामित्यर्थः । उपपादितं प्रत्यक्षबाधमुपसंहरति । तस्मादिति ।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां वे प्रत्यक्षं विश्वसत्वभाक् ।।
न्यायामृतमाधुरी
प्रत्यक्षं किमप्रमाणमेव उत प्रमाणमपि कालत्रयाबाध्यत्वरूपसत्वग्रहाक्षममिति वितर्क-द्वयीघटकादिमवितर्कमेतावता ग्रन्थसन्दर्भेण प्रत्याख्याय सम्प्रति तादृशद्वितीयवितर्कं प्रत्याख्याति । नापीति । तत् कालत्रयाबाध्यत्वरूपं सत्वम् । अनित्ये ध्वंसप्रागभाव-प्रतियोगिनि ।। किन्त्वित्यादि । कालत्रयावच्छेदेन प्रतिपन्नोपाधिवृत्त्यभावप्रतियोगित्वाभाव इत्यर्थः । स च तादृशाभावोऽपि । त्रिकालगम् कालत्रयावच्छेदेन प्रतिपन्नोपाधौ वर्तमानं, निरुन्धानः तत्सम्बन्धाभावावगाही, अत्यबाध्यतां तादृशभावरूपसत्ताम् । वेदेऽपि वेदनिरूपितविषयतापन्नस्यापि, ज्ञानप्रामाण्यम् प्रमाणभूतज्ञानविषयत्वम् । नियामकं तन्त्रम् । शब्दत्वं शब्दजन्यज्ञानविषयत्वं, ग्राहित्वं ग्राहिविषयत्वम् ।। अनाप्तवाक्येति । नदीतीरं पञ्चफलवत्वम् । सदा तद्वदित्याद्यनुपूर्विकेत्यर्थः । स्वतस्त्वात् । दोषाभावसमवहित-ज्ञानग्राहकसामग्रीग्राह्यत्वात् । एतेन संशयादिस्थलदोषसमवधानेन प्रामाण्याग्रहात्तत्संशयो-पपत्तिरिति ध्वन्यते । कालतो मर्यादा व्यवहारदशायां प्रमात्वं परमार्थदशायां तन्नेत्येवंरूपा । तत्सत्यमित्यादीति । भूतागामिवर्तमानकालबोधकानां लुङ्लङ्लिट्लृट्लुट्लडादिप्रत्ययानाम-भावादित्यर्थः । प्रत्यक्षेणेति । इदमिहेदानीमित्यादिसाक्षात्कृतिर्देशे वृत्तौ कालस्य, काले वृत्तौ देशस्य वाऽवच्छेदकतामवगाहमाना नियमेनोपनीतविधया भङ्ग्यन्तरेण वा कालमव-गाहत एवेत्याशयः । नित्यत्वाद्यसिद्धावपीति ।। व्याप्यवृत्तेरवच्छेदकानुपगमेन कालवृत्त्य-वच्छेदकत्वानिरूपकाधेयताकत्वरूपनित्यत्वानवगाहन इत्यर्थः । ध्वंसप्रागभावाप्रतियोगित्व-रूपनित्यत्वस्य तत्सत्यमिति तोऽप्यनिश्चायकत्वात् ।
आद्य इति । शुक्तिरजतादिज्ञानस्य यस्मिन् यद्यदवच्छेदेन गृह्यते तत्रैव तस्य तदवच्छेदे बाधादित्यर्थः । अस्य इदमिहेदानीमित्यादेः । अन्त्य इति । यत्कालावच्छेदेन यत्र योऽर्थः पूर्वज्ञानेनावगाढस्तदवच्छेदेन तत्र तस्य बाधकज्ञानेनाप्रतिषेधनात् । कालान्तरावच्छेदेनैव प्रतिषेधनाच्च । नित्यतैव प्रासांक्षीदित्यर्थः । शब्दस्थले वापि बाधाभावग्रहणं वैय्यात्येनोप-गच्छन्तं प्रत्याह– किञ्चेत्यादि । त्यक्तव्यं चेति । अभावीयाधेयतायां कालत्रयावच्छिन्नत्वा-नवगाहनादिति भावः । किञ्चित्कालावच्छेदेन प्रतियोगिसत्ताग्रहेऽपि तादृशप्रतियोगित्वरूप-मिथ्यात्वाभावस्य सुग्रहतैवकारेण ध्वन्यते । प्रातिभासिकेति ।। घटादेः प्रातिभासिक-वैय्यर्थ्यनिर्वाहाय प्रत्यक्षप्रामाण्यमवश्यमूरीकार्यमित्यर्थः । यद्यक्षसिद्धमिति । दोषाभावादि-निर्णयघटितसामग््रयाः रजतालीकत्वविश्वसत्यत्वप्रत्यक्षयोस्तौल्यादिति भावः । ननु विपर्यस्त-रजतधर्मतयोरीकृतालीकत्वमप्यलीकमेव । धर्मितापन्नस्यैवालीकत्वात् । न हि चित्रिणीतनूजः श्यामो नेत्येतावता गौरो भवितेत्यत आह ।। रूप्यमिथ्यात्वस्येति । मिथो विरहरूपत्व-रूपविरुद्धत्वविशेषितयोरन्यतरनिषेधस्यान्यतरावच्छिन्नान्तरीयकत्वात् । श्यामत्वगौरत्वयोस्तु (न) तादृशविरुद्धत्वविशेषिततेति न क्षतिरिति भावः । विवेचितं चैतदधस्तात् । प्रत्यक्षबाधं निगमयति । तस्मादिति ।।
सत्वावगाहिता साक्षात्कृतेरार्तीथपत्सुधीः ।
गुरुप्रसत्तिभाक्कृष्णशर्मा मृदुतमोक्तितः ।।
।। इति प्रत्यक्षस्य पारमार्थिकसत्वग्राहित्वसमर्थनम् ।।