नापि ‘यद्द्वैतं पश्यति पश्यन्वै तन्न पश्यति..
४१. न तु तद्द्वितीयमिति श्रुत्यर्थविवरणम्
न्यायामृतम्
नापि ‘यद्द्वैतं पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वात् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इति श्रुतिस्तत्र मानम् । पूर्वत्र हि ‘शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः’ इति नाडीस्थभगवन्मूर्तीनां विलक्षणरूपत्वमुक्तं तेन तद्रूपाणामभेदः प्राप्तः तथा तद्वा अस्यैतदाप्तकाममात्मकाममकाममरूपमिति षष्ठ्या रूपरूपि भेदश्च । तन्निरासार्थं भगवद्रूपादीनामभेदोऽत्रोच्यते । ‘हृदयं ब्रह्म’ इति श्रुत्या ‘तस्यैतदेव निरुक्तं हृदयम्’ इत्यादिश्रुत्या च ब्रह्मणि प्रसिद्धेन हृदय निमित्त-केन ‘हृदयस्य भवति’ इति पूर्वत्र हृदयशब्देन निर्दिष्टं ब्रह्म यत्स्वगुणादिकं द्वैतं स्वस्माद् भिन्नं न पश्यति, तद्द्वितीयं नास्ति द्वितीयत्वेन नास्ति, कुतः ? पश्यन्सर्वज्ञ एव सन्नीश्वरो न पश्यति । न हि द्रष्टुरीश्वरस्य दृष्टेः विपरिलोपो बाधो विद्यते नित्यत्वात् ।
यत्तु जीवजडादिकं स्वस्माद्विभक्तं पश्येत्तत्ततोऽन्यदिति श्रुत्यर्थप्रतीतेः पश्य-तीति दर्शनकर्तुरेव पदिन्यायेन यद्द्वैतमित्यत्र प्रतियोगित्वेनान्वयात् तद्द्वैतमिति यच्छब्दस्य न तु तदिति व्यवहिततच्छब्दान्वयस्तु यत्तदोस्सा-काङ्क्षत्वादाकाङ्क्षायाश्च सन्निधानाद्बलीयस्त्वाद् युक्तः । उक्तं हि जैमिनिसूत्रे ‘आनन्तर्यमचोदना’ इति । वार्तिके च–
यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः ।
अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् ।। इति ।
अन्यथा यद्विभक्तं तन्नास्तीत्येतावता पूर्णत्वे शेषवैयर्थ्यम् । कथं च त्वत्पक्षे चैतन्यमात्रे ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपः, न हि घ्रातुर्घ्रातेर्विपरिलोपः, न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपः’ इत्यादिनोक्तं दृष्टित्वघ्रातित्वस्पृष्टित्वादिकं द्रष्टृत्वादिसम्बन्धश्च । किञ्च पूर्वत्र ‘यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तस्संहत्य पक्षौ सल्लयायैव ध्रियते एवमेवायं पुरुषः’ इति । ‘तद्यथा प्रियया स्त्रिया सम्प-रिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्, एवमेवायं पुरुषः’ इति भिन्नस्य नीडश्येन- स्त्रीपुरुषादिदृष्टान्तोक्तिः, ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति जीवेशभेदोक्तिश्चायुक्ता स्यादिति ।
।। न तु तद्द्वितीयमस्तीतिश्रुत्यर्थः ।।
न्यायामृततरङ्गिणी
यद्द्वैतमिति ।। अयं काण्वानां पाठः । माध्यन्दिनानां पश्यत्वैतद्द्रष्टव्यं न पश्यतीत्यादिपाठः ।। तत्रेति ।। ननु कथं न मानम् । तथा हि शाङ्करीये बृहदारण्यकभाष्ये उक्तम् । सुषुप्तौ निष्प्रपञ्च आत्मा भवतीति विक्षिप्य पूर्वोक्तमर्थं पुञ्जीकृत्य वक्तुं ‘तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा’ इत्यादिचतस्रः खण्डिकाः प्रवृत्ताः । तत्र सम्परिष्वक्तस्त्रीपुंसदृष्टान्तेन प्राज्ञपरिष्वक्तात्मनो बाह्यान्तरज्ञान राहित्यमुक्तम् । तच्च चैतन्यात्मस्वभावस्य स्वयञ्ज्योतिषोऽनुपपन्नमित्याशङ्कायां ज्योतिर्ब्राह्मणो यद्वै तन्न पश्यतीति नव खण्डिकाः प्रवृत्ताः । तत्तत्र सुषुप्ते यद् द्वैतं न पश्यति तत्तत्र सुषुप्ते पश्यन् वै पश्यन्नेव न पश्यति ।
ननु सुषुप्ते चक्षुरादिकरण व्यापाराभावान्न पश्यतीति जानीम इति चेन्न । हि यस्माद् द्रष्टुः स्वरूपभूतायाः दृष्टेर्ज्ञानस्य विपरिलोपो न विद्यते । यथाग्नेरौष्ण्यं यावदग्नि भवति तथा यावद्द्रष्टृ दृष्टिर्भवति । कथं तर्हि न पश्यतीत्युच्यते । उच्यते । न तु तद् विषयभूतं द्वितीयमस्ति । ‘यद्विभक्तं पश्येद्’ इति श्रुतौ तथाग्रिमासु ‘न जिघ्रति’ इत्यादिश्रुतिष्वपि । एवं षाष्ठमैत्रेयीब्राह्मणगत ‘यद्द्वैतं न पश्यति’ इत्यादिष्वपि द्वितीयमात्रनिषेधादित्याशङ्क्य श्रुत्यर्थमाह– पूर्वत्रेति ।। ‘ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य’ इत्यादिवाक्येषु शुक्लादिभगवद्रूपैर्नाड्यः पूर्णा इत्युच्यत इत्यर्थः ।। तद्रूपाणामिति ।। भगवन्मूर्तीनां तन्निष्ठशुक्लादिगुणानां चेत्यर्थः ।
यद् द्वैतमिति श्रुतौ पश्यतीति क्रियां प्रति कर्तृत्वेन ब्रह्म परामृश्यत इति वक्तुं ब्रह्मणः प्रकृतत्वमाह– हृदयमित्यादिना ।। ननु ‘आगतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वांच्छोकान् हृदयस्य भवति’ इति पूर्ववाक्ये तदा सुप्त्यवस्थायां सर्व शोकरहितो जीवो हृदयस्य परमात्मनः सम्बन्धी भवतीत्यभिप्रायकहृदयशब्देन ब्रह्म प्रकृतमित्यर्थः । ननु हृदयशब्देन कथं ब्रह्मोच्यते । तस्य पुण्डरीकाकारमांसपिण्ड वाचिनस्तत्स्थान्तःकरणलक्षणस्य शोकशब्दलक्षितकामान्वितत्वादित्याशङ्क्य तत्र रूढियोगौ दर्शयति– हृदयं ब्रह्मेत्यादिना ।। ‘हृदयं ब्रह्मेत्यारुणेया’ इत्यत्रोपासना श्रवणेऽपि ब्रह्माहैव ता इति वाक्यशेषेण ते उदरहृदये ब्रह्मैवेत्यर्थकेन हृदयस्य ब्रह्मत्वसिद्धिरित्यर्थः । छान्दोग्ये ‘स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृदय-मिति तस्य ब्रह्मणो हृदयमिति’ निरुक्तं नाम । बृहदारण्यके च ‘एष प्रजापतिर्हृदय-मेतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन् तस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेवेति स्वर्गलोकं य एवं वेद’ इत्यादिना हृदयशब्दस्य ब्रह्मणि रूढेरुक्तत्वात् । हरति ददाति यातीति हृदयमिति योगस्यापि सूचितत्वाच्च ।
नाडीवाक्ये शुक्लादिगुणानां प्रकृतत्वात्, यद् द्वैतमित्यत्र यच्छब्देन परामर्श इत्यभिप्रेत्याह– यत्स्वगुणेति ।। स्वं च गुणादिकं चेति विग्रहः । स्वं नाडीस्थ भगवन्मूर्त्यादि । गुणादिकं चार्थात्स्वस्यैवेत्यर्थः ।। तदिति ।। ‘न तु तत् द्वितीय मस्ति’ इत्यत्र विद्यमानस्य तच्छब्दस्य यत् द्वैतमित्यत्रान्वितस्य यत्पश्येदित्यत्र यच्छब्देनाप्यन्वय इत्यभिप्रायः । ननु द्वैतशब्दार्थं भेदं प्रति प्रतियोगित्वेन ब्रह्मणोऽ-निर्देशात्कथं स्वस्माद्भिन्नमिति व्याख्यानमित्यत आह ।। पश्यतीति ।।
पदिन्यायेनेति । चतुर्थस्य प्रथमपादे विचारितम्– ‘पदकर्माप्रयोजकं नयनस्य परार्थत्वात्’ । ज्योतिष्टोमे ‘एकहायन्या क्रीणाति’ इति सोमक्रयणं प्रकृत्य श्रूयते षट्पदान्यनुनिष्क्रामति सप्तमं पदं गृह्णाति’ इति । एकहायन्या गोः सोमक्रयदेशं प्रति नयने सति सप्तमं पदं यद्देशे भवति तद्देशगतपांसून् गृह्णातीत्यर्थः । तत्र एक हायनीनयने सन्देहः किं पदपांसुप्रयुक्तमपि वा उत क्रयप्रयुक्तमेव वा । तदर्थं किं एक हायनी उभयार्था वा क्रयार्थमेव वा । तस्या ह्युभयार्थत्वे तत्संस्कारार्थस्य नयनस्यापि तद्द्वारेणोभयप्रयुक्तत्वं स्यात् । क्रयमात्रार्थत्वे तु एकहायन्यास्तन्नय-नस्यापि क्रयमात्रार्थत्वेऽपरस्या शेषित्वादप्रयोजकत्वम् ।
पूर्वपक्षस्तु । उभयार्थैकहायनी । न च तस्याः श्रुत्या क्रयार्थाया उभयार्थत्वे मानाभावः । क्रयार्थाया अपि तस्याः सन्निधानेनानुपपत्त्या च पदपांस्वर्थत्वस्यापि सम्भवात् । तथा हि । पदपांसूनां पदिनीं विनानुपपत्त्या सन्निधानाद्योग्यत्वाच्च एकहायन्येव पदिनी सम्बध्यते । न च पदपांसूनामप्रयोजनत्वेन शेषित्वासम्भवः । यर्हि हविर्धाने प्राचीं प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यादिति सोमधारणार्थशकटस्य हविर्धानसंज्ञस्य योऽक्षो दारुविशेषस्तदञ्जनं पदपांसुना कर्तव्यमिति तेषां सप्रयोजन- त्वात् । तदुक्तं तन्त्रसारे ।
किं प्राप्तं यद्यपेक्षत्वात् पदस्य पदिनी स्वतः ।
योग्यत्वात्सन्निधेश्चेहाप्यङ्गं स्यादेकहायनी ।
श्रुत्यास्याः क्रयशेषत्वेप्यन्यथानुपपत्तितः ।
सन्निधेरितराङ्गत्वमपि स्यात्पशुधमवत् ।
प्रकृत्यर्थत्वबोधेपि शेषाणामुपदेशतः ।
विकृत्यर्थत्वमप्येषामतिदेशेन चेष्यत इति ।
सिद्धान्तस्तु । श्रुत्या क्रयार्थाया एकहायन्याः संस्कारार्थस्य नयनस्यापि क्रयार्थत्वात्तदनुनिष्पन्नपदपांसूनां नयनं प्रत्यप्रयोजकत्वम् । तदुक्तं १तन्त्रसारे ।
क्रयार्थायाः प्रसङ्गेन पांसुग्रहणसम्भवात् ।
न दुर्बलप्रमाणेन कल्पनीया तदर्थता ।। इति ।
सन्निधिलक्षणेन दुर्बलप्रमाणेन पदपांस्वर्थत्वमपि नैकहायन्याः कल्पनीय-मित्यर्थः । अत्र पूर्वपक्षन्यायेन यथा पदपांसुषु प्रकृतैकहायनी पदिनी सम्बध्यते तथा द्वैतम् इत्यत्र प्रतियोगित्वेन प्रकृतं ब्रह्म सम्बध्यत इत्यर्थः । अत्र पदन्यायेनेत्यादिपाठ कल्पनमत एव निरस्तम् ।
आनन्तर्यमिति ।। बहुषु पठितेषु कस्यचिदानन्तर्यस्यावर्जनीयत्वादनुष्ठान क्रमार्थत्वेन च तत्सन्निधिविशेषाम्नानार्थवत्त्वोपपत्तेः उभयार्थाकाङ्क्षादिरूपप्रकरणादि कल्पत्वायोगात् श्रुतिवच्च क्रमस्य साक्षाद्विनियोजकत्वाभावादानन्तर्यम् अङ्गाङ्गि सम्बन्धस्यानाक्षेपकमिति जैमिनिसूत्रार्थः । तथा हि– तृतीयस्य प्रथमपादेऽभिहितं ‘हस्ताववनिक्ते उलपराजिं स्तृणाति’ इति, दर्शपूर्णमासयोः श्रूयते । तत्र हस्तावने-जनस्य हस्ते संस्कारार्थस्य तद्द्वारा किं स्वाव्यवहितोत्तरभावि उलपराजिस्तरणमात्रं प्रत्यङ्गत्वं उत स्वानन्तरभाविउलपराजिस्तरणादिसर्वपदार्थाङ्गत्वं वेति संशयः । ऊर्ध्वलूतानि उलपानि । सुगन्ध्यादिकठिनतृणानि । तैस्तृणैर्दीर्घवेदिमध्यस्तरणं उलप राजिस्तरणम् । तत्राव्यवहितानन्तरातिक्रमहेतोरयोग्यत्वस्याभावात्किं भावयेदित्युप कार्यापेक्षायां अग्रे पठित एवोपतिष्ठते न पूर्व इति पूर्वत्रासम्बन्धादव्यवहितोत्तरोलप राजिस्तरणं प्रत्येव हस्तावनेजनमङ्गमिति प्राप्ते स्तरीतुमित्याद्यश्रवणाद्द्वयोराख्या तयोरेकवाक्यत्वाभावादाकाङ्क्षायोग्यतयोरनन्तरस्येव तदुत्तरेषामपि समत्वात्सन्निधि मात्रस्य चोक्तविधयान्यथासिद्धत्वात्साध्यान्तराश्रवणेन चावान्तरकथम्भावरूपावान्तर प्रकरणाभावात्सर्वस्योत्तरस्याङ्गमवनेजनमिति सिद्धान्तः । तदुक्तं वार्तिके–
न तावदेकवाक्यत्वं दृश्यते योग्यता समा ।
अवान्तरकथम्भावस्तदानीं न च गम्यते ।। इति ।
तद्यथास्मिन्नाकाश इत्यादिषु प्रस्तुतस्य सुप्तजीवस्य पुण्यपापानन्वागतिमुक्त्वा सुषुप्ते स्वयं प्रकाशस्यात्मनो रूपादिविशेषदर्शनाद्यभावप्रतिपादनाज् जीवपराः खण्डिकाः कथं परमात्मनि योज्यन्त इत्याशङ्क्य परपक्षेऽनुपपत्तिमाह– कथं चेति ।। परपक्षे सुप्तौ दृशिघ्रात्यादेर्विलोप एवास्ति । चक्षुरादिकरणकरूपगन्धादिविषयोपहित ज्ञप्तेरेव दृशित्वघ्रातित्वादियुक्तत्वात् । सुप्तौ च तदभावात् । नित्याखण्डचैतन्ये तु तथात्वाभावादिति भावः ।। द्रष्टृत्वादीति ।। न च षष्ट्योः सामानाधिकरण्यमिति वाच्यम् । तव मते कर्त्रर्थतृचोऽविवक्षितार्थत्वेन द्रष्टृदृष्टिशब्दयोरर्थभेदाभावेनान्यतर वैयर्थ्यात् । यथोक्तं त्वदीये बृहदारण्यकभाष्ये ।
नन्वनित्यक्रियाकर्तृविषय एव तृच् दृष्टो यथा च्छेत्ता भेत्तेत्याशङ्क्य अपरिलुप्त स्वभावैवात्मनो दृष्टिरतस्तया स्वयञ्ज्योतिः स्वभावया पश्यन्नेव भवति सुषुप्ते इत्यादि । यथादित्यादयो नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्तीत्युच्यन्ते तथाऽयमप्यात्माऽविपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टे-त्युच्यत इति च ।। यथेत्यादि ।। जीवगतसुषुप्त्यवस्थायाः परमात्माधीनत्वं वक्तुं दृष्टान्त उच्यते श्रुतौ तद्यथास्मिन्नित्यादि । सुपर्णशब्देन क्षिप्रगामी श्येनविशेष उच्यते । संहत्य प्रसार्य पक्षौ । सम्यग्लीयतेऽस्मिन्निति संल्लयो नीडं तस्मै । नीडार्थमात्मनैव ध्रियते । नीडे तिष्ठतीति यावत् । एवमेवायं पुरुष एतस्मा अन्ताय धावति । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति यथा पक्षी परिपतनजश्रमापनुत्तये स्वनीडमुपसर्पति एवमेव जाग्रत्स्वप्नजश्रमापनुत्तये परमात्मानं धावति प्राप्नोति । अयं पुरुषो जीवः । एतस्मै अन्ताय स्थानाय सुप्त्यवस्थाप्रदाय परमात्मने यत्र परमात्मनि सुप्तो जीवः ।
स्वित्यानन्दः परो विष्णुस्तमाप्तः सुप्त उच्यते ।
सम्प्राप्य तमजं जीवः कामयेन्नैव किञ्चन ।
न च स्वप्नसमभ्रान्तिज्ञानं याति कदाचन ।
सुषुप्तौ च किमु ज्ञानान्मुक्तौ प्राप्तो जनार्दनम् ।। इति ।
बृहदारण्यकभाष्योक्तेः । ‘ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठंति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य पूर्णा अथ यत्रैनं घ्नतीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देव इव राजेवाहमेवेदं सर्वोस्मीति मन्यते सोस्य परमो लोकः’ । पूर्वत्र परमात्मनो जीवं प्रति स्थानत्वमुक्तमत्र विविच्यते । ता वै शास्त्रान्तरप्रसिद्धाः । अस्य सुप्तजीवशरीरस्य । एताः हितनामकाः सूक्ष्माः शुक्लादि परमात्ममूर्तिभिः पूरिता नाड्यस्सन्ति तासु नाडीषु कण्ठदेशे यदा जीवो भवति तदा स्वप्नं पश्यति ।
निहितो भगवान्यत्र हिता नाड्यः प्रकीर्तिताः ।
नानावर्णो हरिस्तासु नानारूपी व्यवस्थितः ।
तासां मध्ये सुषुम्ना च तत्र सुप्तिं व्रजत्ययम् ।
ता एव कण्ठदेशस्था जीवस्तत्र व्यवस्थितः ।
स्वप्नान्पश्यति जाग्रद्वद्भयं च प्रतिपद्यते ।
अ इत्यादिश्यते विष्णुरविद्या तन्निरीक्षणम् ।
तेन स्वप्नानयं पश्येज्जीवो जागरितं तथा ।। इति बृहदारण्यकभाष्योक्तेः ।
ननु जीवतुल्यः परमात्मा कथं जीवस्याधारः स्यादत उच्यते । परमात्माज्ञान निमित्तं जीवस्य हननादिकमस्ति । अतो न जीवतुल्यः स इत्यर्थः । जिनन्ति वशीकुर्वन्ति । विच्छाययति हस्तिवद् धावति । इवशब्दो हननादेरस्वभावत्वार्थः । अत्राविद्यया परमात्मविषयाज्ञानेन यत्र चेतनसमूहे देवोहमस्मीत्यादि यो मन्यते सः अस्य जीवस्य उत्कृष्टं स्थानं देवाद्युपमा तस्याल्पत्वार्थः इवशब्दः । ‘तद्वा अस्यै-तदतिच्छन्दा अपहतपाप्माऽभयं रूपं तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं’ ‘तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम्’ ।
जीवाश्रयस्य परमात्मनो महिमा तयोर्भेदश्चात्रोच्यते एतस्य जीवाश्रयस्य परमात्मनः तदेतत्प्रसिद्धं रूपं वै कीदृशं तत् । तदुच्यते । अतिच्छन्दाः छन्दसाम् अवाच्यम् । छन्दः कामोऽतिगतो यस्मात् तदतिच्छन्दम् । छान्दसं सकारान्तत्व- मिति वा । अपहतपाप्म भयरहितम् । तेन प्राज्ञाख्येन भगवद्रूपेण । सम्परिष्वक्तः बाह्याभ्यन्तरविषयौ न जानाति । तत्र दृष्टान्तस्तद्यथा प्रिययेत्यादि । अस्य प्राज्ञस्य एतत् आप्तकामादिकं शोकान्तरं शोकेन रहितं रूपम् । अत्र माध्यन्दिनानाम् अशोकान्तरमिति पाठः । तदभिप्रायेण शोकं विना सुरमणादित्यादि भाष्यम् । काण्वानां तु शोकान्तरमिति पाठः । अत्र ‘पिताऽपिता भवति माताऽमाता लोका अलोका देवा ओवा वेदा अवेदा अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्च्छोकान् हृदयस्य भवति’ । अत्र सङ्गं परमात्मानं प्राप्तस्य मुक्तस्यासङ्गत्वमुच्यते ।
तेनाश्लिष्टस्स्वपुत्राणां दायादानां न वै पिता ।
तेषां दुःखाददुःखित्वान्न माता लोकमान्यपि ।
अलोकमानान्नो लोको देवोऽपि स्वाधिकारतः ।
वर्षणादेर्व्युत्थितत्वान्न देवो देवमान्यपि ।
अवेदमानान्नो वेदः पापी पापफलाप्ययात् ।
अपापः श्रमणश्चापि’ इत्यादि बृहदारण्यकभाष्योक्तेः । अत्र परमात्मप्राप्तौ सत्यां पिताऽपिता भवति देवाः न दीव्यन्ति संसारवत् । वेदाश्च तथा । चाण्डालः शूद्राद् ब्राह्मण्यामुत्पन्नः । पौल्कसः शूद्रात् क्षत्रियायामुत्पन्नः । श्रमणः श्रमकरकर्मयुक्तः । हि यस्मात् तदा मुक्तौ सर्वान् शोकान् तीर्णः सन् हृदयस्य परमात्मनः सम्बन्धी भवति अतो युज्यते तस्यासङ्गत्वम् । एवम्भूतः परमात्मा यज्जानाति तदस्ति यन्न जानाति तन्नास्तीत्येषोऽर्थो यद्द्वैतं न पश्यतीत्यादावुच्यते । तदुक्तं तत्रैव । यत्किञ्चिद्वस्तु भगवता न दृष्टं तन्नास्त्येव विद्यमानं सर्वं पश्यत्येवेति । तथा च श्येनाकाशादिस्थानीयस्य जीवसंसारस्य सत्यत्वमेव प्रतीयत इति सर्वसामञ्जस्येन वाक्योपपत्तौ व्याहत्यादिदोषयुक्तद्वितीयमात्रनिषेधपरत्वायोगादित्यर्थः ।
यद्द्वैतं नेति सुवचः शेषार्थग्रहणे परे ।
चतुष्पदीमादिशत त्रिपदीमपरे गिरम् ।
अत्रैव प्रकरणे यत्र हि द्वैतमित्यादौ द्वैतमिति पदस्य श्रवणाच्च ।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगंयुजि ।
न्यायामृततरङ्गिण्यामर्थो न त्वित्यदःश्रुतेः ।
इति न तु तद्द्वितीयमस्तीति श्रुत्यर्थः ।
न्यायामृतकण्टकोद्धारः
ननु तथापि यद्द्वैतं न पश्यतीति श्रुतिर्मिथ्यात्वे प्रमाणम् । तत्र यद्द्वैतं न पश्यति तद् द्वितीयं नास्तीति द्वितीयाभावप्रतीतेरित्यत आह नापीति । कुतो नेति चेत् आन्तरानुपपत्तेर्बाह्यानुपपत्तेश्च । तत्प्रदर्शनं च श्रुतिव्याख्यानावसर एव भविष्यति । तर्हि कोऽस्य वाक्यस्यार्थ इति चेत् भगवद्रूपाभेद एवेति गृहाण । ननु सोऽप्रसिद्ध इत्यत आह– पूर्वत्र हीति । तेन विलक्षणरूपवत्वेन । न च द्रव्यत्वपृथिवीत्वादिविलक्षणधर्माणामिव विलक्षणरूपाणामप्येकत्र समावेशः किं न स्यादिति वाच्यम् । विलक्षणशब्देन विरुद्ध-
त्वस्य विवक्षितत्वात् । रूपाणां व्याप्यवृत्तित्वेन विरुद्धरूपाणामेकत्रासमावेशात् । षष्ठ्येति । यद्यपि सम्बन्ध एव षष्ठी । तथापि भिन्नयोरेव सम्बन्ध इति षष्ठ्या भेदप्रसक्तिः ।
ननु तथापि यद्द्वैतं न पश्यतीत्यत्र कर्तुरप्रतीतेः कथमन्वय इत्यत आह हृदयं ब्रह्मेति । हृदयस्य भवतीति पूर्ववाक्ये हृदयशब्दनिर्दिष्टं ब्रह्मैव कर्तृ । अतो नान्वयानु-पपत्तिः । न च हृदयशब्दः कथं ब्रह्मवाचीति वाच्यम् । श्रौतप्रयोगेन योगव्युत्पत्त्या वेत्याशयेनोक्तं हृदयमिति । ननु यद् द्वैतं न पश्यतीत्यत्र द्वैतप्रतियोगित्वेन ब्रह्मण एव कुतोऽन्वयः ? जगत एव प्रतियोगित्वेनान्वयः किं न स्यात् ? तथा च यद् जगद्द्वैतं न पश्यति तद्द्वैतं नास्तीति सुलभैव मिथ्यात्वप्रतीतिरित्यत आह पश्यतीति । तथा च दर्शनकर्तृत्वेन ब्रह्मणः सन्निहितत्वाज् जगतस्त्वसन्निहितत्वात् सन्निहितपरित्यागे कारणा-भावाद् ब्रह्मण एव द्वैतप्रतियोगित्वेनान्वयोपपत्तिरिति भावः । य(प)दिन्याये-नेति । अत्र यदिन्यायेनेति पाठो दृश्यते । यदिन्यायस्त्वित्थम्–
यदि न स्यात् ततः किं स्यात् स्याच्चेत् तन्नास्तिको हतः ।। इति ।
अस्यार्थः । यदि सन्निहितं प्रधानं वा न स्यात् ततो दूरस्यासन्निहितग्रहणेऽङ्गानुष्ठाने वा किं स्यात् ? न कोऽपि दोष इत्यर्थः । स्याच्चेत् सन्निहितं लभ्यते चेत् तदा तत्परित्यागी असन्निहितग्राही हतः । यद्वा स्याच्चेत् प्रधानं तदाङ्गाननुष्ठाता नास्तिको हतः । निरङ्गकर्मानुष्ठानेन फलाभावात् फलशून्यो जायत इति । तदिह दर्शनकर्तृत्वेन ब्रह्मणः सन्निहितत्वात् तस्यैव द्वैतप्रतियोगित्वेनान्वयः । नेतरस्य । असन्निहितत्वादिति यद्यपि यदिन्यायः सम्भवति । तथापि पदिन्यायस्य मीमांसायां प्रसिद्धत्वात् सार्वजनी-नत्वाद् अनुष्ठानसिद्धत्वाच्च स एवादर्तव्य इति भावेन पदिन्यायेनेति पठन्ति ।
पदिन्यायस्त्वित्थम् । चतुर्थाध्याये प्रथमपादे चिन्तितम् । ‘पदकर्माप्रयोजकं नयनस्य परार्थत्वात्’ । ज्योतिष्ठोमे सोमक्रय आम्नायते । ‘एकहायन्या क्रीणाति’ इति । सेयमेक हायनी गौर्यदा सोमं क्रेतुमानीयते तदाऽध्वर्युस्तस्याः पृष्ठतोऽनुगच्छति । एतदप्याम्नातम् । ‘षट्पदान्यनुनिष्क्रामति’ इति । ततः सप्तमपदे हिरण्यं निधाय हुत्वा तत्पदगतरजो गृह्णीयात् । एतदपि श्रुतम् । ‘सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति’ इति । तदेतद्रजः सङ्गृह्य हविर्धानयोः शकटयोरक्षे रजसा युक्तमञ्जनं प्रतिक्षिपेत् । एतदपि श्रुतम् ‘यज्ञं वा एतत् सम्भरन्ति यत् सोमक्रयण्यै पदम्’ इति प्रस्तुत्य यर्हि हविर्धाने प्राचीं प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यात् इति । तत्र संशयः । किं यदेतदक्षाभ्यञ्जनं सप्तमपदसाध्यं तदर्थमप्येक हायनीनयनं तेनापि प्रयुज्यते, उत क्रयार्थमेव नयनं तेनैव प्रयुज्यत इति ।
पूर्वपक्षस्तु सोमक्रयवत् पदकर्माक्षाञ्जनमप्येकहायन्या नयनप्रयोजकम् । सन्निकर्षस्या विशेषात् । सोमक्रयवत् अक्षाञ्जनस्यापि एकहायन्यानयनसाध्यत्वाच्च । न च दध्या-नयनम् आमिक्षया यथा संयुक्तं तथाऽक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तमिति वाच्यम् । क्रयेऽपि सोमक्रयण्यानयनसंयोगाभावात् । अथासंयुक्तोऽपि क्रयो गवानयनेन निष्पद्यते तर्ह्यक्षाञ्जनम् अपि तेन निष्पाद्यत इति समानत्वात् । तस्मात् क्रयवत् पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकमिति तदपचारे पुनर्गवानयनमिति । सिद्धान्तस्तु । ‘एकहायन्या क्रीणाति’ इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते । गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवानयने प्रयोजकः । न चैवं पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचित् श्रुतम् । येन तदपि प्रयोजकं स्यात् । यदर्थं द्रव्यं तदर्थस्तत्संस्कार इति गोरूप-द्रव्यस्य क्रयार्थत्वे तत्संस्कारस्य नयनस्यापि तदर्थत्वात् । तथा च क्रय एव प्रयोजको,
न ह्यक्षाञ्जनमपीति तदपचारे पुनर्नानयनानुष्ठानम् । एतदधिकरणं सप्तमं पदमित्यत्र पदशब्दस्य सन्निधानाद् एकहायनी पदविषयकत्वं सिद्धं कृत्वा प्रवृत्तमिति पदिन्यायेनेत्युक्तम् ।
ननु यद् द्वैतमित्यत्र यच्छब्दस्य सन्निहितपरित्यागेन व्यवहिततच्छब्दान्वयः कथम् ? सन्निहितपरित्यागेन दूरस्थग्रहणस्याव्यवहितन्यायविरुद्धत्वादित्यत आह– यद् द्वैतमिति । उक्तं हीति । तृतीयाध्याये प्रथमपादे चतुर्दशाधिकरणे निर्णीतम् आनन्तर्यमचोदनेति । दर्शपूर्णमासप्रकरणे श्रूयते । ‘हस्ताववनेनिक्ते उलपराजिं स्तृणाति’ इति । वेद्यामास्तरितुं सम्पादितस्तृणस्तम्ब उलपराजिः । तत्र हस्तावनेजनं हस्तसंस्कारार्थम् । लिङ्गात् । करिष्य माणकर्माङ्गं सत् अनन्तरपठितः उलपराजिः स्तरणमात्रस्याङ्गमुत सर्वकर्माङ्गमिति संशयः । पूर्वपक्षस्तु । हस्तशुद्धिदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तशुद्धिरास्तरणमात्रस्याङ्गम् । न च महाप्रकरणेन करिष्यमाणसर्वकर्माङ्गमिति वाच्यम् । अवान्तर प्रकरणेनास्तरणाङ्गत्वात् । तस्य तदपेक्षया प्राबल्यादिति । सिद्धान्तस्तु । अवनेजनं हस्त संस्कारः । संस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यावित्येतादृशसामर्थ्यं लिङ्गम् । प्रकरणं च दर्श पूर्णमासयोः स्पष्टम् । अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात् सर्वशेषो हस्तशुद्धिः ।
न च वाक्याद्धस्तावनेजनस्यास्तरणार्थत्वमिति वाच्यम् । यच्छब्दाद्युपबन्धरहितस्यैक वाक्यत्वाभावात् । न चावान्तरप्रकरणस्य महाप्रकरणापेक्षया प्रबलत्वात् तेन हस्तावने जनस्योलपराज्यास्तरणार्थतेति वाच्यम् । प्रकरणापेक्षया लिङ्गस्य प्रबलत्वात् । पूर्व-त्रोत्तरत्र चोलपराज्यास्तरणाङ्गाविधानेनावान्तरप्रकरणाभावाच्च । एवं च यथा सन्निहित-मास्तरणं परित्यज्य लिङ्गप्रकरणाभ्यां करिष्यमाणसर्वकर्मार्थता तथा यच्छब्दस्य सन्निहित-परित्यागेनाकाङ्क्षावशात् व्यवहिततच्छब्दान्वयः । उक्तेऽर्थे वार्तिकसम्मतिमाह वार्तिके चेति । यस्य पदस्य येन दूरस्थेनार्थसम्बन्धोऽर्थानां परस्पराकाङ्क्षत्वेनान्वयः तस्य तेन दूरस्थेनापि स सम्बन्धः स्वीकर्तव्यः । अर्थतोऽसमर्थानां परस्परानाकांक्षार्थकानां पदाना-मानन्तर्यं सन्निधानमन्वये कारणं न भवतीत्यर्थः । अन्यथेति । यदि द्वितीया-भावमात्रमत्र प्रतिपाद्येतेत्यर्थः । अत्राद्वितीयचिन्मात्रपरत्वाङ्गीकारे एतद्वाक्यस्थावान्तर-वाक्यविरोध इत्याह कथञ्चेति । न केवलमेतावत्, एतत्पूर्ववाक्यविरोधश्चेत्याह– किञ्चेति । पूर्ववाक्ये जीवेश भेदस्योक्तत्वात् अत्रैक्यपरत्वाङ्गीकारे तद्विरोध इति भावः ।
।। इति ‘न तु तद्द्वितीयमस्ती’ति श्रुत्यर्थः ।।
न्यायामृतप्रकाशः
यत्तु जीवजडादिकं स्वस्माद्विभक्तं पश्येत्तत्ततोऽन्यदित्युक्ते स्वस्मादविभक्तमेव विभक्तत्वेन पश्यति भ्रान्त्येति किं न स्यादित्याशङ्कावारणाय न हि द्रष्टुरीश्वरस्य दृष्टेर्विपरिलोपो विद्यते नित्यत्वादित्युक्तमिति योज्यम् । ननु द्वैतशब्दार्थभेदं प्रति प्रतियोगित्वेन ब्रह्मणोऽ-निर्देशात्कथं स्वस्माद्भिन्नमिति व्याख्यानमित्यत आह– पश्यतीति दर्शनकर्तुरेवेति ।। दर्शनकर्तृत्वेन प्रकृतस्यैवेत्यर्थः ।। पदिन्यायेनेति ।। चतुर्थाध्याये प्रथमपादे चिन्तितं ‘पदकर्माप्रयोजकम्’ इत्यत्र, ज्योतिष्टोमे ‘अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति’ इति सोमक्रयणं प्रक्रम्य श्रूयते ‘षट्पदान्यनुक्रामति सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति’ इति । एकहायन्याः गोः सोमक्रयणदेशं प्रति नयनकाले षट्पदक्रमणानन्तरं सप्तमं पदं यद्देशे भवति तद्देशगतपांसुं अध्वर्युरञ्जलिना गृह्णातीत्यर्थः ।
तत्र सन्देहः एकहायन्याः गोर्नयनं पदपांसुग्रहणार्थमुत सोमक्रयणार्थमिति । पूर्वपक्ष-स्तूभयार्थमिति । न च श्रुत्या सोमं क्रीणातीति क्रयणार्थत्वस्यैव श्रवणाद् उभयार्थत्वे माना-भावः । क्रयणार्थस्यापि तस्याः नयनस्य सन्निधानेनानुपपत्त्या च पदपांसुग्रहणार्थत्व स्यापि सम्भवात् । तथा हि पदपांसुग्रहणं तावदावश्यकं ‘यर्हि हविर्धाने प्राचीं प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यात्’ इति सोमधारणार्थस्य शकटस्य हविर्धानसंज्ञिकस्य योऽक्षो दारुविशेषः तदञ्जनं पदपांसुना कर्तव्यमिति विधानात् । पदपांसूनां च पदिनीं पदवतीं पद गताविति धातोर्गमनवतीं गोव्यक्तिं विनाऽनुपपत्तेर्नीयमानतया सन्निधानाद्योग्यत्वाच्च प्रकृता एकहायन्येव पदिनी सम्बध्यते । तस्मादुभयार्थमेव एकहायन्या नयनमिति । सिद्धान्तस्तु प्रधानक्रयणार्थ-
मेव नयनं, पदपांसुग्रहणं त्वनुषङ्गसिद्धम् । अतो न तदर्थत्वं तस्य कल्प्यम् । यथोक्तं तन्त्ररत्ने
क्रयार्थायाः प्रसङ्गेन पांसुग्रहणसम्भवात् ।
न दुर्बलप्रमाणेन कल्पनीया तदर्थता ।। इति ।
एवं चात्र पदिन्यायेनेत्यत्र पूर्वपक्षन्यायोऽत्राभिप्रेतः । यथा पूर्वपक्षन्यायेन पदपांसुषु प्रकृता एकहायनी पदिनी सम्बध्यते एवमिहापीत्यर्थः ।
यद्वा पदिन्यायेनेत्यस्य पदसम्बन्धिन्यायेनेत्यर्थः । यथा ज्योतिष्टोमे एकहायन्याः गोः सोमक्रयणार्थं नयनकाले आम्नायते ‘पदे जुहोति’ इति सामान्येन श्रवणाद्यस्य कस्यचित्पशोः पदे जुहोतीति शङ्कायां प्रकृतत्वादेकहायनीपदमेवात्र विवक्षितं नान्यस्येति निर्णीतमस्ति तन्न्यायेनेहापि दर्शनकर्तृत्वेन पूर्वप्रकृतो भगवानेव ‘यद् द्वैतम्’ इत्यत्र भेदप्रतियोगित्वेनान्वे -तीत्यर्थः । अत्र पदन्यायेनेति पाठकल्पनं पदिन्यायार्थाज्ञानमूलकमित्युपेक्ष्यम् । ननु भवत्पक्षे यच्छब्दस्य व्यवहितान्वयकल्पनमापद्यते । तथा च सान्निध्यभावो दोष इत्यत आह– यद्द्वैतमिति यच्छब्दस्येति ।।
आनन्तर्यमिति ।। तृतीयाध्याये प्रथमपादे चिन्तितम् । दर्शपूर्णमासयोः श्रूयते ‘हस्ताववनेनिक्ते उलपराजिं स्तृणाति’ इति । द्वौ हस्ताववनेनिक्ते, छान्दसो लिङ्गव्यत्ययः, अवनेनिक्तौ प्रक्षालितौ कुर्यादिति यावत् अनन्तरमुलपराज्यास्तरणं कार्यमित्यर्थः । वेद्यामा स्तरितुं सम्पादिततृणस्तम्ब उलपराजिः । एवं च यज्ञे हस्तप्रक्षालनानन्तरं वेद्यामुलपराजि स्तरणं क्रियतेऽनन्तरं कर्मकलापः क्रियत इत्यस्ति क्रमः । तत्र हस्तावनेजनमुलपराज्या स्तरणाङ्गं उत करिष्यमाणसकलकर्माङ्गमिति संशये हस्तावनेजनान्तरमुलपराज्यास्तरण विधानेनानन्तर्यलक्षणात्क्रमादुलपराज्यास्तरणाङ्गमेवेति प्राप्ते सिद्धान्तितं जैमिनिना ‘आनन्तर्य- मचोदना’ इति । आनन्तर्यं सान्निध्यं अङ्गाङ्गिभावेनान्वयस्य नाक्षेपकम् । अन्यथा गिरि-र्भुक्तम् अग्निमान् अनेन ।
अम्बरमम्बुनि पत्रमरातिः पीतमहीशगणस्य ददाह ।
यस्य वधूस्तनयं गृहमब्जा पातु स वः शिवलोचनवह्निः ।।
इत्यादावपि पदानामानन्तर्यसत्त्वेनाङ्गाङ्गिभावेनान्वयबोधप्रसङ्गादिति सूत्रार्थः । एवञ्चा-नन्तर्यरूपक्रमस्याप्रयोजकत्वाद्धस्तावनेजनं करिष्यमाणोलपराज्यास्तरणादिसमस्तकर्माङ्गमेवेति सम्बन्धो योग्यः स आश्रयणीयः ।। अर्थत इति ।। परस्परान्वयायोग्यार्थानां गिरिर्भुक्तम् इत्यादिपदानामित्यर्थः ।। अन्यथेति ।। अस्य वाक्यस्याद्वैतपरत्व इत्यर्थः । चैतन्यमात्रे ज्ञानस्वरूपमात्रे ।। दृष्टित्वेत्यादि ।। दृष्टित्वादिरूपज्ञानगतजातिविशेषाणाम् । ज्ञानमात्र स्वरूपे निर्धर्मके ब्रह्मण्यभावादिति भावः ।। द्रष्टृत्वादीति ।। असङ्गे चैतन्यमात्रे द्रष्टुर्घ्रातुः स्प्रष्टुरित्याद्युक्तो द्रष्टृत्वादिसम्बन्धोऽयुक्त इत्यर्थः ।
न्यायकल्पलता
यद् द्वैतमिति ।। अयं काण्वानां पाठः । माध्यन्दिनानां तु ‘पश्यन्वै तन्न द्रष्टव्यं न पश्यति’ इत्यादिपाठः ।। तत्रेति ।। ननु कथं न मानम् । तथा हि– शाङ्करीये बृहदारण्यकभाष्येऽभिहितम् । सुषुप्तौ निष्प्रपञ्च आत्मा भवतीति विक्षिप्य पूर्वत्रोक्तमर्थं पुञ्जीकृत्य वक्तुं ‘तद्यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा’ इत्यादि चतस्रः कण्डिकाः प्रवृताः । तत्र सम्परिष्वक्तस्त्रीपुंसदृष्टान्तेन प्राज्ञपरिष्वक्तात्मनो बाह्यान्तरज्ञानराहित्यमुक्तम् । तच्च चैतन्यात्मभावस्य स्वयञ्ज्योतिषोऽनुपपन्नमित्याशङ्क्य ज्योतिर्ब्राह्मणे ‘यद्द्वैतं न पश्यति’ इत्यष्ट कण्डिकाः प्रवृत्ताः । तत्तत्र सुषुप्ते ‘यद्द्वैतं न पश्यति तत्तत्र सुषुप्ते पश्यन्वै पश्यन्नेव न पश्यति ।
ननु सुषुप्ते च चक्षुरादिकरणव्यापाराभावान्न पश्यतीति जानीम इति चेन्न । हि यस्मा-द्द्रष्टुः स्वरूपभूताया दृष्टेर्ज्ञानस्य विपरिलोपो न विद्यते । यथाऽग्नेरौष्ण्यं यावदग्नि भवति तथा यावद्द्रष्टृ दृष्टिर्भवति । कथं तर्हि न पश्यतीत्युच्यते । उच्यते । न तु तद्विषयभूतं द्वितीय-मस्ति । यद्विभक्तं पश्येदिति श्रुतौ, तथाऽग्रिमासु ‘न जिघ्रन्ति’ इत्यादिश्रुतिष्वपि । एवं षाष्ठमैत्रेयीब्राह्मणगत ‘यद्द्वैतं न पश्यति’ इत्यादिष्वपि द्वितीयमात्रनिषेधादित्याशङ्क्य श्रुत्यर्थं सोपपत्तिकमाह– पूर्वत्रेति ।। १‘ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य’ इत्यादिवाक्ये शुक्लादि भगवद्रूपैर्नाड्यः पूर्णा इत्युच्यते इत्यर्थः ।। तद्रूपाणामिति ।। भगवन्मूर्तीनां तन्निष्ठशुक्लादि गुणानां चेत्यर्थः । यद् द्वैतमिति श्रुतौ पश्यतीति दर्शनक्रियां प्रति कर्तृत्वेन ब्रह्म परामृश्यत इति वक्तुं ब्रह्मणः प्रकृतत्वमाह– हृदयमित्यादिना ।। २‘हृदयं वै सम्राट् परमं ब्रह्म नैनं हृदयं जहाति’ इति किञ्चिद्व्यवहितपूर्ववाक्ये । ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति’ इति अव्यवहित पूर्ववाक्ये च । तदा सुप्तावस्थायां सर्वशोकरहितो जीवो हृदयस्य परमात्मनः सम्बन्धी भवतीत्यभिप्रायकहृदयशब्देन ब्रह्म प्रकृतमित्यर्थः ।
ननु हृदयशब्देन कथं ब्रह्मोच्यते । तस्य पुण्डरीकाकारमांसपिण्डवाचित्वात् । ‘चित्तं तु चेतो हृदयम्’ इत्यमरोक्तेस्तस्यान्तःकरणाभिधायित्वाच्च । शोकशब्दोपलक्षितकामाद्यन्वित त्वाच्चेत्याशङ्क्य तत्र रूढियोगौ दर्शयितुमुक्तं हृदयं ब्रह्मेत्यादि । ‘हृदयं ब्रह्मेत्यारुणेयः’ इत्यैतरेयश्रुतावुपासनाश्रवणेऽपि ‘ब्रह्माहैव ता’ इति वाक्यशेषेण । ते उदरहृदये ब्रह्मैवेत्यर्थ-केन हृदयस्य ब्रह्मत्वसिद्धिरित्यर्थः । छान्दोग्ये३ ‘स वा एष आत्मा हृदि तस्यैतदेव निरुक्तम् हृदयम्’ इति । तस्य ब्रह्मणः, हृदयमिति निरुक्तं नाम । बृहदारण्यके च ४‘एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सत्यं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकम् अक्षरम् अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येक-क्षरमेति स्वर्गं लोकं य एवं वेद’ इत्यादिना हृदयशब्दस्य ब्रह्मणि रूढेः श्रुतत्वात् । हरति ददाति यातीति हृदयमिति योगस्यापि सूचितत्वाच्च ।
नाडीवाक्ये शुक्लादिगुणानां प्रकृतत्वात् ‘यद् द्वैतम्’ इत्यत्र यच्छब्देन परामर्श इत्यभि-प्रेत्योक्तं यत् स्वगुणादिकमिति । स्वं च गुणादिकं चेति विग्रहः । ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति एकवद्भावः । स्वं नाडीस्थतदितरभगवन्मूर्त्यादि । गुणादिकं चार्थात्स्वस्यैवेति लभ्यते । अन्वयव्याप्तिमवधारयितुं व्यतिरेकव्याप्तिमाह– यत्त्विति ।। ‘न तु तद् द्वितीयमस्ति’ इत्यत्र विद्यमानस्य तच्छब्दस्य ‘यद् द्वैतम्’ इत्यत्रान्वितस्य ‘यत्पश्येत्’ इत्यत्रत्ययच्छब्देनान्वय इति भावेनोक्तं तत्ततः इति । द्वयोर्भावो द्विता । द्विशब्दोऽत्र भिन्नपर्यायः । ‘द्वा सुपर्णा’ इत्यादौ प्रयोगात् । द्विताया इदं धर्मि द्वैतम् । ‘तस्येदम्’ इत्यण्प्रत्ययः । ‘यत्र हि द्वैतम्’ इत्यादौ, अत्रैव प्रकरणे द्वैतशब्दस्य भिन्ने प्रयुक्तत्वाच्च । अत्रैवं प्रयोगः । ब्रह्मापृथक्सिद्धगुणादिकं ब्रह्मात्यन्ताभिन्नं ब्रह्मणा भिन्नत्वेना दृष्टत्वात् व्यतिरेकेण यथा जीवजडादिकमिति । ननु द्वैतशब्दार्थभेदं प्रति प्रतियोगित्वेन ब्रह्मणोऽनिर्देशात्कथं स्वस्माद्भिन्नमिति व्याख्यानमित्यत आह– पश्यतीति ।।
पदिन्यायेनेति ।। चतुर्थे प्रथमपादे विचारितम् । १‘पदकर्मा प्रयोजकं नयनस्य परार्थत्वात्’ इति । ज्योतिष्टोमे ‘एकहायन्या सोमं क्रीणाति’ इत्येकहायन्या गवा सोमक्रयणं प्रकृत्य श्रूयते । ‘षट्पदान्यनुनिष्क्रामति सप्तमं पदमध्वर्युरञ्ज लिना गृह्णाति’ इति । एकहायन्या गोः सोमक्रयदेशं प्रति नयने सति सप्तमं पदं यद्देशे भवति तद्देशगतपांसून् गृह्णातीत्यर्थः । तत्र एकहायनीनयने सन्देहः । किं पदपांसुप्रयुक्तमपि क्रय प्रयुक्तमपि वा उत क्रयप्रयुक्तमेव वा । तदर्थं किं एकहायनी उभयार्था वा क्रयार्थमेव वा । तस्या ह्युभयार्थत्वे तत्संस्कारार्थस्य नयनस्यापि तद्द्वारेणोभयप्रयुक्तत्वं स्यात् । क्रयमात्रार्थत्वे त्वेकहायन्या स्तन्नयनस्यापि क्रयमात्रार्थत्वेऽपरस्याशेषित्वादप्रयोजकत्वम् ।
पूर्वपक्षस्तु । उभयार्थैकहायनी । न च तस्याः श्रुत्या क्रयार्थाया उभयार्थत्वे माना-भावः । क्रयार्थाया अपि तस्याः सन्निधानेनानुपपत्त्या च पदपांस्वर्थत्वस्यापि सम्भवात् । तथा हि । पदपांसूनां पदिनं विनाऽनुपपत्त्या सन्निधानाद्ययोग्यत्वाच्चैकहायन्येव पदिनी सम्बध्यते । न च पदपांसूनामप्रयोजनत्वेन शेषित्वासम्भवः । यर्हि हविर्धाने प्राचीं प्रवर्तये-युस्तर्हि तेनाक्षमुपाञ्ज्यादिति सोमधारणार्थशकटस्य हविर्धानसंज्ञस्य योऽक्षो दारुविशेषस्तदञ्जनं पदपांसुना कर्तव्यमिति तेषां सप्रयोजनत्वात् । तदुक्तं तन्त्रसारे–
किं प्राप्तं यद्यपेक्षत्वात्पदस्य पदिनी स्वतः ।
योग्यत्वात्सन्निधेश्चेहाप्यङ्गं स्यादेकहायनी ।। १ ।।
श्रुत्याऽस्याः क्रयशेषत्वेऽप्यन्यथानुपपत्तितः ।
सन्निधेरितराङ्गत्वमपि स्यात्पशुधर्मवत् ।। २ ।।
प्रकृत्यर्थत्वबोधेऽपि शेषाणामुपदेशतः ।
विकृत्यर्थत्वमप्येषामतिदेशेन चेष्यते ।। इति ।
सिद्धान्तस्तु– श्रुत्या क्रयार्थाया एकहायन्याः संस्कारार्थस्य नयनस्यापि क्रयार्थत्वात्तदनु निष्पन्नपदपांसूनां नयनं प्रत्यप्रयोजकत्वम् । तदुक्तं तन्त्रसारे–
क्रयार्थायाः प्रसङ्गेन पांसुग्रहणसम्भवात् ।
न दुर्बलप्रमाणेन कल्पनीया तदर्थता ।। इति ।
सन्निधिलक्षणदुर्बलप्रमाणेन पदपांस्वर्थत्वमपि (नैकहायन्याः) कल्पनीयमित्यर्थः । अत्रोक्तन्यायेन पदपांसुषु प्रकृतैकहायनी पदिनी सम्बध्यते तथा द्वैतम् इत्यत्र प्रतियोगित्वेन प्रकृतं ब्रह्म सम्बध्यत इत्यर्थः । पदिन्यायेनेत्यत्र पुंवद्भावश्चिन्त्यः । पदमस्मिन्नस्तीति पदी । स चासौ न्यायश्चेति वा । अथ वा गवा सोमक्रयणं प्रकृत्य ‘षट्पदान्यनुनिष्क्रामति सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति’ इति षट्पदनयनानन्तरं सप्तमपदपांसुग्रहणं विधाय यदि हविर्धाने ‘प्राचीं प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यात्’ इति हविर्धानशकटप्रवर्तनकाले तदक्षाञ्जनं, तेन पदपांसुना कर्तव्यमाम्नायते ।
तत्र संशयः । सोमक्रयणवत् पदपांसुसाध्यम् अक्षाञ्जनमप्येकहायन्या नयनस्य प्रयोजकम् इत्यञ्जनार्थसङ्गृहीतपदपांसुविनाशादौ तन्निष्पत्त्यर्थं पुनरप्येक हायन्या नयनं कर्तव्यमुत न तत्तस्य प्रयोजकमिति न कर्तव्यमिति । द्वयोरप्येकहायनीनयनसाध्यत्वादुभयं प्रयोजकमिति पूर्वः पक्षः । ‘एकहायन्या क्रीणाति’ इत्येकहायन्याः क्रयणार्थत्वेनैव विधानात् । यदर्थं द्रव्यं तदर्थस्तत्संस्कार इत्येकहायन्या सोमक्रयणदेशं प्रति नयनरूपसंस्कारस्यापि क्रयणार्थत्वात् क्रयणमेव तन्नयनप्रयोजकमन्यत्तदनुनिष्पादीति सिद्धान्तः । एतदधिकरणं, ‘सप्तमं पदम्’ इत्यत्र पदशब्दस्य सन्निधानादेकहायनीपद विषयकत्वं सिद्धं कृत्वा प्रवृत्तमिति पदन्याये नेत्युक्तम् ।
‘यत्’ इति यच्छब्दस्य व्यवहिततच्छब्देनोक्तम् अन्वयं सम्मतयति– उक्तं हीति ।। आनन्तर्यमिति ।। बहुषु पठितेषु कस्यचिदानन्तर्यस्यावर्जनीयत्वादनुष्ठानक्रमार्थत्वेन च तत्सन्निधिविशेषाम्नानार्थवत्वोपपत्तेः । उभयाकाङ्क्षादिरूपप्रकरणादिकल्पकत्वायोगात् श्रुतिवच्च क्रमस्य साक्षाद्विनियोजकत्वाभावादानन्तर्यमङ्गाङ्गिभावसम्बन्धस्यानाक्षेपकमिति जैमिनिसूत्रार्थः । तथा हि– तृतीयस्य प्रथमपादे निर्णीतम् १‘आनन्तर्यमचोदना’ । दर्शपूर्णमासयोः श्रूयते । ‘हस्ताववनेनिक्ते उलपराजिस्तृणाति’ । तत्र हस्तावनेजनस्य हस्त संस्कारार्थस्य तद्वारा किं स्वाव्यवहितोत्तरभावि यद्वेद्यामुलपराजि स्तरणं तन्मात्रं प्रत्यङ्गत्वम् उत स्वानन्तर-भाव्युलपराजिस्तरणादिसर्वपदार्थाङ्गत्वं वेति संशयः । ऊर्ध्वलूनानि उलपानि । सुगन्ध्यादि-कठिनतृणानि । तैस्सृतैस्तृणैर्दीर्घवेदिमध्यस्तरणं उलपराजिस्तरणम् । तत्राव्यवहिता नन्तरातिक्रमहेतोरयोग्यत्वस्याभावात् किं भावयेदित्युपकार्यापेक्षायां अगे्र पठितग्रन्थानुगुण्याच्च अग्रे पठित एवोपतिष्ठते न पूर्व इति पूर्वत्रासम्बन्धादव्यवहितोत्तरोलपराजिस्तरणं प्रत्येव हस्तावनेजनम् अङ्गमिति पूर्वपक्षे प्राप्ते, स्तरीतुम् इत्याद्यश्रवणाद् द्वयोरप्याख्यातयोरेक वाक्यत्वाभावाद् आकाङ्क्षायोग्यतयोरनन्तरस्येव तदुत्तरेषामपि समत्वात्सन्निधि(मात्रस्य) प्राप्तस्य चोक्तविधयाऽन्यथासिद्धत्वात् साध्यान्तराश्रवणेन चावान्तरकथंभावरूपावान्तर प्रकरणाभावात्सर्वस्योत्तरस्याङ्गम् अवनेजनमिति सिद्धान्तः । तदुक्तं वार्तिके–
न तावेदकवाक्यत्वं दृश्यते योग्यता समा ।
अवान्तरकथंभावस्तदानीं नावगम्यते ।। इति ।
उक्तमर्थं विपक्षे बाधकेनोपपादयति– अन्यथेति ।। ननु ‘तद्यथाऽस्मिन्नाकाश’ इत्यादिषु प्रस्तुतस्य सुप्तजीवस्य पुण्यपापानन्वागतिमुक्त्वा सुषुप्ते स्वयं प्रकाशस्यात्मनो रूपादिविशेषे दर्शनाद्यभावप्रतिपादनाज्जीवपरा कण्डिकाः कथं परमात्मनि योज्यन्त इत्या-शङ्क्य परपक्षेऽनुपपत्तिमाह– कथं चेति ।। परपक्षे सुप्तौ दृशिघ्रात्यादेर्विलोप एवास्ति । चक्षुरादिकरणकरूपगन्धादिविषयोपहितज्ञप्तेरेव दृशित्वघ्रतित्वादियुक्तत्वात् । सुप्तौ च तद-भावात् । नित्याखण्डैकरसचैतन्ये तु तथात्वाभावादिति भावः ।। द्रष्ट्रा(ष्टृत्वा)दीति ।। न च षष्ट्योः सामानाधिकरण्यमिति वाच्यम् । विरोधात् । तव मते कर्त्रर्थतृचोऽविवक्षितार्थ-त्वेन द्रष्टृदृष्टि शब्दयोरर्थभेदाभावेनान्यतरवैय्यर्थ्याच्च । यथोक्तं त्वदीये बृहदारण्यकभाष्ये– ‘नन्वनित्यक्रिया कर्तृविषय एव तृच् दृष्टो यथा च्छेत्ता भेत्ता इत्याशङ्क्यापरिलुप्त स्वभाव-स्यैवात्मनो दृष्टिरतस्तया स्वयञ्ज्योतिः स्वभावया पश्यन्नेव भवति सुषुप्ते’ इत्यादि यथाऽऽ-दित्यादयो नित्यप्रकाश स्वभावा एव सन्तः स्वाभाविकेनानित्येनैव प्रकाशेन प्रकाशयन्ती-त्युच्यन्ते तथाऽयमप्यात्माऽ विपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टेत्युच्यत इति च ।
पराभिमतेऽर्थे पूर्वोत्तरग्रन्थानुपपत्तिमभ्युच्चिनोति– किञ्चेति । जीवगतसुषुप्त्यवस्थायाः परमात्माधीनत्वं निदर्शयितुं दृष्टान्त उच्यते तद्यथाऽस्मिन्नित्यादि । सुपर्णशब्देन क्षिप्रगामी पक्षिविशेष उच्यते । संहत्य प्रसार्य पक्षौ, सम्यग्लीयत्यस्मिन्निति संल्लयो नीडम् । तस्मै नीडार्थमात्मनैव ध्रियते नीडे तिष्ठतीति यावत् । एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति । यथा पक्षी विपरिपतनज-श्रमाप नुत्तये स्वनीडमुपसर्पति एवमेव जाग्रत्स्वप्नजश्रमापनुत्तये परमात्मानं धावति प्राप्नोति । अयं पुरुषो जीवः । एतस्मै अन्ताय स्थानाय सुप्त्यवस्थाप्रदाय परमात्मने । यत्र परमात्मनि सुप्तो जीवः ।
१स्वित्यानन्दः परो विष्णुस्तमाप्तः सुप्त उच्यते ।
सम्प्राप्य तमयं जीवः कामयेन्नैव किञ्चन ।।
न च स्वप्नसमभ्रान्तिज्ञानं याति कदाचन ।
सुषुप्तौ च किमु ज्ञानान्मुक्तौ प्राप्तो जनार्दनम् ।। इति बृहदारण्यभाष्योक्तेः ।
‘ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति । यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते । अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोस्य परमो लोकः’ । पूर्वत्र परमात्मनो जीवाश्रय त्वम् उक्तम् अत्र विविच्यते । ता वै=शास्त्रान्तरप्रसिद्धाः । अस्य=सुप्तजीवशरीरस्य । एताः हितनामकाः, सूक्ष्माः शुक्लादिपरमात्ममूर्तिभिः पूरिताः नाड्यः सन्ति । तासु नाडीषु कण्ठदेशे यदा जीवो भवति तदा स्वप्नं पश्यति ।
१निहितो भगवान्यत्र हिता नाड्यः प्रकीर्तिताः ।
नानावर्णो हरिस्तासु नानारूपी व्यवस्थितः ।। १ ।।
तासां मध्ये सुषुम्ना च तत्र सुप्तिं व्रजत्ययम् ।
ता एव कण्ठदेशस्था २जीवरूपे व्यवस्थिताः ।। २ ।।
स्वप्नान्पश्यति जाग्रद्वद्भयं च प्रतिपद्यते ।
अ इत्यादिश्यते विष्णुरविद्या तन्निरीक्षणम् ।। ३ ।।
तेन स्वप्नानयं पश्येज्जीवो जागरितं तथा ।। इति बृहदारण्यकभाष्योक्तेः ।
जिनन्ति वशीकुर्वन्ति । हस्तिवद् धावति । अविद्यया परमात्मनिरीक्षणेन देवोऽह-मस्मीत्यादि तु योग्यतापेक्षया ।
३स्वयोग्यपूर्तेः स्वातन्त्र्याद्राज्ञो देवगणस्य च ।
सर्वभावस्तथा मोक्षे न तु सर्वस्वरूपतः ।। इति बृहदारण्यकभाष्योक्तेः ।।
४‘तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभयं रूपं तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम्’ ।। जीवाश्रयस्य परमात्मनो महिमा तयोर्भेदश्चात्रोच्यते ।।
छन्दसामप्यवाच्यत्वादतिच्छन्दा हरिः स्मृतः ।
तेनाश्लिष्टोऽप्य(ह्य)यं जीवः सुप्तो मुक्तोऽथवा भवेत् ।। १ ।।
विष्णो रूपं हि यन्नित्यमभयं पापवर्जितम् ।
आप्तकामं च पूर्णत्वादात्मकामं सुखत्वतः ।। २ ।।
शोकं विना सुरमणाच्छोकान्तरमितीरितम् ।। इति बृहदारण्यकभाष्योक्तेः ।
एतस्य जीवाश्रयस्य परमात्मनस्तदेतत्प्रसिद्धं रूपं वै, कीदृशं तत् । तदुच्यते । अतिच्छन्दाः छन्दसामवाच्यम् । च्छन्दः कामोऽतिगतो यस्मात्तदतिच्छन्दं च्छान्दसं सकारान्तत्वमिति वा । अपहतपाप्मा, अभयं भयरहितम् । तेन प्राज्ञाख्येन भगवद्रूपेण सम्परिष्वक्तः । बाह्याभ्यन्तरविषयौ न जानाति । तत्र दृष्टान्तः । तद्यथा प्रिययेत्यादि । अस्य प्राज्ञस्य परमात्मनः एतत् आप्तकामादिकम् । शोकान्तरं शोकेन रहितं रूपम् । अत्र माध्यन्दिनानाम् अशोकान्तरमिति पाठः ।
१‘अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा ओवा वेदा अवेदा अत्र स्तेनोऽस्तेनो भवति......, अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोका-न्हृदयस्य भवति’ । अत्रासङ्गं परमात्मानं प्राप्तस्य मुक्तस्यासङ्गत्वमुच्यते ।
२तेनाश्लिष्टः स्वपुत्राणां दायादानां न वै पिता ।
तेषां दुःखाददुःखित्वान्न माता लोकमान्यपि ।। १ ।।
अलोकमानान्नो लोके देवोऽपि स्वाधिकारतः ।
वर्षणादेर्व्युत्थितत्वान्न देवो वेदमान्यपि ।। २ ।।
अवेदमानान्नो वेदः पापी पापफलाप्यपात् ।
अपापः श्रमणश्चापि’ इत्यादि बृहदारण्यकभाष्योक्तेः । अत्र परमात्मप्राप्तौ सत्यां पिता अपिता भवति । देवाः न दीव्यन्त इति संसारवत् । वेदाश्च तथा चाण्डालः शूद्राद्ब्राह्मण्याम् उत्पन्नः । पौल्कसः शूद्रात् क्षत्रियायामुत्पन्नः । श्रमणः श्रमकरकर्मयुक्तः । हि यस्मात्तदा मुक्तौ सर्वाञ्छोकांस्तीर्णः सन् हृदयस्य परमात्मनः सम्बन्धीभवति । अतो युज्यते तस्या-सङ्गत्वम् । एवम्भूतः परमात्मा यज्जानाति तदस्ति । यन्न जानाति तन्नास्तीत्येषोऽर्थो यद्द्वैतं न पश्यतीत्यादावुच्यते । तदुक्तं तत्रैव यत्किञ्चिद्वस्तु भगवता न दृष्टं नास्त्येव । विद्यमानं सर्वं पश्यत्येवेति । तथा श्येनाकाशादिस्थानीयस्य जीवसंसारस्य सत्यत्वमेव प्रतीयत इति सर्वसामञ्जस्येन वाक्योपपत्तौ व्याहत्यादिदोषप्रयुक्तद्वितीयमात्रनिषेधपरत्वायोगादित्यर्थः ।।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां हि त्वर्थो न त्वित्यदःश्रुतेः ।। इति ।
न्यायामृतसौगन्ध्यम्
नापि ‘यद्द्वैतं पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशि त्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद् विभक्तं पश्येत्’ इति श्रुतिस्तत्र मानम् । पूर्वत्र हि ‘शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा’ इति नाडीस्थभगवन्मूर्तीनां विलक्षण रूपत्वमुक्तम् । तेन तद्रूपाणां भेदः प्राप्तः, तथा ‘तद्वा अस्यैतदाप्तकाममकाममरूपमिति षष्ट्या रूपरूपिभेदश्च । तन्निराकर्तुं भगवद्रूपाणामभेदोऽत्रोच्यते । ‘हृदयं ब्रह्म’ इति श्रुत्या ‘तस्यैतदेव निरुक्तं हृदयम्’ इत्यादिश्रुत्या च ब्रह्मणि प्रसिद्धेन हृदयननिमित्तकेन ‘हृदयस्य भवति’ इति पूर्वत्र हृदयशब्देन निर्दिष्टं ब्रह्म यत् स्वगुणादिकं द्वैतं स्वस्माद्भिन्नं न पश्यति तद् द्वितीयं नास्ति द्वितीयत्वेन नास्तीति । तत्कुतः, ‘पश्यन् सर्वज्ञ एव सन्नीश्वरो न तत्पश्यति । न हि द्रष्टुरीश्वरस्य दृर्ष्टेर्विपरिलोपो बाधो विद्यते, नित्यत्वात् ।
यत्तु जीवजडादिकं स्वस्माद्विभक्तं पश्येत्तत्ततोऽन्यदिति श्रुत्यर्थप्रतीतेः पश्यतीति दर्शन कर्तुरेव पदिन्यायेन यद्द्वैतमित्यत्र प्रतियोगित्वेनान्वयात् । तद्वैतमिति यच्छब्दस्य ‘न तु तत्’ इति व्यवहिततच्छब्दान्वयस्तु ‘यत्तदोस्साकाङ्क्षत्वाद् आकाङ्क्षायाश्च सन्निधानाद्बलीय -स्त्वाद्युक्तः । उक्तं हि जैमिनिसूत्रे ‘आनन्तर्यमचोदना’ इति । वार्तिके च–
यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः ।
अर्थतो ह्यसमर्थानाम् आनन्तर्यमकारणम् ।। इति ।
अन्यथा यद्विभक्तं तत्रास्तीत्येतावता पूर्णत्वेन शेषवैय्यर्थ्यम् । कथं च त्वत्पक्षे नित्ये चैतन्यमात्रे ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपः, न हि घ्रातुर्घ्रातेर्विपरिलोपः, न हि स्प्रष्टुः स्पृष्टे-र्विपरिलोपः’ इत्यादिनोक्तं दृष्टित्वघ्रातित्वस्पृष्टित्वादिकं, द्रष्ट्रत्वादिसम्बन्धश्च । किञ्च पूर्वत्र ‘यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तस्संहत्य पक्षौ सल्लयायैव ध्रियते एवमेवायं पुरुषः’ इति, ‘तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तर-मेवमेवायं पुरुषः’ इति भिन्नस्य नीडश्येनस्त्रीपुरुषादिदृष्टान्तोक्तेः । ‘प्राज्ञोना त्मना सम्परिष्वक्तः’ इति जीवेशभेदोक्तिश्चायुक्ता स्यादिति ।
यत्तु पश्यतीत्यस्यासिद्धत्वेन तदुनुवादेन निषेधासम्भवः । ‘न तु तद्द्वितीयमस्ति’ इत्यस्यैव पूर्णत्वेन ‘यद् द्वैतं न पश्यति’ इत्यस्य वैय्यर्थ्यम् । अस्मदुक्तसन्निहितान्वयसम्भवे व्यवहितान्वयो न युक्तः । हृदयशब्देनैतत्सर्वं मनः कामा यस्य हृदि स्थिताः’ इत्यादि पर्यालोचनेन ताटस्थ्यलक्षणया हृदयस्थ मन उक्तेर्ब्रह्मैक्यसम्भवः । हृदय(स्थ)स्य सम्बन्धो जीवः । शोकानवतीर्ण इति त्वदभिमतार्थसम्भव इति । तन्न । स्वगुणादिकमुद्दिश्य स्वकर्तृक भेदप्रकारकदर्शनाभावादेरेव विधेयत्वात् । न त्वित्यादौ उक्तदर्शनाभावस्य हेतुत्वेन वैय्यर्थ्या- भावात्सन्निहितान्वयस्य सर्वमानविरुद्धत्वेन विप्रकृष्टान्वयस्यैव न्याय्यत्वात् ।
हृदयेत्याद्ययुक्तम् । योगेन रूढ्या वोपपत्तौ लक्षणाया अयुक्तत्वात् । हृदयस्येत्यादिकं तु आचार्योक्त्यबोधात् । एतेन हृदयमित्याद्ययुक्तम् । तस्य प्रत्ययदीर्घ(दार्ढ्य)परत्वेन रुद्र(ढि) परत्वात् । ‘स वा एष आत्मा हृदि तस्यैतदैव निरुक्तं हृदयम्’ इति योगार्थस्तु रूढिमूलक लक्षणातो दुर्बल इति निरस्तम् । प्रत्यय(दार्ढ्य)दीर्घप्रतिबन्धकत्वात् । प्रत्युतानुकूलत्वाच्च असकृद्व्यवहारादेव शक्तिः कल्प्यते ।
यत्तु ‘पश्यन्वै तन्न पश्यति’ इति हेतोरसिद्धिः । स्वभिन्नत्वेन स्वमूर्त्यादि न पश्यतीति मानान्तरेण निश्चितं प्रत्युतराहि कृशोयोरोहितपृष्ठशगेर हृदयकारणमित्यादिभिन्न त्वेनेशोक्त्या विपरीतमेव निश्चितं अधैतमचेतनोक्तवैय्यर्थ्यब्रहि न तु द्वितीयसामान्य निषेधः । तथा सति तस्य द्वैतसत्वेऽपि सम्भवेन ‘किञ्चन वेद’ इत्यस्योपपादनासम्भवात्, किन्तु स्थूलद्वैतस्य निषेधः सूक्ष्मस्य स्थितिश्च प्रतिपाद्यते । द्रष्ट्राद्रष्ट्राधारसम्बन्धो व्यावहारिक एवोक्त इति नाद्वैतविरोधः । श्येननीडाद्योः स्वसमसत्ताकभेदवत्वेऽपि जीवब्रह्मणोर्न तद्वत्व लाभः । सर्वांशसाम्यस्याविवक्षणात् । प्राज्ञेऽनात्मना स्वरूपार्थकात्मपदेन तयोर्भेदोक्तिश्च । यद्यपि सुषुप्तौ चाक्षुषादिवृत्त्यवच्छिन्नचिद्रूपदृष्ट्यादिकं नास्ति । तथा च तादृशावच्छिन्नत्व योग्यता-मादाय याचकादिपदस्येव दृष्ट्यादिप्रयोग इत्यदोषस्त्वन्मते दृष्ट्यादेरीशे कथमप्यसम्भव इति द्रष्टुर्द्रष्टेरित्यादि, पश्यन्नित्यादि चानुपपन्नमिति । तन्न । ‘अहमात्मा गुडाकेश सर्वभूताशय-स्थितः’ इति सर्वस्वरूपमूर्त्योरभेदस्य भगवतैवोक्तत्वात् । स्थितिस्तु?मून्येव?हि प्रसिद्धा । तस्या भ्रान्तत्वमेव तद्दर्शने भानम् । प्रत्युतेत्याद्ययुक्तम् । जीवशरीरादि कारणोक्तिमात्रेण भेदसिद्धेः । श्येनेत्याद्ययुक्तम् । त्वदाज्ञाया अनादरणीयत्वात् । तद्दृष्टान्तेन जीवब्रह्मणो-स्तत्सम्बन्धस्य समसत्ताकत्वसिद्धेः ।
तथोत्याद्ययुक्तम् । योग्यताया निर्वक्तुमशक्यत्वात् । ईश्वरस्य नित्यज्ञानवत्वस्य धर्मत्वादकन्यानादिना सिद्धत्वात् । न हि दृष्टिरिति चाक्षुषं ज्ञानं विवक्षितं चक्षुरादेरपि ?नो मते नित्यत्वाच्चेति ।। ‘न तु तद्वितीयमस्ती’ति श्रुत्यर्थः ।
।। न तु तद्द्वितीयमस्तीति श्रुत्यर्थविवरणम् ।