अविद्याश्रयश्च दुर्वचः

६१. अज्ञानस्य विवरणोक्तचिन्मात्राश्रितत्वभङ्गः

न्यायामृतम्

अविद्याश्रयश्च दुर्वचः । यदत्रोक्तं विवरणे – चिन्मात्रमेवाज्ञानाश्रयः, तदन्यस्याज्ञानकल्पितत्वेन तदाश्रयत्वायोगात् । तदुक्तम्–

आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ।। इति ।

दर्पणस्य मुखमात्रसम्बन्धेऽपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारो न तु बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपातित्वादिति ।

अत्र ब्रूमः–

विरोधाद् धर्मिमानेन बाधात् श्रुतिविरोधतः ।

भ्रान्त्यैकाधिकरण्याच्च नाज्ञानं शुद्धचिद्गतम् ।।

तथा हि – एकविषयज्ञानभावरूपाज्ञानयोः तमःप्रकाशयोरिव विरुद्धत्वात्, नाश्रयाश्रयित्वम् । न हि ज्ञानानिवर्त्यमज्ञानं भवति । न च वृत्तिज्ञाननिवर्त्यं तद्, विवरणेऽन्तःकरणपरिणामे ज्ञानत्वोपचारादित्युक्तत्वेनौपचारिकज्ञान-विरोधिनो मुख्याज्ञानत्वायोगाद् अज्ञानाविरोधित्वे चैतन्यस्य घटादिवज्ज्ञान-त्वायोगाच्च । ज्ञानाज्ञाने हि ज्ञातुरर्थप्रकाशाप्रकाशौ । न च तदविरोधित्वेऽपि व्यवहारादिहेतुत्वात् ज्ञानत्वम् । अज्ञाननिवर्तकस्यैव तद्धेतुत्वानुभवात् । न च विवरणे करणव्युत्पत्त्या बुद्धिवृत्तिर्ज्ञानमित्युक्तत्वेनाज्ञानं ज्ञानकरणविरोध्येव, न तु ज्ञप्तिविरोधीति वाच्यम्, न जानामीति ज्ञप्तिविरोधित्वेनानुभूयमान-स्याज्ञानान्तरत्वापातात् । साक्षिवेद्ये सुखादावज्ञानादर्शनाच्च । न च चैतन्या-ज्ञानयोः सौरप्रकाशदिवाभीतान्धकारयोरिव तत्सत्यत्वमिथ्यात्वाभ्यामविरोधा-दाश्रयाश्रयितेति वाच्यम्, सौरप्रकाशविरुद्धतत्समसत्ताकतमोऽन्तरस्येव चैतन्य-प्रकाशविरुद्धतत्समसत्ताकाज्ञानान्तरस्याभावेनातात्त्विकाज्ञानविरोधस्यैव वाच्य-त्वात् । अन्यथा तात्त्विकसुखरूपस्यात्मनो व्यावहारिकदुःखरूपता स्यात् ।

किं चाहमज्ञ इति धर्मिग्राहकसाक्षिबाधः । न चात्मनि स्थौल्याश्रय-देहैक्याध्यासादहं स्थूल इतिवदहङ्कारे अज्ञानाश्रयचिदैक्याध्यासाद्वा दग्धृत्वाय-सोरेकाग्निसम्बन्धाद् अयो दहतीतिवदज्ञानाहङ्कारयोरेकचिदध्यासाद्वाऽहमज्ञ इति धीर्भ्रान्तिरिति वाच्यम्, अद्यापि चितोऽज्ञानाश्रयत्वासिद्ध्याऽन्योन्याश्रयात् । दोषाजन्यस्याहमज्ञ इति साक्षिज्ञानस्य भ्रान्तित्वायोगाच्च । बाधकाभिमतस्यैव धर्मिग्राहकैतद्बाधितत्वेनैतद्बाधकाभावाच्च । मिथ्यारूप्येदमंशसम्बन्धवत्तदध्यस्ता-ज्ञानसम्बन्धस्यापि तद्ग्राहकेणैव ग्राह्यत्वाच्च । अज्ञानाश्रयत्वधीबलादेवाह-मर्थोऽकल्पितो वाऽविद्यायामनुपपत्तिरलङ्कारो वाऽस्तु ।

किं च ‘‘निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्यमुक्तः’’ – इत्यादि-श्रुतिविरोधः । न हि मौढ्यं न दोषः । नापि बन्धकाज्ञानाश्रयो मुक्तः । न च तात्त्विकावद्यादेरेव निषेधः, त्वन्मते तस्याप्रसक्तेः । जीवेऽपि तदभावेन जीव-ब्रह्मणोः सावद्यत्वनिरवद्यत्वादिव्यवस्थाश्रुतिविरोधाच्च । मुक्त्यन्वयिनि चिन्मात्रे जीव इव शोकस्य तात्त्विकस्याभावेऽपि मोहवद् व्यावहारिकत्वापाताच्च । न च श्रुतौ मोहशब्दस्तत्कार्यपरः, मुख्यार्थहानेः, तत्कार्यशोकादेः पृथगुक्तेश्च । न चेयं श्रुतिः बिम्बस्थानीयब्रह्मपरा । जीवेऽप्यज्ञानाभावेन ज्ञाज्ञावीशानीशा-वित्यादिश्रुतिषु जीवेऽज्ञानीशत्वोक्त्ययोगात् । यद्भावो मुक्तिस्तच्चिन्मात्रं सावद्य-मन्यन्निरवद्यमित्यस्य विरोधाच्च । न च जीवस्येव शुद्धस्याज्ञत्वे श्रुत्याद्यस्ति ।

किं च शुक्त्याद्यज्ञानवत् ज्ञातुरर्थाप्रकाशरूपमिदमप्यज्ञानं स्वकार्येण भ्रान्तिसंसारादिना स्वनिवर्तकेन तत्त्वज्ञानेन स्वसमानयोगक्षेमेण ज्ञानप्रागभावेन च सामानाधिकरण्याय ज्ञात्रात्मनिष्ठम्, न तु ज्ञानमात्राश्रितम् । उक्तं हि विवरणेऽपि जडस्य चाज्ञानाश्रयत्वे भ्रान्तिसम्यग्ज्ञानयोरपि तदाश्रयत्वप्रसङ्गा-दिति । चिन्मात्रेऽपि ज्ञातृत्वाध्यासोऽस्तीति चेन्न, तस्याविद्याधीनत्वेनान्योन्या-श्रयात् । चैतन्ये बुद्धिस्थकर्तृत्वाध्यासेन तत्स्थभोक्तृत्वाध्यासवद् बुद्धिस्थ-ज्ञातृत्वाध्यासेन तत्स्थाज्ञत्वाध्यासापत्त्या बुद्धेरेवाज्ञानाश्रयत्वापाताच्च, देहा-दावपि ज्ञातृत्वाध्याससद्भावाच्च । बुद्ध्यवच्छिन्न एव तद्धर्माणां ज्ञातृत्व-कर्तृत्वभोक्तृत्वादीनामध्यासेन चिन्मात्रे तदभावाच्च । तेषां चिन्मात्र एवाध्यासे तु ज्ञातृत्वादिमत्येवाज्ञानाङ्गीकारेण जीवाज्ञानमतं स्यात् । न च शुक्त्य-ज्ञानमपि शुक्त्यवच्छिन्नचैतन्यस्थमेव, अहं जानामीतिवदहं न जानामीति ज्ञातृस्थत्वानुभवात् । न च विशेष्यविशिष्टभावस्यैव तन्त्रत्वाद्विशेष्यस्थमज्ञानं विशिष्टे जीवे संसारहेतुर्विशिष्टस्थतत्त्वधीविरुद्धं चेति वाच्यम् । विशिष्टे ब्रह्मण्यपि संसारापातात् । देहं प्रति विशेष्याहङ्कारस्थकर्तृत्वेन देहविशिष्टे भोक्तृत्वापाताच्च । विशेष्यस्थमुक्तेर्विशिष्टस्थसंसारविरोधापाताच्च ।

एतेन विशेष्यविशिष्टयोरध्यस्तमैक्यं तन्त्रमिति निरस्तम् । न चोपाधेः प्रतिबिम्बपक्षपातित्वस्वाभाव्यात् जीवे संसार इति वाच्यम्, श्रुत्यादिविरोध-साम्ये अर्धजरतीयायोगेन चिन्मात्र एवाज्ञानस्येव संसारस्याप्यङ्गीकार्यत्वात्, प्रतिबिम्बस्य च्छायादिवद्वस्त्वन्तरत्वाच्च । अचाक्षुषस्य चैतन्यस्य गन्ध-रसादिवत्प्रतिबिम्बनानर्हत्वाच्च । प्रतिबिम्बत्वे जीवस्य सादित्वाद्यापाताच्च । सूर्यस्य जल इव मरीचिकाजलेष्वप्रतिफलनेन चिदसमसत्ताकस्याज्ञानस्य चितं प्रत्युपाधित्वायोगाच्च । अस्वच्छद्रव्यस्याज्ञानस्य प्रतिबिम्बनोपाधित्वायोगाच्च । अविद्यायाश्चिन्मात्राभिमुख्याभावाच्च । उपाधेरज्ञानस्याकाशाद्यात्मना परिणामे प्रतिबिम्बापायापाताच्च । मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्रत्वरूप-व्यक्त्यन्तरस्यैव जीवब्रह्मानुगतचित्त्वातिरिक्तचिन्मात्ररूपस्याज्ञानाश्रयत्वयोग्य-व्यक्त्यन्तरस्य चाभावाच्च । अनादिभावो न निवर्तत इति सामान्यव्याप्तेरज्ञानं ज्ञाननिवर्त्यमिति विशेषव्याप्त्येवोपाधिः प्रतिबिम्बपक्षपातीति सामान्यव्याप्तेर-ज्ञानं स्वाश्रय एव भ्रान्त्यादिहेतुरिति विशेषव्याप्त्या बाधाच्च । बन्धस्य चिन्मात्राश्रितमोक्षासामानाधिकरण्याच्च । न च व्यक्त्यन्तराभावेऽपि जीवाश्रित- मेवाज्ञानम्, चिदाश्रयत्वोक्तिस्तु चित्त्वस्याधिकरणतावच्छेदकत्वादिति युक्तम् । अन्योन्याश्रयादेर्वक्ष्यमाणत्वात् । ब्रह्मण्यतिप्रसक्तस्य चित्त्वस्याधिकरणता-नवच्छेदकत्वाच्च । चिन्मात्ररूपविशेष्यस्थाज्ञानेन विशिष्टे संसार इति च निरस्तम् ।

किं चोपाधेः प्रतिबिम्बपक्षपातित्वं किं तत्र स्वधर्मप्रतिभासकत्वम् ? स्वकार्यप्रतिभासकत्वं वा ? स्वकार्यनिष्ठधर्मप्रतिभासकत्वं वा ? प्रतिबिम्बं प्रति स्वविषयाच्छादकत्वं वा ? नाद्यः, मालिन्यादेर्दर्पणादिनिष्ठत्ववत् सुषुप्त्या-द्यनुवृत्तस्याविद्यारूपस्य वाऽविद्यावच्छिन्नत्वरूपस्य वा तत्प्रतिबिम्बितत्वरूपस्य वा सुषुप्त्याद्यननुवृत्तस्य कर्तृत्वप्रमातृत्वादिरूपस्य वा संसारस्याज्ञाननिष्ठत्वा-भावात् । ज्ञानक्रियासंस्काराणां च त्वन्मते अज्ञानस्थत्वेऽपि नित्यातीन्द्रियाणां तेषामात्मनि कदाप्यप्रतीतेः । ‘‘अविद्यास्तमयो मोक्षः सा संसार उदाहृत’’ इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा । न द्वितीयः, विच्छेदादेरुपाधिकार्यस्य  बिम्बे महाकाशे च दर्शनान्मुखस्थबिम्बत्वादेः ब्रह्मस्थसार्वज्ञ्यादेश्चानौपाधिकत्वापाताच्च । प्रतिमुखगतस्थौल्यादेरुपाधिकार्यत्वेऽ-पीह जीवगतस्य संसारस्यानादित्वेनाकार्यत्वाच्च । न तृतीयचतुर्थौ दर्पण-घटादावदृष्टेः । एवं बुद्धिरूपोपाधेरपि न प्रतिबिम्बपक्षपातित्वम्, तस्याः प्रतिबिम्बापक्षपातिजपाकुसुमस्थानीयत्वेन तत्पक्षपात्यादर्शस्थानीयत्वाभावात् ।

नन्वस्तु तर्हि चिन्मात्रस्यैवाज्ञानं संसारश्च, तदन्यस्य मिथ्यात्वेन मोक्ष-समानाधिकरणबन्धायोगात् नित्यमुक्तत्वश्रुतिस्तु बिम्बस्थानीयब्रह्मपरेति चेन्न, घटदर्पणोपाधिकयोः परिच्छिन्नत्वमालिन्ययोरवच्छिन्नाकाशप्रतिबिम्बयो-रिवाकाशमात्रमुखमात्रयोरदर्शनेनावच्छेदपक्षे प्रतिबिम्बपक्षे चास्यायोगात् । बिम्बे ब्रह्मणीव प्रतिबिम्बे जीवेऽपि संसाराभावेन जीवब्रह्मणोः संसारा-संसारव्यवस्थाश्रुत्ययोगाच्च । न च तार्किकमते आत्मनि दुःखाश्रयता देहादिने-वेहापि चिन्मात्रे संसाराश्रयता जीवत्वेनावच्छिन्ना तदभिप्राया च श्रुतिरिति वाच्यम्, त्वन्मते आत्मन इवात्रापि चित एवानर्थान्वयेन तद्भावरूपमुक्तेर-पुमर्थत्वापातात् । नित्यमुक्तत्वश्रुतेर्निर्विषयत्वापाताच्च, न हि सा कल्पित-विशिष्टविषया ।

अथ नावच्छेदो नापि प्रतिबिम्बनम्, किं त्वविद्यया ब्रह्मण एव जीवत्वम्।

राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते ।

यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ।।

इति वार्तिके । ‘‘कश्चित्तु किल राजपुत्रो व्याधगृहे संवर्धित’’ इत्यादि-बृहदारण्यकभाष्ये च व्याधवर्धितराजपुत्रदृष्टान्तोक्त्या ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया च मुच्यत इति स्वीकारात् । नित्यमुक्तत्वश्रुतिस्तु तत्रैव तत्त्वतः कदापि संसाराभावाभिप्रायेति चेन्न । यादृशः कल्पितोऽप्यनर्थरूपः ज्ञाने-नोच्छेत्तव्यो बन्धः सदा तदभावस्यैव तच्छ्रुत्यर्थत्वेन कल्पितेनापि संसारेणा-स्पृष्टचैतन्याभावे नित्यमुक्तत्वश्रुतेर्निर्विषयत्वापातात् । अन्यथा मुक्तौ शोका-भावश्रुतिरपि शोकस्य तात्त्विकत्वनिषेधपरा स्याद्, असर्वज्ञत्वेनानुभवसिद्धात् जीवादन्यस्य चेतनस्याभावेन सार्वज्ञ्यादिश्रुतेर्निर्विषयत्वापाताच्च । बहुजीववादे ब्रह्मभावरूपमुक्तेरपुमर्थत्वापाताच्च । एकजीववादेऽपि जीवब्रह्मणोः संसारा-संसारादिव्यवस्थाश्रुतिविरोधाच्च । तयोर्व्यावहारिकमेदस्याप्यभावेन त्वन्मतेऽपि तत्पराभिःद्वा सुपर्णा’ ‘य आत्मनि तिष्ठन्’ इत्यादिश्रुतिभिः,

‘‘अन्यश्च परमो राजन् तथान्यः पञ्चविंशकः ।’’

‘‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।।’’

इत्यादिस्मृतिभिः, ‘‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते’’ ‘‘भेद-व्यपदेशाच्चान्य’’ इत्यादिसूत्रैः, ‘‘तस्माच्छारीरादन्य एवेश्वरः, आत्मानौ हि तावुभौ चेतनौ । एकः कर्ता भोक्ता अन्यस्तद्विपरीतोऽपहतपाप्मत्वादिगुण’’ इत्यादित्वद्भाष्यैः ‘‘तत्त्वज्ञानसंसरणे चावदातत्वश्यामत्वादिवत् नेतरेतरत्रा-वतिष्ठेते’’ इत्यादिविवरणादिग्रन्थैश्च विरोधाच्च ।

किं च चिन्मात्रस्याज्ञानं स्वाभाविकं चेदानन्दादिवन्न निवर्तेत । औपाधिकत्वे उपाधिः स एव चेदात्माश्रयः, अन्यश्चेदन्योन्याश्रयश्चक्रक-मनवस्था वेति ।

अद्वैतसिद्धिः

अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव । तदुक्तम् –

आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ।।

दर्पणस्य मुखमात्रसम्बन्धेऽपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपातित्वात् । ननु कथं चैतन्यमज्ञानाश्रयः ? तस्य प्रकाशस्वरूपत्वात्, तयोश्च तमःप्रकाशवद्विरुद्धस्वाभावत्वादिति– चेन्न, अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रम्, किन्तु वृत्तिप्रतिबिम्बितम्, तच्च नाविद्याश्रयः, यच्चाविद्याश्रयः, तच्च नाज्ञानविरोधि । न च तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाशत्वापत्तिः, वृत्त्यवच्छेदेन तस्या एवाज्ञानविरोधित्वात्, स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन स्वभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन तद्दाहकत्वात् । ननु अहमज्ञ इति धर्मिग्राहकेण साक्षिणा अहङ्काराश्रितत्वेना-ज्ञानस्य ग्रहणाद् बाधः, न च स्थौल्याश्रयदेहैक्याध्यासादहं स्थूल इतिवदज्ञानाश्रय-चिदैक्याध्यासाद् दग्धृत्वायसोरेकाग्निसम्बन्धादयो दहती’तिवदज्ञानाहङ्कारयोरेकचिदैक्याध्यासाद्वा ‘अहमज्ञ’ इति धीर्भ्रान्तेति वाच्यम्, चितोऽज्ञानाश्रयत्वासिद्ध्या अन्योन्याश्रयादिति चेन्न, अहङ्कारस्याविद्याधीनत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे ‘अहमज्ञ’ इति प्रतीतेरैक्याध्यासनिबन्धनत्वेनाबाधकत्वात् । न च अविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु अविद्यायामनुपपत्तेरलङ्कारत्वादिति वाच्यम्, अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेनाकल्पितत्वायोगात्, चिन्मात्राश्रितत्वं विना तद्गोचरचरमवृत्त्य-निवर्त्यत्वापातात्, स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयत्वायोगात् । न चाविद्यायामनु-पपत्तिरलङ्कारः, अनुपपत्तिमात्रं नालङ्कारः, किन्तु सत्त्वादिप्रापकयुक्तावनुपपत्तिः, अन्यथा वादिवचसोऽनवकाशापत्तेः ।

ननु– ‘निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्यमुक्त’ इति श्रुतिविरोधात् न शुद्ध-चितोऽविद्याश्रयत्वम्, न हि मौढ्यं न दोषः, नापि बन्धकाज्ञानाश्रयो मुक्तः, न च तात्त्विकाविद्यादेरेव निषेधः, त्वन्मते तस्याप्रसक्तेः, जीवेऽपि तदभावेन जीवब्रह्मणोः सावद्यत्वनिरवद्यत्वव्यवस्थाश्रुतिविरोध इति चेन्न, अवद्यस्य चिति कार्यकारित्वाभावेन कार्यकरत्वाकर्यकारत्वाभ्यामेव सावद्यत्वनिरवद्यत्वव्यवस्थोपपत्तेः, उपाधेः प्रतिबिम्बपक्षपाति-त्वात् । न च चिन्मात्रस्याविद्याश्रयत्वे प्रमाणाभावः, जीवाश्रितत्वे च प्रमाणमस्तीति वाच्यम्, ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर’मिति श्रुतेरेव प्रमाणत्वात् । न च ‘ज्ञाज्ञावीशानीशा’विति जीवाज्ञानप्रतिपादकश्रुतिविरोधः, तदाश्रयत्वाभावेऽपि तत्कार्ययोगि-तया अज्ञत्वव्यपदेशोपपत्तेः । न च ब्रह्मणोऽपि जीवाश्रिताज्ञानविषयत्वेन मायित्वो-पपत्तिरिति वाच्यम्, जीवत्वस्याश्रयतावच्छेदकत्वे परस्पराश्रयप्रसङ्गात् ।

ननु– शुक्त्याद्यज्ञानवत् ज्ञातुरर्थाप्रकाशरूपमिदमप्यज्ञानं स्वकार्येण भ्रान्त्यादिना स्वनिवर्तकेन तत्त्वज्ञानादिना स्वसमानयोगक्षेमेण ज्ञानप्रागभावेन च सामानाधिकरण्याय ज्ञात्रात्मनिष्ठम्, न तु चैतन्यरूपज्ञानमात्राश्रितमिति चेन्न । चैतन्यस्यैव ज्ञातृत्वेन ज्ञातुरर्थाप्रकाशरूपत्वस्य सम्यक् ज्ञानाश्रयत्वस्य भ्रान्त्यादिसामानाधिकरणस्य चोपपत्तेः । न चैवं ज्ञातृत्वे सत्यविद्याश्रयत्वम्, अविद्यायां च ज्ञातृत्वमित्यन्योन्याश्रय इति वाच्यम्, अविद्याया ज्ञातृत्वानपेक्षत्वेनान्योन्याश्रयाभावात् । न हि सामानाधिकरण्यमस्तीत्येतावतैव तदपेक्षया अनया भवितव्यम् । न च– शरीरेऽपि ज्ञातृत्वाध्याससम्भवेन तत्राप्यज्ञाना-श्रयत्वापत्तिरिति वाच्यम्, न हि ज्ञातृत्वाध्यासो अज्ञानाश्रयत्वे प्रयोजकः, येन तन्मात्रेण तदापद्येत, किन्तु प्रसक्तप्रकाशत्वं अज्ञानानाश्रितत्वं च । न चैवं अविद्याश्रयस्य ज्ञातृत्वभोक्तृत्वादिमत्त्वे जीवाश्रिताज्ञानपक्षप्रवेश इति  वाच्यम्, अविद्यावच्छिन्नस्य हि ज्ञातृत्वम्, अविद्या च नाविद्यावच्छेदेन, सामानाधिकरण्यं चावच्छेद्यांशैक्यमादाय । यथोपाधि- सम्बन्धो मुखमात्र एव, औपाधिकमालिन्यसम्बन्धस्तु उपाध्यवच्छिन्ने, बिम्बप्रतिबिम्बयो-रैक्यात्, तथा सामानाधिकरण्यमपि । यथा प्रतिबिम्बो न वस्त्वन्तरं, तथा वक्ष्यते ।

ननु– शुक्त्यज्ञानमपि शुक्त्यवच्छिन्नचैतन्यगतं वाच्यम्, तथा च ‘अहं जानामीच्छा-मी’तिवद् ‘अहं न जानामीति ज्ञातृस्थत्वानुभवविरोध इति चेन्न, अज्ञानद्वैविध्यात् । एकं हि शुक्त्यवच्छिन्नचैतन्याश्रितं तद्गतापरोक्षभ्रमजनकं तद्विषयापरोक्षप्रमानाश्यम्, अपरं च परोक्षभ्रमजनकं तद्विषयप्रमामात्रनाश्यम् प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचैतन्याश्रितमित्युक्तं प्राक् । तत्र प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचैतन्यगताज्ञानविषयकोऽयमनुभवः । तेन प्रमातृनिष्ठत्वविषयताऽस्य न विरुध्यते । अत एव विषयगताज्ञाने विद्यमानेऽपि प्रमातृगताज्ञाननाशेन न जानामीति व्यवहाराभावः ।

ननु– उपाधेः प्रतिबिम्बपक्षपातित्वान्न ब्रह्मणः संसारित्वमित्युक्तं, तदयुक्तम्, बिम्बप्रतिबिम्बभावस्यैवासम्भवात् । तथा हि– अचाक्षुषस्य चैतन्यस्य गन्धरसादिवत् प्रतिबिम्बनानर्हत्वात्, प्रतिबिम्बत्वे जीवस्य सादित्वापाताच्च, सूर्यस्य सरिज्जल इव मरीचिकाजलेष्वप्रतिफलनेन चिदसमानसत्ताकस्याज्ञानस्य चितं प्रत्युपाधित्वायोगाद्, अस्वच्छस्याज्ञानस्य प्रतिबिम्बनोपाधित्वायोगाच्च, अविद्यायाश्चिन्मात्राभिमुख्यासम्भवाच्च, अज्ञानस्याकाशाद्यात्मना परिणामे प्रतिबिम्बापायापाताच्चेति चेन्न, रूपवत एव प्रतिबिम्ब इत्यस्या व्याप्तेः रूपादौ व्यभिचाराद् यथा भङ्गः, एवमाकाशादौ व्यभिचाराच्चाक्षुषस्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तेर्भङ्गः । वस्तुतस्तु– श्रुतिबलाच्चितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिः, तथा च रसादिव्यावृत्तं फलैकोन्नेयं प्रतिबिम्बप्रयोजकम् । नापि जीवस्य सादित्वापत्तिः, उपाधिबिम्बसम्बन्धानादित्वेनानादित्वोपपत्तेः । विस्तरस्तु सिद्धान्तबिन्दौ ।

यत्तूक्तं मरीचिकाजले सूर्यप्रतिबिम्बादर्शनाद् बिम्बसमानसत्ताकत्वं प्रतिबिम्बोद्ग्राहित्वे प्रयोजकमिति । तन्न, अध्यस्तस्य स्फटिकलौहित्यस्य दर्पणे प्रतिबिम्बदर्शनात् । तस्मा-न्मरीचिकाजलव्यावृत्तं स्वच्छत्वं फलैकोन्नेयं अननुगतमेव प्रतिबिम्बोद्ग्राहित्वे प्रयोजकम्, तच्च प्रकृतेऽप्यस्ति । अत एवाज्ञानस्यास्वच्छत्वान्न प्रतिबिम्बोपाधित्वमिति निरस्तम् ।

यच्चोक्तं– चिन्मात्राभिमुख्याभावादिति, तत्किं सर्वात्मना चिदाभिमुख्याभावाद्वा ? आभिमुख्यमात्राभावाद्वा ? नाद्यः, चैतन्यवद्विभुत्वपक्षे सर्वात्मनापि सम्भवात् । न्यून-परिमाणत्वेऽपि न दोषः, न्यूनपरिमाणस्यापि अधिकपरिमाणाकाशादिप्रतिबिम्बो-द्ग्राहित्वदर्शनात् । न द्वितीयः, चैतन्यस्य सर्वतोऽपि प्रसृतत्वेन व्यवधानाभावेन च आभि-मुख्यस्य सद्भावात् । न चाकाशाद्यात्मना परिणामे प्रतिबिम्बापायापत्तिः, प्रतिबिम्ब-प्रयोजकरूपाविरोधिपरिणामस्य प्रतिबिम्बाविरोधित्वेन प्रतिबिम्बानपायात् । न च– मुख-प्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्रत्वरूपव्यक्त्यन्तरस्येव जीवब्रह्मानुगतचित्त्वातिरिक्त-चिन्मात्रत्वरूपस्याज्ञानाश्रयत्वयोग्यव्यक्त्यन्तरस्याभावान्मुखमात्रसम्बन्ध्यादर्शवच्छिन्मात्रसम्बन्ध्यज्ञानमिति कथम् इति वाच्यम्, अपरामृष्टभेदस्य मुखादेर्मात्रार्थत्वेनानुगतधर्म्यतिरेकसम्भवात् ।

ननु– उपाधिः प्रतिबिम्बपक्षपातीति सामान्यव्याप्तेरज्ञानं स्वाश्रय एव भ्रान्त्यादिहेतुरिति विशेषव्याप्त्या बाध इति चेन्न, विशेषव्याप्तिग्राहकसहचारदर्शनस्य विवादविषयातिरिक्तेऽ-सम्भवेन विशेषव्याप्त्यसम्भवात् । न च बन्धस्य चिन्मात्राश्रितमोक्षसामानाधिकरण्यानु-पपत्तिः, अवच्छेद्यांशमादाय सामानाधिकरण्यस्योक्तत्वात् ।

ननु– उपाधेः प्रतिबिम्बपक्षपातित्वं तत्र स्वधर्मप्रतिभासकत्वं वा ? स्वकार्य-प्रतिभासकत्वं वा ? स्वकार्यनिष्ठधर्मप्रतिभासकत्वं वा ? प्रतिबिम्बं प्रति स्वविषया-च्छादकत्वं वा ? नाद्यः, सुषुप्त्याद्यनुवृत्तस्याविद्यारूपस्याविद्यावच्छिन्नत्वरूपस्य वा, तत्प्रतिबिम्बितत्वस्य वा, सुषुप्त्यादावननुवृत्तस्य कर्तृत्वप्रमातृत्वादिरूपस्य वा संसारस्याज्ञाननिष्ठत्वाभावात् । ज्ञानक्रियासंस्कारादीनां त्वन्मते अज्ञाननिष्ठत्वेऽपि नित्या-तीन्द्रियाणां तेषामात्मनि कदाप्यप्रतीतेः । ‘अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ।’ इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा, येन स्वनिष्ठबन्धरूपधर्म-सङ्क्रामकत्वं स्यात् । न द्वितीयः, विच्छेदादेरुपाधिकार्यस्य बिम्बे महाकाशे च दर्शनात्, मुखस्य बिम्बत्वादेर्ब्रह्मस्थसार्वज्ञ्यादेश्चानौपाधिकत्वापाताच्च । नापि तृतीयचतुर्थौ, दर्पण-घटादावदृष्टेः । एवं बुद्धिरूपोपाधिरपि न प्रतिबिम्बपक्षपातीति चेन्न, अतिशयेन कार्यकरत्वमेव तत्पक्षपातित्वम् । तथा च विच्छेदादिरूपकार्यकरत्वसाम्येऽपि स्थौल्याद्यव-भासरूपकार्यकरत्वेन दर्पणादेः प्रतिबिम्बपक्षपातित्ववत् कर्तृत्वभोक्तृत्वादिसंसाररूपकार्य-करत्वेनाविद्यायामपि प्रतिबिम्बपक्षपातित्वोपपत्तेः ।

यत्तूक्तं मुखादिगतं बिम्बत्वं ब्रह्मगतं सार्वज्ञ्यादिकं चानौपाधिकं स्यादिति । तन्न, उपाधौ बिम्बकार्यकरत्वमेव नेतीति न ब्रूमः, किन्तु प्रतिबिम्बे अतिशयेनेति । यदपि बुद्धिरूपोपाधेरपि न प्रतिबिम्बपक्षपातित्वम्, तस्य प्रतिबिम्बापक्षपातिजपाकुसुमस्थानीयत्वेन तत्पक्षपात्यादर्शस्थानोयत्वाभावादिति । तन्न, स्वनिष्ठस्थौल्यावभासकत्वेनादर्शस्येवास्यापि स्वनिष्ठधर्मावभासकत्वेन तद्वत् पक्षपातित्वसम्भवात् । तस्मादविद्याकृतविच्छेदेन ब्रह्मण्येव नित्यमुक्तत्वसंसारित्वसर्वज्ञत्वकिञ्चिज्ज्ञत्वादिव्यवस्थोपपत्तिः ।

एतेन असर्वज्ञत्वादिनानुभवसिद्धाज्जीवात् अन्यस्य चेतनस्याभावेन सार्वज्ञ्यादिश्रुतिर्निविषया स्यात्, एकजीववादे संसार्यसंसारिव्यवस्थाऽयोगाद् ‘द्वा सुपर्णा’ ‘य आत्मनि तिष्ठन्’ इत्यादिश्रुतिभिः ‘अन्यश्च परमो राजन् तथाऽन्यः पञ्चविंशकः ।’ ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप’ इत्यादिस्मृतिभिः ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते’ ‘भेदव्यपदेशाच्च’ इत्यादिसूत्रैः ‘तस्माच्छारीरादन्य एवेश्वरः । आत्मानौ तावेतौ चेतनौ, एकः कर्ता भोक्ता अन्यस्तद्विपरीतोऽपहतपाप्मत्वादिगुण’ इत्यादिभाष्यैः ‘तत्त्वज्ञानसंसरणे चावदातत्वश्यामत्वादिवत् नेतरेतरत्रावतिष्ठेते’ इत्यादिविवरणग्रन्थैश्च विरोध इति निरस्तम् ।

ननु चिन्मात्रस्याज्ञानं स्वाभाविकम् ? औपाधिकं वा ? नाद्यः, आत्मवदनिवृत्तिप्रसङ्गात् । नान्त्यः, स्वस्यैवोपाधित्वे आत्माश्रयाद्, एतदपेक्ष्यान्यापेक्षत्वे अन्योन्याश्रयात्, तदन्यान्यापेक्षत्वे चानवस्थानादिति– चेन्न, स्वस्यैवाश्रयत्वोपाधित्वात् । न चात्माश्रयः, भेदस्य स्वभेदकत्ववदुपपत्तेः, स्वाभाविकस्यापि घटरूपस्य तत्प्रागभावस्य च निवृत्तिदर्शनात्।

न्यायामृततरङ्गिणी

अविद्याश्रयश्चेति । परमत इति शेषः । गोचरः विषयः । ननु चिन्मात्राश्रिता-ज्ञानेन चिन्मात्रे स्वकार्यसंसारापादने जीव इव बिम्बभूतब्रह्मानुगतचिदंशेऽपि संसारः स्यादत आह ।। दर्पणस्येति ।। विरोधादिति ।। चैतन्यं नाज्ञानाश्रयः तद्विरुद्ध-त्वात् यथा प्रकाशस्तमस इति सामान्यव्याप्तिः । ननु विरोधाद्घटतदत्यन्ता-भावयोरिव शुद्धचिदज्ञानयोः सामानाधिकरण्यं मा भूत् । आश्रयाश्रयिभावस्तु तद्वदेव स्यादेवेति तत्रैव व्यभिचार इत्यत आह ।। एकविषयेति ।। नात्र विरोधस्तदभाव-रूपत्वम् । येनोक्तो व्यभिचारः स्यात् । किन्तु तन्निवर्तकत्वमित्यभिसन्धाय तदनुगुणं दृष्टान्तमाह ।। तमःप्रकाशयोरिति ।। ननु चैतन्यस्याज्ञानानिवर्तक-त्वादुक्तहेतुरसिद्ध इत्यत आह ।। न हीति ।। विवक्षितस्याज्ञानत्वसिद्ध्यर्थं चैतन्यस्यावश्यं तन्निवर्तकत्वमास्थेयम् । तथा च नासिद्धिरित्यर्थः । ननु अज्ञानस्य चैतन्यानिवर्त्यत्वेऽपि न तस्याज्ञानत्वाभावः । वृत्तिरूपज्ञाननिवर्त्यत्वेनाप्यज्ञान-लक्षणवत्तयाऽज्ञानत्वोपपत्तेरित्याशङ्क्य परिहरति ।। न चेति ।। विवरण इति ।। आत्मनः स्वप्रकाशत्वं साधयितुं प्रमाणीकृतायामत्रायं पुरुषः स्वयञ्ज्योतिरिति श्रुतौ ।

ननु ज्योतिःशब्देन प्रकाशगुणाभिधाने तदभिन्नात्मनोऽपि गुणत्वप्रसङ्ग इति प्रकाशगुणवद्द्रव्यं ज्योतिःशब्देनाभिधातव्यम् । तथा च जन्यज्ञानाख्यप्रकाशेनात्मा प्रकाशगुण इति नेयं श्रुतिः स्वप्रकाशत्वे प्रमाणमिति शङ्कायां, सर्वसाधारणस्य प्रकाशगुणवत्त्वरूपज्योतिष्ट्वस्य व्यावर्तनाय श्रुतौ स्वयमिति विशेषणोपादाना-त्स्वयमेव ज्योतिर्न तु ज्योतिष्मानित्यर्थावगमाद्भवति श्रुतिस्तत्र प्रमाणमिति परिहृतायां, ननु कारकान्तरानपेक्षया स्वयमेव स्वात्मनि ज्ञानं जनयतीति स्वयमिति विशेषणं किं न स्यादिति पुनः शङ्कायां, ज्ञानजन्मप्रयुक्तत्वात्कारका-पेक्षायास्तदभावेऽपेक्षैव नास्तीति परिहृतायां, ननु विमतं जन्मवत् ज्ञानत्वात् विषयज्ञानवदिति ज्ञानजन्माशङ्कायां, विषयज्ञानवदित्यत्र ज्ञानशब्देन स्वरूपज्ञानं वा विवक्षितं वृत्तिर्वा आद्ये साध्यवैकल्यं लोके वेदे च स्वरूपज्ञाने जन्मादर्शनात् द्वितीये साधनवैकल्यं ज्ञातुरर्थप्रकाशस्य स्फुरणरूपस्य ज्ञानत्वादिति परिहृतायां, ननु वृत्तावपि ज्ञानशब्दो दृश्यत इति पुनः शङ्कायां, अन्तःकरणपरिणामे ज्ञानत्वोपचारा-दित्युक्तम् ; चैतन्यैक्याध्यासाद्वृत्तौ ज्ञानत्वमुपचर्यते दग्धत्वमिवायःपिण्ड इत्यर्थः ।। अज्ञानेति ।। चैतन्यस्य ज्ञानत्वसिद्ध्यर्थमपि तस्याज्ञाननिवर्तकत्वं वाच्यम् । अन्यथा विमतं न ज्ञानं अज्ञानाविरोधित्वात् घटवदिति तस्य ज्ञानत्वं न स्यात् । तथा च नासिद्धिरित्यर्थः ।

उक्तानुमाने व्यवहाराजनकत्वमुपाधिमाशङ्क्य परिहरति ।। न चेति ।। साधन-व्यापकत्वान्नोपाधिरित्याह ।। अज्ञानेति ।। असिद्धिमेव पुनराशङ्क्य निराकरोति ।। न चेति ।। कथं तर्ह्यज्ञाने ज्ञाननिवर्त्यत्वरूपलक्षणायोग इत्यत उक्तम् ।। ज्ञानकारणविरोध्येवेति ।। ज्ञानाविरोधिनोऽपि चैतन्यस्य ज्ञानत्वाभावापत्तिं निरा-करोति ।। न तु ज्ञप्तीति ।। करणविरोधित्वेनाननुभूयमानस्य ज्ञप्तिविरोधित्वेनानु-भूयमानस्याज्ञानस्य दुरपह्नवत्वादित्याह ।। न जानामीतीति ।। चैतन्यस्याज्ञान-निवर्तकत्वे सुखादौ तन्निवर्तकस्यान्यस्याभावात्तत्राज्ञानानुभवः स्यादित्याह ।। साक्षिवेद्य इति ।। सौरेति ।। दिवा भीतेन यथा सौरप्रकाशे मिथ्याभूतोऽन्धकारः कल्प्यते तथा चैतन्ये मिथ्याभूतमज्ञानं कल्प्यत इत्यर्थः ।। अज्ञानान्तरस्येति ।। तत्सत्त्वे च तदेव सत्यभूतं जगत्कारणमस्तु किं मिथ्याभूतेन तेनेत्यर्थः ।। अन्योन्याश्रयादिति ।। अहमज्ञ इति धर्मिग्राहकमानबाधाभावेऽज्ञानस्य चैतन्याश्रि-तत्वसिद्धिः तत्सिद्धौ चाहमज्ञ इत्यस्यायो दहतीतिवद्गौणत्वेनाप्युपपन्नस्य चैतन्याश्रिताज्ञानकल्पनायामबाधकत्वमित्यर्थः । भ्रान्तित्वायोगादित्युपलक्षणम् । साक्षात्सम्बन्धविषयत्वाच्चेत्यपि द्रष्टव्यम् । ननु दोषाजन्यत्वमसिद्धं बाधकाद्दोष-जन्यत्वानुमानादित्यत आह ।। बाधकाभिमतस्यैवेति ।।

नन्वहमज्ञ इति धीर्नाज्ञाने साक्षात्सम्बन्धेनाहङ्काराश्रितत्वं विषयीकरोति । अहङ्कारभिन्नेऽज्ञानस्य साक्षात्सम्बन्धग्राहकमानबाधितत्वादित्यत आह ।। मिथ्या-रूप्येति ।। धर्मिग्राहकेण यत्र यस्य सम्बन्धो गृह्यते तत्रैव तस्य साक्षात्सम्बन्ध इति नाहङ्कारभिन्नेऽज्ञानस्य साक्षात्सम्बन्धसिद्धिरित्यर्थः ।। अहमर्थ इति ।। आत्म-भिन्नत्वेन पराभिमत इति शेषः । तेनाकल्पितस्याज्ञानाश्रयस्यैवात्मत्वादिष्टापत्तिरिति निरस्तम् । ननु निरवद्य इत्यादौ निर्दोषत्वमुच्यते । न त्वज्ञानराहित्यम् । अतः कथं श्रुतिविरोध इत्यत आह ।। न हीति ।। मुक्त इत्यनेनाप्यज्ञानराहित्यमुच्यत इत्याह ।। नापीति ।। ननु परसमयप्राप्तमप्यसत्कारणादिवन्निषिध्यतामित्यत आह ।। जीवेऽपीति ।। मोहमत्येतीति श्रुतौ मोहशब्दवाच्यस्याज्ञानस्य निषिद्धत्वान्न चिन्मात्रे तत्सम्भव इत्याह ।। मुक्तीति ।। मोहनिषेधस्यान्यविषयत्वं व्यवस्थाप्य चिन्मात्रे व्यावहारिकमोहाङ्गीकारे समानन्यायतया तथाविधशोकोऽपि चिन्मात्रे प्रसज्येतेत्यर्थः । ननु शोकस्य निषिद्धत्वान्न तस्य व्यावहारिकस्याप्यङ्गीकारो युक्तः । मोहमत्येतीत्यत्र न मोहनिषेधः किन्तु तत्कार्यनिषेध इति मोहस्यानिषिद्धत्वात्तस्य व्यावहारिकस्याङ्गीकारो न विरुद्ध इत्याशङ्क्याह ।। न च श्रुताविति ।। बिम्ब-स्थानीयेति ।। विवेचनाज्ञानमङ्गीकुर्म इति न श्रुतिविरोध इति भावः ।। जीवेऽ-पीति ।। चिन्मात्रस्याज्ञानाश्रयत्वेन निरनिष्टत्वाभावात्तच्छ्रुतेर्बिम्बस्थानीयब्रह्मपरत्वे तत एव जीवेऽप्यज्ञानाभावेन जीवेऽज्ञानप्रतिपादकश्रुतिविरोध इत्यर्थः ।। ज्ञाज्ञाविति ।। जानातीति ज्ञः । ज्ञश्चाज्ञश्च ज्ञाज्ञौ ईशानीशावित्यन्वयः । न च जीवस्याज्ञानाश्रयत्वेऽपि तत्तत्कार्ययोगितयाऽज्ञत्वव्यपदेश इति वाच्यम् । जीवेऽ-ज्ञानप्रतिपादकश्रुत्यविरोधे सति चिन्मात्रेऽज्ञानसिद्धिः तत्सिद्धौ च जीवेऽज्ञान-प्रतिपादकश्रुतेर्गौणार्थकल्पनमित्यन्योन्याश्रयापत्तेः ।

ननु चिन्मात्रेऽज्ञानप्रतिपादकश्रुतेः सत्वाज्जीवे तत्प्रतिपादिकायाः श्रुतेर्गौणत्वं कल्प्यते । अतो नान्योन्याश्रय इत्यत आह ।। न चेति ।। अज्ञानस्य भ्रान्ति-सामानाधिकरण्यनियमे परेषां संमतिमाह ।। उक्तं हीति ।। भ्रान्त्यज्ञानयोः सामानाधिकरण्यं शङ्कते ।। चिन्मात्रेऽपीति ।। चिन्मात्रेऽज्ञानसिद्धौ तत्र ज्ञातृ-त्वाध्याससिद्धिः तत्सिद्धौ च ज्ञानाज्ञानयोर्वैयधिकरण्यरूपबाधकपरिहारसिद्ध्या चिन्मात्रेऽज्ञानसिद्धिरित्यन्योन्याश्रय इत्याह ।। तस्येति ।। चैतन्य इति ।। चैतन्ये बुद्धिगतभोक्तृत्वाध्याससिद्ध्यर्थं तत्र बुद्धिगतकर्तृत्वस्याप्यध्यासो यथाङ्गीक्रियते तथा चैतन्ये बुद्धिगतज्ञातृत्वस्याध्याससिद्ध्यर्थं बुद्धिगतमेवाज्ञानमध्यस्यतामिति बुद्धिरेवा-ज्ञानाश्रयः स्यादित्यर्थः । तदुक्तं विवरणे भोक्तृत्वाध्यासः कर्तृत्वाध्यासमपेक्षते अकर्तुर्भोगाभावादिति ।

नन्वध्यस्तज्ञातृत्वेन समानाधिकरणमज्ञानमित्यङ्गीकुर्मः । बुद्धौ तु ज्ञातृत्वं नाध्यस्तं किन्तु स्वत एवेत्यत आह ।। देहादावपीति ।। बुद्ध्यवच्छिन्न इति ।। बुद्ध्यवच्छिन्नचैतन्यस्य ज्ञातृत्वादित्यर्थः ।। तदभावाच्चेति ।। ज्ञातृत्वाध्यासाभावा-दित्यर्थः । तथा च अर्थाप्रकाशस्याज्ञानस्य बुद्ध्यवच्छिन्नाध्यस्तज्ञातृत्वावच्छिन्ने अध्यासः स्यात् न चिन्मात्र इत्यर्थः ।। चिन्मात्र एवेति ।। न तु बुद्ध्यवच्छिन्ने चिन्मात्रेऽपीत्येवशब्दार्थः ।। ज्ञातृत्वादिमत्येवेति ।। ज्ञातुरर्थाप्रकाशरूपस्याज्ञानस्य शुक्त्याद्यज्ञानवत् ज्ञातृनिष्ठत्वाङ्गीकारादित्यर्थः । ननु नाज्ञानं ज्ञातृनिष्ठम् । दृष्टान्ता-भावात् । न च शुक्त्यज्ञानं दृष्टान्तः । तस्यापि ज्ञात्रनाश्रितत्वादित्याशङ्क्य परिहरति ।। न च शुक्तीति ।। ।। अहं जानामीति ।। ननु द्विविधमज्ञानम् । एकं शुक्त्यज्ञानं शुक्त्यवच्छिन्नचैतन्याश्रितं तद्गतापरोक्षभ्रमजनकं तद्विषयापरोक्षप्रमा-नाश्यम् । अपरं च परोक्षभ्रमजनकं प्रमामात्रनाश्यं प्रमातृत्वप्रयोजकोपाध्यवच्छिन्न-चैतन्याश्रितम् । तत्र प्रमातृत्वप्रयोजकोऽध्यवच्छिन्नचैतन्यगताज्ञाने विद्यमानेऽपि प्रमातृगताज्ञानविषयकोऽनुभवः । तेन प्रमातृनिष्ठत्वं विषयस्य न विरुध्यते । अत एव चैतन्यगताज्ञाने विद्यमानेऽपि प्रमातृगताज्ञाननाशेन न जानामीति व्यवहाराभाव इति । मैवम् । न जानामीत्यनुभवसिद्धप्रमातृगताज्ञानस्यैव शुक्त्यादिगतापरोक्ष-भ्रमहेतुत्वोपपत्तेस्तदतिरिक्तप्रमातृगताज्ञानसद्भावे मानाभावात् । न हि न जानामीति धीस्तत्र त्वन्मते मानान्तरम् । रक्तपटाभावेऽपि शुक्लपटसत्त्वेन पटोऽस्तीति बुद्धिवत् प्रमातृगताज्ञानाभावेऽपि विषयगताज्ञानसत्त्वात् न जानामीति व्यावहारा-पत्तेश्च संसारतत्वज्ञानाभ्यामज्ञानस्य सामानाधिकरण्यमाशङ्क्य परिहरति ।। न च विशेष्येति ।। विशिष्ट इति ।। विशिष्टनिष्ठं यत्तत्त्वज्ञानं तेन विशेष्यनिष्ठमज्ञानं निवर्तत इत्यर्थः ।। ब्रह्मण्यपीति ।। संसारहेत्वज्ञानाश्रयस्य चिन्मात्रस्य जीववत् ब्रह्मापेक्षयापि विशेष्यत्वादित्यर्थः ।

विशेष्यनिष्ठेन कारणेन विशिष्टे कार्यजननेऽतिप्रसङ्गमाह ।। देहमिति ।। ।। विशेष्यस्थमुक्तेरिति ।। एतच्चोपलक्षणम् । चैतन्यगतेनाज्ञानाविरोधेन वृत्ति-विशिष्टेऽपि तदविरोधापाताच्चेति द्रष्टव्यम् । विशिष्टे ब्रह्मण्यपि संसारापात इत्यत्र परिहारमाशङ्क्य परिहरति ।। न चोपाधेरिति ।। चिन्मात्रजीवयोर्विशेष्यविशिष्टभावो नास्तीत्याह ।। प्रतिबिम्बस्येति ।। अचाक्षुषस्येति ।। न च रूपं रूपमित्यादि-श्रुतिबलात् चितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिरिति वाच्यम् । उक्तश्रुतेस्त्वदभिमतप्रतिबिम्बपरत्वाभावात् । श्रुत्यर्थस्योक्तत्वाच्च ।। प्रतिबिम्बत्व इति ।। न चोपाधिबिम्बसम्बन्धानादित्वादनादित्वोपपत्तिरिति वाच्यम् । उपाधि-सम्बन्धस्यानादित्वे स्वाभाविकत्वापत्तेः । अनादिभावस्याविनाशाच्च ।। सूर्यस्येति ।। नन्वध्यस्तस्य स्फटिकलौहित्यस्य दर्पणे प्रतिबिम्बदर्शनान्न प्रतिफलनीयसमान-सत्ताकत्वनियम इति चेन्न । कुसुमयोगेन स्फटिके लौहित्यान्तरोत्पत्तेर्न तत्र तस्याध्यस्तत्वमित्यर्थः ।। आभिमुख्येति ।। प्राच्यत्वप्रतीच्यत्वादिरूपमित्यर्थः । एतेन चैतन्याविद्ययोर्व्यापकत्वादाभिमुख्यमस्तीति निरस्तम् ।। उपाधेरिति ।। अपरिच्छिन्नाकाशादिपरिणामार्थं सर्वेषामप्यविद्यांशानां विकृतत्वादित्यर्थः । एतेन प्रतिबिम्बप्रयोजकरूपाविरोधिपरिणामस्य प्रतिबिम्बाविरोधित्वेन प्रतिबिम्बानपाय इति निरस्तम् ।। मुखमात्रेति ।। दर्पणादिसम्बन्धात्पूर्वकालीनं मुखं मुखमात्र-मित्यर्थः ।। चिन्मात्रेति ।। अविद्यासम्बन्धस्यानादित्वादित्यर्थः । एतेन अपरामृष्टभेदस्य मुखादेर्मात्रार्थत्वेनानुगतधर्मातिरेकसम्भव इति निरस्तम् ।

नन्वज्ञानं स्वाश्रय एव भ्रान्त्यादि करोतीत्येषा न विशेषव्याप्तिः । विवाद-विषयाज्ञानातिरिक्तेऽदर्शनादित्यतो दृष्टान्तमाह ।। अनादीति ।। अज्ञानं ज्ञान-निवर्त्यमिति त्वदुक्तव्याप्तेरप्यज्ञानातिरिक्तेऽदर्शनान्न विशेषव्याप्तित्वं स्यादित्यर्थः ।। ज्ञानक्रियेति ।। ज्ञानरूपक्रियाजन्यः संस्कार इत्यर्थः । नन्वविद्यालक्षणोपाधेरपि बन्धरूपस्वधर्मप्रतिभासकत्वमस्तीत्याशङ्क्य निराकरोति ।। अविद्येति ।। अविद्याया अबद्धत्वात्तस्या बन्धो नास्तीत्यर्थः ।। विच्छेदादेरिति ।। उपाधिकार्यस्योभयत्र दर्शनान्न तस्य प्रतिबिम्बमात्रपक्षपातित्वमित्यर्थः ।। मुखस्थेति ।। उपाधिना स्वकार्यं प्रतिबिम्ब एवावभास्यत इत्यङ्गीकारादित्यर्थः ।। प्रतिमुखेति ।। तथा च यदुपाधिकार्यविच्छेदादि न तत्प्रतिबिम्बमात्रे यच्च प्रतिबिम्बमात्रे संसारादि न तदुपाधिकार्यमित्यर्थः ।। एवमिति ।।

यत्तु स्वनिष्ठस्थौल्याभासकत्वेनादर्शस्येव बुद्धेरपि स्वनिष्ठधर्मावभासकत्वेन तत्पक्षपातित्वसम्भवादिति । तत्तुच्छम् । न हि स्फटिको जपाकुसुमस्य प्रतिबिम्बः स्वधर्मावभासकत्वमात्रेण प्रतिबिम्बपक्षपातित्वोक्तौ तु तस्य बिम्बपक्षपातित्वमेव किं नोच्यते । नन्वतिशयेन प्रतिबिम्बे कार्यकरत्वमेव तत्पक्षपातित्वम् । तथा च विच्छेदादिरूपकार्यस्योभयत्र साम्येऽपि स्थौल्याद्यवभासरूपकार्यकरत्वेन दर्पणस्येव कर्तृत्वभोक्तृत्वरूपसंसारकरत्वेनाविद्यायाः प्रतिबिम्बपक्षपातित्वमिति । मैवम् । बिम्बेऽपि बिम्बत्वादेरसाधारण्यस्योपाध्यधीनत्वे बिम्बपक्षपातित्वापातात् ।। अवच्छेदपक्ष इति ।। अन्तःकरणाद्यवच्छिन्नो जीव इति वा अविद्याप्रतिबिम्बितो जीव इति वा पक्ष इत्यर्थः ।। तन्मत इति ।। तार्किकमते आत्मा दुःखाधारः आधारतावच्छेदकं देहादि इतिवत् अत्रापि चिन्मात्रेऽज्ञानमिति मतेऽपि इत्यर्थः ।। नहीति ।। कल्पितस्याविद्यकत्वेन नित्यमुक्तत्वाभावादित्यर्थः ।। यादृश इति ।। कल्पितोऽपि यादृशोऽनर्थरूपादिरिति योजना ।। अन्यथेति ।। संसारवत्यपि नित्यमुक्तत्वश्रुतेरुपपत्तौ शोकवत्यपि शोकाभावश्रुतेरुपपत्तौ तच्छ्रुतिबलात् मुक्तौ शोकनिषेधो न स्यादित्यर्थः ।। असर्वज्ञत्वादिनेति ।। ब्रह्मैव स्वाविद्यया संसरतीति पक्षे जीवातिरिक्तस्य बिम्बस्थानीयस्य ब्रह्मणोऽभावात् जीवस्यासर्वज्ञत्वेनानुभूय-मानत्वात् सर्वज्ञत्वस्यापि कल्पितत्वाकल्पितत्वाभ्यां व्यवस्थाया अप्यसम्भवा-दित्यर्थः ।। ब्रह्मभावेति ।। कल्पितेनापि संसारेणास्पष्टस्य चैतन्यस्याभावे संसारि-ब्रह्मप्रतीतिरेव मुक्तिरित्यापातेनेत्यर्थः । ननु बहुजीववादे मुक्तेस्सत्वेनैतद्दूषण-प्राप्तावपि नैकजीववादेऽयं दोष इत्यत आह ।। एकजीवेति ।। अस्मिन्पक्षे जीवातिरिक्तचैतन्यस्य कल्पितभेदयुक्तस्याप्यभावादित्यर्थः ।। तयोरिति ।। औत-वादे व्यावहारिकभेदेन जीवान्यचैतन्यसत्वे द्वा सुपर्णेत्यादिभेदप्रतिपादकश्रुत्यादीनां तद्विषयत्वेनाविरोधः स्यात्, त्वन्मते तु व्यावहारिकोऽपि भेदो नास्तीति भेदश्रुत्यादिविरोध इत्यर्थः ।। आत्मनीति ।। य आत्मनि तिष्ठन्नात्मनोऽन्तर इत्यादिश्रुतिः आत्मनः सकाशादन्तरः भिन्नः ।। शारीरश्चेति ।। शारीरो जीवोऽपि नान्तर्यामी । उभये काण्वाः माध्यन्दिनाश्च । एनम् अन्तर्यामिणम् । जीवाद्भेदेन पठन्तीति सूत्रार्थः ।। आत्माश्रय इति ।। ननु भेदस्य स्वभेदकत्ववदज्ञानमेवाज्ञान उपाधिरिति चेन्न । भेदस्य स्वरूपत्वेन भेदकत्वानङ्गीकारात् ।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगंयुजि ।

न्यायामृततरङ्गिण्यां न चिन्मात्राश्रयाज्ञता ।।

न्यायामृतकण्टकोद्धारः

किञ्चाविद्याऽस्यात्राज्ञानमिति साश्रयत्वेन सविषयत्वेन च प्रतीयते । साश्रयत्वं सविषयकत्वं चाविद्यात्वव्यापकम् । तथा च व्यापकाभावान्न व्याप्यमविद्यात्वं सम्भव-तीत्याशयेनाश्रयमादौ दूषयति ।। अविद्याश्रयश्चेति ।। तथा च व्यापकानुपलब्धि-बाधश्चेति भावः । ननु चिन्मात्राश्रितत्वेऽविद्याकार्यं जीव एव न स्यात् । किन्तु ब्रह्मण्यपि स्यादित्यत आह ।। दर्पणस्येति ।। दर्पणस्थानीयत्वादविद्याया दर्पणवत् प्रतिबिम्बपक्षपातो युज्यत इति भावः । ननु अत्राज्ञानस्य चिन्मात्राश्रयत्वाभावे विरोधा-दिति हेतुरुक्तः । अतः द्वेधा प्रयोगोऽभिमतः । अज्ञानं चिदाश्रितं न भवति तेन विरुद्धत्वात् यद्येन विरुद्धं तत्तदाश्रितं न भवति । यथा गोत्वमश्वत्वेनेति । चैतन्यं नाज्ञानाश्रयस्तद्विरुद्धत्वात् । सामान्यव्याप्त्या गोत्वमेव दृष्टान्तस्तमो वा दृष्टान्तः । तत्र को विरोधः । न तावत् सहानवस्थितत्वम् । तादृशविरोधवतोऽपि घटात्यन्ताभावस्य घटाश्रितत्वेन व्यभिचारात् । न च भावरूपत्वे सतीति विवक्षितम् । अत एव ज्ञानभावरूपाज्ञानयोरित्युक्तमिति वाच्यम् । घटरूपे व्यभिचारात् । तस्यापि घटेन सह सहानवस्थानरूपविरोधवत्त्वात् घटाश्रितत्वाच्च । न च यज्जातीयत्वावच्छिन्नं येन सहानवस्थितमिति विवक्षितम् । न च रूपजातीयं तथा । मृदि घटरूपयोः सहभावा-दिति वाच्यम् । एवं चेदसिद्धिः स्यात् । न ह्यज्ञानजातीयं ज्ञानासहवृत्ति भिन्न-विषयकयोः सहवृत्तित्वात् । तद्विषयकाज्ञानं तज्ज्ञानासहवृत्तीति यदि तर्हि तद्रूपं तद्घटासहवृत्तीति तुल्यम् । नापि भावाभावरूपो विरोधः । उभयोरपि भावरूपत्वात् । नापि वध्यघातुकः । अत एवाह वृत्तिज्ञाननिवर्त्यं तदिति वाच्यम् । तादृशविरोधवतोरपि मूषकमार्जारयोः सति विनाशप्रतिबन्धे आश्रयाश्रयिभावस्यानुभवसिद्धत्वादित्यत आह ।। एकेति ।।

अयमाशयः – वध्यघातुक एव विरोधो विवक्षितः । न चोक्तदोषः । सविषय-कत्वावच्छिन्नयोः वध्यघातुकयोराश्रयाश्रयिभावो नेत्यत्र तात्पर्यात् मूषकमार्जारयोः सविषयकत्वाभावात् न तत्र व्यभिचारः । न च तमःप्रकाशयोरिति दृष्टान्तनुपपत्तिः । तयोरपि सविषयकत्वात् ताभ्यां द्वेषेच्छयोरुपलक्षणाद्वेति न काचिदनुपपत्तिः । न हि सविषयकयोर्विरुद्धयोराश्रयाश्रयिभावो दृष्टचर इति ।। न चेति ।। तथा च ज्ञानविरोधि-त्वादज्ञानत्वं युक्तमिति शेषः ।। मुख्येति ।। तथा च मुख्यज्ञाननिवर्त्यं मुख्याज्ञानं वक्तव्यमिति शेषः ।। अज्ञानेति ।। न च वृत्त्यवच्छेदेनाज्ञानविरोधित्वात् चैतन्यस्य ज्ञानत्वं यथा भास्करस्य सूर्यकान्ताद्यवच्छेदेन दाहकत्वमिति वाच्यम् । स्वतोऽज्ञाना-विरोधित्वे ज्ञानत्वायोगात् । न हि भास्करोऽन्यावच्छेदेन तमोविरोधी । अन्यथा घटस्यापि वृत्यवच्छेदेन अज्ञानविरोधित्वात् ज्ञानत्वं स्यात् । वह्णिजनकत्वं च तेजोमात्र-साधारणमिति तस्यान्यावच्छेदेनोपपत्तौ न विरोधः । नन्वज्ञानाविरोधित्वेऽपि ज्ञानत्व-मस्त्वित्यत आह ।। ज्ञानाज्ञाने हीति ।। अन्यथा प्रकाशाप्रकाशयोरनुभवसिद्धो विरोधो न स्यात् इति भावः ।। अज्ञानेति ।। तथा चाज्ञानानिवर्तकत्वे तद्व्यवहारहेतुत्वमपि न स्यादिति भावः ।। साक्षिवेद्य इति ।। तत्र ज्ञानकरणाभावादज्ञानं स्यादित्यर्थः ।। सौरेति ।। सौरप्रकाशे हि प्रकाशत्वे तमोविरोधित्वं तन्त्रम् । निर्विशेषितसामान्या-योगादतात्त्विकतमोविरोधित्वाभावेऽपि तात्विकतमोविराधित्वेन सामान्यमुपपन्नम् । प्रकृते च तात्त्विकाज्ञानविरोधित्वाभावात् अतात्त्विकाज्ञानविरोधित्वेनैव अज्ञानविरोधित्वं वाच्यम् । निर्विशेषितसामान्यायोगात् । तदभावे च ज्ञानत्वायोगादिति भावः ।। अन्यथेति ।। तात्विकस्यातात्विकविरोधित्वाभावे इत्यर्थः ।

किञ्चाज्ञानस्याश्रयादिविचारोऽज्ञानसिद्ध्युत्तरकालीनः । असिद्धस्य खपुष्पादेराश्रयाद्य-विचारात् । तथा च येन प्रमाणेनाज्ञानं सिद्धं तेनाहमर्थाश्रयत्वेनैव सिद्धम् । तस्य च चिन्मात्राश्रयत्वे धर्मिग्राहकप्रमाणविरोधः । न ह्यहमज्ञ इतिवत् चिदज्ञेति प्रतीतिरस्ति । अत एव नोभयाश्रितत्वेनाप्युपपत्तिरित्याशयेन धर्मिमानेन बाधादित्येतदुपपादयन्नाह ।। किञ्चेति ।। न चेति ।। अत्र प्रथमपक्षेऽहङ्काराध्यासानन्तरं तत्सिद्धौ तत्राज्ञानाध्यास-वदैक्याध्यासादहमज्ञ इति प्रतीतेरध्यासद्वयं मूलम् । द्वितीये त्वहङ्काराध्यासमात्रं मूलमिति लाघवमिति हृदयम् ।। अद्यापीति ।। न चाहम्पदार्थस्याविद्याधीनत्वेन तदाश्रयतानु-पपत्तेश्चैतन्याश्रयत्वमेवेति तस्याविद्याधीनत्वे प्रमाणाभावात् उक्तप्रतीत्या अविद्याया अहमर्थाधीनत्वात् ।

किञ्च भ्रान्तेर्दोषजन्यत्वबाधितार्थकत्वं व्यापकम् । तन्निवृत्यापि भ्रान्तित्वनिवृत्ति-रित्याशयेनाह ।। दोषेति ।। न चाविद्याप्रतिबिम्बितचैतन्यस्य साक्षिरूपत्वात् दोषा-जन्यत्वमसिद्धमिति वाच्यम् । अस्य प्रागेवाविद्याप्रतीतिभङ्गे दूषितत्वात् । न च बाधाभावोऽसिद्ध इति वाच्यम् । नाहमज्ञ इति प्रत्यक्षस्याभावात् श्रुत्यनुमानयोश्चैतेनैव बाधसम्भवात् अस्य धर्मिग्राहकत्वेन प्रबलत्वात् । श्रुत्यादेश्च सम्यगन्यथा व्याख्यातत्वेनै-तद्बाधकत्वायोगाच्च । अज्ञानस्य चिता सह आश्रयाश्रयिभावरूपसम्बन्धवर्णनमयुक्तम् । अज्ञानस्वरूपग्राहकेणैवानुभवेनाज्ञानस्याहङ्कारेण सहाश्रयाश्रयिभावरूपसम्बन्धस्य मिथ्या-रूप्यग्राहकेण रूप्येदमंशसम्बन्धग्रहवत् सिद्धत्वादित्याह ।। मिथ्यारूप्येति ।। अज्ञानेति ।। न चाहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेन चाकल्पितत्वमयुक्तमिति वाच्यम् । अहमर्थस्य मुक्तावपि प्रतीयमानत्वेन ज्ञाननिवर्त्यत्वासम्मतेः । दृश्यत्वस्य चात्मनि सत्त्वेन तत्र व्यभिचाराच्च । यथा चैतत्तथोपपादितं दृश्यत्वभङ्गे । न चानुपपत्तिमात्रं नाहङ्कारोऽपि तु सत्त्वादिप्रापकयुक्तावनुपपत्तिरिति वाच्यम् । नियामका-भावात् निरवयवस्योपादानत्वानुपपत्तेरप्यहङ्कारत्वाङ्गीकाराच्च ।

।। नापीति ।। न चाज्ञानं न बन्धकमिति वाच्यम् । अज्ञानस्य स्वाश्रय-बन्धकत्वनियमात् ।। जीवेऽपीति ।। न च जीवे अविद्याकार्यसत्त्वेन ब्रह्मणि च तद-भावेन सावद्यत्वादिव्यवस्था युक्तेति वाच्यम् । अज्ञानस्य स्वाश्रये स्वकार्यकरत्वनियमेन ब्रह्मणोऽज्ञानाश्रयत्वेन कार्याश्रयत्वस्याप्यावश्यकत्वात् ब्रह्मण्यपि अज्ञानकार्यस्य सार्वज्ञादे-रङ्गीकाराच्च । अत एव नोपाधेः प्रतिबिम्बपक्षपातित्वमपि । अत एव जीवेशयोः श्रुतौ ज्ञानत्वोक्तिरयुक्ता । उभयोरप्यज्ञानाभावात् तत्कार्यस्योभयत्रापि सत्त्वात् । अज्ञानस्य स्वाश्रये एव कार्यकरत्वनियमेन जीवेशयोरज्ञानाश्रयत्वाभावे तत्कार्याश्रयत्वासम्भवाच्च । अन्यथा चैत्राज्ञानकार्यं शोकादि मैत्रे स्यात् । किञ्चाज्ञानवत्तत्कार्यस्यापि चिन्मात्र एवाङ्गीकारे न किञ्चिद्बाधकमित्याह ।। मुक्त्यन्वयिनीति ।। मुख्यार्थहानेरिति ।। बाधके सत्येव मुख्यार्थस्य त्याज्यत्वात् प्रकृते च तदभावादिति भावः ।। शुद्धस्येति ।। न च मायां तु प्रकृतिं विद्यादिति श्रुतिः शुद्धस्याज्ञेयत्वे प्रमाणमिति वाच्यम् । माया-शब्दस्याज्ञानवाचित्वे प्रमाणाभावात् । तावता महेश्वरस्याज्ञत्वापाताच्च ।

अविद्यायाश्चिन्मात्राश्रयत्वाङ्गीकारे दूषणान्तरमाह ।। किञ्चेति ।। अज्ञानस्य स्वसमानाधिकरणभ्रान्तिजनकत्वनियमात् स्वसमानाधिकरणप्रमाणनिवर्त्यत्वनियमाच्चेति भावः । न च चिन्मात्रे भ्रान्त्याद्यङ्गीकारान्नोक्तदोष इति वाच्यम् । तथात्वे चिन्मात्रस्यैव संसारित्वं स्यादिति जीवस्य संसारित्वादिप्रतिपादकश्रुत्यादिविरोधः । किञ्च चित्येव भ्रान्त्याद्यङ्गीकारे चिदज्ञेत्याद्यनुभवः स्यात् । न च तथास्ति । किन्त्वहमज्ञ इत्यादि । किञ्च चिन्मात्रस्य संसारित्वे चिन्मात्रं मुक्तं स्यादिति कामना स्यात् । न त्वहमित्याद्या-कर एव स्फुटमिति ।। ज्ञातुरज्ञानमिति ।। यद्यज्ञानस्य ज्ञातृसापेक्षत्वं तर्हि चैतन्येऽपि ज्ञातृत्वमस्तीत्यज्ञानमविरुद्धमिति शङ्कते ।। चिन्मात्रेऽपीति ।। तस्येति ।। न च ज्ञातृत्वाध्यासस्याविद्याध्यासाधीनत्वेऽपि नाविद्याध्यासे ज्ञातृत्वाध्यासस्य निमित्तत्वम् । तथा च कथमन्योन्याश्रय इति वाच्यम् । ज्ञातृत्वस्याविद्याश्रयतावच्छेदकत्वेनाविद्याध्या-सेऽपि तदध्यासस्यावश्यकतयाऽन्योन्याश्रयापरिहारात् ज्ञातर्येवाविद्येति नियमात् । न चैवं शुक्तिज्ञानात् पूर्वं शुक्त्यज्ञानं न स्यात् अवच्छेदकस्य ज्ञातृत्वस्याभावादिति वाच्यम् ।

तदापि ज्ञानकर्तृत्वशक्तेः सत्त्वात् । न चैवं प्रकृते । शक्तेरप्यविद्याध्यासाधीनत्वेना-न्योन्याश्रयात् । एवं ज्ञातृत्वस्याज्ञानाश्रयतावच्छेदकत्वे यस्य ज्ञातृत्वं मुख्यं तस्यैवाज्ञत्वं मुख्यं स्यादिति बुद्धिरेव ज्ञातृत्वे नाज्ञानाश्रयः स्यादिति दूषणान्तरमाह ।। चैतन्य इति ।।

।। देहादावपीति ।। तथा च तत्राप्यज्ञत्वं स्यादिति शेषः । न च प्रसक्त-प्रकाशकत्वमज्ञानानाश्रितत्वम् अज्ञत्वप्रयोजकमङ्गीक्रियते । न च तद्देहादावस्तीति वाच्यम् । चितोऽप्यविद्याधिष्ठानत्वेन प्रकाशमानत्वेन प्रकाशत्वस्याज्ञानाश्रयत्वविरोधि-त्वेन चाज्ञत्वप्रयोजकत्वासम्भवात् चितः सर्वाश्रितत्वेनाश्रितत्वाच्च । अन्यथा व्यापकत्वं न स्यादिति । देहादेरप्यज्ञानाश्रितत्वासम्मतेश्च ।। बुद्ध्यवच्छिन्नेति ।। तथा चाप-सिद्धान्त इति भावः ।। तेषामिति ।। न चाविद्यावच्छिन्ने ज्ञातृत्वाध्यासो न चाविद्या-वच्छिन्नेऽविद्याध्यास आत्माश्रयात् । सामानाधिकरण्यं च विशेष्यैक्यादिति वाच्यम् । ज्ञातृत्वस्याविद्याश्रयतावच्छेदकत्वेनान्योन्याश्रयात् । केवलविशिष्टयोर्भिन्नत्वेन सामानाधि-करण्यासम्भवाच्च । अन्यथा जीवनिष्ठसंसारस्य चिन्मात्राश्रयतापत्तौ प्रतिबिम्बपक्षपातित्व-मुपाधेर्न स्यात् ।

ननु शुक्त्यज्ञानवदिति दृष्टान्तो न युज्यते । तस्यापि मया शुक्त्यवच्छिन्नचैतन्य-निष्ठत्वाङ्गीकारादित्याशङ्क्य निषेधति ।। न चेति ।। अहमिति ।। न चाज्ञान-द्वैविध्याङ्गीकारेण समाधानमिति वाच्यम् । प्रमातृनिष्ठातिरिक्तविषयनिष्ठाज्ञानसद्भावे प्रमाणाभावेन तद्द्वैविध्यानुपपपत्तेः । यथा चैतत्तथा बहुशः प्रतिपादितम् ।

ननु अज्ञानस्य भ्रान्त्यादिसामानाधिकरण्यनियमोऽप्रयोजकः । न चैवं चैत्रनिष्ठा-ज्ञानेन मैत्रस्य भ्रमप्रसङ्गः । तद्भ्रमस्यान्यतरज्ञाननाश्यत्वप्रसङ्गश्चेति वाच्यम् । विशिष्टविशेष्यभावस्य तन्त्रत्वेनोक्तस्थले द्वयोरपि विशिष्टत्वेनातिप्रसङ्गाभावादित्याशङ्क्य निषेधति ।। न चेति ।। विशिष्ट इति ।। तस्यापि जीववच्चितं प्रति विशिष्टत्वा-दित्यर्थः ।। देहमिति ।। यदि विशेष्यनिष्ठेन स्वकार्यं विशिष्टे क्रियते इति सामान्यव्याप्तिः तदेदं दूषणम् । यदि चिन्मात्रनिष्ठाज्ञानेन जीवे कार्यं क्रियते इति व्याप्तिस्तदाऽसिद्धि-र्दृष्टान्ताभावादिति ।। विशेष्यस्थेति ।। अविशेषादिति भावः ।

।। एतेनेति ।। चिन्मात्रस्थमुक्तेः विशिष्टनिष्ठसंसारविरोधापातेनेत्यर्थः । ननु विशिष्टे ब्रह्मणि संसारः स्यादित्ययुक्तम् । उपाधेः प्रतिबिम्बपक्षपातित्वेन तत्र संसाराभावोऽपि तु जीव एवेत्यस्योपपत्तेरित्याशङ्क्य निषेधति ।। न चेति ।। श्रुत्यादीति ।। यथा निरवद्य-त्वादिश्रुतिविरोधे विद्यमानेऽपि चित्यज्ञानमङ्गीक्रियते तथा नित्यमुक्तत्वादिश्रुतिविरोधेऽपि चित्येव संसारः स्वीकर्तव्यः । न हि तदंशे श्रुतिविरोधो न दोषः एतदंशे दोषः इत्यत्र विनिगमकमस्ति । न च जीवे संसारस्य प्रतीयमानत्वात् चिति चाप्रतीयमानत्वात् जीवे संसारकल्पनमिति वाच्यम् । तथात्वेऽज्ञानस्यापि तत्रैवाङ्गीकारापत्तेः । न ह्यज्ञानं जीव इव चिति प्रतीयते । एवं चोपाधेः प्रतिबिम्बपक्षपातित्वकल्पनं नेति लाघवमिति हृदयम् । किञ्च बिम्बप्रतिबिम्बयोरैक्ये प्रतिबिम्ब इव बिम्बे संसारप्रसक्तौ प्रतिबिम्ब-पक्षपातित्ववर्णनमुपयुज्यते । न च तदस्ति । प्रतिबिम्बस्य बिम्बादन्यत्वात् । यथा चैतत्तथोपपादयिष्यते । तथा च प्रतिबिम्बस्योपाधिकार्यत्वात् तत्रैव तत्कार्यमिति वक्तव्यमित्याशयेनाह ।। प्रतिबिम्बस्येति ।। किञ्च चैतन्ये प्रतिफलनार्हत्वव्यापका-भावात् न प्रतिफलनार्हत्वमित्याह ।। अचाक्षुषस्येति ।।

ननु चाक्षुषत्वं न प्रतिबिम्बनार्हत्वे प्रयोजकम् । आकाशे चाक्षुषत्वाभावेऽपि प्रतिबिम्बनस्य दृष्टत्वेन व्यभिचारादिति चेन्न । पञ्चीकरणपक्षे आकाशस्यापि महत्त्व-समानाधिकरणोद्भूतरूपत्वेन चाक्षुषत्वसम्भवेन व्यभिचाराभावात् । आकाशे नीलिमोदेति इति श्रुतेः आकाशे नीलरूपमस्तीति पक्षे दोषाभावाच्च । यद्वाऽऽकाशसम्बन्धिमेघानां शुक्लादिरूपसम्पन्नानां प्रतिबिम्बनं तेषामाकाशाश्रितत्वादाकाशप्रतिबिम्बनम् । न च श्रुत्या चितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिरिति वाच्यम् । अयोग्यतानिश्चये श्रुत्या चितः प्रतिबिम्बासिद्धेः । अन्यथा श्रुत्या विशिष्टयोरैक्यसिद्धिः स्यात् । न चैवं प्रतिबिम्बश्रुतिरप्रमाणं स्यादिति वाच्यम् । तदधीनत्वे सति तत्सादृश्यार्थकत्वेन प्रामाण्योपपत्तेः । एतेन रसादिव्यावृत्तफलैकोन्नेयं प्रयोजकमित्यपास्तम् । त्वदभिमत-फलस्यासिद्धेः ।। प्रतिबिम्बत्व इति ।। न चोपाधिबिम्बसन्निधानयोरनादित्वात् न जीवस्य प्रतिबिम्बत्वेऽपि सादित्वमिति वाच्यम् । अज्ञानरूपोपाधेः कल्पितत्वेनानादि-त्वानुपपत्तेः । अनादित्वे च ब्रह्मवत् कल्पितत्वानुपपत्तेः । बिम्बसन्निधानस्यानादित्वे प्रमाणाभावाच्च । किञ्चाज्ञानस्य प्रतिबिम्बनोपाधित्वप्रयोजकाभावात् न प्रतिबिम्ब-नोपाधित्वमित्याह ।। सूर्यस्येति ।। न चाध्यस्तस्य स्फटिकलौहित्यस्य दर्पणे प्रतिबिम्बदर्शनात् न बिम्बसमसत्ताकत्वमुपाधित्वे प्रयोजकमिति वाच्यम् । बिम्ब-सत्ताऽन्यूनसत्ताकत्वस्य तत्रापि सत्त्वात् बिम्बसत्तान्यूनसत्ताकत्वस्यैवोपाधित्वविरोधि-त्वात् । किञ्च मन्मते स्फटिके न लौहित्याध्यासः । किन्तु प्रतिफलनम् । तथा च प्रतिमुखस्येव तस्य सत्यत्वात् बिम्बसत्तासमानसत्ताकत्वं तत्रापीति क्व व्यभिचारः । एतेन मरुमरीचिकाव्यावृत्तं स्वच्छत्वं फलैकोन्नेयमिति निरस्तम् । फलस्यैवासिद्धेः । अत एवाह अस्वच्छेति ।

।। अविद्याया इति ।। ननु किं सर्वात्मना चिदाभिमुख्याभावो वा न्यूनपरिमाणत्वं वा व्यवधानं वा ? नाद्यः । अविद्याया विभुत्वपक्षे सर्वात्मनापि सम्भवात् । न द्वितीयः । न्यूनपरिमाणस्यापि जलस्य प्रतिबिम्बोद्ग्राहकत्वदर्शनात् । न तृतीयः । चैतन्यस्य सर्वतोविप्रसृतत्वेन व्यवधानाभावादिति चेन्न । आभिमुख्यं सम्बन्धविशेषः । स च कार्यैकोन्नेयः । स च सम्बन्धविशेषः स्वाध्यस्ते न सम्भवति । न हि मुखाध्यस्ते दर्पणे मुखाभिमुख्यम् । अत एव मरुमरीचिकाध्यस्ते नाकाशादिप्रतिबिम्ब इति । न च प्रतिबिम्बप्रयोजकरूपविरोधिपरिणामस्य प्रतिबिम्बाविरोधित्वेन न प्रतिबिम्बापाय इति वाच्यम् । दर्पणादौ रूपान्तरपरिणामस्य प्रतिबिम्बप्रयोजकरूपप्रतिबिम्बविरोधित्वस्य दृष्टत्वेन रूपान्तरपरिणामस्य तदविरोधित्वासिद्धेः । किञ्चाविद्याया एकदेशेन परिणामः सर्वात्मना वा ? नाद्यः । अज्ञानस्यैकदेशासिद्धेः । न द्वितीयः । सर्वात्मना परिणामे प्रतिबिम्बानपाय इत्यस्यानुभवविरुद्धत्वात् ।। मुखेति ।। न चापरामृष्टभेदस्य मुखादे-र्मात्रार्थत्वेनानुगतधर्म्यतिरेकसम्भव इति वाच्यम् । व्यक्त्यभावे चोदिते तत्सत्त्वप्रतिपाद-नेनास्य व्यधिकरणत्वात् ।। अनादिभाव इति ।। न च विशेषव्याप्तिग्राहकसहचार-दर्शनस्य विवादविषयातिरिक्तेऽदर्शनेन विशेषव्याप्त्यसम्भव इति वाच्यम् । अज्ञानं ज्ञाननिवर्त्यमित्यत्रापि तथात्वाप्रसङ्गात् शुक्त्यज्ञानादौ सहचारस्य दृष्टत्वाच्च । उपपादि-तञ्चैतत् पूर्वमेव ।। बन्धस्येति ।। न चावच्छेद्यैक्यमादाय सामानाधिकरण्योपपत्तिरिति वाच्यम् । अवच्छेद्यभेदस्य प्रागेवोपपादितत्वात् ।। ब्रह्मणीति ।। अनतिप्रसक्त-स्यैवावच्छेदकत्वात् । अन्यथा प्रमेयत्वस्यापि तदापत्तेः । ननु चिन्मात्रस्थमज्ञानं जीवे संसारमापादयिष्यति, न चातिप्रसङ्गः । विशेष्यविशिष्टभावस्य तन्त्रत्वादित्यत्र प्रागुक्तयुक्तिं स्मारयति ।। चिदिति ।। निरस्तमिति ।। ब्रह्मण्यपि संसारापातादित्यादिनेत्यर्थः ।

एतावता बिम्बप्रतिबिम्बभाव उपाधेः प्रतिबिम्बपक्षपातित्वं च न सम्भवतीत्युक्त्वा इदानीं तु प्रतिबिम्बपक्षपातित्वं निर्वक्तुमप्यशक्यमित्याह ।। किञ्चेति ।। अत्र विकल्पद्वयं जपाकुसुमादौ दर्शनानुसारेण पक्षद्वयं पराभ्युपगमानुसारेण दर्पणाद्युपाधेस्तददर्शनादिति भावः ।। मालिन्यादेरिति ।। दर्पणादिकं मलिनमित्यादिवत् अज्ञानमज्ञातृ कर्तृ भोक्तृ इत्यादिप्रतीतेरभावादिति भावः ।। ज्ञानेति ।। ज्ञानजन्यसंस्काराणां क्रियाजन्य-संस्काराणां वेत्यर्थः । तेनातीन्द्रियाणामिति हेतुगर्भं विशेषणमुक्तमिति भावः । ननु मया तथाऽङ्गीक्रियत इत्यत आह ।। अविद्याया इति ।। तथाङ्गीकारेऽपसिद्धान्तः स्यादिति भावः ।। मुखस्थेति ।। उभयत्रोपाधिकार्याभ्युपगमे प्रतिबिम्बपक्षपातित्ववाचो रिक्तत्वं स्यादिति भावः । ननु उभयत्र अविद्याकार्याभ्युपगमे प्रतिबिम्बपक्षपातित्वमविद्याया युज्यते । जीवेऽतिशयेन कार्यकारित्वात् बिम्बे च तदभावात् । अतिशयविवक्षया तत्पक्षपातित्वोक्तिरिति चेन्न । जीवापेक्षयेश्वरे सर्वज्ञत्वसर्वेश्वरत्वसर्वशक्तित्वादीनां बहूनां धर्माणामविद्याकृतत्वेन तदपेक्षयातिशयस्य वक्तुं शक्यत्वात् । न हीश्वरेऽल्पा जीवे बहव इत्यत्र विनिगमकमस्ति । तस्मादतिशयविवक्षयापि न प्रतिबिम्बपक्षपातित्वमिति भावः । न च संसारस्य प्रवाहतोऽनादित्वेऽपि स्वरूपेण जन्यत्वात् उपाधिकृतत्वं भविष्यति इति वाच्यम् । ‘सा संसार’ इति त्वयाऽविद्याया एव संसारत्वेनाभ्युपगमात् तस्याश्च स्वरूपेणानादित्वात् नाविद्याकृतत्वमित्याशयात् । न च कर्तृत्वभोक्तृत्वादिकमेव संसार इति वाच्यम् । सुषुप्तौ मुक्तत्वापत्तेः । तस्मादविद्याया एव संसारत्वं वाच्यमिति ।। अदृष्टेरिति ।। तथा चादृष्टकल्पना स्यादिति भावः ।।

।। एवमिति ।। न च स्वनिष्ठधर्मप्रतिभासकत्वेनादर्शसाम्येन प्रतिबिम्बपक्षपातित्वं बुद्धेरिति वाच्यम् । किमिदमेव प्रतिबिम्बपक्षपातित्वमुतेदमुपचारे निमित्तम् ? नाद्यः । अस्याविद्यायामभावात् । जपाकुसुमे सत्त्वाच्च तत्रापि प्रतिबिम्बपक्षपातित्वव्यवहारः स्यात् । न चाविद्यायां भिन्नं तदिति वाच्यम् । नानार्थकल्पने मानाभावात् । न द्वितीयः । इष्टापत्तेः । माणवके सिंहत्वाभाववत् प्रतिबिम्बपक्षपातित्वाभावस्य त्वयैवा-भ्युपगमात् ।। नन्विति ।। तथा चाज्ञानं स्वाश्रय एव कार्यं जनयतीति व्याप्तिबाधादिकं नेति भावः । ननु तर्हि नित्यमुक्तत्वश्रुतिविरोध इत्यत आह ।। नित्येति ।। चिन्मात्रे सांसार इति बिम्बप्रतिबिम्बपक्षं समाश्रित्योच्यते अवच्छेद्यावच्छेदकभावं वा । नोभयथा-पीत्याह ।। घटेति ।। अस्येति ।। चिन्मात्रे एव संसार इत्यस्येत्यर्थः । ननु मया तृतीयः पक्षोऽङ्गीक्रियते इत्यत आह ।। बिम्बेति ।। न चेति ।। तथा च संसाराश्रयता-वच्छेदकतया संसारित्वं जीवस्येति युक्तैव श्रुतिव्यवस्थेति भावः ।। तन्मत इति ।। उपलक्षणमेतत् । वस्तुतो देहस्य दुःखित्वाभाववत् जीवस्य संसाराभावेन संसारित्वश्रुतेर्न तत्परत्वम् । जीवसिद्धौ तदवच्छेदेन चिन्मात्राश्रयताऽज्ञानरूपसंसारादेः । तत्सिद्धौ च

तत्सिद्धिरित्यन्योन्याश्रयता चेत्यपि द्रष्टव्यम् । न च बिम्बरूपब्रह्मभाव एव मुक्तिर्न चिन्मात्रभाव इति वाच्यम् । तस्य कल्पितत्वेन तद्भावस्य मोक्षत्वायोगात् । अत एव नित्यमुक्तत्वश्रुतिर्न तत्परेत्याह ।। नित्येति ।। सुरेश्वरवार्तिकानुसारेण शङ्कते ।। अथेति ।।

ननु ब्रह्मण एव संसाराङ्गीकारे नित्यमुक्तत्वश्रुतिविरोध इत्यत आह ।। नित्येति ।। यादृशेति ।। न च तात्विकबन्धाभावपरा नित्यमुक्तत्वश्रुतिरिति वाच्यम् । तस्या-भावेनाप्रसक्त्या कल्पितबन्धाभावपरत्वमेव वाच्यम् इत्याशयात् । न चासत्कारणत्ववत् परमतप्रसक्ततात्त्विकबन्धनिषेधपरत्वमस्त्विति वाच्यम् । तत्रेवात्र तद्धैक आहुरित्यादि-ज्ञापकाभावात् कल्पनायाश्च ब्रह्मण एव जीवत्वसिद्ध्यधीनत्वेनान्योन्याश्रयाच्च ।। अन्यथेति ।। तात्विकबन्धाभावपरत्व इत्यर्थः ।। असर्वज्ञत्वादिनेति ।। न च ब्रह्मण एव सर्वज्ञत्वम् । असर्वज्ञत्वेन विरोधात् । न च तात्त्विकातात्त्विकविषयत्वेनाविरोध इति वाच्यम् । एकस्यापि तात्त्विकत्वानङ्गीकारात् । अङ्गीकारे चापसिद्धान्तात् । एकमेवा-द्वितीयमित्यादिश्रुतिविरोधश्च । किञ्चायं पक्षो बहुजीववादे एकजीववादे वा ? नाद्य इत्याह ।। बह्विति ।। न द्वितीय इत्याह ।। एकेति ।। तयोरिति ।। जीवेश्वरयो-रित्यर्थः ।। स एव चेदिति ।। न चोपाधेः स्वनिर्वाहकत्वान्नोक्तदोष इति वाच्यम् । स्वनिर्वाहकत्वेन स्वस्मिन् स्वविशिष्टव्यवहारेऽपि स्वस्य स्वोत्पादकत्वं एकस्यैव पौर्वापर्याभावात् । न चाज्ञानमनादिरिति वाच्यम् । कल्पितत्वेन तदयोगस्य प्रागेवोक्तत्वात् । स्वस्यैव स्वाश्रयतावच्छेदकत्वे स्वस्कन्धारोहणे आत्माश्रयतादव-स्थ्याच्च ।। स्पष्टयिष्यते चैतदिति ।। न च स्वाभाविकस्यापि घटरूपतत्प्रागभाव-वन्निवृत्तिः किं न स्यादिति वाच्यम् । घटरूपस्यानादित्वाभावात् । प्रागभावस्य भावत्वाभावात् । अज्ञानस्य चोभयरूपत्वाङ्गीकारात् । घटरूपस्य च घटेन सहैव निवृत्तेश्च स्वभावमात्रनिबन्धनत्वरूपस्य स्वाभाविकत्वस्य रूपादावभावाच्च । न हि घटरूपं घटमात्रकारणकम् । कपालरूपादेरप्यपेक्षणात् । अज्ञानं चिन्मात्रनिबन्धनम् । अन्यस्याज्ञानकल्पिततत्प्रयोजकतानुपपत्तेः । एवञ्च चिन्मात्रनिबन्धनस्य तत्सत्वे निवृत्युपपत्तेरिति ।

न्यायामृतप्रकाशः

।। अविद्याश्रयश्चेति ।। परमत इति शेषः ।। अत्रेति ।। अज्ञानाश्रयः सुवच इत्याशयेनेत्यर्थः । चिन्मात्रं बिम्बप्रतिबिम्बभूतजीवब्रह्मानुस्यूतमुखमात्रस्थानीयं चिन्मात्रम् । ननु जीव एवाज्ञानाश्रयः किं न स्यादित्यत आह ।। तदन्यस्येति ।। चिन्मात्रान्यस्य जीवस्याज्ञानकल्पितत्वेनाज्ञानाश्रयत्वायोगात् । तथात्वेऽज्ञानसिद्धौ तत्कल्पितजीवसिद्धिः तत्सिद्धौ च तदाश्रिताज्ञानसिद्धिरित्यन्योन्याश्रय इत्यर्थः । जीवोऽज्ञानाश्रयो नेत्याह ।। पूर्वेति ।। तमसोऽज्ञानस्य । पश्चिमः कल्पितो जीवः । गोचरः विषयः । ननूभयानुस्यूत-चिन्मात्राश्रिताज्ञानस्य कथं प्रतिबिम्बे जीव एव संसारापादकत्वं बिम्बे तदनुस्यूतचिन्मात्रे वा तत्किं न स्यादित्यत आह ।। दर्पणस्येति ।। वक्ष्यमाणदूषणजातमेव कारिकया सङ्गृह्णाति ।। विरोधादिति ।। बाधादित्यत्रैव धर्मिमानेनेत्यस्य सम्बन्धः । तत्रादौ विरोधादित्युक्तं हेतुमुपपादयति ।। एकेति ।। विरोधस्फोरणायेदं विशेषणम् । चिन्मात्रस्यैवाज्ञानाश्रयत्वं वदता ज्ञानस्यैव तदाश्रयत्वमुक्तं स्यात् । चिन्मात्रस्यैव ज्ञानाश्रयत्वात् । तथा चैकविषययोर्ज्ञानाज्ञानयोर्विरुद्धत्वान्नाश्रयाश्रयिभावः सम्भवति । तथा चाज्ञानं ज्ञानाश्रितं न भवति तद्विरुद्धत्वात् यत् यद्विरुद्धं तत्तदाश्रितं न भवति यथा तमः प्रकाशाश्रितमिति सामान्यव्याप्तिमूलकानुमानमुक्तं भवति । नन्विदमयुक्तं घटतदत्यन्ताभावयोः परस्पर-विरुद्धत्वेन घटात्यन्ताभावे घटविरुद्धत्वे सत्यपि घटाश्रितत्वस्यैव सत्वात् । घटात्यन्ताभावो हि भूतलादाविव घटेऽप्यस्ति । अन्यथा घटे सत्वप्रसङ्गादित्यत उक्तम् ।। तमःप्रकाशयो-रिवेति ।। नात्र विरोधः परस्परविरहरूपो विवक्षितः किं नाम तमःप्रकाशयोरिव वध्यघातकभावरूप एव । अतो घटतदत्यन्ताभावयोर्वध्यघातकभावविरोधाभावात् न व्यभिचार इति भावः ।

ननु वध्यघातकभावरूपविरोधः स्वरूपासिद्धः चैतन्यरूपस्य ज्ञानस्याज्ञाननिवर्तकत्वा-नङ्गीकारादित्यत आह ।। न हीति ।। अज्ञानस्य चैतन्यरूपज्ञानानिवर्त्यत्वे तस्या-ज्ञानत्वमेव न स्यात् ज्ञाननिवर्त्यत्वस्यैवाज्ञानलक्षणत्वादिति भावः । नन्वज्ञानस्य चैतन्यरूपज्ञाननिवर्त्यत्वाभावेऽपि न तस्याज्ञानत्वाभावः । वृत्तिरूपज्ञाननिवर्त्यत्वेनापि अज्ञानलक्षणवत्तयाऽज्ञानत्वोपपत्तेरित्याशङ्क्य परिहरति ।। न चेति ।। वृत्तिज्ञानेति ।। अन्तःकरणवृत्तिरूपज्ञानेत्यर्थः ।। उपचारादिति ।। ज्ञा अवबोधन इति धातोर्भावव्युत्पत्त्या ज्ञप्तिरूपचैतन्य एव ज्ञानत्वं मुख्यं अन्तःकरणवृत्तौ तु ज्ञायते चैतन्यमनयेति करणव्युत्पत्त्या ज्ञानत्वमुपचरितमित्युक्तत्वादौपचारिकवृत्तिज्ञानविरोधिनो मुख्याज्ञानत्वमयुक्तं किन्त्वौप-चारिकाज्ञानत्वमेव स्यादित्यर्थः । किञ्च चैतन्यज्ञानत्वसिद्ध्यर्थमपि तस्याज्ञाननिवर्तकत्वं वाच्यम् । अन्यथा विमतं चैतन्यं न ज्ञानं अज्ञानाविरोधित्वाद्घटवदित्यनुमानेन तस्य ज्ञानत्वमेव न स्यादित्यत आह ।। अज्ञानेति ।। तथा चाज्ञानत्वसिद्ध्यर्थं चैतन्य-निवर्त्यत्वेऽङ्गीकार्ये नासिद्धिरित्याशयः । किञ्च ज्ञानस्याज्ञाननिवर्तकतया अनुभवसिद्धत्वाच्च तयोर्विराधोऽङ्गीकार्य इत्याह ।। ज्ञानेति ।। ज्ञातुरर्थप्रकाशात्मकज्ञानस्यार्थाप्रकाशात्मक-ज्ञाननिवर्तकत्वमनुभवसिद्धमित्यर्थः ।

ननु चैतन्यं न ज्ञानं अज्ञानाविरोधित्वादित्यत्राप्रयोजकता । न चाज्ञानाविरोधित्वे ज्ञानत्वमेव न स्यादिति वाच्यम् । हानोपादानादिव्यवहारहेतुत्वेन तदुपपत्तेरित्याशङ्क्य निराकरोति ।। न चेति ।। अज्ञानेति ।। साक्षादिति शेषः ।। तद्धेतुत्वेति ।। व्यवहारहेतुत्वेत्यर्थः । तथा च ज्ञानेनाज्ञाननिवृत्त्यनन्तरमेव विषये व्यवहारस्यानुभव-सिद्धत्वात् । अन्यथा तद्विरोधान्नाप्रयोजकतेति भावः । दूषणान्तरदानायासिद्धिमेव पुनरा-शङ्क्य निराकरोति ।। न चेति ।। बुद्धिरन्तःकरणवृत्तिः । कथं तर्ह्यज्ञाने ज्ञाननिवर्त्यत्व-लक्षणयोग इत्यत आह ।। ज्ञानकरणविरोध्येवेति ।। न तु ज्ञप्तीति ।। चैतन्यं तु ज्ञप्तिरूपं, अतो नाज्ञानस्य तद्विरोधिज्ञाननिवर्त्यत्वसिद्धिरिति भावः । करणविरोधित्वेना-ननुभूयमानस्य ज्ञप्तिविरोधित्वेनैवानुभूयमानस्याज्ञानस्य दुरपह्नवत्वान्नासिद्धिरित्याशयेनाह ।। न जानामीति ।। ज्ञाधात्वर्थभूतज्ञप्तिविरोध एव नञा प्रतीयत इत्यर्थः । तथा च ज्ञान-करणविरोधिन एवाज्ञानत्वे ज्ञप्तिविरोधित्वेनानुभूयमानस्याज्ञानान्तरत्वं स्यादित्यर्थः । अज्ञानस्य ज्ञप्तिरूपज्ञानविरोधमनङ्गीकृत्य चैतन्यस्याज्ञाननिवर्तकत्वानङ्गीकारे सुखादावज्ञान-निवर्त्तकस्यान्यस्यान्तःकरणवृत्तिरूपकरणस्याभावात्तत्राज्ञानानुभवः स्यादित्याह ।। साक्षिवेद्य इति ।। तस्माच्चैतन्यस्यैवाज्ञानविरोधित्वेऽङ्गीकार्ये नासिद्धिरित्याशयः ।

यदुक्तं विरुद्धत्वेनाश्रयाश्रयिभावायोग इति, तदयुक्तं, विरोधस्तदा स्याद्यदि ज्ञानाज्ञानयो-स्समसत्ताकत्वं स्यात् । न चैवं चैतन्यरूपज्ञानस्य सत्यत्वात् तदाश्रिताज्ञानस्य मिथ्या-त्वात् । मिथ्याभूतं प्रति सत्यस्याश्रयतायाः सौरप्रकाशदिवाभीतान्धकारयोर्दर्शनेन विरोधा-भावाद्युक्त एवाश्रयाश्रयिभाव इत्याशङ्क्य निराकरोति ।। न चेति ।। दिवाभीतः पेचकः । दिवाभीतः सौरालोकेऽन्धकारमारोपयति स चान्धकारो मिथ्याभूतः सत्यभूतसौरप्रकाशाश्रित इत्यर्थः । यदि दृष्टान्ते श्रद्धा तर्हि सौरप्रकाशस्य मिथ्याभूतदिवाभीतान्धकारेण विरोधा-भावेऽपि लोकसिद्धविरोधघटनाय सौरप्रकाशसमसत्ताकं तद्विरुद्धान्धकाररूपं तमोऽन्तरमेवा-स्तीति मिथ्याभूतेनान्धकारेणाविरोधः कल्प्यते एवमिहापि यदि चैतन्यप्रकाशविरुद्धं तत्सम-सत्ताकं अज्ञानान्तरं स्यात्तदाऽतात्विकाज्ञानेनाविरोधः कल्प्यः स्यान्न चैवमस्ति चैतन्य-प्रकाशविरुद्धतत्समसत्ताकाज्ञानान्तराभावात् । अतो लोकानुभवसिद्धविरोधघटनायातात्विका-ज्ञानेनैव विरोधे वाच्ये विरुद्धत्वान्नाश्रयाश्रयिभावो युक्त इत्युक्तं युक्तमेवेत्याह ।। सौरे-त्यादिना ।। अज्ञानान्तरस्येति ।। तत्सत्यत्वे तदेव सत्यभूतमज्ञानं जगत्कारणमस्तु किं मिथ्याभूततत्कल्पनयेति भावः ।। अन्यथेति ।। भिन्नसत्ताकयोरविरोधमङ्गीकृत्याश्रयाश्रयि-भावाङ्गीकार इत्यर्थः । आत्मनश्चैतन्यस्याधर्मिमानेन बाधादिति द्वितीयहेतुमुपपादयति ।। किञ्चेति ।।

।। साक्षिबाध इति ।। अहमर्थाश्रयत्वेन ग्राहकसाक्षिणा बाधान्नाज्ञानं शुद्धचिद्गत-मित्यर्थः । धर्मिग्राहकमानस्याप्रमाणस्य भ्रान्तित्वान्न तद्बाधः शुद्धचिदज्ञानवादस्य । तथाहि । आत्मनि स्थौल्याभावेऽपि वस्तुतः स्थौल्याश्रयेण देहेनैक्यस्यात्मन्यध्यासाख्य-निमित्तसद्भावमङ्गीकृत्याहं स्थूल इति प्रतीतेर्भ्रमत्वमङ्गीकार्यम् । एवं वस्तुतोऽहङ्कारस्या-ज्ञानाश्रयत्वाभावेऽपि वास्तवतदाश्रयचिदैक्यस्याहङ्कारेऽध्यासादहमज्ञ इति प्रतीतिर्भ्रमरूपैव । यथा वा वस्तुतः केवलायसो दाहकत्वाभावेऽपि दग्धृत्वस्यायसश्चैकाग्निसम्बन्धेन निमित्तेन अयो दहतीति प्रतीतेर्भ्रान्तित्वं तद्वत् अहमर्थस्यापि वस्तुतोऽज्ञानाश्रयत्वाभावेऽपि अज्ञाना-हङ्कारयोरेकचिदध्यस्तत्वान्निमित्ताद्वा अहमज्ञ इति प्रतीतेर्भ्रातित्वमेवातो न तद्बाध इत्याशङ्क्य निराकरोति ।। न चेति ।। असिद्ध्येति ।। अहमज्ञ इति धर्मिग्राहकमानाभावे अज्ञानस्य चैतन्याश्रितत्वसिद्धिः तत्सिद्धौ चाहमज्ञ इत्यस्यायो दहतीतिवत् गौणत्वेनाप्युपपन्नस्य चैतन्याश्रिताज्ञानकल्पनायामसाधकत्वसिद्धिरित्यर्थः । किञ्चाहमज्ञ इत्यज्ञानग्राहकमानस्य साक्षिरूपत्वान्न भ्रान्तित्वं युक्तं भ्रान्तेर्दोषजन्यत्वनियमात् नित्यज्ञानस्य साक्षिणस्तदभावेन भ्रान्तित्वायोगादित्याह ।। दोषेति ।। तथा चाहमज्ञ इति साक्षिरूपं ज्ञानं न भ्रान्तिः दोषाजन्यत्वाद्व्यतिरेकेण संमतभ्रमवदित्यनुमानमुक्तं भवति ।

ननु अहमर्थाश्रितत्वेनाज्ञानग्राहकसाक्षिरूपज्ञानं दोषजन्यं बाधयुक्तत्वादित्येवं बाधकेन दोषजन्यत्वस्याप्यनुमानात्स्वरूपासिद्धो हेतुरित्यत आह ।। बाधकेति ।। वस्तुतः साक्षि-ज्ञाने बाधकाभावाद्बाधकाभिमतस्येत्युक्तम् । बाधकज्ञानं हि अज्ञानरूपे धर्मिणि अहमर्था-नाश्रितत्वग्राहीति वक्तव्यम् । तत्र धर्मिज्ञानाभावे तदनुत्पत्तेर्धर्मिज्ञानेन भाव्यम् । धर्मिग्राहकं च प्रमाणमहमज्ञ इति साक्षिरूपमेव । तेन चाहमाश्रितत्वेनैवाज्ञानं सिद्धमित्येवं बाधकत्वेन त्वदभिमतस्यैव धर्मिग्राहकैतत्प्रमाणबाधितत्वेन धर्मिग्राहकस्यैतस्याहमज्ञ इति प्रमाणस्य बाधकाभावेन दोषजन्यत्वानुमानायोगादभ्रान्तित्वबाधकस्य दोषाजन्यत्वस्य स्वरूपासिद्ध्य-भावादित्यर्थः ।

नन्वहमज्ञ इति धीर्नाज्ञाने साक्षात्सम्बन्धेनाहङ्काराश्रितत्वं विषयीकरोति । कुत एतदिति चेत्, अहङ्कारभिन्नचैतन्य एवाज्ञानस्य साक्षात्सम्बन्धग्राहकमानबाधितत्वादतो न विरोध इत्यत आह ।। मिथ्यारूप्येति ।। यत्र यतस्सम्बन्धो गृह्यते स एव तत्र साक्षात्सम्बन्ध इति नाहङ्कारभिन्ने चैतन्येऽज्ञानस्य साक्षात्सम्बन्धसिद्धिरिति न तद्ग्राहकमानबाध इत्याहुः । अत्र मिथ्यारूप्येति अध्यस्ताज्ञानेति च पदास्वारस्यम् । वस्तुतस्तु दग्धृत्वायसोरेकाग्नि-सम्बन्धादयो दहतीतिवदत्रापि अज्ञानाहङ्कारयोरेकचिदध्यासादहमज्ञ इति प्रतीतिर्भ्रान्ति-रित्युक्तमित्याह ।। मिथ्येति ।। दृष्टान्ते सम्भवति अयो दहतीति प्रतीत्यपेक्षया पूर्वं दग्धृत्वायसोरेकाग्निसम्बन्धरूपनिमित्तस्य सिद्धत्वात् । न चैवं प्रकृते सम्भवति । यथा इदं रजतमिति ज्ञाने इदमंशः प्रतीयते तथा रूप्येदमंशसम्बन्धोऽपि प्रतीयते इदमंशः पूर्वसिद्ध एवात्र प्रतीयते न तु रूप्येदमंशसम्बन्धः पूर्वसिद्धः रूप्यस्य मिथ्यात्वेन एतज्ज्ञानात्पूर्वं सम्बन्धस्याऽसत्वात् । अतो मिथ्याभूतरूप्यग्राहकेणेदंरजतमिति ज्ञानेनैव सम्बन्धः प्रतीयते एवमहमज्ञ इति भ्रान्तिनिमित्तभूतो योऽहङ्काराज्ञानयोरेकचित्सम्बन्धः सः अहमज्ञ इति प्रतीत्यपेक्षया पूर्वं न सिद्धः । रूप्येदमंशसम्बन्धवत्कल्पितत्वात् । अतोऽहमज्ञ इति प्रतीत्यैव सिद्ध इति वाच्यम् । अहमर्थस्याहङ्कारचिदुभयसंवलनरूपत्वात् तत्र चाज्ञान-सम्बन्धस्य चानयैव भ्रान्त्या प्रतीतेः । अतोऽज्ञानाहङ्कारयोरेकचित्सम्बन्धस्यानयैव प्रतीत्या कल्पितत्वान्न तन्निमित्तत्वमित्यर्थः ।

नन्वहमज्ञ इति प्रत्यक्षेणाहङ्कारस्याज्ञानाश्रयत्वप्रतीतेस्तद्विरोध इत्युक्तम् । अहङ्कार-स्याज्ञानकल्पितस्याज्ञानाश्रयत्वेऽन्योन्याश्रयादित्यत आह ।। अज्ञानेति ।। अकल्पितोऽ-ज्ञानाकल्पितः । तथा च नान्योन्याश्रय इति भावः । अस्तु वाऽज्ञानकल्पितः तथापि नान्योन्याश्रयः अविद्यायां दौर्घट्यस्य भूषणत्वादित्याह ।। अविद्यायामिति ।। श्रुतिविरोधत इत्युक्तहेतुमुपपादयति ।। किञ्चेति ।। मौर्ख्यं मूर्खत्वम् । ननु ‘‘निरवद्य’’ इत्यादौ निर्दोषत्वमेवोच्यते न त्वज्ञानराहित्यं अतः कथं श्रुतिविरोध इत्यत आह ।। न हीति ।। मोहं भ्रान्तिम् । श्रुतिविरोधः चिद्रूपस्य ब्रह्मणोऽज्ञानाश्रयत्वाभावप्रतिपादकश्रुतिविरोध इत्यर्थः । येन तद्राहित्यमत्र नोच्यत इति शङ्का स्यात् । अतो निरवद्य इत्यनेनैव मौढ्यापरपर्याया-ज्ञत्वरूपदोषाभावोऽप्युक्त एवेति भावः । किञ्च नित्यमुक्त इत्यनेनापि अज्ञानराहित्यमुच्यते तत्कथमिति चेत् बन्धकीभूताज्ञानाश्रयस्य नित्यमुक्तत्वायोगादेवेत्याह ।। नापीति ।। निषेध इति ।। मया त्वज्ञानरूपमवद्यमतात्विकमेव ब्रह्म चैतन्यस्याङ्गीक्रियते । अतो न श्रुतिविरोध इत्यर्थः ।। तस्येति ।। तात्विकावद्यस्येत्यर्थः । ततश्चाप्रसक्तप्रतिपत्तिदोष इति भावः ।। जीवेऽपीति ।। ब्रह्मवज्जीवेऽपि तात्विकाविद्यादेरभावात् । कुत इति चेत् मिथ्यात्वाङ्गीकारात् । अतो जीवब्रह्मणोस्तात्विकावद्याभावेन साम्यादिति भावः । मोहशब्दो नाज्ञानपर इत्यङ्गीकृत्य निरवद्यपदेनैवाज्ञानं निषिद्धमित्युक्तम् । वस्तुतस्तु मोहशब्देनैवा-ज्ञानस्य निषिद्धत्वान्न चिन्मात्रे तत्सम्भवः । न च पारमार्थिकमोहनिषेधपरा श्रुतिः व्यावहारिको मोहस्त्वस्त्येवेति चेत्तत्राह ।। मुक्तीति ।। मोक्षकालीनेत्यर्थः । मोहवच्छोकादिकमकपि जीव इव व्यावहारिकं चिन्मात्रेऽप्यङ्गीकार्यं श्रुतौ शोकनिषेधस्य पारमार्थिकशोकादिनिषेधपरत्वसम्भवादिति भावः ।। तत्कार्येति ।। अज्ञानकार्यशोकादिपर एव न त्वज्ञानपरः । तथा च न श्रुतौ तन्निषेधलाभ इति न श्रुतिविरोध इत्याशयः ।। मुख्यार्थेति ।। अज्ञानरूपमोहशब्दमुख्यार्थेत्यर्थः ।। पृथगिति ।। तथा च पुनरुक्तिरिति भावः । इयं श्रुतिः अज्ञानाभावप्रतिपादिका श्रुतिः । न तु चिन्मात्रपरेत्यर्थः । तथा चानु-स्यूतचिन्मात्रेऽज्ञानाङ्गीकारे न श्रुतिविरोध इत्याशयः ।। जीवेऽपीति ।। बिम्बित-ब्रह्मणीत्यर्थः ।

ननु चिन्मात्रे ज्ञानप्रतिपादकश्रुतेः जीवेऽज्ञानप्रतिपादिकाया ज्ञाज्ञावित्यादिश्रुतेर्गौणार्थत्वं कल्प्यत इत्यत आह ।। न चेति ।। येन जीवाज्ञत्वश्रुतिर्गौणी स्यादिति भावः । जीव-स्येति व्यतिरेकदृष्टान्तः । भ्रान्त्यैकाधिकरण्याच्चेत्युक्तहेतुमुपपादयति ।। किञ्च शुक्ती-त्यादिना ।। यथा शुक्त्यज्ञानं स्वकार्यभ्रान्तिस्वनिवर्तकज्ञानज्ञानप्रागभावसमानाधिकरणं एवमेवेदमप्यज्ञानं ज्ञात्रात्मनिष्ठं जीवनिष्ठमेव वक्तव्यं न तु ज्ञानमात्राश्रितम् ।। उक्तं हीति ।। अज्ञानभ्रान्तिसम्यग्ज्ञानानामेकाश्रयत्वमित्यर्थः । ननु भ्रान्त्यज्ञानयोर्ज्ञात्रात्मनिष्ठत्वेन सामानाधिकरण्यमेव । न च ज्ञानरूपस्य चैतन्यस्य ज्ञातृत्वायोग इति वाच्यम् । बुद्धिगत-ज्ञातृत्वाध्यासस्य चिन्मात्रे सत्वादित्याशङ्कते ।। चिन्मात्रेऽपीति ।। तस्येति ।। ज्ञातृत्वाध्यासस्याविद्याकार्यत्वादित्यर्थः ।। अन्योन्येति ।। चिन्मात्रेऽज्ञानसिद्धौ तत्कार्य-ज्ञातृत्वाध्याससिद्धिः तत्सिद्धौ च ज्ञानाज्ञानयोर्वैयधिकरण्यरूपबाधकपरिहारसिद्ध्या चिन्मात्रेऽज्ञानसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।। चैतन्य इति ।। कर्तृत्वभोक्तृत्वयोरैकाधि-करण्यनियमाच्चैतन्ये बुद्धिगतभोक्तृत्वाध्याससिद्ध्यर्थं तत्र बुद्धिगतकर्त्तृत्वस्याप्यध्यासो यथाऽङ्गीक्रियते तथा ज्ञातृत्वाज्ञानाश्रयत्वयोरपि ऐकाधिकरण्यनियमाच्चैतन्ये बुद्धिगतज्ञातृत्व-स्याध्याससिद्ध्यर्थं बुद्धिगतमेवाज्ञानमध्यस्यतामिति बुद्धिरेवाज्ञानाश्रयः स्यादित्यर्थः । यथोक्तं विवरणे अकर्त्तुर्भोगाभावात् भोक्तृत्वाध्यासः कर्त्तृत्वाध्यासमपेक्षत इति ।। देहादाविति ।। तथा च तत्राप्यज्ञानाध्यासः स्यादिति भावः । किञ्च चिन्मात्रे ज्ञातृत्वाध्यासोऽस्तीत्ये-तदयुक्तमित्याह ।। बुद्ध्यवच्छिन्न एवेति ।। जीव एवेत्यर्थः । बुद्ध्यवच्छिन्नचैतन्यस्य ज्ञातृत्वादिति भावः । धर्माणां बुद्धिधर्माणाम् । तयोस्सम्बन्धसद्भावादित्यर्थः । तदभावा-ज्ज्ञातृत्वाध्यासाभावात् ।

ननु बुद्धिधर्माणां ज्ञातृत्वादीनां न तदवच्छिन्नचैतन्येऽध्यासः किन्तु चैतन्यमात्र एव । अतो युक्तं तस्य ज्ञातृत्वमित्यत आह ।। तेषामिति ।। जीवेति ।। आरोपितज्ञातृ-त्वादिमतः चैतन्यस्यैव त्वन्मते जीवत्वेन तत्राज्ञानाङ्गीकारे जीवाज्ञानमतापत्त्या उभयानुस्यूत- चिन्मात्राश्रितत्वमतं त्यक्तं स्यात्तथा चापसिद्धान्त इति भावः । नन्वज्ञानं न ज्ञातृनिष्ठं शुक्त्यज्ञानस्य शुक्त्यवच्छिन्नचैतन्यगतत्वेन ज्ञातृनिष्ठत्वाभावादित्याशङ्क्य निराकरोति ।। न चेति ।। कुतो न चेत्यत उक्तम् ।। अहमिति ।। यथा ज्ञानेच्छयोर्ज्ञातृस्थत्वमनुभूयते एवं न शुक्तिं जानामीति ज्ञातृस्थत्वस्यैवानुभवादित्यर्थः । संसारतत्वज्ञानाभ्यामज्ञानस्य सामानाधिकरण्यदर्शनाच्चैतन्येऽज्ञानाङ्गीकारे संसारतत्वज्ञाने अपि चैतन्ये स्यातामित्येतदयुक्तं विशेष्यभूतचिन्मात्रस्थमप्यज्ञानं विशिष्टे जीव एव संसारहेतुः तथा विशिष्टो जीवो यस्तस्य या तत्वधीस्तद्विरुद्धं च भवति । न चान्यगताज्ञानस्यान्यत्र संसारहेतुत्वे घटादावपि तद्धेतुत्वापत्तिरित्यतिप्रसङ्ग इति वाच्यम् । विशेष्यविशिष्टभावस्य नियामकत्वादित्याशङ्क्य निराकरोति ।। न चेति ।। विशिष्टे ब्रह्मण्यपीति ।। बिम्बभूत इत्यर्थः । विशिष्ट-विशेष्यभावरूपस्य संसारनियामकस्य बिम्बे ब्रह्मण्यपि सत्वादिति भावः । विशेष्यनिष्ठेन कारणेन विशिष्टे कार्यजननेऽतिप्रसङ्गमाह ।। देहं प्रतीति ।। अहङ्कारादिसन्निधानयुतो हि देहः । तथा च देहं प्रति विशेष्यो योऽहङ्कारस्तस्मिन्कर्त्तृत्वस्य त्वयाऽङ्गीकारात् अहङ्कार-विशिष्टे देहेऽपि तत्कार्यं भोक्तृत्वं स्यात् अकर्त्तृर्भोगाभावेन भोक्तृत्वे कर्त्तृत्वस्य प्रयोजक-त्वात् । अहङ्कारदेहयोर्विशेषणविशेष्यभावस्य नियामकस्य सत्वादित्यर्थः । देहविशिष्टे देहरूपे विशिष्ट इत्यर्थः । विशेष्यस्थाज्ञानस्य विशिष्टे संसारापादकत्वे चिन्मात्रे नित्यमुक्तत्व-सद्भावात्तस्य विशिष्टे संसारविरोधित्वमपि स्यात् त्वदुक्तनियामकस्य सत्वादित्यतिप्रसङ्ग इत्याह ।। विशेष्यस्थेति ।। एतेनेति ।। विशेष्यस्थमप्यज्ञानं विशिष्ठजीव एव संसारहेतुः । न चातिप्रसङ्गः । विशेष्यविशिष्टयोरध्यस्तैक्यस्य तन्त्रस्य सत्वादिति यत्तदप्ये-तेनैव निरस्तम् । विशेषणविशिष्टयोरध्यस्तैक्यरूपस्य संसारप्राप्तिनियामकस्य विशिष्टे बिम्बभूते ब्रह्मण्यसंसारापातादित्यर्थः । चैतन्यमात्रसम्बन्धिनोऽप्यज्ञानस्य विशिष्टे ब्रह्मणि बिम्बे न संसारापादकत्वं किन्तु जीव एव उपाधेः प्रतिबिम्बपक्षपातित्वस्वाभाव्यादित्याशङ्क्य निराकरोति ।। न चेति ।। किमुपाधेः प्रतिबिम्बपक्षपातित्वस्वाभाव्यकल्पनया चिन्मात्र एव संसारोऽङ्गीक्रियताम् । ननु तर्हि चैतन्यस्य नित्यमुक्तत्वश्रुतिविरोध इति चेन्न । चिन्मात्रेऽज्ञानाङ्गीकारेऽपि यः सर्वज्ञ इत्यादिश्रुतिविरोधसाम्यात् ततश्चार्धजरतीयप्रक्रियानु-पपत्तिरित्याह ।। श्रुत्यादीति ।। तथा चोपाधेः प्रतिबिम्बपक्षपातित्वं न सम्भवतीति भावः ।

इतोऽपि न सम्भवतीत्याह ।। प्रतिबिम्बस्येति ।। स्यादेवं यदि चिन्मात्रजीवयो-र्विशेष्यविशिष्टभावः स्यात् तर्ह्येवास्मान्नियामकादुपाधेः प्रतिबिम्बे जीव एव संसारापादकत्वं स्यात् । न चैवम् । जीवेशयोरत्यन्तभेदेन प्रतिबिम्बस्य जीवस्य च्छायादिवद्वस्त्वन्तरत्वात् पृथक्पदार्थत्वात् विशिष्टविशेष्यभाव एवायुक्तः । तथा चोपाधेः प्रतिबिम्बपक्षपातित्व-मयुक्तम् । किञ्च चैतन्यस्य प्रतिबिम्बनं तदैव युक्तं स्यात् यदि तच्चाक्षुषं स्यात् । न चैवं अचाक्षुषत्वात् अचाक्षुषस्य गन्धरसादेः प्रतिबिम्बनादर्शनात् चाक्षुषस्यैव मुखादेर्लोहितरूपस्य चादर्शे स्फटिके प्रतिबिम्बनदर्शनादित्याह ।। अचाक्षुषस्येति ।। नन्वचाक्षुषस्याप्याकाशस्य जले प्रतिबिम्बनं दृष्टमिति चेन्न । तत्र प्रभामण्डलस्यैव प्रतिबिम्बनादित्युक्तत्वात् ।। प्रतिबिम्बत्व इति ।। प्रतिबिम्बस्योपाधिपरिणामत्वादिति भावः । अस्मद्रीत्येदं दूषणम् । अज्ञानस्य प्रतिबिम्बनोपाधित्वं च न सम्भवतीत्याह ।। सूर्यस्येति ।। लोके यत्प्रतिफलति तत्समानसत्ताकस्यैवोपाधित्वं दृष्टं सूर्यप्रतिफलनोपाधेर्जलस्य सूर्यसमसत्ताकत्वदर्शनात् ।

ननु न दर्शनमात्रं प्रयोजकमिति चेन्न । मरुमरीचिकाजलेषु प्रातिभासिकेषु सूर्यसम-सत्ताकत्वाभावेन तत्र प्रतिफलनाभावात् । एवं प्रकृतेऽज्ञानस्य चिदसमसत्ताकत्वेन चितं प्रत्युपाधित्वायोगादित्यर्थः । प्रतिबिम्बनोपाधित्वप्रयोजकस्य स्वच्छद्रव्यत्वस्याज्ञानेऽभावेना-ज्ञानं न प्रतिबिम्बनोपाधिरित्याह ।। अस्वच्छेति ।। अन्यथा पाषाणादावपि प्रतिफलन-प्रसङ्गादिति भावः ।। चिन्मात्रेति ।। दर्पणाद्युपाधेर्बिम्बाभिमुख्यदर्शनादिह चैतन्याविद्ययोरु-भयोरपि सर्वगतत्वेनापरिच्छिन्नतयाऽविद्यायाश्चिन्मात्रं प्रति प्राच्यत्वरूपस्य चितश्चाविद्यां प्रति प्रतीचीनत्वरूपस्य चाभिमुख्यस्याभावाच्च न प्रातीतिकबिम्बनोपाधित्वमविद्याया इत्यर्थः ।

।। उपाधेरिति ।। जलाद्युपाधेर्नाशेन कर्दमात्मना परिणामे तत्रत्यप्रतिबिम्बापायो दृष्टः । एवं जीवरूपप्रतिबिम्बात्मना परिणतस्याज्ञानस्यापरिच्छिन्नाकाशादिपरिणामार्थं सर्वेषामप्यविद्यांशानां विकृतत्वादाकाशाद्यात्मनाऽविद्यापरिणामे जीवाख्यप्रतिबिम्बापायापत्त्या न प्रतिबिम्बपक्षपातितावचनं युक्तमित्यर्थः । किं चादावुपाधिर्मुखमात्रं सम्बद्ध्य प्रतिबिम्बं सम्पाद्य तत्पक्षपाती भवतीति वक्तव्यम् । मुखप्रतिमुखानुगतं मुखत्वसामान्यं तार्किक-रीत्याऽस्ति तदतिरिक्तं मुखमात्रं व्यक्त्यन्तरमुपाधियोग्यं अप्रामाणिकमेवं प्रकृतेऽपीत्याह ।। मुखेति ।। दर्पणादिसम्बन्धात्पूर्वकालीनं मुखमात्रम् ।। स्वाश्रय एवेति ।। अज्ञानं उपाधिविशेषभूतं चिन्मात्र एवेत्यर्थः ।। बन्धस्येति ।। सुखदुःखादिरूपबन्धस्येत्यर्थः । बन्धमोक्षयोः सामानाधिकरण्यनियमात् मोक्षस्य चिन्मात्रगतत्वेनाज्ञानकार्यसुखदुःखादि-रूपबन्धस्यापि चिन्मात्राश्रितत्वापत्त्या न प्रतिबिम्बपक्षपातित्वमुपाधेरित्यर्थः ।। व्यक्त्यन्त-रेति ।। जीवब्रह्मानुस्यूतचिन्मात्ररूपव्यक्त्यन्तरेत्यर्थः ।

ननु चिदाश्रितत्वोक्तिविरोध इत्यत आह ।। चिदिति ।। चित्त्वस्येति ।। जीवेऽज्ञानाधिकरणत्वसद्भावेऽपि तत्राज्ञानाधिकरणतावच्छेदकं न जीवत्वं किन्तु चित्त्वमेव । एवं च चित्त्वावच्छेदेनैव जीवेऽज्ञानमस्तीत्यभिप्रेत्याज्ञानस्य चिदाश्रितत्वोक्तिरित्यर्थः । यथाकथञ्चिच्चित्त्वावच्छेदेनापि जीव एवाज्ञानमङ्गीकृतं तथा चाज्ञानकल्पितत्वेनाज्ञान-सिद्ध्युत्तरकालीनत्वादज्ञानाश्रयत्वायोगः तथात्वेऽन्योन्याश्रयादिकं स्यादिति वक्ष्यत इत्याह ।। अन्योन्येति ।। ब्रह्मणीति ।। बिम्ब इत्यर्थः । अज्ञानाधिकरणता यत्र नास्ति तत्रापि चित्त्वस्य सत्वेनाधिकवृत्तित्वान्न चित्त्वमज्ञानाधिकरणतावच्छेदकम् । एवं च चित्त्वावच्छेदेन जीव इव ब्रह्मण्यपि संसारापात इति भावः ।

ननु न ब्रह्मण्यपि संसारापातः विशेष्यभूतचिन्मात्राश्रिताज्ञाने विशिष्टे जीव एव संसाराङ्गीकारात् विशेष्यविशिष्टभावस्य नियामकस्य सत्त्वादित्यत आह ।। चिन्मात्रेति ।। देहं प्रति विशेष्याहङ्कारस्थकर्तृत्वेन देहविशिष्टे भोक्तृत्वापाताच्चेत्यतिप्रसङ्गेन निरस्तमित्याहुः । जीवाश्रितमज्ञानमिति पक्षदूषणावसरे चिन्मात्रस्थाज्ञानेन विशिष्टे संसार इति शङ्काया एवा-नुदयादिति यत्किञ्चिदेतत् । वस्तुतस्तु यदुक्तं बन्धस्य चिन्मात्राश्रितमोक्षसामानाधि करण्य-नियमादिति । तदयुक्तम् । मोक्षस्य चिन्मात्राश्रितत्वेऽपि तदाश्रिताज्ञानेन दुःखादिरूपो बन्धो जीवेऽङ्गीक्रियते विशेष्यविशिष्टभावस्य नियामकत्वादित्येतदप्येतेनैव निरस्तम् । ब्रह्मणि बिम्बेऽपि संसारापातात् त्वदीयनियामकस्य सत्वात् । तस्मादुपाधेः प्रतिबिम्बपक्षपातिता-नियमोऽयुक्त एवेत्याशयेनाह ।। चिन्मात्रेति ।। प्रतिबिम्बं प्रतीति ।। जीवं प्रति प्रतिबिम्बे प्रतीयमानानां सुषुप्त्याद्यनुगतानां तदनुवृत्तानां च धर्माणां प्रतिमुखगतमालिन्यादे-र्दर्पणादिनिष्ठत्ववदज्ञाननिष्ठत्वाभावादित्याह ।। मालिन्यादेरित्यादिना ।। अविद्यादित्रयं जीवनिष्ठम् । अविद्यायां त्वात्माश्रयान्न युक्तमिति भावः । किं चोपाधावज्ञाने प्रतीयमानानां च धर्माणां न जीवनिष्ठत्वमित्याह ।। ज्ञानेति ।। ज्ञानं च क्रिया च ज्ञानक्रिये तदुभय-जन्यसंस्काराणामित्यर्थः । सर्ववस्तूनामपि वासनाः सन्त्येवेत्यावयोर्मतम् । अत एवाविद्या-संस्कारात्प्रवृत्तिरित्यादित्वदीयो व्यवहारः । अस्मन्मतेऽपि ‘‘वासनाः सर्ववस्तूना’’मिति भगवत्पादोक्तेः । क्रियाजन्यः संस्कारोऽप्यस्त्येव न ज्ञानजन्य एवेति नियमः । इयांस्तु विशेषः । ते संस्कारास्तव मतेऽविद्यानिष्ठाः अस्मन्मते तु अनादिमनोनिष्ठा इति । यथोक्तं ‘‘अनादिमनोगता’’ इति । अन्ये त्विमं सिद्धान्तमजानानाः ज्ञानरूपा या क्रिया धात्वर्थ-रूपा तज्जन्यसंस्काराणां भावनारूपसंस्काराणामिति व्याचक्षते । अप्रतीतौ निमित्तं नित्यातीन्द्रियाणामिति । आत्मनि प्रतिबिम्बे जीवे ।

नन्वज्ञानस्य जीवे यावत्स्वनिष्ठधर्मप्रतिभासकत्वाभावेऽपि स्वनिष्ठो यो भावरूपो धर्मस्त-त्प्रतिभासकत्वं जीवेऽस्तीति तत्राह ।। अविद्येति ।। बन्धिका बन्धकारणीभूता । भाव-व्युत्पत्त्या बन्धो न तु कर्मव्युत्पत्त्या बद्धेत्यर्थः । तथा चाविद्याया बन्धकारणीभूताया अस्तमयो मोक्षः साऽविद्या संसारः बन्ध इत्युच्यत इत्यर्थो द्रष्टव्यः ।। विच्छेदादेरिति ।। जीवब्रह्मणोरज्ञानोपाधिना बिम्बप्रतिबिम्बभाव इति केषाञ्चित्पक्षः । घटाद्युपाधिना महाकाशस्य घटावच्छिन्नाकाशस्य च विच्छेदो भवति न बिम्बप्रतिबिम्बभावः एवं जीवेश्वरयोरज्ञानोपाधिना विच्छेदमात्रं जायत इत्यन्येषां पक्षः । तत्र घटाद्युपाधिकार्यभूतो यो विच्छेदो विभागः स महाकाशैकदेशे घटावच्छिन्ने प्रतिबिम्बस्थानीय एव नास्ति । किं नाम बिम्बस्थानीये महाकाशेऽप्यस्ति । विच्छेदस्य द्विष्ठत्वात् । अत आदिपदेन बिम्बप्रति-बिम्बभावग्रहणं ततश्चोपाधिकार्यप्रतिभासो न प्रतिबिम्ब एव किं नाम बिम्बे च बिम्बत्वादेः सर्वज्ञत्वादेश्चोपाधिभूताज्ञानकार्यत्वात् । अत उपाधिकार्यस्योभयत्रापि दर्शनात् नोपाधेः प्रतिबिम्बपक्षपातित्वमिति भावः । उपाधिना स्वकार्यं प्रतिबिम्ब एवावभास्यत इत्यङ्गीकारे बाधकमाह ।। मुखेति ।। उभयानुस्यूतमुखमात्रस्याबिम्बनात् आदिपदेन प्रतिबिम्बनस्येत्यर्थः ।। ब्रह्मेति ।। बिम्बभूतेत्यर्थः ।। अनौपाधिकत्वेति ।। उपाधिकार्यत्वानङ्गीकारेण स्वाभाविकत्वोपपादनादित्यर्थः ।

ननु दर्पणाद्युपाधेः प्रतिबिम्बस्थौल्यादिरूपकार्यप्रतिभासकत्वं दृष्टमिति चेन्न । प्रकृते तत्साम्याभावादित्याह ।। प्रतिमुखेति ।। तथा च यदुपाधिकार्यं विच्छेदादि न तत्प्रति-बिम्बमात्रे यश्च प्रतिबिम्बमात्रगतः संसारस्तस्यानादित्वेन नोपाधिकार्यत्वं तथात्वे संसारस्य सादित्वापातादिति भावः ।। दर्पणघटादाविति ।। प्रतिबिम्बत्वोपाधौ विच्छेदोपाधौ वा दर्पणे विच्छेदमात्रोपाधिभूते घटादौ च स्वकार्यं यन्मालिन्यविच्छेदादिरूपं तन्निष्ठो यो धर्मस्तत्प्रतिभासकं नास्ति । बिम्बभूते घटाकाशे च दर्पणाद्युपाधिना स्वकार्यनिष्ठधर्मा-प्रतिभासनेऽपीत्यर्थः । अज्ञानवद्बुद्धिरप्युपाधिः सोपाधिभूता बुद्धिश्चिन्मात्रसम्बन्धिनी सती बिम्बप्रतिबिम्बभावं सम्पाद्य प्रतिबिम्बपक्षपातिनी भवतीति केषाञ्चिन्मतं तद्दूषयति ।। एवमिति ।। तन्मते उपाधिर्द्विविधः प्रतिबिम्बपक्षपाती तदपक्षपाती चेति । तत्राद्यो दर्पणाद्युपाधिः । द्वितीयस्तु जपाकुसुमादिः स्फटिके लौहित्यं प्रदर्शयति । तत्र स्फटिको न जपाकुसुमप्रतिबिम्बः एवं बुद्धिरूपोपाधिर्न प्रतिबिम्बपक्षपातीति त्वदाचार्यैः स्वीकृतत्वेन तव तद्विरोधादित्याशयेनाह ।। तस्येति ।। यथोक्तं प्रतिमुखपक्ष्यादर्शः प्रतिबिम्बपक्षयातिनी बुद्धिरिति । तदन्यस्य जीवस्य । मोक्षेति हेतुगर्भम् । मोक्षसमानाधिकरण एव हि बन्धः मोक्षश्च चिन्मात्रान्वयी मिथ्याभूते तदभावात् । अतो बन्धोऽपि चिन्मात्रान्वयीत्यर्थः ।

ननु चिन्मात्रस्य संसाराङ्गीकारे नित्यमुक्तत्वश्रुतिविरोध इत्यत आह ।। नित्येति ।। बिम्बं मुखम् ।। घटेति ।। अवच्छेदपक्षे घटोपाधिकं यत्परिच्छिन्नत्वं तत् अवच्छिन्नाकाश एव दृष्टं नाकाशमात्रे महाकाश इति यावत् । तथा बिम्बप्रतिबिम्बभावपक्षे दर्पणोपाधिकं मालिन्यं प्रतिबिम्ब एव नानुस्यूतमुखमात्रे एवमज्ञानरूपोपाधिकृतः संसारः प्रतिबिम्ब एव युक्तो नानुस्यूतचिन्मात्र इत्यर्थः ।। अभावेनेति ।। चिन्मात्र एव संसाराङ्गीकारादिति भावः ।। तार्किकमत इति ।। यथा तार्किकमते व्याप्तोऽप्यात्मा न घटाद्यवच्छिन्नो दुःखाद्याधारः किन्तु देहावच्छिन्न एव तत्र दुःखाद्याधारतावच्छेदकं देहादिरिति यावत् । एवं चिन्मात्रेऽज्ञानमिति मतेऽपि अपरिच्छिन्ने चिन्मात्रे संसाराश्रयता जीवे नावच्छिद्यते संसारा-श्रयतावच्छेदकं जीवत्वमेव न ब्रह्मत्वमित्याशयेन जीवे संसारश्रुतिर्ब्रह्मणि चासंसारश्रुति-रुपपद्यत इत्यर्थः ।। त्वन्मत इति ।। यथा तार्किकमते दुःखाद्यधिकरणतावच्छेदकं देहादिरिति दुःखादिकं न देहादौ किन्तु तदवच्छिन्न एव । एवं जीवत्वावच्छेदेन चिन्मात्रे दुःखान्वयोक्तौ संसाराद्यनर्थो न जीवे किन्तु तदवच्छिन्नचैतन्य एवेति चित एवान्वयेन स्वरूपस्यैव दूषितत्वात्तद्भावरूपाया मुक्तेरपुरुषार्थत्वं स्यादित्यर्थः ।

ननु न नित्यमुक्तत्वश्रुतेर्निर्विषयत्वम् । बिम्बस्थानीयब्रह्मपरत्वस्योक्तत्वादिति चेत्तत्राह ।। न हीति ।। बिम्बभूतब्रह्माख्यो यः कल्पितो विशिष्टः शबलः तद्विषया न भवति । तथात्वे तस्य कल्पितत्वेन ज्ञाननिवर्त्यत्वनियमात्तन्नाशे निर्विषयत्वापत्तिर्दुर्वारेत्यर्थः ।। नापीति ।। बिम्बप्रतिबिम्बानुस्यूतं चिन्मात्रमित्यादिप्रक्रिया नाङ्गीकृतेत्यर्थः । पक्षद्वया-नङ्गीकारे कः पक्षोऽङ्गीकृत इति पृच्छति ।। किन्त्विति ।। उत्तरमाह ।। अविद्ययेति ।। राजसूनोरिति ।। व्याधगेहे संवर्धितस्य कस्यचिद्राजसूनोः त्वं राजसूनुरसि न व्याध इति केनचिदाप्तेनोक्ते पश्चात्तद्वाक्येनाहं राजसूनुरस्मीति स्वरूपस्य स्मृतिप्राप्तौ अनुभवे सतीति यावत् व्याधभावो निवर्त्तते । एवमज्ञस्य जीवभावेनाज्ञत्वं प्राप्तस्य ब्रह्मणस्तत्वमस्यादि-वाक्यतः स्वस्वरूपज्ञाने जाते जीवभावो निवर्तत इति सुरेश्वरीयबृहदारण्यकवार्त्तिकार्थः । भाष्यं शाङ्करीयम् ।

ननु ब्रह्मण एव जीवत्वे संसारास्पृष्टचैतन्याभावप्राप्त्या नित्यमुक्तत्वश्रुतिविरोध इत्यत आह ।। न हीति ।। तत्रैवेति ।। जीवभावं प्राप्त एव ब्रह्मणि संसारः कदापि नास्ति किन्त्वाविद्यक एवेत्यभिप्रायेत्यर्थः । कल्पितोऽपि यादृशोऽनर्थरूप इत्यन्वयः ।। सदेति ।। सर्वदा तादृशबन्धाभावस्यैव नित्यमुक्तत्वश्रुत्यर्थत्वादिति भावः ।। अन्यथेति ।। संसार-वत्यपि नित्यमुक्तत्वश्रुतेरुपपत्तौ तन्न्यायेन शोकाभावश्रुतेरपि शोकवत्येव तात्विकशोकाभाव-प्रतिपादनपरत्वेनोपपत्तेर्न तच्छ्रुतिबलान्मुक्तौ शोकाभावश्रुतिरित्यर्थः । ननु जीवादन्यस्य चेतनस्याभावेऽपि न सार्वज्ञश्रुतेर्निर्विषयत्वं जीवविषयकत्वस्यैवोपपत्तेरित्यत उक्तम्–असर्वज्ञत्वेनानुभवसिद्धादिति । तथा च ब्रह्मैव स्वाविद्यया संसरतीति पक्षे जीवातिरिक्तस्य बिम्बस्थानीयस्य ब्रह्मणोऽभावाज्जीवस्य चासर्वज्ञत्वेनानुभूयमानत्वात् सर्वज्ञत्वस्येवासर्वज्ञत्व-स्यापि कल्पितत्वाकल्पितत्वाभ्यामपि व्यवस्थाया असम्भवादित्यर्थः ।। ब्रह्मभावेति ।। कल्पितेनापि संसारेणास्पृष्टचैतन्यस्याभावेऽपि संसारिप्राप्तिरेव मुक्तिरित्यापातेनेत्यर्थः । ननु बहुजीववादेऽपि बद्धमुक्तव्यवस्थायाः सत्वेन तत्रैतद्दूषणप्राप्तावपि नैकजीववादेऽयं दोष इत्यत आह ।। एकजीवेति ।। ब्रह्मैव स्वाविद्यया एकजीवभावं प्राप्तं यदा तदा तस्मिन्पक्षे जीवातिरिक्तचैतन्यस्यैवाभावादित्यर्थः ।। तयोरिति ।। जीवब्रह्मणोरित्यर्थः । एकजीववाद इति वर्तते । औतवादेऽपि व्यावहारिकभेदेन जीवान्यचैतन्यस्य सत्वे द्वा सुपर्णेत्यादिभेद-प्रतिपादकश्रुत्यादीनां तद्विषयत्वेनाविरोधः स्यादित्यर्थः । त्वन्मतेऽपि व्यावहारिकोऽपि भेदो नास्तीति भेदश्रुत्यादिविरोधः स्यादित्यर्थः ।। नेतरेतरत्रेति ।। बिम्बप्रतिबिम्बयोरभेदेऽपि बिम्बेऽवदातत्वं प्रतिमुखे श्यामत्वं तु मुख इत्येवं अन्योन्यस्मिन्नावतिष्ठेते किं नामावदातत्वं मुखे श्यामत्वं प्रतिमुख इत्येवं नियते एव व्यावहारिकभेदात् । एवं तत्वज्ञानसंसारावपि नियतावेवेत्यर्थः ।

‘‘उपाधिभेदाद्घटत इति चेत्स स्वभावतः ।

  अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् ।

  अनवस्थितिरज्ञानहेतौ वान्योन्यसिद्धिता ।

  चक्रकापत्तिरथवा’’

इति उपाधिखण्डनवाक्यं हृदि निधायाह ।। किञ्चेति ।। न निवर्तत इति ।। स्वाभाविकत्वेन सत्यत्वप्राप्त्या सत्यस्य चानिवृत्तिरिति तेनाङ्गीकृतत्वादित्यर्थः ।। औपाधि-कत्वे ।। अज्ञानस्येति शेषः । अज्ञानस्योपाधिकल्पितत्व इत्यर्थः ।

न्यायकल्पलता

।। अविद्याश्रयश्चेति ।। परमत इति शेषः ।। यदत्रोक्तमिति ।। तेन नानुक्तोपालम्भ इति भावः । गोचरः विषयः । ननु चिन्मात्राश्रिताज्ञानेन चिन्मात्रे स्वकार्यसंसारापादाने जीव इव बिम्बभूतब्रह्मानुगतचिदंशेऽपि संसारः स्यादित्यत आह ।। दर्पणस्येति ।। अत्रेति ।। एतस्मिन्नुपन्यस्ते पूर्वपक्षे समाधानमिति शेषः । वक्ष्यमाणं सङ्गृह्णाति ।। विरोधादिति ।। चैतन्यं नाज्ञानाश्रयः । तद्विरुद्धत्वात् । यथा प्रकाशस्तमस इति सामान्य-व्याप्तिः । ननु सहानवस्थानलक्षणविरोधाद्घटतदत्यन्ताभावयोरिव शुद्धचिदज्ञानयोः सामानाधि- करण्यं मा भूत् आश्रयाश्रयिभावस्तु तद्वदेव स्यादेवेति तत्रैव व्यभिचार इत्यत आह ।। एकविषयेति ।। नात्र विरोधः परस्परविरहरूपत्वम् । येनोक्तो व्यभिचारः स्यात् । किं तु तत्स्थित्यसहिष्णुस्थितिकत्वलक्षणं तन्निवर्तकत्वमित्यभिसन्धाय तदनुगुणं दृष्टान्तमाह ।। तमःप्रकाशयोरिवेति ।। ननु चैतन्यस्याज्ञानानिवर्तकत्वादुक्तो हेतुरसिद्ध इत्यत आह ।। न हीति ।। विवक्षितस्याज्ञानत्वसिद्ध्यर्थं चैतन्यस्यावश्यं तन्निवर्तकत्वमास्थेयम् । तथा च नासिद्धिरित्यर्थः ।

ननु अज्ञानस्य चैतन्यानिवर्त्यत्वेऽपि न तस्याज्ञानत्वाभावः । वृत्तिरूपज्ञाननिवर्त्य-त्वेनापि अज्ञानलक्षणवत्वेनाज्ञानत्वोपपत्तेरित्याशङ्क्य परिहरति ।। न चेति ।। विवरण इति ।। आत्मनः स्वप्रकाशत्वं साधयितुं प्रमाणीकृतायां ‘अत्रायं पुरुषः स्वयंज्योतिः’ इति श्रुतौ । ननु ज्योतिःशब्देन प्रकाशगुणाभिधाने तदभिन्नात्मनोऽपि गुणत्वप्रसङ्ग इति प्रकाश-गुणवद्द्रव्यं ज्योतिःशब्देनाभिधातव्यम् । तथा च जन्यज्ञानाख्यप्रकाशेनात्मा प्रकाशगुण इति नेयं श्रुतिः स्वप्रकाशत्वे प्रमाणमिति शङ्कायां, सर्वसाधारणस्य प्रकाशगुणवत्वरूपज्योति-ष्ट्वस्य व्यावर्तनाय श्रुतौ स्वयमिति विशेषणोपादानात्स्वयमेव ज्योतिर्न तु ज्योतिष्मा-नित्यर्थावगमाद्भवति श्रुतिस्तत्र प्रमाणमिति परिहृतायां, ननु कारकान्तरानपेक्षया स्वयमेव स्वात्मनि ज्ञानं जनयतीति स्वयमिति विशेषणं किं न स्यादिति पुनः शङ्कायां च, ज्ञानजन्मप्रयुक्तत्वात्कारकापेक्षायास्तदभावेऽपेक्षैव नास्तीति निराकृतायां, ननु विमतं जन्मवत् ज्ञानत्वात् विषयज्ञानवदिति ज्ञानजन्माशङ्कायां, विषयज्ञानवदित्यत्र ज्ञानशब्देन स्वरूपज्ञानं वा विवक्षितं वृत्तिर्वा । आद्ये साध्यवैकल्यम् । लोके वेदे च स्वरूपज्ञाने स्वरूपादर्शनात् । द्वितीये साधनवैकल्यम् । ज्ञातुरर्थप्रकाशस्य स्फुरणरूपस्य ज्ञानत्वादिति परिहृतायां, ननु वृत्तावपि ज्ञानशब्दो दृश्यत इति पुनः शङ्कायां, अन्तःकरणपरिणामे ज्ञानत्वोपचारादित्युक्तम् । चैतन्यैक्याध्यासाद्वृत्तौ ज्ञानत्वमुपचर्यते दग्धृत्वमिवायःपिण्डे इत्यर्थः ।। अज्ञानेति ।। चैतन्यस्य ज्ञानत्वसिद्ध्यर्थमपि तस्याज्ञाननिवर्तकत्वं वाच्यम् । अन्यथा विमतं न ज्ञानम-ज्ञानाविरोधित्वाद्घटवदिति तस्य ज्ञानत्वं न स्यात् । तथा च नासिद्धिरित्यर्थः ।

उक्तानुमाने व्यवहाराजनकत्वमुपाधिमाशङ्क्य निराकरोति ।। न चेति ।। कथं तर्ह्यज्ञाने ज्ञाननिवर्त्यत्वरूपलक्षणायोग इत्यत उक्तम् ।। ज्ञानकरणविरोध्येवेति ।। अज्ञानाविरोधि-नोऽपि चैतन्यस्य ज्ञानत्वाभावापत्तिं निरसितुमुक्तम् ।। न तु ज्ञप्तीति ।। न जानामीति ।। करणविरोधित्वेनाननुभूयमानस्य ज्ञप्तिविरोधित्वेनानुभूयमानस्याज्ञानस्य दुरपह्नवत्वादित्यर्थः । चैतन्यस्याज्ञानानिवर्तकत्वे सुखादौ तद्विरोधिनोऽन्यस्याभावात्तत्राज्ञानानुभवः स्यादित्याह ।। साक्षिवेद्य इति ।। ननु यथा दिवा भीतेन सौरप्रकाशे मिथ्याभूतोऽधकारः कल्प्यते तथा चैतन्ये मिथ्याभूतमज्ञानं कल्प्यत इत्याशङ्क्य निराकरोति ।। न चेति ।। अज्ञानान्तर-स्येति ।। तत्सत्वे च तदेव सत्यभूतं जगत्कारणमस्तु किं मिथ्याभूतेन तेनेत्यर्थः ।। अन्योन्याश्रयादिति ।। अहमज्ञ इति धर्मिग्राहकमानबाधाभावेऽज्ञानस्य चैतन्याश्रितत्वसिद्धिः तत्सिद्धौ चाहमज्ञ इत्यस्यायो दहतीतिवद्गौणत्वेनाप्युपपन्नस्य चैतन्याश्रिताज्ञानकल्पनाया-मबाधकत्वमित्यर्थः । अज्ञानाश्रयासिद्ध्या तदसम्भवेन तत्सिद्ध्यधीनसिद्धिकाहङ्कारस्याप्य-सिद्धेस्तयोश्चिदध्यासानुपपत्तेरिति भावः ।। भ्रान्तित्वायोगादिति ।। उपलक्षणमेतत् । साक्षात्सम्बन्धविषयत्वाच्चेत्यपि द्रष्टव्यम् ।

ननु दोषाजन्यत्वमसिद्धम् । बाधकाद्दोषजन्यत्वानुमानादित्यत आह ।। बाधकाभि-मतस्यैवेति ।। नन्वहमज्ञ इति धीर्नाज्ञाने साक्षात्सम्बन्धेनाहङ्काराश्रितत्वं विषयीकरोति । अहङ्कारभिन्नेऽज्ञानस्य साक्षात्सम्बन्धग्राहकमानबाधितत्वादित्यत आह ।। मिथ्यारूप्येति ।। धर्मिग्राहकेण यत्र यस्य सम्बन्धो गृह्यते तत्रैव तस्य साक्षात्सम्बन्ध इति नाहङ्कारभिन्नेऽ-ज्ञानस्य साक्षात्सम्बन्धसिद्धिरित्यर्थः ।। अहमर्थ इति ।। आत्मभिन्नत्वेन पराभिमत इति शेषः । तेनाकल्पितस्याज्ञानाश्रयस्यैवात्मत्वादिष्टापत्तिरिति निरस्तम् । ननु निरवद्य इत्यादौ निर्दोषत्वमुच्यते । न त्वज्ञानराहित्यमतः कथं श्रुतिविरोध इत्यत आह ।। न हीति ।। मुक्त इत्यनेनाप्यज्ञानराहित्यमुच्यत इत्याह ।। नापीति ।। ननु व्यधिकरणधर्मावच्छेदेना-विद्यादिकं निषिध्यत इत्याशङ्क्य निराकरोति ।। न चेति ।। विशिष्टाश्रयत्वमप्यनुपपन्नम् । ननु परसमयप्राप्तमपि असत्कारणत्वादि निषिध्यतामित्यत आह ।। जीवेऽपीति ।। मोह-मत्येतीति श्रुतौ मोहशब्दवाच्यस्याज्ञानस्य निषिद्धत्वान्न चिन्मात्रे तत्सम्भव इत्याह ।। मुक्तीति ।। मोहनिषेधस्यान्यविषयत्वं व्यवस्थाप्य चिन्मात्रे व्यावहारिकमोहाङ्गीकारे समान-न्यायतया तथाविधशोकोऽपि चिन्मात्रे प्रसज्येतेत्यर्थः ।

ननु शोकस्य निषिद्धत्वात्तस्य व्यावहारिकस्याप्यङ्गीकारो न युक्तः । मोहमत्येतीत्यत्र न मोहनिषेधः किन्तु तत्कार्यनिषेध इति मोहस्यानिषिद्धत्वात्तस्य व्यावहारिकस्याङ्गीकारो न विरुद्ध इत्याशङ्क्य निराकरोति ।। न च श्रुताविति ।। बिम्बे च नाज्ञानमङ्गीकुर्म इति न श्रुतिविरोध इति भावेनोक्तम् ।। बिम्बस्थानीयेति ।। जीवेऽपीति ।। चिन्मात्रस्याज्ञाना-श्रयत्वेन निरनिष्टत्वाद्यभावात्तच्छ्रुतेर्बिम्बस्थानीयब्रह्मपरत्वे तत एव जीवेऽप्यज्ञानाभावेन जीवेऽज्ञानप्रतिपादकश्रुतिविरोधः । ज्ञाज्ञौ द्वावजावीशानीशावजा ह्येका भोक्तृभोगार्थयुक्तेति हि श्वेताश्वतरश्रुतिः । जानातीति ज्ञः । ज्ञश्चाज्ञश्च ज्ञाज्ञौ । ईशानीशौ द्वावजौ अनादी इत्यन्वयार्थः । न च जीवस्याज्ञानानाश्रयत्वेऽपि तत्कार्यभ्रान्त्यादियोगित्वेनाज्ञत्वव्यपदेश इति युक्तम् । जीवेऽज्ञानप्रतिपादकश्रुत्यविरोधे सति चिन्मात्रेऽज्ञानसिद्धिः तत्सिद्धौ च जीवेऽज्ञानप्रतिपादकश्रुतेर्गौणार्थकल्पनमित्यन्योन्याश्रयापत्तेः ।

अत्र ग्रन्थपातः

(उपलब्धायां न्यायकल्पलतामातृकायां इतःपरं ‘अज्ञानस्य वाचस्पत्युक्तजीवाश्रितत्वभङ्ग’ प्रकरणसमाप्तिपर्यन्तं ग्रन्थपातः ।)

न्यायामृतसौगन्ध्यम्

किञ्चाविद्याश्रयोऽपि दुर्वचः । यत्तु शुद्धचिदेवाज्ञानाश्रय इति । तन्न । तस्य स्वप्रकाश-स्वरूपस्याज्ञानाश्रयत्वासम्भवात् । न हि तमः अलोकमाश्रयति । न चाज्ञानविरोधिज्ञानं न चैतन्यमात्रं किन्तु वृत्तिप्रतिबिम्बितं, तच्च नाविद्याश्रयः । यच्चाविद्याश्रयस्तन्नाज्ञानविरोधीति वाच्यम् । शुद्धचितोऽज्ञानाविरोधित्वे घटादिवदप्रकाशत्वापत्तेः । न च वृत्यवच्छेदेन तस्या एवाज्ञानविरोधित्वम् । घटादेरपि वृत्यवच्छेदेनाज्ञानविरोधित्वमित्यस्यापि सुवचत्वात् । न च स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन स्वभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्यवच्छेदेन तद्दाहकत्वमिति वाच्यम् । सौरालोक-सम्बन्धेन मणौ जातस्याग्नेरेव दाहकत्वात् ।

किञ्चाहमज्ञ इति धर्मिग्राहिणा साक्षिणा अहमर्थाश्रितत्वेनाज्ञानस्य ग्रहणाद्बाधः । न च स्थौल्याश्रयदेहैक्याध्यासात् अहं स्थूल इतिवत् अज्ञानाश्रयचिदैक्याध्यासात् दग्धृत्वायसो-रेकाग्निसम्बन्धादयो दहतीतिवदज्ञानाहङ्कारयोरेकचिदैक्याध्यासात् वा ‘अहमज्ञः’ इति धीर्भ्रान्तिरिति वाच्यम् । चितोऽज्ञानाश्रयत्वासिद्ध्या अन्योन्याश्रयात् ।

एतेनाहङ्कारस्याविद्याधीनत्वेन तदनाश्रयतया चित एव तदाश्रयत्वे सिद्धे अहमज्ञ इति प्रतीतेरैक्याध्यासनिबन्धनत्वेनाबाधकत्वमिति निरस्तम् । अहङ्कारस्याविद्याधीनताया अद्याप्यसिद्धेः । अज्ञानाश्रयतया गृह्यमाणस्याहमर्थस्याविद्याधीनत्वासिद्धेः । न चाहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेन च कल्पितत्वे ज्ञाननिवर्त्यत्वस्यासिद्धिः । द्रष्टुरहमर्थस्य दृश्यत्वा-सिद्धेश्च ।

किञ्च निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्यमुक्तः इति श्रुतिविरोधान्न शुद्धचितोऽ-ज्ञानाश्रयत्वं, न वा बन्धकाज्ञानाश्रयो मुक्तः । न च तात्विकाविद्यादेर्निषेधः । त्वन्मते तदप्रसक्तेः । जीवेऽपि तदभावेन जीवब्रह्मणोः सावद्यत्वनिरवद्यत्वव्यवस्थाश्रुतिविरोधापत्तेः । न चावद्यस्य चिति कार्यकारित्वाभावेन कार्यकरत्वाकार्यकरत्वाभ्यामेव सावद्यत्वनिरवद्यत्व-व्यवस्थोपपत्तिः, उपाधेः प्रतिबिम्बपक्षपातित्वादिति वाच्यम् । अज्ञानस्यान्धकारवत् स्वाश्रय एव कार्यकरत्वौचित्यात् । प्रतिबिम्बस्य बिम्बच्छायावद्वस्त्वन्तरे उपाधिसम्बद्धे तत्कार्य-सम्भवेऽपि प्रकृते जीवे तदसम्भवात् धर्मिग्राहकमानेन जीव एवाज्ञानं गृहीतं न तद्भिन्ने । न च मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति श्रुतिस्त्वदभिमतार्थे मानम् । महेश्वर-त्वादिविशिष्टस्य त्वया अज्ञानाधीनत्वाङ्गीकारात् । मायिनं मायास्वामिनमित्यर्थात् । ज्ञाज्ञावीशानीशाविति जीवाज्ञानप्रतिपादकश्रुतिविरोधाच्च ।

किञ्च शुक्त्याद्यज्ञानवत् ज्ञातुरर्थाप्रकाशरूपमिदमप्यज्ञानं स्वकार्येण भ्रान्त्यादिना स्व-निवर्तकेन तत्वज्ञानादिना स्वसमानयोगक्षेमेण ज्ञानप्रागभावेन च सामानाधिकरण्याय ज्ञात्रात्मनिष्ठं, न तु चैतन्यरूपज्ञानमात्राश्रितम् । न च चैतन्यस्यैव ज्ञातृत्वेन ज्ञातुरर्था-प्रकाशरूपत्वस्य सम्यक् ज्ञानाश्रयत्वस्य भ्रान्त्यादिसामानाधिकरण्यस्य चोपपत्तिरिति वाच्यम् । ज्ञातृत्वविशिष्टस्य त्वन्मते अज्ञानकल्पितत्वेनान्योन्याश्रयात् । न चाविद्याया ज्ञातृत्वानपेक्षत्वेन नान्योन्याश्रयः, ज्ञातृत्वस्य तदाश्रयतावच्छेदकस्य अपेक्षा हि तस्या-वश्यकी ।

किञ्च शरीरेऽपि ज्ञातृत्वाध्याससम्भवेन तत्राप्यज्ञानाश्रयत्वापत्तिः । न च ज्ञातृत्वा-ध्यासो नाज्ञानाश्रयत्वे प्रयोजकः किन्तु प्रसक्तप्रकाशत्वं अज्ञानानाश्रितत्वं चेति वाच्यम् । ज्ञातृत्वविशिष्टे दृश्यमिथ्याभूते च त्वन्मते प्रकाशप्रसक्तेरसम्भवात् । अज्ञानानाश्रितत्वा-सिद्धेश्च । किञ्चैवमविद्याश्रयस्य ज्ञातृत्वभोक्तृत्वादिमत्त्वे जीवाश्रिताज्ञानमतप्रवेशः । न चाविद्यावच्छिन्नस्य हि ज्ञातृत्वम्, अविद्या च नाविद्यावच्छेदेन, सामानाधिकरण्यं चाव-च्छेद्यांशैक्यमादाय । यथोपाधिसम्बन्धो मुखमात्र एव, औपाधिकमालिन्यसम्बन्धस्तूपाध्य-वच्छिन्ने प्रतिबिम्बे इति वाच्यम् । प्रतिबिम्बस्य वस्त्वन्तरतायाः वक्ष्यमाणत्वात् ।

किञ्चोपाधेः प्रतिबिम्बपक्षपातित्वान्न ब्रह्मणः संसारित्वमित्युक्तं, तदयुक्तम् । बिम्ब-प्रतिबिम्बभावस्यैवाभावात् । तथाहि । अचाक्षुषचैतन्यस्य गन्धादिवत् प्रतिबिम्बनानर्हत्वात्, प्रतिबिम्बत्वे जीवस्य सादित्वापाताच्च । सूर्यस्य जले इव मरीचिकाजलेष्वप्रतिफलनेन चिद-समानसत्ताकस्याज्ञानस्य चितं प्रत्युपाधित्वायोगात् । अविद्यायाः प्राक्प्रत्यक्दिगव-स्थात्वादिरूपाभिमुख्यस्य सर्वगतचितं प्रत्यसम्भवाच्च । न चाकाशादौ व्यभिचाराच्चाक्षुषस्यैव प्रतिबिम्ब इति युक्तम् । आकाशप्रतिबिम्बासिद्धेः अचाक्षुषाकाशप्रतिबिम्बस्य चाक्षुषत्वा-सम्भवात् । अन्यथा वाय्वादीनां प्रतिबिम्बमपि चाक्षुषं स्यात् । न चाध्यस्तस्य स्फटिक-लौहित्यस्य दर्पणे प्रतिबिम्बदर्शनान्नोपाधिबिम्बयोः समसत्ताकत्वनियम इति वाच्यम् । प्रतिबिम्बस्य च्छायावत् सत्यवस्त्वन्तरत्वात् । उपाधेर्बिम्बान्यूनसत्ताकत्वनियमाच्च ।

एतेन सर्वात्मना चिदाभिमुख्याभावः ? आभिमुख्यमात्राभावो वा ? नाद्यः । चैतन्यवत् विभुत्वपक्षे सर्वात्मनापि सम्भवात् । न द्वितीयः । चैतन्यस्य सर्वत्र प्रसृतत्वेन व्यवधाना-भावेन चाभिमुख्यसम्भव इति निरस्तम् । प्राक्प्रत्यग्दिगवस्थितत्वादिरूपाभिमुख्याभावात् । जलस्थितघटस्य जले प्रतिबिम्बाभाववत् अविद्यान्तस्थचितस्तत्र प्रतिबिम्बासम्भवात् ।

किञ्च मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्रत्वरूपव्यक्त्यन्तरस्येव जीवब्रह्मानुगत-चित्त्वातिरिक्तचिन्मात्रत्वरूपस्य अज्ञानाश्रयत्वयोग्यव्यक्त्यन्तरस्याभावात् मुखमात्रसम्बन्ध्या-दर्शवत्  चिन्मात्रसम्बन्ध्यज्ञानमिति कथम् ? न चापरामृष्टभेदस्य मुखादेर्मात्रार्थत्वेनानुगत-धर्म्यतिरेकसम्भवः । उपाधेरनादित्वेनापरामृष्टभेदासम्भवात् ।

किञ्च उपाधिः प्रतिबिम्बपक्षपातीति सामान्यव्याप्तेरज्ञानं तम इव स्वाश्रय एव भ्रान्त्यादिहेतुरिति विशेषव्याप्त्या बाधः । न च विशेषव्याप्तिग्राहकसहचारदर्शनस्य विवाद-विषयातिरिक्तेऽसम्भवेन विशेषव्याप्त्यसम्भवः । प्रकृतेऽपि विवादविषयत्वात् ।

किञ्च बन्धस्य चिन्मात्राश्रितमोक्षसामानाधिकरण्यानुपपत्तिः । न चावच्छेद्यांशमादाय सामानाधिकरण्योपपत्तिः । अवच्छिन्नगतदृश्यमिथ्यात्वादेरपि अवच्छेद्ये प्रसङ्गात् ।

किञ्चोपाधेः प्रतिबिम्बपक्षपातित्वं तत्र स्वधर्मप्रतिभासकत्वं वा  स्वकार्यप्रतिभासकत्वं वा स्वकार्यनिष्ठधर्मप्रतिभासकत्वं वा प्रतिबिम्बं प्रति स्वविषयाच्छादकत्वं वा । नाद्यः । सुषुप्त्याद्यनुवृत्तस्य अविद्यारूपस्याविद्यावच्छिन्नत्वरूपस्य वा तत्प्रतिबिम्बितत्वस्य वा सुषुप्त्यादावननुवृत्तस्य कर्तृत्वप्रमातृत्वादिरूपस्य वा संसारस्याज्ञाननिष्ठत्वाभावात् । ज्ञान-क्रियासंस्कारादीनां त्वन्मते अज्ञाननिष्ठत्वेऽपि नित्यातीन्द्रियाणां तेषां आत्मनि कदाप्य-प्रतीतेः ‘अविद्यास्तमयो मोक्षः सा सांसार उदाहृतः’ इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा, येन स्वनिष्ठबन्धरूपधर्मसंक्रामकत्वं स्यात् । न द्वितीयः । विच्छेदादेरुपाधिकार्यस्य बिम्बे महाकाशे च दर्शनात् मुखस्य बिम्बत्वादेर्ब्रह्मस्थसार्वज्ञादे-श्चानौपाधिकत्वापाताच्च । नापि तृतीयचतुर्थौ । दर्पणघटादावसिद्धेः । एवं बुद्धिरूपोपाधिरपि न प्रतिबिम्बपक्षपाती । एतेन तत्रातिशयेन कार्यकरत्वमेव तत्पक्षपातित्वमिति निरस्तम् । अतिशयस्य दुर्वचत्वात् ।

एतेन स्थौल्यकार्याद्यवभासरूपकार्यकरत्वेन दर्पणादेः प्रतिबिम्बपक्षपातित्ववत् कर्तृत्व-भोक्तृत्वादिसंसाररूपकार्यकरत्वेनाविद्यायामपि प्रतिबिम्बपक्षपातित्वोपपत्तिरिति निरस्तम् । स्वानिष्ठस्य स्वसान्निध्यमात्रेण बिम्बे तज्जनकत्वे अग्निसंयोगजघटगतलौहित्यादेर्घटसमसत्ता-कत्ववत्  चैतन्यगतसंसारस्यापि चैतन्यसमसत्ताकत्वोपत्तेः ।

एतेन बुद्धेरपि स्वनिष्ठस्थौल्यावभासकत्वेनादर्शस्येवास्यापि स्वनिष्ठधर्मावभासकत्वेन तद्वत् पक्षपातित्वसम्भव इति निरस्तम् । संसारस्य बुद्धिस्थत्वाभावेन दृष्टान्तवैधर्म्यात् । अन्यथा बन्धमोक्षयोर्वैय्यधिकरण्यापत्तेः ।

एतेनाविद्याकृतभेदेन ब्रह्मण्येव सर्वज्ञत्वकिञ्चिज्ज्ञत्वनित्यमुक्तत्वसंसारित्वादिव्यवस्थो-पपत्तिरिति निरस्तम् । ‘द्वा सुपर्णा’ ‘य आत्मनि तिष्ठन्नि’त्यादिश्रुतिभिः ‘अन्यश्च परमो राजन् तथाऽन्यः पञ्चविंशकः’ ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतपे’त्यादिस्मृतिभिः ‘शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ।’ ‘भेदव्यपदेशाच्चान्य’ इत्यादिसूत्रैः ‘तस्माच्छारीरादन्य एवेश्वरः । आत्मानौ हि तावेतौ चैतनौ एकः कर्त्ता भोक्ता अन्यस्तद्विपरीतोऽपहत-पाप्मत्वादिगुणयुक्त’ इत्यादिभाष्यैः ‘तत्वज्ञानसंसरणे चावदातत्वश्यामत्वादिवन्नेतरत्रावतिष्ठेते’ इत्यादिविवरणग्रन्थैश्च विरोधापत्तेः । आविद्यकभेदपरत्वे श्रुुत्यादेरप्रामाण्यापत्तेश्च ।

किं च चिन्मात्रस्याज्ञानं स्वाभाविकं ? औपाधिकं वा ? नाद्यः । आत्मवदनिवर्त्य-त्वापत्तेः । नान्त्यः । स्वस्यैवोपाधित्वे आत्माश्रयात्, एतदपेक्ष्यान्यापेक्षत्वे अन्यान्यो-श्रयात्, तदन्यान्यापेक्षत्वे चानवस्थनात् । न च स्वस्यैवोपाधित्वेन नात्माश्रयः भेदस्य स्वभेदकत्ववदुपपत्तिः । भेदस्य सर्वसम्मतत्ववत् त्वदभिमताज्ञानस्य सर्वासम्मतत्वात् । न च स्वाभाविकस्यापि घटरूपस्य तत्प्रागभावस्य च निवृत्तिर्दृष्टा । रूपादेः कारणा-त्मनाऽवस्थानेन अज्ञानस्येव आत्यन्तिकानिवृत्तेरिति ।

।। अज्ञानस्य विवरणोक्तचिन्मात्राश्रितत्वभङ्गविवरणम् ।।