निखिलगुणनिकायं नित्यनिर्धूतहेयं शुभतममतिमेयं शुद्धसौख्याप्त्युपायम्
श्रीवेदव्यासाय नमः
पदवाक्यप्रमाणपारावारपारीणसर्वतन्त्रस्वतन्त्रश्रीव्यासतीर्थविरचितम्
मङ्गलाचारणम्
न्यायामृतम्
प्रथमः परिच्छेदः
निखिलगुणनिकायं नित्यनिर्धूतहेयं
शुभतममतिमेयं शुद्धसौख्याप्त्युपायम् ।
सकलनिगमगेयं सर्वशब्दाभिधेयं
नवजलधरकायं नौमि लक्ष्मीसहायम् ।। १ ।।
विघ्नौघवारणं सत्याशेषविश्वस्य कारणम् ।
करुणासिन्धुमानन्दतीर्थबन्धुं हरिं भजे ।। २ ।।
अभ्रमं भङ्गरहितमजडं विमलं सदा ।
आनन्दतीर्थमतुलं भजे तापत्रयापहम् ।। ३ ।।
चित्रैः पदैश्च गम्भीरैर्वाक्यैर्मानैरखण्डितैः ।
गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक् ।। ४ ।।
समुत्सार्य तमःस्तोमं सन्मार्गं सम्प्रकाश्य च ।
सदा विष्णुपदासक्तं सेवे ब्रह्मण्यभास्करम् ।। ५ ।।
ज्ञानवैराग्यभक्त्यादिकल्याणगुणशालिनः ।
लक्ष्मीनारायणमुनीन् वन्दे विद्यागुरून्मम ।। ६ ।।
श्रीमध्वशास्त्रदुग्धाब्धिं धीमन्दरमहीभृता ।
आमथ्योद्ध्रियते न्यायामृतं विबुधतृप्तये ।। ७ ।।
विक्षिप्तसङ्ग्रहात् क्वापि क्वाप्युक्तस्योपपादनात् ।
अनुक्तकथनात् क्वापि सफलोऽयं श्रमो मम ।। ८ ।।
श्रीव्यासरामाचार्यविरचिता
न्यायामृततरङ्गिणी
श्रियस्सदानन्दगुणैर्भृतं भुजे भुजेऽप्यदोषं तदशेषशक्तिभिः ।
विशेषवाणीमितमात्मनो मुदामुदारमीशं प्रियवल्लभं नुमः ।। १ ।।
साधु प्रसाधितगुणोपनिषत्सखीभिः सूत्रग्रहानुसृतक्चुकिवाचि दक्षा ।
वंशाग्रगाऽपि जयवाक्छुचिनर्तकी यच्चित्तं जहार तमपारकृपं नमामि ।। २ ।।
ऋगुपनिषददुर्गाद् दूरयन् योऽरिवर्गानधिहरि विजयादिव्याप्त एवोदपादि ।
स जयति यतिराजः सर्ग उच्चैर्विराजः परिधृतजयसंज्ञः सर्वविद्यास्वभिज्ञः ।। ३ ।।
शुकेन शान्त्यादिषु वाङ्मयेषु व्यासेन धैर्यऽम्बुधिनोपमेयम् ।
मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्वगुरुं नमामि ।। ४ ।।
छन्दस्साङ्गमुरङ्गमङ्गलगवीजैमिन्युपज्ञं मतं
व्यासोदन्तमबूबुधच्च समधाद् यो विश्वनाथाभिधाम् ।
धर्मं व्याकृत पूर्णधीकृतसदाचारस्मृतिव्याकृति
व्याजेन प्रणमामि तं पितरमुद्बोधाय शब्दार्थयोः ।। ५ ।।
पदादिविद्यां बहुविन्निषद्यामध्यैषि तत्त्वैषिवराद् यतोऽहम् ।
नमामि तं व्यासकुलावतंसं नारायणाचार्यमथाग्रजं मे ।। ६ ।।
व्यासबिन्दुरसाचार्यकृतीषद्व्याकृतिच्छलात् ।
रामो महत आनम्य श्रुतं सौवं शुशुत्सति ।। ७ ।।
उद्यद्व्यासमहोदधेर्यदुरुधीगम्भीरकुम्भीर्नयद्
भङ्गान् सत्प्रतिबिम्बमम्बुजदृशा पत्तीविचित्रीकृतम् ।
स्वच्छन्दोत्थतरङ्गिणीद्विजमुखैर्न्यायामृतं व्याकृतं
सेवं सेवमिरासुरा इनसभे राजन्तु लेखा इव ।। ८ ।।
इह खलु सकलविद्वन्मणिचिन्तामणिः श्रीव्यासतीर्थबिन्दुः पुण्यप्रचयपूर्णवेदान्तश्रवणः श्रुतमर्थं मिमनिषया निबिभन्त्सुर्निबन्धगोचरपरीक्षकप्रवृत्त्यङ्गविषयादि वक्तुं विशिष्टविषयादिमद् ब्रह्ममीमांसया निबन्धं सम्बन्धयितुं चतुर्लक्षणीविवक्षितविशेषणचतुष्टयवत्त्वेनेष्टदेवतामभिष्टवीति– निखिलगुणनिकायमित्यादिना ।
चतुर्लक्षण्यां प्रथमलक्षणे समन्वयाख्येऽपर्यायानन्तानन्दादिशब्दानां महायोगविद्वद्रूढिभ्यां भगवत्परत्वे तत्तच्छब्दप्रवृत्तिनिमित्तलाभात् निखिलगुणाश्रयत्वं भगवतः साधितम् । तदाद्य-विशेषणेन सङ्गृहीतम् । द्वितीयेऽविरोधलक्षणे गुणदोषयोः सहचारदर्शनाद् दोषशङ्कायां श्रुतीनां विरोधपरिहारात् निर्दोषत्वमाघोषितम् । तद् द्वितीयविशेषणेन सञ्जग्राह । एवंविधः परमात्मा कथं ज्ञेय इत्यपेक्षायां वैराग्यादिसाधनसम्पन्नेनाधिकारिणा साक्षात्कर्तव्य इत्येतमर्थमभिदध-त्तृतीयस्य साधनलक्षणस्यार्थं तृतीयविशेषणेन निर्दिदेश । ज्ञातः परमात्मा कं पुरुषार्थं दास्यति इत्यपेक्षायां स्वरूपानन्दमाविर्भावयतीति प्रतिपादयतश्चतुर्थस्य फललक्षणस्य चतुर्थविशेषणेन सङ्ग्रहः कृतः । ‘निखिलगुणनिकाये’त्यादिचतुर्विशेषणोपपादकत्वेन ‘सकलनिगमगेयमि’त्यादि-चतुर्विशेषणानि । तत्रेन्द्रादिपरतया प्रतीयमानानां वाक्यानां भगवद्विषयत्वेन निखिल-गुणाश्रयत्वं भगवतः सिद्ध्यतीति ‘सकलनिगमगेयमि’त्यनेनोपपादितम् । जगत्कारणविषयत्वेन प्रतीयमानानां प्रकृत्यादिशब्दानां भगवद्विषयत्वे भगवतः सर्वकर्तृत्वादिना निर्दोषत्वं सिद्ध्यतीति ‘सर्वशब्दाभिधेयमि’त्यनेनोपपादितम् । वाक्यार्थपदार्थरूपत्वेन निगमगेयत्वशब्दाभिधेयत्वयोर्भेदः। निराकारस्य ध्यानादि न सम्भवतीति शङ्कां निराकुर्वता ‘नवजलधरकायमि’त्यनेन भगवतः शुभतममतिमेयत्वमुपपादितम् । लक्ष्म्याः सहायं लक्ष्मीसहायमित्यनेन सर्वपुरुषार्थप्रदत्वोपपादनं द्रष्टव्यम् । लक्ष्म्या ‘‘यं कामये तं तमि’’ति स्वमहिमानमुक्त्वा ‘‘मम योनिरप्स्वे’’ति स्वसहायस्य परमात्मनोऽभिधानात् । निकायशब्दस्तु चिनोतेर्घञि वृद्धौ चकारस्य ककारादेशे च ‘‘निवास–चिति–शरीरोपसमाधानेष्वादेश्व कः’’ इत्यनेन निवासार्थे साधितः ।। १ ।। स्वापेक्षितविध्ननिवारणगुणत्वेन भगवन्तं सेवते– विघ्नौघेति ।। २ ।।
भाष्यकृतं सेवते– अभ्रममिति ।। अत्र ‘आनन्दतीर्थमि’त्यनेन जलाशयतीर्थरूपतायां ध्वनितायां प्रसिद्धगङ्गादितीर्थसाम्यप्रसक्तौ तद्वैषम्यमाह ।। अतुलमिति । अत्र भ्रमशब्देन प्रतीत आवर्तो नञा निषिद्ध्यत इति प्रसिद्धतीर्थवैषम्यम् । तथा विपर्ययशून्यत्वं च ध्वन्यत इति ध्वनिश्लेषयोरङ्गाङ्गिभावेन सङ्करः । भङ्गशब्देन तरङ्गाभिधानात् तद्राहित्योक्त्या प्रसिद्धतीर्थ-वैषम्यम्, तथा पराभवशून्यत्वं च ध्वन्यते । ‘अजडमि’त्यनेन जलात्मता पर्युदस्यते इति तद्वैषम्यम्, तथा ल–डयोरभेदात्पूर्णज्ञानात्मता च ध्वन्यते । ‘तापत्रयापहमि’ त्येकतापनिवारक-जलाशयाद् वैषम्यम् । यद्यपि– ‘‘अपे क्लेशतमसोः’’ इत्यनेनापपूर्वाद्धन्तेः क्लेशतमसोः कर्मणोरुपपदयोर्डप्रत्यय उक्तः । तथापि ‘‘ब्रह्म–भ्रूणे’’त्यादिवदुपपदनियमस्यानाश्रितत्वात् डप्रत्ययोपपत्तिः । ‘‘सूत्रारम्भस्त्वनाशीरर्थे’’ इति काशिकायां वृत्तावेवोक्तम् ।। ३ ।।
जयतीर्थवाक्स्तुतिव्याजेन जयतीर्थं स्तौति । चित्रैरिति । चित्रैः पदैः । गम्भीरैः वाक्यैः । अखण्डितैः मानैः । पदानां चित्रत्वं नामान्वयबोधहेतुतावच्छेदकावच्छिन्नपदार्थोप-स्थितिजनकतावच्छेदकावच्छिन्नत्वम् । वाक्यानां गम्भीरत्वं नाम समासादिवृत्तिमत्त्वम् । प्रतिमानपराहतिशून्यत्वं मानानामखण्डितत्वम् । एतेन पदवाक्यप्रमाणनिर्णायकव्याकरण-मीमांसान्यायविद्यावैदग्ध्यमुक्तम् । स्वस्य सन्न्यासगुरुं ब्रह्मण्यतीर्थं सेवते– समुत्सार्येति । चशब्दोऽपिशब्दार्थः । सदा सर्वावस्थास्वपि । तदुक्तम् ‘‘अत्यशक्ये तु निद्रादौ पुनरेव समभ्यसेत्’’ इति । तमस्स्तोमनिवृत्तिसन्मार्गप्रकाशनरूपप्रयोजननिर्वृत्त्यनन्तरमपि विष्णुपदासक्तमित्युक्त्या स्वाभाविकं विष्णुपदैकसंश्रयत्वमुक्तम् । विद्योपदेष्टृन् गुरून्नमति ज्ञानेति । ज्ञानेत्यादिना विद्योपदेशहेतुत्वं व्यवस्थापितम् । ग्रन्थाभिधानमाह– श्रीमध्वेति । स्वकृतस्य निबन्ध-स्यावान्तरप्रयोजनवत्तामाह– विक्षिप्तेति ।
पाण्डुरङ्गि आनन्दभट्टारकविरचितः
न्यायामृतकण्टकोद्धारः
नरसिंहं हयग्रीवं वेदव्यासं गुरुं तथा ।
नत्वा न्यायामृतव्याख्यां करिष्ये धीविशुद्धये ।।
अत्र ग्रन्थकृदभीष्टकर्मणो निर्विघ्नपरिसमाप्त्याद्यर्थं कृतं परदेवतास्तुतिनतिरूपं मङ्गलं शिष्यशिक्षार्थं ग्रन्थे निबध्नाति – निखिलेति । अत्र परिच्छेदचतुष्टयात्मके ग्रन्थे ‘‘अथातो ब्रह्मजिज्ञासा’’ इत्याद्याध्याय चतुष्टयात्मकशास्त्रप्रतिपाद्यानामनन्तगुणपूर्णत्वनिर्दोषत्वसाधन-विषयत्वफलदातृत्वानां प्रतिपाद्यतया तत्तद्विशेषणवत्वेन हरिः स्तूयते । तत्राऽद्याध्यायार्थः – निखिलेति । अत्र निकाय इति निपूर्वकात् ‘चिञ् चयने’ इत्यस्माद्धातोः ‘‘निवासचिति-शरीरोपसमाधानेष्वादेश्च कः’’ इति सूत्रेण घञि धातोरादेश्च ककारादेशे प्रयोगसाधुत्वं द्रष्टव्यम् । एवं सति निवासार्थे ‘‘पाय्यसान्नाय्येति’’ सूत्रेण निकाय्य इति निपातनान्निकाय इत्यनुपपन्नमित्यापास्तं भवति । द्वितीयाध्यायार्थः– नित्येति । नित्येति विशेषणं मुक्त-व्यावृत्त्यर्थम् । तृतीयाध्यायार्थः– शुभतमेति । मतेः शुभतमत्वं यथार्थत्वम्, स्वयोग्यतया पूर्णत्वं वा । चतुर्थाध्यायार्थः– शुद्धेति । सुखस्य शुद्धत्वं दुःखासम्भिन्नत्वं वाऽनन्तत्वं वा स्वयोग्यतया पूर्णत्वं वा । उपायत्वं च प्रदातृत्वम् । मत्युत्पादकमाह– सकलेति । निगमशब्देन सदागमा गृह्यन्ते । अगमप्रतिपाद्यता लक्षणयेति शङ्कानिरासार्थमाह– सर्वेति । शब्दाः संस्कृतशब्दाः । निराकारत्वनिवृत्त्यर्थमाह– नवेति । ग्रन्थारम्भे वाग्व्यापारस्यापेक्षितत्वा-द्वागभिमानित्वाच्च लक्ष्म्याः पार्थक्येन तद्वन्दने स्वातन्त्र्यप्रतीतिर्मा भूदिति भावेनाह– लक्ष्मीसहायम् इति । अत्र लक्ष्म्याः सहाय इति तत्पुरुषः।
एवं स्वेष्टोत्कृष्टदेवतां प्रणम्योत्तरग्रन्थोपक्षेपाय प्रारिप्सितविघ्ननिवर्तकत्वेन हरिं स्तौति विघ्नौघेति । शास्त्रकर्तारं मध्वाचार्यं प्रणमति – अभ्रममिति । यद्यप्यत्र ‘‘अपे क्लेशतमसो-रि’’ति अपपूर्वाद्धन्तेः क्लेशतमसोः कर्मणोरुपपदयोर्डप्रत्ययविधानात् प्रकृते तदभावात् ‘तापत्रयापहमि’त्ययुक्तम् । तथापि ‘‘अन्येष्वपि दृश्यते’’ इत्यपिग्रहणात् सर्वोपाधि-व्यभिचारार्थाद्धात्वन्तरादनुपपदादुपपदान्तरयुक्तादपि डप्रत्यय इत्यर्थलाभेन डप्रत्ययोपपत्तिः । अत एवोक्तं काशिकायाम् – ‘‘अपिशब्दः सर्वोपाधिव्यभिचारार्थः’’ इति । तेन धात्वन्तरादपि डप्रत्ययो भवतीत्यर्थः । अत्र भ्रमेत्यज्ञानोपलक्षकम् । तेनाज्ञानभ्रमरहितमित्यर्थः । ‘भङ्गरहित-मि’त्यनेन पराभवराहित्यम्, ‘अजडमित्यनेन करणापाटवराहित्यम्, ‘विमल’मित्यनेन विप्रलिप्साराहित्यम् । एवं चाज्ञानभ्रमविप्रलिप्साकरणापाटवानामभावोक्त्या परमाप्तत्वं प्रसिद्धतीर्थवैलक्षण्योक्त्याऽतुलत्वं चोक्तं भवति । सदेति प्रत्येकमन्वयः । ‘‘आनन्दतीर्थ-मित्यनेनानन्दप्रदं शास्त्रं यस्मादिति व्युत्पत्त्या शास्त्रकर्तृत्वमुक्तं भवति ।
टीकाकर्तारं स्तौति – चित्रैरिति । अत्र पदानां चित्रत्वमबोधकत्वादिराहित्यम् । वाक्यानां गम्भीरत्वं गहनार्थकत्वम् । मानानामखण्डितत्वं प्रतिपक्षादिविधुरत्वम् ।
आश्रमगुरुं प्रणमति– समुत्सार्येति । विद्यागुरून् प्रणमति– ज्ञानेति । करिष्यमाण-ग्रन्थमूलं दर्शयन् ग्रन्थनाम निर्दिशति – श्रीमध्वेति । स्वग्रन्थस्य साफल्यमाह– विक्षिप्तेति । न च अनुक्तकथनादित्ययुक्तम्, पूर्वाचार्यप्रणीतप्राचीनग्रन्थेषु कथितस्यैव सर्वस्यात्र कथनात् । अन्यथा तत्र तेषामज्ञानप्रतिपादनमनेन कृतं स्यात् । तथा च प्रमाणविरोध इति वाच्यम् । ज्ञानिनामप्युक्तिवैमुख्यदर्शनात्, ज्ञातस्य सर्वस्योक्तिनियमाभावात्, अस्मदादिष्वपि ज्ञातसर्वा-नुक्तेरनुभवसिद्धत्वाच्चानुक्तकथनादिति यथाश्रुतमेव साध्वित्येके । तन्न मनोरमम् । अत्रोक्त-सर्वार्थस्य मूलकोशे तत्र तत्र दर्शनात्, स्वोक्तार्थे मूलकोशसम्मत्यादेः कथितत्वाच्च । किञ्चात्राचार्यानुक्तोऽर्थः कथ्यमानः किमवश्यवक्तव्यः? किं वाऽवश्यावक्तव्यः? नान्त्यः । ‘‘आमथ्योद्ध्रियते न्यायामृतम्’’ इति स्वेनैव स्वग्रन्थस्यामृतत्वोक्त्याऽतिशयार्थप्रतिपादकत्व-प्रतिपादनादवश्यावक्तव्यार्थवचने स्वोक्तिविरोधापत्तेः । नाद्यः । आचार्योक्तार्थस्य न्यूनत्वापत्त्या तस्याप्रेक्षावत्त्वापत्तेः । आलस्योपेक्षादिरहितस्याचार्यस्यावश्यवक्तव्यार्थानुक्तौ कारणाभावाच्च । तस्मादनुक्तत्वेन प्रतीयमानत्वमेवानुक्तशब्दार्थः ।
श्रीनिवासतीर्थविरचितः
न्यायामृतप्रकाशः
वासवीहृदयानन्दं वेदशास्त्रप्रणायकम् ।
वेदव्यासं गुरूपास्यं वन्देऽभीष्टप्रदायकम् ।। १ ।।
श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसेवितम् ।
श्रीव्यासं श्रीमदानन्दतीर्थसंसेव्यमाभजे ।। २ ।।
हृत्तमोनाशकं शास्त्रप्रभया तत्वभासकम् ।
नमामि श्रीमदानन्दतीर्थाचार्यदिवाकरम् ।। ३ ।।
श्रुतिक्षीराब्धिमामथ्य बुद्धिमन्दरभूभृता ।
प्राप्ता न्यायसुधा येन तं जयेन्द्रमहं भजे ।। ४ ।।
ब्रह्मण्यतीर्थवार्ध्युत्थं व्यासतीथेन्दुमाभजे ।
तात्पर्यचन्द्रिकायुक्तं सर्वतापापहं सताम् ।। ५ ।।
वेदव्यासाब्धिसञ्जातं सदा हरिपदाश्रयम् ।
पदार्थकौमुदीयुक्तं वेदेशेन्दुमहं भजे ।। ६ ।।
श्रीमन्न्यायसुधाया यैर्भावः सम्यक्प्रदर्शितः ।
तान्वन्दे यादवाचार्यान्सदा विद्यागुरूनहम् ।। ७ ।।
अथ तत्कृपया न्यायामृतस्येदं प्रकाशनम् ।
क्रियते श्रीनिवासेन गुरुशिक्षानुसारतः ।। ८ ।।
इह खलु व्यासतीर्थश्रीमच्चरणः श्रुतमर्थं मिमनिषया निबिभंत्सुः परीक्षकप्रवृत्त्यङ्गभूतमनुबन्ध-चतुष्टयं वक्तुं विशिष्टविषयादिमद्ब्रह्ममीमांसया निबध्य सम्बन्धयितुं चतुर्लक्षणीमीमांसाविवक्षित-विशेषणचतुष्टयवत्त्वेनेष्टदेवतामभिष्टवीति– निखिलेत्यादिना ।। निखिलगुणपूर्णत्व नित्यनिर्धूतहेय-त्वयोर्हेतुहेतुमद्भावः, ‘श्रियःपत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमस’ इति टीकाकारोक्तरीत्याऽवगन्तव्यः ।
ननु निकायमिति कथम् । ‘‘निकाय्यनिलयालया’’ इत्यमरकोशे ‘‘पाय्यसान्नाय्यनिकाय्य-धाय्यामानहविर्निवाससामिधेनीषु’’ इति सूत्रे च निकाय्यशब्दस्यैव निलयवाचित्वोक्तेर्निकाय्यम् इति वक्तव्यत्वादिति चेत् । अत्राहुः । निपूर्वकान्निवासार्थकाच्चिनोतेर्धातुविशेषाद्धञ्प्रत्ययेऽकारमात्रं विहाय सर्वस्यापि लोपे चकारस्थस्य इकारस्य एकाररूपे गुणे प्राप्ते अचोऽञ्णितीति ऐकाररूपवृद्धौ सत्यां तस्य चायादेशे चकारस्य ककारादेशे निकायम् इति रूपस्य, ‘‘निवासचितिशरीरोपसमाधानेष्वादेश्च क’’ इति सूत्रे निवासार्थे साधिततया निखिलगुणानां निवास आश्रय इत्यर्थो द्रष्टव्य इति । गुरु-चरणास्तु । नायं निकायशब्दः कोशसूत्रोक्तरीत्या निवासार्थे रूढोऽभिप्रेतः । किन्तु अव्ययानाम-नेकार्थत्वान्निखिलगुणा एव नितरां कायो यस्येत्यर्थस्याभिप्रेततया न कोऽपि क्षुद्रोपद्रव इत्याहुः ।।
शुभतमेति ।। मतिशब्दस्य ध्यानार्थत्वे तस्याः शुभतमत्वं नाम वैराग्यभक्तिदार्ढ्योपकृतत्वम् । तेन मेयं साक्षात्कर्तव्यम् । अपरोक्षज्ञानार्थत्वे तु वैराग्यभक्तिध्यानजातत्वेन शुभतमत्वं तस्य मन्तव्यम् । तेन मेयं विषयीकर्तव्यम् । यद्वा नित्यानित्यवस्तुविवेकवैराग्यशमदमादिसंपत्तिमुमुक्षारूप-साधनचतुष्टयसंपन्नत्वेन शुभतमा ये पुरुषास्तेषां मत्या मेयं श्रवणादिद्वाराऽपरोक्षज्ञानेन विषयी-करणीयमित्यर्थः । सौख्यस्य शुद्धत्वं नाम दुःखासम्भिन्नत्वं मन्तव्यम् । अनेन विशेषण-चतुष्टयेनाध्यायचतुष्टयार्थः सङ्गृहीत इति ध्येयम् । तथा च भगवतो विषयत्वाच्छुद्धसौख्यस्य परमप्रयोजनत्वान्मतिशब्दोक्तापरोक्षज्ञानस्य चावान्तरप्रयोजनत्वाच्छुभतमानाञ्च अधिकारित्वाद्यथायोग्यं सम्बन्धसद्भावात्प्रेक्षावतामत्र प्रवृत्तिरुचितेत्यपि सूचितम् । गुणपूर्णत्वोपपादनायाह ।। सकलेति ।। वैदिकानां सर्वशब्दानां यौगिकत्वात्तदभिधेयत्वे सकलगुणपूर्णत्वमेव सिद्ध्यति । यथोक्तं ‘अतोऽनन्त-गुणो विष्णुर्यच्छब्दा योगवृत्तयः’’ इति । ननु कासुचिच्छाखासु अन्यथाऽप्युच्यमानत्वान्न विष्णो-र्निखिलनिगमगेयत्वं युक्तमित्याशङ्कापरिहाराय सूत्रकृदुक्तं गतिसामान्यं हृदि निधायाह ।। सर्वशब्देति ।। वैदिकप्रकृत्यादिसर्वशब्दाभिधेयमित्यर्थः । अतो नानयोर्विशेषणयोः पुनरुक्तिरिति भावः । यद्वा अधिकारिभेदेन वाक्यसमन्वयपदसमन्वयाभ्यां भगवानेव प्रतिपाद्य इति वाक्या-न्वयाज्ज्योतिरुपक्रमादित्यादि सूत्रोक्तप्रकारं हृदि निधायेदं विशेषणद्वयम् । अतो न पुनरुक्तिरिति मन्तव्यम् । निराकारस्य ब्रह्मणो बुद्धावनारोहाच्छुभतममतिमेयत्वं यदुक्तं तदयुक्तमित्याशङ्का-परिहारायोक्तं नवजलधरकायमितीत्याहुः । वस्तुतस्तु निखिलगुणनिकायमित्यनेनैव निराकारत्व-शङ्कायाः परिहृतत्वात्स्वोपास्यदेवतास्वरूपकथनायैवेदं विशेषणमिति मन्तव्यम् । नवजलधरोवर्षा-कालीनो मेघः तद्वद्विद्यमानः कायो यस्य तं नीलमेघश्यामं श्रीकृष्णमित्यर्थः । लक्ष्मीसहायमित्यत्र लक्ष्म्याः सहाय इति विग्रहो न तु लक्ष्मीरेव सहायो यस्येति । तथात्वे महिमातिशयाऽलाभात् । एवं
च लक्ष्म्याः भगवान्सहाय इति वचनेन ग्रन्थस्य वाङ्मनोव्यापाररूपत्वाल्लक्ष्म्याश्च वाङ्मनसदेवतात्वाद्य-ल्लक्ष्म्या वाङ्मनसदेवतात्वं तदपि तदधीनमिति प्रमेयसूचनेन भगवतो महामहिमा लभ्यत इति ध्येयम् ।।
स्वापेक्षितविघ्ननिवारणगुणवत्त्वेन भगवन्तं सेवते– विघ्नौघेति ।। सत्याशेषेतिविशेषणमुत्तर-ग्रन्थोपक्षेपाय भूमिकारचनरूपमिति ज्ञेयम् ।।
आदिगुरून्सेवते ।। अभ्रममिति ।। भ्रमरूपज्ञानरहितम् । गङ्गादिसर्वतीर्थेषु भ्रमो नामाऽऽवर्त-स्तिष्ठतीत्याशयः । भङ्गरहितं प्रतिवादिप्रयुक्तपराभवरहितम् । अन्यत्र तु वसन्तादिकाले प्रवाह-विच्छेदरूपो भङ्गोऽस्तीत्यवसेयम् । अजडं जाड्याख्यदोषरहितम् । इतरत्र तु जलात्मकत्वात् जाड्यमस्तीति बोध्यम् । विमलं विगतमलम् । ‘‘शमलं पापमुद्दिष्टं रागद्वेषादिकं तथा । अपराधश्च शमलं मलं च शमलं विदु’’रिति कर्मनिर्णयवचनात् मलशब्दोक्तपापरहितमित्यर्थः । अपरत्र तु वर्षाकाले कल्मषतादिरूपं मलमस्तीत्यवसेयम् । तापत्रयापहं स्मरणादिना आध्यात्मिकादितापत्रय-वारकम् । इतरत्र तु आधिभौतिकाख्यबाह्यतापवारकत्वमेवेति ध्येयम् । अत एवातुलं गङ्गादितीर्था-सदृशम् ।।
जयतीर्थवाक्स्तुतिव्याजेन तान्स्तौति– चित्रैरिति ।। पदानां चित्रत्वं नामाऽऽकाङ्क्षादियुक्तत्वम् । वाक्यानां गम्भीरत्वं नामास्पष्टार्थत्वम् । मानानामखण्डितत्वं नाम प्रतिप्रमाणराहित्यं द्रष्टव्यम् । गुरोरानन्दतीर्थस्य यो भावः गुरुभावस्तम् ।
स्वसन्न्यासगुरुं सेवते समुत्सार्येति ।। भास्करपक्षे विष्णुपदमाकाशम् । ‘‘वियद्विष्णुपदं व्योमे’’त्यभिधानात् ।
स्वविद्यागुरून्प्रणमति ज्ञानेति ।। स्वग्रन्थनामाह– श्रीमध्वेति ।। प्रसिद्धामृतपक्षे विबुधाः देवाः । ग्रन्थपक्षे विबुधाः पण्डिताः । न्यायामृतोद्धरणस्य मूलकोशैरेव शिष्यैः कर्तुं शक्यत्वाद्व्यर्थोऽयं भवतां श्रम इत्यत आह– विक्षिप्तेति ।। अनुक्तेति ।। भगवत्पादटीकाकाराभ्यां कण्ठतोऽनुक्त-मर्थादुक्तमिति व्याख्येयम् । अन्यथा तदुभयापेक्षया स्वस्य सार्वज्ञ्यापत्तिरिति ध्येयम् ।।
श्रीकूर्मनरहरिआचार्यविरचिता
न्यायकल्पलता
श्रीमत्पूर्णगुणैकतानसुभगानन्तानवद्याकृतिम् ।
लक्ष्म्यालिङ्गितवामभागमखिलाम्नायैकवेद्यं परम् ।।
मुक्तामुक्तविधीशपूर्वकगणैः संसेविताङ्घ्रिद्वयम् ।
संसेवे भवबन्धमुक्तिदमलं वेदान्तयोनिं हरिम् ।। १ ।।
श्रीमदानन्दतीर्थार्यान्प्रवन्दे साधुसंविदे ।
लसतो दुर्मतध्वान्तविपाटनसदोद्यतः ।। २ ।।
जयतीर्थमुनीन् वन्दे परतत्त्वप्रकाशकान् ।
परविद्याप्रवक्तृत्वं यदुपज्ञं सतां भुवि ।। ३ ।।
रघुवर्यगुरून्सेवे परविद्याविशारदान् ।
यदनुग्रहेण सुजनो लभते परमां मुदम् ।। ४ ।।
निष्णातान्परविद्यायां रघूत्तममुनीन् सदा ।
वन्दे स्वाभीष्टसिद्ध्यर्थं शिष्याभिलषितार्थदान् ।। ५ ।।
श्रीमदानन्दतीर्थीयसत्सिद्धान्तदिवाकरः ।
जयत्युद्दामपाषण्डतिमिरापनयप्रभुः ।। ६ ।।
श्रीमद्व्यासयतीन्द्रीयन्यायामृतमहोदधौ ।
समुद्भूता न्यायकल्पलता संसेव्यतां बुधैः ।। ७ ।।
व्याख्यानहेतुतोऽन्योक्तदूषणानामलग्नताम् ।
दर्शयामो यथान्यायं तेन तुष्यन्तु सूरयः ।। ८ ।।
इह खलु निःश्रेयस्साधनश्रौतमननाङ्गभूतसन्न्यायोपबृंहितनिबन्धं चिकीर्षुः सकलविद्वन्मणि-चिन्तामणीन्द्रः श्रीमद्व्यासतीर्थश्रीमच्चरणः प्रारिप्सितनिष्प्रत्यूहपरिसमाप्त्यादिहेतुतयाऽविगीतशिष्टाचार-परम्परावगतं विशिष्टेष्टाधिकृतपरदेवतानारायणस्तुतिरूपं मङ्गलं ग्रन्थादौ निबध्नाति– निखिलेति । विद्यारम्भसमये सकलवाङ्मनसदेवतया रमया युक्तस्यैव नारायणस्य स्तुतिरुचितेति लक्ष्मीसहायमिति विशेषणं निरदिक्षत् । लक्ष्म्या सहायते जगन्निर्माणादौ प्रवर्तते इति लक्ष्मीसहायः । जगदुपादाना-चित्प्रकृत्यभिमानित्वात् । लक्ष्मीः सहायो यस्येति वा लक्ष्म्याः सहाय इति वा । लक्ष्मीः सहायते प्रवर्तते येनेति वा । लक्ष्म्याः सह सदा वर्तमानः स्वरूपानुबद्धः अयः शुभावहो विधिः येनेति वा लक्ष्मीसहायः तम् । ‘यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्’ इति नारायणोपनिषदि । जगत्प्रसवित्री लक्ष्मीर्येन नारायणेन प्रकृष्टतया प्रेरिता सती । षूञ् प्रेरणे इति धातोः कर्मणि क्तः । प्राचीनाचीर्णतत्तज्जीवादृष्टेन स्वाभिमन्यमानाचित्प्रकृतौ तामुपादानीकृत्येति यावत् । ब्रह्मादिचेतनान् विविधदेहविशिष्टतया सृष्टवतीत्यर्थः । प्रसूतीत्युक्तौ च संज्ञायामिति षूङ् प्राणप्रसव इति धातोः क्तिन् प्रत्यये कृते कृदिकाराक्तिन इति ङीबिति ज्ञेयम् । ‘श्रीश्च ते लक्ष्मीश्च पत्न््नयौ’ इति श्रुतेश्च । ‘त्वया जुष्टऋषिर्भवति देवि त्वया ब्रह्म गतश्रीरुत त्वया’ इति च । ‘ओं समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ओं’ इति हि ब्रह्मसूत्रम् ।
यद्वा लक्ष्म्या अयनत्वेन सहायमित्यर्थः । एतन्नारायणपदसमानार्थम् । न सन्त्यराः दोषाः यस्याः सा नारा । नित्यमुक्तत्वात् । तस्याः नारायाः अयनो नारायण इति निर्वचनात् । रमाश्रयत्वेन नारायणस्य सङ्कीर्तनात् सकलपुरुषार्थप्रदत्वं सूचितम् । ऋग्वेदे च लक्ष्म्या ‘अहं रुद्रेभिः’ इत्यारभ्य ‘यं कामये तं तम्’ इति स्वमहिमानं निरूप्य ‘मम योनिरप्स्वन्तः समुद्र’ इति स्वनियामकत्वेन परमात्मनोऽभि-धानात् । ‘श्रियं वसाना अमृतत्वमायन्’ इति च । तत्रैवं क्रियाकारकयोजना । अहं लक्ष्मीसहायं नौमि इत्यन्वयः । उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते । निखिलेत्यादीनां तु स्तुतिकर्मणा नारायणेन विशेषणतया सम्बन्धः । तैश्च यथायोगं विशिष्टेष्टाधिकृतत्वं ज्ञायते ।
अथवा प्रेक्षावत्प्रवृत्त्यौपयिकविषयादिमत्वसिद्धये स्वग्रन्थं परविद्यया सङ्गमयितुकामः चतुर्थाध्यायी-प्रतिपिपादयिषितविशेषणविशिष्टतया परदेवतां विशिनष्टि । निखिलेति निखिलाः समग्राः गुणाः आनन्दादय एव, नियतः नित्यः कायो देहो यस्य सः तथोक्तः । निखिलानां आनन्दादिगुणानां निकाय आश्रय इति वा । ‘निवासचितिशरीरोपसमाधानेष्वादेश्च कः’ इति सूत्रेण चिनोतेर्घञि, वृद्धौ, चकारस्य ककारादेशे च कृते निकायशब्दो निवासार्थे व्युत्पादितः । अनेन प्रथमाध्यायार्थः सङ्ग्रहीतः । चतुर्लक्षण्याः परविद्यायाः पूर्वेऽध्याये सकलश्रुतिसमन्वयेन जिज्ञास्यस्य हरेर्ब्रह्मशब्दोक्तनिखिलपूर्णगुणैक-देहत्वस्य समर्थितत्वात् । अविरोधलक्षणे द्वितीये यत्र गुणास्तत्र दोषा इति गुणदोषयोः साहचर्यदर्शनेन गुणवांश्चेद्दोषवानपि स्यादिति शङ्कायां युक्त्यादिविरोधव्युदसनेनोपपादितं यन्निर्दोषत्वं तज्जग्राह -नित्यनिर्धूतहेयमिति । अवद्याद्यत्यस्पृष्टमित्यर्थः ।
तृतीयाध्यायार्थं निर्दिशति– शुभेति । अतिशयेन शुभा शुभतमा । हरिस्वातन्त्र्यविषयत्वात् शुभतमा मतिः यैस्ते शुभतममतयो वेदाः तैर्मेयो ज्ञेयः । वैराग्यादिना शुभतमा मतिर्येषां ते तैरधिकारिभिः मेय इति वा । श्रवणादिना शुभतमा निर्दोषवेदोत्पन्ना या मतिः तया मेय इति वा । शुभतममतिमेयः तमित्यर्थः । एवमुक्तलक्षणे ब्रह्मस्वरूपे सिद्धेऽधिकारिणोऽपवर्गसाधनतदत्यर्थप्रसादः कथं स्यादिति आकाङ्क्षां पूरयति साधनगोचरे तृतीयेेऽध्याये तत्प्रसादनोपायभूततत्साक्षात्कारोत्पादाय वैराग्यभक्तिपूर्वकाखिलवेदार्थश्रवणादे-रभिहितत्वात् । प्रसन्नं च तत्कीदृशं पुमर्थं प्रयच्छतीत्याकाङ्क्षायां स्वरूपानन्दमाविर्भावयतीति तुरीयेऽभि-हितं तत्सङ्गृह्णाति– शुद्धेति । सुखमेव सौख्यम् । शुद्धं यत्सौख्यं दुःखासम्भिन्नं सुखं तदाविर्भावोपाय-मित्यर्थः । निरवधिकानन्तानवद्यकल्याणगुणैकदेहत्वमुपपादयंस्तं विशिनष्टि– सकलेति । ‘सर्वे वेदाः यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति इति कठश्रुतेः’ । वाक्यान्वये वेदानां भगवत्परत्वेेऽप्य-व्यक्तादिशब्दानां तदनभिधायकत्वेन तत्तच्छब्दप्रवृत्तिनिमित्तालाभे सर्वगुणपूर्तेरसिद्धिरित्यत उक्तम् -सर्वेति । ‘नामानि सर्वाणि यमाविशन्ति’ इति श्रुतेः ।
‘वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः ।
तावन्ति हरिनामानि कीर्तितानि न संशयः’ इति स्मृतेश्च ।
‘निरनिष्टो निरवद्य’ इति श्रुत्या भगवतो दोषास्पृष्टत्वनियमावगमात् सर्वस्वातन्त्र्येण परतन्त्रा-व्यक्तादिगततत्तच्छब्दार्थनियन्तृत्वात् तत्तदभिधेयगुणलाभात् सर्वशब्दसमन्वयबलेनानन्तकल्याणगुणपूर्णत्व-सिद्धिरिति भावः । सनिदर्शनं भक्ताभीष्टपूरकत्वं दर्शयंस्तं विशिनष्टि– नवेति । एतेन ब्रह्मणो निर्देहत्वे सर्वकर्तृत्वप्रमुखगुणालाभः । सदेहत्वे मरणादिप्रसङ्गेन जीवसाम्यापत्या च जिज्ञास्यत्वायोग इति निरस्तम् । निरवधिकानन्तानवद्य बलज्ञानानन्दादिगुणैकतानात्मकदेहत्वात् । तथा च ब्रह्मसूत्रम् । ‘ओं विकरणत्वान्नेति चेन्न तदुक्तमिति’ ।। १ ।।
अन्तरायनिवृत्त्यर्थतयाऽपि मङ्गलान्तरमाचरति– विघ्नेति । विघ्नन्ति श्रेयः प्रतिबध्नन्ति ते विघ्नाः तेषां ओघाः राशयस्तान्वारयति निवर्तयतीति विघ्नौघवारणः तम् । ‘कृत्यल्युटो बहुलम्’ इति बहुलग्रहणात् कर्तर्यपि ल्युट्प्रत्ययः । नन्द्यादित्वाद्वा ल्युट्प्रत्ययः । एतद्गुणान्वितं हरिमहं भजे । कल्याणगुणोत्कर्षावधित्वप्रमितिपूर्वकस्नेहरूपभजनं कुर्वे इत्यर्थः । न च विघ्नानां भूयस्त्वात्सकृदनुष्ठितेन मङ्गलेन कथमशेषनिवृत्तिः । ‘‘श्रेयांसि बहुविघ्नानि भवन्ति महतामपी’’ति वचनादिति देश्यम् । अन्यविषयकमङ्गलस्य प्रारीप्सितसमाप्त्यादिप्रतिबन्धकाशेषदुरितनिवर्तनासामर्थ्येऽपि सकृदनुष्ठितभक्ति श्रद्धातिशयपूर्वकभगवद्विषयकमङ्गलस्य तथात्वादित्याशयेन तादृग्विशेषणोक्तिः । नन्वन्येष्वविद्यमान-मशेषान्तरायनिवर्तनसामर्थ्यं हरेः कथं प्रमेयमित्यतस्तं विशिनष्टि– सत्येति ।। अशेषविश्वकर्तृत्वेन स्वातन्त्र्यावधित्वात् रमाब्रह्मादिदेवेष्वविद्यमानतादृक्सामर्थ्यं हरेरुपपद्यते इति भावः । अत्र सामान्यतोऽभिहितं कारणत्वं तद्विशेषे कर्तृत्वे पर्यवस्यति । हरेरविकारित्वेनोपादानत्वस्य, निरवद्यत्वेन परिणम्यमानाविद्याधिष्ठातृत्वस्य चारम्भणाधिकरणे व्युदस्तत्वात् । निमित्तत्वमात्रस्य च सर्वोत्पत्तिम-न्निमित्तकारणकालादिसाधारणत्वात् । तस्याप्यचेतनत्वेनाधिष्ठात्रपेक्षत्वात् । अदृष्टाधारतया जीवानां भोक्तृत्वेऽपि कर्तृत्वानुपपत्तेः । अदृष्टप्रेरकेश्वरेच्छानिर्मिततत्तद्वस्तुभोगोपपत्तेश्च । सत्यपदं तु ब्रह्मणः कर्तृत्वोपपादनार्थं विवर्तवादिमतनिरासकोत्तरप्रबन्धोपक्षेपार्थं चेति ज्ञेयम् ।
ननु लोके तादृक्सामर्थ्योपेतानामप्युदासीनानां बहुलमुपलम्भाद्धरिः समर्थोऽप्युदासीनः किं न स्यादित्यत उक्तं– करुणेति । निरुपाधिकपरानिष्टप्रहाणेच्छा करुणा तस्याः सिन्धुरिव करुणासिन्धुः कृपापारावारस्तमित्यर्थः । ननु सकृदनुष्ठितभगवद्विषयकमङ्गलेनाशेषदुरितनिवृत्तिसम्भवात् किं तद्विषयक-मङ्गलान्तराचरणेनेत्यतस्तं विशिनष्टि– आनन्देति । आनन्दो ब्रह्म अनन्तकल्याणगुणोत्कर्षावधितया तत्प्रतिपादकं तीर्थं शास्त्रं यस्य स तथोक्तः । आनन्दः सुखं तदवाप्तिसाधनं तीर्थं यस्येति वा । तस्य बन्धुः निरुपाधीष्टः आनन्दतीर्थबन्धुः तम् । ‘सतो बन्धुमसति निरविन्दन्’ इति श्रुतेः । ‘सदिति प्राण’ इति च । आनन्दतीर्थस्य मुख्यप्राणावतारत्वेन तद्बन्धुत्वं हरेः श्रौतं स्मारितमिति द्रष्टव्यम् ।
‘स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरुं तथा ।
देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक्’ ।। इति तन्त्रोक्तेः ।। २ ।।
सम्प्रदायप्रवर्तकत्वेनादिगुरुं भाष्यकारं भजते– अभ्रममिति । अत्र भाष्यकारस्यानन्दतीर्थत्वोक्त्या जलाशयतीर्थरूपतायां ध्वनितायां प्रसिद्धगङ्गादितीर्थसाम्यप्राप्तौ तद्वैषम्यमुच्यते– अतुलमिति । तदेवोप-पाद्यते अभ्रममित्यादिभिर्विशेषणैः । भ्रमशब्देनावगतावर्तो नञा प्रतिषिध्यत इति प्रसिद्धजलाशय-रूपतीर्थवैषम्यम् । तथा मिथ्याप्रत्ययशून्यत्वं च प्रतीयत इति ध्वनिश्लेषयोरङ्गाङ्गिभावेन सङ्करः । भङ्गशब्देन तरङ्गाभिधानात् श्लेषेण तत्प्राप्तौ तत्प्रतिषेधात् प्रसिद्धतीर्थवैषम्यम् । तथा ध्वनितः पराभवोऽपि निषिध्यते । अजडमित्यनेनापि श्लेषेण प्राप्ता जडात्मता व्युदस्यत इति तद्वैषम्यम् । तथा रयोरभेदेन प्रसक्तजडतादात्म्यनिषेधात्पूर्णबोधात्मता च ध्वन्यते । सदा विमलमित्यनेनापि वर्षानिमित्तकालुष्य-निषेधात्तद्वैषम्यम् । तथा सदा प्राकृतगुणलक्षणमलराहित्यं च ध्वन्यते । तापत्रयापहमित्यनेनापि एकतापनिवारकजलाशयाद्वैषम्यम् । यद्यप्यपे क्लेशतमसोरिति सूत्रेण क्लेशतमसोः कर्मणो उपपदयोरप-पूर्वाद्धन्तेर्डप्रत्ययो विहितस्तथापि ब्रह्मभ्रूणेत्यादिवदुपपद नियमानाश्रयणाद्रुप्रत्ययोपपत्तिः । सूत्रं त्वनाशीरर्थे डप्रत्यय इत्येतदर्थमिति वृत्तावुक्तम् ।। ३ ।।
तदीयवागुपश्लोकनेन परमगुरुं टीकाकारमभिष्टवीति– चित्रैरिति । नित्यं परमात्मानं श्रयन्ति सेवन्ते इति श्रियः ऋगाद्याः विद्याः । लयकालेऽपि हरिस्तावकत्वात् । ‘यावद्ब्रह्मविष्टितं तावती वाक्’ इति ऋग्वेदे । ‘यत्र ह क्व च ब्रह्म तद्वाक् यत्र वाक् तद्ब्रह्म’ इति ऐतरेयकम् । ‘ऋचः सामानि यजूंषि सा हि श्रीरमतासताम्’ इति हि तैत्तिरीयकम् । जयो ब्रह्मगुणोत्कर्षः तत्प्रतिपादकं पाषण्डिपराभवहेतुर्वा तीर्थं शास्त्रं यस्येति जयतीर्थः श्रीयुतो जयतीर्थः श्रीजयतीर्थस्तस्य वाक् व्याख्या वाणी भाति प्रकाशते । प्रकाशने हेतुं निरूपयन् तं विशिनष्टिचित्रैः पदैः, गम्भीरैर्वाक्यैरखण्डितैर्मानैश्च । गुरोर्मूलगुरोः सूत्रकारस्य, आदिगुरोेर्भाष्यकारस्य भावमभिप्रायं व्यञ्जयन्ती प्रकाशयन्तीत्यर्थः । पदानां चित्रत्वं नाम पदार्थसंसर्गबोधानुकूलसुप्तिङ्ङाद्युपेतत्वं, वाक्यबोधान्वयप्रतियोगितावच्छेदकावच्छिन्नपदोपस्थितिकारणता-वच्छेदकावच्छिन्नत्वं वा, न तु अन्वयबोधहेतुतावच्छेदकावच्छिन्नपदार्थोपस्थितिजनकतावच्छेदका-वच्छिन्नत्वम् । आगमस्यातीतानागतपदार्थसंसर्गप्रमापकत्वात् । अतीतानागतयोश्च हेतुत्वासम्भवात् । वाक्यार्थबोधस्याशब्दत्वप्रसङ्गाच्च । सप्तमप्रमाणाङ्गीकारापाताच्च । न च पदानामेव पदार्थस्मृतिद्वारकाणा-मन्वयबोधकत्वात् नोक्तदोष इति साम्प्रतम् ।
पदनिचयश्रवणवाक्यार्थबोधमन्तरा पदार्थस्मृतीनामेवानभ्युपगमादिति सुधाविरोधात् । न च पदस्यापि पदार्थतावच्छेदकप्रकारकपदार्थस्मृतिकारणत्वं न त्वनुभावकत्वमिति देश्यम् । अस्मात्पदादमुमर्थं स्मरामीति तदनुव्यवसायाभावात् । अर्थमनुभवामीत्यत्र बाधकाभावाच्च । व्युत्पत्तिकालेऽनुभवहेतुत्वेन गृहीत-शक्त्येदानीमपि पदार्थानुभवस्यैव जनयितव्यत्वाच्च । दृष्टेन हस्तिना हस्तिपस्मृतेरिव श्रुतेन पदेन पदार्थस्मृतेरपि व्युत्पत्तिकाले सहानुभूतत्वरूपसम्बन्धादेव सम्भवेन स्मरणार्थमभिधारूपशक्तेरनपेक्षित-त्वाच्च । न चैवमर्थस्मृतिरूपावान्तरव्यापाराभावात् शब्दस्य कथं प्रमाणत्वमिति वाच्यम् । अभिधारूप-शक्तिस्मृतेरेव व्यापारत्वात् । सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियमस्तु प्रत्यक्ष एव न तु शब्दे । संयोगोेऽस्तीत्यादिशब्दात्संयोगिज्ञानमन्तरेणापि संयोगानुभवात् । इन्द्रियलिङ्गाभ्यां सन्निकर्षव्याप्त्योरिव शब्देनाप्यभिधारूपशक्तेरनुभवरूपे स्वफले जनयितव्य एव स्वविषयेण सह सम्बन्धत्वेनापेक्षितत्वात् । अन्यथा व्याप्तिरपि पर्वते वह्निस्मारिका स्यादिति । वाक्यानां गम्भीरत्वं नाम समासविशेषादिवृत्ति-मत्वम् । मानानामखण्डितत्वं च प्रतिमानपराहतिराहित्यम् । एतेन पदवाक्यप्रमाण परिशोधकव्याकरण-मीमांसान्यायविद्यानिष्णातत्त्वमुक्तम् ।। ४ ।।
दीक्षागुरुं स्तुतिरूपेण सेवते– समुत्सार्येति । तमो अन्धकारः परावरतत्त्वस्वरूपावरणमज्ञानम् । सम्यक् ज्ञानप्रतिबन्धकत्वात् । चशब्दोेऽन्वाचयार्थः । क्रमेणानेकक्रियासम्बन्धात् । यथा भास्करः सदा वियद्गतः सन् तत्तद्देशीयान्धकारनिवृत्तिपूर्वकं यात्रार्थिनो लोकस्य सन्मार्गप्रकाशकस्तथा ब्रह्मण्यतीर्थ-श्रीचरणः सदा श्रीचरणारविन्दासक्तान्तःकरणस्तत्त्वोपदेशेन साधूनामज्ञानसमूहं निवर्त्य सत्संप्रदायं प्रकाश्यापि विष्णुपदासक्तो भवति इति क्त्वाप्रत्ययोपपत्तिः । न च सुषुप्त्याद्यभावप्रसङ्गः ।
‘श्रवणादिविना नैव क्षणं तिष्ठेदपि क्वचित् ।
अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत्’
इति स्मरणात् । तेन विष्णुपादैकसंश्रयत्वं स्वाभाविकमिति ध्वनयति ।। ५ ।।
परविद्योपदेष्ट्रून् लक्ष्मीनारायणतीर्थश्रीपादान्गुरूनभिवादयते– ज्ञानेति । आद्येन विशेषणेन न परविद्योपदेशसामर्थ्यं व्यवस्थापितम् ।। ६ ।।
एवं स्तुत्यादिना परदेवतान् प्रसाद्य ग्रन्थमारिरिप्सुः अस्य सूत्रस्य शाटकं वयेतिवद्भाविनीं संज्ञामाश्रित्य प्रेक्षावदुपादेयताप्रयोजकमन्वर्थं नामास्याभिधत्ते– श्रीमध्वेति । उक्तार्थः श्रीशब्दः । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् । मध्व आनन्दतीर्थः स्यात्तृतीया मारुतीतनुः’ इति निर्वचनात् । ‘सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम्’ इति ऋग्वेदे । श्रीयुक्तो मध्वः श्रीमध्वः वेदादिविद्यासंसेवितो यो मध्वस्तदुपदिष्टं यच्छास्त्रं परविद्याख्यं तत् दुग्धाब्धिरिव श्रीमध्वशास्त्र-दुग्धाब्धिस्तम् । आमथ्यालोड्य । केन, धीमन्दरमहीभृता । धीरपि श्रौतार्थविक्षिप्ता भवतीति व्यालोलन्मन्दराचलसाम्यम् । न्यायामृतमुद्ध्रियते । विबुधशब्दो देवतापरो विद्वत्परश्च ।। ७ ।।
ननु प्राक्तननिबन्धयैव गतार्थत्वात्किमनेनापूर्वनिर्माणायासेनेत्यत आह– विक्षिप्तेति । अनुक्तेति । अंशेनोक्तस्य साकल्येनानुक्तस्य सपरिकरं कथनादित्यर्थः । यद्वा स्वकृतस्य निबन्धस्यावान्तर–प्रयोजनवत्तामनेनाचष्टे ।
वनमालिमिश्रविरचितम्
न्यायामृतसौगन्ध्यम्
सकलनिगमवाच्यो हेयशून्यो गुणाब्धि-
र्भवजलधितितीर्षुर्ज्ञेयमूर्तिर्मुकुन्दः ।
भवमतिगतपुम्भिः प्राप्यधामाऽखिलेशः
स्फुरतु स हृदये मे सुप्रसन्नो हयास्यः ।। १ ।।
जगदुदयलयादीन् दोषहीनो विधत्ते
भ्रमति निखिलविश्वं यस्य शक्त्यैकदेशे ।
त्र्यणुकमिव गवाक्षेऽनन्तपारस्य विष्णोः
स कृपयतु सदा नो गोपसूनुर्मुकुन्दः ।। २ ।।
कृतनिगमविभागं केशवांशं मुनीन्द्रं
यतिगुरुमरुदंशं देशिकाचार्यवर्यम् ।
कुमतवनकृशानू श्रीजयव्यासतीर्थौ
प्रणमति वनमाली तत्प्रसादैककामः ।। ३ ।।
श्रीमध्वशास्त्रदुग्धाब्धेः यन्न्यायामृतमुदुत्थितम् ।
श्राव्यते तस्य सौगन्ध्यं सुश्रुतस्य शुशुत्सया ।। ४ ।।
मन्नारी कृष्णाचार्यविरचिता
न्यायामृतमाधुरी
गुणान्प्लुषाणात्मनि दोषजातं विषाण चैनांसि मुषाण यः सताम् ।
पुषाण विन्दूनतिकालरोचिः प्रतीषिषन् श्रीशमुपाश्रये तम् ।। १ ।।
वेदान् विभाजय तदर्थविचारकाणि
सूत्राणि यः प्रकुरु बोधय देववृन्दम् ।
इत्त्थं व्यधायि विजिगाययिषुस्तदीय-
तन्त्राण्यतन्द्रितमनास्तमुपाश्रयेऽहम् ।। २ ।।
सूत्रोदधिं यः प्रणिदिग्धि गोभ्यः श्रथान चित्ताम्बुजमुद्रणं सताम् ।
लुनीह्यविद्यातम इत्यकार्षीत्स वेविदेन्दुर्धिनुतान्मनो मे ।। ३ ।।
अलीकसिद्धान्ततमांसि दाति मनोम्बुजं पुष्पविनीततीर्थे ।
चक्रे य इत्त्थं जयराजभानुश्चेतोनभस्यद्य स मे प्रचन्दतात् ।। ४ ।।
मथान मेधाभिधमन्दरेणामन्दोपलब्धेर्नयदुग्धनार्धिम् ।
न्यायामृतेनाशु बुधान्मृडेति चकार तं व्यासमुनिं श्रये यः ।। ५ ।।
फणिभाषितभाष्याब्धिर्यस्य क्रीडासरायते ।
लीलापद्मत्रितन्त्रीकं सत्यवर्यं तमाश्रये ।। ६ ।।
श्रीमान् सत्रायमाणस्य जगतः पोपुवोङ्कनात् ।
सत्यधर्मा सार्वभौमस्तेजताद्बालिशं हि माम् ।। ७ ।।
श्रीनिवासार्यमघवाऽघासीन्न्यायसुधासुधाम् ।
मायाविनश्च योऽदासीन्मछ्रेयस्तन्तनीतु सः ।। ८ ।।
सुमहद्भिः सुलेढव्या न्यायपीयूषमाधुरी ।
पञ्चग्रन्थ्यवगाढानां सुधीनां धिनुतान्मनः ।। ९ ।।
अनिविष्टोऽभिनिष्ठानमात्रेऽहं गर्ववर्जितः ।
प्रपञ्चे मृष्टमेवार्थं चिरन्तननिबन्धने ।। १० ।।
पञ्चग्रन्थ्यामरण्यान्यां नेमे विचरितंु क्षमाः ।
(अन्तिमपादः न दृष्टः) ।। ११ ।।
औतसिद्धिव्याख्यायां ब्रह्मानन्दो यदभ्यधात् ।
दूष्यन् तदाकरदृशां दूषये दूषणैर्मतैः ।। १२ ।।
श्रीनिवासार्यहृत्पद्ममन्दिरो हयकन्धरः ।
सुनन्दतात्सेवया मे भक्त्यलङ्कृतयाऽनया ।। १३ ।।
ग्रन्थादौ मङ्गलमाचरति– निखिलेति । चतुर्लक्षणीप्रतिपाद्यचतुर्विशेषणीविशेषिततया इष्टदेवता-तुष्टूषया पूर्वदले विशेषणचतुष्टयोपादानम् । यत्पदीयाभिधावृत्तिज्ञानोत्पादितोपस्थितिविषयता-वच्छेदकतात्वावच्छिन्नव्यापकं यत्पदाभिधावृत्तिज्ञानोत्पादितोपस्थितिविषयतावच्छेदकतात्वावच्छिन्नं तत्पदस्य तत्पदपर्यायतेति तादृशपर्यायत्वाभावविशेषितानन्तशब्दानां महायोगविद्वद्रूढिभ्यां भगव-त्परत्वेन तत्तच्छब्दप्रवृत्तिनिमित्तगुणलाभेन गुणपूर्णतायाः समर्थिततया तत्समर्थनौपयिकांशस्य प्राथम्येनोत्तरदले उपादानम् । लक्षकपदप्रवृत्तिनिमित्तवैशिष्ट्यविनिर्मोकेऽपि वृत्त्यन्तरेण लक्ष्यस्य तदुपस्थाप्यतया तत्पदाधीनान्वयधीविषयतारूपप्रतिपाद्यतायाः उपपत्या तयैव दिशा ब्रह्मण्यपि निखिलशास्त्रप्रतिपाद्यतायाः सम्भवदुक्तिकतया न तस्य तदनुमापकतेति शङ्कानिरासनायाभिधेय-त्वांशोपादानम् । द्वितीयलक्षणार्थोपपादनाय तदित्यपि व्याकुर्वते ।
‘निवासचितिशरीरोपसमाधानेष्वादेश्च कः’ इति चिनोतेर्घञि धात्ववयवचकारस्य ककारादेशे निष्पन्ननिकायशब्दस्य गोमयनिकाय इत्यादौ राशीकणरूपोपसमाधानार्थे निपातितस्येव काशीनिकाय इत्यादावपि निवासार्थे निपातितस्य भावसाधनप्रत्ययान्ततया गुणान्तेन निकायेत्यस्य सप्तम्यर्थे व्यधिकरणबहुव्रीहिः ।। १ ।।
विघ्नौघेति । वारणशब्दः करणसाधनात् ल्युडन्तः । तस्य कर्मणि षष्ट्यन्तेन समासः । भावसाधनप्रत्ययान्ततामुपेत्य व्यधिकरणबहुव्रीह्याश्रयणस्यागतिकागतित्त्वात् ।