आद्यानुमाने चाप्रसिद्धविशेषणत्वं प्रत्यक्षादिनापीदमित्थमिति..

 

१.     सत्यज्ञानादिवाक्यानाम् अखण्डार्थत्वानुमानभङ्गः

न्यायामृतम्

आद्यानुमाने चाप्रसिद्धविशेषणत्वं प्रत्यक्षादिनापीदमित्थमिति सप्रकारक-ज्ञानस्यैवोत्पत्तेः । असिद्धिश्च,  सत्यत्वज्ञानत्वादेः परापरजातित्वे तस्या ब्रह्मण्यपि सत्वेनातिव्याप्तेः । अजातित्वेऽपि ब्रह्मण्यपि तस्यातात्त्विकस्य धर्मिज्ञानाबाध्यस्य चाऽसम्भवाद्, अतात्त्विकस्य व्यावहारिकस्य चानात्मन्यपि सत्त्वात् । विरुद्धत्वं च, असाधारणधर्मरूपलक्षणपरवाक्यत्वस्य सखण्डार्थत्वेनैव व्याप्तेः । न च स्वरूपलक्षणस्य लक्ष्यानतिरेकात्तत्परत्वम् अखण्डार्थत्वाविरोधि, तस्य लक्ष्यमात्रत्वे लक्ष्यलक्षणभावा-योगाद्, अतिरेकेऽपि यावल्लक्ष्यभावित्वादिनैव स्वरूपलक्षणत्वोपपत्तेश्च । न च द्वारत्वेन लक्षणपरत्वं द्वारिणोऽखण्ड(ण्डार्थ) त्वाविरोधि, वक्ष्यमाणरीत्या लक्षणात्प्रागेव सामान्यतो ज्ञाते स्वरूपमात्रे तस्य द्वारत्वायोगात् । न च लक्षणपरत्वं न हेतुः किंत्वतत्परत्वेऽपि तत्प्रत्यायकत्वमात्रमिति वाच्यम्, अलक्षणवाक्यस्यापि तात्पर्यभ्रमादिना लक्षण-प्रत्यायकत्वसम्भवेन व्यभिचारात् सखण्डवनादिलक्षणवाक्ये, किं चन्द्रलक्षणमित्य-साधारणधर्मप्रश्नोत्तरे प्रकृष्टादिवाक्ये च व्यभिचारश्च । न चाखण्डलक्षणवाक्यत्वं हेतुः, असिद्धेः ।

न च धर्मे पृष्टे स्वरूपमात्रं वक्तुमुचितम् । न च प्रश्नविशेष्यविशेष्यकत्वम् उत्तरत्वे तन्त्रम्, किन्तु तन्मूलसंशयविरोधित्वम् । बाधश्च, धर्मिज्ञानाधीनसप्रकारकसंशयादि-निवर्तकं मोक्षहेतुं सप्रकारकं ब्रह्मज्ञानं प्रति साधनत्वेन वेदान्तविचारविधानान्यथानु-पपत्त्या बलवत्या वेदान्तवाक्ये साध्याभावनिश्चयात् । सत्प्रतिपक्षत्वं च, सत्यादि-वाक्यतात्पर्यविषयः संसृष्टरूपः संसर्गरूपो वा प्रमाणवाक्यतात्पर्यविषयत्वात् सम्मतवत् । सत्यादिवाक्यं स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गपरम्, स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणक-प्रमितिविषयपदार्थनिरूप्यसंसर्गपरं वा, प्रमाणवाक्यत्वात्, ज्योतिष्टोमादिवाक्यवत् । विषं भुंक्ष्वेत्यादौ वाच्यार्थसंसर्गपरत्वाभावेऽप्युक्तसाध्यसद्भावान्न व्यभिचारः । खं छिद्रं, कोकिलः पिकः इत्यादावपि अनतिभिन्नार्थत्वे सामानाधिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्वसंसर्गपरत्वान्न तत्रापि व्यभिचारः । यद्वा वेदान्तजन्यप्रमा सप्रकारिका, विचारजन्यज्ञानत्वात्, संशयविरोधित्वाच्च, कर्मकाण्डजन्यज्ञानवत् । वेदान्तजन्या प्रमा ब्रह्मनिष्ठप्रकारविषया, ब्रह्मधर्मिकसंशयविरोधिज्ञानत्वाद्, ब्रह्मविचार-जन्यज्ञानत्वाच्च, यदेवं तदेवं यथा कर्मकाण्डविचारजन्यनिश्चय इत्यादिना प्रतिरोधात् ।

अद्वैतसिद्धि:

एवं लक्षणसम्भवे प्रमाणसम्भवोऽपि । तथा हि– ‘सत्यादिवाक्यम् अखण्डार्थनिष्ठं ब्रह्मप्राति-पदिकार्थनिष्ठं वा लक्षणवाक्यत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा, प्रकृष्टप्रकाशश्चन्द्रः इति वाक्यवत्’ इति पदार्थविषयाखण्डार्थत्वानुमानम् । ‘तत्त्वमस्यादिवाक्यम् अखण्डार्थनिष्ठम् आत्मस्वरूपमात्रनिष्ठं वा, अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा, सोऽयमित्यादिवाक्यवत्’ इति वाक्यार्थविषयाखण्डार्थत्वानुमानम् । न च सत्यादिवाक्ये तन्मात्रप्रश्नोत्तरत्वमसिद्धम् । ‘ब्रह्म-विदाप्नोति परम्’ इति ब्रह्मवेदनस्यैवेष्टसाधनतया तन्मात्र एव बुभुत्साऽतस्तन्मात्रस्यैव प्रश्नविषयत्वात् । न च प्रकृष्टादिवाक्ये साध्यवैकल्यम् । तद्वाक्यं पक्षीकृत्य तन्मात्रप्रश्नोत्तरत्वेन चन्द्रमात्रनिष्ठतायाः सामान्यव्याप्तिमवलम्ब्य साधनात् । एवं तत्त्वमस्यादिवाक्येऽपि तन्मात्रप्रश्नोत्तरत्वं नासिद्धम्, ‘कोऽहम्’ इत्यात्मस्वरूपस्यैव प्रश्नविषयत्वेन तदधिकप्रत्युक्तेरयुक्तेः । नाप्यत्र दृष्टान्तासिद्धिः । देवदत्तस्वरूपमात्रे पृष्टे अस्य प्रवृत्तेः । न चाप्रयोजकत्वम् । प्रश्नोेत्तरयोर्वैयधिकरण्यापत्तेः । विपक्षबाधकतर्कस्य विद्य-मानत्वात् । न च संसर्गागोचरप्रमितिजनकत्वं साध्यम् अप्रसिद्धम् । प्रत्यक्षादिनापि इदमित्थमिति विशेषसंसर्गगोचराया एव प्रमितेर्जननादिति वाच्यम् । निर्विकल्पकस्वीकर्तॄणां तस्मिन्नेव प्रसिद्धेः । इतरेषां तु ‘प्रमात्वं संसर्गागोचरवृत्ति सकलप्रमावृत्तित्वात्, अभिधेयत्ववत्’ इति सामान्यतस्तत्प्रसिद्धेः । यद्यप्यत्राप्यप्रयोजकत्वं सम्भाव्यते तथापि सन्देहरूपा साध्यप्रसिद्धिर्न दुर्लभा । वस्तुतस्तु प्रकृष्टादिवाक्य एव तत्प्रसिद्धिर्दर्शिता ।

न च लक्षणवाक्यत्वं सत्यादिवाक्येष्वसिद्धम् । सत्यत्वादेः परापरजातितया तस्याश्चान्यत्रापि विद्यमानत्वेनासाधारण्याभावात् । न च– तात्त्विकं तद् ब्रह्मणि । औतश्रुतिविरोधात् । अतात्त्विकं त्वन्यत्रापि तुल्यमिति वाच्यम् । परमार्थसत्यादिरूपतायाः ब्रह्मस्वरूपलक्षणत्वात् । अस्मन्मते यद्यपि सत्याद्यन्यतमपदं स्वरूपलक्षणपरम्, ब्रह्मणोऽन्यस्य तदभासत्वात् तथापि परैरपि सत्यत्वस्य सत्यत्वे सति ज्ञानत्वस्य सत्यत्वे सत्यानन्दत्वस्य शून्यवादिभिरपि सत्त्वरहितज्ञानानन्दात्मकत्वस्य ब्रह्मणोऽ-न्यत्राङ्गीकारान्मिलितं विना न निर्विचिकित्सब्रह्मसिद्धिरिति मिलितं लक्षणम् । न चैवं विशिष्टस्य लक्षणत्वे सखण्डार्थत्वप्रसङ्गः । वाच्यस्य सखण्डार्थत्वेऽपि लक्ष्यस्याखण्डत्वात् । यद्यपि सर्वेषां सत्यादिपदानां लक्ष्यमेकमेव निर्विशेषं ब्रह्म, तथापि निवर्तनीयांशाधिक्येन न पदान्तरवैयर्थ्यम् । अतो वाच्यार्थवैशिष्ट्यस्याखण्डसिद्धावुपायत्वान्न तद्विरोधिता ।

नन्विदं विरुद्धम् । असाधारणधर्मरूपलक्षणपरवाक्यस्य सखण्डार्थत्वनियमादिति चेन्न, सर्वलक्षणवाक्यानां स्वरूपमात्रपर्यवसायित्वेन नियमासिद्धेः । धर्मलक्षणस्याखण्डत्वविरोधित्वेऽपि स्वरूपलक्षणस्य तदविरोधित्वाच्च । न चाभेदे लक्ष्यलक्षणभावायोगः । अन्तःकरणवृत्तिनिबन्धनाकारभेदेन उभयोपपत्तेः आवृतत्त्वानावृतत्ववत् । अन्यथा स्वरूपलक्षणतटस्थलक्षणविभागो न स्यात् । न च यावद्द्रव्यभावित्वाभावित्वाभ्यां व्यवस्था । तावता हि स्थायित्वास्थायित्वव्यवस्था स्यात्, न तु स्वरूपादिरूपा । तव मते पार्थिवरूपादौ स्वरूपलक्षणेऽव्याप्तेश्च । ब्रह्मणि यावद्द्रव्यभाविधर्मविरहाच्च । वस्तुतस्तु द्वारत्वेन लक्षणे तात्पर्यं न द्वारिणोऽखण्डार्थत्वं विरुणद्धि । न च– स्वरूपज्ञानस्य प्रागेव सामान्यतो जातत्वात् तज्ज्ञाने नैतद्द्वारापेक्षेति वाच्यम् । ज्ञानमात्रेऽस्य द्वारत्वाभावेऽपि संशयादि-निवर्तकैतज्ज्ञाने तद्द्बारापेक्षणात् । न च सखण्डवनादिलक्षणवाक्ये व्यभिचारः । तत्रापि साध्यसत्त्वस्य व्युत्पादनात् । न च ‘किं चन्द्रलक्षणम्’ इत्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टप्रकाशादिवाक्ये व्यभिचारः । तत्र हि न चन्द्रस्वरूपपरत्वं किन्तु प्रकर्षाश्रयो यः प्रकाशः तत्स्वरूपपरत्वम् । तथा च प्रकर्षोप-लक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वेन तत्राप्यखण्डार्थत्वाविरोधात् । अत एव धर्मे पृष्टे चन्द्रस्वरूपं वक्तुं नोचितमिति निरस्तम् । धर्मस्यैव स्वरूपत उक्तत्वात् । अन्यथा प्रश्नोत्तरयोर्वैयधि-करण्यापत्तेः ।

ननु– इदं बाधितम् । धर्मिज्ञानाधीनसप्रकारकसंशयादिनिवर्तकं मोक्षहेतुं सप्रकारकज्ञानं प्रति साधनत्वेनवेदान्त विचारविधानान्यथानुपपत्त्या वेदान्तवाक्ये साध्याभावनिश्चयादिति चेन्न, अनृतादि-प्रतिषेधकव्यावृत्ताकारज्ञानेनैव अनृतादिसंशयादिनिवृत्त्युपपत्तेरन्यथासिद्धत्वात् । न हि सप्रकारकत्वमात्रं तत्र तन्त्रम् । भ्रमकालीनानुवृत्ताकारज्ञानस्य सप्रकारकत्वेन संशयादिनिवर्तकत्वे भ्रमकथैवोच्छिद्येत । ज्ञानस्याज्ञानसमविषयत्वेनैव तन्निवर्तकत्वम्, न तु समानप्रकारकत्वेनापि । गौरवात् । अज्ञानविषयश्च शुद्धं ब्रह्म । अज्ञानकल्पितस्य तदितरस्य अज्ञानविषयत्वायोगात् । तथा च शुद्धब्रह्माकारा चित्तवृत्तिः निष्प्रकारिकैवाज्ञाननिवर्तिका । प्रकारमात्रस्याविद्याकल्पितत्वेन तद्विषयतायां वृत्तेरविद्यासमविषयत्वा-भावात् । यथा चाविद्यातत्कार्यविषयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्राक् । द्रव्याद्याकारज्ञानानां च घटाद्याकारत्वस्यानुभवनिरस्तत्वान्न द्रव्याद्याकारज्ञानेन घटाद्याकाराज्ञाननिवृत्तिप्रसङ्गः । द्रव्यत्व-घटत्वयोर्भेदेन विषयभेदाच्च । यथा च समानप्रकारकत्वमादायापि न निस्तारः तथा प्रतिपादित-मस्माभिर्वेदान्तकल्पलतिकायामिति दिक् ।

ननु– अस्तु सत्प्रतिपक्षः । तथा हि– ‘सत्यादिवाक्यतात्पर्यविषयः संसृष्टरूपः संसर्गरूपो वा प्रमाणवाक्यतात्पर्यविषयत्वात्, सम्मतवत्’, ‘सत्यादिवाक्यं स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गपरं स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणप्रमाविषय पदार्थनिरूप्यसंसर्गपरं वा प्रमाणवाक्यत्वात्, अग्निहोत्रादि-वाक्यवत् । ‘विषं भुङ्क्ष्व’ इत्यादौ वाच्यार्थसंसर्गपरत्वाभावेऽपि स्वकरणकप्रमाविषयपदार्थसंसर्गपरत्वान्न व्यभिचारः । ‘खं छिद्रं कोकिलः पिकः’ इत्यादौ चानतिभिन्नार्थत्वे सामानाधिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्वसंसर्गपरत्वान्न व्यभिचार इति चेन्न आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये च संसृष्टरूपे पदार्थे व्यभिचारात् । तयोरुभयोरपि प्रमाणवाक्यतात्पर्यविषयत्वात् । द्वितीयानुमाने प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेण प्रमितिविषय-परत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकत्वात्, अलक्षणवाक्यत्वस्योपाधित्वाच्च । नापि वेदान्तवाक्यजन्यप्रमा, सप्रकारिका, विचारजन्यत्वात्, संशयनिवर्तकत्वाद्वा, कर्मकाण्डजन्यज्ञान-वद् । वेदान्तजन्या प्रमा, ब्रह्मप्रकारविषया, ब्रह्मधर्मिकसंशयविरोधित्वाद् ब्रह्मविचारजन्यत्वाद्वा, यदेवं तदेवम्, यथा कर्मकाण्डजन्यो निश्चय इति प्रतिसाधनमस्त्विति वाच्यम् । तव मते ज्ञानमात्रस्य सप्रकारकत्वेन विचारजन्यत्वसंशयविरोधित्वयोर्व्यर्थत्वात्, अप्रयोजकत्वात्, निष्प्रकारकज्ञानादपि संशयादिनिवृत्तिसम्भवात्, लक्षणवाक्याजन्यत्वस्योपाधित्वाच्च । अत एव द्वितीयानुमानमपि अपास्तम्, ब्रह्मनिष्ठप्रकारविषयत्वसाधने दृष्टान्ताभावाच्च । सर्वेषु च प्रतिसाधनेषु प्रश्नोत्तरयोः वैयधिकरण्यापत्तिः प्रतिकूलतर्कोऽवसेयः ।

न्यायामृततरङ्गिणी

प्रत्यक्षादिनेति ।। निर्विकल्पकस्याप्रामाणिकत्वादिति भावः । यत्तु प्रमात्वं संसर्गा-गोचरवृत्ति सकलप्रमा वृत्तित्वादभिधेयत्ववदिति सामान्यतस्तत्प्रसिद्धिरिति । तन्न । अप्रयोज-कत्वात् । विशेष्याविषयवृत्तित्वस्यापि तत एव सुसाधत्वेनाभाससाम्याच्च ।। असिद्धिश्चेति ।। सत्यत्वादेर्जातिरूपस्य घटादावतिव्याप्त्या औपाधिकस्य लक्ष्ये ब्रह्मण्यसम्भवेनातात्विकस्या-नात्मन्यतिव्याप्त्या लक्षणत्वायोगेन सत्यादिवाक्ये लक्षणवाक्यत्वासिद्धिरित्यर्थः ।। अतिरेकेऽ-पीति ।। न चैतावता स्थायित्वास्थायित्वव्यवस्था स्यान्न स्वरूपादिरूपेति वाच्यम् । स्थायिधर्मस्यैव स्वरूपान्तर्गतत्वात् । यथोक्तं यावद्वस्तु न भेदवदिति । यावद्धर्मि स्थायिनि धर्मे भेदाभेदौ न स्तः । किन्तु सविशेषाभेद इत्यर्थः । पार्थिवरूपादौ स्वरूपलक्षणत्वं नैवेष्टम् । वक्ष्यमाणेति । सामान्यतोऽपि चन्द्रादेर्ज्ञानाभावे तद्बुभुत्सासंशयादि न स्यादिति वक्ष्यमाण-रीत्या । न च ज्ञानमात्रेऽस्य द्वारत्वाभावेऽपि संशयादिनिवर्तकतज्ज्ञाने द्वारत्वमिति वाच्यम् । विषयविशेषानवगाहने पूर्वोत्तरज्ञानयोः संशयानिवर्तकत्वतन्निवर्तकत्वायोगात् । ननु किं चन्द्रलक्षणमित्यादेरुत्तरे प्रकृष्टादिवाक्येऽपि चन्द्रस्वरूपमात्रं प्रतिपाद्यते न तु चन्द्रधर्म-संयोगोऽपीत्यत आह– न च धर्म इति । यत्तु नात्र चन्द्रस्वरूपपरत्वं किन्तु प्रकर्षाश्रयो यः प्रकाशस्तत्स्वरूपपरत्वम् । तथा च प्रकर्षोपलक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वे-नाखण्डार्थत्वमेवेति । तत्राप्येतदेवोत्तरम् । न च धर्म इति । धर्मे चन्द्रसम्बन्धिनि धर्मे । स्वरूपमात्रं धर्मस्वरूपमात्रम् । तथा चात्र चन्द्रसम्बन्धिधर्मप्रश्नाच्चन्द्रसम्बन्धिप्रकाश एव वाच्यो न प्रकाशस्वरूपमात्रमित्यर्थः । ननु चन्द्रेऽसाधारणधर्मप्रश्नस्यापि चन्द्रस्वरूपमात्र-प्रतिपादनपरमुत्तरमुचितम् । समानविशेष्यकत्वादित्यत आह– न च प्रश्नेति ।।

सप्रकारकमिति ।। ननु न सप्रकारकज्ञानं संशयादिनिवर्तकम् । भ्रमकालीनानु-वृत्ताकारज्ञानस्य सप्रकारकत्वेऽपि ततः संशयाद्यनिवृत्तेः । किन्तु व्यावृत्ताकारज्ञानमेव । ज्ञानस्याज्ञानसमानविषयकत्वेनैव तन्निवर्तकत्वम् । अज्ञानविषयश्च शुद्धं ब्रह्म । अज्ञान-कल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् । तथा च शुद्धब्रह्माकारा चित्तवृत्तिर्निष्प्रकारि-कैवाज्ञाननिवर्तिका । प्रकारमात्रस्याप्य विद्याकल्पितत्वेन तद्विषयाया वृत्तेरविद्यासमान-विषयत्वाभावादिति । मैवम् । अनुवृत्तव्यावृत्ताकारयोः स्वरूपमात्रत्वेऽनुवृत्ताकारज्ञानादपि संशयादिनिवृत्तिप्रसङ्गः । अन्यथा व्यावृत्ताकारज्ञानादपि सा न स्यात् । तयोः स्वरूपातिरेके तु न ज्ञानाज्ञानयोः समानविषयत्वम् । अनृतप्रतिषेधक व्यावृत्ताकारस्याज्ञानाविषयत्वाच्च । प्रत्युतानुवृत्ताकारस्यैव जगद्भ्रमाधिष्ठानशुद्धचिन्मात्रतया तस्यैवाज्ञानविषयत्वम् । अतोऽनु-वृत्ताकारवृत्तिरेवाज्ञाननिवर्तिका स्यात् ।। संसृष्टरूप इति ।। न च संसर्गरूपे पदार्थे व्यभिचारः । संसर्गरूपस्यापि संयोगादेः सम्बन्धान्तरेण संसृष्टत्वात् । पदार्थे मुख्यतात्पर्या-भावाच्च ।। संसर्गरूप इति ।। संसर्गनिरूपक इत्यर्थः । अतो न संसृष्टरूपे पदार्थे व्यभिचारः । तत्र तात्पर्याभावाच्च ।। प्रमाणवाक्यत्वादिति ।। न च प्रमाणवाक्यत्वस्या-बाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकतेति वाच्यम् । पदार्थाबाधस्य तत्प्रमितेश्चाप्रमाणवाक्येऽपि सत्त्वेन संसर्गाबाधप्रमित्योरेव प्रमाण वाक्यत्वोपपादकत्वात् । न चालक्षणवाक्यत्वमुपाधिः । लक्षणवाक्यत्वस्य संसर्गपरत्वव्याप्त्या तस्य व्यतिरेके व्यभिचारेणानुपाधित्वात् ।। सप्रकारिकेति ।। असन्दिग्धप्रकारिकेत्यर्थः । तेन ज्ञानमात्रस्य सप्रकारकत्वपक्षे विचारजन्येति व्यर्थमिति निरस्तम् । संशयविरोधि-त्वादिति ।। अत्र ज्ञानत्वमुपस्कर्तव्यम् । उक्तसाध्यकरणान्न संशयविरोधीति व्यर्थं, न वा संशयाभावादौ व्यभिचारः ।। वेदान्तेति ।। ‘सत्यं ज्ञानम्’ इति वाक्यजन्येत्यर्थः । अतो न वक्ष्यमाणहेत्वादेरसिद्ध्यादि ।। ब्रह्मनिष्ठेति ।। ब्रह्मनिष्ठसत्वप्रकारविषयेत्यर्थः ।। संशयेति ।। सत्त्वसंशयेत्यर्थः । अतो न संशयविरोधीति व्यर्थम् । न च लक्षणवाक्या-जन्यत्वमुपाधिः । व्यतिरेके व्यभिचारस्योक्तत्वात् ।

न्यायामृतकण्टकोद्धारः

लक्षणं दूषयित्वा अनुमानं दूषयति– आद्येति ।। ननु निर्विकल्पकरूपप्रत्यक्ष एव साध्य-प्रसिद्धिरित्यत आह– प्रत्यक्षादीनामिति ।। प्रमाणाभावेन निर्विकल्पकाभावात् । न च विशिष्टज्ञानमेव निर्विकल्पके प्रमाणमिति वाच्यम् । तस्योभयसन्निकर्षादिनैवोपपत्तेरप्रयोजकत्वात् । विस्तृतं चैतदन्यत्र । ननु प्रमात्वं संसर्गागोचरवृत्ति सकलप्रमावृत्तित्वादभिधेयत्ववदिति सामान्य-तस्तत्प्रसिद्धेरिति चेन्न । अप्रयोजकत्वात् । प्रमात्वं न संसर्गागोचरवृत्ति  ज्ञानत्वव्याप्यधर्मत्वात्, अनुमितित्ववदिति सत्प्रतिपक्षत्वाच्च । पक्षसमत्वान्नानुभवत्वादौ व्यभिचारः । न च सन्देह रूपैव साध्यप्रसिद्धिरस्त्विति वाच्यम् । साध्यप्रसिद्धौ तत्सन्देहानुपपत्तेः । न च प्रकृष्टादिवाक्य एव तत्प्रसिद्धिर्दर्शितेति वाच्यम् । तस्या आकर एव निराकरिष्यमाणत्वात् । परापरजातित्वे व्याप्यव्यापकजातित्वे । तथा चातिव्याप्त्यादिधर्मप्रतिपादकस्य लक्षणवाक्यत्वम् असिद्धमिति भावः । न च परमार्थसत्यादिरूपत्वमेव स्वरूपलक्षणं, न च तद् उक्तदोषवदिति वाच्यम् । स्वरूपत्वे लक्षणत्वायोगात् । प्रसिद्धत्वाप्रसिद्धत्वे हि लक्षणत्वलक्ष्यत्वयोः प्रयोजके, न चैत एकस्मिन्निर्विशेषे सम्भवतः ।

किञ्च किं सत्यादिकं प्रत्येकं वा लक्षणं मिलितं वा ? नाद्यः । सत्यत्वज्ञानत्वादि परत्वे सखण्डार्थत्वापातात् । स्वरूपमात्रपरत्वेऽपरवैयर्थ्यात् । प्रयोजनत्वेन सार्थक्यं त्वग्रे निरसिष्यते । न द्वितीयः । व्यर्थत्वाद्व्यावर्त्त्याभावात् । न चैकैकस्य परेण ब्रह्मणोऽन्यत्र स्वीकाराद्विशिष्टस्य लक्षणत्वमिति वाच्यम् । विशिष्टपरत्वे सखण्डार्थत्वापातात् । परेण विशिष्टस्यान्यत्राङ्गीकाराच्च । तस्माल्लक्षणवाक्यत्वमसिद्धमिति भावः ।।  असाधारणेति । तद्वृत्तित्वे सति तदितरावृत्तित्व-प्रतिपादने धर्मधर्मिभावरूपसंसर्गप्रतिपादनमावश्यकम् । तथा च साध्याभावव्याप्तत्वाद्विरुद्धत्वमिति भावः । ननु लक्षणवाक्यानां स्वरूपमात्रपर्यवसायित्वान्नियमासिद्धिरित्याशङ्ख्य निषेधति– न च स्वरूपेति ।। तस्येति ।। लक्ष्यलक्षणभावे प्रयोजकयोर्ज्ञातत्वाज्ञातत्वयोरेकस्मिन्नसम्भवादिति भावः । न चावृतत्वानावृतत्ववदन्तःकरणवृत्तिभेदेन ज्ञातत्वाज्ञातत्वेऽप्येकस्मिन् सम्भवत इति वाच्यम् । निर्विशेषेऽन्तःकरणवृत्तिभेदस्यैवायोगात्, दृष्टान्तासम्प्रतिपत्तेश्च । ननु लक्षणस्य लक्ष्याद्भिन्नत्वे स्वरूपलक्षणत्वादिव्यवस्थायोग इत्यत आह– अतिरेकेऽपीति ।।

यावल्लक्ष्यभावित्वादिना इत्यादिपदेन अयावल्लक्ष्यभावित्वपरिग्रहः । तेन तटस्थलक्षण-त्वोपपत्तेरिति द्रष्टव्यम् । न चैवं स्थायित्वास्थायित्वव्यवस्था स्यान्न स्वरूपलक्षणत्वादिव्यवस्थेति वाच्यम् । स्वरूपमेव लक्षणं स्वरूपलक्षणमित्यर्थस्य बाधितत्वेन स्वरूपवत्स्थायिलक्षणं स्वरूपलक्षणमिति करणेन तद्व्यवस्थोपपत्तेः । किं विशिष्टज्ञाने द्वारत्वम् ? उत स्वरूपमात्रज्ञाने ? नाद्यः । खण्डार्थत्वापातात् । न द्वितीय इत्याह– वक्ष्यमाणेति ।। अन्यथा संशयाद्ययोगादिति भावः । न च स्वरूपमात्रज्ञानस्य लक्षणात्पूर्वं वृत्तत्वेऽपि संशयादिनिवर्तकस्वरूपज्ञानस्य पूर्वम् अजातत्वात्तत्र द्वारत्वं लक्षणज्ञानस्य भविष्यतीति वाच्यम् । पूर्वानधिकविषयस्य स्वरूपज्ञानस्य संशयाद्यनिवर्तकत्वेन तत्र द्वारत्वानुपपत्तेः । न च कारणविशेषजन्यत्वेन संशयनिवर्तकत्वमिति वाच्यम् । संशयप्रकारविरुद्धप्रकारविषयत्वे संशयनिवर्तकत्वानुपपत्तेः । अन्यथा ऊर्ध्वत्वादिज्ञानस्य कारणविशेषजन्यस्य संशयनिवर्तकत्वापातात् ।। न चेति ।। तथा च लक्षणे तात्पर्याभावा-त्स्वरूपमात्र एव तात्पर्यान्नाखण्डार्थत्वविरोध इति भावः ।। अलक्षणवाक्यस्येति ।। उपलक्षण-मेतत् । लक्षणे तात्पर्याभावे तत्प्रतिपादनं व्यर्थं चेत्यपि द्रष्टव्यम् । तस्माद्विरुद्धत्वं दुष्परिहरम् ।

व्यभिचारमप्याह– सखण्डेति ।। न च तत्रापि साध्यसत्वं व्युत्पाद्यत इति न व्यभिचार इति वाच्यम् । अनेकधर्मिप्रतिपादकस्याखण्डार्थत्वव्युत्पादनस्याशक्यत्वात् । न चैकधर्मा-वच्छेदेनानेकार्थपरत्वम् अखण्डार्थत्वविरोधीति वाच्यम् । तथात्वे धर्मधर्मिभावपरत्वाद् अनेक-धर्मिपरत्वाच्च सखण्डार्थत्वापत्तेः । ब्रह्मणि एकधर्मिभावाच्च । अन्यथाऽखण्डार्थत्वं पारिभाषिकं स्यादिति । ननु धर्मविषयप्रश्नेऽपि स्वरूपमात्रस्य प्रतिवचनान्नासिद्धिरित्यत आह– न च धर्म इति । न च तत्रापि धर्मस्वरूपमात्रपरत्वादखण्डार्थत्वाविरोध इति वाच्यम् । किं चन्द्रलक्षणमिति पृष्टे चन्द्रलक्षणत्वेन प्रतिपादने चन्द्रस्य लक्षणस्य च धर्मधर्मिभावप्रतिपादनस्यावश्यकतया सखण्डार्थत्वावश्यम्भावात् । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यं स्यात् ।। धर्मिज्ञानाधीनेति ।। न च वेदान्तजन्यज्ञानस्य निष्प्रकारकत्वेऽपि व्यावृत्ताकारज्ञानत्वेनैव संशयविरोधित्वमोक्षहेतु-त्वयोरुपपत्तेर्न सप्रकारकज्ञानहेतुतया विचारविधानमिति वाच्यम् । व्यावृत्ताकारज्ञानत्वस्य व्यावर्तकविशिष्टज्ञानत्वव्यावृत्तिविशिष्टज्ञानत्वातिरिक्तस्य निर्वक्तुमशक्यत्वाद् ब्रह्मण्याकाराभावेन ज्ञानस्य तदाकारत्वानुपपत्तेश्च । न च ज्ञानस्याज्ञाननिवर्तकत्वे समानविषयत्वमेव तन्त्रं न तु समानप्रकारकत्वमपीति वाच्यम् । तथात्वे धर्मिज्ञानस्यापि संशयनिवर्तकतापत्तेः ।

न च धर्मिज्ञानस्याविद्याकल्पितप्रकारविषयत्वाद् अविद्यायाश्च शुद्धमात्रविषयत्वान्न समान-विषयत्वमिति वाच्यम् । अविद्यायाः शुद्धमात्रविषयत्वाभावस्योक्तत्वात् । प्रकारस्याविद्या-कल्पितत्वासिद्धेश्च । समानविशेष्यकत्वेनैव समानविषयत्वोपपत्तेश्च । यथा च सप्रकारकस्यैवा-ज्ञाननिवर्तकत्वं तथोक्तं प्राक् । न च प्रकारस्याविद्याकल्पितत्वेन न तद्भानम् अविद्यानिवर्तकमिति वाच्यम् । असिद्धेः । वृत्तिवदुपपत्तेश्च । तस्मात्सप्रकारकस्यैव संशयादिनिवर्तकत्वात् तादृशाज्ञानहेतुतया विचारविधानान्यथानुपपत्त्या सखण्डार्थत्वस्यैव निर्णीतत्वाद्बाधो दुष्परिहरः । सत्यादीति ।। न चाद्यसाध्ये संसर्गे द्वितीयसाध्ये च संसृष्टे व्यभिचारः । तयोरपि प्रमाणवाक्ये तात्पर्यविषयत्वादिति वाच्यम् । प्रथमानुमाने प्रमाणवाक्यतात्पर्यविषयपदार्थत्वादिति हेत्वर्थस्य विवक्षितत्वात् । संयोगस्य पदार्थत्वाभावात् । न चैवं तस्य पक्षत्वात् तत्र हेत्ववृत्तौ भागा-सिद्धिरिति वाच्यम् । पदार्थत्वस्य पक्षेऽपि प्रवेशात् । द्वितीयानुमाने च संसर्गाविषयप्रमाविषयो नेति साध्यकरणान्न संसृष्टे व्यभिचारः ।

न च साध्यद्वये सिद्धसाधनम् । अवान्तरतात्पर्यविषयस्य संसृष्टादिरूपत्वाद्भिन्नविषयत्वेन प्रतिपक्षासम्भवाच्चेति वाच्यम् । महातात्पर्यविषय इति पक्षकरणात् । सत्प्रतिपक्षत्वे पक्षभेदस्याप्रयोजकत्वात् । विरोधित्वस्यैव तन्त्रत्वाच्च । अत एव केवलान्वयिन्यपि प्रतिपक्षाभि-धानम् ।। सत्यादीति ।। अत्र ‘स्वतात्पर्यविषयज्ञानाबोध्य’ इत्येतत्संसर्गविशेषणं बोध्यसंसर्ग-परत्वेन सिद्धसाधनतानिवारणाय । नन्वेवमपि संसर्गस्वरूपमात्रपरत्वसिद्ध्या विशिष्टार्थपरत्वसिद्ध्य भावेनार्थान्तरम् इत्यतः साध्यान्तरमाह– स्वतात्पर्येति ।। तथा च सत्यादिवाक्यकरणक-प्रमितिविषयपदार्थनिरूप्यसंसर्गपरत्वसाधने स्वरूपमात्रपर्यवसानाभावेन विशिष्टार्थ एव पर्यवसाना-न्नार्थान्तरता । न चाबाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेण वा हेतोरुपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वाद् अप्रयोजकत्वमिति वाच्यम् । ‘अग्निना सिञ्चेत्’ इत्यस्याबाध्यप्रमितिविषयपदार्थांश-परत्वमात्रेण प्रमाणवाक्यत्वस्यादृष्टतया विशिष्टस्यैव तत्र प्रयोजकत्वात् । न चालक्षणवाक्यत्व-मुपाधिः । लक्षणवाक्यत्वस्यापि सखण्डार्थत्वेन व्याप्तेः समर्थितत्वात् । उपाधेः प्रकृतसाध्या-व्यापकत्वात् ।

ननु खं छिद्रं, कोकिलः पिक इत्यादौ व्यभिचारः । तत्र पर्यायत्वेन संसर्गपरत्वाभावादित्यत आह– खं छिद्रमिति ।। यद्वेति ।। न चात्र हेतुद्वये त्वन्मते ज्ञानमात्रस्य सप्रकारकत्वाद् विशेषणवैयर्थ्यमिति वाच्यम् । निर्विकल्पकाङ्गीकारिणां प्रति व्यभिचारनिवारकत्वेन सार्थकत्वात् । अन्यं प्रति तु विपक्षबाधकसूचकत्वेन सार्थकत्वात् । यथा च निष्प्रकारकज्ञानस्य संशयादि-निवर्तकत्वं तथोक्तम् । न च लक्षण वाक्याजन्यत्वमुपाधिरिति वाच्यम् । लक्षणवाक्यस्यापि सखण्डार्थत्वस्यैव समर्थितत्वेनाप्रयोजकत्वेन साध्याव्यापकत्वात् । न च सर्वत्रानुमानेषु प्रश्नोत्तरयोर्वैयधिकरण्यलक्षणप्रतिकूलस्तर्क इति वाच्यम् । प्रश्नस्यापि विशिष्टविषयत्वस्यैव समर्थयिष्यमाणत्वेन समानाधिकरणत्वात् ।

न्यायामृतप्रकाशः

अप्रसिद्धेति ।। संसर्गागोचरप्रमाजनकत्वरूपसाध्यस्य कुत्राप्यप्रसिद्धत्वादिति भावः । प्रत्यक्षादौ साध्यप्रसिद्धिर्भविष्यतीति चेत्तत्राह– प्रत्यक्षादिनापीति ।। निर्विकल्पकस्याप्रामाणिकत्वादिति भावः । यदि सत्यत्वादीनां लक्षणत्वं स्यात्तदैव सत्यज्ञानादिवाक्यानां लक्षणवाक्यत्वम् । तदेवायुक्तम् । परजातिरूपसत्तायाः अपरजातिरूपज्ञानत्वादेश्च ब्रह्मव्यतिरिक्ते जगत्यपि सत्त्वेनातिव्याप्ततयाऽलक्षण-त्वात् । ततश्च लक्षणवाक्यत्वहेतोरसिद्धिरित्याशयेनाह– सत्यत्वेति ।। ननु सत्यत्वादिकं न सत्ताजात्यादिरूपं, किं नाम अबाध्यत्वादिरूपम् अन्यदेव लक्षणत्वेन विवक्षितम् । तत्तु नातिव्याप्तमिति चेत् तत्किं तात्विकं वा धर्मिज्ञानाबाध्यं वा अतात्विकं वा । नाद्यद्वितीयौ । ब्रह्मणि विद्यमानस्या-बाध्यत्वादिरूपसत्यत्वस्यातात्विकत्वाद्धर्मिज्ञानबाध्यत्वाच्च । अतोऽसम्भव एव स्यात् । नान्त्यः । व्यावहारिकत्वापरपर्यायातात्विक बाध्यत्वादिरूपसत्त्वस्याऽनात्मन्यपि सत्वेनातिव्याप्तेरलक्षणत्वात् । अतोऽसिद्धिर्दुर्वारेत्याह– अजातित्वेऽपीत्यादिना ।। विरुद्धत्वं स्फोरयितुम् ‘असाधारणधर्मरूप’ इत्युक्तम् । तथा च साध्याभावेनैव व्याप्तत्वाद्विरुद्धत्वमित्यर्थः ।

ननु लक्षणं द्विविधं स्वरूपमतिरिक्तं चेति । तत्र स्वरूपलक्षणं लक्ष्यानतिरिक्तमेव । तथा च तत्परत्वे लक्ष्यपरत्वमेव प्राप्तमिति नाखण्डार्थत्वविरोध इत्याशङ्क्य निराकरोति– न चेति ।। लक्ष्यमात्रत्वे लक्ष्येण निर्विशेषात्यन्ताभेदे । तथा च लक्ष्यलक्षणभावार्थं स्वरूपातिरेकेऽङ्गीक्रियमाणे सखण्डार्थत्वप्राप्त्या विरुद्धत्वमेवेति भावः । ननु स्वरूपलक्षणस्य कथं लक्ष्यातिरिक्तत्वमित्यत आह– अतिरेकेऽपीति ।। यावत्पर्यन्तं लक्ष्यमस्ति तावत्पर्यन्तं सत्त्वेन स्वरूपलक्षणत्वसम्भवादित्यर्थः । ननु सत्यज्ञानादिवाक्येन ब्रह्मस्वरूपबोधनायोदाहरणत्वेन लक्षणमुपादीयते पश्चाद्द्वारभूतं तल्लक्षणं परित्यज्य ब्रह्मस्वरूपमात्रमेव बोध्यत इति तत्रातात्पर्यान्न द्वारिणोऽखण्डार्थत्वविरोधीत्याशङ्क्य निराकरोति– न चेति ।। वक्ष्यमाणेति ।। सामान्यतोऽपि ब्रह्मस्वरूपाज्ञाने तद्धर्मिकसंशयाद्ययोगेन ‘किं ब्रह्म’ इति प्रश्नाद्ययोगात्’ इत्यादिवक्ष्यमाणरीत्येत्यर्थः । लक्षणात् द्वारत्वेनोच्यमानात् । अज्ञातस्वरूपस्यैव द्वारेण बोध्यत्वादिति भावः ।। न हेतुरिति ।। येन तस्य सखण्डार्थत्वेनैव व्याप्त्या विरुद्धत्वं स्यादिति भावः । लक्षणपरत्वाभावेऽपि लक्षणप्रत्यायकत्वाद् अखण्डार्थत्वमिति वक्तुं न शक्यते । ‘नीलम् उत्पलम्’ इत्यत्राऽतिव्याप्तत्वेन नीलत्वस्यालक्षणत्वेनैतद्वाक्यस्य लक्षणपरत्वाभावा-ल्लक्षणप्रत्यायकत्वसद्भावेनाखण्डार्थत्वाभावाद्व्यभिचारः स्यात् । न चातत्परस्य तत्प्रत्यायकत्वं कथमिति वाच्यम् । तात्पर्यभ्रमादिनोपपत्तेरित्याह– अलक्षणेति ।

एवं विरुद्धत्वमुक्त्वाऽनैकान्त्यं चाह– सखण्डेति ।। वनादीनां संसृष्टरूपत्वादित्यर्थः ।। किमिति ।। कश्चन्द्र इति चन्द्रस्वरूपमात्रे पृष्टे प्रवृत्तस्य प्रकृष्टादिलक्षणवाक्यस्य स्वार्थे तात्पर्याभावेऽपि किं चन्द्रलक्षणमित्यसाधारणधर्मस्यैव प्रश्ने सति प्रवृत्तस्य प्रकृष्टादिवाक्यस्य लक्षणपरत्वावश्यंभावाद्व्यभिचारः स्यादेवेत्यर्थः ।। अखण्डेति ।। अखण्डस्य यल्लक्षणं तद्वाक्यत्वं हेतुत्वेन विवक्षितम् । तथा च सखण्डवनादिलक्षणवाक्ये न व्यभिचार इति भावः ।। असिद्धेरिति ।। ब्रह्मस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः । अन्यथा प्रश्नस्यैवासम्भवात् । अतः कैर्विशेषणैर्विशिष्टं ब्रह्मेत्येवं सखण्डस्यैव ब्रह्मणः प्रश्ने सत्यादिवाक्यस्य प्रवृत्तत्वेन अखण्डलक्षणवाक्यत्वं वक्ष्यमाणरीत्याऽसिद्धमित्यर्थः । ननु किं चन्द्रलक्षणमित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टादिवाक्ये न व्यभिचारः । तस्यापि चन्द्रस्वरूपमात्र एव तात्पर्याङ्गीकारेण लक्षणपरवाक्यत्वरूपहेतोरेवाऽभावादित्यत आह– न चेति ।। प्रश्नोत्तरयोर्वैयधिकरण्यान्यथानुपपत्तिरूपयुक्त्यैव लक्षणपरत्वस्य सिद्धत्वादित्यर्थः । ननु किं चन्द्रलक्षण-मित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टादिवाक्ये व्यभिचारस्तदा स्याद् यदि किं चन्द्रलक्षणमित्यसाधारण-धर्मप्रश्नस्येदमुत्तरं स्यात् । न चैवम् । उत्तरत्वे प्रश्नविशेष्यविशेष्यकत्वस्यैव तन्त्रत्वात् ।

अत्र प्रश्नस्य चन्द्रलक्षणाविशेष्यकत्वात् प्रकृष्टप्रकाशश्चन्द्र इति वाक्यस्य च चन्द्रविशेष्यकत्वात् । अतो नाऽत्र व्यभिचार इत्यत आह– न चेति ।। तन्मूलेति प्रश्नमूलभूतेत्यर्थः । तथा च चन्द्र-विशेष्यकेऽस्मिन्वाक्ये प्रयुक्तेऽपि किं चन्द्रलक्षणमिति प्रश्नहेतुभूतसंशयस्य निवर्तमानत्वेनोत्तरत्वं युक्तमिति स्यादेव व्यभिचार इति भावः । वेदान्तवाक्ये साध्याभावनिश्चायकान्यथानुपपत्तेर्बाधकत्वोपयुक्तं बलवत्त्व-मुपपादयितुमुक्तम् ।। धर्मिज्ञानेत्यादि ।। ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ इति प्रमाणेन ब्रह्मज्ञानस्य संशयनिरासकत्वेन प्रमितत्वात्सप्रकारकसंशयनिवर्तकं च ज्ञानं सप्रकारकमेव न धर्मिज्ञानमात्रम् । तस्य पूर्वमेवासिद्धत्वादित्याशयेनोक्तम् धर्मिज्ञानेति । संशयादिनिवृत्त्यापि किं प्रयोजनमिति न वाच्यमित्याशयेनोक्तम्  मोक्षहेतुमिति । साध्येति । संसर्गप्रकारकज्ञानजनकत्वस्यैव निश्चयादित्यर्थः ।। सम्मतवदिति । अग्निहोत्रादिवाक्यतात्पर्यविषयवदित्यर्थः । परेण सार्वज्ञादि-धर्मसंसर्गस्य वेदतात्पर्यविषयशुद्धब्रह्मज्ञानबाध्यत्वेन मिथ्यात्वाङ्गीकारादाह– स्वतात्पर्यविषयेत्यादि ।।

ननु विषं भुंक्ष्वेति प्रमाणवाक्ये स्वतात्पर्यविषयभूतं यज्ज्ञानं ‘द्विषदन्नं न भोक्तव्यम्’ इति ज्ञानं, तेनाबाध्यो यः संसर्गः विषकर्मकभोजनक्रियारूपसंसर्गस्तत्र तात्पर्याभावेन तत्परत्वाभावाद्व्यभिचारः स्यादत आह– स्वकरणकेत्यादि ।। तथा च न व्यभिचारः ।  स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गः विषकर्मकभोजनक्रियासंसर्गरूपो (वाच्यार्थ)वाक्यार्थसंसर्गो न विवक्षितः येन तत्परत्वाभावेन व्यभिचारश्चोद्येत । किंनाम तस्मिन् स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गे स्वकरणकेत्यादिकं विशेषणं विवक्षितम् । तथा चाऽस्य वाक्यस्य लिङ्गत्वेन एतद्वाक्यकरणिका या प्रमितिः ‘द्विषदन्नं न भोक्तव्यम्’ इत्येवंरूपा तद्विषया ये पदार्थाः शास्त्रीयपदार्थास्तन्निरूप्यो यः संसर्गस्तत्परत्वसद्भावेन व्यभिचार इत्यर्थः । नन्वेवं ‘खं च्छिद्रं कोकिलः पिकः’ इत्यादिपर्यायशब्दप्रतिपादके प्रमाणवाक्ये संसर्गपरत्वस्यैवाभावेनोक्तसाध्याभावाद्व्यभिचार इत्यत आह– खं च्छिद्रमिति ।। तत्रापि च्छिद्रशब्दवाच्ये खंशब्दवाच्यत्वं कोकिलशब्दवाच्ये पिकशब्दवाच्यत्वमेव विधीयत इति तत्रापि वाच्यार्थसंसर्गपरत्वस्य सत्वान्न व्यभिचार इत्यर्थः ।

न्यायकल्पलता

क्रमेणानुमानं दूषयितुमुपक्रमते– आद्येति ।। कथम् अप्रसिद्धविशेषणत्वमत आह– प्रत्यक्षादि-नापीति ।। निर्विकल्पकस्याप्रामाणिकत्वादिति भावः । ननु ‘प्रमात्वं संसर्गागोचरवृत्ति सकल-प्रमावृत्तित्वात् अभिधेयत्ववत्’ इति सामान्यतस्तत्प्रसिद्धिरिति चेन्न । अप्रयोजकत्वात् । विशेष्या-गोचरवृत्तित्वस्यापि तत एव सुसाधत्वेनाभाससाम्याच्च ।। असिद्धिश्चेति ।। सत्यत्वादेर्जातिरूपस्य घटादावतिव्याप्त्या औपाधिकस्य तात्त्विकस्य लक्ष्ये ब्रह्मण्यसम्भवेनातात्विकस्यानात्मन्यतिव्याप्त्या लक्षणत्वायोगेन सत्यादिवाक्ये लक्षणवाक्यत्वस्य हेतोरसिद्धिरित्यर्थः ।। अतिरेकेऽपीति ।। न चैतावता स्थायित्वास्थायित्वव्यवस्था स्यान्न स्वरूपादिरूपेति वाच्यम् । स्थायिधर्मस्यैव स्वरूपान्तर्गतत्वात् । यथोक्तं ‘यावद्वस्तु न भेदवत्’ इति । यावदाश्रयस्थायिनि धर्मे भेदाभेदौ न स्तः किन्तु सविशेषाभेद इत्यर्थः । पार्थिवरूपादौ स्वरूपलक्षणत्वं नैवेष्टम् । अत एवातिरेक इत्यस्य विशेषादतिरेकव्यवहारयोग्य इत्यर्थः ।। वक्ष्यमाणेति ।। ‘सामान्यतोऽपि चन्द्रादेर्ज्ञानाभावे तद्बुभुत्सासंशयादि न स्यात्’ इति वक्ष्यमाणरीत्या ।

न च ज्ञानमात्रेऽस्य द्वारत्वाभावेऽपि संशयादिनिवर्तके तज्ज्ञाने द्वारत्वमिति युक्तम् । विषय-विशेषानवगाहने पूर्वोत्तरज्ञानयोः संशयानिवर्तकत्वतन्निवर्तकत्वायोगात् । ननु किं चन्द्रलक्षणम् इत्यादेः प्रश्नस्योत्तरे प्रकृष्टादिवाक्येऽपि चन्द्रस्वरूपमात्रं प्रतिपाद्यते न तु चन्द्रधर्मसंसर्गोेऽपीत्यत आह– न च धर्म इति ।। यत्तु नात्र चन्द्रस्वरूपपरत्वं किन्तु प्रकर्षाश्रयो यः प्रकाशस्तत्स्वरूपपरत्वम् । तथा च प्रकर्षोपलक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वेनाखण्डार्थत्वमेवेति । अत्राप्येतदेवोत्तरम् न च धर्म इति ।। धर्मे चन्द्रसम्बन्धिनि धर्मे । स्वरूपमात्रं धर्मस्वरूपमात्रम् । तथा चात्र चन्द्रसम्बन्धिधर्मप्रश्नाच्चन्द्रसम्बन्धिप्रकाश एव वाच्यो न प्रकाशस्वरूपमात्रमित्यर्थः । ननु चन्द्रेऽसाधारणधर्मप्रश्नस्यापि चन्द्रस्वरूपमात्रप्रतिपादनपरमुत्तरमुचितम् । समानविशेष्यकत्वादित्यत आह– न च प्रश्नेति ।। सप्रकारकमिति ।। ननु न सप्रकारकज्ञानं संशयादिनिवर्तकम् । भ्रम-कालीनानुवृत्ताकारज्ञानस्य सप्रकारकत्वेऽपि ततः संशयाद्यनिवृत्तेः । किन्तु व्यावृत्ताकारज्ञानमेव । ज्ञानस्याज्ञानसमानविषयकत्वेनैव तन्निवर्तकत्वम् । अज्ञानविषयश्च शुद्धं ब्रह्म । अज्ञानकल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् । तथा च शुद्धब्रह्माकारा चित्तवृत्तिर्निष्प्रकारिकैवाज्ञाननिवर्तिका । प्रकारमात्रस्याप्यविद्याकल्पितत्वेन तद्विषयाया वृत्तेरविद्यासमानविषयत्वाभावादिति । अविद्यातत्कार्यविषयज्ञानस्य तदनिवर्तकत्वाच्चेति ।

मैवम् । अनुवृत्तव्यावृत्ताकारयोः स्वरूपमात्रत्वेऽनुवृत्ताकारज्ञानादपि संशयादिनिवृत्तिप्रसङ्गः । अन्यथा व्यावृत्ताकारज्ञानादपि सा न स्यात् । तयोः स्वरूपातिरेके तु न ज्ञानाज्ञानयोः समान-विषयत्वम् । अनृतप्रतिषेधक व्यावृत्ताकारस्याज्ञानाविषयत्वाच्च । प्रत्युतानुवृत्ताकारस्यैव प्रपञ्च-भ्रमाधिष्ठानशुद्धचिन्मात्रतया तस्यैवाज्ञानविषयत्वम् । अतोऽनुवृत्ताकारवृत्तिरेवाज्ञाननिवर्तिका स्यादिति भावः ।। संसृष्टरूप इति ।। न च संसर्गरूपे पदार्थे व्यभिचारः । संसर्गरूपस्यापि संयोगादेः सम्बन्धान्तरेण संसृष्टत्वात् । पदार्थे मुख्यतात्पर्यायोगाच्च ।। संसर्गरूप इति ।। संसर्गनिरूपक इत्यर्थः । अतो न संसृष्टरूपे पदार्थे व्यभिचारः । तत्र तात्पर्याभावाच्च ।। प्रमाणवाक्यत्वादिति ।। यत्तु प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकतेति । तन्न । पदार्थाबाधस्य तत्प्रमितेश्चाप्रमाणवाक्येऽपि सत्त्वेन संसर्गाबाध-प्रमित्योरेव प्रमाणवाक्यत्वोपपादकत्वात् । न चालक्षणवाक्यत्वमुपाधिः । लक्षणवाक्यत्वस्य संसर्गपरत्वव्याप्त्या तस्य व्यतिरेके व्यभिचारेणानुपाधित्वात् ।। सप्रकारिकेति ।। असन्दिग्ध-प्रकारिकेत्यर्थः । तेन ज्ञानमात्रस्य सप्रकारकत्वपक्षे विचारजन्येति व्यर्थमिति निरस्तम् ।

संशयविरोधित्वादिति ।। अत्र ज्ञानत्वमुपस्कर्तव्यम् । उक्तसाध्यकरणान्न संशयविरोधीति व्यर्थं, न वा संशयाभावादौ व्यभिचारः ।। वेदान्तेति ।। सत्यं ज्ञानमिति वाक्यजन्येत्यर्थः । अतो न वक्ष्यमाणहेत्वादेरसिद्ध्यादि ।। ब्रह्मनिष्ठेति ।। ब्रह्मनिष्ठसत्वप्रकारविषयेत्यर्थः ।। संशयेति ।। सत्त्वसंशयेत्यर्थः । अतो न संशयविरोधीति व्यर्थम् । न च लक्षणवाक्याजन्यत्वमुपाधिः । व्यतिरेके व्यभिचारस्योक्तत्वात् ।।

Load More