अविद्याविषयोऽपि दुर्वचः
६५. अविद्याविषयभङ्गः
न्यायामृतम्
अविद्याविषयोऽपि दुर्वचः । यदत्रोक्तं विवरणे– अज्ञानस्य चिन्मात्रमेव विषयः । तस्याकल्पितत्वेनान्योन्याश्रयादिदोषाभावात् । स्वप्रकाशत्वेन प्रसक्त-प्रकाशे तस्मिन्नावरणकृत्यसम्भवाच्च । न त्वन्यत्, तस्याज्ञानकल्पितत्वात् । जडत्वेन स्वयमेव प्रकाशहीने आवरणकृत्याभावाच्चेति ।
अत्र ब्रूमः – चिन्मात्रेऽप्यावरणकृत्यं न तावत्सिद्धप्रकाशलोपोऽसिद्ध-प्रकाशानुत्पत्तिर्वा, स्वरूपप्रकाशस्य नित्यसिद्धत्वात् । तदन्यस्य च स्वप्रकाशे तस्मिन्ननपेक्षितत्वात् । नापि सतोऽपि प्रकाशस्य विषयासम्बन्धः, ज्ञानस्य विषयसम्बन्धस्वभावत्वात् । स्वयं ज्ञानरूपत्वेन त्वन्मते सम्बन्धानपेक्षणाच्च । नापि प्राकट्याख्यकार्यप्रतिबन्धः, त्वन्मतेऽपि चैतन्यातिरिक्तस्य तस्या-भावात् । नापि नास्ति न प्रकाशत इत्यादिव्यवहारः, व्यवहारो ह्यभिज्ञा ? अभिलपनं वा ? नाद्यः, नास्तीत्यादिभ्रान्तेरावरणसाध्यत्वेनावरणत्वायोगात् । अत एव नान्त्य;, तस्योक्तभ्रान्तिसाध्यत्वेन भ्रान्तिहेत्वावरणत्वायोगात् । सुषुप्तौ व्यवहाराभावेनानावरणापाताच्च । नाप्यस्ति प्रकाशत इत्यादिव्यवहारा-भावः, व्यवहारस्याभिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्त्वाद् वृत्तेश्च मोक्षेऽप्यसत्त्वात् । अभिलपनत्वे मोक्षेऽप्यावरणापातात्, नापि नास्तीत्यादि-व्यवहारयोग्यत्वमस्तीत्यादिव्यवहारायोग्यत्वं वा, तयोरप्यारोपितत्वेनावरणं विनाऽयोगात् । अद्वितीयत्वादिविशिष्टे तथा व्यवहारेऽपि अवस्थात्रयेऽप्य-सन्दिग्धाविपर्यस्तत्वेन प्रकाशमानात्मरूपे अध्यासाधिष्ठाने सुखादिज्ञानरूपे च चिन्मात्रे तदभावेन तत्कल्प्ययोर्योग्यत्वायोग्यत्वयोरभावाच्च । तयोरप्यवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वविरुद्धत्वेनेदानीमप्यभावाच्च । न चाज्ञानावच्छिन्नत्वेनापरोक्षव्यवहारयोग्यत्वं स्वरूपेण तु तदयोग्यत्वमित्य-विरोधः, स्वरूपस्यास्वप्रकाशत्वापातात् । नित्यातीन्द्रियस्याप्यज्ञानावच्छेदेना-परोक्षव्यवहारयोग्यत्वेन स्वप्रकाशत्वापातात् । इच्छाद्यवच्छिन्नप्रकाश इवाज्ञाना-वच्छिन्नप्रकाशेऽपि विशेष्यस्यापि प्रकाशेनेच्छादिवदेवाज्ञानस्याप्यावरणत्वा-योगाच्च । सुखादेरज्ञानावच्छिन्नचित्प्रकाश्यत्वे सुखादिकं न प्रकाशत इत्यनु-भवापातेन सुखादिकं प्रकाशत इत्यनुभवार्थं चितोऽज्ञानानवच्छेदेन प्रकाश-स्याङ्गीकार्यत्वाच्च ।
एतेनाज्ञानाविशेषितापरोक्षव्यवहारायोग्यत्वमावरणकृत्यमित्यपि निरस्तम् । न चोक्तयोग्यत्वायोग्यत्वरूपयोः प्रकाशाप्रकाशयोः सत्यत्वमिथ्यात्वाभ्याम-विरोध इति वाच्यम्, सुखादिस्फुरणं न प्रकाशत इत्यननुभवेन सुखादिसाक्षिणि चैतन्ये आरोपितस्याप्यप्रकाशस्याभावात् । वह्नाववह्नित्वारोपेऽपि वह्नि-कार्यस्येवाप्रकाशारोपेऽपि प्रकाशकार्यभ्रान्त्याद्यभावस्यापाताच्च । सतः शुक्ति-त्वस्यारोपितेनाशुक्तित्वेनाविरोधेऽपि सतोऽधिष्ठानप्रकाशस्यारोपान्तरेणेवा-प्रकाशारोपेणापि विरोधाच्च । अन्यथा तन्निवृत्तिर्न स्यात् । न चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यतात्यन्ताभावानधिकरणत्वं स्वप्रकाशत्वमुक्तयोग्यता-प्रागभावश्चावरणमित्यविरोधः, स्वरूपप्रकाशप्रयुक्तयोग्यताया अनादित्वात् । इदानीं योग्यतारूपप्रकाशस्य प्रागभावः मोक्षे तु ध्वंस इति मोक्षेऽप्य-प्रकाशापाताच्च । भवति हि दीपात्पूर्वमिव पश्चादप्यप्रकाशः । एवं च–
स्वप्रभत्वेनापरोक्षव्यवहारार्ह आत्मनि ।
तद्योग्यत्वाभावरूपमविद्यावरणं कथम् ।।
किं च दीपावरकघटादिवच्चैतन्यावरकाविद्या चैतन्यस्यान्यसम्बन्धं प्रति-बध्नातु, अन्यं च प्रति चैतन्यमाच्छादयतु, न तु चैतन्यं प्रत्येव, चैतन्ये उक्त-योग्यतारूपप्रकाशविरोधिनी । न हि दीपो घटावृतोऽपि स्वयं न प्रकाशते, तमःसम्बन्धापातात् । ननु कल्पितभेदं जीवचैतन्यं प्रति शुद्धचैतन्य-माच्छादयतीति चेन्न, आवरणं विना भेदकल्पनायोगात् । यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः, तदभावस्यैवेदानीमज्ञानेन साधनीय-त्वाच्च । न च दीपप्रकाशः आवृतोऽपि स्वविषयत्वात् प्रकाशते, ब्रह्मप्रकाशस्तु न तथेति न प्रकाशत इति वाच्यम्, मोक्षेऽप्यप्रकाशापातात् । अज्ञान-वैयर्थ्याच्च । अथ मतं साक्षिणि प्रकाशमानेऽप्यज्ञानं युक्तम् । तस्य तत्स्फोरक-त्वेन तदविरोधित्वात् । दृश्यते हि त्वदुक्तमर्थं न जानामीति प्रकाशमान एवाज्ञानम् । अज्ञानावच्छेदकस्य विषयस्याज्ञाने तदवच्छिन्नाज्ञानज्ञानायोगात् । न च सामान्येन ज्ञानेऽपि विशेषेणाज्ञानमिति वाच्यम्, सामान्यस्य ज्ञातत्वा-देवाज्ञानानवच्छेदकतया तदवच्छेदकस्य विशेषस्यैव ज्ञातव्यत्वात् । अविद्या-निवृत्तिस्त्वात्ममात्रविषयकाद् वृत्तिविशेषादेव । एकविषयत्वेऽपि वृत्ति-चितोरज्ञानविरोधित्वाविरोधित्वे घटविषयकयोः सौरालोकज्ञानयोः सौरचाक्षुष-प्रकाशयोर्वा तमोविरोधित्वाविरोधित्ववत् शङ्खे श्वैत्यप्रत्यक्षानुमित्योः पीतत्व-भ्रमविरोधित्वाविरोधित्ववच्च युक्ते । एवं च प्रकाशमाने आवरणकृत्या-भावेऽप्यज्ञानमविरुद्धमिति मम सिद्धान्तरहस्यमिति ।
अत्रोच्यते । त्वयाप्यनवच्छिन्नब्रह्मानन्दाप्रकाशार्थमेवाज्ञानस्य कल्पितत्वेन कथं प्रकाशमाने अज्ञानम् ? अपि च त्वदुक्तोऽर्थो न प्रकाशत इत्यनुभवादस्तु तत्र भासमाने अज्ञानम् । न चेह सुखादिस्फुरणं न प्रकाशत इत्यनुभवोऽस्ति, येन भासमाने तत्स्यात् । किं च न तत्रापि भासमाने अज्ञानं गुहास्थं तमश्छन्नमितिवत् त्वदुक्तं न जानामीत्यनावृतसामान्यावच्छेदेनैवाज्ञानानु-भवात् । न हि परचित्तस्थमज्ञानं त्वयापि बुभुक्षापिपासादिप्रातिस्विक-रूपेणानूद्यते । एवं च तद्विशेषसंशयं प्रति तत्सामान्यनिश्चय इव तद्विशेषा-वच्छिन्नाज्ञानज्ञानं प्रति तत्सामान्यज्ञानमेव हेतुः, तथा दर्शनात् । न हि विशेषे ज्ञाते तदज्ञानधीर्दृष्टा । अवच्छेदकज्ञानस्यावच्छिन्नज्ञानहेतुतापि हि दर्शनादेव कल्प्या । सामान्यविशेषभाव एव च नियामक इति नातिप्रसङ्गः । युक्तं च द्वेषस्येष्टत्वेऽपि द्विष्टस्येष्टत्वाभाववद् ईश्वरस्यास्मदादिभ्रान्तिविषय-विषयकज्ञानाभावेऽपि भ्रान्तेर्ज्ञानव(भ्रान्तिविषयकज्ञानव)दस्मदादीनां सर्वा-ज्ञानेऽपि ईश्वरसार्वज्ञ्यज्ञानवच्चाज्ञातज्ञानाभावेऽप्यज्ञानज्ञानम् । अन्यथा
मोहभानार्थमज्ञातभानं यदि च कल्प्यते ।
अज्ञाते मोहहानिश्च तदर्थं किं न कल्प्यते ।।
तथा हि– संयोगाद्यवच्छेदकस्य घटादेरज्ञानावच्छेदकतया ज्ञानेऽपि घटाद्य-ज्ञाननिवृत्तिं विनाऽवच्छिन्नसंयोगादिज्ञानादर्शनेन प्रकृतेऽपि विषयावच्छिन्ना-ज्ञानज्ञानार्थं तदवच्छेदकविषयावरकाज्ञाननिवृत्तेरपि वक्तव्यत्वेनाज्ञानाविरोधि-ज्ञानवदज्ञानाविरोधिन्यज्ञाननिवृत्तिरपि स्वीकार्या स्यात् । अथ यथाऽन्यत्रा-वच्छिन्नसत्त्वस्यावच्छेदकसत्त्वसापेक्षत्वेऽप्यारोपितावच्छिन्नाभावसत्त्वस्य नारोपितसत्त्वसापेक्षत्वं विरोधात् । तथा विषयावच्छिन्नाज्ञानज्ञानस्य न विषयाज्ञाननिवृत्तिसापेक्षत्वं विरोधादिति चेत्, तर्हि तत एव तस्य न विषयज्ञानसापेक्षत्वमपि । किं चाज्ञानस्य ज्ञानान्तरविरोधित्वेऽपि साक्ष्य-विरोधवत् (धित्ववत्) अन्यत्रावच्छेदकज्ञानाभावस्यावच्छिन्नज्ञानविरोधित्वेऽपि अज्ञानावच्छेदकज्ञानाभावस्यावच्छिन्नज्ञानाविरोधः किं न स्यात् ? अज्ञानस्य विषयविशेषावच्छेदसिद्धिस्तु तमस इव विशेषज्ञानानन्तरमेतावन्तं काल-ममुमर्थमित्थं नाज्ञासिषमित्यनुभवान्तरादिति ज्ञेयम् ।
यच्चोक्तं साक्षी अज्ञानस्फोरकत्वात्तदविरोधी, वृत्तिरेव तु विरोधिनीति । तन्न, वृत्तिश्चैतन्यस्य विषयोपरागार्थेति मते तस्या अज्ञानानिवर्तकत्वाद् अज्ञानस्य स्वविरोधिज्ञानाभावव्यापकत्वेन मोक्षेऽप्यज्ञानापाताच्च । न जाना-मीत्यज्ञानस्य ज्ञानसामान्यविरोधित्वानुभवाच्च । न जानामीति ज्ञप्ति-विरोधित्वस्यैवानुभवाच्च । त्वत्पक्षे च चैतन्यस्यैव ज्ञप्तित्वात् । चैतन्याज्ञान-योरविरोधे ज्ञानत्वाज्ञानत्वायोगस्योक्तत्वाच्च । वृत्तेरप्यर्थप्रकाशकत्वं विना जातिविशेषेणैवाज्ञानतत्कार्यनिवर्तकत्वे इच्छादिनिवर्त्यद्वेषादिवत् सत्त्वापत्त्या शुक्त्यादिज्ञानवदर्थप्रकाशत्वेन तन्निवर्तके वक्तव्ये चैतन्यस्यापि तत्त्वेन तन्निवर्तकत्वावश्यम्भावाच्च । त्वन्मते नित्यातीन्द्रिये परोक्षवृत्तौ सत्यामपि अज्ञानानिवृत्त्या सुखादावपरोक्षवृत्त्यभावेऽपि स्फुरणमात्रेणाज्ञानादर्शनेन चान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानविरोधित्वाच्च । स्वसत्तायामप्रकाश-विरोधित्वेनात्मनः स्वप्रकाशत्वसाधनायोगाच्च । वृत्तिचितोर्वैषम्योक्तिश्चायुक्ता । वृत्तिवत्साक्षिणोऽपि समानविषयकाज्ञानविरोधित्वानुभवात् । अनुभूयते ह्यज्ञानविषयकानुमित्यादिरूपवृत्तिवदज्ञानविषयकसाक्षिणोऽप्यज्ञानविषयकाज्ञानविराधित्वं साक्षिवच्चाज्ञानविषयकवृत्तेरप्यज्ञानविषयकाज्ञानाविरोधित्वं च । अन्यथा साक्षिवेद्ये चैत्रेच्छासुखदुःखादौ मैत्रस्येव चैत्रस्याप्यज्ञानं स्यात् । एवं च–
साक्षी स्वविषयेऽज्ञानविरोधी न भवेद्यदि ।
तद्वेद्ये सुखदुःखादावज्ञानं केन वार्यते ।।
इच्छादौ सदा प्रकाशादज्ञानप्रसक्तिरेव नेति चेत्, तर्ह्यात्मन्यपि तत एव तदप्रसक्तिः स्यात् । न च साक्षिवेद्यत्वं तदप्रसक्तौ तन्त्रम्, आत्मा तु न तद्वेद्यः किन्तु चिद्रूपत्वात्प्रकाशत एवेति युक्तम् । प्रकाशरूपे दीपे अन्धकार-स्येवात्मन्यप्यज्ञानाप्रसक्तेर्न्याय्यत्वात् । अन्यथा घटादिरालोकमिवात्मापि स्वव्यवहारे ज्ञानान्तरमपेक्षेत । न च सुखाद्यपि वृत्तिप्रतिबिम्बितसाक्षिणैव वेद्यम्, न तु केवलेनेति केवलो नाज्ञानविरोधीति वाच्यम् । असतः साधकत्व-भङ्गे केवलसाक्षिवेद्यत्वोपपादनात् । अन्तःकरणवृत्तेरिन्द्रियादिव्यापारमविद्या-वृत्तेश्च दोषं विनायोगाच्च । अन्यथाऽऽत्मापि वृत्तिप्रतिबिम्बितेनैव स्वेन (तेन) सदा प्रकाशते, न तु केवलेनेति स्यात् । एतेन सौरालोकज्ञानादिप्रतिबन्दी निरस्ता ।
एतेनैव सर्वं ज्ञाततयाऽज्ञाततया वा साक्षिविषय इति निरस्तम् । अन्धकारावृतवद् ज्ञानाभावावच्छेदकविषयवच्चाज्ञानावच्छेदकस्याप्यप्रकाशेन साक्षिवेद्यतायोगात् । अस्तु वा वृत्तिरेवाज्ञानविरोधिनी, तथाप्यात्मविषया सेदानीमप्यस्तीति कथं तत्राज्ञानम् ? विवरणे जीवाकाराहंवृत्तिपरिणतान्तः-करणेन च जीवोऽभिव्यज्यते, अन्यथा सुषुप्तेरित्युक्तेः । अयं घट इत्याद्यपरोक्ष-वृत्तेरपि त्वन्मते घटावच्छिन्नचिद्विषयत्वाच्च । अन्यथा घटावरकाज्ञानाभावेनायं घट इति वृत्तेरज्ञानाभिभावकत्वं न स्यात् । न च विशिष्टचैतन्यरूपजीवविषया वा घटावच्छिन्नचैतन्यविषया वा वृत्तिरज्ञानविषयीभूतचिदविषया वा, तदज्ञानाविरोधिनी वेति युक्तम् । दण्डी चैत्र इति वृत्त्या चैत्राज्ञाना-नभिभवापातात् । आकाशस्यैव च घटावच्छिन्नस्य घटाकाशत्वे घटाकाशे दृष्टे आकाशगतमहत्त्वाद्यदर्शनेऽपि आकाशमात्रं दृष्टमेव । आकाशांशस्य घटाकाशत्वे तु घटाकाशदर्शनेऽपि महाकाशादर्शनं युक्तम् । न च श्रवणादिजन्या वृत्तिरज्ञानविरोधिनीति युक्तम् । भ्रमकालीनापरोक्षज्ञानानधिकविषयज्ञानेन कारणान्तरजन्येनाप्यविद्यानिवृत्तावतिप्रसङ्गात् । अनधिकविषयत्वे श्रवणादि-वैयर्थ्याच्च । सत्यत्वापाताच्च । तस्मान्नात्ममात्रमज्ञानस्य विषयः ।
नापि देहादिभेदो वा भोक्तृत्वाद्यभावो वा ब्रह्माभेदो वा द्वितीयमात्राभावो वा तद्विशिष्टात्मा वा तद्विषयः, तेषामात्ममात्रत्वे उक्तदोषात् । भिन्नत्वे सत्वेऽद्वैतहानेः । आविद्यकत्वेऽन्योन्याश्रयादेः । न च ब्रह्माभेदादेः प्रकाश-मानात्ममात्रत्वेऽपि कल्पितेन भेदेनाज्ञातत्वम् । अधिष्ठानावरणं विना भेदकल्पनायोगादित्युक्तत्वात् । न च मिथ्याभूतेनापि भेदाभावेन द्वितीयाभावेन वोपलक्षित आत्मा अज्ञानविषयः, तस्य समानविषयज्ञाननिवर्त्यत्वेन वेदान्तानामप्युपलक्षणरूपप्रकारयुक्तात्मपरत्वेनाखण्डार्थत्वहानेः । अकाके काकवदिति वाक्यवदप्रामाण्यापाताच्च । प्रकाशमानस्यात्मनोऽज्ञानविषयत्वे अप्रकाशमानस्य द्वितीयाद्यभावस्योपलक्षणत्वेन तदविषयत्वे च दृष्टहाना-(दृष्टक)दिकल्पनापाताच्च । तस्मादात्मनः प्रकाशमानत्वादन्यस्य चाविद्य-कत्वान्नाविद्याविषयत्वम् । तदुक्तम्–
निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत् ।
मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते ।। इति ।
किं च न्यूनयाऽविद्यया विषयसम्बन्धिन्या कथमधिकब्रह्मावरणम् ? न्यूनाप्यङ्गुलिरविषयसम्बन्धित्वादधिकसूर्याच्छादिका । तस्मादनिर्वाच्याविद्याया दुर्निरूपत्वादहङ्कारादिकं न तत्कार्यम् ।
अद्वैतसिद्धिः
अविद्याया विषयोऽपि सुवचः । तथा हि– चिन्मात्रमेवाविद्याविषयः, तस्याकल्पि-तत्वेनान्योन्याश्रयादिदोषाप्रसक्तेः, स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन् आवरणकृत्य-सम्भवाच्च, नान्यत्, तस्याज्ञानकल्पितत्वात्, अप्रसक्तप्रकाशत्वेनावरणकृत्याभावाच्च ।
ननु– किमावरणकृत्यं (१) सिद्धप्रकाशलोपो वा ? (२) असिद्धप्रकाशानुत्पत्तिर्वा ? (३) सतः प्रकाशस्य विषयासम्बन्धो वा (४) प्राकट्याख्यकार्यप्रतिबन्धो वा ? (५) नास्ति न प्रकाशत इति व्यावहारो वा ? (६) अस्ति प्रकाशत इति व्यवहाराभावो वा ? (७) नास्तीत्यादिव्यवहारयोग्यत्वं वा ? (८) अस्तीत्यादिव्यवहारायोग्यत्वं वा ? नाद्य-द्वितीयौ, स्वरूपप्रकाशस्य नित्यसिद्धत्वेन तल्लोपानुत्पत्त्योरसम्भवात्, तदन्यस्य च स्वप्रकाशे तस्मिन्ननपेक्षितत्वात् । न तृतीयः, ज्ञानस्य विषयसम्बन्धैकस्वभावत्वात्, स्वयं-ज्ञानरूपत्वेन त्वन्मते सम्बन्धानपेक्षणाच्च । नापि चतुर्थः, त्वन्मते चैतन्यातिरिक्तस्य तस्याभावात् । नापि पञ्चमः, सुषुप्तौ व्यवहाराभावेनानावरणापातात् । नापि षष्ठः, व्यवहारस्याभिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्त्वात्, वृत्तेश्च मोक्षेऽप्यसत्त्वात् । अभिलपनरूपत्वे मोक्षेऽप्यावरणप्रसङ्गात् । नापि सप्तमाष्टमौ, तयोरप्यारोपितत्वेनावरणं विनायोगादिति– चेन्न । नास्ति न प्रकाशत इति व्यवहार एवाभिज्ञादिसाधारणः, अस्ति प्रकाशत इत्येतद्व्यवहाराभावो वा आवरणकृत्यम् । आवरणं च तद्योग्यता अज्ञानसम्बन्ध-रूपा सुषुप्त्यादिसाधारणी आब्रह्मज्ञानमवतिष्ठते । तेन सुषुप्तिकाले नानावरणम्, मोक्षकाले च नावरणम् ।
यदुक्तमस्याप्यारोपितत्वेनावरणसापेक्षत्वमिति । तन्न, अज्ञानसम्बन्धरूपस्यावरण-स्यानादित्वेन चित्प्रकाश्यत्वेन च उत्पत्तौ ज्ञप्तौ स्थितौ वा स्वानपेक्षणात् । ननु– अद्वितीयत्वादिविशिष्टे तथा व्यवहारेऽपि अवस्थात्रयेऽप्यसन्दिग्धाविपर्यस्तत्वेन प्रकाश-मानात्मरूपे अध्यासाधिष्ठाने सुखादिज्ञानरूपे चिन्मात्रे तदभावेन तत्कल्प्ययोर्योग्यत्वायोग्य-त्वयोरभाव इति– चेन्न, शुद्धरूपायाश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणा-प्रकाशमानत्वात्, तदर्थं तस्या एवावरणकल्पनात्, परिपूर्णाद्याकारस्य मोक्षदशानुवृत्तत्वेन शुद्धचिन्मात्रत्वात् । न च– निर्विभागचितः कथमेवं घटत इति वाच्यम्, आवरणमहिम्नैव परिपूर्णं ब्रह्म नास्ति न प्रकाशत इति व्यवहारः, अस्ति प्रकाशत इति व्यवहारप्रतिबन्धश्च, अध्यासाधिष्ठानत्वादिना प्रकाशमानता चाविरुद्धेति ।
अत एव– अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वविरुद्धे योग्यत्वायोग्यत्वे कथमिदानीमपि ब्रह्मणि स्याताम् ? न च– अज्ञानादिमत्त्वेनापरोक्षव्यवहारयोग्यत्वं स्वरूपेण च तदयोग्यत्वमित्यविरोध इति– वाच्यम्, स्वरूपस्याप्रकाशत्वादिति– निरस्तम्, परिपूर्णा-द्याकारेण इदानीं व्यवहाराभावेऽपि अपरोक्षव्यवहारयोग्यत्वानपायात् । न चैवं– सुखादे-रज्ञानावच्छिन्नचित्प्रकाश्यत्वे ‘सुखादिकं न प्रकाशत’ इत्यनुभवापातेन सुखादिकं प्रकाशत इत्यनुभवार्थं चितोऽज्ञानानवच्छेदेन प्रकाशोऽङ्गीकरणीय इति– वाच्यम्, इष्टापत्तेः, अनुक्तोपालम्भनत्वात् । न ह्यज्ञानावच्छेदेन चित् प्रकाशत इति ब्रूमः । अत एव च– नित्यातीन्द्रियेऽप्यज्ञानावच्छेदकतया अपरोक्षव्यवहारेण तत्रापि स्वप्रकाशापत्तिरिति– निरस्तम्, अज्ञानानवच्छेदेन तादृशस्य व्यवहारस्योक्तेः ।
ननु– प्रदीपावारकघटादिवच्चैतन्यावारकाविद्या चैतन्यस्यान्यसम्बन्धं प्रतिबध्नातु अन्यं प्रति चैतन्यमाच्छादयतु, न तु चैतन्यं प्रत्येव चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा, न हि दीपो घटावृतोऽपि स्वयं न प्रकाशते, तमःसम्बन्धापातात् । न च– कल्पितभेदं जीवचैतन्यं प्रति शुद्धचैतन्यमाच्छादयतीति– वाच्यम्, आवरणं विना भेदकल्पनस्यैवा-योगात् । यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः, तदभावस्यैवेदानीमज्ञानेन साधनीयत्वाच्चेति– चेन्न, कल्पितभेदं जीवं प्रति शुद्धचैतन्यस्यावृतत्वात् । न च– भेद-कल्पनस्यावरणोत्तरकालीनत्वादिदमयुक्तमिति– वाच्यम्, भेदावरणयोरुभयोरप्यनादित्वेन परस्परानन्तर्याभावात् ।
यच्चोक्तं– यो मोक्षे भावी चैतन्यं प्रति प्रकाशः, तदभाव इदानीमज्ञानसाध्य– इति । तन्न, मोक्षे जन्यस्य चैतन्यप्रकाशस्याभावात्, कल्पितभेदापगमे शुद्धचैतन्यं प्रत्येव प्रकाशस्य जीवं प्रत्यपि सम्भवात् ।
यच्चोक्तं– प्रकाशस्वरूपे चैतन्ये कथमज्ञानम् ? न ह्यालोके तमः– इति । तन्न, अज्ञानतमसोर्विरोधितायामनुभवसिद्धविशेषात् । तथा हि– ‘त्वदुक्तमर्थं न जानामी’ति प्रकाशमाने वस्तुनि अज्ञानस्यानुभवात् स्वरूपचैतन्यं साक्षी वा नाज्ञानविरोधि, तमसस्तु आलोके सत्यननुभवादालोकमात्रं तद्विरोधि । वस्तुतस्तु– अवतमसे विषयप्रकाशकालोक-सहभावदर्शनेन तमस्यपि नालोकमात्रं विरोधि । न च– ‘त्वदुक्तार्थो न प्रकाशत’ इत्यनु-भवादस्तु तत्र भासमाने अज्ञानम्, सुखादिस्फुरणे भासमाने न प्रकाशत इत्यननुभवात् कथं तत्राज्ञानमिति– वाच्यम्, सुखादिस्फुरणं न प्रकाशत इत्यनुभवाभावेऽपि अनवच्छिन्नाकारेण न प्रकाशत इत्यनुभवाद्, आवरकाज्ञानस्य तत्राप्यावश्यकत्वात् । यदपि– ‘त्वदुक्तमर्थं न जानामी’त्यत्र भासमाने नाज्ञानम्, किन्तु गुहास्थं तमश्छन्नमितिवत् त्वदुक्तं न जानामीत्यनावृतसामान्यावच्छेदेनैव विशेषाज्ञानमनुभूयते, न हि परिचित्तस्थमज्ञानं प्राति-स्विकरूपेणानूद्यते, एवं च तद्विशेषसंशयं प्रति तत्सामान्यनिश्चय इव तद्विशेषावच्छिन्ना-ज्ञानज्ञानं प्रति तत्सामान्यज्ञानमेव हेतुः, तथा दर्शनात्, न हि विशेषे ज्ञाते तदज्ञानधीर्दृष्टा, अवच्छेदकज्ञानस्य ह्यवच्छिन्नज्ञानहेतुतापि दर्शनादेव कल्प्या, न चातिप्रसङ्गः, सामान्य-विशेषभावस्यैव नियामकत्वाद्– इति । तन्न, अज्ञानं हि विशेषावच्छिन्नतया भासते ? सामान्यावच्छिन्नतया वा ? आद्ये विशेषे भासमानत्वमागतमेव । न हि विशेषमभास-यन्विशेषाज्ञानमित्यवभासयति । तथा च सामान्यनिश्चयजनितोऽपि संशयो विशेषमवगाहते यथा, तथा सामान्यज्ञानजनितोऽप्यज्ञानप्रत्ययो विशेषं विषयीकरिष्यतीति कुतो भासमाने नाज्ञानमिति । न द्वितीयः, सामान्यज्ञानेन तदवच्छिन्नतयैव गृहीतस्याज्ञानस्य विशेष-सम्बन्धित्वे मानाभावेन भासमाने सामान्य एवाज्ञानमवगतम् । वस्तुतः प्रतीतिप्रमाण-कत्वात् । तथा च परचित्तस्थं यथा अनूद्यते, तथा ज्ञानं तथैवाज्ञानं चेति सिद्धम् ।
ननु– यथा द्वेषस्येष्टत्वेऽपि द्विष्टस्य नेष्टत्वम्, ईश्वरस्य भ्रान्तिज्ञत्वेऽपि न भ्रमविषय-ज्ञत्वम्, अस्मदादीनामीश्वरसार्वज्ञ्यज्ञानेऽपि न सर्वज्ञत्वम्, एवमज्ञातज्ञानाभावेऽपि अज्ञान-ज्ञानमिति– चेन्न, दृष्टान्तासम्प्रतिपत्तेः । तथा हि– इच्छा तावज्ज्ञानसमानविषया, ज्ञानं चावच्छेदकतया द्विष्टमपि विषयीकरोतीति इच्छाया अप्यवच्छेदकतया तद्विषयत्वात् । न हीच्छा इष्टतावच्छेदकाविषया भवति । एतावानेव विशेषः – किञ्चित् साध्यतया विषयी-करोति, किञ्चित् अवच्छेदकतया । ईश्वरोऽपि भ्रमविषयमगृहीत्वा भ्रमं न गृह्णाति । भ्रमो हि भ्रमत्वेन ग्राह्यः । भ्रमत्वं च रजताभाववति रजतख्यातित्वं वा, असत्ख्यातित्वं वा, अनिर्वचनीयख्यातित्वं वा । तस्मिन् गृह्यमाणे सर्वथा विषयग्रहः । इयांस्तु विशेषः । यद् भ्रान्तः स्वातन्त्र्येण गृह्णाति, ईश्वरस्तु तज्ज्ञानावच्छेदकतयेति, ईश्वरसार्वज्ञ्यज्ञानमस्माकं तु सर्वज्ञपदेन । तत्र सर्वपदप्रतिपाद्यं जानन्नेवास्मदादिस्तत्र ज्ञानसम्बन्धं गृह्णातीति ईदृशं सार्वज्ञ्यमिष्टमेव । विशेषस्त्वीश्वरस्य न कुत्राप्यज्ञानम्, अस्मादृशां तु विशेषेष्वज्ञानमिति कृत्वा । एवं च ज्ञात एव विशेषे अज्ञानज्ञानमिति । न च– घटादेरज्ञानावच्छेदकतया भानेऽपि घटाद्यज्ञाननिवृत्तिं विना तदवच्छिन्नसंयोगादिज्ञानादर्शनेन प्रकृतेऽपि विषया-वच्छिन्नाज्ञानज्ञानार्थं तदवच्छेदकविषयाज्ञाननिवृत्तेरपि वक्तव्यत्वेनाज्ञानाविरोधिज्ञानवद् अज्ञानाविरोधिनी अज्ञाननिवृत्तिरपि स्वीकार्या स्यादिति वाच्यम्, संयोगादिसत्त्वस्यावच्छेदक घटादिसत्त्वसापेक्षत्वेऽपि यथा अभावे न स्वाधिकरणीयप्रतियोगिरूपावच्छेदकसत्त्वापेक्षा, विरोधात्, तथा अज्ञानज्ञानस्यापि न स्वविषयाज्ञाननिवृत्त्यपेक्षा, विरोधात् । न चैवं– तद्विषयकज्ञानापेक्षापि मास्तु, विरोधस्य समानत्वाद् अविरोधकल्पनाबीजस्य ज्ञान इवाज्ञान-निवृत्तावपि समानत्वात्, तथा च विषये अज्ञात एवाज्ञानं ज्ञायते, विषयविशेषावच्छिन्न-बुद्धिस्तु तमसीव विशेषज्ञानानन्तरं ‘एतावत्कालममुमर्थं नाज्ञासिषमि’त्येवंरूपा जायत इति– वाच्यम्, हन्तैवमभावस्वभावविरोधिप्रतियोगिज्ञाननिरपेक्षज्ञानविषयत्वमभाववैलक्षण्यसाधक-मज्ञाने उपपादितमायुष्मता । किञ्च यद्यज्ञानं स्वकाले विषयावच्छिन्नतया न भासयेत्, तदा तु ‘त्वदुक्तमर्थं न जानामी’ति विषयावच्छिन्नाज्ञानस्य वर्तमानार्थप्रत्ययो विरुद्ध्येत । तस्मात् विषयाज्ञानसाधकत्वात् साक्षिरूपविषयप्रकाशोऽपि नाज्ञानविरोधी, किन्तु प्रमाणवृत्तिः । एकविषयत्वेऽपि प्रमाणवृत्तितदतिरिक्तवृत्त्योरज्ञानविरोधित्वाविरोधित्वे घट-विषयकयोः सौरालोकज्ञानयोः सौरचाक्षुषप्रकाशयोर्वा तमोविरोधित्वाविरोधित्ववदुपपद्येते । न च– वृत्तिश्चैतन्यस्य विषयोपरागार्थेति मते अस्या अज्ञाननिवर्तकत्वाभावाद् इदमयुक्तमिति– वाच्यम्, अज्ञाननिवर्तकत्वेन निवृत्तिप्रयोजकत्वस्यैव उक्तत्वात् । तच्च सम्बन्धसम्पादनद्वाराऽ स्मिन्पक्षेऽपि अस्त्येव । न च– अज्ञानस्य स्वविरोधिज्ञानाभावव्यापकत्वेन मोक्षेऽप्य-ज्ञानापात इति– वाच्यम् । मोक्षदशायामज्ञाननिवृत्तिश्रवणेन स्वविरोधिज्ञानप्रागभावमात्र-व्यापकत्वात् । न च– कथं प्रमाणवृत्तिमात्रविरोधित्वे अज्ञानमात्रविरोधित्वेनैव न जाना-मीत्याकारेण प्रत्ययः ? इति– वाच्यम्, घटादिमात्रविरोधिनो घटाभावादेः भावसामान्य-विरोधित्वेनाभावत्वेन प्रतीतिवत् ज्ञानविशेषविरोधिनोऽप्यज्ञानस्य ज्ञानसामान्यविरोधित्वेन प्रतीतिसम्भवात् । न ह्यभावपदादिनाभावप्रतीतौ घटाभावो न भासते । अथ सा विरोधिता तत्र विशेषमात्रपर्यवसन्ना, समं प्रकृतेऽपि, अन्यत्राभिनिवेशात् । न च– ‘न जानामी’ति ज्ञप्तिविरोधित्वस्यैवानुभवात् कथं वृत्तिविरोधित्वम् ? त्वन्मते चैतन्यस्यैव ज्ञप्तित्वात्, चैतन्यज्ञानयोरविरोधे ज्ञानत्वाज्ञानत्वायोगादिति– वाच्यम् । मन्मते वृत्तिप्रतिबिम्बितचैतन्यं जानामीति व्यवहारविषयः । तथा च न जानामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियते । एवं च न चैतन्येऽज्ञानविरोधित्वम्, नापि वृत्तौ, वृत्त्युपारूढचित एवार्थप्रकाशकत्वेन तथात्वात् ।
ननु– वृत्तेरप्यर्थप्रकाशकत्वं विना जातिविशेषेणैवाज्ञानतत्कार्यनिवर्तकत्वे इच्छादि-निवर्त्यद्वेषादिवत् सत्त्वापत्त्या शुक्त्यादिज्ञानवदर्थप्रकाशकत्वेन तन्निवर्तकत्वे वक्तव्ये चैतन्य-स्यापि तत्सत्त्वेन तन्निवर्तकत्वावश्यम्भावेन तन्निवृत्त्यापातः, नित्यातीन्द्रिये परोक्षवृत्तौ सत्यामप्यज्ञानानिवृत्त्या सुखादावपरोक्षवृत्त्यभावेऽपि स्फुरणमात्रेणाज्ञानादर्शनेन चान्वय-व्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानविरोधित्वाद्– इति चेन्न, प्रमाणवृत्त्युपारूढप्रकाशत्वेन निवर्तकत्वं ब्रूमः, न तु जातिविशेषेण, प्रकाशत्वमात्रेण वा । अतो नेच्छादिनिवर्त्य-द्वेषादिवदेतन्निवर्त्यानां सत्त्वापत्तिः, न वा चैतन्यमात्रस्य निवर्तकत्वापत्तिः । अत एव– शाब्दादिवृत्तौ सत्यामपि अज्ञानानिवृत्त्या सुखादौ प्रमाणवृत्त्यभावे स्फुरणमात्रेणाज्ञाना-दर्शनेनान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानादौ विरोधित्वमिति– निरस्तम्, परोक्षवृत्तेर्विषय-पर्यन्तत्वाभावेन न विषयगताज्ञाननिवर्तकत्वम्, सुखादौ च ज्ञातैकसत्त्वादज्ञाननिवृत्तिं विनैवाज्ञानादर्शनम् । अतोऽन्वयव्यतिरेकयोरन्यथासिद्ध्या स्फुरणमात्रं नाज्ञानविरोधि । न चात्मनोऽज्ञानाश्रयविषयत्वे स्वसत्तायामप्रकाशाविधुरत्वेन स्वप्रकाशत्वसाधनायोगः, परिपूर्ण-त्वादिना अप्रकाशविधुरत्वाभावेऽप्यध्यासाधिष्ठानत्वादिना प्रकाशमानतयाऽप्रकाशविधुरत्व-सम्भवात् ।
न च– वृत्तिचितोर्वैषम्योक्तिरयुक्ता, वृत्तिवत्साक्षिणोऽपि समानविषयतया अज्ञान-विरोधित्वानुभवाद्, अन्यथा साक्षिवेद्ये चैत्रेच्छासुखादौ मैत्रस्येव चैत्रस्याप्यज्ञानं स्यात्, नो चेन्मैत्रस्याप्यज्ञानं न स्यादिति– वाच्यम्, साक्षिणि यदज्ञानविरोधित्वमनुभूयते तन्नाज्ञान-निवर्तकत्वनिबन्धनम्, किन्तु स्वविषय इच्छादौ यावत्सत्त्वं प्रकाशादज्ञानाप्रसक्तिनिबन्धनम् । वृत्तेश्च स्वविषये प्रसक्ताज्ञाननिवृत्तिनिबन्धनमेवेत्यु भयोर्वैषम्योक्तिर्युक्तैव । अज्ञानाप्रसक्तेरेव चैत्रेच्छादौ चैत्रस्य नाज्ञानव्यवहारः, मैत्रस्य तु प्रमात्रज्ञानादेव तद्व्यवहारः । न च– तर्ह्यात्मन्यपि तत एव तदप्रसक्तिरिति– वाच्यम्, दत्तोत्तरत्वात् । किं च साक्षिवेद्यत्वं तदप्रसक्तौ तन्त्रम्, आत्मा तु न तद्वेद्यः, चिद्रूपत्वात् प्रकाश एवेति । न च– तर्हि सुतरामज्ञानानुपपत्तिः तेजसीव तमसः, अन्यथा घटादिरालोकमिवात्मापि स्वव्यवहारे ज्ञानान्तरमपेक्षेतेति– वाच्यम्, अज्ञानावृतत्वाद् घटवदज्ञाननिवर्तकान्तरापेक्षा चेत्तर्हीष्टापत्तिः, वृत्तेरेवापेक्षणात्, प्रकाशान्तरापेक्षायां जडत्वस्योपाधित्वात् प्रकाशत्वेऽप्यज्ञानाविरोधि त्वस्योपपादितत्वात् । अत एव सर्वं वस्तु ज्ञाततयाज्ञाततया च साक्षिचैतन्यस्य विषयः, ज्ञानाज्ञानयोः स्वविषयावच्छिन्नयोरेव भानात् । एतेन– अन्धकारावृतवत् ज्ञानाभावा-वच्छेदकविषयवच्चा ज्ञानावृतस्याप्यप्रकाशेन साक्षिवेद्यत्वायोग इति निरस्तम्; विषयावच्छेदे-नानुभवविरोधात् ।
ननु– वृत्तेरज्ञानविरोधित्वेऽप्यात्मविषया वृत्तिरिदानीमप्यस्त्येवेति कथं तत्राज्ञानम् ? किं च त्वन्मते घटाद्यपरोक्षवृत्तेरपि घटाद्यवच्छिन्नचिद्विषयत्वेन सुतरां चित्यज्ञानासम्भवः । न च– विशिष्टचैतन्यरूपजीवविषया वा घटावच्छिन्नचैतन्यविषया वा वृत्तिरज्ञान-विषयीभूतकेवलचिदविषयत्वादज्ञानविरोधिनी न स्यादिति– वाच्यम्, ‘दण्डी चैत्र’ इति वृत्त्या चैत्राज्ञानानभिभवापातात् । घटाकाशज्ञाने महाकाशाज्ञानस्य महत्त्वाज्ञाने पर्यव-सानम् । अत एवाकाशो ज्ञात इति प्रतीतिः । न च श्रवणादिजन्यैव वृत्तिरज्ञानविरोधिनी, भ्रमकालीनापरोक्षज्ञानानधिकविषयज्ञानेन कारणान्तरजन्येनापि अज्ञानानिवृत्तावतिप्रसङ्गाद्, अनधिकविषयत्वे श्रवणादिवैयर्थ्यात्, सत्यत्वापाताच्चेति– चेन्न, यावन्ति ज्ञानानि ताव-न्त्यज्ञानानीति मते अज्ञानविशेषः एकज्ञानपक्षे अवस्थाविशेषः शक्तिविशेषो वा अविद्यागतो विशिष्टगोचरवृत्त्या निवर्तत एव । प्रपञ्चनिदानभूतं तत्त्वमस्यादिवाक्यजन्याखण्डार्थगोचर-वृत्तिनिवर्त्यमज्ञानं परमवशिष्यते, भेदभ्रमस्यानुभूयमानत्वात् । यथा अयमिति ज्ञानात्तत्राज्ञाने निवृत्तेऽपि सोऽयमित्यभेदगोचरवृत्तिनिवर्त्याज्ञानमवशिष्यते । तथा च विषयकृत-विशेषाभावेऽपि कारणविशेषजन्यत्वेन विशेषेण निवर्तकत्वे श्रवणवैयर्थ्यं सत्यतापत्तिश्च निरस्ता, अन्यथा सोऽयमित्यत्राप्यगतेः । किं च जीवविषया वृत्तिरविद्यावृत्तिः, न तु प्रमाणवृत्तिः, तस्या एवाज्ञानविरोधित्वात् । तदुक्तं विवरणे– ‘जीवाकाराहंवृत्ति-परिणतान्तःकरणेन जीवोऽभिव्यज्यत’ इति । अस्यार्थः– जीवाकाराहन्त्वप्रकारिका-विद्यावृत्तिः, तया परिणतान्तःकरणेनान्तःकरणपरिणामभूतज्ञानरूपवृत्तिसंसर्गेण जीवोऽभि-व्यज्यत इति ।
न च– ‘घटोऽय’मिति ज्ञानेन चरमवृत्तिनिवर्त्याज्ञानमपि निवर्ततामिति– वाच्यम्, तदवच्छिन्नाज्ञातत्वप्रयोजकाज्ञानविशेषादेरेव तदवच्छिन्नज्ञाननिवर्त्यत्वस्य फलबलेन स्वीकारात् । अवतमस इव विषयप्रकाशकालोकस्य सर्वतमोऽनिवर्तकत्वेऽपि किञ्चित्तमो-निवर्तकत्वम् । तस्मात्सिद्धमाश्रयत्वविषयत्वभागिनी शुद्धचिदिति ।
एतेन– देहादिभेदो वा अभोक्तृत्वाद्यभेदो वा ब्रह्माभेदो वा अद्वितीयमात्राभेदो वा तद्विशिष्टात्मा वा न तद्विषयः, तेषामात्ममात्रत्वे उक्तदोषाद्, भिन्नत्वे औतक्षतेः, आविद्यकत्वे अन्योन्याश्रयादिति अनुक्तोपालम्भनम्– अपास्तम् । ब्रह्माभेदादेरात्ममात्रतापक्षे तस्याज्ञानविषयत्वमेव, दोषस्य परिहृतत्वात् । यत्तु प्रसङ्गादुक्तम्– द्वितीयाभावोप-लक्षितात्मनोऽज्ञानविषयत्वे तादृशस्यैव चरमवृत्तिविषयवत्वं वाच्यम्, तथा च वेदान्ताना-मप्युपलक्षणरूपप्रकारयुक्तोक्तात्मपरत्वे अखण्डार्थताहानिः, अकाके काकवदित्यस्येवास्याप्य-प्रामाण्यापत्तिः, उपलक्षणस्य मिथ्यात्वाद्– इति । तत्राखण्डार्थवादे वक्ष्यामः ।
न च– न्यूनाप्यङ्गुलिरधिकमाच्छादयति, अविषयसम्बन्धिनी कथमधिकमाच्छादयेदिति– वाच्यम्, दत्तोत्तरत्वात् । तस्मादविद्या स्वरूपत आश्रयतो विषयतश्च सुनिरूपा ।
न्यायामृततरङ्गिणी
आवरणकृत्येति ।। करणव्युत्पत्त्या आवरणमज्ञानम् । तत्कृत्यमावृतिः । एवमग्रेऽपि । विषयासम्बन्ध इत्यत्र विषयशब्देन घटादिकं वा चैतन्यरूपं वा । आद्य आह ।। विज्ञानस्येति ।। विज्ञानस्य विषयसम्बन्धाभावे स्वरूपहानिः स्यादित्यर्थः । द्वितीय आह ।। स्वयमिति ।। चैतन्यस्य स्वयमेव स्वज्ञानरूपत्वेन स्वसम्बन्धानपेक्षणादित्यर्थः ।। आवरणसाध्यत्वेनेति ।। अत्रावरणशब्दो भाव-साधनः । तेनावरणशब्देनावृतिलक्षणमावरणकार्यं लभ्यते । तेन आवरणकृत्य-निरूपणे इदमसङ्गतमिति निरस्तम् ।। आवरणत्वेति ।। आवृतित्वेत्यर्थः ।। उक्तेति ।। आवृतिसाध्यभ्रान्तिसाध्यः शब्दप्रयोग इत्यर्थः ।। सुषुप्ताविति ।। उक्तव्यवहारस्यावरणकृत्यस्य सुप्तावभावात्तत्सिद्धिर्न स्यादित्यर्थः । ननु अस्ति प्रकाशत इत्यादिव्यवहाराभाव आवरणकृत्यम् । स च सुषुप्तावप्यस्तीत्याशङ्क्य निराकरोति ।। नाप्यस्ति प्रकाशत इत्यादीति ।। व्यवहारोऽभिज्ञा वाऽभिलपनं वा । आद्येऽपि स्वरूपाभिज्ञा वा वृत्तिर्वा । नाद्य इत्याह ।। व्यवहारस्येति ।। तथा चेदानीमप्यावरणं न सिद्ध्येदिति भावः । नेतर इत्याह ।। वृत्तेरिति ।। तथा च मोक्षेऽप्यावरणं सिद्ध्येदिति भावः । द्वितीयं दूषयति ।। अभिलपनत्व इति ।। आवरणकार्यस्याभिलपनरूपव्यवहाराभावस्य मोक्षेऽपि सत्त्वादिति भावः ।। तयोरिति ।। उक्तयोर्योग्यत्वायोग्यत्वयोः ।। आवरणमिति ।। आवरणमावृतिः । आवरणकृत्यमिति यावत् । आरोपितस्य रजतादेः शुक्त्याद्यावरणं विनाऽदर्शनादत्रापि तदपेक्षायामात्माश्रयः स्यादिति भावः ।
ननूक्तयोग्यताया अज्ञानसम्बन्धरूपाया अनादित्वेन चित्प्रकाश्यत्वेनोत्पत्तौ ज्ञप्तौ स्थितौ च स्वानपेक्षणान्नात्माश्रय इति चेन्न । उक्तयोग्यताया आवरणानपेक्षणे तदधीनताया अयोगस्योक्तत्वात् । अन्यथानादित्वेनाज्ञानं विनैव जीवब्रह्म-विभागापन्नो जीवो ब्रह्म वा अज्ञानस्य विषयः स्यादिति चिन्मात्रमज्ञानविषय इति नादरणीयं स्यात् ।। अद्वितीयत्वादीति ।। तथा च यत्राद्वितीयत्वादिविशिष्टे संशयादिकमावरणं कल्पकमस्ति तत्र त्वया नावरणं कल्प्यते । यत्र चिन्मात्रे आवरणं कल्प्यते तत्र च संशयादिकमावरणकल्पकं नास्तीत्यर्थः ।। इदानी-मपीति ।। उक्तयोग्यत्वादिरूपस्यावरणस्य मोक्षकाले यथाऽभावस्तथेदानीमपि तदभावोऽस्तीतीदानीमप्यावरणमेव न स्यादित्यर्थः ।। स्वरूपस्येति ।। अज्ञाना-वच्छिन्नस्य स्वप्रकाशत्वापाताच्चेत्यपि द्रष्टव्यम् ।। इच्छाद्यवच्छिन्नेति ।। ननु शुद्धायाश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणाप्रकाशमानत्वात्तदर्थं तस्या एवावरणकल्पनं परिपूर्णाद्याकारस्य मोक्षदशानुवृत्तत्वेन शुद्धचिन्मात्रत्वादिति चेन्मैवम् । निर्विभागचिति प्रकाशमानाप्रकाशमानाकाराभावात् । न चावरणमहिम्नैव परिपूर्णाद्याकाराप्रकाशोऽध्यासाधिष्ठानादिना प्रकाशमानता चाविरुद्धेति वाच्यम् । आवरणस्यासिद्धत्वेनान्योन्याश्रयात् ।
।। सुखादेरिति ।। तथा च व्यवहारयोग्यत्वरूपस्वप्रकाशत्वेन व्यवहारायोग्यत्व-रूपमावरणं विरुद्धम् । अविरोधहेतोः प्रकारभेदस्याभावादित्यर्थः ।। एतेनेति ।। स्वप्रकाशत्वेन सह व्यवहारायोग्यत्वस्य विरुद्धत्वेनेत्यर्थः ।। आवरणकृत्यमिति ।। आवरणरूपं कृत्यमित्यर्थः ।। न चोक्तेति ।। स्वप्रकाशत्वं सत्यमावरणं मिथ्येति न विरोध इत्यर्थः ।। सुखादीति ।। शुक्तावियं न शुक्तिरित्यनुभवस्य शुक्त्यारोप-साधकस्यैव स्फुरणरूपे प्रकाशेऽप्रकाशारोपसाधकस्य स्फुरणं न प्रकाशत इत्यनु-भवस्याभावेनेत्यर्थः । आरोपितेनावरणेन वस्तुसदावरणकार्यं न सम्भवतीत्याह ।। वह्नाविति ।। विरोधादपि प्रकाशे आरोपितोऽप्यप्रकाशो न सम्भवतीत्याह ।। सत इति ।। आरोपितानारोपितयोर्विरोधाभावेऽप्यनारोपिताधिष्ठानप्रकाशस्य सर्वेणाप्या-रोपितेन विरोध इत्यर्थः ।। अन्यथेति ।। अधिष्ठानप्रकाशेऽपि यद्यारोपस्तर्ह्यारोप-निवर्तकान्तराभावात्तन्निवृत्तिर्न स्यादित्यर्थः ।। इत्यविरोध इति ।। तदत्यन्ता-भावाधिकरणस्यैव तत्प्रागभावाधिकरणत्वादित्यर्थः ।। स्वरूपेति ।। तथा च न तत्प्रागभावमादायाविरोध इत्यर्थः ।। इदानीमिति ।। प्रकाशात्यन्ताभावानधिकरणे प्रकाशप्रागभावस्याप्रकाशोपपादकत्वेन ध्वंसस्यापि तदुपपादकत्वं स्यादित्यर्थः ।। भवति हीति ।। प्रागभाववद्ध्वंसस्यापि योग्यतया विरोधाभावादिति भावः । र्ओ योग्ये ।। किञ्चेति ।। चैतन्यं आवृताभिमतकालेऽपि स्वयं प्रकाशते प्रकाशत्वात् दीपवत् प्रकाशरूपे च नावरणमिति भावः ।। आवरणं विनेति ।। अव्रियमाण-सिद्धावावरणसिद्धिः तत्सिद्धौ च तत्कल्पितभेदं जीवचैतन्यं प्रति चिन्मात्रस्याव्रिय-माणस्य सिद्धिरित्यन्योन्याश्रय इत्यर्थः । भेदावरणयोरनादित्वेऽपि परस्परापेक्षाया-मन्योन्याश्रय एवेत्युक्तत्वाच्च ।। यो मोक्ष इति ।। तथा च जीवचैतन्यं प्रति चिन्मात्रावरणमप्रयोजकमिति भावः ।। न च दीपेति ।। तथा चोक्तानुमाने स्वविषयत्वमुपाधिरित्यर्थः ।। मोक्षेऽपीति ।। अप्रकाशं प्रत्यावरणसत्त्वस्या-प्रयोजकतया तत्प्रयोजकस्य स्वविषयत्वस्य मोक्षेऽपि सत्त्वादित्यर्थः । अत एवाह ।। अज्ञानेति ।। प्रकाशमान एवाज्ञानमित्यत्र हेतुमाह ।। अज्ञानावच्छेदकस्येति ।। अज्ञाने ज्ञानाभावे ।। सामान्यस्येति ।। तथा च सामान्येन ज्ञान-मप्रयोजकमिति भावः ।। तदवच्छेदकस्येति ।। तथा च विशेषे प्रकाशमान एवाज्ञानं दृश्यत इति भावः ।
ननु चैतन्यस्याज्ञानाविरोधित्वेन तन्निवृत्तिर्न स्यादित्यत आह ।। अविद्येति ।। सजातीययोः प्रकाशकत्वे तदभावे च दृष्टान्तमाह ।। सौरचाक्षुषेति ।। आवरणेति ।। आवरणस्य कृत्यमित्यर्थः ।। त्वयाऽपीति ।। अनवच्छिन्नानन्दश्च प्रकाशमानस्वरूपमात्रमेवेति न तदप्रकाशार्थतावारणस्येति भावः ।। अपि चेति ।। प्रकाशमानेऽप्यज्ञानस्यानुभवबलात् क्वचित्स्वीकारेऽपि न सर्वत्र तथा । तत्कल्प-कस्यानुभवस्याभावात् । अतो न त्वदुक्तो दृष्टान्त इत्यर्थः । दृष्टान्तेऽपि न प्रकाशमानेऽज्ञानमित्याह ।। किञ्चेति ।। अज्ञानेति ।। विशेषाज्ञानेत्यर्थः ।। न हीति ।। विशेषरूपेण प्रकाशमान एवाज्ञानमिति वदता त्वयापि परचित्तगतोऽ-ज्ञातोऽर्थो बुभुक्षापिपासादिवत्तद्विशेषरूपेण न ह्यनूद्यत इत्यर्थः । नन्वज्ञानज्ञानस्या-ज्ञानावच्छेदकविशेषाविषयत्वेऽपि तदवच्छेदकविशेषस्याज्ञाने कथं तदवच्छिन्नाज्ञान-ज्ञानमुत्पद्येतेत्यत आह ।। एवञ्चेति ।। विशेषावच्छिन्नाज्ञानज्ञानं प्रति विशेषज्ञानमेव हेतुः किं न स्यादित्यत आह ।। न हीति ।।
ननु विशेषाज्ञानं प्रति सामान्यस्यानवच्छेदकतया कथं विशेषावच्छिन्नाज्ञानज्ञानं प्रति सामान्यज्ञानं हेतुः स्यादित्यत आह ।। अवच्छेदकज्ञानस्येति ।। अज्ञानज्ञानं प्रत्यज्ञानानवच्छेदकस्य सामान्यस्यैव ज्ञानं हेतुर्दर्शनबलादेवेत्यर्थः । नन्वज्ञाना-नवच्छेदकत्वाविशेषात्सामान्यस्येवान्यस्यापि ज्ञानं विशेषाज्ञानज्ञाने हेतुः स्यादित्यत आह ।। सामान्येति ।। यस्य विशेषरूपेणाज्ञानं तस्यैव सामान्यरूपेण ज्ञानं विशेषाज्ञानज्ञानहेतुरित्यर्थः । अवच्छेदकाविषयकस्याप्यवच्छिन्नविषयत्वमित्यत्र दृष्टान्तमाह ।। युक्तञ्चेति ।। द्वेषस्येति ।। स्वातन्त्र्येणेति शेषः ।। द्विष्टस्येति ।। अत्रापि स्वातन्त्र्येणेति शेषः । येन रूपेण द्वेषस्येच्छाविषयत्वं तेन रूपेण न द्विष्टस्येच्छाविषयत्वमित्यर्थः । एतेन इच्छा तावत् ज्ञानसमानविषया । ज्ञानं चावच्छेदकतया द्विष्टमपि विषयीकरोतीतीच्छापि द्विष्टविषया भवत्येवेति नायं दृष्टान्त इति निरस्तम् । स्ववृत्तित्वसाध्यत्वादिना द्वेषस्येव द्विष्टस्येच्छाविषयत्वाभावात् । अन्यथा इच्छाद्वेषयोरेकत्र साङ्कर्ये तयोर्विरोधो न स्यात् ।। ईश्वरस्येति ।। सत्त्वेनेति शेषः । तेन ईश्वरोऽपि भ्रमविषयमगृहीत्वा भ्रमं गृह्णातीति निरस्तम् ।। अस्म-दादीनामिति ।। विशेषरूपेणेति शेषः । तेन सर्वपदादिना सर्वज्ञानमस्माक-मप्यस्तीति निरस्तम् ।
ननु घटसंयोगज्ञानं प्रति न घटाज्ञाननिवृत्तिर्हेतुः । तस्याः घटसंयोगा-वच्छेदकघटज्ञानेनान्यथासिद्धत्वादित्यत आह ।। अज्ञानावच्छेदकतया ज्ञानेऽपीति ।। किञ्चेति ।। अज्ञानावच्छेदकविशेषविषयाज्ञानस्य यथा तद्विषयकज्ञानेन न विरोधः तथा तद्विषयकज्ञानाभावस्यापि नाज्ञानज्ञानेन विरोध इत्यर्थः । नन्वज्ञानं विशेषावच्छिन्नतया भासते वा सामान्यावच्छिन्नतया वा । आद्ये विशेषे भास-मानत्वमागतमेव । न हि विशेषमनवभासयन्विशेषाज्ञानमवभासयति । द्वितीये तु सामान्यज्ञानेन तदवच्छिन्नतयैव गृहीतस्याज्ञानस्य विशेषसम्बन्धित्वे मानाभावेन भासमाने सामान्य एवाज्ञानमागतमित्याशङ्क्य द्वितीयपक्षमङ्गीचिकीर्षुस्तत्र दोषं परिहरिष्यन्नाह ।। अज्ञानविषयविशेषावच्छेदसिद्धिस्त्विति ।। यथा तमसाऽऽ-व्रियमाणो विशेषस्तमःकाले तमोविषयत्वेनाज्ञातेऽपि तमोनिवृत्त्यनन्तरं तया ज्ञायते तद्वदित्यर्थः । तथा च सामान्यरूपेणाज्ञानस्य विशेषसम्बन्धित्वे एतावन्तं काल-ममुमर्थमित्थं नाज्ञासिषमित्यनुभवस्यैव मानत्वमिति भावः ।
ननु यद्यज्ञानं स्वकाले विषयावच्छिन्नतया न भासते तदा त्वदुक्तमर्थं न जानामीति विषयावच्छिन्नाज्ञानस्य वर्तमानप्रत्ययो विरुध्येतेति चेन्न । स्थूल-कालमादाय तथोपपत्तेः । अन्यथा त्वदुक्तमर्थं न जानामीत्यनुभवेन वर्तमान-कालासम्बन्ध्यज्ञानं सिद्ध्येत् ।। वृत्तिरिति ।। चैतन्यस्याप्यज्ञानानिवर्तकत्वे तदनिवृत्तिरेव स्यादिति भावः ।
नन्वज्ञाननिवर्तकमित्यनेन तन्निवृत्तिप्रयोजकं विवक्षितम् । तच्च सम्बन्ध-सम्पादनद्वारास्मिन्पक्षे वृत्तिज्ञानस्याप्यस्तीति चेन्न । तथा सति चैतन्यमेवाज्ञान-निवर्तकमित्यापातात् ।। अज्ञानस्येति ।। न च मोक्षदशायामज्ञाननिवृत्तिश्रवणेन तस्य स्वविरोधिज्ञानप्रागभावमात्रव्यापकत्वमिति वाच्यम् । तच्छ्रवणस्य चैतन्येऽ-ज्ञानविरोधित्वेनाप्युपपत्त्या सामान्यव्यापकत्वत्यागेन तस्या विशेषपरत्वकल्पना-योगात् ।। ज्ञानसामान्येति ।। ननु घटादिमात्रविरोधिनो घटाभावादेर्भावसामान्य-विरोधित्वेनाभावत्वेन प्रतीतिवत् ज्ञानविशेषविरोधिनोऽप्यज्ञानस्य ज्ञानसामान्य-विरोधित्वेन प्रतीतिरुपपन्नैव । न ह्यभावपदादिनाऽभावप्रतीतौ घटाभावो न भासत इति चेन्मैवम् । तत्र पटादिविरोधिप्रतीतिवदत्रापि चैतन्यविरोधिप्रतीतेरवश्य-वाच्यत्वात् । न ह्यभावपदादिना घटाभावमात्रधीः । तत्र घटाभावपटा-भावादीनामनेकत्ववदिहाज्ञानानेकत्वाभावेनैकस्यैवोभयविरोधित्वस्य वाच्यत्वाच्च ।
ननु ज्ञानसामान्यविरोधित्वानुभवेनापि वृत्तिविरोधित्वमेव पर्यवस्यति । न तु ज्ञप्तिविरोधित्वमपि । तयोरेकज्ञानत्वाभावादित्यत आह ।। ज्ञप्तीति ।। ज्ञाधातोर्जा-देशविधानादित्यर्थः । ननु जानातेर्ज्ञप्त्यर्थत्वेऽपि वृत्तेरेव ज्ञप्तित्वात्तद्विरोधित्वमेवा-ज्ञानस्येत्यत आह ।। त्वत्पक्ष इति ।। ननु वृत्तिप्रतिबिम्बितचैतन्यमेव जानामीति व्यवहारविषयः । तथा च न जानामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियत इत्यत आह ।। चैतन्यस्येति ।। दृश्यस्य दृश्यध्यासानुसारेण शुद्धचित एव दृक्त्वात्तस्या एव जानात्यर्थत्वादित्यर्थः । ननु चितो ज्ञप्तित्वेऽपि नाज्ञान-विरोधित्वम् । न जानामीत्यनुभवस्तु वृत्त्यारूढचिदचिदभिप्रायेणेत्यत आह ।। चैतन्येति ।। मुख्यं ज्ञानत्वमज्ञानत्वं वा न स्यादित्यर्थः ।। तत्त्वेनेति ।। अज्ञाननिवर्तकतौपयिकार्थप्रकाशकत्वेनेत्यर्थः ।
यत्तु प्रमाणवृत्त्युपारूढप्रकाशत्वेनाज्ञाननिवर्तकत्वं ब्रूमः । न तु जातिविशेषेण वा प्रकाशत्वमात्रेण वा । अतो नेच्छादिनिवर्त्यद्वेषादिवदेतन्निवर्त्यानां सत्त्वापत्ति-रिति । तन्न । अत्र प्रकाशस्यैव तन्निवर्तकत्वे शेषवैयर्थ्यात् । व्यभिचारमप्याह ।। त्वन्मत इति ।। स्फुरणस्यैवेति ।। प्रकाशरूपस्येत्यर्थः । ननु परोक्षवृत्तेर्विषय-पर्यन्तत्वाभावेन न विषयगताज्ञाननिवर्तकत्वम् । सुखादौ च ज्ञातैकसत्त्वा-दज्ञाननिवृत्तिं विनैवाज्ञानादर्शनमतोऽन्वयव्यतिरेकावन्यथासिद्धाविति चेन्न । एत एव परोक्षवृत्तेः स्वविषये व्यवहारजनकत्वमपि न स्यात् । सुखादावज्ञानविरोधिनं विना तस्य ज्ञातैकसत्त्वानुपपत्तेः । नन्वस्तु प्रकाशकत्वेनैवाज्ञानविरोधित्वम् । चैतन्यं तु न प्रकाश इति नाज्ञानविरोधीत्यत आह ।। स्वेति ।। न च परिपूर्णत्वादिना प्रकाशविधुरत्वाभावेऽपि अध्यासाधिष्ठानत्वादिना प्रकाशमानतयाऽप्रकाशविधुरत्व-सम्भव इति वाच्यम् । निर्विशेषे तदसम्भवस्योक्तत्वात् ।। वृत्तीति ।। सौरालोक-ज्ञानयोरित्यादिनेत्यर्थः ।
ननु साक्षिणोऽज्ञानसाधकत्वेन तदविरुद्धत्वमित्यत आह ।। अनुभूयते हीति ।। अज्ञानविषयकानुमित्यादेरज्ञानसाधकत्वेऽपि यथाऽज्ञानविरोधित्वं तथा चैतन्यस्यापि तद्विरोधित्वं युक्तमित्यर्थः ।। अन्यथेति ।। साक्षिणोऽज्ञानाविरोधित्वेऽन्यस्य तद्विरोधिनोऽभावाच्चैत्रेच्छादौ मैत्रस्येव चैत्रस्याप्यज्ञत्वं स्यात् । नो चेन्मैत्रस्याप्यज्ञानं न स्यादित्यर्थः । ननु साक्षिविषये सुखादावज्ञानाप्रसक्तिरेवेति न तत्र तद्द्वारापेक्षा । वृत्तिस्तु विषये प्रसक्ताज्ञाननिवृत्तिकेति वैषम्यं तयोरित्याशङ्कते ।। इच्छादाविति ।। अन्यथेति ।। आत्मनोऽज्ञानाविरोधित्वे तस्य जडत्वापत्त्या घटादिसाम्यमित्यर्थः । एतेन प्रकाशान्तरापेक्षायां जडत्वमुपाधिरिति निरस्तम् । चैतन्यरूपप्रकाशस्य कुत्राप्यज्ञानविरोधित्वादर्शनात् । प्रकाशमानेऽपि तस्मिन्नज्ञानमविरुद्धमिति शङ्कां निराकरोति ।। न चेति ।। साक्षिवेद्ये सुखादावज्ञाननिवारणं च वृत्त्यैवेति भावः ।। अन्तःकरणेति ।। तथा च परिशेषेण केवलसाक्षिवेद्यत्वमेव सुखादीनामिति तत एव सुखादावज्ञाननिवारणमित्यर्थः ।। अन्यथेति ।। स्वसत्तायामप्रकाशबुद्धिविधुरेऽपि सुखादौ वृत्त्यपेक्षायामित्यर्थः ।। एतेनेति ।। सौरालोकचाक्षुषप्रकाशयोरिव वृत्तिचितोर्वैलक्षण्याभावेनेत्यर्थः ।। एतेनैवेति ।। साक्षिणोऽज्ञानविरोधित्वेनेत्यर्थः ।। वृत्तिरेवेति ।। प्रमाणवृत्तिरित्यर्थः ।।
।। विवरण इति ।। अविद्योपाधिकं सर्वगतं जीवचैतन्यं विषयप्रकाशकमिति पक्षे प्रतिकर्मव्यवस्था युक्ता अन्तःकरणोपाधिकत्वाज्जीवः परिच्छिन्नो न सर्वमव-भासयतीति जीवस्य परिच्छिन्नत्वपक्षेऽपि प्रतिकर्मव्यवस्थायामुक्तायां, ननु अहङ्कारा-वच्छिन्नचैतन्यस्य विषयचैतन्यसम्बन्धाद्विषयभानासम्भव इत्याशङ्कायां जीवावच्छेद-निमित्तान्तःकरणपरिणामसंसर्गकृताभिव्यक्तित्वाद्विषयावच्छिन्नचैतन्यस्य जीव-चैतन्यता च न विरुध्यते विषयप्रमातृचैतन्ययोरेकान्तःकरणपरिणामसम्बन्धादभेदेन स्फुरणं ततो विषयप्रकाश उपपद्यत इति परिहृतायां, ननु प्रत्यग्ब्रह्मणोरप्ये-कान्तःकरणसम्बन्धाद्ब्रह्मणोऽपि प्रत्यक्त्वेन स्फुरणं स्यादिति पुनः शङ्कायां, किं ब्रह्मकारपरिणतान्तःकरणसंसर्गात्तत्स्फुरणमुतान्तःकरणमात्रसंसर्गात् । नाद्यः । ब्रह्माकारपरिणतान्तःकरणसंसर्गाभावान्न नित्यवद्ब्रह्मणः प्रकाशप्रसङ्गः । न द्वितीयः । न ह्यन्तःकरणस्वरूपमात्रसंसर्गिणोऽभिव्यक्तिरङ्गीकृता । तद्गतधर्मादीनामपि प्रसङ्गा-दिति परिहृतायां, नन्वन्तःकरणमात्रसंसर्गात्प्रत्यग्व्यक्तिवद्ब्रह्मव्यक्तिरपि किं न स्यादिति पुनः शङ्कायां, अन्तःकरणमात्रसंसर्गात्प्रत्यग्व्यक्तिर्नास्त्येव तथा च दृष्टान्तासिद्धिरित्युच्यते विवरणवाक्ये जीवाकारवृत्तिरित्यत्रेत्यवगन्तव्यम् ।। जीवा-कारेति ।। जीवविषया अहम्प्रकारिका या वृत्तिस्तदात्मना परिणतं यदन्तःकरणं अहमाकारान्तःकरणपरिणामभूतज्ञानरूपया वृत्त्या जीवविषयिण्या जीवोऽभिव्यज्यते व्यवहारविषयो भवतीत्यर्थः । न चेयमविद्यावृत्तिरिति वाच्यम् । दोषाजन्यत्वात् । अन्तरविषयत्वेनान्तःकरणवृत्तेर्बहिरिन्द्रियद्वारानपेक्षणात् ।। अन्यथेति ।। अहङ्कार-वृत्त्यभावदशायां सुषुप्तेः सत्त्वादित्यर्थः । नन्विन्द्रियवृत्तिरेवाज्ञानविरोधिनीत्यत आह ।। अयं घट इतीति ।। विशिष्टेति ।। विशेष्याद्विशिष्टस्य भिन्नत्वादित्यर्थः ।। दण्डीति ।। तस्यास्तदविषयत्वापात इत्यपि बोध्यम् ।। आकाशांशस्येति ।। अंशांशिनोर्भेदादित्यर्थः ।। अतिप्रसङ्गादिति ।। अपीतसाक्षात्कारस्य पीतभ्रमा-निवर्तकत्वं किं तु तच्छ्रवणादिजन्यपीतसाक्षात्कारस्यैव तथात्वमित्यादि स्यादित्यर्थः ।। सत्यत्वेति ।। श्रवणादिजन्यवृत्तेरनधिकविषयाया अप्यविद्यानिवर्तकत्वेनेच्छादि-निवर्त्यद्वेषादिवदज्ञानस्य सत्यत्वं स्यादित्यर्थः । एतेनाविद्यागतोऽवस्थाविशेषो वा शक्तिविशेषो वा घटादिज्ञानेन निवर्तते प्रपञ्चनिदानभूतमज्ञानं तु श्रवणादि-जन्यतत्वमस्यादिवाक्यजन्याखण्डार्थगोचरवृत्त्या निवर्तत इति निरस्तम् ।
यत्तु यदवच्छिन्नाज्ञातृत्वप्रयोजकाज्ञानविशेषस्तदवच्छिन्नज्ञाननिवर्त्य इति । तन्न । यावन्ति ज्ञानानि तावन्त्यज्ञानानीत्यत्र निरस्तत्वात् ।। काकवदिति ।। वाक्य-वदिति ।। वेदान्तानामित्यनुषङ्गः ।। प्रकाशमानस्येति ।। प्रकाशमाने आत्मन्य-ज्ञानमनुचितं अप्रकाशमाने द्वितीयाभावे तु तदुचितमित्यर्थः ।। निर्विशेष इति ।। चिन्मात्रस्य स्वयंप्रकाशत्वात्तत्र सत्यभूतधर्मस्याभावान्मिथ्याभूतधर्मस्याज्ञान-सिद्ध्युत्तरकालीनत्वादज्ञानावृतं किमपि न सम्भवतीत्यर्थः ।। न्यूनापीति ।। अङ्गुलिश्चक्षुरादिसम्बन्धिन्यावरणं तदपेक्षया न न्यूनेत्यर्थः । वक्ष्यमाणाक्षेपार्थमाह ।। तस्मादिति ।।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगंयुजि ।
न्यायामृततरङ्गिण्यामविद्याविषयो न चित् ।।
न्यायामृतकण्टकोद्धारः
यथा साश्रयत्वमज्ञानत्वव्यापकं तथा सविषयत्वमप्यज्ञानत्वव्यापकम् । ततश्च सविषयत्वानुपपत्तौ नाज्ञानं परमते सम्भवतीत्याशयेनाह ।। अविद्येति ।। जगदुपादाने सविषयत्वाभावात् अज्ञानत्वानुपपत्तिरिति भावः । यद्वा अविद्याविषयत्वेन त्वदभिमतो विषयश्च प्रयोजकाभावादविषय एवेति न तद्विषयत्वेनाविद्यास्वीकारणमित्याशयः । अन्यत् = चिदन्यदित्यर्थः ।। जडत्वेनेति ।। ननु जडस्याप्यालोकस्य स्वप्रकाशत्व-दर्शनात् कथं जडत्वेन स्वप्रकाशत्वाभावः साध्यत इति चेन्न । विवक्षितस्यावेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वस्य स्वप्रकाशत्वस्यालोकेऽप्यभावात् । न च तादृशस्वप्रकाशत्वं चित्यप्यसिद्धमिति वाच्यम् । स्वप्रकाशवादे तस्य सिद्धेर्वक्ष्यमाणत्वात् । लोपः किं नाशो वा तिरोधानं वा ? उभयत्र दूषणमाह ।। स्वरूपेति ।। नित्यत्वात् ध्वंसाप्रतियोगित्वा-न्नाशो न सम्भवति । सिद्धत्वात् सर्वदाभिव्यक्तत्वाच्च तिरोधानमपि न सम्भवति । अन्यथाऽविद्यादेः प्रकाशो न स्यादिति योज्यम् ।। असिद्धेति ।। द्वितीये दूषणमाह ।। तदन्यस्येति ।। न चावरणनिवृत्यर्थं तदन्यस्यापेक्षेति वाच्यम् । तस्यैवासम्भवा-दित्युच्यमानत्वात् । अन्यथाऽन्योन्याश्रयात् । स्वप्रकाश इति हेतुगर्भविशेषणम् । तथा च तेनैव व्यवहाराद्युपपत्तेः न तदर्थमपि तस्यापेक्षेति भावः ।। ज्ञानस्येति ।। तथा च विषयासम्बन्धे स्वभावप्रच्युतिरेव स्यादिति भावः । न च दीपस्य कुड्यादिनेव ज्ञान-स्यापि तथाभावः किं न स्यादिति वाच्यम् । सर्वथा विषयासम्बद्धस्य ज्ञानस्यादर्शनात् । किञ्चिद्विषयासम्बद्धस्यान्यथैवोपपत्तेश्च । दीपादावपि किञ्चिद्विषयसम्बन्धसत्त्वाच्च । किञ्च किं स्वान्यविषयासम्बन्धो वा ? स्वरूपविषयासम्बन्धो वा ? नोभयथाप्यावणापेक्षेत्याह ।। स्वयमिति ।। विषयासम्बन्धिन एव ज्ञानत्वाङ्गीकारेणेत्यर्थः । अत एवाह ।। त्वन्मत इति ।। त्वन्मतेऽपीति ।। ज्ञातताया अनङ्गीकारात् चैतन्यस्य च सर्वदा सत्त्वादिति भावः । व्यवहारः किमावरणमावरणकृत्यम् ? आद्ये व्यवहारं विकल्प्य दूषयति ।। व्यवहारो हीति ।। भ्रान्तेरिति ।। विषयबाधात् भ्रान्तित्वमिति भावः । अत एवेति परामृष्टं हेतुमाह ।। तस्येति ।। आवरणत्वे दोषमाह ।। सुषुप्ताविति ।। कार्येण कारणमनुमेयम् । तथा च सुषुप्तौ कार्याभावेन आवरणरूपे कारणे प्रमाणाभावात् तदभाव इत्यर्थः । व्यवहारोऽसावावरणमावरणकृत्यं वोभयथापि दोषमाह ।। व्यवहार-स्येति ।। तथा चेदानीमप्यावरणतत्कृत्ययोरभावापातादित्यर्थः ।। वृत्तेश्चेति ।। तथा च मोक्षेऽपि तयोरापातादिति भावः । इदमपि किमवरणमावरणकृत्यं वा ? आद्य आह ।। तयोरिति ।। तथा चात्माश्रयादिरिति भावः । न द्वितीयः । योग्यतावच्छेदकाभावेन योग्यत्वस्यासम्भवात् । न च तदवच्छेदकं चित्त्वम् । मोक्षेऽपि आवरणकृत्यापातात् । नाप्यज्ञानविषयत्वमन्योन्याश्रयापातात् ।
ननु नास्ति न प्रकाशते इति व्यवहारोऽस्ति प्रकशते इति व्यवहाराभावो वाऽवरण-कृत्यम् । तद्योग्यतारूपाज्ञानसम्बन्ध आवरणम् । न च योग्यताया आवरणसाध्यत्वेना-न्योन्याश्रयादिकमिति वाच्यम् । अज्ञानसम्बन्धरूपस्य तस्यानादित्वेन चित्प्रकाश्यत्वे-नावरणानपेक्षत्वादिति चेन्न । कल्पितस्य दोषजन्यप्रतीतिमात्रशरीरस्याज्ञानसम्बन्ध-स्यानादित्वायोगात् । दोषाजन्यचिन्मात्ररूपप्रतीतिरूपत्वे च मोक्षेऽपि तदापातात् । किञ्चाभिज्ञादिसाधारणव्यवहारस्य चित्स्वरूपवृत्यन्तरत्वपक्षोक्तदोषो दुर्वारः । द्वितीयेऽपि च व्यवहाराभावस्य प्रागभावरूपत्वे आवरणासाध्यत्वम् । तस्यानादित्वात् । तत्परि-पालनस्यावरणसाध्यत्वे मोक्षे व्यवहारोत्पादः स्वीकर्तव्यः । अत्यन्ताभावत्वे तु स एव दोषः । ध्वंसस्त्वसम्भव्येवावरणस्यानादित्वेन तादृशव्यवहारानुत्पादे तद्ध्वंसासम्भवात् । किञ्चोभयविधकृत्येऽप्यसम्भव एव दोष इत्याह ।। अद्वितीयत्वादीति ।। तद्व्यवहारेऽ-पीत्युपलक्षणम् । अस्ति प्रकाशते इति व्यवहाराभावेऽपीत्यपि द्रष्टव्यम् । तदभावेन= नास्ति न प्रकाशते इति व्यवहारास्ति प्रकाशते इति व्यवहाराभावयोरभावेन । न च यत्र विशिष्टे उक्तरूपमावणकृत्यं तदेव विषयोऽस्त्विति वाच्यम् । विशिष्टस्याज्ञानकल्पितत्वेन तद्विषयतयाऽज्ञानसिद्धौ अन्योन्याश्रयात् । विशिष्टस्य जडत्वेन घटादितुल्यत्वाच्च । न च चिन्मात्रस्य चित्त्वेन स्फुरणेऽपि पूर्णत्वाद्याकारेणास्फुरणात् उभयविधमावरणकृत्यमस्तीति वाच्यम् । पूर्णत्वाद्याकारस्य चिन्मात्रत्वे तत्स्फुरणस्यावश्यकत्वात् तदतिरिक्तत्वे चावरण-विषयत्वायोगात् चिन्मात्रमपि पूर्णत्वं तत्स्फुरणेऽपि न स्फुरतीति स्वव्याहतमुन्मत्त-प्रलपितमित्युपेक्ष्यम् । अत एवोक्तयोरावरणकृत्ययोः स्वप्रकाशत्वेन विरोधसमाधान-मपास्तम् । पूर्णत्वाद्याकारेणास्फुरणमादाय तत्समाधानं तच्च न सम्भवति । प्रकारान्तरेण च तत्समाधानं मूल एव दूष्यते ।। तयोरिति ।। व्यवहारयोग्यत्वांशमादाय उक्तयो-रावरणकृत्ययोर्विरोध इत्यर्थः । न च स्वप्रकाशत्वलक्षणेऽपि व्यवहारयोग्यत्वं नाम नास्ति न प्रकाशते इति व्यवहारयोग्यत्वमतो न तयोर्विरोध इति वाच्यम् । तथात्वे नर-विषाणादेरपि स्वप्रकाशत्वापत्तेः । तादृशस्वप्रकाशत्वेन जडत्वासिद्धेश्च ।
ननु स्वरूपेण व्यवहारयोग्यत्वतदयोग्यत्वयोर्विरोधो न तथा मयाङ्गीक्रियत इत्याशङ्क्य निषेधति ।। न चेति ।। स्वरूपस्येति ।। स्वरूपस्यापरोक्षव्यवहारयोग्यत्वाभावादिति भावः । ननु मयाऽज्ञानावच्छेदेनैव स्वप्रकाशत्वमङ्गीक्रियते । न स्वरूपेणेत्यत आह ।। नित्यातीन्द्रियेति ।। सर्वस्य वस्तुनः ज्ञाततया साक्षिविषयत्वाङ्गीकारादिति भावः । न च धर्मादिकं स्वरूपसिद्ध्यर्थं प्रमाणान्तरमपेक्षते । न चैतन्यमिति विशेष इति वाच्यम् । तथात्वे स्वरूपस्यासिद्धिप्रसङ्गात् । न हि स्वरूपं स्वेनैव सिद्ध्यति । क्रियायाः स्व-विषयत्वानङ्गीकारात् । प्रमाणान्तरापेक्षा तु त्वयैव दूषितेति भावः ।। इच्छाद्यवच्छि-न्नेति ।। न चाज्ञानं स्वरूपमात्रव्यवहारप्रतिबन्धकत्वेन सिद्धम् । न त्वेवमिच्छादिकमिति वाच्यम् । उभयत्राप्यवच्छिन्नव्यवहारेऽज्ञानस्येवेच्छादेरपि स्वरूपमात्रव्यवहारप्रतिबन्ध-कतापातात् । अज्ञानस्य विषयाभावेनावरणत्वासिद्ध्याऽ न्योन्याश्रयाच्च ।। सुखादे-रिति ।। नन्वनुक्तोपालम्भोऽयम् । न ह्यस्माभिरज्ञानावच्छेदेनैव चैतन्यं प्रकाशत इत्यङ्गीक्रियते । किन्तु स्वरूपेणापि । तेन सर्वस्योपपत्तिः । तर्हि कथमावरणकृत्यमिति चेन्न । पूर्णत्वाद्याकारेण प्रकाशानङ्गीकारादिति चेन्मैवम् । पूर्णत्वादेरपि चिन्मात्रत्वेन चिन्मात्रप्रकाशे पूर्णत्वप्रकाशावश्यम्भावेनावरणकृत्याभावापत्तेः । स्वरूपेणाप्रकाशे उक्तदोषस्यापरिहार्यत्वात् ।। एतेनेति ।। सुखादिकं न प्रकाशत इति व्यवहारप्रसङ्गे-नेत्यर्थः । अत्र द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति अज्ञानविशेषितव्यवहार-योग्यत्वमित्युक्तं स्यात् । तथा च पूर्वोक्तदोष एवेत्यर्थः ।। सुखादीति ।। आरोपस्याप्यनुभवबलादेव कल्प्यत्वादिति भावः ।। सतोऽधिष्ठानप्रकाशस्येति ।। शुक्तित्वेन भासमानशुक्तौ अशुक्तित्वारोपाभाववत् अधिष्ठानप्रकाशस्य प्रकाशत्वेन स्फुरणान्नाप्रकाशारोप इत्यर्थः । न चाधिष्ठानस्य प्रकाशत्वेन स्फुरणं नेति वाच्यम् । अधिष्ठानचितः स्वप्रकाशत्वेन तादृशस्फुरणस्यावश्यकत्वात् । अज्ञानादिकं प्रकाशते इत्यनुभवाच्च । अन्यथाविद्यादिप्रकाशानुपपत्तेरिति ।। अन्यथेति ।। प्रकाशत्वेन प्रकाश-मानेऽपि प्रकाशे यद्यप्रकाशारोप इत्यर्थः ।। न चेति ।। न चात्यन्ताभावानधिकरणत्व-मत्यन्ताभावाभावत्त्वम् । अत्यन्ताभावाभावश्च प्रागभाव एवेति स्वप्रकाशत्वमेवा-वरणकृत्यं स्यादिति वाच्यम् । अत्यन्ताभावाभावस्य प्रतियोग्यात्मकत्वेन प्रागभावत्व-मात्रत्वाभावात् सामान्यविशेषरूपत्वेन भिन्नत्वात् ।
ननु योग्यताया अज्ञानकल्पितत्वेन नानादित्वमित्यत आह ।। इदानीमिति ।। न च योग्यताप्रागभाव एवाप्रकाशत्वप्रयोजक इति न मोक्षेऽप्यप्रकाश इति वाच्यम् । सामान्ये बाधकाभावात् घटादावपि प्रागभावाभावेन प्रकाशत्वापाताच्च । उक्तमर्थं कारिकया सङ्गृह्णाति ।। एवञ्चेति ।। न चापरोक्षव्यवहारार्हत्वस्यैव स्वप्रभत्वेन कथं हेतु-हेतुमद्भाव इति वाच्यम् । अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वस्यैव स्वप्रभत्वेनोपहित-भेदात् । अन्यथा घटादेरपि स्वप्रभत्वापत्तेः । किञ्चाविद्या चैतन्यं प्रत्येव चैतन्य-प्रकाशस्यावरणमन्यं प्रति वा ? न द्वितीयः । अन्यस्य चेतनस्याभावात् । नाद्य इत्याह ।। किञ्चेति ।। एवं कल्पनेऽदृष्टकल्पना स्यादिति भावः ।। तमस्सम्बन्धेति ।। न चावतमसे प्रकाशसम्बन्धो दृष्ट एवेति वाच्यम् । तस्य प्रकाशप्रतिबन्धकत्वाभावात् । प्रकाशप्रतिबन्धकान्धकारस्य तमश्शब्देन विवक्षणात् । न हि प्रकाशे प्रकाश-प्रतिबन्धकसम्बन्धो विरोधात् । ननु चान्यं प्रत्येव चैतन्यप्रकाशप्रतिबन्धो विरोधात् । न चोक्तमन्याभावादिति वाच्यम् । पारमार्थिकान्याभावेऽपि कल्पितभेदान्यसम्भवादिति शङ्कते ।। न चेति ।। आवरणमिति ।। न च कल्पितस्य भेदस्यानादित्वान्नावरणापेक्षेति वाच्यम् । तथात्वे जीवब्रह्मविभागस्याविद्याधीनत्वोक्तिविरोधात् । कल्पितभेदस्य दोषजन्यप्रतीतिमात्रशरीरत्वेनानादित्वायोगाच्च ।। यो मोक्ष इति ।। न च मोक्षे जन्य-प्रकाशाभावात् कल्पितभेदाभावे चैतन्यं प्रतीव जीवं प्रत्यपि प्रकाशसम्भवान्नोक्तदोष इति वाच्यम् । न ह्यस्माभिर्जन्यत्वाभिप्रायेण भावीत्युक्तम् । किन्तु अभिव्यक्तौ यादृशः प्रकाश इत्यभिप्रायेण । तथा च जन्यप्रकाशाभावाभिधानं व्यधिकरणम् । कल्पितभेदेन च वास्तवाभेदकार्याप्रतिबन्धात् तादृशः प्रकाश इदानीमपि स्यात् । अन्यथा वह्नौ नायं वह्निरिति भेदकल्पनायां वह्नेर्दाहकत्वं न स्यात् । भेदकल्पनाया आवरणं विनाऽ-योगेनान्योन्याश्रयाच्च ।
ननु मोक्षेऽनवच्छिन्नब्रह्मानन्दः प्रकाशते । तदभावः आवरणेन साध्यते इति चेन्न । अनवच्छिन्नब्रह्मानन्दस्य चिन्मात्रत्वे तत्प्रकाशे तदप्रकाशायोगात् । तदतिरिक्तत्वे तस्य जडत्वेन मोक्षे तत्स्थित्ययोगात् ।। न चेति ।। दीपरूपे प्रकाशे स्वविषयत्वं स्वप्रकाशत्वम् । ब्रह्मरूपे प्रकाशे तु अवेद्यत्वं स्वप्रकाशत्वमिति दीपविलक्षणत्वात् न दीपदृष्टान्तेन ब्रह्मप्रकाशः स्वीकर्तुं शक्य इति भावः ।। मोक्ष इति ।। स्वप्रकाशत्वस्य ब्रह्मस्वरूपलक्षणत्वादिति भावः ।। अज्ञानेति ।। त्वया ह्यानन्दाप्रकाशायाविद्या स्वीक्रियते । स चावेद्यत्वादेवोपपन्न इति नाविद्याकल्पनमिति भावः । नन्वस्तु प्रकाश-मान एवाज्ञानम् । न चालोके तमस्सम्बन्धादर्शनात् कथमेतदिति वाच्यम् । अज्ञान-तमसोर्विरोधितायामनुभवसिद्धविशेषात् । तथा हि । अज्ञानं हि त्वदुक्तमर्थं न जानामीति प्रकाशमाने वस्तुनि अनुभूयते इति वृत्तिविरोधि । न साक्षिरूपज्ञानविरोधीति कल्प्यते । तमस्त्वालोके सति नानुभूयत इत्यालोकमात्रविरोधीति । वस्तुतस्त्ववतमस आलोक-सम्बन्धदर्शनेन तमोऽपि नालोकमात्रविरोधीति शङ्कते ।। अथ मतमिति ।। तत्स्फोर-कत्वेन = तत्साधकत्वेनेत्यर्थः । अविरोधमेवोपपादयति ।। दृश्यते हीति ।। नन्व-प्रकाशमानेऽप्यर्थेऽज्ञानप्रतीतिरस्तु । तथा च ज्ञानमात्रमेवाज्ञानविरोधीत्यत आह ।। अज्ञानेति ।। ससम्बन्धिकपदार्थज्ञाने सम्बन्धितावच्छेदकप्रकारकज्ञानस्य कारणत्वादिति भावः ।
नन्वज्ञानस्यैवं ज्ञानविरोधित्वाभावे ज्ञानान्निवृत्तिर्न स्यात् । तथा च मोक्षार्थं श्रवणादौ प्रवृत्तिर्न स्यात् इत्यत आह ।। अविद्येति ।। विशेषादेवेति ।। श्रवणादि-साध्यादित्यर्थः । ननु वृत्तिचितोरेकविषयत्वविशेषः कथं चितोऽविरोधित्वे वृत्तेस्त-द्विरोधित्वमित्यत आह ।। एकविषयत्वेऽपीति ।। न च दृष्टान्तमात्रं न साधकमति-प्रसङ्गात् इति वाच्यम् । आत्मा वा अर इत्यादिश्रुतिबलात् श्रवणादिसाध्यज्ञानस्यैव तद्विरोधित्वकल्पनात् । ज्ञानमात्रस्यैव तद्विरोधित्वे तु श्रवणादिविधिवैयर्थ्यापत्तेः ।। त्वयेति ।। तथा चाज्ञानाङ्गीकारवैयर्थ्यम् । अनवच्छिन्नानन्दाप्रकाशस्य तत्कृत्यस्या-भावात् । तथा चापसिद्धान्त इति भावः ।। अपि चेति ।। ननु चित्त्वाकारेण न प्रकाशत इत्यनुभवाभावेऽपि अनवच्छिन्नत्वाकारेण न प्रकाशत इत्यनुभवोऽस्त्येवेति तत्प्रयोजकतया तत्राप्यावरणमावश्यकमिति चेन्न । अनवच्छिन्नत्वादेश्चिन्मात्रत्वेन तदप्रकाशायोगात् । तदतिरिक्तत्वे च कल्पितत्वेन मोक्षे तदभावात् । अनवच्छिन्नत्वाकारस्यापि स्वप्रकाश-त्वेनावेद्यतयाऽप्रकाशोपपत्तौ तत्प्रयोजकतयाऽविद्यास्वीकारवैयर्थ्याच्च । ननु प्रकाशमाने
कथमज्ञानमङ्गीक्रियते ज्ञानाज्ञानयोरेकत्र विरोधादज्ञानाविरोधिनो ज्ञानत्वानुपपत्तेश्चेति चेन्न । अभ्युपगमवादेनोक्तत्वात् । अत एव अस्तु वेत्युक्तम् । अत एवाह ।। किञ्चेति ।।
न च ज्ञानं विशेषावच्छिन्नतयाऽवभासते सामान्यावच्छिन्नतया ? आद्ये विशेषे भासमानत्वमागतमेव । न हि विशेषमभासयद्विशेषाज्ञानमित्यवभासनं सम्भवति । तथा च कथं भासमाने नाज्ञानम् । न द्वितीयः । सामान्यावच्छेदेन भासमानस्य विशेष-सम्बन्धित्वे प्रमाणाभावेन सामान्यविषयतया भासमान एवाज्ञानापातादिति चेन्मैवम् । अस्त्वाद्यः । न चैवं भासमानेऽज्ञानापातः । येन रूपेणाज्ञानविषयता विशेषस्य न तेन रूपेणाज्ञानज्ञाने भानम् । न च निरूपकतावच्छेदकरूपेणैव निरूप्यज्ञाने निरूपक-भानमिति वाच्यम् । अस्य नियमस्य प्रागेव दूषितत्वात् । कल्पनाया अनुभवानु-सारित्वात् । तथा ह्यनुभवस्त्वदुक्तं न जानामीति । अत एवाह ।। न हि परचित्त-स्थमज्ञातमित्यादि ।। तथा च न भासमाने अज्ञानापातः । द्वितीयेऽपि न दोषः । सामान्यावच्छेदेनानुभूयमानस्य विशेषविषयत्वात् । न चान्यावच्छिन्नत्वेनानुभूयमान-स्यान्यविषयत्वेऽतिप्रसङ्ग इति वाच्यम् । सामान्यविशेषभावस्य नियामकत्वात् । न चाज्ञानाविषयस्य नाज्ञानावच्छेदकतयाऽज्ञानज्ञाने भानमिति वाच्यम् । अज्ञानाविषय-स्यैवानुभवबलेनाज्ञानावच्छेदकतया भानाभ्युपगमात् । अनुभवश्च प्रागेव दर्शित इति अन्यथा भासमानेऽप्यङ्गीकारे अज्ञानादेर्निवृत्तिरेव न स्यात् । न चाज्ञानादेर्ज्ञान-विशेषविरोधित्वम् । न जानामीति ज्ञानसामान्यविरोधित्वेनैव प्रतीयमानत्वात् । विस्तृतं चैतत् प्रागेवेत्यलमतिविस्तरेण ।
अज्ञातं बुभुक्षापिपासादीति विशेषणविशेष्यभावेनान्वयः । ननु विशेषणज्ञानस्य विशिष्टज्ञाने कारणत्वात् कथं विशेषाज्ञाने तद्विशिष्टाज्ञानज्ञानमित्यत आह ।। एवञ्चेति ।। अत्र प्रमाणमाह ।। तथेति ।। ननु विशेषज्ञानमेव कुतो न हेतुरित्यत आह ।। न हीति ।। नन्ववच्छेदकविशेषज्ञानस्यावच्छेदकज्ञाने कारणत्वानुरोधेन ज्ञातेऽप्यज्ञानधीः स्वीकर्तव्येत्यत आह ।। अवच्छेदकेति ।। तथा कार्यकारणभावस्य सिद्धेरिति भावः । नन्वेवं घटज्ञानस्यापि पटावच्छिन्नाज्ञानहेतुता स्यादित्यतिप्रसङ्ग इत्यत आह ।। सामा-न्येति ।। ननु ससम्बन्धिकपदार्थज्ञाने विशेषप्रकारकमेव सम्बन्धिज्ञानं कारणत्वेन क्लृप्तमिति तदभावे कथं तदित्यत आह ।। किञ्चेति ।। यद्वा ससम्बन्धिकस्य ज्ञातत्वे सम्बन्धिनोऽपि तत्त्वमावश्यकमित्याशङ्क्य ससम्बन्धिकस्य यद्भवति तत्सम्बन्धिनोऽपीति विशेषव्याप्त्या वा ससम्बन्धिकस्य ज्ञातत्वे सम्बन्धिनोऽपि ज्ञातत्वमिति विशेषव्याप्त्या वा ? नोभयथापि व्यभिचारादित्याह ।। किञ्चेति ।। न च द्वेषस्येष्टत्वेऽपि द्विष्टस्येष्टत्वा-भाववदिति न युक्तम् । इष्टत्वं हि इच्छाविषयत्वम् । द्विष्टस्यापि इच्छाविषयतावच्छेदक-तया तद्विषयत्वावश्यम्भावादिति वाच्यम् । इच्छाविषयतावच्छेदके इष्टत्वव्यवहाराभावे-नेच्छाविशेष्यत्वस्यैवेष्टत्वात् । अन्यथा शत्राविष्टत्वव्यवहारः सुखत्वस्यापि निरुपाधीच्छा-विषयतावच्छेदकत्वेन पुरुषार्थत्वं दण्डत्वस्यापि कारणतावच्छेदकत्वेन कारणत्वमित्याद्या-पद्येत । तथा चावच्छेदके नेष्टत्वम् । न चेश्वरस्यापि भ्रान्तिविषयज्ञानमावश्यकम् । भ्रमो हि भ्रमत्वेन प्रतिपत्तव्यः । अन्यथा विशेषज्ञानाभावप्रसङ्गात् । भ्रमत्वं च तदभाववति तद्भानत्वम् । एवञ्च भ्रमत्वं जानता भ्रान्तिविषयस्य ज्ञेयत्वात् कथं भ्रान्तिविषयज्ञाना-भावेऽपि भ्रान्तिज्ञानवदित्युक्तमिति वाच्यम् । यथार्थज्ञानभिन्ननिश्चयत्वस्यासद्विषयकत्वस्य वा भ्रमत्वात् । तदभाववति तत्प्रकारकत्वस्य भ्रमत्वेऽपि न शुक्तौ तत्प्रकारसत्त्वं भ्रान्ताविव विषयः । अन्यथा तस्य भ्रान्तत्वप्रसङ्गात् । न च सर्वत्वेन सर्वस्य ज्ञातत्वात् कथं सर्वाज्ञानेऽपि सर्वज्ञानज्ञानमुक्तमिति वाच्यम् । न हि वयं सर्वथा सर्वज्ञानं नास्तीति ब्रूमः । किं नाम ? सामान्यतो ज्ञानेऽपि तत्तद्धर्मिगतासाधारणधर्मप्रकारकं नास्तीति । तथा च यथा तत्र विशेषाज्ञानेऽपि सामान्यज्ञानेन सर्वज्ञानज्ञानं तथाऽत्रापीति न कुत्रापि ज्ञात एव सम्बन्धिनि ससम्बन्धिकज्ञानम् । तथा चोक्तस्थले व्यभिचारादुक्तनियमोऽसिद्ध इति भावः ।। अन्यथेति ।। यद्युक्तरीत्याज्ञानप्रतीत्यन्यथासिद्धावपि अज्ञानज्ञानार्थ-मज्ञातज्ञानमङ्गीक्रियते तदेत्यर्थः ।
नन्ववच्छेदके ज्ञानं विनाऽवच्छिन्नज्ञानं न दृष्टमवच्छेदके मोहहानेश्चानवच्छिन्नज्ञाने कारणत्वमित्यतस्तदुपपादयति ।। तथा हीति ।। तथा चान्वयव्यतिरेकाभ्यामवच्छेदके मोहहानेरप्यवच्छिन्नज्ञाने कारणत्वमिति भावः । वैषम्यं शङ्कते ।। तर्हीति ।। विरोधस्य तच्छान्तिकल्पनस्य समानत्वात् अर्धजरतीयानुपपत्तेरिति भावः ।। किञ्चेति ।। कल्पनाया अविशेषादिति भावः । नन्वेवमज्ञानस्य विषयविशेषसिद्धिः कथमित्यत आह ।। अज्ञानस्येति ।। न चैवमभावस्य भावविरोधिप्रतियोगिज्ञाननिरपेक्षज्ञानविषयत्व-मभाववैलक्षण्यं वृत्यैवाज्ञान उपपादितमिति वाच्यम् । अस्याभावेऽपि सत्त्वेन तद्वै-लक्षण्याभावात् । अभावविशेषस्य तादृशत्वकल्पने लाघवाच्च । न चैवमज्ञानस्य विषया-वच्छिन्नतयाऽननुभवे तस्य त्वदुक्तमर्थं न जानामीति वर्तमानार्थप्रत्ययो विरुध्यत इति वाच्यम् । वर्तमानसामीप्ये वर्तमानवद्वेति वर्तमानप्रत्ययोपपत्तेः । तथा चाज्ञात एवावच्छेदके ज्ञानज्ञानं युक्तमिति युक्तमुक्तं न चाज्ञाननिवर्तकत्वेनाज्ञाननिवृत्ति-प्रयोजकत्वमुक्तम् । तच्च सम्बन्धसम्पादनद्वाराऽस्मिन् पक्षेऽप्यस्तीति वाच्यम् । एवं ह्येतन्मते साक्षिण एवाज्ञाननिवर्तकत्वेन वृत्तिरेवाज्ञानविरोधिनी न साक्षीत्यस्यायोगात् ।
ननु वृत्युपारूढः साक्षी तद्विरोधी न केवला वृत्तिरिति तदभिप्राय इति चेन्न । केवलवृत्तिविषये धर्मादौ केवलसाक्षिविषये सुखादौ न जानामीति प्रतीतिः स्यात् । वृत्युपारूढस्यैवाज्ञानविरोधित्वे दूषणान्तरमाह ।। अज्ञानस्येति ।। विशेषणा-भावायत्तविशिष्टाभावस्य तदानीमपि सुलभत्वादिति भावः ।। न जानामीत्यज्ञान-स्येति ।। न च घटादिमात्रविरोधिनो घटाभावादेर्भावसामान्यविरोधित्वेनाभावत्वेन प्रतीतिवद्ज्ञानविशेषविरोधिनोऽप्यज्ञानस्य ज्ञानसामान्यविरोधित्वेन प्रतीतिर्युक्तेति वाच्यम् । अभावपदस्य रूढत्वेन दृष्टान्तासम्मतेः । अभावस्य भावसामान्यविरोधित्वा-सम्भवेनाभावस्य च तत्त्वासम्भवाच्च । नञर्थोल्लिखितधीविषयत्वस्याखण्डस्य वा अभावत्वात् । न चाज्ञानपदमपि रूढमेवेति वाच्यम् । योगेनैवोपपत्तौ रूढिकल्पनायां मानाभावात् । अभावपदादपि भावसामान्यविरोधित्वस्याप्रतीतेश्च ।। न जानामीति ज्ञप्तिविरोधित्वस्येति ।। न च मन्मते वृत्तिप्रतिबिम्बितचैतन्यं जानामीति व्यवहार-विषयः । तथा च न जानामीत्यनेन वृत्तिचितोरुभयोरपि अज्ञानविरोधित्वं विषयी-क्रियते । एवञ्च न चैतन्येऽज्ञानविरोधित्वम् । नापि वृत्तौ । वृत्युपारूढचित एवार्थ-प्रकाशकत्वेन तथात्वादिति वाच्यम् । तथात्वे हि वृत्तिरेवाज्ञानविरोधिनीति स्वोक्ति-विरोधापातात् । सुखं जानाम्यज्ञानं जानामीति व्यवहारो न स्यात् । सुखादेर्वृत्युपा-रूढचिदविषयत्वात् । प्रत्येकविरोधेनैव व्यवहारोपपत्तौ विशिष्टविरोधित्वकल्पने गौरवाच्च । विशिष्टस्यैव प्रकाशकत्वे मोक्षे आनन्दाप्रकाशापाताच्च । ज्ञाधातोर्ज्ञप्तिमात्र एव शक्तत्वाच्च । अन्यथा नैयायिकादीनां तथा व्यवहाराभावापातात् ।। चैतन्येति ।। परस्परविरोधिनोरेव तत्त्वादिति भावः ।
न च वृत्युपारूढचित्त्वेन निवर्तकत्वमतो नेच्छादिनिवर्त्यद्वेषादिवत् तन्निवर्त्यानां सत्त्वं न वा चैतन्यमात्रस्य तन्निवर्तकत्वमिति वाच्यम् । दीपादौ अर्थप्रकाशकत्वेनैव निवर्तकत्वस्य दृष्टत्वेनोक्तरूपेण निवर्तकत्वस्यादृष्टत्वेन दृष्टादृष्टकल्पनापातात् । उक्त-रूपापेक्षयाऽर्थप्रकाशकत्वस्यैव लघुत्वाच्च । परोक्षस्थले वृत्युपारूढचित्त्वाभावेन न जानामीति व्यवहारापाताच्च ।। त्वन्मत इति ।। न च परोक्षवृत्तेर्विषयपर्यन्तत्वाभावेन न विषयगताज्ञाननिवर्तकत्वं सुखादेर्ज्ञातैकसत्त्वादेवाज्ञानादर्शनमित्यन्वयव्यतिरेकयोन्यथा-सिद्धिरिति वाच्यम् । परोक्षवृत्तेर्विषयाकारत्वरूपविषयपर्यन्तत्वाभावे ततस्तद्व्यवहारो न स्यात् । साक्षिस्फुरणस्य चाज्ञानविरोधित्वाभावे ज्ञायमानसुखादौ अज्ञानावश्यम्भावा-पातादिति नान्वयव्यतिरेकयोरन्यथासिद्धिः । तथा च स्फुरणस्यैवाज्ञानविरोधित्वमिति भावः ।। स्वसत्तायामिति ।। न च पूर्णत्वादिनाऽप्रकाशविधुरत्वाभावेऽपि अध्यासा-धिष्ठानतयाऽप्रकाशविधुरत्वसम्भवात् तेन स्वप्रकाशत्वसाधनमिति वाच्यम् । पूर्णत्वस्य चिन्मात्रत्वे तेन रूपेणापि प्रकाशेनाप्रकाशासम्भवः । तदतिरिक्तत्वे तु नाज्ञानविषय-त्वम् । चैतन्यातिरिक्तत्वेन जडत्वात् ।। वृत्तिचितोरिति ।। ननु साक्षिणि यदज्ञान-विरोधित्वमनुभूयते तन्नाज्ञाननिवर्तकत्वनिबन्धनम् । किन्तु स्वविषये इच्छादौ यावत्सत्त्वं प्रकाशादज्ञानाप्रसक्तिनिबन्धनम् । वृत्तेश्च स्वविषये प्रसक्ताज्ञाननिवृत्तिनिबन्धनमेवे-त्युभयोर्वैषम्योक्तिर्युक्तैवेति चेन्न । त्वया प्रकाशमानेऽप्यज्ञानस्वीकारेणेच्छादेः प्रकाशेऽपि अज्ञानप्रसक्तिसम्भवेन प्रसक्ताज्ञाननिवृत्तिनिबन्धनस्येवाज्ञानविरोधित्वस्योभयत्र वक्तव्यत्वे वैषम्यासम्भवात् । तन्निवर्तकत्वापेक्षया तत्प्रसक्त्यभावसम्पादकस्यातिविरोधित्वाच्च । उभयथापि विरोधित्वे साक्षिणोऽपि विरोधित्वानपायाच्च ।। अन्यथेति ।। यदि साक्षिणो नाज्ञानविरोधित्वं तदेत्यर्थः । न च चैत्रस्य स्वेच्छादौ अज्ञानाप्रसक्तेरेव नाज्ञानव्यवहारः मैत्रस्य तु प्रमात्रज्ञानादिति वाच्यम् । प्रसक्त्यभावेऽपि साक्षिप्रकाशविरोधस्यैव तन्त्र-त्वात् । अन्यथा प्रसक्त्यनिवारणात् । प्रमात्रज्ञानातिरिक्ताज्ञानस्य प्रागेव दूषितत्वाच्च । उक्तमर्थं कारिकया सङ्गृह्णाति ।। एवञ्चेति ।। तर्हीति ।। तथा चात्मविषयमात्माश्रित-मज्ञानमिति गतम् । अन्यथा इच्छादावपि तथा स्यादिति भावः ।। प्रकाशरूप इति ।। एतच्चोपलक्षणम् । इच्छां जानामीतिवत् आत्मानं जानामीति साक्षिवेद्यत्वस्यानुभवे-नेच्छादाविवात्मन्यपि अज्ञानप्रसक्तिरयुक्तैव । न च स्वविषयत्वं विरुद्धमिति वाच्यम् । अध्ययनविधिवदुपपत्तेरिति भावः ।
।। अन्यथेति ।। यदि प्रकाशरूपेऽप्यज्ञानप्रसक्तिरित्यर्थः । न चेष्टापत्तिः वृत्तेरपेक्ष-णात् प्रकाशान्तरापेक्षायां जडत्वस्य तन्त्रत्वादिति वाच्यम् । अज्ञाननिवृत्यर्थं वृत्यपेक्षत्वे जडत्वस्यैव तन्त्रत्वेनात्मनस्तदपेक्षायोगात् । प्रकाशमानेऽज्ञानं च प्रागेव दूषितम् ।। न चेति ।। तथा च न सुखादावज्ञानम् । वृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वात् । साक्षिणि तु सम्भवत्यज्ञानम् । केवलसाक्षिवेद्यत्वादिति भावः ।। असतः साधकत्व इति ।। अनवस्थादिनेत्यर्थः ।। अन्यथेति ।। तथा चात्मापि नाज्ञानविषयः स्यादिति भावः ।। एतेनेति ।। साक्षिणोऽप्यज्ञानविरोधित्वानुभवादिनेत्यर्थः ।। एतेनैवेति ।। उक्तादे-वेत्यर्थः । न च ज्ञानाज्ञानयोः स्वविषयावच्छिन्नयोरेवानुभवात् कथमेतदिति वाच्यम् । अवच्छेदकाप्रकाशेऽपि अवच्छिन्नप्रकाशस्योपपादितत्वात् । अत एव तथैव दृष्टान्त उक्तोऽन्धकारावृतवदिति । अभ्युपगमवादेनाह ।। अस्त्वन्येति ।। नन्वयं घट इत्यादि-वृत्तेः घटादिविषयत्वेन कथमात्मविषयत्वमित्यत आह ।। विवरण इति ।। तथा चाहंवृत्तिरात्मविषयैवेति तथाऽऽत्माज्ञाननिवृत्तिः स्यादेवेति भावः । ननु प्रमाण-जन्यात्मविषयिणी वृत्तिरज्ञानविरोधिनी । अहं वृत्तिस्त्वविद्यावृत्तिः । न चासौ प्रमाण-जन्येति कथं तथा अज्ञाननिवृत्तिरापाद्यते इत्यत आह ।। घट इतीति ।। अन्यथेति ।। घटमात्रविषयत्वे इत्यर्थः । नन्वयं घट इत्यादिवृत्या यावन्ति ज्ञानानि तावन्त्य-ज्ञानानीति मते अज्ञानविशेषस्य निवृत्तिः । एकाज्ञानपक्षे तु अवस्थाविशेषस्य प्रपञ्च-निदानं मूलाज्ञानमखण्डार्थनिष्ठवेदान्तजन्यवृत्यैव निवर्तते । फलबलेन तथा कल्पनादिति चेन्न । अस्याः प्रक्रियाया अप्रामाणिकत्वेन प्रेक्षावद्धिरनुपादेयत्वात् । ज्ञानस्य समानाधिकरणसमानविषयकाज्ञानविवर्तकत्वस्वभावत्वेनास्यानिवृत्तिस्य निवृत्तिरिति विनिगन्तुमशक्यत्वाच्च । तादृशाज्ञानाविरोधित्वे चैकस्याप्यनिवृत्तिप्रसङ्गात् । यावन्तीति पक्षे एकनिवृत्तावप्यपरप्रतिबन्धेन सदाऽप्रकाशापाताच्च । अवस्थाविशेषस्याज्ञानत्वे याव-न्तीति मतप्रवेशः । अन्यथा ज्ञानान्निवृत्ययोगः । फलस्य तु भेदस्य सत्यत्वेनैवो-पपत्तेश्च । विस्तृतं चैतदिति दिक् ।
।। अनात्मेति ।। चिन्मात्राविषयेत्यर्थः । ननु यथा घटाकाशज्ञानेऽपि महाकाशाज्ञानं तथाऽवच्छिन्नाज्ञानेऽपि चैतन्यज्ञानमित्यतो घटावच्छिन्न आकाशः आकाश एव वा आकाशांशो वा ? आद्य आह ।। आकाशस्यैव चेति ।। तथा च तत्र नाकाशादर्शनमनुभवविरोधात् । अन्त्ये त्विष्टापत्तिमाह ।। आकाशांशस्येति ।। अतिप्रसङ्गादिति ।। इदमिति ज्ञानेनापि नेदं रजतमिति भ्रमनिवृत्तिप्रसङ्ग इत्यर्थः ।। श्रवणादीति ।। तस्य प्रागपि सत्त्वादिति भावः ।। सत्यत्वेति ।। भ्रमकालीनापरोक्ष-ज्ञानाधिकविषयज्ञाननिवर्त्यस्यैव मिथ्यात्वादिति भावः ।। उक्तेति ।। प्रकाशमानेऽ-ज्ञानासम्भवादित्युक्तदोषादित्यर्थः । निर्विषयत्वप्रतिपादनमुपसंहरति ।। तस्मादिति ।। उक्तेऽर्थे स्वाचार्यसम्मतिमाह ।। तदुक्तमिति ।। वक्ष्यमाणोपोद्घाताय चरमप्रकृतमुप-संहरति ।। तस्मादिति ।। इति अविद्याविषयभङ्गः ।
न्यायामृतप्रकाशः
।। चिन्मात्रमेवेति ।। ‘‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवले’’त्युक्तेरिति भावः । ननु तस्याज्ञानकल्पितत्वेनान्योन्याश्रयान्नाज्ञानाश्रयत्वमिति शङ्काभासं निराकरोति ।। तस्येति ।। नन्वज्ञानस्यावरणत्वेनावरणभूताज्ञानकृत्यस्य चिन्मात्रेऽभावेन किमर्थमज्ञानस्य तद्विषयत्वमङ्गीकार्यमित्यत आह ।। स्वप्रकाशेति ।। आवरणकृत्येति ।। आव्रियतेऽनेनेति करणव्युत्पत्त्याऽज्ञानमावरणशब्देन ग्राह्यम् । तत्कृत्यं आवृतिः । तथा चाज्ञानरूपावरणस्य यत्कृत्यं प्राप्तप्रकाशप्रतिबन्धरूपावृत्तिस्तत्सद्भावादित्यर्थः । ननु जीवो जडं वाऽज्ञानविषयः किं न स्यादित्यत आह ।। न त्वन्यदिति ।। तथा चाज्ञानसिद्धौ तत्कल्पितजीवसिद्धिः तत्सिद्धौ च तद्विषयकाज्ञानसिद्धिरित्यन्योन्याश्रयः स्यादिति भावः । जडविषयकाज्ञानानङ्गी-कार एव हेत्वन्तरमाह ।। जडत्वेनेति ।। अप्रकाशस्वरूपत्वेनेत्यर्थः ।। आवरण-कृत्येति ।। अज्ञानरूपावरणस्य यत्कृत्यं प्राप्तप्रकाशप्रतिबन्धरूपावृतिस्तदभावाच्चेत्यर्थः । सिद्धान्तं प्रतिजानीते ।। अत्र ब्रूम इति ।। आवरणकृत्यं आवरणस्य कृत्यं आवृतिरिति यावत् । आवरणकृत्यरूपावृतिः किं सिद्धप्रकाशलोपरूपा वा असिद्धप्रकाशानुत्पत्तिर्वा । नोभयमपीत्याह ।। न तावदिति ।। अन्धकारेण क्रियमाणा आवृतिः आलोकरूपो यस्सिद्धो घटप्रकाशस्तल्लोपरूपा, असिद्ध उत्तरत्र जायमानो यः प्रकाशस्तदनुत्पत्तिरूपा च दृष्टास्तीति ज्ञातव्यम् । कुतो नोभयमपीत्यत आह ।। स्वरूपेति ।। नित्यसिद्धत्वान्न सिद्धप्रकाशलोपो युक्तः नित्यसिद्धत्वादेवासिद्धप्रकाश एव नास्तीत्युक्तरूपावृतिद्वयं चिन्मात्रे न सम्भव-तीत्यर्थः । एतदन्यदेव किञ्चिदावृतिशब्दार्थ इति तत्राह ।। एतदन्यस्येति ।। सिद्धप्रकाश-लोपासिद्धप्रकाशानुत्पत्तिव्यतिरिक्तस्येत्यर्थः ।
नन्वज्ञानेन क्रियमाणावृतिर्नाम सतोऽपि ब्रह्मरूपप्रकाशस्य विषयासम्बन्ध एवेत्याशङ्क्य निराकरोति ।। नापीति ।। विषयासम्बन्ध इत्यत्र विषयशब्देन घटादिकं वा चैतन्यरूपं वा ? आद्ये आह ।। ज्ञानस्येति ।। तथा च ज्ञानस्य विषयसम्बन्धाभावे विषय-सम्बन्धस्वभावत्वरूपज्ञानस्वरूपस्यैव हानिः स्यादित्यर्थः । यथोक्तं ‘‘विषयवर्जितः प्रकाश एव न भवति । घटवदिति’’ । द्वितीये त्वाह ।। स्वयमिति ।। ज्ञानातिरिक्तविषयसद्भावे हि तस्य विषयसम्बन्धापेक्षा । न चैवं चैतन्यस्य । स्वयमेव ज्ञानरूपत्वेन स्वसम्बन्धा-नपेक्षत्वादित्यर्थः । अतस्सतोऽपि प्रकाशस्य घटादिचैतन्यरूपविषयासम्बन्धरूपा आवृति-रप्ययुक्तेति भावः ।। नापीति ।। अज्ञाने सति प्राकट्यापरपर्यायज्ञाततारूपज्ञानकार्यं न जायते । अतो ज्ञाततारूपज्ञानकार्यप्रतिबन्ध एव अज्ञानसाध्या आवृतिरित्यर्थः ।। चैतन्येति ।। अभिव्यक्तचित्सम्बन्ध एव त्वन्मते ज्ञातता । एवं च चैतन्यातिरिक्तस्य प्राकट्यस्याभावाच्चैतन्यस्य सदा स्वप्रकाशत्वेन ज्ञातताया एव सत्वान्न तदाख्यकार्य-प्रतिबन्धरूपा आवृतिर्युक्तेत्यर्थः ।। नास्तीति ।। यथा नास्तीत्यादिव्यवहार एवाज्ञानसाध्या आवृतिर्घटादौ दृष्टा एवं चैतन्यं नास्तीत्यादिव्यवहार एव चैतन्येऽप्यज्ञानसाध्या आवृति-रित्यर्थः । अभिज्ञा ज्ञानम् ।। आवरणसाध्यत्वेनेति ।। आवरणशब्दो भावसाधनः । तथा चावृतिसाध्यत्वेनेत्यर्थः ।
अयमभिप्रायः । प्रकाशमाने ब्रह्मणि नास्तीत्यादिज्ञानं भ्रान्तिरेव । तथा च लोकेऽ-धिष्ठानावृत्यनन्तरं भ्रान्तिर्दृष्टा । प्रकृते च ब्रह्मण्यज्ञानावृते सति पश्चात्तत्र नास्तीत्यादि-भ्रान्तिर्वाच्या । ततश्च भ्रान्तेरावृतिसाध्यत्वेन आवृतित्वायोगादिति ।
अत एवेत्युक्तं विशदयति ।। तस्येति ।। आवरणत्वेति ।। आवृतित्वेत्यर्थः । तथा च प्रकाशमाने ब्रह्मणि नास्तीत्यादिव्यवहारस्याज्ञानकार्यावृत्तिसाध्यभ्रान्तिसाध्यत्वेन भ्रान्ति-हेतुभूतावृतित्वायोगादिति भावः ।। सुषुप्ताविति ।। त्वन्मते सुषुप्तावपि चैतन्यमावृत-मित्यङ्गीकृतम् । तथा चात्र सुषुप्तौ नास्तीत्यादिव्यवहाराभावेनावृत्यभावापाताच्चेत्यर्थः ।। नापीति ।। चैतन्यमस्तीत्यादिव्यवहाराभावरूपावृतिश्च सुषुप्तावप्यस्तीत्यर्थः । अत्रापि व्यवहारशब्देनाऽभिज्ञा वाऽभिलपनं वा । आद्येऽपि स्वरूपाभिज्ञा वा वृत्तिरूपा वा । नाद्य इत्याह ।। व्यवहारस्येति ।। अभिज्ञात्वे स्वरूपाभिज्ञात्वे ।। इदानीमपीति ।। चैतन्य-मस्ति प्रकाशत इत्यादिरूपज्ञानस्येदानीमपि सत्वेन तदभावरूपा आवृतिरिदानीमपि न स्यादित्यर्थः । नेतर इत्याह ।। वृत्तेश्चेति ।। तथा चास्तीत्याद्यन्तःकरणवृत्त्यभावस्या-विद्यानिवृत्तिरूपमोक्षे सत्वादज्ञानावृत्त्यापातादित्यर्थः।
आवरणकृत्यभूतामावृतिं प्रकारान्तरेणाशङ्क्य निराकरोति ।। नापीति ।। तरोरपीति ।। योग्यत्वायोग्यत्वधर्मयोर्वास्तवयोर्ब्रह्मण्यभावेनारोपितत्वमेव वाच्यम् । आरोपश्चावृतिसाध्यः । तथा चैतादृशधर्मद्वयस्यारोपितत्वेनारोपस्यावरणमावृतिं विनाऽयोगेन तयोरावृतित्वायोगा-दित्यर्थः । यत्राद्वितीयत्वादिविशिष्टे संशयादिकमावरणकल्पकमस्ति तत्र त्वया नावरणं कल्प्यते । यत्र तु चिन्मात्रे आवरणं कल्प्यते तत्र च संशयादिकमावरणकल्पकं नास्ती-त्याह ।। अद्वितीयत्वादीति ।। अस्त्यत्र सम्प्रदायः । सर्वेषां मते योग्यत्वं फलोपधानेनैव मन्तव्यम् । एवं च प्रकृते नास्तीत्याद्यपरोक्षव्यवहारेण फलोपधानेन नास्तीत्याद्यपरोक्ष-व्यवहारयोग्यत्वं कल्पनीयम् । अत्राद्वितीयत्वादिविशिष्टे योग्यत्वरूपावृतिकल्पकोक्त-फलोपधानव्यवहारेऽपि तत्कल्प्ययोग्यत्वायोग्यत्वादिरूपावृतिर्न कल्प्यत इत्यर्थः ।। अवस्थेति ।। जाग्रदादीत्यर्थः ।। तदभावेनेति ।। योग्यत्वायोग्यत्वरूपावृतिकल्पकोक्त-फलोपधानरूपव्यवहाराभावेनेत्यर्थः । तथात्वे अधिष्ठानत्वादिकमेव न स्यादित्यर्थः । तत्कल्प्ययोः=उक्तफलोपधानरूपव्यवहारकल्प्ययोः । उक्तायोग्यत्वादिरूपावृतेर्मोक्षकाले यथाऽभावस्तथेदानीमपि तदभावोऽङ्गीकार्य एव । अन्यथेदानीमपि नास्तीत्यादिव्यवहार-योग्यत्वास्तीत्यादिव्यवहारायोग्यत्वरूपावृत्यङ्गीकारे इदानीमपि त्वया ब्रह्मणः अस्ति प्रकाशत इत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वस्याङ्गीकृतत्वेन तद्विरोधः स्यादित्याह ।। तयो-रपीति ।। योग्यत्वायोग्यत्वरूपावृत्योरित्यर्थः ।। विरुद्धत्वेनेति ।। अयोग्यत्वरूपावृतेर-भावरूपतया स्वप्रकाशत्वेन विरोधः योग्यत्वरूपावृतेस्तु तदभावव्याप्यतया स्वप्रकाशत्वेन विरोध इति द्रष्टव्यम् ।
ननु स्वप्रकाशत्वलक्षणेन अस्तीत्यादिव्यवहारायोग्यत्वरूपावृत्यङ्गीकारे न विरोधः । अज्ञानावच्छेदकत्वं यदास्ति ब्रह्मणस्तदाऽज्ञानावच्छेदेनास्तीत्याद्यपरोक्षव्यवहारयोग्यत्वरूपं स्वप्रकाशत्वमस्ति । स्वरूपापेक्षया तु अस्तीत्यादिव्यवहारायोग्यत्वरूपावृतिरस्तीत्यङ्गी-कारादित्याशङ्क्य निराकरोति ।। न चेति ।। अज्ञानावच्छिन्नत्वेनेति ।। अज्ञानमवच्छिन्नं यस्यावच्छेदकस्य तदज्ञानावच्छिन्नम् । तत्वेन अज्ञानावच्छेदकत्वेनेत्यर्थः । यद्वाऽज्ञाना-वच्छिन्नत्वेनाऽज्ञानावच्छेदेनेत्यर्थः । अत एवोत्तरत्र अज्ञानावच्छेदेनेत्येव व्यवहारः ।। स्वरूपस्येति ।। यस्त्वरूपे योग्यत्वरूपावृतिरङ्गीकृता तस्यास्वप्रकाशत्वापातात् प्रत्युता-ज्ञानावच्छेदकत्वविशिष्ट एव तदापातादित्यर्थः । किं च ब्रह्मणोऽज्ञानावच्छेदकत्वमङ्गीकृत्य तदवच्छेदेनापरोक्षव्यवहारयोग्यत्वेन स्वप्रकाशत्वाङ्गीकारे नित्यातीन्द्रियस्यापि स्वप्रकाशत्वा-पातात् तस्य नित्यातीन्द्रियत्वेनैव स्वरूपेणास्तीत्याद्यपरोक्षव्यवहारायोग्यत्वेऽपि धर्मादिकं न जानामीति तद्विषयकाज्ञानस्य साक्षिरूपत्वेनापरोक्षतया तदवच्छेदकतया तस्याप्यपरोक्ष-व्यवहारयोग्यत्वादित्याह ।। नित्यातीन्द्रियस्यापीति ।। एवमज्ञानकृत्यभूतावृत्यभाव-मुक्त्वाऽज्ञानस्यावरणत्वकथनमप्ययुक्तमित्याह ।। इच्छादीति ।।
अयं भावः । लोके तदेवावरकं यत्स्वावच्छिन्नप्रकाशविरोधि यथा नेत्रपटलादि । यथा इष्टमितीच्छावच्छिन्नवस्तुप्रकाशविरोधित्वं इच्छायां नास्ति । विशेष्यस्य प्रकाशमानत्वात् । अत इच्छाया नावरकत्वमित्यङ्गीकृतम् । एवमज्ञानावच्छिन्नस्य प्रकाशे विशेष्यस्यापि ब्रह्मणः प्रकाशान्न तदज्ञानं स्वावच्छिन्नप्रकाशविरोधीति न तदावरकम् । अन्यथा इच्छाया अप्यावर-कत्वापातादिति । किञ्च सुखादीनां चिन्मात्रप्रकाश्यत्वं तावदङ्गीकृतम् । अन्यथा तत्राज्ञान-प्रसङ्गात् । सुखादिप्रकाशकं च चिन्मात्रं अज्ञानावच्छिन्नमेव जातम् । तथा च सुखादि-प्रकाशरूपस्य ब्रह्मणोऽज्ञानावच्छिन्नत्वादिदानीं सुखादिप्रकाशो नास्तीत्युक्तं स्यात् । तथा च सुखादिकं न प्रकाशत इत्यनुभवः स्यात् । न चैवमस्ति । अतः सुखादिकं प्रकाशत इत्यनुभवार्थं सुखादिप्रकाशरूपस्य ब्रह्मणोऽज्ञानावच्छेदेन प्रकाशोऽङ्गीकार्यः । तथा चाज्ञाना-वच्छेदेन ब्रह्मणोऽपरोक्षव्यवहारयोग्यत्वमिति विरोधपरिहारायोगेन व्यवहारयोग्यत्वरूप-स्वप्रकाशत्वमपि व्यवहारायोग्यत्वरूपावृतिविरुद्धमेवेत्याह ।। सुखादेरिति ।। एतेनेति ।। अपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वेन सह व्यवहारायोग्यत्वस्य विरुद्धत्वेनेत्यर्थः । अपरोक्षव्यवहारायोग्यत्वमात्रस्यैवावृतित्वे ब्रह्मणोऽप्यज्ञानावच्छेदेनापरोक्षव्यवहारयोग्यत्वे-नेदानीमावृत्यभावापातात् । अतोऽज्ञानाविशेषितेति व्यवहारो विशेषितः । तथा च स्वरूप-मात्रेणापरोक्षव्यवहारायोग्यत्वमेवावरणस्यावरकस्याज्ञानस्य कृत्यं आवृतिरित्यर्थः ।
नन्वावृतेर्न स्वप्रकाशत्वेन विरोधः । अस्तीत्याद्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वस्य सत्यत्वात् । अपरोक्षव्यवहारायोग्यत्वरूपाप्रकाशस्यावृत्याख्यस्यारोपितत्वेन मिथ्यात्वात् । न ह्यारोपितरूपेण वास्तवनीरूपत्वस्य विरोधोऽस्तीत्याशङ्क्य निराकरोति ।। न चोक्तेति ।। अस्तीत्यपरोक्षव्यवहारः उक्तशब्दार्थः । अप्रकाशः आवृतिः ।। सुखादिति ।। सुखादि-प्रकाशरूपे साक्षिचैतन्येऽप्रकाशारोपोऽपि न सम्भवति येन सत्यत्वारोपितत्वाभ्यां विरोध-परिहारः स्यात् । कुत इति चेदुच्यते । ज्ञानमेव हि प्रमेयसाधकम् । तथा च यथा शुक्ता-वशुक्त्यारोपो भवति । कुतः ? इयं न शुक्तिरित्यनुभवादित्युच्यते । एवं सुखादिस्फुरणरूपे चैतन्येऽप्रकाशारोपाङ्गीकारे तत्साधकस्य सुखादिस्फुरणं न प्रकाशत इत्यनुभवस्यापातात् । न चैवमारोपसाधकोऽनुभवोऽस्तीत्यर्थः । किं चारोपितेन व्यवहारायोग्यत्वरूपाप्रकाशा-ख्यावरणेन तत्कार्यव्यवहाराद्यभावो न सम्भवति । वह्नौ गुञ्जापुञ्जारोपेऽपि तस्य स्पर्शे सति वह्निकार्यमेव दाहादिकं दृश्यते । न गुञ्जापुञ्जकार्यम् । तथा प्रकृते प्रकाशरूपे ब्रह्मणि अयोग्यत्वरूपाप्रकाशारोपेऽपि प्रकाशकार्यं यत् आवरणनिवृत्तिद्वारा नास्तीत्यादिभ्रान्त्याद्य-भावरूपं तदेव स्यादित्याह ।। वह्नाविति ।। किं च सामान्यत आरोपितानारोपितयोर्विरोधो नास्ति । वास्तवशुक्तित्वमिथ्याशुक्तित्वयोर्विरोधाभावदर्शनात् वास्तवत्वेन सतोऽधिष्ठान-प्रकाशस्य तु तदधिष्ठानकभ्रममात्रेण विरोधोऽस्ति । शुक्तित्वेन रूपेण सम्यक् शुक्तिप्रकाशे सति तदधिष्ठानकभ्रममात्राभावदर्शनात् । अतोऽधिष्ठानत्वेन प्रकाशमानेऽप्रकाशारोप एव न सम्भवतीति सत्यत्वमिथ्यात्वाभ्यामविरोधकल्पनमयुक्तमित्याह ।। सत इति ।। अन्यथेति ।। अधिष्ठानप्रकाशेऽपि यद्यारोपोऽङ्गीक्रियते तर्ह्यारोपनिवर्तकान्तराभावात् तन्निवृत्तिरेव न स्यादित्यर्थः ।
ननु स्वप्रकाशत्वावरणयोरेकत्र सामानाधिकरण्याभावेन सहानवस्थानरूपो विरोधो वाच्यः । न चासौ सम्भवति । तथाहि– ‘‘अपरोक्षव्यवहारयोग्यत्वम् अपरोक्षव्यवहारा-योग्यताभावः । अयोग्यताभावश्च योग्यतात्यन्ताभावानधिकरणत्वम् । आवरणं च उक्त-योग्यताभावः । अभावश्चात्र प्रागभावो विवक्षितः ।’’ (इति अत्र पाठेन भाव्यमिति भाति) तथा हि अपरोक्षव्यवहारयोग्यत्वं अयोग्यत्वं योग्यताभावः, अभावश्च प्रागभावानधिकरणत्वं, अपरोक्षव्यवहारायोग्यत्वं चावरणम्, अयोग्यत्वं योग्यताभावः, अभावश्च प्रागभावो विवक्षितः, तदत्यन्ताभावानधिकरणत्वतत्प्रागभावयोश्च न विरोधः । एकस्मिन्नेव मृत्पिण्डे घटात्यन्ता-भावानधिकरणत्वतत्प्रागभावयोश्च सहावस्थानदर्शनात् । एवं च तदत्यन्ताभावानधिकरणस्यैव तत्प्रागभावाधिकरणत्वनियमात् अपरोक्षव्यवहारयोग्यतात्यन्ताभावानधिकरणत्वरूपस्वप्रकाश-त्वस्य अपरोक्षव्यवहारयोग्यतारूपप्रकाशप्रागभावरूपावरणस्य च ब्रह्मणि समावेशसम्भवात्को विरोध इत्याशङ्क्य निराकरोति ।। न चेति ।। अपरोक्षव्यवहारयोग्यत्वस्य स्वरूपप्रयुक्त-स्यानादित्वेन तत्प्रागभावायोगादावरणस्यापरोक्षव्यवहारयोग्यताप्रागभावरूपतामङ्गीकृत्या-विरोधकथनमयुक्तमित्याह ।। स्वरूपेति ।। बलात्कारे चाह ।। इदानीमिति ।। योग्यता-त्यन्ताभावानधिकरणत्वेन स्वप्रकाशे ब्रह्मणि योग्यताप्रागभावमादायाप्रकाशरूपावरणोक्तौ, वयमपि वदामः सामान्यतोऽपरोक्षव्यवहारयोग्यताभाव एवावरणम्, अभावश्च ध्वंसोऽपि विवक्षितः, एवं चापरोक्षव्यवहारायोग्यताध्वंसस्याप्यावरणत्वात्तस्य च निरुक्तस्वप्रकाशत्वेना-विरोधात् । घटात्यन्ताभावानधिकरणस्यैव मृत्पिण्डस्य घटप्रागभावाधिकरणत्ववत् तद्ध्वंसाधिकरणत्वदर्शनात् । तथा चेदानीं योग्यतारूपप्रकाशप्रागभावेनाप्रकाशरूपावरण-सद्भावः । मोक्षे तु योग्यताध्वंसमादाय तदाप्यप्रकाशः स्यात् । आवरणं स्यादिति यावदित्यर्थः ।
ननु प्रागभावदशायामेवाप्रकाशव्यवहारो न तु तद्ध्वंसदशायामित्यत आह ।। भवति हीति ।। पूर्वं दीपप्रागभावदशायाम् । पश्चात् दीपध्वंसदशायाम् । सङ्गृह्णाति ।। एवं चेति ।। स्वप्रभत्वेन स्वप्रकाशत्वेन । व्यवहारार्हे व्यवहारयोग्ये । अविद्यावरणं अविद्या-कृत्यरूपा आवृतिः । चैतन्यं आवृताभिमतकालेऽपि प्रकाशते स्वप्रकाशत्वाद्दीपवत् । तथा च प्रकाशरूपचैतन्यस्यावृतत्वकथनं व्यर्थमित्याशयेनाह ।। किञ्चेति ।। दीपेति ।। यथा दीपावरकं घटादि दीपस्य घटादिविषयान्तरसम्बन्धप्रतिबन्धकं अन्यं प्रति दीपकर्मक-ज्ञानजननप्रतिबन्धकमेव दृष्टं न तु दीपं प्रत्येव दीपगतप्रकाशस्यापि प्रतिबन्धकम् । घटावृतस्यापि दीपस्य घटान्तःप्रकाशमानत्वात् । अन्यथा घटस्य दीपस्वरूपप्रकाशं प्रत्यपि प्रतिबन्धकत्वमङ्गीकृत्य घटावृतोऽपि दीपो न प्रकाशत इत्यङ्गीकारे दीपस्वरूपेऽपि तमस्स-म्बन्धापत्तेः । एवं प्रकृतेऽपीति न प्रकाशरूपचैतन्यस्वरूपे आवरणमिति भावः ।
ननु घटादेर्दीपं प्रत्येव दीपप्रकाशविरोधित्वाभावेऽपि अन्यं प्रति तत्प्रकाशविरोधित्वं तावदस्त्येव । एवमज्ञानस्य चैतन्यं प्रत्येव चैतन्यप्रकाशविरोधित्वाभावेऽपि जीवचैतन्यं प्रति शुद्धचैतन्याच्छादकत्वं युक्तम् । न च तयोश्चैतन्ययोरभेदात्स्वं प्रत्येव च स्वाच्छादकत्वं प्राप्तं तच्चायुक्तमिति वाच्यं, तयोः कल्पितभेदसद्भावेनोपपत्तेरित्याशयेन शङ्कते ।। नन्विति ।। आवरणं विनेति ।। आवृतिं विनेत्यर्थः । चैतन्यस्याव्रियमाणत्वे सिद्धे आवरणसिद्धिः तत्सिद्धौ च तत्कल्पितभेदं जीवचैतन्यं प्रति चिन्मात्रस्याव्रियमाणत्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः । किञ्च श्रवणादिसाध्यतत्वसाक्षात्कारेण यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः परमपुरुषार्थरूपस्तदभाव एव संसारदशायां आवरकाज्ञानेन साधनीयो न तु कल्पितभेदं जीवं प्रति तदप्रकाशः । न हि मुक्तौ जीवचैतन्यं प्रति शुद्धचैतन्यप्रकाशोऽस्ति तस्योपहितस्य तत्वज्ञाननिवर्त्यत्वेनोक्तपुरुषार्थभाक्त्वाभावादित्याह ।। यो मोक्ष इति ।। चैतन्यमावृताभिमतकालेऽपि प्रकाशते स्वप्रकाशत्वाद्दीपवदित्यनुमाने स्वविषयकत्वमुपाधि-रित्याशङ्क्य निराकराति ।। न चेति ।। न तथेति ।। कर्तृकर्मविरोधादिति भावः । चैतन्ये स्वविषयकत्वानङ्गीकारे मोक्षे चैतन्यप्रकाश एव न स्यात् । चिन्मात्रेण स्वेनैव हि प्रकाशो वाच्यः । स चायुक्तः कर्तृकर्मविरोधात् । किञ्च स्वप्रकाशत्वेन स्वविषयक-प्रकाशप्रसक्तौ सत्यां तत्प्रतिबन्धकत्वेनाज्ञानरूपमावरणं कल्प्यते । चैतन्यस्य स्वविषय-कत्वानङ्गीकारे स्वप्रकाशत्वप्रयुक्तप्रकाशप्रसक्तेरेव वक्तुमशक्यत्वेनावरकाज्ञानकल्पनावैयर्थ्यात् । अतः स्वविषयकत्वे चैतन्यस्याङ्गीकार्ये साधनव्यापकत्वान्नायमुपाधिरित्याह ।। मोक्षेऽ-पीत्यादिना ।।
ननूक्तरीत्याऽवरणकृत्यासम्भवेनाज्ञानासम्भवो न युक्तः । तस्या न जानामीति साक्षि-सिद्धत्वात् । न च प्रकाशमाने चैतन्येऽज्ञानायोग इति वाच्यम् । तस्य तत्स्फोरकत्वेन तदविरोधित्वात् । न च प्रकाशमानेऽज्ञानमदृष्टचरमिति वाच्यम् । त्वदुक्तमर्थं न जानामीति प्रकाशमान एवार्थेऽज्ञानदर्शनात् । कथमिति चेदत्र हि अज्ञानावच्छेदकस्यार्थस्य ज्ञानाभावे तदवच्छिन्नाज्ञानज्ञानायोगात् अर्थावच्छिन्नाज्ञानज्ञाने वाच्येऽर्थस्यापि तदवच्छेदकतया ज्ञानेऽपि तत्रार्थेऽज्ञानमनुभूयत एव । न चाज्ञानावच्छेदकस्याज्ञानेऽपि तदवच्छिन्नाज्ञानज्ञानं सम्भवत्येव । कथमिति चेत् सामान्येनार्थत्वादिना ज्ञातेऽर्थे विशेषेणाज्ञानमङ्गीक्रियते । तथा च येन रूपेणार्थः प्रकाशते तेनैव रूपेण तद्विषयकाज्ञानानङ्गीकारात् । तथा च प्रकाशमाने कथमज्ञानमिति वाच्यम् । सामान्यतोऽर्थस्य ज्ञानानङ्गीकारे तदवच्छिन्नाज्ञानज्ञानायोगात् सामान्यतोऽर्थस्य ज्ञानेऽङ्गीकार्ये सामान्यस्य ज्ञातत्वादेव ज्ञानानवच्छेदकत्वेनाज्ञानावच्छेद-कस्याप्यर्थे सामान्यस्य विशेषत एव ज्ञानमङ्गीकार्यम् । न च विशेषस्यापि ज्ञातत्वादेव नाज्ञानावच्छेदकत्वं विरोधादिति वाच्यम् । विशेषज्ञानस्य साक्षिरूपताङ्गीकारात् । तस्य चाज्ञानाविरोधित्वात् । अतः प्रकाशमान एवार्थगते विशेषेऽज्ञानस्य दर्शनेन प्रकृतेऽपि प्रकाशमान एव चैतन्येऽज्ञानमङ्गीकार्यं चैतन्यस्याज्ञानाविरोधित्वात् । न च चैतन्यस्य अज्ञानाविरोधित्वेऽज्ञाननिवृत्तिरेव न स्यात् निवर्तकान्तराभावादिति वाच्यम् । अविद्या-निवृत्तेरात्ममात्रविषयकनिष्प्रकारकचरमवृत्त्याख्यवृत्तिविशेषादेवोपपत्तेः ।
ननु वृत्तिचितोरुभयोरपि आत्ममात्रविषयकत्वाविशेषात् वृत्तेरेवाज्ञानविरोधित्वं न चैतन्यस्येति विशेषः कथं एकविषयकत्वाविशेषेऽपि एकस्य विरोधित्वं अपरस्याविरोधित्व-मित्यस्य विशेषस्य लोकेऽदर्शनादिति चेन्न । सौरालोकस्यायं घट इति ज्ञानस्य च घट-विषयकत्वाविशेषेऽपि सौरालोकस्यैवान्धकारनिवर्तकत्वं न घटज्ञानस्य घटज्ञाने सत्यप्यन्धकारानिवृत्तेः । यथा वा सौरप्रकाशस्य बहिर्निःसृतचक्षुःकिरणरूपचाक्षुषप्रकाशस्य च घटविषयकत्वाविशेषेऽपि सौरप्रकाशस्यैवान्धकारनिवर्तकत्वं न चाक्षुषप्रकाशस्य चाक्षुष-प्रकाशे सत्यपि रात्रावन्धकारानिवृत्तेर्दृष्टत्वात् ।
नन्वेकविषयकज्ञानयोर्विरोधित्वाविरोधित्वे न दृष्टे इत्युच्यते सौरालोकस्तु न ज्ञानं अतश्च दृष्टान्तो न युक्त इति चेन्न । शङ्खगतश्वैत्यविषयकप्रत्यक्षस्य पैत्यभ्रमविरोधित्वेऽपि श्वैत्यानु-मितेस्तददर्शनादेकविषयकत्वेऽपि वृत्तिचितोरज्ञानविरोधाविरोधोपपत्तेः । तथा च प्रकाशमाने चैतन्ये आवरणकृत्याभावेऽपि अनुभवसिद्धत्वात्तत्राज्ञानमविरुद्धमित्यस्मत्सिद्धान्तरहस्यमित्या-शङ्कते ।। अथ मतमित्यादिना रहस्यमित्यन्तेन ।। सिद्धान्ताभिधानं प्रतिजानीते ।। अत्रोच्यत इति ।। जीवस्य ब्रह्माभिन्नत्वेनापरिच्छिन्नानन्दस्येदानीमपि प्रकाशप्रसक्तौ सत्यां तदप्रकाशार्थमेव त्वयाऽज्ञानस्य कल्पितत्वात् प्रकाशमानेधित्वेन कल्प्यमानमज्ञानं कथं प्रकाशमाने युक्तं स्यात् । तथा च प्रकाशमानेऽज्ञानमिति त्वद्वचनमेवायुक्तमित्याह ।। त्वयापीति ।। ननु त्वदुक्तमर्थं न जानामीत्यत्र भासमान एव विशेषेऽज्ञानं दृष्टमिति चेत्तत्राह ।। अपि चेति ।। सुखादिस्फुरणं चैतन्यमित्यर्थः । भासमाने चैतन्ये तद्विषये । तत् अज्ञानम् । त्वदुक्तमर्थं न जानामीत्यत्र भासमान एवाज्ञानमस्त्वित्यङ्गीकृत्योक्तं, वस्तुतस्तु न तत्रापि भासमान एवार्थेऽज्ञानमित्याह ।। किं चेति ।। तत्रापि त्वदुक्तमर्थं न जानामीत्यत्रापि ।। गुहास्थमिति ।। यथा हि गुहास्थं वस्तु तमसाच्छन्नमित्युक्ते गुहास्थं घटादिकं गुहास्थत्वेनैव रूपेण सामान्यतः प्रतीयते एवं च गुहास्थत्वेन रूपेण सामान्यतः प्रतीत एव घटादौ विशेषे तमश्छन्नत्वमनुभूयते एवं त्वदुक्तमर्थं न जानामीत्यत्रापि अनावृतं अज्ञानानावृततया सदा प्रतीयमानं यदर्थत्वादिकं सामान्यं तदवच्छेदेनैव विशेषाज्ञानमनु-भूयते । एवं च तद्विशेषाज्ञानज्ञाने तत्सामान्यज्ञानस्यैव हेतुत्वेन तस्य च सामान्याकारस्य प्रतीयमानत्वान्न तत्राज्ञानं किं तु विशेष एव । तथा च यद्भासते न तत्राज्ञानम् । यत्राज्ञानं सोऽर्थो न प्रकाशत इति न भासमानेऽज्ञानमिति भावः । अज्ञानानुभवात् विशेषाज्ञानानु-भवादित्यर्थः । विशेषाकारेण प्रकाशमान एवाज्ञानमिति वदतो बाधकमाह ।। न हीति ।। अज्ञानं अज्ञानावच्छेदकीभूतं वस्तु ।। बुभुक्षेत्यादि ।। बुभुक्षापिपासाद्यवच्छिन्नतत्त-त्प्रातिस्विकरूपेणेत्यर्थः । त्वदुक्तमर्थं न जानामीत्यत्र विशेषरूपेण प्रकाशमान एवाज्ञान-मिति वदतैवमनुवदितव्यं परबुभुक्षापिपासाविषयोऽर्थो य इममर्थमहं न जानामीति । अज्ञानावच्छेदकतया बुभुक्षापिपासाविषयतद्विशेषरूपार्थानुवादः स्यात् । न चैवं परचित्तस्थ-बुभुक्षाविषयार्थविशेषादेर्ज्ञातुमशक्यत्वादिति भावः ।
ननु तदवच्छेदकविशेषस्याज्ञाने कथं तदवच्छिन्नाज्ञानज्ञानमुपपद्येतेत्यत आह ।। एवं चेति ।। तद्विशेषेति ।। यथा ऊर्ध्वपदार्थविशेषभूतस्थाण्वादिसंशये ऊर्ध्वपदार्थसामान्य-निश्चयस्यैव हेतुत्वं न विशेषनिश्चयस्यापि तथात्वे तत्संशयस्यैवानुपपत्तेरित्यर्थः ।। दर्शना-दिति ।। विशेषे तमश्छन्नत्वज्ञानं प्रति गुहास्थत्वादिसामान्याकारेण ज्ञानस्य हेतुत्व-दर्शनादित्यर्थः । ननु विशेषावच्छिन्नाज्ञानज्ञानं प्रति विशेषज्ञानमेव हेतुः किं न स्यादित्यत आह ।। न हीति ।। ननु विशेषाज्ञानं प्रति विशेषस्यैवावच्छेदकत्वे सामान्यस्या-नवच्छेदकतया कथं विशेषावच्छिन्नाज्ञानज्ञानं प्रति सामान्यज्ञानं हेतुः स्यादित्यत आह ।। अवच्छेदकेति ।। अवच्छेदकज्ञानस्यावच्छिन्नज्ञानहेतुत्वं दण्डी देवदत्त इत्यादौ दृष्टत्वादेव कल्पनीयं प्रकृते त्वज्ञानज्ञानं प्रति अज्ञानानवच्छेदकस्यापि सामान्यस्य हेतुत्वं कल्पनीयं संशयस्थले दर्शनबलादेवेत्यर्थः ।
नन्वज्ञानानवच्छेदकत्वाविशेषात्सामान्यस्येवान्यस्यापि पदार्थस्य ज्ञानं विशेषाज्ञानज्ञाने हेतुः स्यादित्यतिप्रसङ्ग इति चेत्तत्राह ।। सामान्येति ।। यस्य पदार्थस्य विशेषरूपेणाज्ञानं तस्यैव सामान्यरूपेण ज्ञानं विशेषाज्ञानज्ञाने हेतुरिति नियामकसद्भावान्नातिप्रसङ्ग इत्यर्थः । अज्ञानविषयीभूतस्य विशेषाकारस्य ज्ञानाभावेऽपि तद्विषयकाज्ञानस्य ज्ञानं सम्भवतीति दर्शनादित्युक्तम् । न केवलमेतावत् किन्तु युक्तं चेत्याह ।। युक्तं चेति ।। अज्ञान-ज्ञानमिति सम्बन्धः ।। द्वेषस्येति ।। चैत्रविषयको द्वेषो मैत्रस्य इष्टः इच्छाविषयो भवति तथापि यो द्विष्टो द्वेष्यश्च तस्य मैत्रकर्तृकेच्छाविषयत्वाभावात् इष्टत्वद्विष्टत्वयोः परस्परं विरोधादित्यर्थः ।। अस्मदादीनामिति ।। अस्मदादिभ्रान्तिविषयभूतरजतज्ञानवत्त्वे ईश्वर-स्यापि भ्रान्त्यापत्तेरिति भावः ।। सर्वेति ।। ईश्वरज्ञानविषयीभूतसर्वस्य विशेषाकारेण ज्ञानाभावेऽपीत्यर्थः । तेन सर्वपदादिना सर्वज्ञानमस्माकमप्यस्तीति निरस्तम् ।। ईश्वरेति ।। ईश्वरः सर्वज्ञ इति ज्ञानस्यास्माकमपि सत्वादित्यर्थः ।। अज्ञातेति ।। अज्ञानविषयी-भूतविशेषस्येत्यर्थः ।। अज्ञानस्येति ।। विशेषविषयकेत्यर्थः । तथा च यथेच्छविषयो यो द्वेषस्तद्विषयभूतस्य चैत्रस्य इच्छाविषयत्वरूपेष्टत्वाभावेऽपि तद्विषयकद्वेषस्येच्छाविषयत्व-रूपमिष्टत्वमस्ति, यथा चेश्वरस्यास्मदादिभ्रमरूपज्ञानविषयस्य रजतादेर्ज्ञानाभावेऽपि भ्रमरूप-ज्ञानविषयकज्ञानं, यथा वास्मदादेः सर्वविषयकज्ञानस्य विशेषाकारेणाभावेऽपि ईश्वरः सर्वज्ञ इति ईश्वरीयसार्वज्ञज्ञानं एवमज्ञानविषयस्यापि विशेषाकारस्य ज्ञानाभावेऽप्यज्ञानज्ञानं युक्त-मिति समुदायार्थः ।। अन्यथेति ।। अज्ञानज्ञानार्थं ज्ञानावच्छेदकीभूतविशेषस्यापि ज्ञातव्यत्व इत्यर्थः । मोहभानार्थम् अज्ञानप्रतीत्यर्थम् । अज्ञातभानम् अज्ञानावच्छेदकी-भूतविशेषज्ञानम् । अज्ञाते अज्ञानावच्छेदकीभूतविशेषे । मोहहानिः अज्ञानहानिः । तदर्थं मोहभानार्थम् । विशेषज्ञानानिवृत्तौ विशेषज्ञानाभावेन तदवच्छिन्नाज्ञानज्ञानायोगादिति भावः । कारिकां व्याचष्टे ।। तथा हीत्यादिना ।।
अयमर्थः । अज्ञानज्ञानार्थं यदि तदवच्छेदकीभूतविशेषाकारज्ञानं कल्प्यते तच्च ज्ञानं साक्षिरूपमिति अज्ञानाविरोधिज्ञानं कल्प्यते तर्ह्यज्ञानाविरोधिनी काचिदज्ञाननिवृत्तिरपि कल्प्या स्यात् । तथा हि । घटपटयोः संयोग इत्यत्र घटावच्छिन्नसंयोगज्ञाने सम्बन्धिता-वच्छेदकसम्बन्धिज्ञानस्य कारणत्वात् । ननु घटादिकं न जानामीति अज्ञानावच्छेदकतया यथा कथञ्चिद्घटज्ञानमस्तीति चेत् तादृशेन घटज्ञानेन घटाज्ञाननिवृत्तेः । घटाद्यज्ञानानिवृत्तौ च घटादिज्ञानाभावप्राप्त्या तदवच्छिन्नसंयोगज्ञानायोगात् । एवमज्ञानज्ञानार्थं विशेषज्ञानाङ्गी-कारे विशेषाज्ञाननिवृत्तिरप्यङ्गीकार्या । तदज्ञानानिवृत्तौ विशेषज्ञानाभावप्राप्त्या तदवच्छिन्ना-ज्ञानज्ञानायोगात् । अतोऽज्ञानभानार्थं अज्ञानावच्छेदकीभूतविशेषाज्ञाननिवृत्तिरप्यङ्गीकार्या । ननु तर्हि विशेषाज्ञाननिवृत्त्यङ्गीकारे विशेषाज्ञानायोगो विरोधादिति चेन्न । अज्ञाना-विरोधिज्ञानवत् अज्ञानाविरोधिनी अज्ञाननिवृत्तिरप्यङ्गीकार्या स्यादित्यतिप्रसङ्ग इति ।
ननु विषयावच्छिन्नाज्ञानज्ञानस्य न विषयाज्ञाननिवृत्तिसापेक्षत्वं विरोधात् । ननु घटाद्यवच्छिन्नसंयोगादिज्ञाने दर्शनादिति चेन्न । न ह्येकत्र दृष्टं सर्वत्राप्यङ्गीकर्तुं शक्यते । तथा हि लोके दण्डावच्छिन्नदेवदत्तसत्त्वस्यावच्छेदकदण्डसत्त्वसापेक्षत्वदर्शनेऽप्यारोपित-घटावच्छिन्नाभावसत्त्वं नावच्छेदकीभूतारोपितघटसापेक्षं विरोधात् आरोपितघटसत्त्वाभावात् । एवं प्रकृतेऽपीत्याशङ्कते ।। अथेति ।। तर्हीति ।। एवं तर्हि त्वदुक्तमर्थं न जानामीत्यत्रापि विशेषविषयकाज्ञानेऽपि न तदवच्छेदकविषयज्ञानसापेक्षत्वं विरोधादेव । न हि विशेषतो ज्ञाने तदज्ञानधीर्दृष्टेति भावः ।। ज्ञानान्तरेति ।। वृत्तिरूपज्ञानेत्यर्थः । अन्यत्र संयोगादि-स्थले ।। अवच्छिन्नज्ञानविरोधित्वेऽपीति ।। अवच्छेदकज्ञानाभावेऽवच्छिन्नज्ञानाभावादिति भावः ।। अज्ञानावच्छेदकज्ञानाभावस्येति ।। अज्ञानावच्छेदकीभूतविशेषज्ञानाभावस्येत्यर्थः ।। अवच्छिन्नज्ञानेति ।। विशेषावच्छिन्नाज्ञानज्ञानेत्यर्थः । तथा चावच्छेदकीभूतविशेष-ज्ञानाभावेऽपि सामान्यतो ज्ञानमात्रेण विशेषावच्छिन्नाज्ञानज्ञानसम्भवात् । न ह्येकत्र दृष्ट-मेवान्यत्राङ्गीकार्यमिति नियमस्तथात्वे वृत्तिवत्साक्षिणोऽपि अज्ञानविरोधित्वं स्यादिति भावः ।
ननु सामान्यत एव ज्ञाने सति विशेषज्ञानाभावेऽपि तदवच्छिन्नाज्ञानज्ञानाङ्गीकारेऽ ज्ञानविषयतयाऽवच्छेदकीभूतो विशेष एतादृश इति विशेषसिद्धिरेव न स्यात् । ज्ञाय-मानाज्ञानावच्छेदकतया एतज्ज्ञानेनैव तत्सिद्धेर्वाच्यत्वात् । तस्याश्च त्वायानङ्गीकारादित्या-शङ्कमानं मन्दं प्रत्याह ।। अज्ञानस्येति ।। अज्ञानविषयीभूतो यो विशेषस्तद्रूपावच्छेदक-सिद्धिस्तु अनुभवान्तरादित्यर्थः ।। तमस इवेति ।। यथा तमसा आव्रियमाणो विशेष-स्तत्काले तमोविषयत्वेनाज्ञायमानोऽपि तमोनिवृत्त्यनन्तरं पदार्थविशेषज्ञानानन्तरं पदार्थः पूर्वं तमसाऽऽवृतोऽभूदिति ज्ञानान्तरेण तमोविषयविशेषसिद्धिर्भवति एवमिहापि वृत्त्याऽज्ञाननिवृ-त्त्यनन्तरं अज्ञानविषयविशेषज्ञानानन्तरं अमुमर्थमेवं नाज्ञासिषमिति ज्ञानान्तरादज्ञानविषय-विशेषसिद्धिर्भवतीत्यर्थः । चैतन्यस्य अज्ञानानावृतचैतन्यस्य ।। तस्या इति ।। एतन्मते आवरणभूताज्ञानस्यैवाभावेन वृत्तेरज्ञानविरोधित्वोक्त्ययोगादिति भावः ।। अज्ञानस्येति ।। तथा च स्वविरोधिवृत्तिज्ञानाभावो यदा तदाऽज्ञानमिति स्वविरोधिज्ञानाभावं प्रति अज्ञानस्य व्यापकत्वान्मोक्षे च व्यापकीभूताज्ञानाभावाद्व्याप्यस्य ज्ञानाभावस्याभावापत्त्या वृत्तिज्ञाना-पातादित्यर्थः ।। विरोधित्वेति ।। ज्ञाधात्वर्थभूतचैतन्यवृत्तिरूपज्ञानसामान्यविरोध एवानु-भवेन प्रतीयते न तु वृत्तिज्ञानविरोध एव । तथा च चैतन्यस्यापि वृत्तिवदज्ञानविरोधित्वं स्यादित्यर्थः ।। ज्ञप्तीति ।। ज्ञाधातोर्जादेशविधानात् ज्ञाधात्वर्थभूतज्ञप्तिरेव भावव्युत्पत्त्या प्रतीयते तद्विरोधित्वं च नञर्थ इत्यर्थः ।
ननु ज्ञप्तिविरोधित्वानुभवेऽपि तच्चैतन्यविरोधित्वालाभ इत्यत आह ।। त्वदिति ।। चैतन्येति ।। चैतन्याख्यज्ञप्तिरूपमुख्यज्ञानाविरोधित्वादज्ञानं मुख्याज्ञानमेव न स्यात् चैतन्यं वा मुख्यज्ञानं न स्यात् अमुख्यज्ञानरूपवृत्तिविरोधित्वादमुख्याज्ञानमेव स्यादित्युक्त-त्वादित्यर्थः । इतोऽपि चैतन्यस्याज्ञाननिवर्तकत्वं वाच्यं निवर्तकतावच्छेदकसद्भावादित्याह ।। वृत्तेरिति ।। अर्थप्रकाशकत्वं ज्ञानत्वम् । जातिविशेषो वृत्तित्वम् ।। तत्कार्येति ।। भ्रान्तीत्यर्थः ।। सत्यत्वेति ।। ज्ञानत्वेन ज्ञाननिवर्त्यत्वाप्राप्त्या अज्ञानतत्कार्ययोर्मिथ्यात्वा-लाभादित्यर्थः । अर्थप्रकाशकत्वेन ज्ञानत्वेन । तत्वेन निवर्तकतावच्छेदकीभूतज्ञानत्वयुक्त-त्वेन ।। तन्निवर्त्तकत्वेति ।। अज्ञाननिवर्त्तकत्वेत्यर्थः । किञ्चान्वयव्यतिरेकाभ्यां चैतन्य-स्फुरणस्यैवाज्ञानविरोधित्वम् । तथा हि चैतन्यस्फुरणाभावे नाज्ञाननिवृत्तिः नित्यातीन्द्रिये दर्शनात् । तथापि चैतन्यस्फुरणेनाज्ञाननिवृत्तौ अभिव्यक्तचित्सम्बन्धप्राप्त्या धर्मादेरापरोक्ष्या-पत्तेः । ननु तत्राज्ञाननिवृत्त्यभावः स्फुरणाभावप्रयुक्त एव । कुतः वृत्त्यभावप्रयुक्तः किं न स्यादित्यतो वृत्तेरप्रयोजकत्वं वक्तुमुक्तं परोक्षवृत्तौ सत्यामपीति । तथा चैतन्यस्फुरणे सति अज्ञानाभाव इत्यस्ति सुखादौ दर्शनात् । ननु तत्राज्ञानाभावोऽपरोक्षवृत्तिप्रयुक्त एव किं न स्यादित्यत उक्तमपरोक्षवृत्त्यभावेऽपीति । किं च चैतन्यस्फुरणस्याज्ञानविरोधित्वानङ्गीकारे आत्मा स्वप्रकाशो भवितुमर्हति स्वसत्तादशायामप्रकाशवैधुर्यात् दीपवदिति स्वप्रकाशत्व-साधनमयुक्तं स्यात् । तस्याज्ञानाविरोधित्वाङ्गीकारेण स्वसत्तायामप्रकाशसम्भवेन हेतोः स्वरूपसिद्ध्यपत्तेरित्याशयेनाह ।। स्वसत्तायामिति ।। वैषम्योक्तिश्चेति ।। सौरालोक-ज्ञानादिदृष्टान्तेनेत्यर्थः ।। अनुभवादिति ।। सुखादिविषय इत्यर्थः ।
ननु साक्षिणोऽज्ञानसाधकत्वान्न तद्विरोधित्वमिति चेत्तत्राह ।। अनुभूयते हीति ।। अज्ञानसाधकत्वेनाज्ञानविषयकयाऽनुमितिरूपवृत्त्याऽज्ञानज्ञाने सति नाज्ञानविषयकाज्ञानमनु-भूयते एवं चाज्ञानविषयकानुमितिवृत्तेर्यथाऽज्ञानविषयकाज्ञानविरोधित्वं एवं साक्षिणोऽप्य-ज्ञानसाधकत्वेनाज्ञानविषकाज्ञानविरोधित्वमेवास्ति साक्षिसिद्धाज्ञानेऽज्ञानं नास्तीति यावत् । सति चैवं वृत्तिसाक्षिणोरज्ञानविरोधित्वसाम्यान्न तयोर्वैषम्यमित्यर्थः । किञ्च साक्षिवद्वृत्तेरप्य-ज्ञानाविरोधित्वाच्च साम्यमित्याह ।। साक्षिवच्चेति ।। यथा त्वया साक्षिविषयाज्ञानविषयभूतो यो विशेषस्तद्विषयकं यदज्ञानं साक्षिसिद्धमेव तदविरोधित्वमेव साक्षिणः स्वीकृतं तस्या-ज्ञानसाधकत्वाङ्गीकारात्, एवमज्ञानसाधकानुमितिरूपवृत्तेरपि अनुमितिविषयाज्ञानविषयो यः पदार्थः तद्विषयकं यदज्ञानं अनुमितिविषयभूतमेवाज्ञानं तदविरोधित्वमेवास्ति अनुमितेरज्ञान-साधकत्वाङ्गीकारात् । अतोऽपि साम्यमित्यर्थः । अन्यथा साक्षिणोऽज्ञानाविरोधित्वे । दुःखादौ अज्ञानापत्त्येति शेषः ।। मैत्रस्येवेति ।। मैत्रस्य यथाऽज्ञानमस्ति तथेत्यर्थः । सुखादिविषये साक्ष्यन्यस्याज्ञानविरोधिनोऽभावात् साक्षिणश्च तदविरोधित्वात् । चैत्रस्येव मैत्रस्याप्यज्ञत्वं स्यात् नो चेन्मैत्रस्याप्यज्ञानं न स्यादित्यर्थः । सङ्गृह्णाति ।। एवञ्चेति ।। साक्षिणः स्वविषयविषयकाज्ञानविरोधित्वाभावे सुखादावज्ञानं केन वार्यते तत्र वृत्तेरभावादिति भावः ।
ननु साक्षिविषये सुखादौ अज्ञानप्रसक्तिरेव नास्तीति न तद्वारकापेक्षा । वृत्तिस्तु स्वविषये प्रसक्ताज्ञाननिवर्तिकेति तयोर्वैषम्यमित्याशङ्कते ।। इच्छादाविति ।। विषये ।। सदेति ।। ज्ञातैकसत्वादिति भावः । आत्मनि विषये । तत एव स्वप्रकाशत्वादेव । तदप्रसक्तिः स्यात् अज्ञानाप्रसक्तिः स्यात् । तथा च वेदान्तजन्यचरमवृत्तेरात्माज्ञाननिवर्त-कत्वं त्वयोच्यमानं न स्यादिति भावः । तथा चात्मा नाज्ञानप्रसक्तिमान् सदा प्रकाश-मानत्वादिच्छादिवदित्यनुमानं द्रष्टव्यम् । अत्र साक्षिवेद्यत्वमुपाधिरित्याशङ्क्य निराकरोति ।। न चेति ।। न सदा प्रकाशस्तन्त्रमित्यर्थः । इच्छादौ साध्यव्यापकत्वात् । साधना-व्यापकत्वमाह ।। आत्मा त्विति ।। तस्य साक्षिरूपत्वेन तद्वेद्यत्वं नास्ति कर्तृकर्म-विरोधादिति भावः । तर्हि तस्याप्रामाणिकत्वं न मन्तव्यमित्याह ।। किं त्विति ।। स्वप्रकाशत्वेन तत्सिद्धिरिति भावः । तथा च आत्माऽज्ञानप्रसक्तिमान् साक्षिवेद्यत्वात् घटवदिति प्रतिपक्ष उक्तो भवति । प्रतिपक्षानुमानेऽप्रकाशरूपत्वमुपाधिरित्याशयेनाह ।। प्रकाशरूप इति ।। तथा चैतदुपाधिविपर्ययेण साध्याभावसाधने स्थापनानुमानमेव पर्यवसितमिति ध्येयम् ।। अन्यथेति ।। वृत्तिचितोर्वैषम्यायात्मनोऽज्ञानविरोधित्वानङ्गीकार इत्यर्थः ।। घटादिरिति ।। यथा घटादेः स्वयमज्ञानाविरोधित्वात् स्वव्यवहारे स्वाति-रिक्तालोकापेक्षास्त्येवं चितोऽप्यज्ञानाविरोधित्वात्तत्राज्ञानप्राप्त्या स्वस्वरूपव्यवहारो न स्यात् । तदर्थं स्वातिरिक्तसंविदन्तरापेक्षा स्यात् । इदं तु सिद्धान्तरहस्यविरुद्धम् । स्वरूपप्रकाशेनैव तद्व्यवहाराङ्गीकारात् । अन्यथा दृश्यत्वलक्षणस्यातिव्याप्तिप्रसङ्गादिति भावः ।
ननु वृत्तिचितोर्वैषम्यमेव । न च साक्षिणोऽपि सुखादिविषयाज्ञानविरोधित्वात्साम्यमिति वाच्यम् । सुखादेः केवलचिद्वेद्यत्वाभावात्, वृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वाङ्गीकारात् । तथा च सुखादिविषये वृत्तिसहितस्यैव साक्षिणोऽज्ञानविरोधित्वात् । अस्माभिः केवलशुद्धचैतन्य-स्यैवाज्ञानाविरोधित्वस्योच्यमानत्वेन केवलात्मविषयकाज्ञानाङ्गीकारे न दोष इत्याशङ्क्य निराकरोति ।। न चेति ।। तर्हि शुद्धचैतन्यव्यवहारे संविदन्तरापेक्षा स्यादिति दूषणे सत्येव दूषणान्तरमाह ।। असत इति ।। सुखादेर्वृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वे सुखाद्युत्पत्यनन्तरं तद्ग्रहणाय वृत्तिविलम्बेन विलम्बापत्त्या कदाचित्संशयादिः स्यात् । तथा च ज्ञातैक-सत्वहानिप्रसङ्गात्, अतः केवलचिद्वेद्यत्वं वाच्यमित्युपपादनस्य कृतत्वादित्यवधेयम् । ततश्च शुद्धचित एव दुःखादिविषये अज्ञानविरोधित्वप्राप्त्या न वृत्तिचितोर्वैषम्यमिति भावः । किञ्च सुखादेर्नान्तःकरणवृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वम् । तस्या इन्द्रियव्यापाररूपप्रमाणजन्यत्वा-दान्तरसुखादौ च तदप्रवृत्तेः । नापि सुखादेरविद्यावृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वं अविद्यावृत्ते-र्दोषजन्यत्वनियमात्साक्षिणश्च निर्दोषत्वात् । अतः परिशेषात्केवलचिद्वेद्यत्वमेव वाच्यमित्याह ।। अन्तःकरणेति ।। अन्यथेति ।। स्वसत्तायामप्रकाशविधुरेऽपि सुखादौ वृत्त्यपेक्षाया-मित्यर्थः ।। स्यादिति ।। तथा च स्वव्यवहारे स्वातिरिक्तज्ञानान्तरापेक्षा स्यादिति भावः ।। प्रतिबन्दी निरस्तेति ।। सौरालोकज्ञानयोस्तमोविरुद्धत्वाविरुद्धत्ववत् वृत्तिचितोरज्ञान-विरोधित्वाविरोधित्वे युक्ते इत्युक्ता प्रतिबन्दी । सौरालोकज्ञानयोरिव वृत्तिचितोरज्ञान-निवर्तनवैलक्षण्याभावेन सौरालोकज्ञानादिसाम्याभावात् । साम्ये हि प्रतिबन्दीग्रहणमिति भावः ।
यदुक्तं दृश्यते हि त्वदुक्तमर्थं न जानामीति प्रकाशमान एवाज्ञानं अज्ञानावच्छेदक-विषयस्याज्ञाने तदवच्छिन्नाज्ञानज्ञानायोगात्, अतोऽज्ञानावच्छेदकीभूतो विषयः साक्षिणा भासत इत्यङ्गीकार्यं, ततश्च प्रकाशमान एवाज्ञानसिद्धिरिति, तद्दूषयति ।। एतेनेति ।। ज्ञाततया ज्ञानावच्छेदकत्वेन विशेषित एव साक्षिविषयः अज्ञाततयाऽज्ञानावच्छेदकतया विशेषित एव साक्षिविषयः । तदेव विवृणोति ।। अन्धकारेति ।। यथा गुहास्थं तमश्छन्नमित्यत्र विशेषतो गुहास्थपदार्थाप्रकाशेऽपि गुहास्थत्वेन सामान्यतस्तदुपस्थितौ तत्र यथा तमश्छन्नत्वज्ञानमित्यर्थः । ज्ञानावच्छेदकीभूतो विषयोऽपि साक्षिणा विशेषतो न भासत इत्येवं दृष्टान्तेनाह ।। ज्ञानेति ।। ज्ञानावच्छिन्नाभावज्ञानं तावत् त्वयाऽङ्गीकृतं पदार्थज्ञाना-भावोऽप्यस्तीत्यादौ । एवं च तत्र यथा ज्ञानावच्छेदकीभूतविषयस्य विशेषतोऽप्रकाशेऽपि सामान्यतस्तुदुपस्थितौ सत्यामेव पदार्थज्ञानाभावज्ञानं भवति एवं सामान्यतोऽवच्छेदकज्ञाने सत्येव तदवच्छिन्नाज्ञानज्ञानमनुभूयते । अतोऽज्ञानावच्छेदकतया विशेषाकारस्य साक्षि-वेद्यत्वाभावात्प्रकाशमान एवाज्ञानमित्युक्तमसदिति भावः ।
।। सेदानीमिति ।। सत्यज्ञानादिरूपवेदान्तवाक्यरूपजन्यायाः श्रवणादिरूपवृत्तेरिदानीं साक्षात्कारात्पूर्वमपि सत्त्वेनाज्ञाननिवृत्त्यापत्त्या मोक्षापातेन संसारोपलम्भो न स्यादित्यर्थः ।। तत्रेति ।। आत्मशब्दवाच्ये चैतन्य इत्यर्थः । वृत्तिव्यावृत्तेः सत्त्वादिति भावः । आत्मविषया वृत्तिरिदानीमप्यस्तीत्यत्र विवरणसंमतिमाह ।। विवरण इति ।। जीवा-कारेत्यादि ।। जीवविषयकाहन्त्वप्रकाशका वृत्तिस्तदात्मना परिणतं यदन्तःकरणं तेन जीवो व्यज्यते अहमाकारान्तःकरणपरिणामरूपज्ञानरूपया वृत्त्या जीवविषयिण्या जीवोऽभिव्यज्यते जीव इति व्यवहारविषयो भवतीत्यर्थः ।। अन्यथेति ।। अहमाकारवृत्त्यभावदशायां सुषुप्ते-रित्यर्थः । तथा च जीवस्यैवात्मत्वात्तद्विषयिणी वृत्तिः प्रत्यहमस्तीत्यर्थः । ननु जीवस्य विशिष्टत्वान्न चैतन्यविषयापरोक्षवृत्तिरस्तीति चेत्तत्राह ।। अयं घट इतीति ।। तथात्वे चैतन्यविषयिण्यपि वृत्तिरिदानीमप्यस्तीति तथाऽज्ञाननिवृत्तौ मोक्षापात इति भावः ।। अन्यथेति ।। अयं घट इति वृत्तेर्घटावच्छिन्नचिद्विषयत्वाभावमङ्गीकृत्येदानीं चैतन्यविषयक-वृत्त्यभावाङ्गीकार इत्यर्थः ।। घटावरकेति ।। यदि घटावरकमज्ञानं स्यात्तदा घटविषयिण्या वृत्त्या घटाज्ञाननिवृत्तिः स्यात् । न चैवम् । घटादेरप्रकाशस्वरूपत्वेन आवरणकृत्याभावेन जडावरकाज्ञानाङ्गीकारात् । अतो घटावच्छिन्न एव घटाज्ञानमङ्गीकार्यम् । तथा चायं घट इति वृत्तेर्घटावच्छिन्नचिद्विषयकत्वाभावे समानविषयकाज्ञानाभिभावकस्यान्यस्याभावेन घटादि-व्यवहाराभावापत्त्या घटावच्छिन्नचिद्विषयत्वमवश्यमङ्गीकार्यमित्यर्थः । आत्मविषयिणी वृत्ति-रिदानीमप्यस्तीत्युपपादनाय अहमिति । जीवविषया वृत्तिर्घटावच्छिन्नचैतन्यविषया च वृत्तिरिदानीमस्तीत्युक्तं किं ततः अज्ञानविरोधिन्याश्चैतन्यवृत्तेः सत्त्वादज्ञाननिवृत्तिः स्यात् । ततश्च सद्यो मोक्षः स्यादिति चेन्न । विशिष्टचैतन्यरूपविशेष्यविषयकत्वाभावात् चिन्मात्र-विषयकाज्ञानविरोधित्वाभावाद्वा न तयाऽज्ञाननिवृत्तिरित्याशङ्क्य निराकरोति ।। न चेति ।। विशिष्टवृत्तेर्विशेष्याविषयकत्वे विशेष्यविषयकाज्ञानानिवर्तकत्वाङ्गीकारेऽतिप्रसङ्गमाह ।। दण्डी चैत्र इति ।। तथा च दण्डी चैत्र इति ज्ञानानन्तरं अयं चैत्रो न वा अन्य एवेति संशय-विपर्ययौ स्यातामिति भावः । विशिष्टदर्शने विशेष्यं दृष्टमित्यत्रोदाहरणमाह ।। आकाशस्यैव चेति ।। महाकाशस्यैवेत्यर्थः । घटावच्छिन्नाकाशस्यैव घटाकाशत्वे त्वित्यन्वयः । घटा-वच्छिन्नो महाकाश एव घटाकाश इत्युच्यत इति मते घटावच्छिन्ने आकाशे विशिष्टे दृष्टे विशेष्यभूतं यदाकाशमात्रं महाकाशरूपं तद्दृष्टमेव । ननु आकाशमात्रदर्शनेऽपि तद्गतमहत्त्वादि न दृश्यत इति चेत् । मा दर्शि । आकाशमात्रदर्शनं तावदस्त्येवेत्यर्थः ।
ननु यदा महाकाश एव घटावच्छिन्नो भवति तदा तस्मिन् दृष्टे तद्दृष्टं भवति । यदा तु महाकाशांश एव घटावच्छिन्नाकाश इत्युच्यते तदाशांशिनोर्भेदात् घटावच्छिन्नाकाशदर्शनेऽपि महाकाशादर्शनं युक्तमिति चेत्सत्यं एवं त्वया नाङ्गीकृतमस्तीत्याह ।। आकाशांशस्येति ।। त्वया तु नैवमङ्गीकृतमिति वाक्यशेषः ।। श्रवणादीति ।। इदानीन्तनात्मवृत्तिस्तु न श्रवणादिजन्येति नाज्ञानविरोधिनी । श्रवणादिजन्या च वृत्तिश्चरमवृत्तिरेवेति भावः ।। भ्रम-कालीनेति ।। जगद्भ्रमकालीनं यदपरोक्षज्ञानं सन्घट इत्यादिसाक्षात्काररूपं तदपेक्षया-नधिकविषयकं भ्रमपतीतसदर्थमात्रविषयकं तेन समानविषयकं यच्चरमवृत्तिरूपं तेनेत्यर्थः ।। कारणान्तरेति ।। भ्रमकालीनचैतन्यापरोक्षज्ञानमिन्द्रियजन्यं, चरमज्ञानं च वेदान्तजन्यमिति कारणकृतमेव वैषम्यं न विषयकृतमस्तीत्यर्थः ।। अतिप्रसङ्गादिति ।। विषयकृतवैषम्य-रहितस्यापि कारणान्तरजन्यत्वमात्रेणाविद्यानिवर्तकत्वेऽपीतसाक्षात्कारस्यापि न पीतभ्रम-निवर्तकत्वं किं तु श्रवणादिजन्यपीतसाक्षात्कारस्यैव तथात्वमस्त्विति अतिप्रसङ्ग इत्यर्थः । तत्र वक्तव्यं तयोर्विषयकृतविशेषाभावेन कारणान्तरजन्यत्वमात्रमप्रयोजकमिति । तत्प्रकृतेऽपि समानमिति भावः । चरमवृत्तेर्भ्रमकालीनापरोक्षज्ञानानधिकविषयत्वे दूषणान्तरमाह ।। अनधिकेति ।। श्रवणादिजन्यवृत्तेश्चरमवृत्त्यनधिकविषयाया अविद्यानिवर्तकत्वे देवताश्रवण-जन्यसाक्षात्कारनिवर्त्यदुरितवदिच्छानिवर्त्यद्वेषवदिच्छाज्ञानस्य सत्यत्वं स्यादित्याह ।। सत्यत्वेति ।। आत्ममात्रं चैतन्यमात्रम् । एतावत्पर्यन्तं ‘‘निर्विशेषे स्वयम्भाते किमज्ञाना-वृतं भवे’’दित्यनुव्याख्यानांशमुपपाद्य ‘‘मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षत’’ इत्यंश-मुपपादयितुं मिथ्याविशेषानाशङ्क्य निराकरोति ।। नापीति ।। देहेन्द्रियादिभिरात्मनो भेदादिकमज्ञानावृतं सदिदानीं न भासते प्रत्युतेदानीं आत्मनि देहाद्यभेदो भोक्तृत्वकर्तृत्वादिकं ब्रह्मभेदः द्वितीयं च भासत इत्यर्थः ।। तद्विशिष्टेति ।। देहादिभेदभोक्तृत्वाद्यभावविशिष्ट आत्मैवाज्ञानविषयः । तथा चाज्ञानावृतः सन् तथा न भासते । प्रत्युत देहाद्यैक्य-भोक्तृत्वादिविशिष्टतयैव भासत इत्यर्थः । देहादिभेदादीनां आत्ममात्रत्वं वा विवक्षितं तद्भिन्नत्वं वा । नाद्य इत्याह ।। तेषामिति ।। देहभेदादीनामित्यर्थः ।। उक्तदोषादिति ।। चैतन्यमात्रत्वे आवरणकृत्याभावादिरूपदोषस्योक्तत्वादित्यर्थः । द्वितीये किं तेषां सत्वं विवक्षितं उताविद्याकल्पितत्वं ? नाद्य इत्याह ।। भिन्नत्वे सत्व इति ।। द्वितीयं निराह ।। आविद्यकत्व इति ।। तेषामाविद्यकत्वे सिद्धे तदावरकाज्ञानसिद्धिः तत्सिद्धौ च तेषामविद्याकल्पितत्वसिद्धिरित्यन्योन्याश्रयः । अज्ञानव्यक्त्यन्तराङ्गीकारे चक्रकादिरित्यर्थः । तेषां ब्रह्माभेदादीनां प्रकाशमानात्ममात्रत्वमङ्गीकृत्य कल्पितभेदमादायाज्ञानविषयत्वमुपपाद्यत इत्याशङ्क्य निराकरोति ।। न चेति ।। प्रकाशमाने आत्मनि भेदकल्पनैवायुक्ता । कल्पनाया अधिष्ठानावृत्तिं विनाऽयोगेनाधिष्ठानचैतन्यस्य सदा प्रकाशमानत्वेनाधिष्ठाना-वरणायोगेन भेदभ्रान्तिरूपकल्पनाऽयोगादित्याह ।। अधिष्ठानेति ।।
ननु देहभेदादिविशिष्टस्यात्मनो नाज्ञानविषयत्वं किन्तु तदुपलक्षित एवात्माऽज्ञान-विषयः । तथा च चैतन्यमात्रविषयकत्वपक्षोक्तदोषाभाव इत्याशङ्क्य निराकरोति ।। न चेति ।। कुतो नेत्यत आह ।। तस्येति ।। ननु वेदान्तानां भेदाभावोपलक्षणरूपप्रकार-युक्तात्मपरत्वं कुतः येनाखण्डार्थत्वहानिरित्यत आह ।। तस्येत्यादिना ।। अज्ञानस्य भेदाभावोपलक्षितात्मविषयकत्वेन तद्विषयकज्ञाननिवर्त्यताया एव वक्तव्यत्वात् । तथा चोपलक्षणरूपप्रकारपरत्वेनाखण्डार्थताहानिः स्यादेवेत्यर्थः ।। अकाक इति ।। उपलक्षणी-भूतस्य प्रत्याय्यव्यावृत्तिसमये सत्त्वाभावादकाके गृहे काकवदिति वाक्यं यथाऽप्रमाणमेवं उपलक्षणीभूतभेदाभावादेर्मिथ्यात्वेन ब्रह्मण्यभावात्तद्बोधकवेदान्तानामप्रामाण्यं स्यात् । काकोप-स्थाप्योत्तृणत्ववदीश्वरे तदभावादिति भावः ।। प्रकाशमानस्येति ।। लोके ज्ञानविषयस्य प्रकाशमानत्वं दृष्टं त्वया तु अप्रकाशमानस्यैव द्वितीयाभावस्योपलक्षणत्वेन तटस्थतया ज्ञानविषयत्वस्वीकाराददृष्टकल्पनेत्यर्थः । भङ्गार्थमुपसंहरति ।। तस्मादिति ।। आत्मन-श्चिन्मात्रस्य ।। अन्यस्येति ।। देहेभेदादिरूपस्यात्मभिन्नस्य मिथ्याविशेषस्येत्यर्थः । तत्रानुव्याख्यानं संवादयति ।। तदुक्तमिति ।। किञ्च विषयान्यूनपरिमाणस्यैव विषया-च्छादकत्वं दृष्टमतो विषयसम्बन्ध्यावरणत्वेन त्वयोच्यमानायाः परिच्छिन्नाया अविद्यायाः कथमपरिच्छिन्नब्रह्मावरणत्वमित्याह ।। किं चेति ।। ननु न्यूनाया अङ्गुलेः स्वाधिक-सूर्याच्छादकत्वदर्शनात्प्रकृते न्यूनाप्यविद्या स्वाधिकब्रह्मावरणं भविष्यतीत्यत आह ।। न्यूनापीति ।। अङ्गुलेः पुरुषसम्बन्धिचक्षुराद्यावरणत्वेन विषयसम्बन्ध्यावरणत्वाभावा-दित्यर्थः । एवमविद्यानिराकरणप्रसङ्गमुपसंहरन्नेवोत्तरग्रन्थमुपक्षिपति ।। तस्मादिति ।। न तत्कार्यमिति ।। अविद्याकार्यं न भवतीत्यर्थः ।
न्यायकल्पलता
।। आवरणकृत्येति ।। करणव्युत्पत्या आवरणमज्ञानम् । तत्कृत्यमावृतिः । एव-मग्रेऽपि । विषयासम्बन्ध इत्यत्र विषयशब्देन घटादिकं वा चैतन्यरूपं वा । आद्य आह ।। विज्ञानस्येति ।। विज्ञानस्य विषयसम्बन्धाभावे स्वरूपहानिः स्यादित्यर्थः । द्वितीय आह ।। स्वयमिति ।। चैतन्यस्य स्वयमेव स्वज्ञानरूपत्वेन स्वसम्बन्धानपेक्षणादित्यर्थः ।। आवरणसाध्यत्वेनेति ।। अत्रावरणशब्दो भावसाधनः । तेनावरणशब्देनावृतिलक्षण-मावरणकार्यं लभ्यते । तेन आवरणकृत्यनिरूपणे इदमसङ्गतमिति निरस्तम् ।। उक्तेति ।। आवृत्तिसाध्यभ्रान्तिसाध्यः शब्दप्रयोग इत्यर्थः ।। सुषुप्ताविति ।। उक्तव्यवहारस्यावरण-कृत्यस्य सुषुप्तावभावात्तत्र तत्सिद्धिर्न स्यादित्यर्थः । नन्वस्ति प्रकाशत इत्यादिव्यवहाराभाव आवरणकृत्यम् । स च सुषुप्तावप्यस्तीत्याशङ्क्य निराकरोति ।। नाप्यस्तीति ।। व्यवहारोऽभिज्ञा वा अभिलपनं वा । आद्येऽपि स्वरूपाभिज्ञा वा वृत्तिर्वा । नाद्य इत्याह ।। व्यवहारस्येति ।। तथा चेदानीमप्यावरणं न सिद्ध्येदिति भावः । नेतर इत्याह ।। वृत्तेरिति ।। तथा च मोक्षेऽप्यावरणं सिद्ध्येदिति भावः । द्वितीयं प्रत्याख्याति ।। अभिलपनत्व इति ।। आवणकार्यस्याभिलपनरूपव्यवहाराभावस्य मोक्षेऽपि सत्वादित्यर्थः ।। तयोरिति ।। उक्तयोर्योग्यत्वायोग्यत्वयोः ।। आवरणमिति ।। आवरणमावृतिः । आवरणकृत्यमिति यावत् । आरोपितस्य रजतादेः शुक्त्याद्यावरणमन्तरेणादर्शनादत्रापि तदपेक्षायामात्माश्रयः स्यादिति भावः । ननूक्तयोग्यताया अज्ञानसम्बन्धरूपाया अनादित्वेन चित्प्रकाश्यत्वेन चोत्पत्तौ ज्ञप्तौ स्थितौ च स्वानपेक्षणान्नात्माश्रय इति । मैवम् । उक्तयोग्यताया आवरणानपेक्षणे तदधीनताया अयोगस्योक्तत्वात् । अन्यथाऽनादित्वादज्ञानं विनैव जीवब्रह्मविभागोपपत्तौ जीवो ब्रह्म वाऽज्ञानस्य विषयः स्यादिति चिन्मात्रमज्ञानस्य विषय इति नादरणीयं स्यात् ।। अद्वितीयत्वादीति ।। तथा च यत्राद्वितीयत्वादिविशिष्टे संशयादिकमावरणकल्पकमस्ति तत्र त्वया नावरणं कल्प्यते । यत्र च चिन्मात्रे आवरणं कल्प्यते । तत्र संशयादिकमावरणकल्पकं नास्तीत्यर्थः ।। इदानीमपीति ।। उक्त-योग्यत्वादिरूपस्यावरणस्य मुक्तिकाले यथाऽभावस्तथेदानीमपि तदभावोऽस्तीतीदानीमपि अनावरणमेव स्यादित्यर्थः ।। स्वरूपस्येति ।। अज्ञानावच्छिन्नस्य स्वप्रकाशत्वापाता-च्चेत्यपि द्रष्टव्यम् ।। इच्छाद्यवच्छिन्नेति ।।
ननु शुद्धायाश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणाप्रकाशमानत्वात्तदर्थं तस्या एवावरणकल्पनम् । परिपूर्णाद्याकारस्य मोक्षदशानुवृत्तत्वेन शुद्धचिन्मात्रत्वादिति । मैवम् । निर्विभागचिति प्रकाशमानाप्रकाशमानाकाराभावात् । न चावरणमहिम्नैव परिपूर्णा-द्याकाराप्रकाशः अध्यासाधिष्ठानादिना च प्रकाशमानता चाविरुद्धेति वाच्यम् । आवरणस्या-सिद्धत्वेनान्योन्याश्रयात् ।। सुखादेरिति ।। तथा च व्यवहारयोग्यत्वरूपस्वप्रकाशत्वेन व्यवहारायोग्यत्वरूपमावरणं विरुद्धम् । अविरोधहेतोः प्रकारभेदस्याभावादित्यर्थः ।। एतेनेति ।। स्वप्रकाशत्वेन सह व्यवहारायोग्यत्वस्य विरुद्धत्वेनेत्यर्थः ।। आवरणकृत्य-मिति ।। आवरणरूपं कृत्यमित्यर्थः ।
ननु स्वप्रकाशत्वं सत्यमावरणं मिथ्येति न विरोध इत्याशङ्क्य निराकरोति ।। न चेति ।। सुखादीति ।। शुक्तावियं न शुक्तिरित्यनुभवस्याशुक्त्यारोपसाधकस्येव स्फुरणरूपे प्रकाशेऽप्रकाशारोपसाधकस्य स्फुरणं न प्रकाशत इत्यनुभवस्याभावेनेत्यर्थः । आरोपिते-नावरणेन वस्तुसदावरणकार्यं न सम्भवतीत्याह ।। वह्नाविति ।। सत इति ।। विरोधादपि प्रकाशे आरोपितोऽप्यप्रकाशो न सम्भवतीत्यर्थः । आरोपितानारोपितयोर्विरोधाभावेऽपि अनारोपिताधिष्ठानप्रकाशस्य सर्वेणाप्यारोपितेन विरोध इति भावः । विपक्षे बाधकमाह ।। अन्यथेति ।। यद्यधिष्ठानप्रकाशेऽप्यारोपस्तर्हि आरोपनिवर्तकान्तराभावात्तन्निवृत्तिर्न स्यादित्यर्थः ।
ननु तदत्यन्ताभावानधिकरणस्यैव तत्प्रागभावाधिकरणत्वात् स्वप्रकाशत्वावरणयोरविरोध इत्याशङ्क्य निराकरोति ।। न चेति ।। स्वरूपेति ।। तथा च न तत्प्रागभावमादायाविरोध इत्यर्थः ।। इदानीमिति ।। प्रकाशात्यन्ताभावानधिकरणे प्रकाशप्रागभावस्याप्रकाशो-पपादकत्वे तद्ध्वंसस्यापि तदुपपादकत्वं स्यादित्यर्थः ।। भवति हीति ।। प्रागभाववत् ध्वंसस्यापि योग्यतया विरोधाभावादिति भावः । सङ्गृह्णाति ।। स्वप्रभत्वेनेति ।। र्ओ योग्ये ।। किञ्चेति ।। चैतन्यं आवृताभिमतकालेऽपि स्वयं प्रकाशते प्रकाशत्वात् दीपवत् । प्रकाशरूपे च नावरणमिति भावः ।। आवरणं विनेति ।। आवरणं हि आव्रियमाणेन व्याप्तम् । तथा चाव्रियमाणे सति आवरणसिद्धिः । तत्सिद्धौ च तत्कल्पितभेदं जीवचैतन्यं प्रति चिन्मात्रस्याव्रियमाणत्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः । भेदावरणयोरनादित्वेऽपि परस्परापेक्षायामन्योन्याश्रय एवेत्युक्तत्वाच्च ।। यो मोक्ष इति ।। तथा च जीवचैतन्यं प्रति चिन्मात्रावरणमप्रयोजकमिति भावः । तेन कल्पितभेदापगमे शुद्धचैतन्यं प्रतीव प्रकाशस्य जीवं प्रत्यपि सम्भव इति निरस्तम् । स्वविषयप्रकाशत्वानङ्गीकारात् । निर्विशेषत्व-व्याघाताच्च ।। न दीपेति ।। तथा चोक्तानुमाने स्वविषयत्वमुपाधिरित्यर्थः ।। मोक्षेऽपीति ।। अप्रकाशं प्रत्यावरणसत्वस्याप्रयोजकतया तत्प्रयोजकस्य स्वाविषयत्वस्य मुक्तावपि सत्वादित्यर्थः । अत एवाह ।। अज्ञानेति ।। शङ्कते ।। अथेति ।। प्रकाशमान एवाज्ञान-मित्यत्र हेतुमाह ।। अज्ञानावच्छेदकस्येति ।। अज्ञाने ज्ञानाभावे ।। सामान्यस्येति ।। तथा च सामान्येन ज्ञानमप्रयोजकमिति भावः ।। तदवच्छेदकस्येति ।। तथा च विशेषे प्रकाशमान एवाज्ञानं दृश्यत इति भावः । ननु चैतन्यस्याज्ञानाविरोधित्वे तन्निवृत्तिर्न स्यादित्यत आह ।। अविद्येति ।। सजातीययोः प्रकाशकत्वे तदभावे च दृष्टान्तमाह ।। सौरचाक्षुषेति ।। सिद्धान्तयति ।। उच्यत इति ।। त्वयाऽपीति ।। अनवच्छिन्नानन्दश्च प्रकाशमानात्मस्वरूपमात्रमेवेति न तदप्रकाशार्थतावरणस्येति भावः ।। अपि चेति ।। प्रकाशमानेऽप्यज्ञानस्यानुभवबलात् क्वचित्स्वीकारेऽपि न सर्वत्र । तथा तत्कल्पक-स्यानुभवस्याभावात् । अतो न त्वदुक्तो दृष्टान्त इत्यर्थः । दृष्टान्तेऽपि न प्रकाशमानेऽज्ञान-मित्याह ।। किञ्चेति ।। अज्ञानेति ।। विशेषाज्ञानेनेत्यर्थः ।। न हीति ।। विशेषरूपेण प्रकाशमान एवाज्ञानमिति वदता त्वयाऽपि परचित्तगतोऽज्ञातोऽर्थः बुभुक्षापिपासादि-वत्तत्तद्विशेषरूपेण न ह्यनुभूयत इत्यर्थः ।
नन्वज्ञानज्ञानस्याज्ञानावच्छेदकविशेषाविषयत्वेऽपि तदवच्छेदकविशेषस्याज्ञाने कथं तदवच्छिन्नाज्ञानज्ञानमुत्पद्यत इत्यत आह ।। एवं चेति ।। विशेषावच्छिन्नाज्ञानज्ञानं प्रति विशेषज्ञानमेव हेतुः किं न स्यादित्यत आह ।। न हीति ।। ननु विशेषाज्ञानं प्रति सामान्यस्यानवच्छेदकतया कथं विशेषावच्छिन्नाज्ञानज्ञानं प्रत्यज्ञानानवच्छेदकस्य सामान्य-स्यैव ज्ञानं हेतुः स्यादित्यत आह ।। अवच्छेदकेति ।। अज्ञानज्ञानं प्रति अज्ञानानवच्छेद-कस्य सामान्यस्यैव ज्ञानं हेतुर्दर्शनबलादेवेत्यर्थः । नन्वज्ञानानवच्छेदकत्वाविशेषा-त्सामान्यस्येवान्यस्यापि ज्ञानं विशेषाज्ञानज्ञाने हेतुः स्यादित्यत आह ।। सामान्येति ।। यस्य विशेषरूपेणाज्ञानं तस्यैव सामान्यरूपेण ज्ञानं विशेषाज्ञानज्ञानहेतुरित्यर्थः । अवच्छेदकाविषयकस्याप्यवच्छिन्नविषयत्वमित्यत्र दृष्टान्तमाह ।। युक्तं चेति ।। द्वेषस्येति ।। स्वातन्त्र्येणेति शेषः ।। द्विष्टस्येति ।। अत्रापि स्वातन्त्र्येणेति शेषः । येन रूपेण द्वेषस्येच्छाविषयत्वं तेन रूपेण न द्विष्टस्येच्छाविषयत्वमित्यर्थः । एतेनेच्छा तावत् ज्ञानसमानविषया । ज्ञानं चावच्छेदकतया द्विष्टमपि विषयीकरोतीति इच्छापि द्विष्टविषया भवत्येवेति नायं दृष्टान्त इति निरस्तम् । स्ववृत्तित्वसाध्यत्वादिना द्वेषस्येव द्विष्टस्येच्छा-विषयत्वाभावात् । अन्यथेच्छाद्वेषयोरेकत्र साङ्कर्ये तयोर्विरोधो न स्यात् ।। ईश्वरस्येति ।। सत्वनेति शेषः । तेन ईश्वरोऽपि भ्रमविषयमगृहीत्वा भ्रमं न गृह्णातीत्यपास्तम् ।। अस्मदादीनामिति ।। विशेषरूपेणेति शेषः । तेन सर्वपदादिना सर्वज्ञानमस्माकमप्यस्तीति निरस्तम् । विपक्षे बाधकमाह ।। अन्यथेति ।। सामान्यज्ञानस्य हेतुत्वानङ्गीकारे इत्यर्थः । तदेव सङ्गृह्णाति ।। मोहेति ।। सङ्गृहीतमुपपादयति ।। तथा हीत्यादिना ।।
ननु घटपटसंयोगज्ञानं प्रति न घटाद्यज्ञाननिवृत्तिर्हेतुः । तस्याः घटपटसंयोगावच्छेदक-घटपटज्ञानेनान्यथासिद्धत्वादित्यत आह ।। अज्ञानावच्छेदकतया ज्ञानेऽपीति ।। शङ्कते ।। अथेति ।। समाधत्ते ।। तर्हीति ।। किञ्चेति ।। अज्ञानावच्छेदकविशेषविषयाज्ञानस्य यथा तद्विषयकज्ञानेन न विरोधस्तथा तद्विषयकज्ञानाभावस्यापि नाज्ञानज्ञानेन विरोध इत्यर्थः । नन्वज्ञानं विज्ञेषावच्छिन्नतया भासते वा समान्यावच्छिन्नतया वा । आद्ये विशेषे भासमानत्वमागतमेव । न हि विशेषमनवभासन् प्रत्ययो विशेषाज्ञानमवभासयति । द्वितीये तु सामान्यज्ञानेन तदवच्छिन्नतयैव गृहीतस्याज्ञानस्य विशेषसम्बन्धित्वे मानाभावेन भासमाने सामान्य एवाज्ञानमागतमित्याशङ्क्य द्वितीयं पक्षमङ्गीचिकीर्षुस्तत्र दोषं परिजिहीर्षुराह ।। अज्ञानविषयविशेषावच्छेदकसिद्धिस्त्विति ।। यथा तमसा आव्रियमाणो विशेषस्तमःकाले तमोविषयत्वेनाज्ञातोऽपि तमोनिवृत्यनन्तरं तया ज्ञायते तद्वदित्यर्थः । तथा च सामान्य-रूपेणाज्ञानस्य विशेषसम्बन्धित्वे एतावन्तं कालममुमर्थमित्थं नाज्ञासिषमित्यनुभवस्यैव मानत्वमिति भावः ।
ननु यद्यज्ञानं स्वकाले स्वविषयविच्छिन्नतया न भासते तदा त्वदुक्तमर्थं न जानामीति विषयावच्छिन्नाज्ञानस्य वर्तमानप्रत्ययो विरुध्येतेति चेन्न । स्थूलकालमादाय तथोपपपत्तेः । अन्यथा त्वदुक्तमर्थं न ज्ञास्यामीत्यनुभवेन वर्तमानकालासम्बन्ध्यज्ञानं सिद्ध्येत् । एतेन त्वदुक्तमर्थं न जानामीति प्रकाशमाने चैतन्येऽपि अज्ञानस्यानुभवात्स्वरूपचैतन्यं नाज्ञान-विरोधि । तमस्त्वालोके सत्यननुभवात् । आलोकमात्रं तद्विरोधि । यद्वा अवतमसे विषय-प्रकाशकालोकसहभावदर्शनेन तमस्यपि नालोकमात्रं विरोधीति निरस्तम् । आलोकस्य सविशेषत्ववत्त्वदभिमत....भावात् ।। वृत्तिश्चैतन्यस्येति ।। चैतन्यस्याज्ञानानिवर्तकत्वे तदनिवृत्तिरेव स्यादिति भावः । नन्वज्ञाननिवर्तकमित्यनेन तन्निवृत्तिप्रयोजकं विवक्षितम् । तच्च सम्बन्धसंपादनद्वाराऽस्मिन्पक्षे वृत्तिज्ञानस्याप्यस्तीति चेन्न । तथा सति चैतन्यमेवा-ज्ञाननिवर्तकमित्यापातात् ।। अज्ञानस्येति ।। न च मुक्तिदशायामज्ञाननिवृत्तिश्रवणेन तस्य स्वविरोधिज्ञानप्रागभावमात्रव्यापकत्वमिति युक्तम् । तच्छ्रवणस्य चैतन्येऽज्ञानविरोधि-त्वेनाप्युपपत्या सामान्यव्यापकत्वत्यागेन तस्य विशेषपरत्वकल्पनायोगात् ।। ज्ञान-सामान्येति ।।
ननु घटादिमात्रविरोधिनो घटाभावादेर्भावसामान्यविरोधित्वेन अभावत्वेन प्रतीतिवत् ज्ञानविशेषविरोधिनोऽप्यज्ञानस्य ज्ञानविरोधित्वेन प्रतीतिरुपपन्नैव । न ह्यभावपदादिनाऽभाव-प्रतीतौ घटाभावो न भासत इति । मैवम् । तत्र घटादिविरोधिप्रतीतिवदत्रापि चैतन्य-विरोधिप्रतीतेरवश्यं वाच्यत्वात् । न ह्यभावपदादिना घटाभावमात्रधीः । तत्र घटाभाव-पटाभावादीनामनेकत्ववदिहाज्ञानानेकत्वाभावेनैकस्यैवोभयविधज्ञानविरोधित्वस्य वाच्यत्वाच्च । ननु ज्ञानसामान्यविरोधित्वानुभवेनापि वृत्तिविरोधित्वमेव पर्यवस्यति । न तु ज्ञप्ति-विरोधित्वमपि । तयोरेकज्ञानत्वाभावादित्यत आह ।। ज्ञप्तीति ।। ज्ञाधातोर्जादेश-विधानादित्यर्थः ।
ननु जानातेर्ज्ञप्त्यर्थत्वेऽपि वृत्तेरेव ज्ञप्तित्वात्तद्विरोधित्वमेवाज्ञानस्येत्यत आह ।। त्वत्पक्ष इति ।। ननु वृत्तिप्रतिबिम्बितचैतन्यमेव जानामीति व्यवहारविषयः । तथा च न जानामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियत इत्यत उक्तम् ।। चैतन्य-स्यैवेति ।। दृश्यस्य दृशि अध्यासानुसारेण शुद्धचित एव दृक्त्वात्तस्या एव जानात्यर्थत्वा-दित्यर्थः । ननु चितो ज्ञप्तित्वेऽपि नाज्ञानविरोधित्वम् । न जानामीत्यनुभवस्तु वृत्त्यारूढ-चिदचिदभिप्रायेणेत्यत आह ।। चैतन्यस्येति ।। मुख्यं ज्ञानत्वमज्ञानत्वं वा न स्यादित्यर्थः ।। तत्त्वेनेति ।। अज्ञाननिवर्तकतौपयिकार्थप्रकाशकत्वेनेत्यर्थः । यत्तु प्रमाण-वृत्त्युपारूढप्रकाशत्वेनाज्ञाननिवर्तकत्वं ब्रूमः । न तु जातिविशेषेण वा प्रकाशत्वमात्रेण वा । अतो नेच्छादिनिवर्त्यद्वेषादिवदेतन्निवर्त्यानां सत्त्वापतिरिति । तन्न । प्रकाशस्यैव तन्निवर्त-कत्वे शेषवैय्यर्थ्यात् । व्यभिचारमप्याह ।। त्वन्मत इति ।। अन्वयव्यतिरेकाभ्यमिति ।। प्राप्ताप्राप्तविवेकेनेत्यर्थः ।। स्फुरणस्यैवेति ।। प्रकाशरूपस्येत्यर्थः । ननु परोक्षवृत्तेर्विषय-पर्यन्तत्वाभावेन न विषयगताज्ञाननिवर्तकत्वं, सुखादौ च ज्ञातैकसत्वादज्ञाननिवृत्तिं विनैवाज्ञानादर्शनमतोऽन्वयव्यतिरेकयोरन्यथासिद्ध्या स्फुरणमात्रं नाज्ञानविरोधीति । मैवम् । तत एव परोक्षवृत्तेः स्वविषये व्यवहारजनकत्वमपि न स्यात् । सुखादावज्ञानविरोधिन-मन्तरेण तस्य ज्ञातैकसत्त्वानुपपत्तेः ।
नन्वस्तु प्रकाशकत्वेनैवाज्ञानविरोधित्वम् । चैतन्यं तु न प्रकाशत इति नाज्ञान-विरोधीत्यत आह ।। स्वेति ।। ननु परिपूर्णत्वादिना प्रकाशविधुरत्वाभावेऽपि अध्या-साधिष्ठानत्वादिना प्रकाशमानतयाऽप्रकाशविधुरत्वसम्भव इति । मैवम् । निर्विशेषे तदसम्भवस्योक्तत्वात् ।। वृत्तीति ।। सौरालोकज्ञानयोरित्यादिनेत्यर्थः । ननु सक्षिणोऽज्ञान-साधकत्वेन तदविरोधित्वमित्यत आह ।। अनुभूयते हीति ।। अज्ञानविषयकानुमित्यादे-रज्ञानसाधकत्वेऽपि यथाऽज्ञानविरोधित्वं तथा चैतन्यस्यापि तद्विरोधित्वं युक्तमित्यर्थः ।। अन्यथेति ।। साक्षिणोऽज्ञानाविरोधित्वेऽन्यस्य तद्विरोधिनोऽभावात् चैत्रेच्छादौ मैत्रस्येव चैत्रस्याप्यज्ञत्वं स्यात् । नो चेन्मैत्रस्याप्यज्ञानं न स्यादित्यर्थः । सङ्गृह्णाति ।। एवं चेति ।। ननु साक्षिविषये सुखादावज्ञानाप्रसक्तिरेवेति न तत्र तद्द्वारकापेक्षा । वृत्तिस्तु स्वविषये प्रसक्ताज्ञाननिवर्तकेति वैषम्यं तयोरित्याशङ्कते ।। इच्छादाविति ।। अन्यथेति ।। आत्मनोऽज्ञानाविरोधित्वे तस्य जडत्वापत्या घटादिसाम्यमित्यर्थः । एतेन प्रकाशान्तरा-पेक्षायां जडत्वमुपाधिरिति निरस्तम् । चैतन्यरूपप्रकाशस्य कुत्राप्यज्ञानविरोधित्वादर्शनात् । प्रकाशमानेऽपि तस्मिन्नज्ञानमविरुद्धमिति शङ्कां निराकरोति ।। न चेति ।। साक्षिवेद्ये सुखादावज्ञाननिवारणं च वृत्यैवेति शङ्कितुरभिसन्धिः ।। अन्तःकरणेति ।। तथा च परिषशेषेण केवलसाक्षिवेद्यत्वमेव सुखादीनामिति तत एव सुखादावज्ञानपराहतिरित्यर्थः ।। अन्यथेति ।। स्वसत्तायामप्रकाश(बुद्धि)विधुरेऽपि सुखादौ वृत्यपेक्षायामित्यर्थः ।। एतेनेति ।। सौरालोकचाक्षुषप्रकाशयोरिव वृत्तिचितोर्वैलक्षण्याभावेनेत्यर्थः ।। एतेनैवेति ।। साक्षिणोऽज्ञानविरोधित्वेनैवेत्यर्थः । तदेव सदृष्टान्तं विशदयति ।। अन्धकारावृतवदिति ।। वृत्तिरेवेति ।। प्रमाणवृत्तिरेवेत्यर्थः ।
उक्तमर्थं सम्मतयति ।। विवरण इति ।। अविद्योपाधिकं सर्वगतं जीवचैतन्यं विषय-प्रकाशकमिति पक्षे प्रतिकर्मव्यवस्थामुक्त्वा अन्तःकरणोपाधिकत्वाज्जीवः परिच्छिन्नो न सर्वमवभासयतीति जीवस्य परिच्छिन्नत्वपक्षेऽपि प्रतिकर्मव्यवस्थायामुक्तायां, ननु अहङ्कारा-वच्छिन्नचैतन्यस्य विषयचैतन्यासम्बन्धाद्विषयभानासम्भव इत्याशङ्क्यकायां, जीवावच्छेद-निमित्तान्तःकरणपरिणामसंसर्गकृताभिव्यक्तित्वाद्विषयावच्छिन्नचैतन्यस्य जीवचैतन्यता च न विरुध्यते विषयप्रमातृचैतन्ययोरेकान्तःकरणपरिणामसम्बन्धादभेदेन स्फुरणं ततो विषय-प्रकाश उपपद्यत इति परिहृतायां, ननु प्रत्यग्ब्रह्मणोरप्येकान्तःकरणसम्बन्धाद्ब्रह्मणोऽपि प्रत्यक्त्वेन स्फुरणं स्यादिति पुनः शङ्कायां, किं ब्रह्माकारपरिणतान्तःकरणपरिणामसंसर्गात् स्फुरणमुतान्तःकरणमात्रसंसर्गात् । नाद्यः । ब्रह्माकारपरिणतान्तःकरणसंसर्गाभावान्न नित्यवत् ब्रह्मणः प्रकाशप्रसङ्गः । न द्वितीयः । न ह्यन्तःकरणस्वरूपमात्रसंसर्गिणोऽभिव्यक्ति-रङ्गीकृता । तद्गतधर्मादीनामपि प्रसङ्गादिति परिहृतायां, ननु अन्तःकरणमात्रसंसर्गात्प्रत्य-ग्व्यक्तिवत् ब्रह्मव्यक्तिरपि किं न स्यादिति पुनः शङ्कायां, अन्तःकरणमात्रसंसर्गात् प्रत्य-ग्व्यक्तिर्नास्त्येव । तथा च दृष्टान्तासिद्धिरित्युच्यते विवरणवाक्ये जीवाकाराहंवृत्ती-त्यत्रेत्यवगन्तव्यम् ।। जीवाकारेति ।। जीवविषया अहंप्रकारिका या वृत्तिस्तदात्मना परिणतं यदन्तःकरणम् । अहमाकारान्तःकरणपरिणामभूतज्ञानरूपया वृत्या जीवविषयिण्या जीवोऽभिव्यज्यते व्यवहारविषयो भवतीत्यर्थः । न चेयमविद्यावृत्तिरिति वाच्यम् । दोषा-जन्यत्वात् । आन्तरविषयत्वेनान्तःकरणवृत्तेर्बहिरिन्द्रियद्वारानपेक्षणात् ।। अन्यथेति ।। अहमाकारवृत्त्यभावदशायां सुषुप्तेः सत्वादित्यर्थः ।
नन्विन्द्रियवृत्तिरेवाज्ञानविरोधिनीत्यत आह ।। अयं घट इति ।। ननु विशेष्या-द्विशिष्टस्य भिन्नत्वाद्विशिष्टचिद्विषया वृत्तिरज्ञानविरोधिनीत्याशङ्क्य निराकरोति ।। न चेति ।। दण्डीति ।। विशिष्टवृत्तेर्विशेष्याविषयत्वापात इत्यपि बोध्यम् ।। आकाशस्यैवेति ।। अंशाशिनोः सविशेषाभेदात् । तस्य च समर्थनादिति भावः ।। आकाशांशस्येति ।। अंशांशिनोर्भेदादित्यर्थः ।। अतिप्रसङ्गादिति ।। अपीतसाक्षात्कारस्य न पीतभ्रमनिवर्त-कत्वम् । किन्तु तच्छ्रवणादिजन्यापीतसाक्षात्कारस्यैव तथात्वमित्यादि स्यादित्यर्थः ।। सत्यत्वेति ।। श्रवणादिजन्यवृत्तेरनधिकविषयाया अप्यविद्यानिवर्तकत्वे इच्छादिनिवर्त्य-द्वेषादिवदज्ञानस्य सत्यत्वं स्यादित्यर्थः । एतेनाविद्यागतोऽवस्वशेषो वा शक्तिविशेषो वा घटादिज्ञानेन निवर्तते । प्रपञ्चनिदानभूतमज्ञानं तु श्रवणादिजन्यतत्त्वमस्यादिवाक्यजन्या-खण्डार्थगोचरवृत्त्या निवर्तत इति च निरस्तम् ।
यत्तु तदवच्छिन्नाज्ञातृत्वप्रयोजकाज्ञानविशेषस्तदवच्छिन्नज्ञाननिवर्त्य इति । तन्न । यावन्ति ज्ञानानि तावन्त्यज्ञानानीत्यत्र निरस्तत्वात् । तेनावतमसे विषयप्रकाश-कालोकस्यासर्वतमोनिवर्तकत्वेऽपि किञ्चित्तमोनिवर्तकत्ववत् पटज्ञानेनाज्ञानं निवर्त्यत इति निरस्तम् । चित इवाज्ञानस्यापि निर्विभागत्वात् । उपसंहरति ।। तस्मादिति ।। तथा च प्रयोगः । जगदुपादानं नाज्ञानं निराश्रयत्वान्निर्विषयत्वाच्चाकाशवदित्यन्वयव्यतिरेक्यनुमानद्वये-नोभयवादिसिद्धस्य जगदुपादानस्याज्ञानत्वनिषेधान्न त्वदभिमताज्ञानसिद्धिः । नियमेनाश्रय-विषयज्ञप्त्यपेक्षप्रतीत्यविषयत्वस्य हेतुत्वान्न कश्चिद्दोषः । तेन ‘द्युभ्वाद्यायतनं स्वशब्दात्’ ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतमि’त्यादिसूत्रानुगृहीतश्रुत्याद्यानुकूल्यं च द्रष्टव्यम् ।। तद्विषय इति ।। अविद्याविषय इत्यर्थः ।। काकवदिति वाक्यवदिति ।। वेदन्ताना-मित्यनुषङ्गः ।। प्रकाशमानस्येति ।। प्रकाशमाने आत्मन्यज्ञानमनुचितम् । अप्रकाशमाने द्वितीयाभावे तु तदुचितमित्यर्थः । उक्तमर्थमनुव्याख्यानेन सम्मतयति ।। निर्विशेष इति ।। चिन्मात्रस्य स्वयंप्रकाशत्वात्तत्र सत्यभूतधर्मस्याभावान्मिथ्याभूतधर्मस्य चाज्ञानसिद्ध्युत्तर-कालीनत्वात् अज्ञानावृतं किमपि न सम्भवतीत्यर्थः ।। न्यूनाऽपीति ।। अङ्गुलिस्तु चक्षुरादिकरणसम्बन्धिन्यावरणं तदपेक्षया न न्यूनेत्यर्थः । वक्ष्यमाणाक्षेपार्थमाह ।। तस्मादिति ।।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां हि त्वविद्याविषयो न चित् ।।
न्यायामृतसौगन्ध्यम्
किञ्चाविद्याविषयोऽपि दुर्वचः । यत्तु चिन्मात्रमेवाविद्याविषयः, तस्याकल्पितत्वेना-न्योन्याश्रयादिदोषाप्रसक्तेः, स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन्नावरणकृत्यसम्भवाच्चेति । तन्न । किमिदमावरणकृत्यं सिद्धप्रकाशलोपो वा ? असिद्धप्रकाशानुत्पत्तिर्वा ? सतः प्रकाशस्य विषयासम्बन्धो वा ? नास्ति न प्रकाशते इति व्यवहारो वा ? अस्ति प्रकाशत इति व्यवहाराभावो वा ? नास्तीति व्यवहारयोग्यत्वं वा ? अस्तीत्यादिव्यवहारायोग्यत्वं वा ? नाद्यद्वितीयौ, स्वरूपप्रकाशस्य नित्यसिद्धत्वेन तल्लोपानुत्पत्योरसम्भवात् । न तृतीयः । ज्ञानस्य विषयसम्बन्धैकस्वभावत्वात् । न चतुर्थः । सुषुप्तौ व्यवहाराभावेनानावरणापातात् । न पञ्चमः । व्यवहारस्याभिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्वात् वृत्तेश्च मोक्षेऽप्य-सत्वात् । अभिलपनरूपत्वे मोक्षेऽप्यावरणप्रसङ्गात् । नापि षष्ठसप्तमौ । तयोरप्या-रोपितत्वेनावरणं विनाऽयोगात् ।
ननु नास्ति न प्रकाशते इत्यादिव्यवहार एवाभिज्ञादिसाधारणः, अस्ति प्रकाशत इत्यादिव्यवहाराभावो वा आवरणकृत्यम् । आवरणं च तद्योग्यता अज्ञानसम्बन्धरूपा सुषुप्त्यादिसाधारणी अब्रह्मज्ञानमस्तीति न मोक्षे आवरणापत्तिरिति चेन्न । उक्तयोग्यत्वस्या-प्यारोपितत्वेनावरणसापेक्षत्वात् । न चाज्ञानसम्बन्धरूपावरणस्यानादित्वेन चित्प्रकाश्यत्वेन च उत्पत्तौ ज्ञप्तौ स्थितौ वा स्वानपेक्षणादिति वाच्यम् । उक्तयोग्यताया आवरणा-नपेक्षणात्तदधीनत्वायोगस्योक्तत्वात् । अन्यथा अज्ञानं विनैव जीवब्रह्मविभागापन्नो जीवो ब्रह्म वा अज्ञानविषयः स्यान्न तु त्वदुक्तचिन्मात्रम् ।
किञ्चावस्थात्रयेऽप्यसन्दिग्धाविपर्यस्तत्वेन प्रकाशमाने चिन्मात्रे तदभावेन तत्कल्प्य-योर्योग्यत्वायोग्यत्वयोरभावात् । एतेन शुद्धरूपायाश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारकत्वेनाप्रकाशमानत्वात् तदर्थं तस्या एवावरणकल्पनमिति निरस्तम् । निर्विशेषचितः प्रकाशमानाप्रकाशमानाकाराभावात् । न चावरणमहिम्नैव पूर्णं ब्रह्म नास्ति न प्रकाशते इति व्यवहारः, अध्यासाधिष्ठानत्वादिना प्रकाशमानता चाविरुद्धा इति वाच्यम् । आवरणस्यासिद्धत्वेनान्योन्याश्रयात् ।
किञ्चावेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वविरुद्धे योग्यत्वायोग्यत्वे कथमिदानीमपि ब्रह्मणि स्याताम् ? न चाज्ञानादिमत्वेनापरोक्षव्यवहारयोग्यत्वं स्वरूपेण च तदयोग्यत्वमित्यविरोध इति वाच्यम् । स्वरूपस्यास्वप्राकाशत्वापातात् । एतेन परिपूर्णा-द्याकारेणेदानीं व्यवहाराभावेऽपि अपरोक्षव्यवहारयोग्यत्वानपाय इति निरस्तम् । निर्विशेषे परिपूर्णाद्याकारस्यालीकत्वात् ।
किञ्च प्रदीपावारकघटादिवच्चैतन्यावारकाविद्या चैतन्यस्यान्यसम्बन्धं प्रतिबध्नातु अन्यं प्रति चैतन्यमाच्छादयतु । न तु चैतन्यं प्रत्येवेति चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा, न हि दीपो घटावृतोऽपि स्वयं न प्रकाशते, तमःसम्बन्धापातात् । न च कल्पितभेदं जीवचैतन्यं प्रति शुद्धचैतन्यमाच्छादयतीति वाच्यम् । आवरणं विना भेदकल्पनस्यैवा-योगात् । यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशस्तदभावस्यैव इदानीमज्ञानेन साधनीयत्वाच्च । न च कल्पितभेदं जीवं प्रति शुद्धचैतन्यस्यावृतत्वमिति वाच्यम् । भेदकल्पनस्यावरणोत्तरकालीनत्वात् । न च भेदावरणयोरप्यनादित्वेन पूर्वापरीभाव इति वाच्यम् । उभयोरनादित्वे हि जीवभेदस्यावरणापेक्षत्वं आवरणस्य जीवभेदापेक्षत्वमित्ययुक्तं स्यात् । अज्ञानाद्यकल्पिते जीव एव आवरणं तत्कृत्यञ्च स्यात् । न च प्रकाशस्वरूपे चैतन्ये कथमज्ञानं ? न ह्यालोके तम इत्युक्तम्, अज्ञानतमसोर्विरोधितायां अनुभवसिद्ध-विशेषादिति वाच्यम् । तादृशविशेषस्य त्वयैवानुभूतत्वात् । न च त्वदुक्तमर्थं न जानामीति प्रकाशमाने वस्तुनि अज्ञानस्यानुभवेन स्वरूपचैतन्यं साक्षी वा नाज्ञानविरोधि, तमसस्त्वा-लोके सत्यननुभवाद् आलोकमात्रं तमोविरोधीति वाच्यम् । अज्ञानोपरि साक्षिणा वस्तु-ग्रहणेऽपि स्वातन्त्र्येण तदग्रहणात् । स्वातन्त्र्येण हि वस्तुज्ञानं तदज्ञानविरोधि । न च साक्षिणा स्वातन्त्र्येण तद्ग्रहणं सम्बन्धाभावात् । न चावृत्तिं विना स्वरूपज्ञानं तत्प्रकाश-कम् । सदा प्रकाशापातात् । न च तमसि विषयप्रकाशकालोकसहभावदर्शनेन तमस्यपि नालोकमात्रं विरोधीति वाच्यम् । तद्विषयाप्रकाशायोग्यालोकस्य तथात्वेऽपि तद्विषयप्रकाश-योग्यस्य तमःसाहचर्यासम्भवात् ।
किञ्च त्वदुक्तार्थो न प्रकाशत इति (इत्यनुभवादस्तु तत्र भासमाने अज्ञानम्, सुखादिस्फुरणे भासमाने न प्रकाशत इत्यननुभवात् कथं तत्राज्ञानं ?) ।।
(न्यायामृतसौगन्ध्यस्य एतावानेव ग्रन्थभागः उपलब्धः । इतःपरं ग्रन्थभागः एतावता नोपलब्धः ।)
।। इति अविद्याविषयभङ्गविवरणम् ।।
एतावता नोपलब्धः ।)