यच्च बौद्धाभिमतक्षणिकत्वसिद्ध्यर्थमुक्तं ‘‘विश्वस्य दृष्टिसृष्टिः

५२. दृष्टिसृष्टिभङ्गः

न्यायामृतम्

यच्च बौद्धाभिमतक्षणिकत्वसिद्ध्यर्थमुक्तं ‘‘विश्वस्य दृष्टिसृष्टिः – चैत्रे सुप्ते तद्देहादिकं तं प्रति नास्त्येव । जाग्रतो मैत्रस्य तु तद्भ्रान्त्या भाति । प्रत्यभिज्ञा तु सोऽयं दीप इत्यादिवत् भ्रान्तिः’’ इति । तन्न । ‘‘षडस्माकमनादयः’’ इति स्ववचनेन, बौद्धं प्रति प्रत्यभिज्ञादिना विश्वस्य स्थायित्वप्रतिपादकविवरणेन च विरोधात् । दृगन्यस्य सर्वस्य दृष्टिसृष्टित्वे तत्तत्कार्यस्य प्रतीतिमात्रशरीरत्वेन नियततत्तत्कारणाजन्यत्वेन श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादिविधेर्ब्रह्मसाक्षा-त्कारार्थं श्रवणादिविधेराकाशादेर्वाय्वादिहेतुत्वोक्तेश्चायोगाच्च । तवापि तृप्त्यर्थं भोजने, परप्रत्यायनाद्यर्थं शब्दोच्चारणादौ च प्रवृत्त्ययोगेन स्वक्रियादिविरोधाच्च ।

यदि तूक्तश्रुत्यादिकमपि स्वाप्नश्रुत्यादितुल्यमिति न पर्यनुयोज्यं, तर्ह्यद्वैत-श्रुतितन्मीमांसादिकमपि तथेति न तेनाद्वैतसिद्धिः । दृष्टिसृष्टिपक्षे घटादेः स्वज्ञानात्पूर्वमसत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तेश्च । शुक्तीदमंशस्यापि रूप्यवदिदं रूप्यमिति ज्ञानात्प्रागसत्त्वेन सम्प्रयोगादिहेतुत्रयजन्यत्वरूपस्याध्यासतटस्थ-लक्षणस्य, सत्यस्य मिथ्यावस्तुसम्भेदावभासत्वरूपस्वरूपलक्षणस्य चायोगाच्च । इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादि-प्रक्रियाविरोधाच्च । इदं रूप्यं नेदं रूप्यमिति ज्ञानयोर्भिन्नविषयत्वेन बाध्य-बाधकभावानुपपत्तेश्च । रूप्यादिबाधस्यापि दृष्टिसृष्टित्वेन तेन रूप्यादे-र्मिथ्यात्वासिद्धेश्च । सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रत्यहं प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापाताच्च । सुप्तं प्रति संस्कारा-देरप्यभावेन तस्य पुनरुद्बोधायोगाच्च । मोक्षस्यापि दृगन्यत्वेन स्वाप्नमोक्षवद् दृष्टिसृष्टिमात्रत्वापाताच्च । चिन्मात्रस्यैव घटादिदृष्टित्वे तस्य सदा प्रतीत्यापत्त्या विशिष्टस्य तत्त्वे वाच्ये तस्यापि विशिष्टस्य दृष्टिसृष्टित्वेऽनवस्थादिप्रसङ्गाच्च । उक्तन्यायेन दोषाज्ञानद्रष्टृदेहेन्द्रियादीनामभावे भ्रान्त्ययोगेन तेषामपि दृष्टिसृष्टि-त्वेऽनवस्थापाताच्च । घटादेर्दृष्टिसृष्टिरित्यस्यापि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्ट्या-पाताच्च । प्रत्यभिज्ञाविरोधाच्च । दीपादौ परिमाणादिभेदकस्येवेह बाधकस्या-भावात्, तदभावेऽपि भ्रान्तित्वे च घटादेरप्येकस्मिन्नपि क्षणे भेदस्याऽत्मनोऽपि प्रतिक्षणं भेदस्य च प्रसङ्गात् । सोऽयं देवदत्त इत्यादिदृष्टान्तेन तत्त्वमस्यादौ जहदहजल्लक्षणयैक्यपरत्वोक्त्ययोगाच्च । अत्राभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगाच्च । ‘‘ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ध्रुवं विश्वमिदं जगत्’’ इत्यादिश्रुतिविरोधाच्च । भिन्नत्वेन प्रतीतस्य घटपटादेरभेदः, अभिन्नत्वेन प्रतीतस्य घटस्य प्रतिक्षणं भेद इति दृष्टहानादृष्टकल्पनापाताच्च । तस्मात्–

निर्बाधप्रत्यभिज्ञानाद् ध्रुवं विश्वमिति श्रुतेः ।

स्वक्रियादिविरोधाच्च दृष्टिसृष्टिर्न युज्यते ।।

‘‘अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि व्युच्चरन्ति’’ इति श्रुतावपि पूर्ववाक्ये ‘‘यत्रैष एतत्सुप्तोऽभूत्’’ इति सुप्ता-धारत्वेनोक्तस्य ब्रह्मणः सर्वस्रष्टृतोच्यते । न तु सुप्तोत्थिताज्जीवात् प्राणदि-सृष्टिः, येनेयं दृष्टिसृष्टौ मानं स्यात् । अन्यथा वाक्यशेषे ‘‘नाड्यो द्वासप्तति-सहस्राणि हृदयात्पुरीततम्’’ इत्यादिना सुषुप्तौ नाड्याद्युक्तिः, ‘‘यथोर्णनाभिः’’ ‘‘यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा’’ इत्याद्युक्तिः, अत्रापि वाक्ये ‘‘सर्वे लोका’’ इत्याद्युक्तिश्चायुक्ता स्यात् । न हि दृष्टिसृष्टिपक्षे सुषुप्तौ नाड्यादिकपूर्णनाभ्य-ग्न्यादितः तन्तुविष्फुलिङ्गजन्म वा सुप्तोत्थितस्य सर्वलोकादिदृष्टिर्वाऽस्ति । न चोर्णनाभितन्त्वग्निविष्फुलिङ्गदृष्टान्तो दृष्टिसृष्ट्यनुगुण इति न कल्पितं जगदिति ।

अद्वैतसिद्धिः

शुक्तिरूप्यस्वप्नादिवद् दृष्टिसृष्ट्यन्यथानुपपत्त्याऽपि जगतो मिथ्यात्वसिद्धिः । अथ केयं दृष्टिसृष्टिः ? (१) दृष्टिरेव सृष्टिरिति वा ? (२) दृष्टिव्यतिरिक्तसृष्ट्यभावो वा ? (३) दृष्टिव्यतिरेकेण सृज्याभावो वा ? (४) दृष्टिसामग्रीजन्यत्वं वा ? (५) दृष्टिसमानकालीन-सृष्टिर्वा ? (६) दृष्टिसत्तासमानसत्ताकसृष्टिर्वा ? (७) सदसद्विलक्षणत्वं वा ?

(८) त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा ? (९) अज्ञातसत्त्वाभावो वा ? (१०) ज्ञातैकसत्त्वं वा ? आद्ये वृत्तिरूपा चैतन्यरूपा वा दृष्टिरभिमता ? प्रथमे चरम-वृत्तिविषयब्रह्मणोऽपि दृष्टिसृष्ट्यापत्तिः । द्वितीये सर्वदाऽपि सृष्ट्यापत्तिः । न द्वितीयः । चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः । न तृतीयः । ‘ज्ञातो घटो न ज्ञानम्’ इति अनुभवविरोधात् । न चतुर्थः । एकसामग्रीप्रसूतत्वेन घटादेर्दृष्ट्यभिन्नत्वेना-नन्तरोक्तदोषात् । न पञ्चमः । शाब्दादिज्ञानसमकालोत्पन्नघटादौ सिद्धसाधनात् । तद्वदन्यत्रार्थान्तरतापत्तेश्च । न षष्ठः । उभयसत्त्वेऽप्युपपत्तेः सिद्धसाधनात् । न सप्तमः । अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः । नाष्टमः । त्रिविधसत्त्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्बहिर्भावानुपपत्तेः । न नवमः । तुच्छसाधारण्यात् । न दशमः । सुखादौ सिद्धसाधनात्, तद्वदन्यत्रार्थान्तराच्चेति– चेन्न । दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्याज्ञातसत्त्वाभावस्य वा, प्रतिपन्नोपाधि-दृष्टिजन्यजातैकसत्त्वस्य वा, द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् । तथा च न सुखाद्यंशे सिद्धसाधनम्, तद्वदन्यत्रार्थान्तरं वा ।

ननु–

जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा ।

अविद्या तच्चितोर्योगः षडस्माकमनादयः ।।

इति प्राचां वचनेन, बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यवार्तिकविवरणादिग्रन्थेन विरोध इति चेन्न । अनाद्यतिरिक्ते सृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराच्च । तावतैव बौद्धाभिमतक्षणिकत्व-निराकरणोपपत्तेर्नाकरविरोधः । प्रत्युताकरेषु बहुशो दृष्टिसृष्टिरुपपादितैव ।

नन्वेवं प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादि-विधेर्ब्रह्मसाक्षात्कारार्थं श्रवणादिविधेराकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुक्तेति चेन्न । स्वाप्न-कार्यकारणभावबोधकवाक्यवदुपपत्तेः । न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वप्नवाक्य-तन्मीमांसातुल्यतापत्तिः । विषयबाधाबाधाभ्यां विशेषोपपत्तेः । अत एव तृप्त्यर्थं भोजने परप्रत्ययनार्थं शब्दादौ च प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति निरस्तम् । स्वाप्नव्यवहर-वदुपपत्तेः ।

अथैवं घटादेः स्वज्ञानात् पूर्वमसत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तिः । अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवद् ‘इदं रजतम्’ इति ज्ञानात् प्रागसत्त्वेन सम्प्रयोगादिहेतुत्रय-जन्यत्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसम्भेदाभाव इत्यस्य स्वरूप-लक्षणस्य चायोग इति चेन्न । प्रतिकर्मव्यवस्थायाः सम्प्रयोगादिहेतुत्रयजन्यत्वरूपाध्यास-तटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् । सत्यस्य वस्तुनो मिथ्यावस्तुसम्भेदावभास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम् । न  हीदमंशावच्छिन्नं चैतन्यं न वस्तु, न वा मिथ्यारूप्यस्य तेन सह न सम्भेदावभासः । न च– ‘इदं रूप्यम्’ इति ज्ञानकाले शुक्ति-त्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति– वाच्यम् । ‘इदं रूप्यम्’ इति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात् । न हि सत्ताकाल इव सत्ताविरहकालेऽपि अज्ञानं विरुद्ध्यते । न च– ‘इदं रूप्यं नेदं रूप्यम्’ इति ज्ञानयोर्भिन्न-विषयत्वेन बाध्यबाधकभावानुपपत्तिरिति– वाच्यम् । भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः । न च– रूप्यादिबाधस्यापि दृष्टिसृष्टित्वे तेन रूप्यादेर्मिथ्यात्वासिद्धिरिति– वाच्यम् । बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम्, न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् । न च– सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेना-विद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापत्तिरिति– वाच्यम्, जीवब्रह्म-विभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योक्तत्वात् । न च सुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः, कारणात्मना संस्कारादेः सत्त्वात् । न च मोक्षस्य दृगन्यत्वेन स्वाप्नमोक्षवद् दृष्टिसृष्ट्यापत्तिः । मोक्षस्य ब्रह्मस्वरूपत्वेन दृग्भिन्नत्वासिद्धेः । न च– चैतन्यमात्ररूपा दृष्टिर्न सृष्टिः । किन्तु वृत्तिविशिष्टचैतन्यरूपा वा, वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम् । तथा च तस्या अपि दृष्ट्यन्तरं सृष्टिरित्यनवस्थेति– वाच्यम् । चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः, तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः । वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था । अत एव– दोषाज्ञानद्रष्टृदेहेन्द्रियादीनामभावे न भ्रम इति तेषामपि दृष्टिसृष्टित्वे अनवस्थेति– निरस्तम् । स्वाप्नभ्रमवद् देहेन्द्रियादिनैरपेक्ष्येणाप्युपपत्तेः । अन्वयव्यतिरेकानु-विधानं च तद्वदेव । न च– दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति– वाच्यम् । ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववत् दृष्टिसृष्टेर्दृष्टिसृष्टित्वेऽपि घटादेरपि दृष्टिसृष्टित्वोपपत्तेः ।

ननु ऐक्यप्रत्यभिज्ञाविरोधः । पूर्वकालप्रतीतस्येदानीमभावात् । न चैषा भ्रान्तिः । दीपादौ परिणामभेदस्येवेह बाधकस्याभावात् । तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य च प्रसङ्ग इति चेन्न । ‘नेह नाना’ इत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधृते रज्जुसर्पादिवत् प्रतिभासमात्रशरीरत्वेन प्रतिभासकालातिरिक्त-कालसत्त्वे बाधकम् । अतो भिन्नकालानामात्मभिन्नानां प्रत्यभिज्ञा भ्रान्तिः । आत्मन्येकत्व-प्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः । एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात् । पुरुषान्तरप्रतीतेन सहैककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव । प्रतिभासस्य भेदात् । यथा एकस्यामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत् सर्पभ्रमेण पलायमानानां परस्परसंवादेनैक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञा भ्रमः, अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् ।

ननु – अत्र कथमभेदभ्रमः ? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेन्न, स्वाप्नाभेदभ्रमवद् दृष्टिसृष्टिसिद्धसादृश्यादिसम्भवात् । न चैवमभेद एवोत्पद्यतामिति वाच्यम् । इष्टापत्तेः । रज्जुसर्पादिवदुत्पन्नस्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः । मायाया विचित्रशक्तिकत्वाभ्युपगमात् । न च ‘सोऽयं देवदत्तः’ इति दृष्टान्तेन तत्त्वमस्यादिवाक्ये जहदजहल्लक्षणयैक्यपरत्वोक्त्ययोग इति वाच्यम् । यद्यपि धर्मवद्धर्म्यभेदोऽपि बाधित एवेति जहदजहल्लक्षणापि न युज्यते । तथापि यदा धर्माभेदो बाधान्न गृहीतः, किन्तु धर्म्यभेद एव, तदा ‘सोऽयम्’ इत्यादौ जहदजहल्लक्षणासम्भवेन दृष्टान्तत्वोपपत्तिः । न चाभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगः । आत्मा-भेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात् । अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्च । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति– वाच्यम् । अबाधितविषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः । तस्य च दृष्टिसृष्टि-त्वेऽप्यक्षतेः । न च ‘ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । ध्रुवं विश्वमिदं जगत्’ इत्यादिश्रुतिविरोधः । अनित्यतावादिभिरपि ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिसृष्टि-प्रतिपादकश्रुत्यनुरोधेन आकल्पं सन्तानाविच्छेदपरत्वस्यैव युक्तत्वात् । अन्यथा ‘ध्रुवो राजा’ इत्यादावगतेः । दृष्टिसृष्टौ च ‘एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुतिः सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिपादयन्ती प्रमाणम् । न च सुषुप्तौ प्राणादिप्रपञ्चस्य सत्त्वात्किमर्थं पुनः सृष्टिरिति वाच्यम् । ‘न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च सुषुप्तौ ‘हिता नाम नाड्य’ इति नाडीसत्त्वप्रतिपादक-वाक्यविरोधः । केन क्रमेण सुषुप्तो भवतीत्यपेक्षायां ‘हिता नाम नाड्यो हृदयात्पुरीततमभि-प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते’ इत्यादिना सुषुप्त्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि । वाक्यान्तरविरोधात्, प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तेः ।

ननु– ‘यत्रैष एतत्सुप्तोऽभूत्’ इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात्तत्कर्तृकैव प्राणादिसृष्टिर्न तु सुप्तोत्थितजीवकर्तृका । अन्यथाऽग्न्यूर्ण-नाभ्यादेस्तन्तुविस्फुलिङ्गादिजननोक्तिरत्रापि वाक्ये सर्वलोकसृष्ट्युक्तिश्चालीकार्था स्यात् । न हि दृष्टिसृष्टिपक्षे अग्न्यूर्णनाभ्यादेस्तन्त्वादिजनकत्वं सर्वलोकसृष्टिर्वास्तीति चेत्, न । यत्रेत्यस्य कालपरत्वेन यच्छेब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेत्यस्य ब्रह्मरूपाधि-करणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः । अनन्तरवाक्ये ‘क्वैष तदाभूत्’ इत्यत्र क्व तदेति पदद्वयोपादानस्यैव विनिगमकत्वात्, यत्रेत्यनेन देशनिर्देशे क्वेति देशप्रश्नानुपपत्तेः । कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः । भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथा व्याख्यानात् । ऊर्णनाभ्यादेस्तन्त्वादिजन्मोक्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभाव-प्रसिद्धिमनुरुध्य । सर्वलोकादिसृष्टिश्च तत्तद्दृष्टिव्यक्तिमभिप्रेत्य । यदा तत् पश्यति, तत्सम-कालं तत् सृजतीत्यत्र तात्पर्यात् । न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः । जगदुपादानस्याज्ञानस्य विचित्रशक्तिकत्वात् । उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकल्प-लतिकादावस्माभिरभिहितम् । वासिष्ठवार्तिकामृतादावाकारे च स्पष्टमेवोक्तम् । यथा –

अविद्यायोनयो भावाः सर्वेऽमी बुद्बुदा इव ।

 क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम्’ ।

इत्यादि । तस्मात् ब्रह्मातिरिक्तं कृत्स्नं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिक-सत्त्वं सर्वस्येति सिद्धम् ।

रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितम् ।

प्रबुद्धदृष्टिसृष्टत्वात्सुषुप्तौ च लयश्रुतेः ।। इत्यद्वैतसिद्धौ दृष्टिसृष्ट्युपपत्तिः ।

न्यायामृततरङ्गिणी

अत्र कश्चित् शुक्तिरूप्यस्वप्नादिवत् दृष्टिसृष्टित्वान्यथानुपपत्त्या जगतो मिथ्यात्व-मिति वक्तुं जगतो दृष्टिसृष्टिरित्याह । तन्निराकरोति ।। यच्चेति ।। दृष्टिसृष्ट्यङ्गीकारे क्षणिकत्वमर्थतोऽङ्गीकृतं स्यादित्याह ।। बौद्धेति ।। षडस्माकमिति ।। ‘जीवो ब्रह्म विशुद्धा चिद्विभागस्त्वनयोर्द्वयोः । अविद्या तच्चितोर्योगः षडस्माकमनादयः’ इति । नन्वनाद्यतिरिक्ते सृष्टिविषय एव दृष्टिसृष्टिस्वीकारान्न विरोध इति चेन्मैवम् । विभागादीनां दृष्टिसृष्ट्या मिथ्यात्वासिद्ध्या दृष्टिसृष्ट्या विश्वमिथ्यात्वसिद्धिरिति स्वोक्तिविरोधात् ।। स्वर्गाद्यर्थमिति ।। स्वप्नादिसाम्यज्ञाने सति ज्योतिष्टोमादौ प्रवृत्तिर्न स्यात् । ननु स्वाप्नकार्यकारणभावबोधकवाक्यवदुपपत्तिरिति शङ्कां निरा-करोति ।। यदीति ।। स्वप्नवेदान्तवाक्यतन्मीमांसासाम्येन जागरे तत्र प्रवृत्तिर्न स्यात् । न च विषयाबाधतद्बाधाभ्यां स्वप्नाद्विशेषः । स्वप्नादविशेषे विषया-बाधादेरयोगात् ।। शुक्तीदमंशस्येति ।। यस्तु प्रतिकर्मव्यवस्थामध्यासतटस्थलक्षणं च मन्दाधिकारिकमित्याह स स्वाचार्यप्रक्रियायै न स्पृहयत इत्युपेक्षणीयः ।। सत्यस्येति ।। शुक्तीदमंशस्यापि रूप्यवन्मिथ्यात्वात्सत्यं वस्तु नास्तीत्यर्थः ।

ननु दृष्टिसृष्टिपक्षेऽपि इदमंशावच्छिन्नचैतन्येन मिथ्यारूप्यस्य तेन सह सम्भेदाव-भासोऽस्त्येवेति । मैवम् । इदंवृत्तेः प्रागिदमोऽभावेन तदवच्छिन्नचैतन्यस्याभावात् । तस्य मिथ्यात्वाच्च ।। इदं रूप्यमिति ज्ञानकाल इति ।। शुक्तित्वाज्ञाने शुक्तित्व-रूपस्यैवाभावात् । तज्ज्ञाने तु तस्य सत्त्वेऽपि नाज्ञानावच्छेदकत्वम् । तस्य ज्ञातत्वात् । ननु शुक्तित्वाभावेऽपि तदज्ञानमस्तु । सत्ताकाल इव सत्ताविरह-कालेऽप्यज्ञानाविरोधात् । मैवम् । ज्ञानस्य ज्ञातैकसत्त्वात् । तज्ज्ञानस्य च तदवच्छेदकविषयकत्वात् तदवच्छेदकस्य दृष्टिसृष्टित्वात् सत्ताविरहकालेऽज्ञान-मित्यस्यासिद्धेः । सत्ताकालेऽज्ञानमिति तु सुतरामसङ्गतम् । ज्ञानस्यैव तत्सत्ता-रूपत्वात् । न च स्थायित्वपक्षे सत्ताकाल इति दृष्टान्तः । सत्ताविरहकालेऽज्ञान-मित्यस्योक्तविधयाऽ सङ्गतेः ।। भिन्नेति ।। भ्रमकाले बाधकाले चेदमंशयोर्भेदात् । न च भेदेऽपि सारूप्याद्बाधादिव्यवस्थेति वाच्यम् । सारूप्यस्यापि दृष्टिसृष्टि-त्वेनोभयानुगतस्याभावात् ।। रूप्यादिबाधस्यापीति ।। अधिकबलस्यैव बाधकत्वात् । एतेन बाधान्यूनसत्ताकत्वमेवाबाध्यत्वे प्रयोजकं, न त्वधिक-सत्ताकत्वमित्यपास्तम् ।। सुषुप्तीति ।। न च जीवादिविभागस्यानादितया न दृष्टिसृष्टिरिति वाच्यम् । तस्य मिथ्यात्वासिद्धेरित्युक्तत्वात् ।। सुप्तं प्रतीति ।। न च कारणात्मना संस्कारोऽस्तीति वाच्यम् । कारणस्यापि दृष्टिसृष्टित्वेन सुप्तौ तस्याप्यभावात् ।। मोक्षस्यापीति ।। अविद्यानिवृत्तिरूपस्येत्यर्थः ।। दृगिति ।। मोक्षस्य दृग्रूपत्वेऽसाध्यत्वं स्यात् ।। सदेति ।। अर्थज्ञानस्य सदात्वेनार्थस्यापि सदातनत्वापत्त्या सदा प्रतीत्यापत्तिरित्यर्थः । न च वृत्त्युपहितचैतन्यमेव घटादेर्दृष्टिः, वृत्तौ तु वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति वाच्यम् । वृत्तिज्ञानं विना वृत्तिस्वरूपासिद्ध्या वृत्तिविशिष्टचैतन्याभावेन वृत्तिस्वरूपसिद्ध्यर्थं वृत्त्यन्तर-विशिष्टचैतन्यस्य वृत्तिज्ञानत्वं वाच्यम् । एवमन्यस्यान्यस्येत्यनवस्था ।। उक्त-न्यायेनेति ।। न च स्वाप्नवद्देहेन्द्रियनैरपेक्ष्येणैवायं भ्रम इति वाच्यम् । अन्वय-व्यतिरेकाभ्यां भ्रममात्रे देहादेर्हेतुत्वेन स्वाप्नभ्रमेऽपि तद्धेतुत्वात् । दोषाज्ञानादेरवश्यं भ्रमहेतुत्वाच्च । अन्यथा मोक्षेऽपि भ्रमः स्यात् ।

।। घटादेरिति ।। यदा घटादौ दृष्टिसृष्टिरिति ज्ञानं नास्ति तदा घटादीनां दृष्टिसृष्टेरभावात् ।। ध्रुवा द्यौरिति ।। यत्त्वत्र आकल्पसन्तानाविच्छेदपरत्वं ध्रुव-पदस्य । अन्यथा ध्रुवो राजेत्यादावगतिरिति केनचिदुक्तं तद्वेदान्तार्थज्ञानगन्ध-वैधुर्यनिबन्धनम् । अनेन सूक्तेन सङ्ग्रामायोद्यतो राजा पुरोधसा नु सन्नाहनीयः । उक्तं च सूत्रे ‘सङ्ग्रामे समुपोह्ले राजानं सन्नाहयेदात्वाहार्षमन्तरेधीति पश्चाद्रथस्या-वस्थाय जीमूतस्येव भवति प्रतीकमिति कवचं प्रयच्छेत्’ इत्यादि । समुपोह्ले समुपस्थिते । पश्चाद्रथस्यावस्थाय पुरोहितो जपतीति शेषः । चैत्ययज्ञ इति खण्डे यत्र वेत्थ वनस्पत इत्येतयर्चेति ऋग्ग्रहणेन ऋचं पादग्रहणं इति परिभाषाया अनित्यत्वज्ञापनात् आ त्वाहार्षमन्तरेधीति पश्चाद्रथस्येत्यत्र पादग्रहणे सत्यपि सूक्तस्यैव ग्रहणमिति वृत्तिकारोक्तेरत्र च सूक्ते अविचाचलिः मापच्योष्ठा इत्यादिना राज्ञे स्थिरत्वमाशास्यते । तत्र दृष्टान्तो ध्रुवा द्यौरित्यादिना । यथा द्यौः पृथिवी पर्वताः विश्वं जगत् ध्रुवं स्थिरं तथा त्वमपि राजा स्थिरो भवेति । माधवीयेऽप्येवमेव व्याख्यातम् । तत्र कः प्रसङ्गः सन्तानादिकल्पनायाः । अन्यथा तत्सत्यमित्यादेरप्येवमेवार्थः कल्प्येतेति स्पष्टं बौद्धवादः स्यात् ।

ननु ‘‘सहोवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः एष तदा तु कुत एतदागादिति तदुह न मेने गार्ग्यः स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयस्तदेतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते इत्याद्युक्त्वा अथ यदा सुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते । अतिशयेन हन्तीत्यतिघ्नीं आनन्दस्यावस्थाम् । स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’’ इति । अत्र अब्रह्मविदं गार्ग्यं प्रति क्षत्रियोऽपि सन् ब्रह्मवित् काश्यो ब्रह्म बोधयितुं गार्ग्येण सह सुप्तं पुरुषं प्रत्यागम्य तं पाणिना पेष्य बोधयित्वा गार्ग्येण कर्तुमर्हं प्रश्नं अज्ञानादकृतं स्वयमेव काश्यो गार्ग्यं प्रति कृतवान् स होवाचेत्याद्यकण्डिकया । एतदिति क्रियाविशेषः । एष विज्ञानमयोऽन्तःकरणप्रायो यत्र सुप्तोऽभूत् तदा एषः क्वाभूत्, कुत आगात् । एतत्प्रश्नद्वयं प्रतिवक्तुं गार्ग्यो न ज्ञातवान् । अतः काश्य एव तदुत्तरं वक्ति स होवाचेत्यादिद्वितीयकण्डिकया । अन्तर्हृदये विद्यमानो य आकाशः तस्मिन् शेत इति सुषुप्तप्रकारनिरूपणाय अथ यदा सुषुप्तो भवतीत्यादिकण्डिका । कुत एव तदागादिति द्वितीयप्रश्नस्योत्तरं तस्मादात्मनः सर्वे प्राणा इत्यादि । तस्मादियं श्रुतिः सुप्तोत्थ-जीवात्प्राणादीनां सृष्टिं वक्तीति दृष्टिसृष्टौ प्रमाणमित्यत आह ।। तस्मादात्मन इति ।। पाणिपेषादिना प्रबोधितस्य सुप्तस्य क आधार इति यत्रैष एतत्सुप्तोऽ-भूदित्यादिना काश्येन पृष्टस्य य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेत इत्यादिना प्रतिवचनं ब्रुवता काश्येनैव आकाशशब्दवाच्यः परमात्मा सुप्तपुरुषाधारत्वेन य उक्तः स एव अस्मादात्मन इत्यत्र इदंशब्देन परामृश्यत इति परमात्मन एव प्राणादिसृष्टिर्न तु सुप्तोत्थितात् । परेषां बृहदारण्यकभाष्येऽपि सुप्ताधारत्वेनात्रोक्त आकाशः परमात्मैवेति प्रतिपादितम् । अत एव तत्रैव ननु एवमेवास्मादात्मन इति संसारिण एवोत्पत्तिं दर्शयतीति चोदयित्वा य एषोऽन्तर्हृदय आकाश इति परस्य प्रकृतत्वा-दस्मादात्मन इति परस्यैव परामर्श इत्युक्तम् ।

ननु यत्रैष इति प्रश्नवाक्ये यत्रेति नाधारप्रश्नः । किं तु कालप्रश्नः । अन्यथा क्वैष तदाभूदिति पुनर्देशप्रश्नानुपपत्तेः । मैवम् । तथाऽपि क्वेत्याधारप्रश्नस्यैवोत्तरं य एषोऽन्तर्हृदय आकाश इति । तत एव च सृष्टिः । वस्तुतस्तु यत्रेत्याधारप्रश्न एव । यत्राधारे सुप्तोऽभूत्स किंप्रकार आधार इति यत्रक्वशब्दयोरेकार्थत्वात् ।। अन्यथेति ।। ननु केन क्रमेण सुषुप्तो भवतीत्यपेक्षायां हिता नाम नाड्य इति सुषुप्त्यव्यवहितकाले नाडीनां सत्त्वं प्रतिपाद्यते । न तु सुप्तिकाले । मैवम् । यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्य इत्यत्र यदेति निर्देशात्तदेत्यवश्यमवगतेः सुषुप्तिकाल एव हि पुरीतन्नामकनाड्यादिसत्त्वावगमात् । पुरीतति शेत इति पुरीतत्स्थस्य सुप्ताधारत्वश्रुतेश्च । तस्मात् श्रुत्या स्वभाष्येण च विरोधान्न जीवात्प्राणादीनां सृष्टिः । अतिघ््नयादिशब्दानामर्थास्तु आनन्दस्य परमात्मनः अतिघ्नीं समीपं कुमारो रुद्रः महाराजो वायुः महाब्रह्मणो ब्रह्मा इत्याचार्योक्ताः । यस्तु भाष्यं मन्दाधिकारिकमित्याह स स्वयमेव मन्दाधिकारी ।

अस्मादात्मन इति वाक्ये पूर्ववाक्येन विरोधमभिधाय स्ववाक्येन विरोधमाह ।। अत्रापीति ।। नाड्यादिकमिति ।। सुषुप्तौ नाड्यादिसृष्टेरभावात् ।। तन्तु-विस्फुलिङ्गेति ।। जीवस्य तन्त्वादिदृष्टिरेव तन्त्वादिजन्म । न तु ऊर्णनाभ्यादित-स्तन्त्वादिजन्मेत्यर्थः । सर्वलोकदृष्टिः सर्वलोकसाक्षात्कारः । तथा च सर्वलोक-साक्षात्काराभावात्सर्वलोकजन्मोक्तिरयुक्ता स्यात् ।। न चोर्णनाभीति ।। न हि ऊर्णनाभिनाऽग्निना वा तन्तूनां विस्फुलिङ्गानां वा दर्शनमेव तयोर्जन्म । किं तु स्वशरीरान्निष्कासनमेव । तस्मात् कुत एतदागादिति वाक्ये जीवस्य सुप्तिकालेऽ-विद्यमानं ज्ञातृत्वादिकं कुत आगतमिति द्वितीयप्रश्नस्य सर्वकर्तुः परमात्मन आगतमित्युत्तरं वक्तुं सर्वकर्तृत्वं परमात्मन उच्यते अस्मादात्मन इति वाक्ये ।

न्यायामृतकण्टकोद्धारः

ननु तथापि शुक्तिरूप्यस्वप्नादिवद् दृष्टिसृष्ट्यन्यथानुपपत्या मिथ्यात्वं सेत्स्यति । दृष्टिसृष्टेर्मिथ्यात्वं विनानुपपत्तेः । शुक्तिरजतादौ सिद्धत्वादिति । तदेतद्दूषयितुमनुवदति ।। यच्चेति ।। अत्र हि दृष्टिसृष्टिपदार्थस्यैव निर्वक्तुमशक्यत्वान्न तदन्यथानुपपत्त्या प्रपञ्च-मिथ्यात्वसिद्धिः ।

तथा हि । केयं दृष्टिसृष्टिः ? दृष्टिरेव सृष्टिरिति वा, दृष्टिव्यतिरेके सृष्ट्यभावो वा, दृष्टिव्यतिरेकेण सृज्याभावो वा, दृष्टिसामग्रीजन्यत्वं वा, दृष्टिसमानकालीनसृष्टिर्वा, दृष्टि-समानसत्ताकसृष्टिर्वा, सदसद्विलक्षणत्वं वा त्रिविधसत्त्वबहिर्भूतत्वे सति असद्विलक्षणत्वं वा, अज्ञातसत्त्वाभावो वा, ज्ञातैकसत्त्वं वा । आद्ये दृष्टिः वृत्तिर्वा चैतन्यरूपा वा । प्रथमे चरमवृत्तिविषयब्रह्मणो दृष्टिसृष्ट्यापत्तिः । द्वितीये सर्वदा सृष्ट्यापत्तिः । न द्वितीयः । चैत्रेण सृष्टो मया दृष्ट इति विलक्षणव्यवहारानुपपत्तेः । न तृतीयः । ज्ञातो घटः न ज्ञानमित्यनुभवविरोधात् । न चतुर्थः । एकसामग्रीप्रसूतत्वेन घटादेर्दृष्ट्य-भिन्नत्वेऽनन्तरोक्तदोषात् । न पञ्चमः । शाब्दादिज्ञानसमानकालोत्पन्नघटादौ सिद्ध-साधनात् । तद्वदन्यत्रार्थान्तरापत्तेश्च । न षष्ठः । उभयसत्त्वेऽप्युपपत्तेः सिद्धसाधनात् । न सप्तमः । अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैतदुपन्यासानुपपत्तेः । नाष्टमः । त्रिविध-सत्त्वमध्ये प्रातिभासिकसत्त्वस्यान्तर्भूतत्वेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्बहिर्भावानु-पपत्तेः । न नवमः । तुच्छसाधारणत्वात् । न दशमः । सुखादौ सिद्धसाधनात् । तद्वदन्यत्रार्थान्तराच्च । न च दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्य अज्ञातसत्त्वाभावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् । एवं च न सुखाद्यंशे सिद्धसाधनं तद्वदन्यत्रार्थान्तरं वेति वाच्यम् । प्रमितानुपपत्त्या हि उपपादकार्थसिद्धिः । उक्तविधं च दृष्टिसृष्टित्वं प्रपञ्चेऽस्तीत्यत्र न किञ्चित्प्रमाणम् । प्रत्यक्षेण तदसिद्धेः । नाप्यनुमानम् । दृष्टान्ताभावात् । नाप्यागमः । तस्योक्तविधदृष्टिसृष्टित्वप्रतिपादकत्वस्यानुपलम्भात् । मिथ्यात्वादेव दृष्टिसृष्टित्वं चेदन्यो-न्याश्रयः । तृतीयचतुर्थयोः सुखादिवत्सत्त्वेऽप्युपपत्त्याऽर्थान्तराच्च । स्वसुखादेरपि दृष्ट्यन्तरावेद्यत्वस्य सत्त्वात् । परसुखादेः परस्य प्रत्यक्षत्वात् । यदीश्वरे दृष्टिवेद्यत्वं तदाऽसिद्धिः । अन्यथैतादृशदृष्टिसृष्टित्वस्य बौद्धैर्ब्रह्मण्यपि सुवचत्वेन तस्यापि मिथ्यात्वं स्यात् । यदि चैतादृशदृष्टिसृष्टित्वं तस्य प्रमाणाप्रमितं प्रमाणविरुद्धमिति तदैतदन्यत्रापि तुल्यमिति दूषणे सत्येव दूषणान्तरमाह ।। तन्नेत्यादिना ।।

किञ्च सर्वत्र प्रपञ्चे दृष्टिसृष्ट्यङ्गीकारे सिद्धान्तविरोध इत्याह ।। षडिति ।।

‘‘जीवो ब्रह्म विशुद्धा चिद् विभागस्त्वनयोर्द्वयोः ।

  अविद्या तच्चितोर्योगः षडस्माकमनादयः ।।’’

इति तद्वचनेनेत्यर्थः । न चानाद्यतिरिक्ते सृष्टिविषय एव दृष्टिसृष्टिस्वीकारात् नानादित्वप्रतिपादकवचनविरोधो, नापि प्रत्यभिज्ञायाः स्थायित्वप्रतिपादनविरोधः कारणात्मना स्थायित्वाङ्गीकारादिति वाच्यम् । एवं ह्यविद्यादौ मिथ्यात्वसाधकाभावात्तस्य मिथ्यात्वासिद्धेः । तत्र प्रकारान्तरेण मिथ्यात्वे तेनैव सर्वत्र सम्भवेऽस्यासिद्धस्य तत्साधकत्वानुपपत्तेः ।

किञ्च स्वाचार्यवचनविरोधेन तदतिरिक्तविषयत्वमङ्गीकुर्वता ‘‘अनादिर्वाऽयमाकाशः’’ इत्यादिश्रुत्याऽऽकाशादिव्यतिरिक्तविषयत्वमेव स्वीकर्तव्यम् । स्वाचार्यवचनात् श्रुतेः प्रबलत्वात् श्रुतेरप्रामाण्ये चाचार्यवचनस्य सुतरामप्रामाण्यम् ।

अपि च दृष्टिसृष्टिप्रमाणाभिमतस्य ब्रह्मातिरिक्तसर्वसाधारणत्वान्नाविद्याद्यतिरिक्त-विषयत्वम् । दृश्यत्वादिना घटादिप्रपञ्चवद् दृष्टिसृष्टित्वस्यैवोचितत्वाच्च । दृष्टिसृष्टित्वे दृश्यत्वादेरप्रयोजकत्वे मिथ्यात्वे तत्त्वापाताच्च ।

किञ्चानादित्वाङ्गीकारे ब्रह्मवत्सत्वापत्तेः । कारणात्मना स्थायित्वं तु नाविद्यादिक-मादाय तस्योक्तरीत्या दृष्टिसृष्टित्वात् चाक्षुषादिप्रत्यभिज्ञाने अविद्यायाः विषयत्वा-सम्भवाच्च । नापि ब्रह्मादाय शून्यमादाय । तन्मतेऽपि प्रत्यभिज्ञासम्भवादविशेषापत्तेः । उपनिषदेकसमधिगम्यस्य चाक्षुषादिप्रत्यभिज्ञाविषयत्वासम्भवाच्चेति दिक् ।

न चाचार्यवचनविवरणादिकं न वास्तवाभिप्रायम् । किञ्चापातप्रतीतार्थपरं परमताभिप्रायं वेति न तद्विरोध इत्यत आह ।। दृगन्यस्येति ।। तर्हीति ।। न च विषयबाधाबाधाभ्यां विशेषादतुल्यत्वमिति वाच्यम् । बाधाबाधयोरपि दृष्टिसृष्टित्वेनोभयत्र साम्यात् । कल्पिते बाधस्य तत्रापि सत्वात् । अकल्पितबाधस्य तत्राप्यभावात् । अबाधस्य ब्रह्मातिरिक्तत्वेन कल्पितत्वावश्यंभावात् । प्रपञ्चबाधकाभावस्योपपादितत्वाच्च  ।। दृष्टिसृष्टिपक्ष इति ।। न च प्रतिकर्मव्यवस्थादिकं मन्दाधिकारिविषयम् । नोत्तमाधिकारिविषयमिति वाच्यम् । वैपरीत्यस्यापि सम्भवात् । नियामकाभावात् । ब्रह्मवादो मन्दाधिकारिविषयः शून्यवादस्तूत्तमाधिकारिविषय इत्यापाताच्च । प्रौढाधि-कारिणो घटादिनियतविषयज्ञानानुपपत्तेश्च । शुक्तिरजतादिज्ञानार्थं सम्प्रयोगाद्यपेक्षाभावा-पत्तेश्च । न च तेषां शुक्तिरजतादिभ्रमो न भवत्येवेति वाच्यम् । तथात्वे प्रपञ्च-भ्रमाभावेन सङ्करादीनां भिक्षाटनादौ प्रवृत्तिर्न स्यात् ।। शुक्तीदमंशस्येति ।। न च सत्वस्य मिथ्यावस्तुसम्भेदावभासत्वरूपं स्वरूपलक्षणं युज्यते शुक्तेरसत्यत्वेऽपि शुक्तीद-मंशावच्छिन्नचैतन्यस्य सत्यत्वादिति वाच्यम् । इदमित्यत्र शुक्तेरेव विषयत्वेन चैतन्या-विषयत्वात् । तस्य रूपादिरहितत्वेन चाक्षुषादिज्ञानविषयत्वासम्भवात् ।

किञ्च केवलस्य विषयत्वे सद्यो मोक्षापातोऽवच्छिन्नस्य चेतनत्वे तस्य मिथ्या-त्वेनोक्तलक्षणासम्भव एवेति वाच्यम् । किञ्चेदमित्यत्र चैतन्यविषयत्वे चैतन्यज्ञानमिति व्यवहारापत्तिः ।। इदं रूप्यमितीति ।। न च शुक्तित्वाभावे तद्विषयकाज्ञानसत्ता न विरुद्धेति वाच्यम् । विषयावरणार्थमज्ञानं तत्र च तत्कृत्यं तज्ज्ञानप्रतिबन्धः । तत्र तदभावादेव तज्ज्ञानाभावे नावरणकृत्यमिति न तद्भावे तदज्ञानम् । अन्यथा शुक्तिरूप्य-विषयकमज्ञानमपि स्यात् ।

अपि च शुक्तित्वस्य सृष्टित्वेन प्रातिभासिकत्वात् । प्रातिभासिकविषयका-ज्ञानस्यादृष्टेर्न तद्विषयकाज्ञानमिति ।। इदं रूप्यं नेदं रूप्यमितीति ।। न च भिन्न-विषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाधकयोरिव बाध्यबाधकभावोपपत्तिरिति वाच्यम् । सारूप्याद् बाधकत्वेऽप्रतिबद्धस्येव प्रतिबद्धस्यापि तथापत्तेः । विषयसारूप्यस्य बाधकत्वोपयुक्तस्य तत्रापि सत्वात् । सर्वसारूप्यस्य प्रकृतेऽप्यभावात् । दृष्टान्ते भिन्नविषयत्वासम्प्रतिपत्तेश्च । सारूप्यमात्रेण तत्कार्यकारित्वे गुञ्जापुञ्जादपि दाहापत्तेश्च ।। रूप्यादीति ।। न च बाध्यान्यूनसत्ताकत्वस्यैव बाधकत्वे तन्त्रत्वेन प्रातिभासिकस्यापि व्यावहारिकवत् प्रातिभासिकबाधकतोपपत्तिरिति वाच्यम् । बाध्यान्यूनसत्ताकत्वस्य बाध्येऽपि सत्त्वेन बाधकत्वप्रयोजकत्वासम्भवात् । अन्यथा इदं रजतमित्यनेनापि नेदं रजतमित्यस्य बाधापत्तेः । तस्यापि बाध्यान्यूनसत्ताकत्वात् । द्वयोरपि प्रातिभासि-कत्वात् । तस्मादधिकसत्त्वमेव तन्त्रमिति तदभावेन तस्य बाधकत्वासम्भवात्  रूप्यादि-मिथ्यात्वासिद्धिरिति ।। सुषुप्तिप्रलयादाविति ।। न च जीवब्रह्मविभागस्यानादित्वेन दृष्टिसृष्ट्यविषयत्वमिति वाच्यम् । तदनादित्वस्य प्रागेव दूषितत्वात् । आकाशादेरपि दृष्टिसृष्टिविषयत्वाभावापाताच्च ।

।। सुप्तं प्रतीति ।। ननु संस्कारादेः कारणात्मनाऽवस्थानाभ्युपगमात् पुनरुद्बोध-सम्भव इति चेन्न । कारणस्याविद्यादेः प्रातीतिकत्वेन तदभावे कारणात्मनावस्थाना-सम्भवात् । न च तत्प्रतीतिः शुद्धचिद्रूपैवेति वाच्यम् । मोक्षेऽप्यविद्यादेरनुवृत्यापातात् । ब्रह्मरूपकारणस्य च मोक्षेऽपि सद्भावेन मोक्षानन्तरमपि तदुद्बोधापाताच्च ।। मोक्षस्या-पीति ।। न च तस्य ब्रह्मरूपत्वेन न दृष्टिसृष्टित्वमिति वाच्यम् । ब्रह्मरूपत्वे श्रवणादि-साध्यत्वानुपपत्तेः । संसारदशायामपि ब्रह्मसद्भावेन मुक्तत्वापाताच्च ।। अनवस्थादीति ।। न च वृत्त्युपहितचैतन्यमेव दृष्टिः वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्थादिकमिति वाच्यम् । एवं हि वृत्तिविशिष्टचैतन्यमेव वृत्तिविशिष्टचैतन्यदृष्टिरिति आयातम् । तथा च वृत्तेः स्वविषयकत्वे स्वप्रकाशत्वापत्तेः वृत्तेरुपलक्षणत्वे तदुपलक्षित-चैतन्यस्य वृत्तिदृष्टित्वे तस्य मोक्षेऽपि सद्भावेन तत्रापि वृत्त्यनुवृत्त्यापत्तेः । विशेषण-त्वोपलक्षणत्वातिरिक्तोपाधित्वपक्षस्य प्रागेव दूषितत्वात् । एवं च वृत्त्यन्तरविशिष्ट-चैतन्यस्य दृष्टित्वे कथं नानवस्थेति ।। उक्तन्यायेनेति ।। न च स्वाप्नवद्देहेन्द्रियादि-निरपेक्ष एव भ्रम इति वाच्यम् । स्वाप्नभ्रमेऽपि देहेन्द्रियाद्यभावासम्प्रतिपत्तेः । क्लृप्त-देहेन्द्रियादिकारणं विनापि भ्रमाङ्गीकारेऽज्ञानाद्यभावेऽपि भ्रमापत्तौ मोक्षेऽपि तदापत्तेश्च ।। घटादेरिति ।। न च ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववद् दृष्टिसृष्टेः दृष्टि-सृष्टित्वेऽपि घटादेरपि दृष्टिसृष्टितोपपत्तिरिति वाच्यम् । भावानवबोधात् । तथा हि । ज्ञानस्य ज्ञानमित्यस्य ज्ञानं नेति नार्थः । तथात्वे घटस्याज्ञेयत्वावश्यंभावात् । दृष्टिसृष्टे-र्दृष्टिसृष्टिरित्यस्य तु वस्तुतो न दृष्टिसृष्टिरित्येवार्थः पर्यवस्यति । तथा च वास्तवदृष्टि-सृष्टित्वाभावेऽवास्तवदृष्टिसृष्टित्वमेव पर्यवस्यति । विरुद्धयोरन्यतरस्यावास्तवत्वेऽन्यतरस्य वास्तवत्वनियमादिति युक्तमेवोक्तम् ।

ननु दीपादाविव प्रत्यभिज्ञा भ्रान्तिरित्यत आह ।। दीपादाविति ।। नन्विहापि प्रतिभासकालातिरिक्तकालसत्त्वे प्रतिभासमात्रशरीरत्वमेव बाधकम् । न च तदेवासिद्धम् ‘‘नेह नाना’’ इति श्रुत्या मिथ्यात्वेन तत्सिद्धेरिति चेन्न । नेह नानेत्यादिश्रुतीनां मिथ्यात्वपरत्वाभावस्य सम्यक्प्रतिपादितत्वात् । नेह नानेति श्रुतेरपि दृष्टिसृष्टित्वेन तत्सिद्धमिथ्यात्वादेर्दृष्टिसृष्टित्वेनामिथ्यात्वादेरदृष्टिसृष्टित्वापाताच्च । अभेदभ्रमकारण-सादृश्याद्यभावेनाभेदभ्रमायोगाच्च । न च दृष्टिसृष्टिसिद्धमेव सादृश्यादिकं तत्कारणमिति वाच्यम् । तत्रापि तत्कारणान्तरान्वेषणेऽनवस्थापातात् । कारणं विना भ्रमाङ्गीकारे च मोक्षेऽपि तदापातात् । अत एवाह ।। तदभाव इति ।। न च तत्र बाधकाभावादात्मनि एकस्मिन्क्षणे घटादौ चाभेदो न भेद इति वाच्यम् । दृष्टिसृष्टिसिद्धबाधकस्य तत्रापि वक्तुं शक्यत्वात् । वास्तवबाधकस्य च प्रकृतेऽप्यभावादिति ।। सोऽयमिति ।। न च यदा धर्माभेदो न गृहीतः किन्तु धर्म्यभेद एव तदा सोऽयमित्यादौ जहदजहल्लक्षणासम्भवेन दृष्टान्ततोपपत्तिरिति वाच्यम् । दृष्टिसृष्टिपक्षे धर्मभेदग्रहसमय एव धर्मिभेदस्यापि भावत्वेन धर्म्यभेदग्रहासम्भवात् । तद्वदेव वास्तवाभेदपरत्वस्यापाताच्च । बाधाबाधाभ्यां व्यवस्थेति तु निरस्तम् ।। अभेदस्येति ।। न चाभेदो ब्रह्मस्वरूपोऽतो नोक्तदोष इति वाच्यम् । अभेदस्य सोपाधिकत्वेन निरूपाधिकब्रह्मस्वरूपत्वासम्भवात् । अन्यथा चिन्मात्रस्य प्रत्यहं भातत्वेन तदभिन्ने अभेदे विप्रतिपत्त्यादि न स्यात् ।

न चान्यूनसत्ताकत्वमात्रेण बाधकत्वमिति वाच्यम् । तस्य बाध्येऽपि सत्त्वेन बाधकताप्रयोजकत्वासम्भवात् । किञ्चाभेदसाक्षात्कारस्य दृष्टिसृष्टित्वेन प्रमाणजन्यत्वा-भावात् तत्त्वज्ञानत्वाभावे ततो मोक्षो न स्यात् । न चाबाधितविषयत्वेन तत्त्वज्ञानत्व-मिति वाच्यम् । दृष्टिसृष्टिसिद्धबाधस्य तत्रापि सम्भवात् । वास्तवबाधस्य प्रकृतेऽप्य-भावात् । बाधाभावस्य ब्रह्मातिरिक्तत्वेन दृष्टिसृष्टित्वावश्यम्भावात् ।। ध्रुवेति ।। न चानित्यत्वपक्षेऽपि ध्रुवेत्यस्यान्यार्थपरत्वे आवश्यके दृष्टिसृष्टिपक्षेऽपि दृष्टिसृष्टिप्रतिपादक-श्रुत्यनुरोधेनाकल्पसन्तानाविच्छेदपरत्वमेव युक्तमिति वाच्यम् । ध्रुवपदस्य बहुकाल-वस्थायित्वमात्रवाचकत्वेनान्यार्थपरत्वाभावात् । पञ्चमहाभूतानामुपचितरूपेण नित्यत्वा-भावेऽपि सूक्ष्मरूपेण नित्यत्वाच्च । न च राजेत्यादावगतिरिति वाच्यम् । राजशब्देन नियामकेश्वरग्रहणेन तस्य ध्रुवत्वसम्भवात् । तस्यैव राजशब्दमुख्यार्थत्वात् । बुद्धि-स्थत्वेनेदंशब्दप्रयोगासम्भवाच्च । उक्तमर्थं कारिकारूढं करोति ।। तस्मादिति ।।

ननु ‘‘अस्मादात्मनः’’ इति दृष्टिसृष्टिप्रतिपादकप्रमाणस्यैव बाधकस्य सद्भावे कथं प्रत्यभिज्ञानिर्बाध इत्यत आह ।। अस्मादिति ।। अस्य वाक्यस्य ब्रह्मणः सर्वसृष्टि-प्रतिपादनपरत्वेन सुप्तोत्थितजीवप्राणादिसृष्टिप्रतिपादकत्वाभावात् । ब्रह्मण्येवात्मशब्दस्य मुख्यत्वात् । अत एव द्युभ्वाद्यायतनं स्वशब्दादित्यत्रात्मशब्देन ब्रह्मत्वं साधयामास सूत्रकारः ।

किञ्च प्राणादेः श्वसादिरूपेण सत्त्वात् न तत्सृष्टिप्रतिपादकत्वम् । न च न तु तद्द्वितीयमस्तीत्यनेन सुप्तौ सर्वप्रपञ्चाभावः प्रतिपाद्यत इति वाच्यम् । तस्य प्रागेव सम्यग्व्याख्यातत्वात् । प्रत्यक्षादिविरोधाच्च न प्राणादिसृष्टिप्रतिपादकत्वम् ।

ननु प्राक् ब्रह्मणः प्रकृतत्वात्कथमस्मादित्यनेन परामर्श इत्यत आह ।। यत्रेति ।। तथा च यच्छब्देन प्रकृतत्वेनास्मादिति परामर्शो युज्यत इति भावः । न च यत्रेति कालपरमिति वाच्यम् । त्रलो देश एव व्युत्पत्तेः । न च क्व तदेति देशप्रश्नानुपपत्तिरिति वाच्यम् । देशविशेषाभिप्रायेण तदुपपत्तेः । न च तदेति प्रतिनिर्देशानुपपत्तिरिति वाच्यम् । बुद्धिस्थत्वेन तदुपपत्तेः ।

किञ्चास्य वाक्यस्य जीवात्सृष्टिप्रतिपादनपरत्वमनुपपन्नम् । जीवस्य सर्वलोक-स्रष्टृत्वासम्भवात् । बाधकान्तरं चाह ।। अन्यथेति ।। न च केन क्रमेण सुप्तो भवतीत्यपेक्षायां हिता नाम नाड्यो पुरीततमभिप्रतिष्ठन्ते, ताभिः प्रत्यवसृत्य पुरीतति शेते इत्यादिना सुप्त्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते न सुप्तिकाल इति वाच्यम् । क्रमप्रतिपादकशब्दाभावेन सुप्तिकाल एव नाडीसत्त्वप्रतीतेः वाक्यान्तरे आसु तदा नाडीषु सुप्तो भवतीति सुप्त्याधारत्वेन नाडीसत्वोक्तेश्च । अन्यथाऽश्रुतकल्पनापत्तेः भाष्यकारादिव्याख्यानविरोधाच्च ।

न च भाष्यकारादिभिः स्थलाधिकारिणं प्रति तथा व्याख्यातमिति वाच्यम् । अस्याः कल्पनायाः दृष्टिसृष्टिसिद्ध्युत्तरकालीनत्वेनान्योन्याश्रयात् । न चोर्णनाभ्यादेः तन्त्वादि-जन्मोक्तिर्लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुसृत्येति वाच्यम् । अन्योन्याश्रयादेव ।। अत्रापीति ।। न च सर्वलोकदृष्टिरेव सर्वलोकसृष्टिरिति वाच्यम् । सुप्तोत्थितस्य सर्वलोकदृष्ट्यभावाद् दृष्टौ व्युच्चरतीति प्रयोगाभावाच्च । बाधकाभावे लक्षणाया अन्याय्यत्वात् ।

किञ्चाविद्यासहकृतजीवकारणत्वे जगद्वैचित्र्यानुपपत्तिः । न च जगदुपादानस्याज्ञानस्य विचित्रशक्तित्वाज्जगद्वैचित्र्यमिति वाच्यम् । अज्ञानवैचित्र्यस्याप्रामाणिकत्वात् । न च जगद्वैचित्र्यान्यथानुपपत्या तत्कल्पनम् । प्रमितेश्वरशक्तिवैचित्र्येणैव तदुपपत्तेः । तस्मान्न जगतः प्रतिभासमात्रशरीरत्वरूपं दृष्टिसृष्टित्वमिति न तदन्यथानुपपत्या मिथ्यात्वमिति ।

न्यायामृतप्रकाशः

अत्र कैश्चित् शुक्तिरूप्यस्वप्नादिवत् दृष्टिसृष्टित्वान्यथाऽनुपपत्या जगतो मिथ्यात्वसिद्धि-रङ्गीकृता । तद्दूषयितुमनुवदति ।। यच्चेति ।। दृष्टिसृष्ट्यङ्गीकारे क्षणिकत्वमर्थतोऽङ्गीकृतं स्यादित्याह ।। बौद्धेति ।। बौद्धाभिमतक्षणिकत्वसिद्ध्यर्थं विश्वस्येत्यारभ्य इतिवद् भ्रान्ति-रिति यच्चोक्तमित्यन्वयः । तद्देहादिकं तद्देहेन्द्रियादिकं जगत्, तं प्रति चैत्रं प्रति भाति तद्देहादिकं जगत् । ननु दृष्टिसृष्टत्वे दृष्टेः क्षणिकत्वेन पदार्थानामपि क्षणिकत्वापत्त्या सोऽयं घटः इत्यादिप्रत्यभिज्ञाविरोध इत्यत आह ।। प्रत्यभिज्ञा त्विति ।। दीपे परिमाणभेदेन भेदात् तत्र पूर्वोत्तरदीपाभेदग्राहिप्रत्यभिज्ञा भ्रान्तिरूपा दृष्टा । तद्वदित्यर्थः । षडिति ।।

‘‘जीवो ब्रह्म विशुद्धा चित् विभागस्त्वनयोर्द्वयोः ।

  अविद्या तच्चितोर्योगः षडस्माकमनादयः ।।’’

इत्यङ्गीकारेण सर्वस्यापि जगतो दृष्टिसृष्ट्यङ्गीकारेऽपि तद्विरोधः स्यादिति भावः । न च जीवादिषड्व्यतिरिक्तमेव दृष्टिसृष्टमिति वाच्यम् । त्वन्मते दृष्टिसृष्टस्यैव मिथ्यात्वेन तेषां मिथ्यात्वासिद्धेः । बौद्धमिति ।। दृष्टिसृष्ट्यङ्गीकारे त्वयाप्यर्थात् क्षणिकत्वस्यैवाङ्गीकारादिति भावः । नियतेति ।। दृष्टिमात्रसृष्टत्वे मृदादितत्तन्नियतकारणजन्यत्वं न प्राप्तमित्यर्थः । नियतकारणाजन्यत्वे सति किं स्यादित्यतः श्रुतिष्विति । तृप्त्यर्थमिति ।। ‘तृप्तिर्मेऽस्तु’ इति दृष्ट्या कल्पनयैव तृप्त्युपपत्तेः तदर्थं भोजनं व्यर्थमिति भावः । परेति ।। परप्रत्यायनं स्यादिति कल्पनयैव तदुपपत्तौ तदर्थं शब्दोच्चारणं व्यर्थमित्याशयः । स्वक्रियेति ।। दृष्टिमात्रसृष्ट्यङ्गीकारे भोजनादिक्रियापेक्षा तृप्त्यादौ नास्तीत्यर्थतोऽङ्गीकृतं स्यात् । पुनश्च तदर्थं भोजनादिक्रियाकरणे स्वक्रियाविरोध इत्यर्थः ।

ननु यथा स्वप्ने ज्योतिष्टोमादिवाक्यात् साध्यसाधनभावं जानतः स्वर्गार्थं ज्योतिष्टोमादौ प्रवृत्तिः तेन च फलं यथा च तृप्त्यर्थं स्वप्नभोजनादिप्रवृत्तिः तया च तृप्त्यादिकं फलं, पर-प्रत्यायनार्थं शब्दोच्चारणादिकं चास्ति तद्वत् जाग्रत्पदार्थानामपि प्रतीतिमात्रशरीरत्वेऽपि नोक्तव्यवस्थाऽनुपपत्तिरित्याशङ्कते ।। यदि त्विति ।। पर्यनुयोज्यं विचारार्हम् । तथा, स्वप्नश्रुत्यादितुल्यम् । तेन, स्वाप्नश्रुतितुल्येनाद्वैतश्रुतितन्मीमांसादिना । प्रतिकर्मेति ।। तदुपपादकेन्द्रियसन्निकर्षाभावादिति भावः । शुक्तीति ।। इदमंशरूप्ययोरुभयोरपि दृष्टिसृष्ट-त्वादिति भावः । सम्प्रयोगादीति ।। अधिष्ठानं, प्रधानम्, अधिष्ठानेन्द्रियसम्प्रयोगश्चेति कारणत्रयेत्यर्थः । तटस्थेति ।। सम्प्रयोगादिकादाचित्कनानापदार्थघटितस्य स्वरूप-लक्षणत्वायोगादिति भावः । सम्भेदो नाम मिश्रितत्वम् । अभेद इति यावत् । अवभास-त्वेति ।। तद्रूपस्वरूपलक्षणेत्यर्थः । तथा च रूप्यवदिदमंशस्यापि दृष्टिसृष्टतया ज्ञानात् प्रागभावेनाधिष्ठानसम्प्रयोगादेरभावेन तटस्थलक्षणस्य, उभयोरपि दृष्टिसृष्टत्वाविशेषे शुक्ति-रूप्ययोः सत्यत्वमिथ्यात्वविवेकाभावेन स्वरूपलक्षणस्याप्ययोगादिति भावः । शुक्ति-त्वादेरिति ।। शुक्तित्वसर्जकदृष्टेरभावेन शुक्तित्वस्वरूपस्यैवाभावात् । तज्ज्ञाने तु तदज्ञान-मेव न सम्भवतीत्यर्थः । इदं रूप्यमिति ।। प्रतिदृष्टि विषयभेदस्वीकारेणेदं रजतं नेदं रजतमिति ज्ञानविषयीभूतेदमंशयोर्भेदेन तयोर्ज्ञानयोर्भिन्नधर्मिकतया बाध्यबाधकभावायोगा-दित्यर्थः । रूप्यादिबाधस्येति ।। अत्र बाधशब्दो विरोधिपरः । रूप्यादिविरोधिनः । तदभावस्येत्यर्थः । एवं च रूप्यतदभावयोरप्यस्मिन् पक्षे दृष्टिसृष्टतया तुल्यसत्ताकत्वेन तद्विषयकज्ञानयोर्हीनाधिकबलवत्वाभावाद् बाध्यबाधकभावायोगेन रूप्याभावविषयकेण नेदं रजतमिति ज्ञानेन रूप्यमिथ्यात्वासिद्धरित्यर्थः । अप्रतीतत्वेनेति ।। चिन्मात्रस्या-प्रत्येतृत्वात् जीवानामपि तदा देहादेर्नाशेनाप्रत्येतृतया सर्जकदृष्टेरभावेन जीवब्रह्मविभागस्या-विद्यमानत्वापत्त्याऽभेदस्यैव प्राप्तेः त्वन्मते ब्रह्माभेदस्यैव मुक्तिरूपत्वात् सुप्तेः पुनरुद्बोधाङ्गी-कारे मुक्तस्यैव पुनरावृत्तिरङ्गीकृता स्यात् । तथा प्रलयानन्तरं सृष्ट्या पुनरावृत्तेः सत्वात् तत्रापि मुक्तस्यैव पुनरावृत्तिरङ्गीकृता स्यात् । तथा च ‘न पुनरावर्तते,’ ‘अनावृत्तिः शब्दात्’ इत्यादिश्रुतिसूत्रविरोधः स्यादित्यर्थः । तस्यानादित्वाङ्गीकारे तु मिथ्यात्वा-सिद्धिरित्युक्तम् । सुप्तं प्रतीति ।। न च कारणात्मना संस्कारोऽप्यस्तीति वाच्यम् । कारणस्यापि दृष्टिसृष्टत्वेन सुप्तौ तस्याप्यभावादिति भावः । मोक्षस्यापीति ।। अविद्या-निवृत्तिरूपस्येत्यर्थः । दृगिति ।। मोक्षस्य दृग्रूपत्वेऽसाध्यत्वं स्यादिति भावः । दृष्टि-सृष्टत्वं जगतोऽङ्गीकुर्वता त्वया दृष्टिशब्देन चिन्मात्रं विवक्षितम्? विशिष्टं वा ? नोभय-मपीत्याह ।। चिन्मात्रस्यैवेति ।। अर्थज्ञानरूपचैतन्यस्य सदा सत्वेनार्थस्यापि सदातनत्वापत्त्या सदा प्रतीत्यापत्तिरित्यर्थः । तत्त्वे घटादिदृष्टित्वे । अनवस्थादीति ।। विशिष्टस्यापि दृष्टिसृष्टत्वात् तत्र चिन्मात्रस्यैव विशिष्टस्य सदा प्रतीत्यापत्या विशिष्टस्यैव विशिष्टदृष्टित्वे वाच्ये तस्यापि विशिष्टस्य दृष्टिसृष्टित्वेनानवस्थाप्रसङ्गादित्यर्थः । उक्त-न्यायेनेति ।। प्रतिकूलतर्कपराहतिकथनसमये उक्तन्यायेनेत्यर्थः । तेषामपि देहेन्द्रियादीना-मपि इत्यर्थः । भ्रान्त्यर्थमिति शेषः । अनवस्थेति ।। जगद्भ्रान्तिजनकदेहेन्द्रियादि-भ्रान्तिजनकदेहेन्द्रियादेरपि दृष्टिसृष्टत्वेऽनवस्थेत्यर्थः । इत्यस्यापि प्रमेयस्य दृष्टिसृष्टित्वे-नेति ।। मिथ्यात्वादिति भावः । दृष्टिसृष्ट्यङ्गीकारे क्षणिकत्वापत्त्या स्थायित्वग्राहि-प्रत्यभिज्ञाविरोधश्च स्यादित्याह । प्रत्यभिज्ञेति ।।

ननु सोऽयं दीप इतिवत् प्रत्यभिज्ञा भ्रान्तिरित्युक्तमिति चेत् तत्राह ।। दीपादाविति ।। दीपैक्यबाधकस्येत्यर्थः । इहेति ।। प्रपञ्चस्य दृष्टिसृष्ट्या भेदाङ्गीकारे इत्यर्थः । तद-भावेऽपीति ।। बाधकाभावेऽपीत्यर्थः । एकस्मिन्निति ।। यस्मिन् क्षणे सत्त्वं त्वया कथ्यते तस्मिन्नपि क्षणे इत्यर्थः । तादृशसूक्ष्मतरकालेऽपि योगिनामभेदग्राहिप्रत्यभिज्ञा वाच्या । तस्या अपि भ्रान्तित्वापातादित्यर्थः । आत्मनोऽपीति ।। अनादिनित्यतयाऽङ्गी-कृतस्य ब्रह्मणोऽपीत्यर्थः ।। तत्र च पूर्वोत्तरक्षणयोरैक्यग्राहिशुकादिप्रत्यभिज्ञा वाच्या । तस्या अपि भ्रान्तित्वापत्तेरित्याशयः । सोऽयमिति ।। यथा सोऽयं देवदत्त इति प्रत्यभिज्ञा तावत् प्रमा । तत्र च तद्देशकालविशिष्टस्यैतद्देशकालविशिष्टेनाभेदे एतद्देशकालयोरपि तदानीं सत्वापत्तेः । एतद्देशकालविशिष्टस्य तद्देशकालविशिष्टेनाभेदे तद्देशकालयोरपीदानीं सत्त्वापत्तेः। अतः तदेतद्देशकालभागत्यागेन देवदत्तस्वरूपमात्रस्यैवाभेदः सिद्ध्यति । तद्दृष्टान्तेन तत्त्वमसीत्यादावपि विशेषणांशत्यागेन चिन्मात्रैक्यमङ्गीकृतम् । तन्न स्यात् । सोऽयं देवदत्त इति प्रत्यभिज्ञाया अपि भ्रान्तित्वोपपत्त्या दृष्टान्तत्वासम्भवादिति भावः । तस्मात् बाधका-भावेनैतासां प्रत्यभिज्ञानां प्रमात्वं वाच्यम् । तत् प्रपञ्चप्रत्यभिज्ञाया अपि तुल्यमिति भावः।

ननु जगतो दृष्टिसृष्ट्या मिथ्यात्वानङ्गीकारेऽभेदज्ञानमेव बाधकमस्तीति चेत् तत्राह ।। अभेदस्यापीति ।। अभेदस्यापि दृष्टिसृष्टत्वेन प्रपञ्चतुल्यतया तज्ज्ञानस्य प्राबल्यायोगेन भेदबाधकत्वाभावादित्यर्थः । स्थायित्वग्राहिश्रुतिविरोधाच्च न दृष्टिसृष्टिर्युक्तेत्याह ।। ध्रुवा द्यौरिति । भिन्नत्वेनेति ।। ‘घटपटौ भिन्नौ’ इति प्रतीतेर्दृष्टिसृष्टिपक्षे भ्रमत्वेन घटपटयो-र्क्लृप्तभेदत्यागः । परस्परविरोधे तु न प्रकारान्तरस्थितिरिति न्यायेनाक्लुप्ताभेदकल्पनं कार्यम् । तथा सोऽयं घट इति प्रतीतेरपि दृष्टिसृष्टिपक्षे भ्रमत्वेनैकस्मिन्नेव घटे क्लृप्ताभेदत्यागः । परस्परविरोधे त्विति न्यायेनाक्लृप्तभेदकल्पनं चाप्रामाणिकमेवाङ्गीकार्यमिति भावः । सङ्गृह्णाति । तस्मादिति ।। स्वक्रियादीति ।। दृगन्यस्य सर्वस्य दृष्टिसृष्टत्वे इत्याद्युक्तप्रकारेणेत्यर्थः । नन्वास्मादात्मन इत्यादिश्रुतौ अस्मादात्मनः सुप्तात् जीवात् प्रबोधानन्तरं प्राणादयः सर्वे पुनर्जायन्त इत्युक्तत्वेन इयं श्रुतिरेव जगतो दृष्टिसृष्टत्वे मानमिति चेत् तत्राह । अस्मा-दात्मन इति ।। अन्यथेति ।। अस्य वाक्यस्य सुप्तजीवादेव प्राणादिसृष्टिकथनपरत्व इत्यर्थः । कुतोऽयुक्ता स्यादित्याह ।। न हीति ।। नाड्यादिकमिति ।। सुषुप्तौ नाड्यादि-दृष्टेरभावादिति भावः । ऊर्णनाभ्यादित इति ।। आदिपदेनाग्निग्रहणम् । सर्वलोकादीति ।। सर्वलोकसाक्षात्काराभावेन सर्वलोकजन्मोक्तिरयुक्ता स्यादित्यर्थः । ऊर्णनाभितन्त्वित्यादि । न हि तन्तूनां विष्फुलिङ्गानाम् ऊर्णनाभ्यग्निभ्यां दृष्टिसृष्टिरस्ति । किन्तु स्वशरीरात् निष्कासनरूपैवोर्णनाभेस्तन्तुसृष्टिः । विष्णुलिङ्गानां त्वग्नितो जडात् व्युच्चरणमेवेति भावः । इति दृष्टिसृष्टिभङ्गविवरणम् ।

न्यायकल्पलता

अत्र कश्चिन्मायावादी शुक्तिरूप्यस्वप्नादिवत दृष्टिसृष्टित्वान्यथानुपपत्या जगतो मिथ्यात्वमिति वक्तुं जगतो दृष्टिसृष्टिरित्याह । तद्दूषयितुमनुवदति ।। यच्चेति ।। दृष्टि-सृष्ट्यङ्गीकारे क्षाणिकत्वमर्थतोऽङ्गीकृतं स्यादिति भावेनोक्तम् ।। बौद्धेति ।। कुतो नेत्यत स्ववचनविरोधं तावदाह ।। षडस्माकमिति ।। ‘जीवो ब्रह्म विशुद्धा चिद्विभागस्त्वनयो-र्द्वयोः । अविद्या तच्चितोर्योगः षडस्माकमनादयः’ इति । नन्वनाद्यतिरिक्ते सृष्टिविषय एव दृष्टिसृष्टिस्वीकारान्न विरोध इति चेत् । मैवम् । विभागादीनां दृष्टिसृष्ट्या मिथ्यात्वासिद्ध्या दृष्टिसृष्ट्या मिथ्यात्वसिद्धिरिति स्वोक्तिविरोधात् ।। स्वर्गाद्यर्थमिति ।। स्वप्नादिसाम्यज्ञाने सति ज्योतिष्ठोमादौ प्रवृत्तिर्न स्यादित्यर्थः । स्वक्रियास्वन्यायविरोधावप्याह ।। तवापीति ।। ननु स्वाप्नकार्यकारणभावबोधकवाक्यवदुपपत्तिरित्याशङ्क्य निराकरोति ।। यदीति ।। स्वप्न-वेदान्ततन्मीमांसासाम्येन जागरे तत्र प्रवृत्तिर्न स्यादित्यर्थः । न च विषयाबाधतद्बाधाभ्यां स्वप्नाद्विशेषः । स्वप्नादविशेषे विषयाबाधादेरेवायोगात् ।। घटादेरिति ।। सादेरपीत्यर्थः ।। शुक्तीदमंशस्यापीति ।। यस्तु प्रतिमकर्मव्यवस्थामध्यासतटस्थलक्षणं च मन्दाधिकारिक-मित्याह । स स्वाचार्यप्रक्रियामेव न मन्यत इत्युपेक्षणीयः ।। सत्यस्येति ।। शुक्तीदमंश-स्यापि रूप्यवन्मिथ्यात्वात् सत्यं वस्तु नास्तीत्यर्थः ।

ननु दृष्टिसृष्टिपक्षेऽपीदमंशावच्छिन्नचैतन्येन मिथ्यारूप्यस्य तेन सह सम्भेदावभासोऽ-स्त्येवेति । मैवम् । इदंवृत्तेः प्रागिदमोऽसत्वेन तदवच्छिन्नचैतन्यस्याभावात् । तस्य मिथ्यात्वाच्च ।। इदं रूप्यमिति ज्ञानकाल इति ।। शुक्तित्वाज्ञाने शुक्तित्वस्वरूप-स्यैवासत्वात् । तज्ज्ञानकाले तु तस्य सत्वेऽपि नाज्ञानावच्छेदकत्वम् । तस्य ज्ञातत्वात् । ननु शुक्तित्वाभावेऽपि तदज्ञानमस्तु । सत्ताकाल इव सत्ताविरहकालेऽप्यज्ञानाविरोधात् । मैवम् । अज्ञानस्य ज्ञातैकसत्वात् । तज्ज्ञानस्य च तदवच्छेदकविषयत्वात् । तदवच्छेदकस्य दृष्टिसृष्टित्वात् । सत्ताविरहकालेऽज्ञानमित्यस्यासिद्धेः । सत्ताकालेऽज्ञानमिति तु सुतराम-सङ्गतम् । ज्ञानस्यैव तत्सत्तारूपत्वात् । न च स्थायित्वपक्षे सत्ताकाल इति दृष्टान्तः । सत्ताविरहकालेऽज्ञानमित्यस्योक्तविधयाऽसङ्गतेरिति भावः ।। भिन्नेति ।। भ्रमकाले बाधकाले चेदमंशयोर्भेदात् । न च भेदेऽपि सारूप्यात् बाधादिव्यवस्थेति वाच्यम् । सारूप्यस्यापि दृष्टिसृष्टित्वेनोभयानुगतस्याभावात् ।। रूप्यादिबाधस्यापीति ।। अधिकबलस्यैव बाध-कत्वात् । एतेन बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकं न त्वधिकसत्ताकत्वमित्य-पास्तम् । अव्यवस्थापातात् ।। सुषुप्तीति ।। न च जीवादिविभागस्यानादितया न दृष्टि-सृष्टिरिति वाच्यम् । तस्य मिथ्यात्वासिद्धेरित्युक्तत्वात् ।। सुप्तं प्रतीति ।। न च कारणात्मना संस्कारोऽस्तीति वाच्यम् । कारणस्यापि दृष्टिसृष्टित्वेन सुप्तौ तस्याप्यभावात् ।। मोक्षस्यापीति ।। अविद्यानिवृत्तिरूपस्येत्यर्थः । मोक्षस्य दृग्रूपत्वेऽसाध्यत्वं स्यादिति भावे-नोक्तम् ।। दृगन्यस्येति ।। सदेति ।। अर्थज्ञानस्य सदा सत्वेनार्थस्यापि सदातनत्वापत्या सदा प्रतीत्यापत्तेरित्यर्थः । न च वृत्त्युपहितचैतन्यमेव घटादेर्दृष्टिः । वृत्तौ तु वृत्तिरेव स्वस्वरूपचैतन्योपाधिरिति वाच्यम् । वृत्तिज्ञानं विना वृत्तिस्वरूपासिद्ध्या वृत्तिविशिष्ट-चैतन्याभावेन वृत्तिस्वरूपसिद्ध्यर्थं वृत्त्यन्तरविशिष्टचैतन्यस्य वृत्तिज्ञानत्वं वाच्यम् । एव-मन्यस्यान्यस्येत्यनवस्थेत्यर्थः ।। उक्तन्यायेनेति ।। न च स्वाप्नवद्देहेन्द्रियनैरपेक्ष्येणैवायं भ्रम इति वाच्यम् । अन्वयव्यतिरेकाभ्यां भ्रममात्रे देहादेर्हेतुत्वेन स्वाप्नभ्रमेऽपि तद्धेतुत्वात् । दोषाज्ञानादेरवश्यं भ्रमहेतुत्वाच्च । अन्यथा मोक्षेऽपि भ्रमः स्यादिति भावः ।

तत्तेदन्ताविशिष्टार्थावगाहिप्रत्यक्षविरोधश्च स्यादित्याह ।। प्रत्यभिज्ञेति ।। सेयं दीप-कलिका सोऽयं कुन्तलकलाप इतिवत्स्यादित्याशंक्य बाधाभावलक्षणं प्रकृते तद्वैलक्षण्यमाह ।। दीपादाविति ।। विपक्षे बाधकमाह ।। तदभावेऽपीति ।। दृष्टिसृष्टिवादी घटादेः क्षणिकत्वं वैय्याथ्येनाभ्युपगच्छेदत उक्तम् ।। आत्मनोऽपीति ।। यद्वा यदा घटादौ दृष्टिसृष्टिरिति ज्ञानं नास्ति तदा घटादीनां दृष्टिसृष्टेरभाव इति भावेनोक्तम् ।। घटादेरिति ।। एतेन नेह नानेति श्रुत्या प्रपञ्चस्य मिथ्यात्वेऽवधृते रज्जुसर्पादिवत्प्रतिभासमात्रशरीरत्वमेव प्रतिभासकालातिरिक्तकालसत्वे बाधकमिति निरस्तम् । अनुस्मृतेश्चेति स्थायित्वप्रतिपादक-सूत्रविरोधात् ।। सोऽहमिति ।। ननु यदा तत्तेदन्तासामानाधिकरण्यं न गृहीतं किन्तु धर्म्यभेद एव तदा सोऽयमित्यादौ जहदजहल्लक्षणासम्भवेन दृष्टान्तत्वोपपत्तेरिति । मैवम् । तत्तेदन्तासामानाधिकरण्याग्रहे धर्म्यभेदस्यैव दुर्ग्रहत्वात् ।। अभेदस्येति ।। औत-श्रुतिबोध्यस्यापीत्यर्थः । न चात्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभाव इति युक्तम् । अभेदस्य स्वप्रकाशात्मरूपत्वे वेदान्तवेद्यत्वानुपपत्तेः ।

श्रुतिविरोधमप्याह ।। ध्रुवा द्यौरिति ।। यत्त्वत्र केनचित्प्रलपितम् । आकल्पसन्ताना-विच्छेदपरत्वं ध्रुवश्रुतेः । अन्यथा ध्रुवो राजेत्यादावगतिरिति । तद्वेदार्थज्ञानगन्धवैधुर्य-निबन्धनम् । अनेन हि सूक्तेन सङ्ग्रामायोद्यतो राजा पुरोधसा सन्नाहवनीयः । उक्तं चाश्व-लायनसूत्रे ‘‘सङ्ग्रामे समुपोह्ले राजानं सन्नाहयेदात्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतीकमिति कवचं प्रयच्छेदुत्तराया धनुरुत्तरां वाचयेत्स्वयं चतुर्थीं जपेत्पञ्चम्येषुधिं प्रयच्छेदि’’त्यादि । समुपोह्ले समुपस्थिते । रथस्य पश्चादवस्थाय पुरोहितो जपेदिति शेषः । चैत्ययज्ञे प्राक्स्वितकृतश्चैत्याय बलिं हरेदिति खण्डे यत्र वेत्थ वनस्पत इत्येतयर्चेति ऋक्ग्रहणेन ऋचं पादग्रहणं पाद इति परिभाषाया अनित्यत्वज्ञापनात् आ त्वाहार्षमन्तरेधीति पश्चाद्रथस्येत्यत्र पादग्रहणे सत्यपि सूक्तस्यैव ग्रहणमिति वृत्तिकारोक्तेः अत्र च सूक्ते अविचाचलिः मापच्योष्ठा इत्यादिना राज्ञे स्थिरत्वमाशास्यते । तत्र दृष्टान्तो ध्रुवा द्यौरित्यादिना । यथा द्यौः स्वर्लोकः । पृथिवी पर्वताः विश्वं जगत् इदं यथायथं प्रत्यक्षादिप्रमाणप्रमितं ध्रुवं स्थिरं तथा त्वमप्यस्मदीयो राजा स्थिरो भवेति । माधवीयेऽ-प्येवमेव व्याख्यातम् । कः प्रसङ्गः आकल्पसतोऽनादिकल्पनायाः । अन्यथा तत्सत्यं स आत्मेत्यादेरप्येवमेवार्थः कल्प्येतेति स्पष्टं बौद्धवादः स्यात् । दृष्टहानादिनापि दूषयति ।। भिन्नत्वेनेति ।। सङ्गृह्णाति ।। तस्मादिति ।।

ननु ‘‘स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः । स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तहृदय आकाशस्तस्मिन् शेते तानि यदा गृह्णात्यथ हैतत्पुरुषः । स्वपिति नामे’’त्याद्युक्त्वा । ‘‘अथ यदा सुप्तो भवति तदा न कस्यचन वेह हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभि-प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते । अतिशयेन क्लेशान् हन्तीति अन्तिघ्नी ताम् । आनन्दस्यावस्थाम् । स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चर-न्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यमि’’ति । अत्राब्रह्मविदं गार्ग्यं प्रति क्षत्रियोऽपि सन् ब्रह्मवित् काश्यो ब्रह्म बोधयितुं गार्ग्येण सह सुप्तं पुरुषं प्रत्यागम्य तं पाणिना पेष्य बोधयित्वा गार्ग्येण कर्तुमर्हं प्रश्नमज्ञानादकृतं स्वयमेव काश्यो गार्ग्यं प्रति कृतवान् स होवाचेत्याद्यकण्डिकया । एतदिति क्रियाविशेषणम् । एष विज्ञानमयोऽन्तः-करणप्रायो यत्र सुप्तोऽभवत् तदा एषः क्वाभूत् । कुत आगात् । एतत्प्रश्नद्वयं प्रतिवक्तुं गार्ग्यो न ज्ञातवान् । अतः काश्य एव तदुत्तरं वक्ति स होवाचेत्यादिद्वितीयकण्डिकया । अन्तर्हृदये विद्यमानो य आकाशस्तस्मिन् शेत इति  सुषुप्तप्रकारनिरूपणाय अथ यदा सुषुप्तो भवतीत्यादिकण्डिका । कुत एव तदागादिति द्वितीयप्रश्नस्योत्तरं तस्मादात्मनः सर्वे प्राणा इत्यादि । तस्मादियं श्रुतिः सुप्तोत्थजीवात्प्राणादीनां सृष्टिं वक्तीति दृष्टिसृष्टौ प्रमाण-मित्याशङ्कां व्युदसितुं यथावत्तदर्थमाह ।। तस्मादात्मन इति ।। पाणिपेषादिना प्रबोधितस्य सुप्तस्य क आधार इति यत्रैष एतत्सुप्तोऽभूदित्यादिना काश्येन पृष्टस्य य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते इत्यादिना प्रतिवचनं ब्रुवता काश्येनैव आकाशशब्दवाच्यः परमात्मा सुप्तपुरुषाधारत्वेन य उक्तः स एवास्मादात्मन इत्यत्रेदंशब्देन परामृश्यत इति परमात्मन एव प्राणादिसृष्टिर्न तु सुप्तोत्थिताज्जीवात् । उक्तं हि बृहदारण्यकभाष्ये ‘‘येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित्कर्तव्यमेव । स्वहृदिस्थेन भगवद्रूपेण विशेषसम्बन्ध-दर्शनार्थमेव यत्रैष एषत्सुप्तोऽभूदित्यादिप्रश्नप्रतिवचनं समस्तम् । यत्र यस्मिन्परमेश्वरे एतस्मिन्विज्ञानमये एष जीवः सुप्तोऽभूत् । यत्रेत्यधिकरणभूत एव य एष विज्ञानमय इति परामृश्यते । ‘अन्योऽन्तर आत्मा विज्ञानमयः’ ‘विज्ञानं ब्रह्म चेद्वेदे’ति श्रुतेः’’ इत्या-द्युक्त्वा ‘‘आनन्दस्य परमात्मनः अतिध्नीं अतिशयेन दुःखं हन्तीति अतिघ्नी तां समीप-वृत्तिम् । कुमारो रुद्रः । महाराजो वायुः । महाब्राह्मणो ब्रह्मा । न हि जीवो विज्ञानपूर्वकं प्राणानां विज्ञानमादते । न च सर्वप्राणलोकदेवभूतानां स्रष्टे’’त्यादि । परेषां बृहदारण्यक-भाष्येऽपि सुप्ताधारत्वेनात्रोक्त आकाशः परमात्मैवेति प्रतिपादितम् । अत एव तत्रैव । ननु एवमेवास्मादात्मन इति संसारिण एवोत्पत्तिं दर्शयतीति चोदयित्वा य एषोऽन्तर्हृदय आकाश इति परस्य प्रकृतत्वादस्मादात्मन इति युक्तः परस्यैव परमार्श इत्युक्तम् ।।

ननु यत्रैष इति प्रश्नवाक्ये यत्रेति नाधारप्रश्नः किं तु कालप्रश्नः । अन्यथा क्वैष तदाभूदिति पुनर्देशप्रश्नानुपपत्तेरिति । मैवम् । तथापि क्वेति आधारप्रश्नस्यैवोत्तरं य एषोऽन्तहृदय आकाश इति । तत एव च सृष्टिः । वस्तुतस्तु यत्रेत्याधारप्रश्न एव । यत्राधारे सुप्तोऽभूत्स किंप्रकार आधार इति यत्रक्वशब्दयोरेकार्थत्वात् ।। अन्यथेति ।। ननु केन प्रकारेण सुषुप्तो भवतीत्यपेक्षायां हिता नाम नाड्य इति सुषुप्त्यव्यवहितकाले नाडीनां सत्वं प्रतिपाद्यते । न तु सुषुप्तिकाले । मैवम् । यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्य इत्यत्र यदेति निर्देशात्तदेत्यवश्यमवगतेः सुषुप्तिकाल एव हि पुरीतन्नामकनाड्यादिसत्वावगमात् । पुरीतति शेत इति पुरीतत्स्थस्य सुप्ताधारत्वश्रुतेश्च । तथा च श्रुत्या स्वभाष्येण च विरोधान्न जीवात्प्राणादीनां सृष्टिः । यस्तु स्वभाष्यं मन्दाधिकारिकमित्याह स स्वयमेव मन्दाधिकारी सद्भिरुपेक्षणीयः ।

अस्मादात्मन इति वाक्ये पूर्ववाक्येन विरोधमभिधाय स्ववाक्येनापि विरोधमाह ।। अत्रापीति ।। न हीति ।। सुषुप्तौ नाड्यादिसृरेवाभावात् नाड्यादिकं नास्ति जीवस्य तन्त्त्वादिदृष्टिरेव तन्त्वादिजन्म । न तूर्णनाभ्यादितस्तन्त्वादिजन्म वा । सुप्तोत्थितस्य सर्वलोकदृष्टिः सर्वलोकसाक्षात्कारः । तथा च सर्वलोकापरोक्षज्ञानाभावात्सर्वलोकजन्मोक्ति-रयुक्ता स्यादित्यर्थः ।। न चोर्णनाभीति ।।  न हि ऊर्णानाभिनाऽग्निना वा तन्तूनां विष्फुलिङ्गानां वा दर्शनमेव तेषां जन्म । किन्तु स्वदेहान्निष्कासनमेव । तस्मात् कुत एतदागादिति पूर्ववाक्ये जीवस्य सुषुप्तिकालेऽविद्यमानं ज्ञतृत्वादिकं कुत आगतमिति द्वितीय-प्रश्नस्य सर्वकर्तुः परमात्मन आगतमित्युत्तरं वक्तुं अनायासेन सर्वकर्तृत्वं परमात्मन उच्यते अस्मादात्मन इति वाक्येनेति । एतेन रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धद्रष्टृस्रष्टृत्वात्सुषुप्तौ च लयश्रुतेरिति निरस्तम् ।।

अपि च केयं दृष्टिसृष्टिः । दृष्टिरेव सृष्टिरिति वा ।। १ ।। दृष्टिव्यतिरिक्तसृष्ट्यभावो वा ।। २ ।। दृष्ट्यतिरेकेण सृज्याभावो वा ।। ३ ।। दृष्टिसामग्रीजन्यत्वं वा ।। ४ ।। दृष्टि-समानकालीनसृष्टिर्वा ।। ५ ।। दृष्टिसत्तासमानसताकसृष्टिर्वा ।। ६ ।। सदसद्विलक्षणत्वं वा ।। ७ ।। त्रिविधसत्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा ।। ८ ।। अज्ञातसत्वाभावो वा ।। ९ ।। जातैकसत्वं वा ।। १० ।।

आद्ये वृत्तिरूपा चैतन्यरूपा वा दृष्टिरभिमता । प्रथमे चरमवृत्तिविषयस्य ब्रह्मणोऽपि दृष्टिसृष्ट्यापत्तिः । द्वितीये सर्वदापि सृष्ट्यापत्तिः । न द्वितीयः । चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः । न तृतीयः । ज्ञातो घटो न ज्ञानमित्यनुभवविरोधात् । न च चतुर्थः । एकसामग्रीप्रसूतत्वे घटादेर्दृष्ट्यभिन्नत्वेऽनन्तरोक्तदोषात् । न पञ्चमः । शाब्दादि-ज्ञानसमानकालोत्पन्नघटादौ सिद्धसाधनात् । तद्वदन्यत्रार्थान्तरापत्तेश्च । न षष्ठः । उभय-सत्वेऽप्युपपत्तेः सिद्धसाधनात् । न सप्तमः । अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैतदुप-न्यासानुपपत्तेः । नाष्टमः । त्रिविधसत्वमध्ये प्रातिभासिक सत्वस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्बहिर्भावानुपपत्तेः । न नवमः । तुच्छसाधारण्यात् । न दशमः । सुखादौ सिद्धसाधनात् । तद्वदन्यत्रार्थान्तरत्वाच्च । ननु दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्वस्य ज्ञातसत्वाभावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्वस्य वा दृष्ट्यन्तरावेद्यत्वे सति ज्ञातैकसत्वस्य वा विवक्षितत्वान्न दोष इति चेत् । न । आद्यस्यानाद्यविद्यादावभावात् । द्वितीयस्य तुच्छसाधारण्यात् । तृतीयस्य घटादावप्यसत्वात् । चतुर्थस्य धर्मादावसिद्धेः । ब्रह्मण्यतिव्याप्तेश्च । अन्यथा सर्वप्रत्ययवेद्य इति स्ववचनविरोध इति दिक् ।।

न्यायामृतसौगन्ध्यम्

यच्च बौद्धाभिमतक्षणिकत्वसिद्ध्यर्थमुक्तं ‘‘विश्वस्य दृष्टिसृष्टिः । चैत्रे सुप्ते तद्देहादिकं तं प्रति नास्त्येव । जाग्रतो मैत्रस्य भ्रान्त्या भाति । प्रत्यभिज्ञा तु सोऽयं दीप इतिवद्भ्रान्तिः । दृष्टिसृष्टित्वं च दोषप्रयुक्तत्वनिबन्धनं ज्ञातैकसत्वं अज्ञातसत्वाभावः प्रतिपन्नोपाधिदृष्टिजन्य-ज्ञातैकसत्वं द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसत्वं वा विवक्षितमिति । तन्न । षडस्माकमनादय इति स्ववचनेन बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकविवरणेन च विरोधात् ।

न चानाद्यतिरिक्ते सृष्टिविषय एव दृष्टिसृष्टिस्वीकारः कारणात्मना स्थायित्वस्वीकारश्चेति वाच्यम् । पक्षातिरिक्त एव दृष्टिसृष्टिरिति स्वीकारौचित्यात् । अनादीनां मिथ्यात्वासिद्धेश्च । न च दृश्यत्वेनैव तन्मिथ्यात्वसिद्धिः । तेनैव सर्वत्र तत्सिद्धौ दृष्टिसृष्टिस्वीकारस्य निरर्थ-कत्वात् । दृगभावे कारणात्मनाऽवस्थानासम्भवाच्च ।

किं च प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादिविधेः ब्रह्मसाक्षात्कारार्थं श्रवणादिविधेः आकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुक्ता स्यात् । न च स्वाप्नकार्यकारणभावबोधकवाक्यवदुपपत्तिः । वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वाप्नवाक्य-तन्मीमांसातुल्यतापत्तेः । न च विषयाबाधतद्बाधाभ्यां विशेषोपपत्तिः । स्वाप्नाविशेषे विषयाबाधस्यैवासम्भवात् ।

यत्तु दोषप्रयुक्ताप्रयुक्तत्वाभ्यां बाधाबाधयोरुपपत्तिः । अन्यथा ‘अहमेवेदं सर्वोऽस्मी’ति श्रुत्युक्तस्वात्मतत्वविद्याया अपि बाधापत्तिः । उक्तं हि  शाबरभाष्ये । यस्य दुष्टं करणं यत्र च मिथ्येति प्रत्ययस्तत्र भ्रान्तिरन्यत्समीचीनमिति । तन्न । स्वाप्नास्वाप्नशुक्लादेस्तु प्रामाण्य-योग्यतादेश्च दृष्टिसृष्टितुल्यत्वेन तद्विषयस्य दोषाप्रयुक्तत्वासम्भवात् । प्रामाण्ययोग्यतादेः विषयेण सह समसत्ताकत्वस्योपपादितत्वात् । उक्तं चेति न शोभते । त्वन्मते धीमात्रस्य दोषजन्यत्वात् । अस्मन्मते घटादिप्रत्यक्षादेरपि दोषाजन्यत्वात् मिथ्येति प्रत्ययाभावाच्च ।

किञ्चैवं घटादेः स्वज्ञानात्पूर्वमसत्वेन प्रतिकर्मव्यवस्थानुपपत्तिः । अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवत् ‘इदं रजतं’ इति ज्ञानात्प्रागसत्वेन संप्रयोगादिहेतुत्रयजन्यत्व-स्याध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसम्भेदावभास इत्यस्य स्वरूपलक्षणस्य चायोगः । न च प्रतिकर्मव्यवस्थाया संप्रयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वं, सत्यस्य वस्तुनो मिथ्यावस्तुसम्भेदावभास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम् । न हीदमंशावच्छिन्नचैतन्यं न वस्तु, न वा मिथ्यारूप्यस्य तेन सह न सम्भेदावभास इति वाच्यम् । वस्तुनिर्विकल्पाभावेन प्रतिकर्मव्यवस्थादेरनुपपत्ते-स्तादवस्थ्यात् । इदमर्थस्यापि दृष्टिसृष्टित्वेन तदवच्छिन्नचैतन्यस्यावस्तुत्वात् । अन्यथा दृश्यत्वस्य तत्र व्यभिचारापत्तेः ।

किं चेदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वमतहानिः । न चेदं रूप्यमिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधः । न हि सत्ताकाल इव सत्ताविरहकालेऽप्यज्ञानं विरुद्ध्यत इति वाच्यम् । अज्ञानस्य ज्ञातैकसतो विषयनिरूप्यस्य स्वविषयविषयकज्ञानेन विरोधेनावस्थानासम्भवात् ।

किञ्च इदं रूप्यं नेदं रूप्यमिति ज्ञानर्योर्भिन्नविषयत्वेन बाध्यबाधकभावानुपपत्तिः । न च भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तिरिति वाच्यम् । रूप्यत्वादेरपि दृष्टिसृष्टित्वेन प्रतिव्यक्तिभिन्नत्वेन तेन रूपेण सादृश्यासम्भवात् । उभयानुगतधर्मेण हि सादृश्यं स्यात् । न च दृष्टिसृष्टिमते तदस्ति ।

किञ्च सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्यापत्तिः । न चानादेर्जीवब्रह्मविभागस्य न दृष्टिसृष्टिः । तन्मिथ्यात्वा-सिद्धेरुक्तत्वात् । सुप्तं प्रति संस्कारादेरप्यभावेन पुनरुद्बोधो न स्यात् । न च कारणत्मना संस्कारादिरस्ति । दृष्ट्यभावेन तदसम्भवात् ।

किं च चैतन्यमात्ररूपा दृष्टिर्न सृष्टिः । किन्तु वृत्तिविशिष्टचैतन्यरूपा वा वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम् । तथा च तस्या अपि दृष्ट्यन्तरं सृष्टिरित्यनवस्था स्यात् । ननु चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समसत्ताकतया घटादेः सदातनत्वापत्तिस्तथापि वृत्युपहित-चैतन्यमेव दृष्टिशब्दार्थः । वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्थेति चेन्न । वृत्तेरपि दृष्टिसृष्टित्वेन तद्विषयकदृष्ट्यन्तरावश्यकत्वेनानवस्थातादावस्थ्यात् ।

किञ्च दोषाज्ञानद्रष्टृदेहेन्द्रियादीनामभावे न भ्रम इति तेषामपि दृष्टिसृष्टित्वेनानवस्था स्यात् । न च स्वाप्नभ्रमवद्देहेन्द्रियादिनैरपेक्ष्येणोपपत्तिः । अन्वयव्यतिरेकाभ्यां तत्रापि देहादेः सत्वात् । किं च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिः । न च ज्ञानस्य ज्ञेयत्वेऽपि विषयस्यापि ज्ञेयत्ववत् दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेऽपि घटादेरपि दृष्टिसृष्टित्वो-पपत्तिः । ज्ञानत्वज्ञेयत्वयोरितरस्येतरस्वरूपानपहारकत्वेन तथात्वोपपत्तावपि दृष्टिसृष्टेरपि दृष्टिसृष्टित्वे स्वरूपेणैव तदभावसिद्धौ घटादेरदृष्टित्वोपपत्तेः ।

किञ्च स एवायं घट इत्यैक्यप्रत्यभिज्ञाविरोधः । पूर्वकालप्रतीतस्य दृष्टिसृष्टिपक्षे तदभावात् । न चैषा भ्रान्तिः । दीपादौ परिमाणभेदस्येवेह बाधकस्याभावात् । तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य च प्रसङ्गः । ननु नेह नानेत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधृते रज्जुसर्पादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकालातिरिक्तकालसत्वे बाधकम् । अतो भिन्नकालानामात्मभिन्नानां प्रत्यभिज्ञा भ्रान्तिः । आत्मन्येकत्वप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः । एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावादिति चेन्न । परीक्षितप्रत्यक्षादिप्रमाण-विरोधेन श्रुतेस्त्वदभिमतार्थपरत्वासम्भवात् । बाधकाभावस्यापत्तावलङ्कारत्वात् ।

एतेन पुरुषान्तरप्रतीतेन सहैककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव । प्रतिभासस्य भेदात् । यथा ऐकस्यामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत् सर्पभ्रमेण पलायमानानां परस्परसंवादेनैक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञा भ्रमः, अन्यभ्रम-सिद्धस्यान्येन ज्ञातुमशक्यत्वात् इति परास्तम् । प्रतिभासभेदेनार्थभेदासिद्धेः । अन्यथा ब्रह्मणोऽपि प्रतिभासभेदेनार्थभेदः स्यात् । रज्जुसर्पादौ परीक्षितप्रत्यक्षबाधेन प्रतिभासमात्र-शरीरत्वेऽपि घटादौ बाधकाभावेन ज्ञानभेदेन भेदाभावात् ।

किं च सोऽयं देवदत्त इत्यादिदृष्ठान्तेन तत्वमस्यादिवाक्यस्य जहदजहल्लक्षणयैक्य-परत्वोक्तिरयुक्ता स्यात् । धर्मवद्धर्म्यभेदोऽपि बाधित एवेति जहदजहल्लक्षणाऽप्ययुक्ता स्यात् । न च यदा धर्माभेदो बाधान्न गृहीतः किं तु धर्म्यभेद एव तदा सोऽयमित्यादौ जहद-जहल्लक्षणासम्भवेन दृष्टान्तत्वोपपत्तिरिति वाच्यम् । दृष्टिसृष्टिमते धर्म्यभेदग्रहस्य भ्रमत्वेन दृष्टान्तत्वासम्भवात् । न हि भ्रमसिद्धाभेददृष्टान्तेन जीवेशयोस्तात्विकाभेदसिद्धिः । किं चा-भेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य भेदबाधकत्वं न स्यात् । एतेनात्माभेदस्यात्मरूपत्वेन न दृष्टिसृष्टित्वम् । अन्यूनसत्ताकत्वमात्रेण च बाधकत्वोपपत्तिरिति निरस्तम् । आत्मज्ञानस्य भेदाविरोधित्वात् । समसत्ताकविषययोर्बाध्यबाधकभावस्य त्वयैव प्रलपितत्वात्काप्यदृष्टत्वाच्च ।

किञ्च ब्रह्मसाक्षात्कारस्यापि दृष्टिसृष्ठित्वेन प्रमाणजन्यत्वाभावात् तत्वज्ञानत्वाभावेन ततो विमुक्तिर्न स्यात् । न चाबाधितविषयत्वेन तत्वज्ञानत्वोपपत्तिः । अप्रामाणजन्यज्ञानस्य बाधितार्थकत्वनियमेनार्थाबाधस्यासम्भवात् । किं च ‘ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ध्रुवं विश्वमिदं जगत्’ इत्यादिश्रुतिविरोधः । ननु दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेनाकल्पं सन्तानाविच्छेदपरत्वम् । अन्यथा ध्रुवो राजेत्यादावगतेः । दृष्टिसृष्टौ च ‘एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुतिः  सुप्तोत्थिताज्जीवात्प्राणादिसृष्टिं प्रतिपादयन्ती प्रामाणं इति चेन्न । श्रुत्यर्थानवबोधात् । अनेन हि सूक्तेन अविचाचलिः मापच्योष्ठा इत्यादिना राज्ञे स्थिरत्वमाशास्यते । तत्र दृष्टान्तः ध्रुवा द्यौरित्यादि । यथा द्यौः पृथिवी पर्वताः विश्वं जगत् ध्रुवं स्थिरं तथा त्वमपि राजा स्थिरो भवेति । माधवीयेऽप्येवमेव व्याख्यातम् । तत्र कः प्रसङ्गः सन्तानादि-कल्पनायाः ? अन्यथा तत्सत्यमित्यादेरपि एवमेवार्थः कल्प्येतेति स्पष्टं बौद्धवादः स्यात् ।

ननु ‘‘स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेतेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते’’ इत्याद्युक्त्वा ‘‘अथ यदा सुप्तो भवति तदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीत-तमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महा-ब्राह्मणो वाऽत्रिघ्नीमानन्दस्य गत्वा शयीत एवमेवैष एतच्छेते’’ अतिशयेन हन्तीत्यतिघ्नी आनन्दस्यावस्था ‘‘स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति एवमेवा-स्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत् सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’’ इति । अत्राब्रह्मविदं गार्ग्यं प्रति क्षत्रियोऽपि सन् ब्रह्मवित् काश्यो ब्रह्म बोधयितुं गार्ग्येण सह सुप्तपुरुषं प्रत्यागम्य तं पाणिना पेष्य बोधयित्वा गार्ग्येण कर्तुमर्हं प्रश्नं अज्ञानादकृतं स्वयमेव काश्यो गार्ग्यं प्रति कृतवान् । स होवाचेत्याद्यकण्डिकया ।

एतदिति क्रियाविशेषणम् । एष विज्ञानमयोऽन्तःकरणप्रायो यत्र सुप्तोऽभूत् तदा एषः क्वाभूत् कुतः आगात् । एतत् प्रश्नद्वयं प्रतिवक्तुं गार्ग्यो न ज्ञातवान् । अतः काश्य एव तदुत्तरं वक्ति स होवाचेत्यादिना द्वितीयकंडिकया । अन्तर्हृदये विद्यमानो यः आकाशः तस्मिन् शेते इति सुषुप्तप्रकारनिरूपणाय अथ यदा सुप्तो भवतीत्यादिकण्डिका । कुत एत-दागादिति द्वितीयप्रश्नस्योत्तरं अस्मादात्मनः सर्वे प्राणा इत्यादि । तस्मादियं श्रुतिः सुप्तात्थितजीवात्प्राणादीनां सृष्टिं वक्तीति दृष्टिसृष्टौ प्रमाणं इति चेत् । पाणिपेषादिना प्रबोधितस्य सुप्तस्य क आधार इति यत्रैष एतत्सुप्तोऽभूत् इत्यादिना काश्येन पृष्ठस्य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते इत्यादिना प्रतिवचनं ब्रुवता काश्येनैव आकाश-शब्दवाच्यः परमात्मा सुप्तपुरुषाधारत्वेन य उक्तः अस्मादात्मन इत्यत्रात्मशब्देन परमर्शात् । अन्यथा वाक्यशेषे हिता नाम नाड्य इति नाडीसत्वप्रतिपादनं विरुद्ध्येत । न हि सुषुप्तौ तद्विषयकदृष्टिरस्ति ।

एतेन केन क्रमेण सुप्तो भवतीत्यपेक्षायां ‘हिता नाम नाड्यो हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते’ इत्यादिना सुषुप्त्यव्यवहितकाले क्रमोक्तये नाडीसत्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि इति परास्तम् । यदा सुप्तो भवति तदा न कस्यचन वेद हिता नाम नाड्य इत्यत्र यदेतिशब्दनिर्देशात् तदेत्यवश्यमवगतेः सुषुप्तिकाल एव हितानामक- नाड्यादिसत्वावगमात् । पुरीततस्य सुप्ताधारत्वश्रुतेश्च ।

ननु यत्रैष इति प्रश्नवाक्ये यत्रेति नाधारप्रश्नः, किं तु कालप्रश्नः । अन्यथा क्वैष तदाऽभूत् इति पुनर्निर्देशप्रश्नानुपपत्तेरिति चेन्न । तथापि क्वेत्याधारप्रश्नस्यैवोत्तरं एषोऽन्त-र्हृदय आकाश इति । तत एव च सृष्टिः । वस्तुतस्तु यत्रेत्याधारप्रश्न एव । यत्राधारे सुप्तोऽभूत्स किंप्रकारक आधार इति यत्रक्वशब्दयोरेकार्थत्वात् । किं च भुक्तस्य गलाधो-गतस्यान्नस्य दृष्टेरभावेन तेन ते तृष्णादिकं उदरगतैरज्ञातैः काम्यादिभिः पीडादिकं च न स्यात् आप्रवातादिरौगैश्च पीडा न स्यात् । न हि ते दृश्यन्ते  । भुक्तान्नादेरदृष्टपृष्ठभागेन पतनं च न स्यात् । अज्ञातभक्षितविषादेर्मरणं च न स्यात् । निद्रादावज्ञातवृश्चिक-सर्पादिदंशात् पीडामरणादिकं च न स्यात् ।

।। इति दृष्टिसृष्टिभङ्गः ।।