अंशित्वादिहेतुष्वपि मतद्वयेऽपि कार्यस्य कारणाभेदेन तदनाश्रितत्वात्सिद्ध-साधनम्

श्रीवेदव्यासाय नमः

पदवाक्यप्रमाणपारावारपारीणसर्वतन्त्रस्वतन्त्रश्रीव्यासतीर्थविरचितम्

न्यायामृतम्

१६. अंशित्वादिहेतुभङ्गः

अंशित्वादिहेतुष्वपि मतद्वयेऽपि कार्यस्य कारणाभेदेन तदनाश्रितत्वात्सिद्ध-साधनम् । अनाश्रितत्वेनान्याश्रितत्वेन वोपपत्त्या अर्थान्तरं च । यदि च प्रत्यक्ष-बाधादेतत्तन्त्वारब्धस्य पक्षत्वेन पक्षधर्मताबलाद्वा नानाश्रितत्वादिकम्, तर्हि तत एवैतत्तन्तुष्वपि नासत्त्वम् । अपि चात्यन्ताभावः प्रामाणिकः? अप्रामाणिको वा? आद्येऽद्वैतहानिः । अन्त्ये सिद्धसाधनम् । एतेनात्यन्ताभावमात्रं साध्यमिति निरस्तम् । अत्यन्ताभावो व्यावहारिक इति तु निरस्तम् ।

नन्वभावरूपा धर्मा नाद्वैतं घ्नन्तीति मण्डनोक्तेरभावद्वैतं स्वीकृतमिति चेन्न । अभावे अभावत्वादेस्तदाश्रये चाभावाश्रयत्वादेः भावस्यावश्यकत्वात् । अभावरूप-प्रवृत्तिनिमित्तसम्भवेन ब्रह्मणोऽद्वितीयादिशब्दवाच्यत्वापातात् । अखण्डार्थेन वेदान्तेन ब्रह्माभावयोर्द्वयोरसिद्धेश्च । अन्यस्य च तत्त्वावेदकस्याभावात् । श्रौता-द्वितीयपदस्याभावरूपद्वितीयनिषेधे इव भावरूपद्वितीयनिषेधेऽपि मानान्तरेणाग्र इति स्वपदेन च विरोधाविशेषे भावरूपद्वितीयनिषेधपरत्वेनैव सङ्कोचः, न त्वभावरूप-द्वितीयनिषेधपरत्वेनेत्यत्र हेत्वभावाच्च । भावस्यापि स्वाभावाभावत्वाच्च । अभेद-स्याप्यन्योऽन्याभावप्रतियोगित्वेन तत्सत्यत्वासिद्धेश्च । भेदस्याप्यन्योन्याभावत्वेन तत्सत्यत्वापत्तेश्च । प्रध्वंसादेः प्रतियोगिना सह विरोधाय स्वतुल्यसत्त्वप्रतियोगि-सापक्षेत्वाच्च । भावत्वानिर्वचने भावस्येवाभावत्वानिर्वचनेऽभावस्यापि सत्त्वासिद्धेर-भावे सत्त्वार्थं तवाप्यभावत्वादिनिर्वच(ने)नप्रयासापाताच्च । अभावे दृश्यत्वादे-र्व्यभिचारस्य(वा)चापाताच्च । अभावस्य प्रतियोगिघटितत्वेन भावादपि विशिष्या-द्वैतविरोधित्वाच्च ।

श्रीमधुसूदनसरस्वतीविरचिता

अद्वैतसिद्धिः

चित्सुखाचार्यैस्तु ‘अयं पटः, एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत् इत्युक्तम् । तत्र तन्तुपदमुपादानपरम् । तेन स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्व-सिद्धिः । न च कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनम्, अनाश्रितत्वेनान्याश्रितत्वेन वा उपपत्त्या अर्थान्तरं च इति वाच्यम् । अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदस्यावश्या-भ्युपेयत्वात् । न च ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इत्यधिकरणविरोधः । उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात् । बाधात्तन्मात्राश्रितत्वेन पक्षविशेषणाद्वा नार्थान्तरम् । न च प्रकृतेऽपि बाधः । तस्योद्धरिष्यमाणत्वात् । न चात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाशः । तस्य प्रागेव निरस्तत्वात् ।

श्रीव्यासरामाचार्यविरचिता

न्यायामृततरङ्गिणी

कार्यस्य कारणाभेदेनेति ।। अत्र वदन्ति – अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदोऽवश्यमभ्युपेयः । न च ‘‘तदनन्यत्वमारम्भणशब्दादिभ्यः’’ इत्यधिकरण-विरोधः । उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वादिति । तन्न । कथञ्चिद्भेदो नाम यदि मिथ्या भेदः, तदाऽभेद एव सत्यः । अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं हि मिथ्यात्वम् । अधिष्ठानज्ञानबाध्यात्यन्ताभावप्रतियोगित्वस्य सत्यत्वेऽपि सम्भवात्, भेदात्यन्ताभावश्चाभेद इति भेदस्य मिथ्यात्वे कथं नाभेदः सत्यः स्यात्? व्यवहारतोऽपि कार्यकारणयोरभेदाच्च ।।

तर्हि तत एवेति ।। प्रत्यक्षबाधादेवेत्यर्थः । उक्तमप्यधिकविवक्षयाऽऽह – अपि चेति ।। प्रामाणिकः पारमार्थिक इत्यर्थः । यथाश्रुते त्वन्तःकरणवृत्तिप्रतिबिम्बितचैतन्यरूपप्रमाविषयत्वेन प्रामाणिकस्यापि घटादेः परैर्बाध्यत्वाङ्गीकारादद्वैतहान्यापादनासङ्गतेः । अप्रामाणिकः प्राति-भासिक इत्यर्थः ।। एतेनेति ।। प्रामाणिकत्वाद्यविशेषितात्यन्ताभावमात्रं साध्यनिविष्टमित्यपि सिद्धसाधनादिदोषादेव निरस्तमित्यर्थः ।। अत्यन्ताभावो व्यवहारिक इतीति ।। जगदत्यन्ता-भावस्य प्रामाणिकत्वेऽपि बाध्यतया जगत्तात्त्विकसत्ताऽविरोधित्वेनार्थान्तरतापत्तेरित्यादिना द्वितीयमिथ्यात्वलक्षणदूषणे निरस्तमित्यर्थः । अत्यन्ताभावस्य प्रामाणिकत्वपक्षमाश्रित्य शङ्कते– अभावरूपा इति ।। अभावस्य द्वितीयस्याङ्गीकारे द्वितीयो भावोऽप्यवर्जनीय इत्याह– अभावत्वादेरिति ।। अभावस्य तात्त्विकत्वाङ्गीकारः परमते विरुद्ध इत्याह – अभावरूपेति ।। साधिकरणस्य तात्त्विकस्य ब्रह्मारोपितजगदभावस्य ब्रह्मैवाधिकरणम्, इत्यद्वितीयशब्दप्रवृत्ति-निमित्तस्य द्वितीयाभावस्य ब्रह्मणि तत्त्वतः सम्भवेनाद्वितीयपदवाच्यता ब्रह्मणि स्यादित्यर्थः । तात्त्विकाभावे प्रमाणाभावश्चेत्याह– अखण्डेति ।। श्रौतेति ।। ‘‘सदेव सोम्येदमग्र आसीदेक-मेवाद्वितीयमि’’त्यादौ तात्त्विकं द्वितीयाभावं बोधयताऽद्वितीयपदेन पुरनभावनिषेधे स्वविरोधो यथा, तथा द्वितीयस्य भावस्यापि निषेधे ‘‘अग्र आसीदि’’त्यादिकालसत्त्वप्रतिपादकेन स्ववाक्यान्तर्गतपदेन विरोधाविशेषात् स्वतन्त्रभावनिषेधपरत्वेनापि संकोच आवश्यक इत्यर्थः ।। भावस्यापीति ।। अभावद्वैताङ्गीकारे भावो द्वितीयोऽङ्गीकृतः स्यादित्यर्थः । ननु अभावस्याभावाभावात् तस्य तात्त्विकत्वमित्यत आह– अभेदस्येति ।। भेदनिष्ठान्योन्याभाव-प्रतियोगित्वेनेत्यर्थः । अन्यथा तव भेददूषणानुपपत्तेरिति भावः ।। प्रतियोगिघटितत्वेनेति ।। प्रतियोगिनिरूप्यत्वेनेत्यर्थः ।।

पाण्डुरङ्गि आनन्दभट्टारकविरचितः

न्यायामृतकण्टकोद्धारः

अंशित्वादिहेतुष्विति ।। ननु – स्वमते कार्यकारणयोरभेदेऽपि कथञ्चिद् भेदस्यापि विद्यमानत्वात् तेन चाधाराधेयभावोपपत्तेरङ्गीकृतत्वात् कथं सिद्धसाधनमिति चेत्, अयमत्राशयः – एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं समवायेन वा, संयोगेन वा? साधारणं वा? नाद्यः; कार्यकारणयोः समवायानङ्गीकारेण समवायेनैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वस्यासिद्धत्वात् । न द्वितीयः । कार्य–कारणयोः संयोगानङ्गीकारेण सिद्धसाधनत्वात् । न तृतीयः; सम्बन्ध-द्वयपुरस्कारेणैवाधेयत्वेन तदभाव आधेयत्वाभावात् । प्रकारान्तरेणाधेयत्वाभावादि’त्यभिधानेन सिद्धसाधनत्वाभिधानादिति । यत्तु – कथञ्चिद्, भेदो नाम यदि मिथ्या भेदः, तदाऽभेद एव सत्यः । अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम्; अधिष्ठानज्ञानबाध्यात्यन्ता-भावप्रतियोगित्वस्य सत्यत्वेऽपि सम्भवात् । भेदात्यन्ताभावश्चाभेद इति कथं नाभेदः सत्यः स्यात्? व्यवहारतोऽपि कार्य–कारणयोरभेदाच्चेति, तन्न । सिद्धसाधनता हि प्रतिवादिना देया, तथा च सिद्धसाधनतादातुः प्रतिवादिनो मते भेदस्य सत्यस्यैव विद्यमानत्वात् तमादायाश्रया-श्रयिभावसम्भवात् सिद्धसाधनोद्भावनस्याशक्यत्वात् । अनाश्रितत्वेनेति ।। न च एतत्तन्तु-मात्राश्रितत्वेनेति पक्षविशेषणात् नार्थान्तरमिति – वाच्यम् । पक्षतावच्छेदकसाध्ययोर्विरोधेनानु-मित्यनुदयात् । तत एवेति ।। प्रत्यक्षबाधादेवेत्यर्थः । अपि चेति ।। अत्रत्यपरयुक्तिखण्डनं पूर्वमेव कृतमिति तत्रैवानुसन्धेयम् । ननु अत्यन्ताभावो व्यावहारिकोऽङ्गीक्रियते । अतो नोक्तदोषः, इत्यत आह – अत्यन्ताभाव इति ।। निरस्तम् ।। बाध्यत्वलक्षण इति शेषः । ननु अत्यन्ताभावः प्रामाणिक एव, न चाद्वैतहानिः । अभावद्वैताङ्गीकारादिति शङ्कते – नन्विति ।। अभावेऽभावत्वादेरिति ।। तथा च भावरूपमपि द्वितीयं सत्यमङ्गीकर्तव्यमिति भावः । ननु अभावत्वादेस्तदाश्रयत्वादेश्चाश्रयस्वरूपत्वेन नातिरिक्ताभावसत्यत्वापत्तिः । अस्तु वा अभावत्वादिकमभावातिरिक्तम् । न चैवमभावस्वरूपस्य मिथ्यात्वापातः । ब्रह्मणि सत्तासामान्याभावेऽपि सद्रूपत्ववदभावत्वादेर्मिथ्यात्वेऽप्यभावस्य सत्यत्वसम्भवादिति – चेत्, ; अभावत्वादेर्विधिमुखवेद्यत्वेन निषेधमुखवेद्याभावरूपत्वासम्भवात् । सत्तासामान्यस्यैव मयाऽ-नङ्गीकारेण तदभावेऽपि त्रिकालाबाध्यत्वरूपसत्त्वस्य सत्त्वेन ब्रह्मणः सद्रूपत्वसम्भवेऽपि भावत्वादेर्मिथ्यात्वे भावस्य सत्यत्वासम्भवात् । धर्मिसत्त्वोपपादकस्य धर्मस्य मिथ्यात्वे हि धर्मिणोऽपि मिथ्यात्वं सम्भवति । यथा हि घटत्वादेर्मिथ्यात्वे घटस्यापि मिथ्यात्वमिति । अभावरूपेति ।। न च – अद्वितीयादिपदानां समासपदत्वात् समस्तपदानाञ्च वाक्यरूपत्वाद् वाक्ये च शक्तिग्रहानपेक्षत्वेन शक्यतावच्छेदकापेक्षाया एवाभावेन कथं वाच्यत्वापादनमिति वाच्यम् । ऐकपद्यमैकस्वर्यमेकविभक्तिकत्वञ्च समासप्रयोजनमित्युक्तत्वेन समासपदस्यापि पदत्वात्, पदे च शक्तिग्रहापेक्षत्वेन शक्यतावच्छेदकावश्यकत्वेन तस्य च प्रकृते भावरूपस्या-सम्भवेऽप्यभावरूपस्य सम्भवेन तदापादनसम्भवादिति भावः ।।

किञ्चाभावद्वैतमभ्युपगच्छतस्तवाभावसिद्धिः किं वेदान्तेनाभिप्रेता? तदन्येन वा? नाद्य इत्याह– अखण्डार्थेनेति ।। सकलस्यापि वेदान्तस्य ब्रह्मैकपरतायाः परेणाङ्गीकारादित्यर्थः । नापर इत्याह– अन्यस्य चेति ।। अभावरूपद्वैतोररीकरणयुक्तेर्द्वैताङ्गीकारेऽपि साम्यमाह– श्रौतेति ।। किञ्चाभावद्वैताङ्गीकारे यथाकथञ्चिदभावरूपत्वं वा प्रयोजकम्? भावप्रतियोगित्वं वा? आद्ये दोषमाह– भावस्यापीति ।। द्वितीयेऽपि दोषमाह– अभेदस्यापीति ।। न च– अभावप्रतियोगित्वेऽपि सत्यत्वासिद्धिः कुतः इति वाच्यम् । अभावप्रतियोगित्वस्य भावत्व-नियतत्वेनाभावस्य सत्यत्वाङ्गीकारेऽभेदस्य भावत्वेन सत्यत्वासिद्धेः । न च – अभावप्रतियोगि-त्वस्य भावत्वसमनियतत्वेऽभावे व्यभिचार इति वाच्यम् । अभावप्रतियोगिकाभावाभावादिति मतेनाभिधानादिति भावः । दूषणान्तरमाह– भेदस्यापीति ।। किञ्चाभावसत्यत्वाङ्गीकारे ध्वंसस्याप्यभावत्वेन सत्यत्वात् तस्य च प्रतियोगिना सह विरोधार्थं प्रतियागिनोऽपि सत्यत्व-मङ्गीकर्तव्यम्, समसत्ताकयोरेव प्रतियोगिध्वंसयोरेककालत्वविरोधात् । तथा च भावस्यापि सत्यत्वमापतितमित्याह– प्रध्वंसादेरिति ।। प्रतियोगिघटितत्वेनेति ।। प्रतियोगिनिरूप्य-त्वेनेत्यर्थः । निरूपकासत्यत्वे निरूप्यसत्यत्वं नोपपद्यत इति हि परेणाङ्गीकृतम् । अन्यथा मिथ्याभूतपरोपाधिघटितानां सार्वज्ञ्यादीनां मिथ्यात्वं न स्यात् । सार्वज्ञ्यादेर्मिथ्यात्वे हि परोपाधिकत्वमेव तन्त्रम्, इति त्वदभ्युपगमेनैव तव दूषणमिति भावः ।।

श्रीनिवासतीर्थविरचितः

न्यायामृतप्रकाशः

मतद्वयेऽपीति ।। आवयोर्मत इत्यर्थः ।। कार्यस्येति ।। कार्यकारणयोरभेदेन आश्रयाश्रयि-भावानङ्गीकारात् एतत्तन्तोरेव पटत्वेनैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं सिद्धमिति सिद्धसाधनमिति भावः ।। अनाश्रितत्वेनेति ।। अन्यत्रानाश्रितत्वं सिद्धमेवास्ति एतत्तन्तुष्वपि नास्तीत्युक्तेऽ-नाश्रितत्वेनाप्युपपत्तेः । अथवा विशेषनिषेधः शेषविध्यनुज्ञापक इति न्यायेन एतत्तन्तुष्वसत्त्वेऽ-न्याश्रितत्वमेव सिद्ध्येन्न मिथ्यात्वमित्यर्थः । अर्थान्तराभावमाशङ्क्य निषेधति ।। यदि चेति ।। अनाश्रितत्वेऽन्याश्रितत्वे वा प्रत्यक्षबाधः । एतत्तन्त्वारब्धः पटस्तावत्प्रत्यक्षः । अंशित्वं च हेतुः । तत्रांशित्वं नामांशवत्त्वं पटस्यांशाश्च तन्तव एव । तद्वत्त्वं चाश्रयाश्रयिभावसम्बन्धेनैव । एवं चांशित्वहेतुर्यदा एतत्पटे प्राप्तस्तदैतत्पटस्य नानाश्रितत्वादिकमित्यर्थः । असत्त्वमत्यन्ताभाव-प्रतियोगित्वम् । एतत्तन्तुष्वसत्त्वसाधनेऽपि प्रत्यक्षबाधात् उक्तरीत्यांऽशित्वहेतोः पक्षधर्मताबलाद्वा एतत्तन्तुष्वप्यसत्त्वं न साधयितुं शक्यमित्यर्थः ।

उक्तमप्यधिकविवक्षयाऽऽह ।। अपि चेति ।। प्रामाणिक इत्यादि ।। प्रामाणिकात्यन्ताभाव-प्रतियोगित्वं वा साध्यमप्रामाणिकात्यन्ताभावप्रतियोगित्वं वेत्यर्थः । एतेनेति ।। यावद्विशेषातिरिक्त-सामान्याभावेनेत्यर्थः । व्यावहारिकात्यन्ताभावप्रतियोगित्वं साध्यत इति चेत्तत्राह ।। अत्यन्ताभाव इति ।। प्रतियोगितदभावयोर्वैलक्षण्यस्यावश्यकत्वेनात्यन्ताभावस्य व्यावहारिकत्वे तत्प्रतियोगिनोऽ-प्रातिभासिकस्य जगतः पारमार्थिकत्वं स्यादित्येवं निरस्तमित्यर्थः । ननु प्रामाणिकात्यन्ताभाव-प्रतियोगित्वमेव साध्यते तथात्वेऽद्वैतहानिः स्यादिति चेन्न । कुत इत्यत आह ।। अभावरूपा इति । नेह नानेत्यादिश्रुतीनां भावद्वैतनिषेधपरत्वमेवेति भावः । अभावस्य द्वितीयस्याङ्गीकारे द्वितीय-भावोऽप्यवर्जनीय इत्याह ।। अभाव इति ।। तदाश्रय इति ।। अभावस्य साधिकरणत्वादभावाश्रये ब्रह्मणि अभावाश्रयत्वं, आदिपदेन अभावे तदाश्रितत्वमित्यादि भावरूपबहुधर्माङ्गीकारापत्तिरित्यर्थः । ब्रह्मणीवाऽभावेऽपि व्यावहारिका धर्मास्संत्येवेति नानिष्टमेतदित्यस्वरसादाह ।। अभावरूपेति ।। अद्वितीयादीत्यादिपदेन निर्गुणनिराकारादिशब्दग्रहणम् । अत्र किञ्चित्प्रष्टव्यम् । त्वन्मते ब्रह्मणः कस्मात्सर्वशब्दावाच्यत्वमङ्गीकृतमिति । शब्दप्रवृत्तिनिमित्तभूतानां द्रव्यगुणादीनां निर्धर्मके ब्रह्मण्य-भावादिति चेत् तर्हि ब्रह्मणो अद्वितीयादिशब्दवाच्यत्वं स्यात् । द्वितीयाभावरूपप्रवृत्तिनिमित्तस्य प्रामाणिकस्य ब्रह्मणि सद्भावादित्यर्थः । किञ्च तात्विके द्वितीयाभावे प्रमाणाभावेन तस्यासिद्धेश्च । ननु कथमसिद्धिः । ‘‘एकमेवाद्वितीय’’मित्यादि वेदान्तेनैव तत्सिद्ध्युपपत्तेरिति चेत्तत्राह ।। अखण्डार्थेनेति ।। अयमर्थः । वेदान्तानां लक्षणया ब्रह्ममात्रप्रतिपादकत्वरूपाखण्डार्थत्वाङ्गीकारेणा-भावाप्रतिपादकत्वात्तदसिद्धिरेव स्यात् । ननु स्वातन्त्र्येणाभावाप्रतिपादकत्वेऽपि ब्रह्मविशेषत्वेन तत्प्रतिपादकत्वं भविष्यतीति चेन्न । तथापि निर्विशेषार्थनिष्ठत्वरूपाखण्डार्थत्वहानिरेवेति न वेदान्तेन तत्सिद्धिरिति । व्यासज्यवृत्त्यभावाभिप्रायेण द्वयोरित्युक्तम् । तथाप्यागमातिरिक्तप्रमाणेन तत्सिद्ध्युप-पत्तिरिति चेत्तत्राह । अन्यस्य चेति ।। आगमातिरिक्तयोः प्रत्यक्षानुमानयोरतत्वावेदकत्वात् तत्वावेदकं प्रमाणमागम एवेति वाच्यम् । तेन च तत्सिद्धिर्न सम्भवतीत्युक्तमित्यर्थः ।। श्रौतेति ।। अयमत्र कक्षाक्रमः । ब्रह्मव्यतिरिक्तं द्वितीयाभावं प्रामाणिकमङ्गीकुर्वता त्वया ब्रह्मव्यतिरिक्तस्य सर्वस्याभावबोधिकायाः ‘‘एकमेवाद्वितीय’’मित्यादिश्रुतेरभावव्यतिरिक्तद्वितीयभावमात्रनिषेधपरत्वेन सङ्कोचः कार्यो न त्वाभावरूपद्वितीयनिषेधपरत्वेनेत्युच्यते । तत्र वदामः । अद्वितीयमित्यत्र ब्रह्म-व्यतिरिक्तं भावरूपं द्वितीयमस्ति अभावरूपं द्वितीयमेव नास्तीत्यपि सङ्कोचः क्रियतां विशेषहेत्व-भावात् । नन्वस्ति विशेषहेतुः । तात्विकद्वितीयाभावं बोधयताऽद्वितीयपदेन पुनरभावनिषेधे स्वविरोधः । ‘‘यत्तदद्रेश्य’’मिति मानान्तरेण च विरोधः । तत्राभावरूपधर्मप्रतिपादनात् । अतो भावरूपद्वितीयनिषेधपरत्वेनैव सङ्कोचः कर्तव्य इति चेत् तर्हि भावरूपद्वितीयमात्रनिषेधेऽप्यग्र आसीदित्यादिकालसत्त्वप्रतिपादकेन स्ववाक्यान्तर्गतपदेन विरोधः । सन्घट इत्यादि प्रत्यक्षरूप-मानान्तरेण च विरोधः समान एवेति (भावरूपपदार्थमङ्गीकृत्याभावरूपपदार्थनिषेधपरत्वेन स्वतन्त्र-भावनिषेधपरत्वेन वा सङ्कोचः क्रियतामिति) भावाभावरूपं पदार्थमङ्गीकृत्य भावरूपपदार्थ एव स्वतन्त्रभावनिषेधपरत्वेनैव सङ्कोचः क्रियतामिति । अभावस्य सत्यत्वाङ्गीकारे सत्यत्वज्ञानत्वा-नन्तत्वादिरूपस्य भावमात्रस्यापि सत्यत्वं लब्धं, सर्वस्यापि भावस्य स्वाभावाभावत्वेनाभावरूपत्वा-दित्याह । भावस्यापीति ।। अभावस्यैव सत्यत्वमङ्गीकृत्याभावप्रतियोगित्वमात्रेण मिथ्यात्वाङ्गीकारे बाधकमाह ।। अभेदस्येति ।। अन्योन्याभावरूपभेदप्रतियोगित्वेनेत्यर्थः । तादात्म्यप्रतियोगिका-भावस्यैवान्योन्याभावत्वादिति भावः । अभावस्य सत्यत्वाङ्गीकारे भेदस्य सत्यत्वं सिद्ध्यतीत्याह ।। भेदस्यापीति ।। अन्योन्याभावत्वेन अन्योन्याभावरूपत्वेन । अभावस्य सत्यत्वाङ्गीकारे भावस्यापि सत्यत्वं प्राप्तमित्याह । प्रध्वंसादेरिति ।। अभावस्य प्रतियोगिना सह तावद्विरोधोऽस्ति । स च तुल्यसत्ताकयोरेव, न भिन्नसत्ताकयोरेव । तथात्वे प्रातिभासिकघटव्यावहारिकतदभावयोर्विरोधापत्तेः । तथा च प्रकृते प्रध्वंसाद्यभावतत्प्रतियोगिनोर्विरोधाय प्रतियोगिनो भावसमसत्ताकत्वमवश्यं वाच्यमेव । अतोऽभावस्य पारमार्थिकत्वेन तत्प्रतियोगिनो भावस्यापि पारमार्थिकत्वापत्तिरित्यर्थः । अभावस्य सत्यत्वाङ्गीकारेऽन्यदप्यनिष्टमापतितमित्याह ।। भावत्वेति ।। सर्वस्यापि भावस्य त्वया सत्त्वेन वा भावत्वेन वाऽन्येन वा केनापि प्रकारेण निर्वक्तुमशक्यत्वादेव हि अनिर्वचनीयत्वं स्वीकृतं, सत्यत्वे केनापि प्रकारेण निर्वक्तव्यत्वापत्तेः । तच्चाशक्यं, एवमेवाभावे अभावत्वानिर्वचने तस्या-निर्वचनीयत्वप्राप्त्या पारमार्थिकसत्यत्वासम्भवेन तदर्थमभावत्वादिनिर्वचने महाप्रयासस्तव स्यात् । तच्च त्वया निर्वक्तुमशक्यं, अतस्तस्याप्यनिर्वचनीयत्वापातेन सत्यत्वं न स्यादिति भावः । अभावत्व-प्रकारकप्रमां प्रति विशेष्यत्वमभावत्वमित्यस्यात्माश्रयदुष्टत्वात् प्रतियोगिज्ञानाधीनज्ञानविषयत्वादे-स्तार्किकरीत्या समवायेऽस्मद्रीत्या सादृश्ये चातिव्याप्तत्वादित्यादि द्रष्टव्यम् । अभावस्य सत्यत्वाङ्गी-कारे दृश्यत्वानुमानं च दुष्टं स्यादित्याह ।। अभाव इति ।। नन्वभावव्यतिरिक्तत्वे सतीति विशेषणं दीयत इति चेत्तत्राह ।। अभाववदिति ।। यथाऽभावे विद्यमानोऽपि हेतुर्न तत्र मिथ्यात्वप्रयोजको जातः किन्तु तद्व्यतिरिक्तस्थल एवेत्युच्यते । एवं पक्षे विद्यमानोऽपि हेतुः साध्ये प्रयोजको न स्यादित्यप्रयोजक इत्यर्थः । यत्र व्यभिचारे प्राप्ते तद्व्यतिरिक्तित्वे सतीति विशेषणं दीयते तत्र सर्वत्राप्यनयैव रीत्याऽप्रयोजकतैव देयेति सम्प्रदायः ।। प्रतियोगिघटितत्वेनेति ।। प्रतियोगिनिरूप्य-त्वेनेत्यर्थः । ब्रह्मव्यतिरिक्तस्य भावस्य सत्यत्वाङ्गीकारेऽद्वैतविरोधस्त्वया दीयते तदपेक्षयापि तवैव विशिष्याद्वैतविरोधः स्यात् । ब्रह्मव्यतिरिक्तस्य द्वितीयाभावस्य सत्यत्वङ्गीकारे तस्य प्रतियोगिनिरूप्य-त्वेन प्रतियोगिभूतभावरूपद्वितीयस्यापि सत्यत्वापत्त्या भावाभावद्वयस्य सत्यत्वाङ्गीकारो विशिष्या-द्वैतविरोधीत्याशयः ।।

श्रीकूर्मनरहरिआचार्यविरचिता

न्यायकल्पलता

चित्सुखोक्तानुमानं निराचष्टे । अंशित्वेति । मतेति । तत्वविन्मायिनोः मतेऽप्युपादेयस्योपादाना-भेदेनेत्यर्थः । अत्राह विवर्तवादी । अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदस्यावश्याभ्युपेयत्वान्न तदनाश्रितत्वेन सिद्धसाधनम् । तन्तुपदं चोपादानपरम् । तेन स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्व-लक्षणमिथ्यात्वसिद्धिः । अतोऽनाश्रितत्वेनान्याश्रितत्वेन वोपपत्या नार्थान्तरम्् । न च ‘तदनन्यत्व-मारम्भणशब्दादिभ्यः’ इत्यधिकरणविरोधः । उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात् । बाधात् तन्मात्राश्रितत्वेन पक्षविशेषणाद्वा नार्थान्तरमिति । तदसत् । कथञ्चिद्भेदो नाम यदि मिथ्या भेदस्तर्ह्यभेद एव सत्यः । अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । अधिष्ठानज्ञान-बाध्यात्यन्ताभावप्रतियोगित्वस्य सत्यत्वेऽपि सम्भवात् । भेदात्यन्ताभावश्चाभेद इति भेदस्य मिथ्यात्वे कथं नाभेदः सत्यः स्यात् । अतिविषक्तास्तन्तव एव पट इति व्यवहारतोऽप्युपादानोपादेययोरभेदाच्च ।

यदप्युक्तं– बाधात् तन्मात्राश्रितत्वेन पक्षो विशेष्यत इति नार्थान्तरमित्याशङ्कते । यदि चेति । दूषयति । तर्हि तत एवेति । प्रत्यक्षबाधादेवेत्यर्थः । उक्तमपि दोषमधिकविवक्षया पुनर्ब्रवीति । अपि चेति । प्रामाणिकस्तत एवाबाध्य इत्यर्थः । न चान्तःकरणवृत्तिप्रतिबिम्बितचैतन्यरूपप्रमाविषयत्वेन प्रामाणिकस्यापि घटादेः परैर्बाध्यत्वाङ्गीकारात् अद्वैतहान्यापादनासङ्गतिरिति देश्यम् । प्रामाणिकस्यापि बाध्यत्वे ब्रह्मणोऽपि बाध्यत्वपातात् । न च तत्त्वावेदकप्रमाणसिद्धत्वान्न ब्रह्मणो बाध्यत्वमिति वाच्यम्् । तत्त्वावेदकातत्वावेदकत्वेन प्रमाणद्वैविध्यकल्पनस्य विप्रतिषिद्धत्वात् । अप्रमाणिकस्तत एव बाध्य इत्यर्थः ।

यद्वा प्रामाणिकः पारमार्थिकः अप्रामाणिकः प्रतिभासिक इति पर्यवसितोऽर्थ इति । प्रामाणिकत्वाद्य-विशेषितात्यन्ताभावमात्रं साध्यनिविष्टमित्यपि सिद्धसाधनादिदोषेणैव निरस्तमित्याह । एतेनेति । ननु साध्यनिवेशितस्यात्यन्ताभावस्य व्यावहारिकत्वान्नाद्वैतहान्यादिदोष इत्यत आह । अत्यन्ताभावो व्यावहारिक इतीति । जगदत्यन्ताभावस्य व्यावहारिकत्वेऽपि बाध्यतया वियदादेः पारमार्थिकसत्वाविरोधित्वेनार्थान्तरता-पत्तेरित्यादिना द्वितीयमिथ्यात्वलक्षणदूषणे निरस्तमित्यर्थः । अत्यन्ताभावस्य प्रामाणिकत्वपक्षमाश्रित्य शङ्कते । नन्विति । निषेधति ।। नेति । ब्रह्मसमसत्ताकाभावाङ्गीकारे तत्समसत्ताकास्तदाश्रिता विधिमुखप्रत्यय-वेद्यत्वाद्भावा अभावत्वज्ञेयत्वप्रमेयत्ववस्तुत्वादेर्धर्मस्याभावेऽवश्याभ्युपेयत्वात् । अभावरूपधर्माश्रये ब्रह्मणि चाभावाश्रयत्वाभावत्तया प्रमितिविषयत्वादेस्तत्समसत्ताकस्य भावधर्मजातस्या वर्जनीयस्य स्वीकार्यत्वाच्चेत्यर्थः । ब्रह्मण्यभावस्य तत्समसत्ताकस्य द्वितीयस्याङ्गीकारः परमते विरुद्ध इत्याह । अभावरूपधर्मेति । साधिकरणस्य पारमार्थिकस्य ब्रह्माध्यस्तप्रपञ्चाभावस्य ब्रह्मैवाधिकरणमित्यद्वितीयशब्दप्रवृत्तिनिमित्तस्य द्वितीयाभावस्य ब्रह्मणि तत्वतः सत्वेनाद्वितीयपदवाच्यता ब्रह्मणः स्यादित्यर्थः । आदिपदेन मुक्तानन्तपदवाच्यताप्रसङ्गः सङ्गृह्यते । मुक्तपदप्रवृत्तिनिमित्तस्य ब्रह्मसमसत्ताकस्य बन्धाभावस्यानन्तपदप्रवृत्तिनिमित्तस्य परिच्छेदाभावस्य ब्रह्मणि सत्वादिति ।

किञ्च ।  पारमार्थिकाभावसिद्धिः किं एकमेवाद्वितीयमिति वेदान्तवाक्येन उतान्येन । आद्यं दूषयति ।। अखण्डार्थेनेति ।। धर्मधर्मिभावापन्नबह्माभावरूपवस्तुद्वयप्रतिपादकत्वे विशेषणविशेष्यभावापन्नतद्बोधकत्वे चासंसृष्टैकार्थगोचरत्वरूपाखण्डार्थत्वहानिः स्यादित्यर्थः । द्वितीयाभावे हेतुमाह ।। अन्यस्य चेति ।। तथा च परमते प्रमाणाभावान्न तात्विकाभावसिद्धिरित्यर्थः । अद्वितीयपदं स्वतन्त्रनिषेधपरं न तु द्वितीया-भावमात्रनिषेधपरमित्यत्र नियामकं दर्शयति । श्रौतेति । ‘‘सदेव सौम्येदमिदमग्र आसीत्’’ ‘‘एकमेवाद्वितीयं ब्रह्म’’ इत्यादौ पारमार्थिकं द्वितीयाभावं प्रतिपादयता श्रौताद्वितीयपदेन पुनः स्वबोध्याभावनिषेधे स्वविरोधो यथा तथा द्वितीयस्य भावस्यापि निषेधे ‘‘अग्र आसीत्’’ इति, ‘‘तत्तेज ऐक्षत’’ इत्यादिकालादि-सत्वप्रतिपादकेन स्ववाक्यान्तर्गतपदेन विरोधाविशेषाद्धेतोः स्वतन्त्रद्वितीयवस्तुनिषेधपरत्वमेवावश्यकमित्यर्थः । अभावद्वैताङ्गीकारेणैव भावद्वैतमकामेन सिद्धमित्याह । भावस्यापीति ।

नन्वभावस्याभावो नास्तीति तस्य पारमार्थिकत्वमित्यत आह । अभेदस्येति । अभावप्रतियोगिनो मिथ्यात्वे अभेदस्यापि सत्यत्वं स्यात् । तस्यापि भेदनिष्ठान्योन्याभावप्रतियोगित्वादित्यर्थः । अन्यथा तव भेदखण्डनानुपपत्तेरिति भावः ।। भेदस्येति ।। अभावत्वाविशेषादिति भावः । प्रध्वंसादेरिति । तथा च जगतस्तात्विकत्वप्रसङ्ग इत्यर्थः । ननु भावत्वस्य निर्वक्तुमशक्यत्वात् न भावस्तात्विक इत्यत आह । भावत्वानिर्वचन इति । अन्यथा भाववद् ब्रह्माभावयोरपि मिथ्यात्वापातादित्यर्थः । अभाव इति । एवं परिहर वा अभावरूपाणां ब्रह्मधर्माणां पारमार्थिकत्वं स्वीकुरु वा जगतः सत्यत्वमिति दुरुत्तराप्रतिबन्दि-तरङ्गिणीत्याशयः । ननु ब्रह्माद्वैतविरोधित्वान्न भावोऽङ्गीकारार्ह इत्यत आह ।  अभावस्येति ।  प्रतियोगिघटितत्वेन प्रतियोगिनिरूपणाधीनिरुपणत्वेनेत्यर्थः । सद्भ्यामेवाभावो निरूप्यत इति न्यायादभावस्य स्वसमसत्ताकप्रतियोग्यधिकरणापेक्षत्वादिति भावः ।

वनमालिमिश्रविरचितम्

न्यायामृतसौगन्ध्यम्

ननु अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वादितरांशिवदित्युक्तम् । तत्र तन्तुपद-मुपादानपरम् । तेन स्वोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्वसिद्धिरिति चेन्न । कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनात् । अनाश्रितत्वेनान्याश्रितत्वेन वोपपत्त्याऽर्थान्तराच्च । न चाभेदे कार्यकारण-भावव्याहत्या कथञ्चिद्भेेदोऽवश्यमभ्युपेयः । कथञ्चिद्भेदो हि मिथ्याभेदः स्यादिति वाच्यम् । मिथ्यात्वं हि स्वसमानाधिकरणस्वाधिक-सत्ताकात्यन्ताभावप्रतियोगित्वम् । तथा च भेदाभावस्याभेदस्य सत्यत्वं स्यादेव । तच्च तेऽनिष्टम् ।

यत्तु स्वसमानाधिकरणस्वाधिक(स्वान्यून)सत्ताकात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वमित्युक्तम् । अतोऽभेदस्य सत्यत्वासम्भवात् । तत्सम्भवे वा कथं तेन कार्यकारणत्वमिति । तन्न । भेदाभेदयोः सम-सत्ताकयोर्विरोधेन सत्ताभेदस्यावश्यकत्वात् । तथा च भेदस्य व्यावहारिकत्वे तदभावस्याभेदस्य प्रातिभासिकत्वेन न्यूनसत्ताकत्वेन भेदे मिथ्यात्वलक्षणासिद्धेः । भेदस्य प्रातिभासिकत्वे त्वभेदो व्यावहारिकः स्यात् । तथा च व्यावहारिकाभिन्नेऽत्यन्ताभावस्य सर्वसम्मतत्वात् । घटवद् घटाभाववत् इत्याचार्याशयात् कार्यकारणयोर्भेदसहिष्णुतादात्म्यस्वीकारेण तन्तुषु पटानाश्रितत्वस्य कार्यकारणभावस्य चोपपत्तेः ।

मन्नारी कृष्णाचार्यविरचिता

न्यायामृतमाधुरी

सिद्धसाधनमिति । तदनाश्रये तदभावसत्त्वादिति भावः । अत्राद्वैतसिद्धिकारः । ‘‘अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदोऽवश्याभ्युपेय एव । न च तदनन्यत्वमारम्भणशब्दादिभ्य इत्यधिकरणविरोधः उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात्’’ इति व्याजहार । तद्राभस्येनैव । भेदे कथञ्चिदिति पदाभिप्रेतमिथ्यात्वस्य स्वसमानाधिकरणस्वाधिकसत्ताकात्यन्ताभावप्रतियोगित्वरूपतायां भेदीयव्यावहारिकसत्ताधिकतात्विकसत्ताकभेदाभावरूपाभेदस्या समीहितस्योपगमापत्या, स्वसमानाधिकरण-स्वान्यूनसत्ताकात्यन्ताभावप्रतियोगित्वरूपतायां चैकाधिकरणे प्रतियोगितदभावयोरेकसत्ताकत्वस्य विरुद्ध-तयाऽवश्याभ्युपेये सत्ताभेदे अप्रातिभासिकस्याभेदस्य पारमार्थिकतैव पर्यवसानीदिति दर्शितक्षतितादवस्थ्य-प्रसङ्गेनैवंविधवचनविन्यासानौचित्यात् । अनाश्रितत्वेन न्यायनये विभुचतुष्टयवत् । अन्याश्रितत्वेन तन्त्वन्तराश्रितत्वेन । अर्थान्तरम् समीहितजगदलीकत्वासिद्धिः । प्रत्यक्षबाधात् । प्रकृतघट-धर्मिककिञ्चिन्निरूपिताधेयताग्राहकप्रत्यक्षविरोधात् । अनाश्रितत्वादिकं तद्गुणसंविज्ञाननिर्देशोऽ-न्याश्रितत्वसङ्ग्राहकः । तत एव । एतद्व्यक्तिधर्मिकैतत्तन्तुनिरूपिताधेयताग्राहकप्रत्यक्षविरोधादेव । नासत्वं न प्रकृतसाध्यीभूतप्रतियोगित्वम् । निरूपकताप्रत्यासत्या प्रतियोगिताविशेषणतापन्नाभावमधिकृत्य पारमार्थिकत्वप्रातिभासिकत्वव्यावहारिकत्वोपरक्तकल्पत्रयीमभिप्रेत्य क्रमेण पराकुरुते । अपि चेत्यादिना निरस्तमित्यन्तेन । पारमार्थिकताकल्पमुज्जिजीवयिषति नन्विति । एवं च औतोक्तिर्भावद्वैत-निषेधपरेत्याशयः । अभावेत्यादि ।। प्रतियोगितानिरूपकत्वरूपाभावत्वानुपरागेण जात्यखण्डोपाध्यति-रिक्तस्य धर्मिप्रतिपत्तिनिबन्धनप्रतिपत्तिकस्य अभावस्य किञ्चिन्निरूपिताधेयत्वानुपरागेण भानायोगान्मण्ड-नोक्तिरपि तन्मतखण्डनोक्तिरेवेत्याशयः । अभावेत्यादि । निःस्वादिपदाधीनबोधे धनाभावस्येव प्रकृतेऽपि अद्वितीयादिपदजन्यबोधीयप्रकारतावच्छेदकत्वरूपतत्पदप्रवृत्तिनिमित्तत्वसत्त्वात्समासवृत्तेरपि वृत्त्युपगमादिति भावः । मेयसिद्धेर्मानाधीनतया तादृशतात्विकाभावग्राहकमानमखण्डार्थनिष्ठं अनखण्डार्थनिष्ठं चेति कल्पद्वयीमभिप्रेत्य निर्भेदार्थतात्पर्यकत्वरूपाखण्डार्थनिष्ठत्वविशेषितस्य भेदनियतद्वित्वावच्छिन्नप्रमापकत्वा-योगेनाद्यं, अलीकार्थनिष्ठस्यानलीकतादृशाभावप्रत्यायकत्वायोगेन द्वितीयं च प्रत्याख्याति । अखण्डार्थे-नेत्यादिना ।। सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयमिति वाक्यघटकाद्वितीयपदस्य ब्रह्मान्यत्वा-वच्छिन्नप्रतियोगिताकाभावप्रत्यायकतायां तादृशाभावस्यापि तन्निरूपितप्रतियोगितावच्छेदकीभूत-ब्रह्मान्यत्वविशेषितयावदादिकल्पतापत्या वाक्याप्रामाण्यप्रसङ्गेन सामानाधिकरण्यप्रत्यासत्या ब्रह्मान्यत्व-विशेषितभावत्वावच्छिन्न प्रतियोगिताकाभावप्रमापकतोपेयेत्युच्यते तदापि समभिव्याहृतपदार्थान्तरीभूताग्र-कालवृत्तित्वस्य तन्निरूपितप्रतियोगितावच्छेदकीभूताभावत्वघटितधर्माक्रान्ततया तादृशधर्मावच्छिन्नाभाव-विशेषितब्रह्मधर्मिकाग्रकालवृत्तित्वरूपसमभिव्याहृतपदार्थान्तरविधेयका(न्वय)नुदयबोधस्य नैय्यायिकदिशा पाणिनीयदिशा निखिलकारकविशिष्टक्रियाविशेष्यकस्य वा बोधस्यानुदयप्रसङ्गेन तदप्रामाण्यतादवस्थ्यापत्या भगवत्पादोदीरितभङ्ग्या समाधिकराहित्यपरतैवोपेयेत्याशयेनाह– श्रौतेत्यादि ।। अभावधर्माणां तात्विकत्वोपगतौ द्वितीयाभावस्य प्रथमाभावप्रतियोगिस्वरूपतया घटादेरपि स्वाभावविरहात्मकतया तात्विक-त्वोपगमावश्यम्भावेन साधु समर्थितो द्वैतवाद इत्याह– भावस्येत्यादि । अभावीयप्रतियोगितानापन्ना-नामेवाभावानां तात्विकत्वोपगमेन जगदभावस्यैव जगन्मज्जनापातेन तादृशतथातथाभावेऽपि घटादेस्तदापन्नतया न तथात्वापत्तिरित्यत आह ।। अभेदस्येति । अन्योन्याभावप्रतियोगित्वेन भेदधर्मिकाऽन्योन्याभावप्रतियोगित्वेन । भेदस्येति । अभावत्वाविशेषादिति भावः । औतिनये विभिन्नसत्ताकयो रजततदभावयोः शुक्तावैकाधिकरण्यदर्शनेन समानसत्ताकयोरेव विरोधित्वस्येष्टव्यतया अभावत्वावैशेष्येण प्रध्वंसस्य तात्विकतायां तत्प्रतियोगिनामपि तथात्वापत्तिर्दुर्वारेत्याह– प्रध्वंसादेरिति । निखिलभावानुगतभावत्वस्यैव दुर्निरूपतया न तदुपहितानां तात्विकतेत्युपगमे तुल्यदिशा निखिलाभावानुगताभावत्वस्यापि तादृशतया ताद्रूप्यानुपपत्तेस्तस्य सुवचतायान्तु तद्वद्भावत्वस्यापि तादृशतापत्त्या ताद्रूप्यापत्तिर्दुष्परिहरेत्याह । भावत्वेत्यादि । प्रतियोगिघटितत्वेन प्रतियोगि-प्रतिपत्तिनियन्त्रितप्रतिपत्तिकत्वेन ।

Load More