नापि ‘नासदासीन्नो सदासीत्तम आसीत्’ इति

७३. श्रुत्यर्थापत्तिभङ्गः

न्यायामृतम्

नापि ‘नासदासीन्नो सदासीत्तम आसीत्’ इति श्रुत्यर्थापत्तिरनिर्वाच्ये मानं तत्र हि सदसच्छब्दौ पञ्चभूतपरौ प्रसिद्धपरत्वे ‘नासदासीत्’ इत्यस्या प्रसक्त-प्रतिषेधत्वापातात् तदानीमित्यस्य वैयर्थ्याच्च । नो सदासीदित्यनेनैव सिद्ध-त्वेन नासीद्रज इत्यादेर्वैय्यर्थ्याच्च ‘न सत्तन्नासदुच्यत’ इत्यादौ भूते प्रयोगाच्च ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सदिति वायुरन्तरिक्षं चासत्’ इति श्रुतेश्च । अन्यथा ‘आनीदवातम्’ इति वाक्यशेषोक्तं प्रलये सद् ब्रह्माप्यनिर्वाच्यं स्यात् । ख्यात्यन्तरभङ्गस्त्वन्यत्र द्रष्टव्यः ।

अद्वैतसिद्धि:

नासदासीन्नो सदासीत्’ इत्यादिश्रुतयोऽप्यनिर्वाच्यत्वे प्रमाणम् । न च अत्र सदसच्छब्दौ पञ्चभूतपरौ, ‘न सत्तन्नासदुच्यते’ इत्यादौ भूते प्रयोगाद्, ‘यदन्यद्वायोरन्तरिक्षा-च्चैतत् सद्वायुरन्तरिक्षं चेत्यसत्’ इति श्रुतेश्चेति वाच्यम् । प्रसिद्धपरत्वे सम्भवति अप्रसिद्ध-परताया अयुक्तत्वात् । न हि भूते सदसच्छब्दौ प्रसिद्धौ, किन्तु पारमार्थिकापारमार्थिक-योरेव । न च ‘नासदासीत्’ इत्यत्राप्रसिद्धप्रतिषेधापत्तिः, नो सदासीत्’ इत्यनेन सद्भिन्नत्वे उक्ते असत्त्वस्यापि प्रसक्तेः । न च तदानीमित्यस्य वैयर्थ्यम् ‘नासीद्रजो नो व्योमा’ इति रजोनिषेधादावेव तदन्वयात् । न हि रजःप्रभृतीनां सर्वदा अनस्तित्वम् । न च ‘नो सदासीत्’ इत्यनेनैव रजःप्रभृतिनिषेधे सिद्धे पृथङ्निषेधानुपपत्तिः, ‘नो सदासीत्’ इत्यत्र सच्छब्दस्य परमार्थसत्परत्वेन व्यावहारिकसतो रजःप्रभृतेर्निषेधस्य ततः प्राप्तभावात् । ‘आनीदवातं स्वधया तदेकम्’ इति वाक्यशेषाद् ब्रह्मणोऽपि अनिर्वाच्यत्वप्रसङ्गः ‘तम आसीत्’ इति वाक्याद् अविद्याया इवेति चेत्, श्रुत्यन्तराविरोधाय सदेकं ब्रह्म सदासीन्न सदसद्विलक्षणमित्यर्थपर्यवसानात् ।

न्यायामृततरङ्गिणी

।। पञ्चभूतेति ।। पृथिव्यप्तेजांसि सच्छब्दानि वाय्वाकाशावसच्छब्दौ ।। अप्रसक्तेति ।। न च नो सदासीदित्यनेन सद्भिन्नत्वे उक्तेऽसत्त्वस्य प्रसक्तिरिति वाच्यम् । श्रुत्या प्रसक्तस्य श्रुत्या निषेधायोगात् । अन्यथा षोडशिग्रहणे विकल्पो न स्यात् । अत एव न तौ पशौ करोतीत्यत्र नञः प्रतिषेधार्थत्वे स्थिते तस्य प्राप्तिपूर्वकत्वादाज्यभागयोश्च पशौ शास्त्रादन्येन प्राप्तेरभावाच्छास्त्रप्राप्तस्य च सर्वथा निषेधायोगात्पशावाज्यभाग योर्विकल्प इति दशमेऽभिहितम् । अतोऽप्रसक्तेर्न निषेध इति स्वोक्तिविरोधश्च ।। तदानीमित्यस्येति ।। असतः सदा सत्त्वात् । न च तदानीमित्यस्य रजः प्रभृतिभिरन्वय इति वाच्यम् । सच्छब्दस्य पञ्चभूतपरत्वे तदानीमित्यस्य सर्वान्वयेन वाक्यार्थसम्भवे प्रक्रमभङ्गकल्पनायोगात् । अत एव तदानीं प्रलयकालेऽवस्थितं तदस्य मूलकारणं तन्नास-दित्यादिना तदानींशब्दस्यासदाद्यन्वयो माधवीयभाष्येऽभिहितः । सच्छब्दस्य प्रसिद्ध-सत्यपरत्वे दोषमाह ।। नो सदिति ।। न च नासदासीदित्यस्य पारमार्थिकसत्यपरत्वेन व्यावहारिकसतो रजः प्रभृतेर्निषेधस्य ततः प्राप्त्यभाव इति वाच्यम् । तर्हि प्रातिभासिक-निषेधार्थमन्यद्वाच्यं स्यात् ।। ब्रह्मापीति ।। न च तदेकं ब्रह्म सदासीन्न तु सदस-द्विलक्षणमासीदित्यर्थे न ब्रह्मणोऽनिर्वाच्यत्वप्रसङ्ग इति वाच्यम् । तर्हि तदनन्तरवाक्याभि-हिते तमसि सदादिवैलक्षण्याभाव एव सन्निधानादन्यायेन । न तु सदादिवैलक्षण्यम् ।

न्यायामृतकण्टकोद्धारः

।। प्रसिद्धपरत्व इति ।। न च नोसदासीदित्यनेन सद्भिन्नत्वे उक्तेऽसत्वस्यापि प्रसक्तिरिति वाच्यम् । नासदासीदित्यस्य प्राथमिकत्वेन तदर्थबोधसमये उत्तरवाक्यार्थस्य बुद्ध्यनारूढत्वेन तत्प्रयुक्तप्रसक्त्ययोगात् । तावताप्यसत्वनिषेधसम्भवे धर्मिणोऽप्रसक्तत्वेन तन्निषेधायोगाच्च ।। तदानीमिति ।। न च तदानीमित्यस्य रज आदिनैवान्वय इति वाच्यम् । प्रथमप्रतीतान्वयपरित्यागे कारणाभावात् ।। नो सदासीदिति ।। न च सच्छब्दः परमार्थवाची । तेन न रजआदीनां निषेधप्रसक्तिरिति वाच्यम् । तथात्वे परमार्थस्योत्तरत्रानीदवातमित्यनेन सत्त्वाभ्युपगमेनात्र तन्निषेधे व्याघातात् रज आदीनां व्यावहारिकत्वासिद्धेश्च । भूतपरत्वस्यैव न्यायत्वाच्च । अत एव श्रुतिस्मृतिरूपशास्त्रप्रसिद्धिं दर्शयति ।। न सदिति ।। अन्यथेति ।। यदि परिशिष्टस्य तमः शब्दवाच्यस्या-निर्वचनीयत्वं तदेत्यर्थः । न च श्रुतिविरोधात्तदनिर्वाच्यत्वं वक्तुमशक्यमिति वाच्यम् । तर्हि आसीदिति तमसोऽपि सत्त्वप्रतिपादकश्रुतिविरोधात् तस्याप्य-निर्वाच्यत्वमिति तुल्यम् । प्रमाणान्तरविरोधस्तूभयत्र तुल्य इति ।

न्यायामृतप्रकाशः

श्रौतेति ।। सदसती निषिध्य तमसोऽवस्थानोक्तिः तस्य सदसद्वैलक्षण्यरूपानिर्वाच्यत्वं विना न सम्भवतीत्यर्थः ।। पञ्चभूतेति ।। पृथिव्यप्तेजांसि सत्शब्दाभिधेयानि । वाय्वाकाशा-वत् शब्दाभिधेयाविति ज्ञातव्यम् ।। प्रसिद्धेति ।। सत् शब्दस्य सत्त्वेन प्रसिद्धघटादिप्रपञ्च-परत्वेऽसत् शब्दस्य शशशृङ्गादिपरत्वे चेत्यर्थः ।। अप्रसक्तेति ।। असतः सत्वस्याप्रसक्तेः ‘असत् नासीत्’ इति निषेधायोगादिति भावः ।। तदानीमिति ।। असतः सदाऽसत्वेन ‘तदानीं नासीत्’ इति विशिष्य निषेधायोगादिति भावः । सत् शब्दस्य प्रसिद्धसत्यपरत्वे दोषमाह ।। नोसदासीदिति ।। सदसच्छब्दयोः पञ्चभूतेषु रुढेः सत्वात् नाप्रसिद्धार्थत्व-मित्याह ।। न सत्तदिति ।।

मूर्तं सदिति सम्प्रोक्तम् अमूर्तमसदुच्यते ।

 मूतामूर्तेतरद् ब्रह्म न सत् तन्नासदुच्यते’

इत्यादीत्यर्थः । सदसती निषिध्य तमसोऽवस्थानोक्त्या तस्यानिर्वचनीयत्वाङ्गीकारे ‘आनीदवातं स्वधया तदेकम्’ इति तदानीं परिशिष्टत्वाश्रवणात् ब्रह्मण एवानिर्वचनीयत्वं स्यादिति भगवत्पादोक्तं दोषमाह ।। अन्यथेति ।। एतावता प्रबन्धेन इदं रूप्यमित्यादौ अनिर्वचनीयमेव रूप्यं ख्यायत इति मतं दूषितम् । अन्यत्र विद्यमानमेवान्यत्र ख्यायत इति तार्किकाभिमतान्यथाख्यातेः तत्रैव तात्कालिकमुत्पन्नं सदिति भास्कराभिमतान्यथाख्यात्यन्त-रस्य, आन्तरस्य बाह्यत्वावभासरूपाया विज्ञानवाद्यभिमतान्यथाख्यातेश्च भङ्गः कस्मात् न क्रियत इत्यत आह ।। ख्यात्यन्तरेति ।। अन्यथाख्यात्यन्तरेत्यर्थः ।। अन्यत्रेति ।। ‘विज्ञातस्यान्यथा सम्यक् विज्ञानं ह्येव तन्मतम्’ इत्यनुव्याख्यानव्याख्यानसमये न्यायसुधा-याम् अन्यथाख्यत्यन्तरभङ्गः सविस्तरं कृतोऽस्तीति तत्रैव द्रष्टव्यः इति भावः ।

न्यायकल्पलता

।। पञ्चभूतेति ।। पृथिव्यप्तेजांसि सच्छब्दानि वाय्वाकाशावसच्छब्दौ ।। अप्रसक्तेति ।। न च नो सदासीदित्यनेन सद्भिन्नत्वे उक्तेऽसत्त्वस्य प्रसक्तिरिति वाच्यम् । श्रुत्या प्रसक्तस्य श्रुत्या निषेधायोगात् । अन्यथा षोडशिग्रहणे विकल्पो न स्यात् । अत एव न तौ पशौ करोतीत्यत्र नञः प्रतिषेधार्थत्वे स्थिते तस्य प्राप्तिपूर्वकत्वादाज्यभागयोश्च पशौ शास्त्रादन्येन प्राप्तेरभावाच्छास्त्रप्राप्तस्य च सर्वथा निषेधायोगात्पशावाज्यभाग योर्विकल्प इति प्रथमेऽभि-हितम् । असतोऽप्रसक्तेर्न निषेध इति स्वोक्तिविरोधश्च ।। तदानीमित्यस्येति ।। असतः सदाऽसत्त्वाद्विगतप्रयोजनत्वविरुद्धार्थत्वं चेत्यर्थः । न च तदानीमित्यस्य रजः प्रभृतिभिरन्वय इति युक्तम् । तच्छब्दस्य पञ्चभूतपरत्वे तदानीमित्यस्य सर्वान्वयेन वाक्यार्थसम्भवे प्रक्रम-भङ्गकल्पनानुपपत्तेः । अत एव तदानीं प्रलयकालेऽवस्थितं सदस्य मूलकारणं तन्नास-दित्यादिना तदानींशब्दस्यासदाद्यन्वयो माधवीयेऽभिहितः । सच्छब्दस्य प्रसिद्धसत्यपरत्वे दोषमाह ।। नो सदिति ।। न च नासदासीदित्यत्र सच्छब्दस्य पारमार्थिकसत्यपरत्वेन व्यावहारिकसतो रजः प्रभृतेर्निषेधस्य ततः प्राप्त्यभाव इति देश्यम् । तर्हि प्रातिभासिक-निषेधार्थमन्यद्वाच्यं स्यात् ।। ब्रह्मापीति ।। ननु तदेकं ब्रह्म सदासीन्न तु सदसद्विलक्षण-मासीदित्यर्थपर्यवसानान्तब्रह्मणोऽनिर्वाच्यत्वप्रसङ्ग इति चेत् । न । तम आसीदिति तदनन्तरवाक्येनाभिहिते तमसि सन्निधानात् सदादिवैलक्षण्याभाव एव अन्वीयेत । न तु सदादिवैलक्षण्यमित्यापातात्् ।। अन्यथेति ।। सुधायामित्यर्थः ।

।। इति श्रुत्यर्थापत्तिभङ्गः ।।