नापि ‘इदं सर्वं यदयमात्मा’ इत्यादि श्रुतिस्तत्र मानम्

४३. इदं सर्वं यदयमात्मेति श्रुत्यर्थविवरणम्

न्यायामृतम्

नापि ‘इदं सर्वं यदयमात्मा’ इत्यादि श्रुतिस्तत्र मानम् । जडाजडयोरैक्या सम्भवेन ब्रह्मव्यतिरेकेणासत्त्वस्यात्राभिप्रेतत्वादिति युक्तम् । ‘सर्वेषु भूतेष्वेतम्’ इति श्रुतेः, सर्वं जलं लवणमितिवत् सर्वव्याप्त्या वा, ‘स हि सर्वस्य कर्ता’ इति श्रुतेः ‘आयुर्वै घृतं, ब्राह्मणोऽस्य मुखम्’ इतिवन् निमित्तत्वेन वा, ‘यस्मिन्द्यौः पृथिवी च’ इत्यादिश्रुतेः ‘राजा राष्ट्रं ब्राह्मणो वै सर्वा देवता’ इतिवत् सर्वाधारत्वेन वा, ‘न ऋते त्वत्क्रियते किञ्चन’ इत्यादि श्रुतेः ‘यजमानः प्रस्तरः’ इतिवत् तत्सिद्ध्या वा, ‘आदित्यो यूपः’ इतिवत् सारूप्येण वा, सामानाधिकरण्योपपत्तौ सर्वप्रमाणबाधितायाः यः पुरुषः सः स्थाणुरितिवत् यत् सर्वत्वेन प्रतीतं तदात्मन्यध्यस्तमिति पदद्वय लक्षणायाः अयोगात् । उक्तं १हि महाभाष्ये– ‘अन्तरेणापि निमित्तं निमित्तार्थोऽवगम्यते । तद्यथा आयुर्वैघृतं, दधित्रपुसं प्रत्यक्षो ज्वर इति । अन्तरेणापि वतिमति देशोऽवगम्यते । अब्रह्मदत्तं ब्रह्मदत्त इत्याह ब्रह्मदत्तवदिति गम्यते’ इति । ‘पुरुष एवेदं सर्वं पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात्’ इति श्रुतौ ।

असतश्च सतश्चैव सर्वस्य प्रभवोऽव्ययः ।

सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते ।।

पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत् ।

इत्युच्यते तदीयत्वान्न तु सर्वस्वरूपतः ।।

इति भारते, ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति गीतायां चान्यथा व्याख्यातत्वाच्च । अन्यथा ‘इदं सर्वम्’ इत्यस्य ‘सर्वं तं परदाद्योऽन्यत्रात्मन स्सर्वं वेद’ इति पूर्वेण ‘स यथा दुन्दुभेः’ इत्यादिनोत्तरेण, ‘पुरुष एवेदं सर्वम्’ इत्यस्य ‘स भूमिं विश्वतो वृत्वा’ इति पूर्वेण, ‘उतामृत्वस्येशानः’ इत्युत्तरेण, ‘ब्रह्मैवेदं सर्वम्’ इत्यस्य ‘अस्यां पृथिव्यां तेजोमयोऽमृतमयस्सयश्चायमप्सु तेजोमयोऽमृतमयः’ इत्यादिना पूर्वेण, ‘सर्वं खल्विदं ब्रह्म’ इत्यस्य ‘ज्यायान्  पृथिव्या ज्यायानन्तरिक्षात्’ इत्यादिनोत्तरेण, ‘सर्वाणि भूतान्यात्मैव’ इत्यस्य ‘सर्वभूतेषु चात्मानम्’ इत्यादिना पूर्वेण, ‘यथातथ्यतोऽर्थान् व्यदधाच्छाश्व-तीभ्यः’ इत्युत्तरेण च विरोधः ।

न्यायामृततरङ्गिणी

ननु बृहदारण्यके ‘इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजो-मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’ इति चतुर्दश कृत्वः सर्वस्य ब्रह्मात्मत्वं बोध्यते । तथा हि बृहदारण्यकभाष्ये– इदं सर्वं यदय मात्मेति प्रतिज्ञायामात्मैकोद्भवत्वस्यात्मैकप्रलयत्वस्य च हेतोरसिद्धिरत्र निवार्यते । तथा हि । यत् लोके परस्परोपकार्योपकारकभूतं तदेककारणपूर्वकमेकप्रलयं च दृष्टम् । इदमपि पृथिव्यादिलक्षणं जगत् परस्परोपकार्योपकारकत्वात्तथाभूतं भवितु-मर्हति । इयं पृथिवी सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनां मधु मध्विव मधु । यथैको मध्वपूपोऽनैकैर्मधुकरैर्निर्वर्तितः एवमियं पृथिवी सर्वभूतनिर्वर्तिता तथा सर्वाणि भूतानि पृथिव्यै पृथिव्याः अस्याः मधु । यश्चायमस्यां पृथिव्यां तेजो-मयश्चिन्मात्र प्रकाशमयोऽमृतमयोऽमरणधर्मा पुरुषो यश्चायमध्यात्मं शारीरः शरीरे भवः तेजो मयादिपुरुषो लिङ्गाभिमानी सर्वेषां भूतानामुपकारात् करणत्वेन मधु सर्वाणि च भूतान्यस्य मधु । चशब्दसामर्थ्यादेवमेतच्चतुष्टयं तावदेकं सर्वभूतकार्यम् ।

सर्वाणि च भूतान्यस्य कार्यमतोऽस्यैककारणपूर्वकतया यमेव सः योऽयं प्रतिज्ञात इदं सर्वं यदयमात्मेति । इदममृतं यन्मैत्रेय्यै अमृतत्वस्य साधनमात्म विज्ञानमुक्तम् इदं ब्रह्म यद्ब्रह्म ते ब्रवाणीत्यध्यायादौ प्रकृतम् इदं सर्वं अयमेव । तस्मान्मधुब्राह्मणं मिथ्यात्वे मानमिति । तत्राह– ब्रह्मैवेदं सर्वमिति ।। अत्र ब्रह्मशब्दो न श्रुतिपाठगतः । तस्य इदं ब्रह्मेति इदंशब्देनान्वयात् । किन्तु अयमेव स योऽयमात्मेत्यत्रत्यस्यायमेवेत्यस्यार्थानुवादः । इदं सर्वं अयमेव पूर्वप्रकृतं ब्रह्मैवेति । अत एव काण्वानां माध्यन्दिनानां च श्रुतौ एवशब्दाभावादपपाठोऽयमिति न मन्तव्यम् । अयमेवेत्यत्रत्यस्य एवशब्दस्यानुवादात् ।। पूर्वेणेति ।। उपलक्षण-मेतत् । ‘स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एवात्मानः समर्पिताः’ इत्युत्तरवाक्येन भूतादि-सत्त्व तात्पर्यकेण च विरोधो ज्ञेयः ।। सर्वं खल्विदमिति ।। एष आत्माऽन्तर्हृदये ज्यायान् पृथिव्या इत्यादिनेत्यर्थः ।। आत्मैवेत्यस्येति ।।

यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः ।। इतीशावास्यश्रुतिः ।

सर्वभूतेष्विति ।।

यस्मिन् सर्वाणि भूतान्यात्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मानं न ततो विजुगुप्सते ।। इत्यनेन ।

याथातथ्यत इति ।। यथार्थान् ।

न्यायामृतकण्टकोद्धारः

नापीति । अत्र समानाधिकरणशब्दोपेताः सर्वं खल्विदं ब्रह्मेत्याद्याः श्रुतयो निर्णेयाः । न्यायसाम्यात् । अत एवाग्रे बहुषु श्रुतिषु पूर्वोत्तरविरोधकथनं सङ्गच्छत इति । अत्र हि यत् सर्वत्वेन प्रतीतं तद् आत्मा आत्मन्यध्यस्तमिति मिथ्यात्वं प्रतीयते । ननु सामानाधिकरण्यात् तत्त्वमसीतिवत् ऐक्यपरतैव किं न स्यात् ? किमध्यस्तत्ववर्णने-नेत्यत आह– जडाजडयोरिति । जडत्वाजडत्वरूपविरुद्धधर्माधिकरणत्वेनैक्यासम्भवात् । लक्षणया मिथ्यात्वपरत्वमेव युक्तमिति भावः । एकलक्षणयैव प्रमाणाविरुद्धार्थवत्वे सम्भवति पदद्वय लक्षणया प्रमाणविरुद्धार्थपरता न युक्तेति दूषयति सर्वेष्विति । अत्र सामानाधिकरण्योप पादने व्याप्तिनिमित्तत्वाधारत्वतत्सिद्धिसारूप्याणि हेतवोऽभिमताः । तत्र सर्वेष्वित्यादिनोक्तहेतुसद्भावे प्रमाणं, सर्वं जलमित्यादिना प्रयोगप्रदर्शनं, सर्व-व्याप्त्येत्यादिना हेतुकथनमिति द्रष्टव्यम् । अत्रादित्यो यूप इतिवदित्यतः प्राक् साम्यमुपैतीति श्रुतेरिति द्रष्टव्यम् । निमित्तत्वादिप्रतिपादकशब्दं विनापि निमित्तत्वाद्यर्थो गम्यत इत्यत्र सम्मतिमाह– उक्तं चेति । श्रुतिस्मृतिभ्यां सामानाधिकरण्यस्य व्याप्त्या-द्यर्थतया व्याख्यातत्वाच्च नान्यथार्थो वर्णनीय इत्याह– पुरुष एवेदं सर्वमिति । अन्यथेति । सामानाधिकरण्यव्यपदेशस्य मिथ्यात्वपरत्वे सर्वत्र पूर्वोत्तरवाक्यविरोध इत्यर्थः । इदं सर्वं यदयमात्मेति श्रुत्यर्थः ।

न्यायामृतप्रकाशः

कथमियं श्रुतिर्मिथ्यात्वे मानमित्यत आह– जडाजडेति । सर्वशब्दोक्तजडाजडयो-रित्यर्थः । सर्वव्याप्त्या सर्वमात्मेति सामानाधिकरण्योपपत्तावित्यन्वयः । इदं सर्वमात्मा आत्मना व्याप्तमित्यर्थः । भगवतः सर्वव्याप्तत्वे श्रुतिः सर्वेष्विति ।। व्याप्त्या सामानाधि-करण्यं कुत इत्यत आह– सर्वमिति ।। लवणं लवणेन व्याप्तमित्यर्थः । एवमेवोत्तरत्रापि योज्यम् । आयुः घृतं घृतनिमित्तकम् । ब्राह्मणो मुखं मुखनिमित्तकः । राष्ट्रं राष्ट्राधारः । सर्वा देवताः सर्वदेवताश्रयः सर्वदेवतासन्निधिपात्रम् ।। प्रस्तर इति ।। यथा यजमानकार्य-कारी प्रस्तरः एवं ‘न ऋते’ इति श्रुतेस्तत्सिद्ध्या जगच्चेष्टादिकार्यकारित्वेनेत्यर्थः ।। आदित्य इति ।। यूप आदित्यः आदित्यवत् आज्याञ्जननिमित्तौज्वल्येन आदित्यसदृश इत्यर्थः । एवं सारूप्येण सत्वादिसारूप्येण ।। सामानाधिकरण्येति ।। सर्वात्मनेति सामानाधिकरण्योपपत्तावित्यन्वयः ।। पदद्वयेति ।। सर्वशब्दस्य प्रतीतत्वे लक्षणा आत्म-शब्दस्य आत्मन्यध्यस्तत्वे लक्षणेति पदद्वयलक्षणाया अयोगादित्यर्थः । इदं सर्वमात्मेति सामानाधिकरण्यमात्मनिमित्तकत्वेन व्याख्यातं तदयुक्तं निमित्तवाचकपदाभावादित्यतो निमित्तवाचक पदाभावेऽपि तदर्थोऽवगम्यत इत्यत्र सम्मतिमाह– उक्तं हीति ।।

निमित्तं निमित्तवाचकं पदम् । त्रपुसं उर्वारुकं दधिमण्डं वा । ज्वरो ज्वरनिमित्तम् । आदित्यो यूप इत्यत्र आदित्यवदिति सारूप्यं सामानाधिकरण्यार्थः । एवं सर्वमात्मा आत्मवदिति सारूप्येण सामानाधिकरण्योपपत्तिरित्युक्तं तदयुक्तं वत्यर्थकपदाश्रवणादित्यतो विनापि वतिं तदर्थोऽवगम्यत इत्येतत्सम्मत्या द्रढयति– अन्तरेणापीति ।। वतिं वति-प्रयोगम् । अतिदेशः तद्वदित्यतिदेशः । यद्यब्रह्मदत्तमुद्दिश्य हे ब्रह्मदत्तेत्याह तर्हि ब्रह्मदत्त-वदिति तत्सारूप्यं गम्यत इत्यर्थः । अस्याः श्रुतेर्न त्वदुक्तोऽर्थः किन्त्वस्मदुक्त एव । तथैव प्रमाणान्तरेण व्याख्यातत्वादित्याह– पुरुष एवेदमित्यादिना ।। परव्याख्याने बाधकमाह–  अन्यथेति ।। ‘इदं सर्वं यदयमात्मा’ इत्येवञ्जातीयानि वाक्यान्युदाहृत्य तत्र सर्वत्रापि पूर्वोत्तरविरोधं दर्शयति– पुरुष एवेदमित्यादिना ।।

न्यायकल्पलता

जडाजडयोरिति ।। प्रत्यक्षादिप्रमाणविरोधेनाचितश्चिदभेदासम्भवेन यथाश्रुतसामानाधि करण्यानुपपत्तेर्ब्रह्मव्यतिरेकेणासत्वमाश्रीयत इति यत्तदपि न युक्तमित्यर्थः । कुतो न युक्तमित्यतः स्वाभिपे्रतार्थश्रुतिभिः सदृष्टान्तं पञ्चधा समर्थ्य साधकाभावेन पराभिप्रेतार्थं निराचष्टे– सर्वेष्वित्यादिना ।। निमित्तनिमित्तिभावेन सामानाधिकरण्यव्यपदेशं सम्मतयति– उक्तं चेति ।। ज्ञायमानसारूप्येणोक्तव्यपदेशं द्रढयति– अन्तरेणापि वतिमिति ।। पौरुषं मन्त्रवर्णमपि न्यायोपेतश्रुतिस्मृतिभिर्व्याख्याति– पुरुष एवेदमिति ।। बाधकेनापि पराभिप्रेतार्थं पराकरोति– अन्यथेति ।। ननु बृहदारण्यके– ‘इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’ इति चतुर्दशकृत्वः सर्वस्य ब्रह्मात्मत्वं बोध्यते ।

तथा हि बृहदारण्यकभाष्ये इदं सर्वं यदयमात्मेति प्रतिज्ञायामात्मैकोद्भवत्वस्यात्मैक प्रलयत्वस्य च हेतोरसिद्धिरत्र निवार्यते । तथा हि– यल्लोके परस्परोपकार्योपकारकभूतं तदेक कारणपूर्वकमेकप्रलयं च दृष्टम् । इदमपि पृथिव्यादिलक्षणं जगत् परस्परोपकार्योपकारक त्वात्तथाभूतं भवितुमर्हति । इयं पृथिवी । सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनां मधु मध्विव मधु । यथैको मध्वपूपोऽनेकैर्मधुकरैर्निर्वर्तितः एवमियं पृथिवी सर्वभूतनिर्वर्तिता । तथा सर्वाणि भूतानि पृथिव्यै पृथिव्या अस्याः । षष्ट्यर्थे चतुर्थी ‘व्यत्ययो बहुलम्’ इति सूत्रात् । मधु यश्चायमस्यां पृथिव्यां तेजोमयश्चिन्मात्रप्रकाशमयोऽमृतमयोऽमरणधर्मा पुरुषो यश्चायमध्यात्मं शारीरः शरीरे भवः तेजोमयादिपुरुषो लिङ्गाभिमानी सर्वेषां भूतानाम् उपकार करणत्वेन मधु । सर्वाणि च भूतान्यस्य मधु । चशब्दसामर्थ्यादेवमेतच्चतुष्टयं तावदेकं सर्वभूत कार्यम् । सर्वाणि च भूतान्यस्य कार्यमतोऽस्यैककारणपूर्वकता । अयमेव स योयं प्रतिज्ञातः इदं सर्वं यदयमात्मेति । इदममृतम् । यन्मैत्रेय्यै अमृतत्वसाधनमात्मविज्ञानमुक्तम् ।

इदं ब्रह्म ‘यद्ब्रह्म ते ब्रवाणि’ इत्यध्यायादौ प्रकृतम् । इदं सवमर्् अयमेव । तस्मान्मधुब्राह्मणं मिथ्यात्वे मानमिति ।

तत्राह– ब्रह्मैवेदं सर्वमिति ।। अयमेव स योऽयमात्मेत्यत्रत्य एवकारः सयोज्य पठितः । अयमेवेत्यत्रत्यस्यैवशब्दस्यात्रानुवादात् । इदं सर्वं पूर्वप्रकृतं ब्रह्मैवेति । अत एव काण्वानां माध्यन्दिनानां च श्रुतौ एव शब्दा भावादपपाठोऽयमिति न मन्तव्यम् ।। पूर्वेणेति ।। उपलक्षणमेतत् । ‘स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः’ इत्युत्तरवाक्येन भूतादि-सत्वतात्पर्यकेण च विरोधो ज्ञेयः ।। सर्वं खल्विदमिति ।। ‘एष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्या’ इत्यादिनेत्यर्थः ।। आत्मैवेत्यस्येति ।।

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।

 तत्र को मोहः  कः शोक एकत्वमनुपश्यतः’ ।। इतीशावास्यश्रुतेः ।

सर्वभूतेषु चेति ।। यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं न ततो विजुगुप्सते ।। इत्यनेन । ‘ततः’ तद्ज्ञानोदितप्रसादात् । स्वरूपं कुत्सितं न करोति । गुपगोपन-कुत्सनयोरिति धातोः १‘गुप् तिज् किद्भ्यः सन्’ इति सूत्रेण स्वार्थे सन्प्रत्ययः । इच्छार्थे वा ।

सर्वगं परमात्मानं सर्वं च परमात्मनि ।

यः पश्येत्सभयाभावान्नात्मानं गोप्तुमिच्छति ।। इति श्रुतेः ।

यस्मिन्सर्वाणि भूतानि स आत्मा सर्वभूतगः ।

एवं सर्वत्र यो विष्णुं पश्येत्तस्य विजानतः ।

को मोहः कोऽथवा शोकः स विष्णुं पर्यगाद्यतः ।। इति वा ।

याथातथ्यत इति ।। यथार्थान् कालत्रयाबाध्यान् । अर्थान् महदादीन् । सर्वेषु कालेषु सृष्टवानित्यर्थः ।।

।। इति ‘इदं सर्वं यदयमात्मा’ इति श्रुत्यर्थविवरणम् ।।