सोपाधिकाश्च दृश्यत्वादयः
७. दृश्यत्वादेः सोपाधिकत्वम्
न्यायामृतम्
सोपाधिकाश्च दृश्यत्वादयः । स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वस्य तदबाध्य-बाधकं प्रति निषेध्यत्वेन विषयत्वस्य वा (वि)पक्षाद्व्यावृत्तस्य समव्याप्तिमतो व्यतिरेकव्याप्तिमतश्चोपाधित्वात् । न च पर्वतावयववृत्त्यन्यत्वापर्वतीयवह्निसामग्री युक्तत्वादेरिव पक्षमात्रव्यावर्तकविशेषणवत्वात्पक्षेतरत्वम् । वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वादेरिव वक्ष्यमाणानुकूलतर्कैस्साध्यव्यापकत्वनिश्चयात् । बाधिते पक्षेतरत्वस्याप्युपाधित्वाच्च । इह च वक्ष्यमाणप्रत्यक्षादिबाधात् । यद्वा यथाऽनुकूल-तर्काभावान्मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वम्, तस्मिन्साध्ये श्यामत्व-मुपाधिः, तथेहापि बाध्यत्वादिरूपे मिथ्यात्वे साध्ये विपरीतप्रमाविषयत्वदोषप्रयुक्त-भानत्वादिकम्, तस्मिन्साध्ये मिथ्यात्वमुपाधिरस्तु । युगपदुभयसाधने त्वर्थान्तरम् । मिथ्यात्व एव विप्रतिपत्तेः । बाधो भ्रान्तिपूर्वकः, विपरीतप्रमा तु नेति तयोर्भेदः ।
अद्वैतसिद्धिः
ननु दृश्यत्वादिहेतवः सोपाधिकाः । तथा हि स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं स्वबाधका-बाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं वा विपक्षाद् व्यावृत्तं समव्याप्तम् । अत एव व्यतिरेकव्याप्ति-मदुपाधिः इति चेन्न । ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वात् । पर्वतावयववृत्त्यन्य-त्वादिवत् साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वाच्च । न च बाधोन्नीतत्वात् सोऽप्युपाधिः । बाधस्याग्रे निरसिष्यमाणत्वात् । अपि च यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वम्, इतरांशे अनुकूलतर्काप्रसरात् । तथा च ‘क्षित्यादिकं न कर्तृजन्यम् शरीराजन्यत्वा’ दित्यत्र यथा शरीरविशेषणवैयर्थ्यान्न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम् । एवं ‘वियदादिकं न मिथ्या स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वरहितत्वात्’ इति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपीति नोपाधिः । दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनात् । एवं द्वितीयोपाधावपि ‘स्वबाधकाबाध्यबाधकं प्रती’ति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्यभागस्तु साध्यसाधनयोर्व्यापक इति नोपाधिः ।
न्यायामृततरङ्गिणी
स्वबाधकाभिमतेति ।। दिदर्शयिषितोपाधिकमधिकरणं स्वशब्दार्थः । शुक्तिरूप्यादौ साध्यवति शुक्तिरूप्यादिबाधकत्वेनाभिमतेन ‘नेदं रजतमि’ ति ज्ञानेनाबाध्यो यो दोषः सादृश्यादिः, तत्प्रयुक्त-भानत्वस्य, तथोक्तविधया स्वबाधकाभिमताबाध्यबाधकं ‘नेदं रजतमि’ति ज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य सत्त्वात् सपक्षे रूप्यादावुपाध्योः साध्यव्यापकता । हेतुमति पक्षे पररीत्याऽविद्यारूपदोष-प्रयुक्तभानत्वस्य, तथा ‘‘नेति नेती’’ति वेदान्तवाक्यजन्यं बाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य च सत्त्वात् साधनव्याप्तिर्मा भूत्, इति ‘स्वबाधकाभिमताबाध्ये’ति प्रथमोपाधौ दोषविशेषणम् । द्वितीयापाधौ बाधकज्ञानविशेषणम् । एवं चाविद्यारूपो दोषो वियदादिबाधकाभिमतया चरमवृत्त्या बाध्य एव, इति स्वबाधकाभिमताबाध्यत्वरूपविशेषणाभावाद् विशिष्टरूपोपाधिर्नास्त्येव । मम मते तु विशेष्याभावाद् विशिष्टरूपोपाधिर्नास्ति इति भवति पक्षे साधनाव्यापकः । एवं द्वितीयोपाधावपि योजनीयम् । साधनाव्यापकत्वमाह– पक्षादिति ।। ‘विपक्षाद् व्यावृत्तस्ये’ति पाठेऽनेन साध्याभाववदवृत्तित्वरूपसाध्यव्याप्यत्वोक्तिः ।। व्यतिरेकव्याप्तिमत इति ।। साध्यव्यतिरेक-निरूपितव्याप्तिमद्व्यतिरेकप्रतियोगिन इत्यर्थः । अनेन साध्याभावव्याप्याभावप्रतियोगित्व-रूपसाध्यव्यापकत्वोक्तिः । एवं च समव्याप्तिर्लभ्यत इत्यभिसन्धायोक्तम् – समव्याप्तिमत इति ।। यद्वा समव्याप्तिमत्त्वाद् व्यतिरेकव्याप्तिमत इत्यर्थः ।। वस्तुतस्तु पक्षाद् व्यावृत्तस्येत्येव युक्तः पाठः । अत एव पक्षेतरत्वशङ्कायां तां निराकरोति – न चेति ।। पक्षमात्रव्यावर्तकविशेषणवत्त्वं तादृशविशेषणघटितत्वम् । न तु तादृशविशेषणं प्रति विशेष्यत्वम् ।।
तथा हि – उपाधित्वेन प्रेक्ष्यमाणे विशिष्टे प्रविष्टस्यान्यत्वरूपस्य पर्वततदितरसाधारणस्य विशेष्यस्य यद् विशेषणं पर्वतावयववृत्तीति तेनान्यत्वरूपं विशेष्यं पक्षमात्राद् व्यावर्त्यते । पर्वतावयववृत्त्यन्यत्वस्य पर्वतेऽसत्त्वात् । अतः पर्वतावयववृत्तीति विशेषणं पक्षमात्रव्यावर्तकम् । तथाविधविशेषणवानन्यत्वरूपो धर्मः । एवं वह्निसामग्रीयुक्तत्वस्य विशेष्यस्य पर्वततदितरसाधारणस्य यद्विशेषणम् – ‘अपर्वतीये’ति, तेन वह्निसामग्रीयुक्तत्वं विशेष्यं पक्षमात्राद् व्यावर्त्यते, इति पर्वतावयववृत्त्यन्यत्वमपर्वतीयवह्निसामग्रीयुक्तत्वं च पक्षमात्रव्यावर्तकविशेषणवदित्यर्थः । यथाश्रुतेऽन्यविशिष्टोपाधिं प्रति पक्षमात्रव्यावर्तकविशेषणाभावेनासङ्गतिः स्यात् । यद्यप्यत्र पर्वतावयव-वृत्त्यन्यत्वस्य पर्वतावयववृत्तिरूपादिव्यावर्तकत्वात् न पक्षमात्रव्यावर्तकत्वम् । एवम् – ‘अपर्वतीये’-त्यस्यापि पर्वतीयवह्निसामग्रीयुक्तपर्वतीयवृक्षादिव्यावर्तकतया न पक्षमात्रव्यावर्तकत्वम्, तथापि साध्यव्यापकताग्राहकानुकूलतर्कादिराहित्याद् यथा पर्वतावयववृत्त्यन्यत्वादेर्नोपाधित्वम्, तथा प्रकृतयोरपि नोपाधित्वम् । साध्यव्यापकता ग्राहकतर्कादेरभावादिति शङ्कितुरभिप्रायः । अत एव ‘वक्ष्यमाणानुकूलतर्कैः साध्यव्यापकत्वनिश्चयादि’त्यनुकूलतर्केण साध्यव्यापकत्वनिश्चयो वक्ष्यत इत्याशयः । यद्यपि प्रकृतयोः ‘स्वबाधकाभिमताबाध्ये’त्याद्युपाध्योरनुपाधितायां पर्वतेतरत्वादिकमेव निदर्शनीयम्, तथापि पर्वतेतरत्वादेरनुपाधितायां न पक्षमात्रव्यावर्तकविशेषणवत्त्वं प्रयोजकम्, किन्तु पर्वतेतरत्वस्य पक्षमात्रवृत्तिव्यतिरेकप्रतियोगितया पर्वतेतरत्वव्यतिरेकेण साध्याभावसाधनेऽसाधारण्यात् पर्वतेतरत्वस्य नोपाधित्वम् । प्रकृतयोः ‘स्वबाधकाभिमताबाध्ये’त्याद्युपाध्योस्तु न पक्षमात्र-वृत्तिव्यतिरेकप्रतियोगित्वम् । विशिष्टोपाधेर्व्यतिरेकस्य साध्याभाववति ब्रह्मण्यपि सत्त्वेनोपाधि-व्यतिरेकेण मिथ्यात्वरूपसाध्याभावे साध्यमाने ब्रह्मण एव सपक्षत्वसम्भवादिति यदि कश्चिद् ब्रूयात्, तदा स्वव्यतिरेकेण साध्यव्यतिरेकसाधने पर्वतावयववृत्तिरूपादिनिष्ठव्यतिरेकप्रतियोगित्वेन लब्धोदाहरणस्यापि पर्वतावयववृत्त्यन्यत्वादेर्यथा नोपाधित्वम्, तथा प्रकृतयोरपीत्यभिसन्धाय पूर्वपक्षिणा पर्वतावयववृत्त्यन्यत्वादिकं निदर्शितमित्यवधातव्यम् ।। पक्षेतरत्वमिति ।। पक्षेतरत्व-तुल्यत्वमित्यर्थः । तत्तुल्यत्वं चानुकूलतर्करहितत्वेन ।। प्रकृतोपाध्योः पक्षेतरत्वतुल्यत्वं परिहर्तुमनुकूलतर्कैः साध्यव्यापकताऽस्तीत्याह – वह्निनेति ।।
अयमर्थः – यथेश्वरानुमाने जन्यत्वरूपसाधनविशेषितं शरीरजन्यत्वं नोपाधिः वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वं साधनविशेषितमप्युपाधिः । एवं च साधनविशेषितस्योपाधित्वानु-पाधित्वयोः साध्यव्यापकताग्राहकानुकूलतर्कसदसद्भावौ बीजम्, तथा पर्वतेतरत्वस्य पक्षमात्रव्यावर्तक-विशेषणवतो नोपाधित्वम् । प्रकृतयोः ‘स्वबाधकाभिमताबाध्ये’त्युपाध्योः पक्षमात्रव्यावर्तक-विशेषणवतोरप्युपाधित्वम्, इत्यत्र साध्यव्यापकताग्राहकानुकूलतर्कविरहाविरहौ हेतू इति । यद्वा साधनशून्यं सर्वं पक्षीकृत्य बाधाप्रतिसन्धानदशायां वह्निना धूमे साध्य आर्द्रेन्धनप्रभववह्निमत्त्वं पक्षमात्रव्यावर्तकविशेषणवदपि साध्यव्यापकताग्राहकानुकूलतर्कसद्भावाद् यथोपाधिः, तथा प्रकृतयोरप्युपाधित्वमित्यर्थः । यथाश्रुताभिप्रायेणाह – बाधित इति ।। बाधेन पक्षस्यैव विपक्षतया पक्षमात्रव्यावर्तकविशेषणवत्त्वमसिद्धमिति भावः । न च ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्याप्तिः । तस्य ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेः । ‘‘मम देहः’ इति देहाद् भेदस्य सर्वैरनुभूय-मानत्वेन देहात्मैक्याध्यासासम्भवस्य वक्ष्यमाणत्वेन मिथ्याभूतदेहात्मैक्यासिद्धेः ।।
ननु यद्व्यतिरेकस्य साध्यव्यतिरेकसाधनत्वम्, तस्यैव साध्यव्यापकत्वम् । इतरांशेऽनुकूलतर्का-प्रसरात् । तथा च क्षित्यादिकम्, कर्तृजन्यं न भवति, शरीराजन्यत्वात्, इत्यत्र यथा शरीरविशेषण-वैयर्थ्यात् न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम्, एवं वियदादिकम्, न मिथ्या, स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वव्यतिरेकात्, इत्यत्र स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपि, इति नोपाधिः । दृश्यत्वादिनैव मिथ्यात्ववत् तस्यापि साधनात् । एवं द्वितीयोपाधावपि ‘स्वबाधकाभिमताबाध्यबाधकं प्रती’ति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्य-भागस्तु साध्यसाधनयोर्व्यापकः, इति नोपाधिः । मैवम् । विशेष्यव्यतिरेकाद् विशिष्टव्यतिरेकस्य भिन्नत्वेन तत्र वैयर्थ्यासम्भवात् । तथा हि – एकस्मिन् धर्मिणि व्याप्यतावच्छेदकत्वेन प्रसक्त-योर्द्वयोर्धर्मयोर्लघुनैव तत्र व्याप्तिर्गृह्यते न तु गुरुणा । यथा नीलधूमे धूमत्व–नीलधूमत्वयोर्मध्ये धूमत्वेन । न चेह विशिष्टाभावनिष्ठां व्याप्तिं परिच्छेत्तुं विशेष्याभावत्वं प्रसक्तम्, विशिष्टाभावे विशेष्याभावत्वस्यासत्त्वात्, किन्तु विशिष्टाभावत्वमेव । एवं च विशिष्टोपाधेरस्त्येव साध्य-व्यापकता । न च ईश्वरानुमानेऽप्युक्तविधया शरीरजन्यत्वमुपाधिः स्यादिति वाच्यम् । श्रुतिबलेन क्षित्यादिकर्तुरीश्वरस्य सिद्धौ पक्ष एव तस्य साध्याव्यापकत्वादनुपाधित्वम् । तस्माद् युक्तावुपाधी ।।
ननु – प्रथमोपाधौ ‘स्वबाधकाभिमताबाध्ये’ति विशेषणं साध्येन समव्याप्त्यर्थम्, न तु पक्षमात्रव्यावृत्त्यर्थम् । अतस्तत्र शङ्कापरिहारावसङ्गतौ । तथा हि सर्वप्रत्ययवेद्यत्वेनाविद्यारूपदोषजन्ये घटादिगोचरे चरमवृत्तिरूपे वा ज्ञाने ब्रह्मणो विषयत्वेनोपाधिमति तस्मिन् साध्यस्याभावेन व्यभिचारात् । तद्विशेषणे तु विशिष्टस्योपाधेर्ब्रह्मण्यप्यसत्त्वात् न तत्र साध्याव्याप्तिरिति चेत्,– स्वयंप्रकाशे तस्मिन् दोषप्रयुक्तभानाभावादिति पररीत्या चोपाधेस्साध्यव्याप्यत्वमस्त्येव इति न तदर्थं विशेषणम्, किंतु पक्षमात्रव्यावृत्त्यर्थम् । अतस्तत्रापि शङ्कापरिहारौ युक्तौ । पक्षमात्रव्यावर्तक-विशेषणवत्त्वशङ्काया अप्यविषयमुपाधिमाह – यद्वेति ।। ननु विपरीतप्रमाविषयत्वादेरुपाधेर्न साधनवतः पक्षाद् व्यावृत्तिः, साध्यवति पक्ष उपाधेरपि साध्यमानत्वादित्याशङ्कां परिहर्तुं ‘यथे’त्याद्युक्तम् ।। युगपदिति ।। तथा चान्योन्यस्यासाध्यमानत्वान्नान्योन्यसाधनेऽन्योन्य-स्योपाधित्वमिति भावः ।। अर्थान्तरमिति ।। यद्यप्युभयसाधनेऽप्येकस्योपाधित्वमवर्जनीयमेव; मित्रातनयत्वेन शाकपाकजत्वे साध्ये श्यामत्वस्येव सन्दिग्धसाधनाव्यापकत्वसम्भवात्, तथापि दूषणान्तरे तात्पर्यम् ।।
ननु अत्र बाधकप्रमां प्रति निषेध्यत्वेन विषयत्वमेवोपाधिर्वक्तव्यः । तस्यैव पूर्वोक्तविशिष्टोपाधौ विशेष्यभूतत्वात् । यथा ‘स्वबाधकाभिमते’त्यादिविशिष्टोपाधिनिविष्टं विशेष्यं दोषप्रयुक्तभानत्व-मुपाधित्वेनोक्तम्, विपरीतप्रमाविषयत्वं त्वप्रकृतं किमर्थमुपाधित्वेनोक्तम्? न च – बाध्यत्वरूपसाध्येन सह बाधकं प्रति निषेध्यत्वेन विषयत्वस्योपाधेरवैशिष्ट्यं स्यात्, अत उपाध्यन्तरमुक्तमिति वाच्यम् । विपरीतप्रमाविषयत्वस्यापि बाध्यत्वरूपसाध्येनाभेदादित्याशङ्कायामाह– बाध इति ।। आरोपपूर्वकस्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयत्वं बाध्यत्वम्, स्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयतामात्रं विपरीतप्रमाविषयत्वमिति तयोर्भेदाद् बाध्यत्वे साध्ये विपरीतप्रमाविषयत्वं भवत्युपाधिरित्यर्थः । ननु एतयोरुपाध्योः कथं साध्यव्यापकत्वम्? उपाधिमति तुच्छे साध्यस्या-भावादिति – चेत्, न । मम मत उपाधिमति तुच्छे साध्यस्यापि सत्त्वात् । परमते तत्र साध्योपाध्योर्द्वयोरप्यभावात् । ननु तथापि दोषप्रयुक्तभानत्वस्योपाधेर्न साध्यव्याप्यत्वम् । सर्वप्रत्यय-वेद्यत्वेनाविद्यारूपदोषप्रयुक्तघटादिभानविषये तादृशचरमवृत्तिविषये वा ब्रह्मणि साध्यस्याभावेन व्यभिचारादिति चेत् न । स्वयंप्रकाशत्वेन ब्रह्मणो दोषप्रयुक्तभानत्वाभावादित्यभिप्रायत्वात् ।
न्यायामृतकण्टकोद्धारः
स्वबाधकाभिमतेति ।। स्वस्यारोप्यस्य यद् बाधकत्वेनाभिमतम्, तदबाध्यो यो दोषः, तत्प्रयुक्तं भानं यस्य, तस्य भावस्तत्त्वम्, तस्येत्यर्थः । तदबाध्यस्येत्यत्र तच्छब्देन स्वबाधकाभिमतपरामर्शः । भवति चेदमुपाधिद्वयं साध्यव्यापकं शुक्तिरजतादौ, तत्र मिथ्यात्वसाध्यस्य सत्त्वात् । स्वम् रूप्यम्, तद्बाधकत्वेनाभिमतम् ‘नेदं रजतमि’ति ज्ञानम्, तेनाबाध्यो यः सादृश्यादिदोषः, तत्प्रयुक्तभानत्वस्य, स्वबाधकाभिमतेन ‘नेदं रजतमि’ति ज्ञानेनाबाध्यं ‘नेदं रजतमि’ति ज्ञानमेव, तत् प्रति निषेध्यत्वेन विषयत्वस्य च सत्त्वात् । न भवति च साधनव्यापकम्; साधनवति पक्षे स्वं घटादिकम्, तद्बाधक-त्वेनाभिमता ब्रह्मप्रमा, तदबाध्यदोषप्रयुक्तभानत्वस्य, तदबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वस्य चाभावात्, किन्तु तद्भानस्य तद्बाध्याविद्यारूपदोषप्रयुक्तत्वात्, तद्बाधकीभूतप्रमाया अपि ब्रह्मप्रमयैव बाध्यत्वेनाबाध्यबाधकाभावाच्च । न च दोषप्रयुक्तभानत्वं बाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वं वोपाधिरस्तु, इतरद् व्यर्थमिति वाच्यम् । परमतानुसारेण साधनाव्यापकत्वार्थत्वात् । अविशेषितयो-स्तयोः पक्षे सत्त्वेन साधनव्यापकत्वात् । न च – देहात्म्यैक्ये साध्याव्यापकत्वम्; अस्ति च तत्र मिथ्यात्वम्, नास्ति चोपाधिः । तस्य ब्रह्मज्ञानमात्रबाध्यत्वेन स्वबाधकाभिमताबाध्यदोष-प्रयुक्तभानत्वाभावात्, सर्वस्य ब्रह्मज्ञानबाध्यत्वादिति वाच्यम् । देहात्मैक्यभ्रमस्यैवाभावात् । ‘‘मम देहः’ इति हि सर्वेषां प्रमैव, न तु ‘देहोऽहमि’ति भ्रमः कस्यापि । गौरोऽहमित्यादि तु ‘सिंहो देवदत्तः’ इतिवदुपचारमात्रम् । उपचारे बीजं त्वेकदेशस्थत्वं स्फुटतरविवेकाभावश्चेत्यादि । अस्तु वा देहात्म्यैक्यभ्रमः, देहात्मविवेकेनैव स निवर्त्यते, इति तत्राप्युपाधिद्वयसत्त्वात् । न च यद्व्यति-रेकस्य साध्यव्यतिरेकसाधकत्वम्, स उपाधिः । इतरांशेऽनुकूलतर्काप्रसरात् । प्रकृते चोपाधिव्यतिरेकेण साध्यव्यतिरेकसाधने व्यर्थविशेषणत्वम् । यथा क्षित्यादिकम्, कर्तृजन्यं न, शरीराजन्यत्वादित्यत्र शरीरविशेषणवैयर्थ्यम् । न च – शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम्, तस्मात् कथमुपाधित्वमिति वाच्यम् । अत्र हि विशिष्टव्यतिरेको हेतुः । वियदादिकम्, न मिथ्या, स्वबाधकाभिमताबाध्यदोष-प्रयुक्तभानरहितत्वात्, इति विशिष्टाभावेन वैयर्थ्यम् । किञ्चानुकूलतर्केण विशिष्टस्य साध्यव्यापकत्वे गृहीते व्यापकनिवृत्त्या व्याप्यनिवृत्तिसाधनं सुशकम्, अत एव शरीरजन्यत्वमुपाधिरित्यन्यत्रोक्तम् । एवं द्वितीयोपाधावपि समाधानं द्रष्टव्यम् । उक्तसमाधानपर्यालोचनप्रयासात् कल्पान्तरमाह– यद्वेति ।। ननु बाध्यत्व–विपरीतप्रमाविषयत्वयोरैक्यात् कथमुपाधित्वमित्यत आह– बाध इति ।।
न्यायामृतप्रकाशः
स्वबाधकेति ।। दिदर्शयिषितोपाध्यधिकरणं स्वशब्दार्थः । शुक्तिरूप्ये दृष्टान्ते मिथ्यात्वमस्ति उपाधिश्चास्ति । तथा हि । स्वशब्देन शुक्तिरूप्यं तद्बाधकत्वेनाभिमतं यन्नेदं रजतमिति ज्ञानं तदबाध्यो यो दोषः काचादिस्तज्जन्यभ्रमरूपज्ञानविषयत्वेन तत्प्रयुक्तभानत्वस्य सत्त्वात् । दृश्यत्ववति पक्षे चोपाधिर्नास्ति । तथा हि । स्वशब्देन प्रपञ्चः तद्बाधकत्वेनाभिमतं यद्वेदान्तजन्यचरमवृत्तिरूपं ज्ञानं, तदबाध्यदोषप्रयुक्तभानत्वं नास्ति । जगद्भ्रमनिमित्ते मायाऽविद्या(दि)रूपे दोषे स्वबाधकाभिमत-बाध्यत्वस्यैव सत्त्वेन विशेषणाभावप्रयुक्तविशिष्टाभावस्यैव सत्त्वात्साधनाव्यापक इति भवत्युपाधिः । दोषप्रयुक्तभानत्वमात्रोक्तौ साधनव्यापकता स्यादतः स्वबाधकाभिमताबाध्येति दोषविशेषणम् ।। तदबाध्येति ।। स्वबाधकाभिमताबाध्येत्यर्थः । तथा च मिथ्यात्ववति रूप्ये उपाधिरस्ति । तथा हि । स्वबाधकाभिमतं यन्नेदं रूप्यमिति ज्ञानं तदबाध्यं यद्बाधकज्ञानं स्वयमेव स्वेनैव स्वस्याबाध्यत्वात् तत्प्रति निषेध्यत्वेन विषयत्वमस्ति । साधनवति च पक्षे नास्ति । स्वबाधकाभिमतं यद्बाधकज्ञानं चरमवृत्तिरूपं तद्बाध्यबाधकं प्रत्येव निषेध्यत्वेन विषयत्वमस्ति न तु तदबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वम् । जगद्बाधकस्य वेदान्तजन्यचरमवृत्तिरूपज्ञानस्य कतकरजोवद्वेणुसङ्घर्षजाग्निवच्च स्वेनैव बाध्यत्वात् । यथोक्तम् ।
‘‘वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजो वेदः शाम्यति तद्यथा’’ इति ।
वेदो वृत्तिज्ञानमित्यर्थः । एवञ्च पक्षे स्वबाधकाभिमताबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं नास्तीति विशेषणाभावप्रयुक्तविशिष्टाभावस्य सत्त्वात्साधनाव्यापकत्वमित्यर्थः । पक्षे साधनाव्यापकतालाभाय स्वबाधकाभिमताबाध्येति बाधकज्ञानविशेषणोपादानम् ।। व्यतिरेकेति ।। साध्याभावाविनाभाव्यभाव-प्रतियोगित्वस्योपाधित्वेन उपाध्यभाववति ब्रह्मणि साध्याभावसत्त्वादित्यर्थः ।। पर्वतेति ।। अन्यत्वस्य केवलान्वयित्वेन साधनव्यापकत्वात्साधनाव्यापकत्वार्थं पर्वतावय ववृत्तीत्युक्तम् । नन्वथापि साधन-व्यापकत्वमेव पर्वते पर्वतावयववृत्तिरूपाद्यन्यत्वसद्भावादिति चेन्न । अन्योन्याभावस्य प्रतियोगितावच्छेदक-व्यधिकरणत्वेन पर्वतावयववृत्तित्वरूपप्रतियोगितावच्छेदकवति पर्वते तदन्यत्वप्रतीतेर्विरुद्धत्वेन साधना-व्यापकत्वमेवेत्यवधेयम् । वह्निसामग्रीयुक्तत्वस्यापि साधनव्यापकत्वात्साधनाव्यापकत्वलाभायापर्वतीये-त्युक्तम् । ननु पर्वतावयववृत्तीत्यस्य न पक्षमात्रव्यावर्तकत्वं पर्वतावयवगतरूपादिव्यावर्तकत्वात् । तथा च कथं पर्वतावयववृत्त्यन्यत्वस्य पर्वतेतरत्वमिति चेत् सत्यम् । पक्षमात्रव्यावर्तकविशेषणवत्त्वादित्यापाततः । वस्तुतस्तु हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्कसद्भावेन साध्यस्य पक्षे निश्चितत्वादुपाधेः साध्यव्यापकता-ग्राहकानुकूलतर्काभावे पक्ष एव साध्यव्यापकताभङ्गात्पर्वतावयववृत्त्यन्यत्वादेर्नोपाधित्वं यथा तथा प्रकृतयोरप्युपाध्योर्मिथ्यात्वव्यापकताग्राहकानुकूलतर्काभावान्नोपाधित्वमिति शङ्कितुरभिप्रायः । अत एव वक्ष्यमाणानुकूलतर्कैः साध्यव्यापकतानिश्चयादित्यनुकूलतर्केण साध्यव्यापकतानिश्चयं वक्ष्यतीति द्रष्टव्यम् ।
प्रकृतोपाध्योः पक्षेतरत्वतुल्यत्वं परिहर्तुं अनुकूलतर्कैरुपाधेः साध्यव्यापकतानिश्चयोऽस्तीत्याह ।। वह्निनेति ।। आर्द्रेन्धनप्रभववह्निमत्त्वोपाधेः साध्येन धूमेन व्यापकत्वग्राहकार्द्रेन्धनोत्कर्षेण धूमोत्कर्षरूपानुकूलतर्कोऽस्ति । एवं प्रकृतोपाध्योरपि साध्यभूतभ्रमविषयत्वरूपमिथ्यात्वव्यापकताग्राहको दोषोत्कर्षेण भ्रमोत्कर्षरूपानुकूलतर्कोऽस्ति । अतः साध्यव्यापकत्वनिश्चयादुपाधित्वं युक्तमित्यर्थः । साध्यव्यापकताग्राहकानुकूलतर्काभावात्पक्षेतरत्वस्योपाधित्वं नास्तीत्यङ्गीकृत्यानुकूलतर्कोपपादनं कृतम् । वस्तुतस्तु क्वचित्पक्षेतरत्वमप्युपाधिरेवेत्याह ।। बाधित इति ।। तर्हि प्रकृतानुमाने कथं बाधितत्वमित्यत आह ।। इह चेति ।। यथा वह्निरनुष्णः पदार्थत्वादित्यत्र बाधेन हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्काभावेन पक्षे साध्यव्यापकताभङ्गाभावेन तत्र वह्नीतरत्वमुपाधिरेव तद्वदत्रापि सन्घट इत्यादिप्रत्यक्षबाधेन हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्काभावात् पक्षे साध्यव्यापकत्वभङ्गाभावेनोक्तोपाध्योः पक्षमात्रव्यावर्तक-विशेषणवत्त्वेन पक्षेतरत्वेऽप्युपाधित्वं युक्तमित्यर्थः ।।
पक्षमात्रव्यावर्तकविशेषणवत्त्वरूपपक्षेतरत्वशङ्काया अविषयमुपाधिमाह ।। यद्वेति ।। ननु विपरीतप्रमा-विषयत्वरूपोपाधेरपि दृश्यत्वहेतुना पक्षे साध्यमानत्वेन साधनव्यापकत्वान्नोपाधित्वमित्यत उक्तम् ।। तस्मिन्साध्य इति । न चैतददृष्टचरमित्यतो यथेत्युक्तम् । हेतुसाध्ययोर्व्याप्तिग्राहकानुकूलतर्काभावादित्यर्थः । मित्रातनयत्वेनैव हेतुना गर्भस्थस्य शाकपाकजत्वमपि साध्यतेऽतः साधनव्यापकत्वमित्यत उक्तम् ।। तस्मिन्निति ।। इहापीति ।। दृश्यत्वमिथ्यात्वयोरपि व्याप्तिग्राहकानुकूलतर्काभावादित्यर्थः । ननु विपरीतप्रमाविषयत्वदोषप्रयुक्तभानत्वयोरेव मिथ्यात्वेन कथमुपाधित्वमित्यत उक्तम् ।। बाध्यत्वादीति । यदाऽनयोरुपाधित्वं तदा मिथ्यात्वं बाध्यत्वादिरूपमन्यदेवोच्यत इत्यर्थः । ननु तत्र मित्रातनयत्वेनैव हेतुना युगपदेव गर्भस्थः श्यामः शाकपाकजश्चेत्येवंश्यामत्वशाकपाकजत्वयोरुभयोरपि साधनं क्रियते । ततश्च न परस्परोपाधित्वं युक्तम् । एवं दृश्यत्वेन हेतुना पक्षे मिथ्यात्वविपरीतप्रमाविषयत्वयो-र्मिथ्यात्वदोषप्रयुक्तभानत्वयोर्वा युगपदेव साधनं क्रियतेऽतो न परस्परोपाधिग्रस्तत्वमित्यत आह ।। युगपदिति ।। कथमित्यत आह ।। मिथ्यात्व एवेति ।। ननु बाध्यत्वरूपे मिथ्यात्वेऽपि कथं विपरीतप्रमाविषयत्वस्योपाधित्वं, विपरीतप्रमाविषयत्वस्यैव बाध्यरूपत्वेन तयोरेकत्वादित्यत आह ।। बाध इति ।। यत्रेदं रजतमिति भ्रांतिपूर्वकं नेदं रजतमिति ज्ञानं जायते तद्बाध इत्युच्यते । अत एव ‘‘पूर्वप्रसञ्जितान्यथाकारविलोडकं ज्ञानं बाध’’ इति बाधलक्षणमाहुः । विपरीतप्रमा तु न भ्रान्तिपूर्विका । यथा मार्गे गच्छतः पुरुषस्य इदं रजतमिति भ्रमप्रसक्त्यभावेऽपि शुक्तिं दृष्ट्वा झडिति इदं रूप्यं न भवतीति ज्ञानं जायते सा विपरीतप्रमेति तयोर्भेद इत्यर्थः । प्रमाया विपरीतत्वं च निषेधविषयकत्वादित्यवगन्तव्यम् ।।
न्यायकल्पलता
वक्ष्यमाणदोषेषु सोपाधिकत्वं तावदाह । सोपाधिकाश्चेति । दोषप्रयुक्तभानत्वं दोषान्वयव्यतिरेकानु-धाय्यन्वयव्यतिरेकित्वं भानस्येति ज्ञेयम् । यत्र मिथ्यात्वं तत्र दोषप्रयुक्तभानत्वं यथा शुक्तिरूप्यादाविति साध्यव्यापकत्वे सत्यपि साधनाव्यापकत्वाभावः । जगत्यपि बौद्धपरिकल्पितदोषप्रयुक्तक्षणिकत्वादिप्रतिभा सम्भवति । अतः साधनाव्यापकत्वसिध्यर्थमबाध्येति दोषविशेषणम् । जगत्स्थायित्वादिसमर्थनेन तत्परिकल्पितदोषाणां अनिरासात् । तथाप्येकं सन्धित्सतोऽन्यत्प्रच्यवत इत्यापन्नम् । तथाहि । मायिमतेनोपाधेः साध्याव्यापकता । शुक्तिवत्तद्वृत्तिरजतप्रतियोगिकसादृश्यरूपदोषस्य शङ्खपीतत्वभानप्रयोजककरणचक्षुर्दोषस्य च शङ्खसत्तासमानसत्ताकत्वेन बाध्यत्वादत उक्तं स्वबाधकाभिमतेति । अत्र दिदर्शयिषितोपाधिकमधिकरणं स्वशब्दार्थ इति तन्न । पक्षे साधनव्याप्तिनिरासानुपपत्तेः । पक्षस्य दिदर्शयिषितोपाधिकत्वायोगात् । किंनाम समभिव्याहृतार्थपर इति ज्ञेयम् । शुक्तिरूप्यादौ साध्यवति शुक्तिरूप्यादिबाधकत्वाभिमतेन नेदं रजतमिति ज्ञानेनाबाध्यो यो दोषः सादृश्यादिस्तत्प्रयुक्तभानत्वस्य सत्वात् । तथा द्वितीयोपाधावापि उक्तविधया स्वबाधकभिमताबाध्यबाधकं नेदं रजतमिति ज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य सत्वात्सपक्षे साध्यव्यापकता । हेतुमति पक्षे परमतेनाविद्यारूपदोषप्रयुक्तभानत्वस्य सत्वात् सपक्षे, तथा नेह नानास्ति किञ्चनेति वेदान्तजन्यबाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वस्य सत्वात्साधनस्योपाधिना व्याप्तिर्मा प्रसाङ्क्षीदिति स्वबाधकाभिमताबाध्येति प्रथमोपाधौ विशेषणम् । द्वितीयोपाधौ बाधकज्ञानविशेषणम् । एवं च अविद्यारूपो दोषः परमते वियदादिबाधकाभिमतया चरमवृत्या बाध्य एवेति स्वबाधकाभिमताबाध्यत्वरूपविशेषणा-भावाद्विशिष्ठाभावः । विशिष्टरूपोपाधेरसत्वात् । तत्वविन्मते तु विशेष्याभावद्विशिष्टरूप उपाधिर्नास्तीति भवति पक्षे साधनाव्यापकः । वस्तुतो नेह नानास्ति किञ्चनेति श्रुतेः ज्ञानाद्यनन्तानवद्यकल्याणब्रह्माद्वैतपरतया प्रपञ्चाद्वैतपरत्वाभावेन तदबाधकत्वादद्वैत्यभिमान-निर्मितमेव तद्बाधकत्वमिति सूचयितुमभिमतपदम् ।
उक्तोपाधेः समव्याप्तमुपपादयितुं साध्यव्याप्तिं तावदाह ।। विपक्षाद्व्यावृत्तस्येति । अनेन साध्याभाववन्निष्ठाभावप्रतियोगित्वरूपसाध्यव्याप्यत्वोक्तिः । साध्यव्यापकतामप्याह । व्यतिरेकव्याप्तिमत इति । साध्यव्यतिरेकनिरूपितव्याप्तिमद्व्यतिरेकप्रतियोगिन इत्यर्थः । अनेन साध्याभावव्याप्याभाव-प्रतियोगित्वरूपसाध्यव्याप्यत्वोक्तिः । एवं च समव्याप्तिर्लभ्यत इत्यभिसन्धायोक्तं समव्याप्तिमत इति । अत्र विशेषणानामाकाङ्क्षानुसारेणान्वयो ज्ञेयः । यत्तु समव्याप्तिमत्वाद् व्यतिरेकव्याप्तिमत इति हेतुहेतुमद्भावेन व्याख्यानं तदसमञ्जसम् । समव्याप्तिमतोऽपि प्रमेयत्वादेर्व्यतिरेकव्याप्त्यभावात् । तद्रहित-स्यापि धूमादेस्तत्सम्भवाच्च । अन्वयव्यतिरेकित्वे सतीति विशेषणं क्लिष्टकल्पनमिति विपक्षाद्व्यावृत्तस्येति पाठानादरणात् । केचित्तु पक्षाद्व्यावृत्तस्येति युक्तस्तेन साधनाव्यापकत्वमाहेत्याहुः । तन्न । समव्याप्तेरनु-पपादनात् । साधनाव्यापकत्वं च विशिष्टोपाधेरुपादानादेव सिद्धम् ।
यद्वा विपक्षाद्व्यावृत्तत्वे सति समव्याप्तिमत्वादिदमुपाधिद्वयं व्यतिरेकव्याप्तिमदिति व्याख्येयम् । ननु नायमुपाधिः । पक्षेतरत्वात् । पक्षेतरश्च नोपाधिः सर्वानुमानोच्छेदापत्तेः । ‘‘उपाधिप्रतिरोधौ तु क्व नामातीव दुर्वचावि’’त्युक्तेरित्याशङ्क्य निराकरोति । न चेति । पक्षमात्रव्यावर्तकविशेषणवत्वं चोपाधेस्तादृशविशेषणघटितत्वं न तु तादृशविशेषणं प्रति विशेष्यत्वम् ।
तथा हि– उपाधित्वेन निर्दिश्यमाने विशिष्टे प्रविष्टस्यान्यत्वरूपस्य पर्वततदितरसाधारणस्य विशेष्यस्य यद्विशेषणं पर्वतावयववृत्तीति तेनान्यत्वरूपं विशेष्यं पक्षमात्राद्व्यावर्त्यते । पर्वतावयव-वृत्यन्यत्वस्य पर्वतेऽसत्वात् । अतः पर्वतावयववृत्तीति विशेषणं पक्षमात्रव्यावर्तकम् । तथाविधविशेषणा-न्यत्वरूपो धर्मः । एवञ्च वह्निसामग्रीयुक्तस्य विशेष्यस्य पर्वततदितसाधारणस्य यद्विशेषणमपर्वतीयेति, तेन वह्निसामग्रीयुक्तत्वं विशेष्यं पक्षमात्राद् व्यावर्त्यते इति पर्वतावयववृत्त्यन्यत्वमपर्वतीयवह्निसामग्री-युक्तत्वं च पक्षमात्रव्यावर्तकविशेषणवदित्यर्थः । अन्यथाऽविशिष्टोपाधिं प्रति पक्षमात्रव्यावर्तकविशेषणा-भावेनासङ्गतिः स्यात् । यद्यप्यत्र पर्वतावयववृत्तीत्यस्य पर्वतावयववृत्तिरूपादिव्यावर्तकत्वान्न पक्षमात्र-व्यावर्तकत्वम् । एवमपर्वतीयेत्यस्यापि पर्वतीयवह्निसामग्रीयुक्तपर्वतीयवृक्षादिव्यावर्तकतया न पक्षमात्र-व्यावर्तकत्वम् । प्रकृतोपाध्योश्च विपक्षाद्ब्रह्मणोऽपि व्यावर्तनान्न पक्षमात्रव्यावर्तकविशेषणवत्वम् । तथापि साध्यव्यापकताग्राहकानुकूलतर्कादिराहित्याद्यथा पर्वतावयववृत्यन्यत्वादेर्नोपाधित्वं तथा प्रकृत-योरपि उपाध्योर्नोपाधित्वम् । साध्यव्यापकताग्रहानुकूलतर्कादेरभावादिति शङ्कितुरभिप्रायः । अत एव सिद्धान्ती ‘‘वक्ष्यमाणानुकूलतर्कैः साध्यव्यापकत्वनिश्चयादिति’’ अनुकूलतर्केण साध्यव्यापकत्वनिश्चयं वक्ष्यतीति । अथवा अन्यनिष्ठव्यतिरेकप्रतियोगित्वेनोपाधेः साधनाव्यापकत्वं सुवचम् । हेतोरसिध्या प्रतिपक्षोन्नयनासम्भवात् । दूषणौपयिकसाधनवत्पक्षनिष्ठव्यतिरेकतया प्रतियोगित्वप्रयोजकमात्रपदोपादान-मित्यवगन्तव्यम् । यद्यपि प्रकृतयोः स्वबाधकाभिमताबाध्येत्युक्तयोरुपाध्योरनुपाधितायां पर्वतान्यत्वादिक-मेव निदर्शनीयम्, तथापि पर्वतान्यत्वादेरनुपाधितायां न पक्षमात्रव्यावर्तकविशेषणवत्वं प्रयोजकम् । किन्तु पर्वतान्यत्वस्य पक्षमात्रवृत्तिव्यतिरेकप्रतियोगितया पर्वतान्यत्वव्यतिरेकेण साध्याभावसाधने असाधारण्यात्पर्वतान्यत्वस्य नोपाधित्वम् । प्रकृतयोः स्वबाधकाभिमताबाध्येत्युपाध्योस्तु न पक्षमात्र-निष्ठव्यतिरेकप्रतियोगित्वं, विशिष्टोपाध्योर्व्यतिरेकस्य साध्याभाववति ब्रह्मण्यपि सत्वेनोपाधिव्यतिरेकेण मिथ्यात्वरूपसाध्यव्यतिरेके साध्यमाने ब्रह्मणः सपक्षत्वसम्भवादिति यदि कश्चिद् ब्रूयात्, तदा स्वव्यतिरेकेण साध्यव्यतिरेकसाधने पर्वतावयववृत्तिरूपादिनिष्ठव्यतिरेकप्रतियोगित्वेन लब्धोदाहरणस्यापि पर्वतावयववृत्त्यन्यत्वादेर्यथा नोपाधित्वं तथा प्रकृतयोरपीत्यभिसन्धाय पूर्वपक्षिणा पर्वतावयवृत्यन्यत्वादिकं निदर्शितमित्यवधातव्यम् । पक्षेतरत्वमिति । पक्षमितरयति व्यावर्तयतीति पक्षेतरः पर्वतेतरत्वादिस्तस्य भावस्तत्त्वं पर्वतावयववृत्यन्यत्वादिवत्साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतरतुल्यत्वं न तु पर्वतान्यत्वमित्यर्थः । आक्षेपतत्परिहारयोरनुपपत्तेः । तत्तुल्यत्वं चानुकूलतर्कराहित्येनेति बोध्यम् । प्रकृतयोरुपाध्योः पक्षेतरत्वतुल्यत्वं परिहर्तुमनुकूलतर्कैः साध्यव्यापकताऽस्तीत्याह । वह्निनेति ।
अयमर्थः– यथेश्वरानुमाने जन्यत्वरूपसाधनविशेषितं शरीरजन्यत्वं नोपाधिः । वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्वं साधनविशेषितमप्युपाधिः । एवं च साधनविशेषितस्योपाधित्वानुपाधित्वयोः साध्यव्यापकताग्राहकानुकूलतर्कसदसद्भावौ बीजम् । तथा पर्वतेतरत्वस्य पक्षमात्रव्यावर्तकविशेषणवतो नोपाधित्वम् । प्रकृतयोरुपाध्योरस्तु पक्षमात्रव्यावर्तकविशेषणवतोरपि उपाधित्वमित्यत्र साध्यव्यापकता-ग्राहकानुकूलतर्कविरहाविरहौ हेतू इति ।
यद्वा धूमशून्यं सर्वं तप्तायःपिण्डादिकं पक्षीकृत्य बाधाप्रतिसन्धानदशायां वह्निना धूमे साध्ये आर्द्रेन्धनप्रभववह्निमत्वं पक्षमात्रव्यावर्तकविशेषणवदपि साध्यव्यापकताग्राहकानुकूलतर्कसद्भावाद्यथो-पाधिस्तथा प्रकृतयोरप्युपाधित्वमित्यर्थः । वस्तुतस्तु प्रकृतोपाध्योस्तु प्रतिपक्षोन्नयनप्रयोजकपक्षमात्र-निष्ठव्यतिरेकप्रतियोगित्वाभिप्रायेण पक्षमात्रव्यावर्तकविशेषणवत्वम् । विपक्षादपि ब्रह्मणो व्यावर्तनात्पक्ष-मात्रव्यावर्तकविशेषणवत्वमसिद्धमेव । व्याप्तिविरहोन्नायकत्वेनापि दूषकत्वसम्भवात् । दृश्यत्वं मिथ्यात्वाव्याप्यं तद्व्यापकाभाववद्वृत्तित्वात् । वह्निवदिति व्याप्तिविरहोन्नयनोपत्तेः ।
यदुक्तं सर्वानुमानोच्छेदकत्वात्पक्षेतरो नोपाधिरिति तद्दूषयति । बाधित इति । कृतकत्वेन वह्नेरनौष्ण्यसाधने वह्नीतरत्वस्योपाधित्वात् । बाधेन पक्षस्यैव विपक्षतया वह्नीतरान्यत्वस्य निश्चितसाध्य-वद्वह्निवृत्तित्वेनासाधारण्याभावात् । निश्चितसाध्यवतो हि सपक्षत्वं न तु पक्षान्यत्वे सतीति । गौरवादिति भावः । एवञ्च वह्नीतरत्ववद्बाधोन्नीतत्वात्प्रकृतयोरप्युपाधित्वमिति हृदयम् । बाधोन्नीतत्वमनयो-रुपाध्योर्दशयति । इह चेति ।
यद्वा बाधेन पक्षस्यैव विपक्षतया बाधोन्नीतोपाधौ पक्षमात्रव्यावर्तकविशेषणवत्वमसिद्धमित्यर्थः। न च प्रकृतोपाध्योर्ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वमिति देश्यम् । पराभिमत-मिथ्याभूतदेहात्मैक्यस्यासिध्या तस्य ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेः । ‘‘मम देहः’’ इति देहाद्भेदस्य सर्वै-रनुभूयमानतया देहात्मैक्याध्यासासम्भवस्य वक्ष्यमाणत्वात् । अत एव ‘‘नैषां ममाहमिति धीः श्वशृृगालभक्ष्ये’’ इति श्रीभागवते वेदगर्भवचनमप्यहमस्य कर्ता ममेदं सर्वमिति देहादौ स्वातन्त्र्याभिमति- निषेधकं न तु देहात्मैक्यनिषेधकम् ।
‘‘विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ।। इति तत्रैव तद्वचनात् ।
‘‘देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यतेऽत्मनः ।
अतः संसारपदवीं याति जीवेशयोः सदा ।
वैलक्ष्यण्यं परं ज्ञात्वा मुच्यते बध्यतेऽन्यथा’’ ।। इति स्मृतेश्च ।
ननु यद्व्यतिरेकस्य साध्यव्यतिरेकस्य साधनत्वं तस्यैव साध्यव्यापकत्वम् । इतरांशे अनुकूल-तर्काभावात् । तथा च क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वादित्यत्र यथा शरीरविशेषणवैय्यर्थ्यात् न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम् । एवं वियदादिकं न मिथ्या स्वबाधकाभिमताबाध्यदोषप्रयुक्त-भानत्वरहितत्वादिति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैय्यर्थ्यात्स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वंं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपीति नोपाधिः । दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनात् । एवं द्वितीयोपाधावपि स्वबाधकाभिमताबाध्यबाधकं प्रतीति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्यभागस्तु साध्यसाधनयो-र्व्यापक इति नोपाधिरिति ।
अत्रोच्यते । स्वबाधकाभिमताबाध्येत्युपाधौ विशेषणं न व्यर्थम् । साध्यसमव्याप्त्यर्थत्वात् । तथा हि तत्वविन्नये ब्रह्मणोऽपि बौद्धादिपरिकल्पितदोषप्रयुक्तभानविषयत्वात् । विवर्तनयेऽपि सर्वप्रत्ययवेद्यत्वेना-विद्यारूपदोषजन्ये घटादिगोचरे चरमवृत्तिरूपे वा ज्ञाने विषयत्वाच्चोपाधिमति साध्यस्याभावेन साध्याव्याप्तिः । स्वबाधकाभिमताबाध्येति विशेषणे तु विशिष्टस्योपाधेर्ब्रह्मण्यसत्वान्न तत्र साध्या-व्याप्तिः । न च स्वप्रकाशे तस्मिन्दोषप्रयुक्तभानत्वमेव नास्तीति देश्यम् । अवेद्यत्वरूपस्वप्रकाश-त्वाभ्युपगमे वेदान्तानां वैय्यर्थ्यं, चरमवृत्तेर्निर्विषयत्वं च प्रसज्येत । अपि च यन्न मिथ्या तन्न दोषप्रयुक्तभानं यथा ब्रह्मेति व्यतिरेकव्याप्तिग्रहौपयिकत्वाच्च न विशेषणस्य व्यर्थता । अत एवोपाधि-व्यतिरेकेण साध्यव्यतिरेसाधनेऽपि न वैय्यर्थ्यम् । व्याप्तिसंवेदनौपयिकत्वेन सार्थकत्वात् । विशेषणानु-पादाने तत्र व्याप्तेरेव गृहीतुं दुःशकत्वात् । अन्यस्य व्याप्तिसंवेदनस्थानस्याभावात् । व्याप्तिवत्पक्षधर्मताया अपि अनुमित्यङ्गत्वेन तत्सिद्ध्यर्थत्वाच्च । न चासिद्धिवारकत्वेन वैय्यर्थ्यम् । व्याप्तिसमानाधिकरणाया एव पक्षधर्मताया अनुमित्यङ्गतया तत्सिध्यर्थकविशेषणस्य तन्मात्रार्थत्वाभावेनादोषत्वात् । व्याप्तिग्रहानु-कूलतयोपात्तेनैव विशेषणेनार्थात्पक्षधर्मताया अपि लाभात् ।
न चैवं शरीरजन्यत्वोपाधिसाम्यमिति देश्यम् । तत्र शरीरविशेषणस्य व्याप्तिग्रहानङ्गत्वात् । उपाध्युन्नीतप्रतिपक्षे च व्याप्तिसमानाधिकरणपक्षधर्मतासिद्ध्यर्थत्वाभावाच्च । पक्षधर्मताया व्याप्ति-व्यधिकरणत्वात् । न ह्यजन्यत्वरूपविशेष्यस्याकर्तृकत्वव्याप्तिसंवेदनस्थानं नास्ति । येन तत्सिद्ध्यर्थकं विशेषणमर्थवत्स्यात् । प्रकृते च समव्याप्त्यर्थत्वाद्व्यतिरेकव्याप्तिग्रहौपयिकत्वादुपाधिव्यतिरेकेण साध्य-व्यतिरेकसाधनेऽपि व्याप्तिसंवेदनार्थत्वाच्चोपपन्नमेतयोर्धर्मयोरुपाधित्वमिति ।
किञ्च विशेष्यविशिष्टयोर्भेदेन विशेष्यव्यतिरेकाद्विशिष्टव्यतिरेकस्य भिन्नतया तत्र वैय्यर्थ्यासम्भवः । तथा हि एकस्मिन्धर्मिणि व्याप्यतावच्छेदकत्वेन प्रसक्तयोर्द्वयोर्धर्मयोर्लघुनैव तत्र व्याप्तिरवच्छिद्यते न तु गुरुणा । यथा नीलधूमे धूमत्वनीलधूमत्वयोर्मध्ये धूमत्वेन नीलधूमादावपि विशिष्टनिष्टा व्याप्तिः तत्र व्यभिचारोपाध्योरभावात् । अन्यथा विशेषाणामव्याप्यत्वे निराश्रया व्याप्तिः स्यात् । यावद्विशेषा-नालिङ्गितसामान्याभावात् । किन्तु नीलधूमत्वं न तदवच्छेदकं, गौरवात् । अपि तु धूमत्वमेव । न चेह विशिष्टाभावनिष्ठां व्याप्तिं परिच्छेत्तुं विशेष्याभावत्वं प्रसक्तम् । विशिष्टाभावे विशेष्याभावत्वस्यासत्वात् । किन्तु विशिष्टाभावत्वमेव । एवञ्च विशिष्टोपाधेरस्त्येव साध्यव्यापकता । न चैवमीश्वरानुमानेऽप्युक्त-विधया शरीरजन्यत्वमुपाधिः स्यादिति वाच्यम् । श्रुतिबलेन क्षित्यादिकर्तुरीश्वरस्य सिद्धौ पक्ष एव तस्य साध्याव्यापकत्वादनुपाधित्वम् । तस्माद्युक्तौ प्रकृतोपाधी इति ।
अस्तु वा दोषजन्यज्ञानविषयत्वं बाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वं वा उपाधिः । न च जगतो बौद्धादिपरिकल्पितदोषजन्यक्षणिकत्वादिज्ञानविषयत्वात्स्थायित्वादिप्रकारकबाधकज्ञानं प्रति निषेध्यत्वेन विषयत्वात् साधनव्यापकत्वेनानयोरनुपाधित्वं, तथा च स्वबाधकाभिमताबाध्येति विशेषणमावश्यकमिति देश्यम् । दोषाणां बौद्धादिपरिकल्पितत्वेन वस्तुतोऽसत्त्वात् । तत्परिकल्पनाया एव जगत्क्षणि-कत्वादिभानहेतुतया दोषाणां तदहेतुत्वात् । जगत्स्थायित्वादिसमर्थनेन दोषाणामसत्वस्यैव सिद्धेः । अथ तदीयं यौक्तिकं ज्ञानं तदीयमज्ञानं वा हेतुः । तच्च सदेवेति दोषजन्यज्ञानविषयत्वं तर्हि प्राप्ताप्राप्तविवेकेन क्षणिकत्वांशे दोषजन्यज्ञानविषयत्वेऽपि जगदंशे न तथात्वम् । अत एवानुपदं दोषप्रयुक्तभानत्वादिक-मुपाधिरिति वक्ष्यति । तथा स्थायित्वादिसमर्थनेन क्षणिकत्वाद्यंशे बाधकज्ञानं प्रति निषेध्यत्वेन विषय-त्वेेऽपि जगदंशेऽतथात्वम् । अन्यथा स्थायित्वादिसमर्थनस्य निरालम्बनत्वापत्तेः । निषेध्यत्वेन विषयत्वे जगतोऽसत्वापाताच्च । एतेन दोषप्रयुक्तभानत्वं नोपाधिः । साध्यसाधनव्यापकत्वादिति निरस्तम् । जगद्ब्रह्मणोर्दृश्यत्वे सत्युपाधेरसत्वात् । न च ब्रह्मणोऽप्यविद्यारूपदोषजन्यज्ञानविषयत्वेन साधनव्यापक-त्वादनुपाधिरिति देश्यम् । विवर्तनये वेदान्तानामप्याविद्यकत्वेन तज्जन्यवृत्तेरप्यप्रमात्वापातात् । तत्त्वविन्नये तु ब्रह्मत्वेन ब्रह्मज्ञानस्य दोषाजन्यत्वात् । ‘‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’’ इत्यादि स्मृतेः । एवं द्वितीयोपाधावपि निषेध्यत्वेनेति विशेषणेनैव पक्षविपक्षव्यावृत्तिसिद्धावपि उपाधेः प्रतिपक्षोन्नायकत्वपक्षमाश्रित्य परमतेन पक्षव्यावृत्यर्थं स्वबाधकाभिमताबाध्येति विशेषणमित्यवगन्तव्यम् । अव्याप्त्युन्नायकत्वपक्षे तु बाधकं प्रति निषेध्यत्वेन विषयत्वमेवोपाधिः । साध्यव्यापकाभाववद्वृत्तित्वेन दृश्यत्वे व्याप्तिविरहोन्नयनसम्भवात् इत्युपाधिद्वयमवदातम् ।
पक्षेतरतुल्यत्वशङ्काशूलाकलङ्कितमप्युपाधिं वक्ति । यद्वेति । ननु विपरीतप्रमाविषयत्वादिनोपाधिना व्याप्तिविरहोन्नयनसम्भवेऽपि न प्रतिपक्षोन्नयनसम्भवः । साधनवत्पक्षादव्यावृत्तेः । उपाधेरपि साधनवति पक्षे साध्यमानत्वादित्याशङ्कां परिहर्तंु, यथेत्याद्युक्तम् । दोषप्रयुक्तेत्यत्र प्रयुक्तपदं जन्यत्वपरम् । प्रमाया गुणजन्यत्वाभावेऽप्यप्रमाया दोषजन्यत्वनियमात् । ‘‘न विलक्षणत्वादस्य तथात्वं च शब्दादिति’’ । ननु यदा दृश्यत्वेन मिथ्यात्वविपरीतप्रमाविषयत्वयोरन्यतरत्साध्येत तदैकस्य साधनेऽपर उपाधिर्भवतीति न कस्यापि सिद्धिः स्यात् । यदा तु मिथ्यात्वे सति विपरीतप्रमाविषयत्वं विशिष्टं साध्येत तदा कथमित्यत आह । युगपदिति । उभयसाधने अन्योन्यविशेषणविशेष्यभावापन्नोभयसाधने ।
ननु यस्मिन्साध्ये यद्विप्रतिपन्नं तत्र तत्साधनीयमिति प्रकृतोपयोगित्वेन प्रकृतानुपयुक्तत्वाभावात्कथ-मर्थान्तरत्वमिति चेत् । अयं भावः । साध्यविशेषणप्रयोजनानां सिद्धसाधनतापरिहारादीनामभावेन तथा साध्यनिर्देशासम्भवः । उपाधित्वेनाशङ्क्यमानानां अनन्तत्वेन साध्यशरीरप्रवेशायोगश्च । किञ्च । पक्षेतरत्वं न पक्षे साधयितुं शक्यम् । व्याघातात् । अनुकूलतर्कसद्भावे च तस्याप्युपाधित्वात् । एतेन केनचिद्धेतुना विश्वसत्यतासाधने प्रमाणाविरुद्धत्वमुपाधिस्तत्साधने च सत्वमुपाधिरिति उभयसाधने स्वव्याघात इति निरस्तम् । अनुकूलतर्काणां चैकैकमाश्रयणात् । मिथ्यात्वसत्यत्वसाधकानुमानेषु चानुकूलतर्कभावाभावयोर्वक्ष्यमाणत्वात् । अतो न विशिष्टसाधनं व्यर्थमिति । विशेषणविशेष्य-भावापन्नोभयसाध्यसाधनपक्षेऽपि दोषमाह । युगपदुभयेति । विशिष्टाविशिष्टसाध्यपक्षयोरप्यर्थान्तरत्व-मुपपादयति । मिथ्यात्व एवेति । यत्तु यद्यपि विशिष्टाविशिष्टोभयसाध्यसाधनपक्षेऽप्येकस्योपाधित्व-मवर्जनीयमेव । मित्रातनयत्वेन शाकाद्यन्नपरिणतिजत्वे साध्ये श्यामत्वस्येव सन्दिग्धसाधनाव्यापकत्व-सम्भवान्नार्थान्तरं, तथापि दूषणान्तरे तात्पर्यमिति । तन्न । अथ•न्तरस्याप्युपपादितत्वात् । अन्योन्योपाधिभावेनाप्यनुमानस्याभासत्वाच्च ।
नन्वत्र बाधकप्रमां प्रति निषेध्यत्वेन विषयत्वमेवोपाधिर्वक्तव्यः । तस्यैव पूर्वोक्तविशिष्टोपाधौ विशेष्यभूतत्वात् । यथा स्वबाधकाभिमतेत्यादिप्रथमविशिष्टोपाधिनिविष्टं विशेष्यं दोषप्रयुक्तभानत्व-मुपाधित्वेनोक्तम् । विपरीतप्रमाविषयत्वं त्वप्रकृतं किमर्थमुपाधित्वेनोक्तम् । न च बाध्यत्वरूपसाध्येन सह बाधकं प्रति निषेध्यत्वेन विषयत्वोपाधेरवैशिष्ट्यं स्यादत उपाध्यन्तरमुक्तमिति वाच्यम् । विपरीत-प्रमाविषयत्वस्यापि बाध्यत्वरूपसाध्येनाभेदात् इत्याशङ्कायामाह । बाध इति । भ्रमोत्तरकालीनं भ्रमसमानाधिकरणमेव सत् निषेध्यत्वेन तद्विषयावगाहिसम्यज्ज्ञानं बाधः । विपरीतप्रमा तु भ्रान्ति-समानाधिकरणतद्व्यधिकरणयोरन्यतरत्वे सति भ्रमविषयासत्वावगाहिसम्यज्ज्ञानमिति तयोर्भेदाद्बाध्यत्व-रूपमिथ्यात्वे साध्ये विपरीतप्रमाविषयत्वं भवत्युपाधिरित्यर्थः ।
अत्र सम्यज्ज्ञानं बाध इत्युक्ते घटोऽयमिति सम्यज्ज्ञानमपि बाधः स्यात् । तदर्थं भ्रमोत्तर-कालीनमित्युक्तम् । तावत्येवोक्ते पुरुषान्तरीयसम्यज्ज्ञानेऽतिव्याप्तिस्तदर्थं भ्रमसमानाधिकरणमित्युक्तं । तावत्येवोक्ते शुक्तिकायां रजतारोपानन्तरं स्यादेवेदमिति धर्मिमात्रावगाहिज्ञानेऽतिव्याप्तिः । तदर्थं निषेध्यत्वेन भ्रमविषयावगाहीत्युक्तम् । तेन तद्विषयस्यासत्वं ज्ञानस्य च भ्रमत्वं सिध्यति । सम्यक्पदा-भावे तु वल्मीके स्थाणुत्वभ्रमानन्तरं नायं स्थाणुः किन्तु पुरुष इति भ्रमानन्तरमपि बाधः स्यात्तदर्थं सम्यग्ग्रहणम् । एवं विपरीतप्रमालक्षणेऽपि विशेष्यमात्रोपादाने बाधाभेदः स्यात्तदर्थं विशेषणोपादानम् । बाधो भ्रान्तिपूर्वक इत्यत्र भ्रान्तिपूर्वकत्वं विशेषणान्तरोपलक्षणम् । अन्यथाऽतिव्याप्त्यापातात् । विपरीतप्रमाऽपि काचिदारोपपूर्विका भवतीति बाधसङ्करप्रसङ्गाच्चेत्युक्तं सोपस्करमवधातव्यम् ।
एवं च बाधो अनीश्वरात्ममात्रवृत्तिः । विपरीतप्रमा तु ईश्वरादिसाधारणवृत्तिरिति बाध्यत्वविपरीत-प्रमाविषयत्वयोर्भेदः । अत एवानुपसञ्जातबाधभ्रमविषये मिथ्यात्वे सत्युपाधेरभावात्साध्याव्यापकतेति निरस्तम् । भ्रान्तेन विषयासत्वस्यानिश्चतत्वेऽपीश्वरादिभिस्तदसत्वस्य निश्चितत्वात् । न हि यथा भ्रान्तिसमानाधिकरणमेव भ्रान्तिविषयासत्वावेदनेन बाधकज्ञानं भवतीति नियमस्तथा भ्रान्तिसमानाधि-करणमेव विपरीतप्रमाणं भवतीति नियमः ।
ननु तथापि तत्रानुपसञ्जातबाधत्वादेवानुपसञ्जातबाधभ्रमविषये बाध्यत्वरूपमिथ्यात्वविरहवति उपाधेः साध्याव्याप्तिरिति चेत् न । तत्रापि बाधार्हत्वस्य सत्वात् । बाध्यत्वं बाधार्हत्वमेव विवक्षणीयम् । अन्यथाऽनुपसञ्जातबाधभ्रमविषये दृश्यत्वहेतोर्व्यभिचारप्रसङ्गात् । यद्वा विपरीतप्रमाविषयत्वं स्वभावाव-गाहिनीं प्रमां प्रति रजतादेः प्रतियोगितया तदवच्छेदकत्वेन च रजतत्वादेर्विषयत्वमित्यर्थः । तुशब्देन विपरीतप्रमाया आरोपपूर्वकत्वनियमं व्यवच्छिनत्ति । यत्तु आरोपपूर्वकस्वात्यन्ताभावप्रमां प्रति निषेध्य-त्वेन विषयत्वं बाध्यत्वं, स्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयत्वमात्रं विपरीतप्रमाविषयत्वमिति । तदसमञ्जसम् । नेदं रजतमित्यन्योन्यभावावगाहिबाधकज्ञानासङ्ग्रहापातात् । चैत्रस्य शुक्तौ रजतारोपोत्तर-कालीनमैत्रीयतदत्यन्ताभावप्रमाया अपि चैत्रीयशुक्तिरजतारोपबाधत्वप्रसङ्गाच्च ।
नन्वेतयोरुपाध्योः कथं साध्यव्यापकत्वम् । उपाधिमति तुच्छे साध्यस्याभावादिति चेत् । न । मम मते उपाधिमति तुच्छे साध्यस्यापि सत्त्वात् । परमते तत्र साध्योपाध्योर्द्वयोरप्यभावादिति । तदिदमाक्षेपसमाधानमयुक्तम् । परमते तत्र शशविषाणमस्तीति शब्दाभासादिना प्रसक्तस्य शश-विषाणादेर्बाधादिसम्भवात् । अन्यथाऽतीन्द्रियप्रपञ्चबाधानुपपत्तिप्रसङ्गात् । ननु दोषप्रयुक्तभानत्वस्योपाधेर्न साध्यव्याप्यत्वम् । सर्वप्रत्ययवेद्यत्वेनाविद्यारूपदोषप्रयुक्तघटादिभानविषये तादृशचरमवृत्तिविषये वा ब्रह्मणि साध्यस्याभावेन व्यभिचारादिति चेत् । न । स्वयं प्रकाशत्वेन ब्रह्मणो दोषप्रयुक्तभानत्वा-भावादिति मतेनोपाधेरपि तत्रासत्वादिति । तदप्यसमञ्जसम् । अवेद्यत्वरूपस्वप्रकाशत्व दूषितत्वात्, दूषयिष्यमाणत्वाच्च । यदवच्छेदेन दोषप्रयुक्तभानत्वं तदवच्छेदेन ब्रह्मणि बाध्यत्वस्यापि सत्वाच्च ।
न्यायामृतसौगन्ध्यम्
सोपाधिकाश्च दृश्यत्वादयः । स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं, स्वबाधकाबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं चेत्युपाधिसम्भवात् । न च ब्रह्मज्ञानमात्रबाध्ये देहात्म्यैक्ये मिथ्याभूते साध्याव्यापकत्वमिति वाच्यम् । तस्य देहात्मज्ञानबाध्यत्वेन ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेः । न च पर्वतावयववृत्त्यन्यत्वादिवत् साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वमिति वाच्यम् । यदि ह्युक्तभानविषयो न स्यात् तर्हि मिथ्या न स्यादिति विपक्षे बाधकसत्त्वेन पक्षेतरत्वतुल्यत्वा-भावात् । प्रत्यक्षादिना बाधस्य वक्ष्यमाणत्वेन बाधोन्नीतत्वाच्च ।
ननु यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं स एवोपाधिः । इतरांशेऽनुकूलतर्काप्रसरात् । तथा च – वियदादिकं न मिथ्या, स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वाभावादिति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्व-व्यापकम् । दोषप्रयुक्तभानत्वं तु भवति तद्व्यापकम् । तच्च साधनव्यापकमपीति नोपाधिः । एव-मुपाध्यन्तरे बोध्यमिति चेत् । न । विशिष्टाभावस्यातिरिक्तत्वेन धर्मिभेदेन वैयर्थ्याभावात् । न हि स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वनिष्ठा व्याप्तिर्दोषप्रयुक्तभानत्वेनावच्छिद्यते । आत्मधीः न स्वविषयविषयकधीबाध्या धीत्वात् शुक्तिधीवत् इति अस्माकमनुमाने भवदुद्भावितं स्वविरोध्य-विषयकरूपोपाधौ एतस्यावैय्यर्थ्यस्याकामेनापि त्वयेष्टव्यत्वात् । तथा हि आत्मज्ञानं स्वविषयक-ज्ञानबाध्यं स्वविरोध्यविषयकत्वरूपोपाध्यभावसत्वादित्येवं साध्याभावसाधने विरोधिभागस्य वैय्यर्थ्यम् । स्वविषयकत्वमात्रस्य हेतोरसाध्यसाधकत्वात् । तथा च स्वविरोध्यविषयकत्वं न स्वविषयकज्ञानबाध्यत्वाभावरूपसाध्यव्यापकं, स्वविषयक(त्व)मात्रं तु भवति तद्व्यापकं, तच्च साधनव्यापकमित्यस्मिन् पक्षे विशिष्टाभावातिरिक्तत्वपक्षाङ्गीकार आवश्यकः ।
यत्तु साध्यासमानाधिकरणेत्यादिप्रागुक्तोपाधिलक्षणानाक्रान्तत्वात् नायमुपाधिरिति । तन्न । व्यभिचारोन्नायकत्वपक्षे हि तल्लक्षणं, न तु सत्प्रतिपक्षोन्नायकत्वपक्षे । तत्र पक्षावृत्तिः साध्यव्यापक इत्येव हि तल्लक्षणम् । तच्चास्ति प्रकृते । अत्र साधनाव्यापकत्वस्य निष्प्रयोजनत्वात् । स्वाधिक-सत्ताकदोषवद्धेतुजन्यज्ञानविषयत्वञ्चोपाधिः । स्वप्नेऽपि निद्राऽविद्यादिरूपस्तादृशो दोषोऽस्त्येव ।
ननु स्वबाधकेत्यादौ स्वत्वस्यानुगतत्वेऽपि स्वबाधकबाध्यत्वं यदि स्वजनकाज्ञाननिवर्तक-ज्ञाननिवर्त्यत्वं तदा जनकत्वस्य स्वावच्छेदकघटितत्वात् स्वजनकत्वस्य शुक्त्यवच्छिन्नचिद्विषयका-ज्ञानत्वादिरूपावच्छेदकभेदेन भिन्नत्वात् स्ववृत्तिजनकत्वस्य शुक्तित्वप्रकारकेदं विशेष्यकत्वादि-रूपावच्छेदकभेदेन च भिन्नत्वादननुगमः । पल्लवाज्ञानास्वीकारपक्षे शुक्तिरूप्यादिबाधकब्रह्मज्ञाना-बाध्यदोषाप्रसिद्धिः ।
यदि च स्वमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वं तत् तदापि निश्चयत्वस्य तत्तद्धर्मिता-वच्छेदकादिभेदेन नानात्वादननुगमः । ‘नेह नानाऽस्तीत्यादिश्रुत्यादिजन्येनेश्वरीयेन मिथ्यात्वनिश्चयेन दोषमात्रस्य निश्चितमिथ्यात्वकत्वादतादृशदोषप्रसिद्धिः । अथ जनकत्वं तत्त्वं वाऽखण्डम् । न तु स्वावच्छेदकघटितम् । तूलाज्ञानं चास्तीत्यङ्गीकृत्याद्य एव पक्षः दोषभिन्नं यत् स्वभिन्नं तदविशेष्यक-मिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वं तदिति वा पक्षो ग्राह्यः । उक्तश्रुतिजन्यमिथ्यात्वनिश्चयस्तु स्वभिन्नविशेष्यः स्वभिन्नाविशेष्यकमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकदोषप्रयुक्तभानकत्वस्य घटादावपि सत्त्वाद् दोषभिन्नेति । स्वभिन्नं यद् दोषभिन्नं तद्विशेष्यके ‘घटाविद्ये मिथ्या इत्यादिनिश्चयेनाविद्या-रूपदोषमिथ्यात्वं निश्चितमिति न घटादौ तदिति चेन्न । तथापि द्वितीयपक्षे ‘शुक्तिरूप्य-तज्ज्ञापकदोषो मिथ्येति निश्चयमादाय साध्याव्यापकत्वात् । यत्र प्रातिभासिकान्तराविशेष्यकं स्वविशेष्यकमिथ्यात्वज्ञानं न जातम् । तत्रापि साध्याव्यापकत्वाच्च । पक्षद्वयेऽपि दोषमात्राननुगत-त्वात् साध्याव्यापकत्वात् । अबाध्यान्तरवैयर्थ्याच्च । न चान्यतमत्वेन दोषाणामनुगमः । अनन्त-दोषघटिततया युगसहस्रेणापि तद्दुर्ज्ञेयत्वापत्तेः । न च स्वरूपतोऽन्यतमत्वं निवेश्यमिति । त्वन्मते तस्य स्वरूपतो ज्ञेयत्वे गोत्वादिजात्यपलापापत्तेः । तावदन्यतमत्वस्यैव तत्सम्भवादविद्यान्यदोषाणा-मन्यतमत्वस्यैव निवेशसम्भवेनाबाध्यान्तवैयर्थ्यात् । साध्याव्यापकत्वस्य तेन रूपेण ग्राहकतर्का-भावात् । अन्यथा प्रातीतिकानामन्यतमत्वेन तादात्म्येनोपाधिसम्भवात् । तदपेक्षया गुरूरूपानु-धावनस्य तेऽनुचितत्वात् । अविद्यान्यदोषप्रयुक्तभानकत्वावच्छिन्नप्रतियोगिताकाभावत्वस्याप्रसिद्ध्या तेन रूपेण साध्याभावाव्याप्यत्वात् । स्वबाधकेत्यादिरूपेण व्यापकताग्राहकतर्काप्रसरादुपाधित्वा-सम्भवात् । स्वाप्नादिभ्रमे स्वाप्नादिप्रातीतिकस्यापि दोषत्वेन तत्र स्वबाधकजाग्रदादिबोधबाध्यत्वेन साध्याव्यापकत्वाच्च ।
अत्रोच्यते । यदीत्याद्ययुक्तम् । स्वध्वंसप्रयोजकध्वंसप्रतियोगित्वसम्बन्धेन स्वविशिष्टत्वं हि स्वबाधकबाध्यत्वम् । पल्लवेत्याद्ययुक्तम् । स्वध्वंसप्रयोजकत्वेनाभिमतं यत्, तस्य वस्तुगत्यैकस्य सम्बन्धे निवेशात् । देहात्म्यैक्यब्रह्मक्षणिकत्वादिप्रातीतिकनिवर्तकस्य सप्रकारकस्याविद्यादिदोषा-निवर्तकत्वात् । स्वाप्नादिदोषस्य स्वाप्ननिवर्तकनिवर्त्यत्वस्वीकारेऽपि यत्किञ्चिन्निद्रादृष्टादिदोषस्य तदभावात् ।
यदि चेत्याद्यप्यसाधु । स्वमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वसम्बन्धेन स्वविशिष्टस्य तदर्थ-त्वात् । सम्बन्धाननुगमस्यादोषत्वात् । नेहेत्यादिश्रुतिजन्यस्येश्वरीयज्ञानस्य च मिथ्यात्वनिश्चय-रूपतैवासिद्धेः । अथेत्याद्यप्यसाधु । तादृशनिश्चयस्योभयमतसर्वांशप्रमात्वस्य विवक्षितत्वात् । शुक्ति-रूप्यतज्ज्ञापकमिथ्यात्वनिश्चयस्यास्मन्मते ज्ञापकमिथ्यात्वांशे भ्रमत्वात् । स्वनिश्चयनिश्चितमिथ्यात्व-कत्वस्य शुक्तिरजतादावेव प्रसिद्धेः । स्वजनकदोषे तदभावात् । तत्रेत्याद्ययुक्तम् । स्वाभावादेरेव स्वभिन्नादिपदेनोक्तत्वेन प्रातिभासिकान्तरस्य स्वविशेष्यकमिथ्यात्वमितिज्ञाने भानेऽपि क्षतेरभावात् ।
पक्षद्वयेऽपीत्याद्ययुक्तम् । भ्रमजनकतावच्छेदकत्वेनानुगतदोषप्रसिद्धेः । उक्तं हि प्रत्यक्ष-मणिदीधितौ ‘भ्रमत्वावच्छिन्नकार्यतानिरूपितकारणताशक्तित्वं च दोषत्वमिति । अत एवान्यतम-त्वेनापि दोषानुगमः । त्वन्मत इत्याद्ययुक्तम् । व्यक्तान्यतमत्वेनानुगतबुद्ध्युपपत्तावतिरिक्तजात्यसिद्धौ नः क्षत्यभावात् । अविद्यान्येत्याद्यशुद्धम् । अविद्यान्यत्वमबाध्यान्यत्वं वेत्यत्र विनिगमनाविरहात् । देहात्म्यैक्यादावतिरिक्तदोषाभावे तूूक्तविशेषणस्य साध्यव्यापकतासम्पादकत्वेनोपाधित्वौपयिकत्वात् । तेन रूपेणेत्यादिकं तु सत्तावान् द्रव्यत्वात्, विशिष्टसत्तावान् वा, द्रव्यत्वादित्यादौ व्याप्यत्वाद्य-नापत्त्यैव निरस्तम् । अन्यथेत्याद्ययुक्तम् । तस्याप्युपाध्यन्तरत्वात् । अविद्यान्यदोषेत्याद्ययुक्तम् । अविद्यान्यदोषप्रयुक्तभानत्वस्य गुरुत्वात् तादृशाभावासिद्धिः? केवलान्वयित्वाद्वा? आद्येऽखण्डाभाव-स्यातिरिक्तत्वव्यवस्थापनात् । द्वितीये स्वप्रकाशे ब्रह्मण्येव तत्सिद्धेः । स्वाप्नादीत्याद्ययुक्तम् । यत्किञ्चिन्निद्राविद्यादिदोषस्य स्वप्नबाधकाबाध्यत्वात् । एवमन्येऽपि दोषा निरसनीयाः ।
न्यायामृतमाधुरी
स्वबाधकेत्यादि । यच्चोपाधिस्तत्स्वपदेनोपादेयम् । स्वं निदर्शनीभूतशुक्तिरूप्यादि, तद्बाधकत्वे-नाभिमतम् इयं शुक्तिरित्यादिज्ञानं, तदबाध्यसादृश्यादिदोषप्रयुक्तभानविषयत्वस्य, तथा स्वं शुक्ति-रूप्यादि, तद्बाधकं यच्छुक्तिज्ञानादि, तदबाध्यं यदिदंवृत्तिनिषेधप्रतियोगिरजतमिति ज्ञानं तदीय-निषेधप्रतियोगि(त्व)त्वावच्छिन्नप्रकारतानिरूपितविशेष्यताश्रयत्वस्य च तत्र सत्त्वेन प्रकृतसाध्य-व्यापकत्वं, साधनवतो वियदादेः स्वबाधकाबाध्यदोषप्रसिध्या न तादृशोपाधिमतेति प्रकृतसाधना-व्यापकत्वं च वर्तत इति तयोरुपाधितेत्यर्थः । सिद्धान्ते शुक्तिरूप्यादेरलीकतास्वीकारात्तद्बाधकं न स्वीक्रियत इत्यतो अभिमतेत्युक्तम् । स्वबाधकत्वोपरक्ताद्वैतवाद्युपगतिविषयीभूतेत्यर्थः । प्रथमे दोषांशे द्वितीये च बाधकज्ञानांशे स्वबाधकाभिमताबाध्यत्वनिवेशनं, तदघटितप्रकृतोपाधिद्वय-स्याद्वैतिदिशा जगतो अविद्यादिदोषप्रयुक्तभानविषयतयाऽखण्डार्थनिष्ठवेदान्तवाक्यजन्यब्रह्मप्रमारूप-बाधकज्ञानीयतादृशविषयताश्रयतया चोपाध्योः पक्षसाधारण्यापत्या साधनाव्यापकतानिर्वाहाय । तन्निवेशने च ब्रह्मान्यत्वावच्छेदेन ब्रह्मज्ञानबाध्यत्वोपगन्तृमते तादृग्दोषस्य विश्वबाधकब्रह्मज्ञानस्य च तद्बाध्यत्वात् तदबाध्यत्वघटितोपाधिद्वयव्यतिरेकस्य विशेषणव्यतिरेकनिबन्धनस्य तत्त्ववादिनये च विशेष्याभावनियन्त्रितस्य पक्षवृत्तितया साधनव्यापकतानिर्वाहात् अग्रिमपक्षेतरत्वतुल्यताशङ्काग्रन्थानु-रोधेन पक्षाद्व्यावृत्तस्येति पाठमेव युक्तमुपगच्छन्तो व्याचक्षाणाः साधनाव्यापकतामाह पक्षाद्व्यावृत्त-स्येतीत्यवतारयन्ति । समव्याप्तिमत इति ग्रन्थार्जवानुरोधादद्वैतसिद्धिकृता विपक्षाद्व्यावृत्तमित्यनूदि-तत्वाद्ब्रह्मानन्देन विपक्षाद्ब्रह्मणस्तुच्छाच्च व्यावृत्तमित्यर्थापनाच्च विपक्षाद्व्यावृत्तस्येति पाठ एव स्वरस इति नव्याः । दर्शितविन्यासेन प्रकृतसाध्याभाववदवृत्तित्वरूपसाध्यव्याप्यतायां, व्यतिरेकव्याप्तिमत इत्यनेन च साध्यव्यतिरेकनिरूपितव्याप्तिमद्व्यतिरेकप्रतियोगित्वरूपसाध्यव्यापकतायाश्च लाभे तद्व्याप्यत्वे सति तद्व्यापकत्वरूपसमाव्याप्ततालाभात् । परन्तु द्वितीयमत्वन्तोत्तरविन्यसनं प्रथम-मत्वन्तस्यानुसन्धेयम् । साधनव्यापकत्वमपि पूरितपदानुसन्धानलक्ष्यमुपेयमेतन्मते । चिरन्तनमते तु दर्शितसमव्याप्तताघटकव्याप्यत्वांशस्योपपादकं पूरणीयमित्यलम् । नव्यमते विषमव्याप्तस्योपाधित्वेऽपि समव्याप्तस्यैवोपाधित्वमित्युदयनमतमनुरुन्धानेनेत्थमुक्तम् ।
अत्र अद्वैतसिद्धिकारः । ब्रह्मज्ञानमात्रबाध्यदेहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वादिति समाहितिं पर्यालुलोचे । तदतिस्थवीयः । जातमात्रा मृता गावः इत्यादिना भगवत्पादैरेव देहात्मैक्या-ध्यासस्य सप्रपञ्चं निरस्तत्वात् । ब्रह्मज्ञानेतरदेहात्मभेदज्ञानबाध्यत्वेन ब्रह्मज्ञानमात्रबाध्यत्वासिद्धेश्च । न चेत्यादि ।। न च पक्षेतरे स्वव्याघातकत्वेनानुपाधावतिव्याप्तिः । तत्रानुकूलतर्काभावेन साध्य-व्यापकत्वानिश्चयात् । सहचारदर्शनादेस्तेन विना (संशायक) सांशयिकत्वात् । एवं पर्वतावयववृत्त्य-न्यत्वादेरपि नोपाधित्वम् । पक्षमात्रव्यावर्तकविशेषणवत्त्वात् इत्युपाधिवादीयचिन्तामणिग्रन्थाशय प्रकाशकस्य, ‘‘पक्षमात्रेति । यद्यपि पर्वतावयवरूपादेरपि व्यावर्तकं तत् तथापि तस्य व्यावृत्ति-र्नोपाधितायामुपयुज्यते । अपि तु पक्षस्यैवेति तन्मात्रव्यावर्तकत्वमुक्तमिदं चानुपाधितायां न बीजम् । परिभाषामात्रत्वात् किन्त्वनुकूलतर्काभावेन तादृशसाध्यव्यापकत्वानिश्चय इति द्रष्टव्य’’मिति दीधितिग्रन्थस्य गदाधरेण ‘‘पर्वतावयववृत्त्यन्यत्वादौ वृत्त्यन्तस्य भेदविशेषणस्य पक्षभिन्नमपि व्यावर्त्यमस्तीति मूलोक्तस्य पक्षमात्रव्यावर्तकविशेषणवत्वादिति तदनुपाधित्वप्रयोजकहेतोरसङ्गति-माशङ्कते ।। यद्यपीति ।। नोपाधितायामुपयुज्यते इति ।। उपाधेः सङ्कोचनं तल्लक्षणप्रविष्टसाधना-व्यापकत्वसम्पादकतयोपाधितायामुपयुज्यते । तदव्यापकत्वसम्पादकता च तदधिकर(णउ)णानु-पाधिव्यावृत्तिरेव । न तु तदनधिकरणपर्वतावयवरूपादिव्यावृत्तितायामुपयुज्यतेरिति भावः । पक्षस्यैवेति ।। व्यावृत्तिरुपाधि इत्यनुषज्यते । पक्षस्य साधनत्वादिति भावः । इति इत्याशयेन । उक्तमिति । मात्रपदेनोपाधित्वौपयिकपक्षभिन्नव्यावृत्तिप्रयोजकतायाः विशेषणे व्यवच्छेदात् । पर्वतभिन्नतदवयवरूपादिव्यावर्तकत्वेऽप्युक्तविशेषणे उक्तव्यावृत्तिप्रयोजकत्वाभावस्याक्षततया मात्रार्थ-सङ्गतेरिति भावः’’ इति भावस्य स्फुटीकरणात् तद्दिशा उपाधित्वघटकसाधनव्यापकत्वौपायिक-पक्षभिन्नव्यावृत्तिप्रयोजकत्वाभावविशेषिततदौपयिकपक्षव्यावृत्तिप्रयोजकत्वविशेषितविशेषण-वत्वादित्यर्थः । पक्षेतरत्वं पक्षेतरतुल्यत्वम् । अनुपाधित्वमिति यावत् । यद्यपि प्रकृतोपाधिद्वय-पक्षकानुपाधित्वसाध्यकपक्षमात्रव्यावर्तकविशेषणवत्वलिङ्गकानुमाने पक्षेतरत्वं निदर्शनीकर्र्तंु शक्यते एवेति पर्वतेत्यादिकान्यत्वान्तपर्यन्तानुधावनं निर्बीजम् । तथाप्युपाधित्वौपयिकपक्षभिन्नव्यावृत्ति-प्रयोजकत्वाभावो हेतुतावच्छेदकघटकः पर्वतावयववृत्त्यन्यत्वे पक्षीभूतोपाधिद्वये च स्वप्रयोज्य-पक्षभिन्नव्यावृत्तेरुपाधित्वौपयिकत्वरूपविशेषणाभावनिबन्धन एव । पक्षेतरत्वे तु स्वप्रयोज्यपक्षभिन्न-व्यावृत्तिरूपविशेष्याभावनिबन्धन इति वैलक्षण्यादन्यत्वान्तमेव निदर्शितम् । न तु पक्षेतरत्वमित्यव-धेयम् । अत्र व्याकर्तारः । यद्यपि प्रकृतयोः स्वबाधकाभिमताबाध्येत्याद्युपाध्योरनुपाधितायां पर्वते-तरत्वादिकमेव निदर्शनीयम् । तथापि पर्वतेतरत्वादेरनुपाधितायां न पक्षमात्रव्यावर्तकविशेषणवत्त्वं प्रयोजकम् । किन्तु पर्वतेतरत्वस्य पक्षमात्रवृत्तिव्यतिरेकप्रतियोगितायां पर्वतेतरत्वव्यतिरेकेण साध्याभावसाधने असाधारण्यात्पर्वतेतरत्वस्य नोपाधित्वं, प्रकृतयोः स्वबाधकाभिमताबाध्येत्या-द्युपाध्योस्तु न पक्षमात्रवृत्तिव्यतिरेकप्रतियोगित्वम् । विशिष्टोपाधेर्व्यतिरेकस्य साध्याभाववति ब्रह्मण्यपि सत्त्वेनोपाधिव्यतिरेकेण मिथ्यात्वरूपसाध्यस्याभावे साध्यमाने ब्रह्मण एव सपक्षत्वसम्भवादिति यः कश्चिद्ब्रूयात् तदा स्वव्यतिरेकेण साध्यव्यतिरेकसाधने पर्वतावयववृत्तिरूपादिनिष्ठव्यतिरेकप्रतियोगित्वेन लब्धोदाहरणस्यापि पर्वतावयववृत्त्यन्यत्वादेर्यथा नोपाधित्वं तथा प्रकृतयोरपीत्यभिसन्धाय पूर्वपक्षिणा पर्वतावयववृत्त्यन्यत्वादिकं निदर्शितमित्यवधातव्यमित्यपि व्याकुर्वते ।
अत्राद्वैतसिद्धिकारः । पर्वतावयववृत्त्यन्यत्वादिवत्साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतर-तुल्यत्वादिति न्यभान्त्सीत् । ब्रह्मानन्दस्तु – पर्वतावयववृत्तीत्यस्य विशेषणस्य पर्वतावयवरूपादितो विपक्षाद्व्यावर्तकत्वमस्त्येव । स्वबाधकेत्यादिविशेषणस्यापि वासनादिदोषप्रयुक्तविकल्पविषयादलीका-द्व्यावर्तकत्वमस्तीत्यतः साधनवदित्युक्तम् । तथा च साधनवत्पक्षव्यावर्तकं यत्साधनवद्विपक्षव्यावर्तकं विशेषणं तद्वत्वेनेत्यर्थः । साधनवद्विपक्षनिष्ठभेदप्रतियोगितावच्छेदकतायाः यन्निष्ठाया अनवच्छेदकं यद्विशेषणं तन्न तत्साधनवद्विपक्षाव्यावर्तकं अन्यत्वादिनिष्ठाया उक्तावच्छेदकताया अनवच्छेदकं पर्वतावयववृत्तीत्यादिकम् । पर्वतो धूमवान् वह्नेरित्यादौ साधनवद्विपक्षे अयःपिण्डादौ पर्वतावयव-वृत्यन्यत्वादिमतो भेदासत्त्वात् यद्यपि स्वबाधकेत्याद्युपाध्योः प्रकृतसाधनवान् विपक्षोऽप्रसिद्धस्तथापि यद्विशेषणघटितस्योपाधेराश्रयभिन्ने यावद्धर्मिणि प्रकृतसाधनवत्वविपक्षत्वोभयाभावोऽस्ति तत्तत्र साधनवद्विपक्षाव्यावर्तकमिति बोध्यम् ।
अत्र विपक्षव्यावर्तकत्वेऽपि साधनवद्विपक्षाव्यावर्तकत्वं प्रकृतोपाध्योरस्ति । पर्वतावयववृत्त्य-न्यत्वादौ चास्तीति स एव दृष्टान्तीकृतो न तु पर्वतेतरत्वादिकं, तत्र तदभावात् । तथा च पक्षेतर-तुल्यत्वेन पर्वतावयववृत्त्यन्यत्वादेर्यथोक्तमणिवाक्ये अनुपाधित्वमुक्तं तथा तत्सदृशयोः स्वबाधका-बाध्येत्युपाध्योरिति भाव इति व्याचक्रे । उभावप्युपन्यस्ताकरग्रन्थतात्पर्यस्याननुसन्धातारौ । तत्र साध्यीभूतानुपाधित्वे हेतूकृतविशेषणवत्वान्तस्य पक्षे साधनवत्वविशेषणमनुपादायैव मात्रपदे-नेत्यादिकमात्रार्थसङ्गतेरिति भाव इत्यन्तेन गदाधरेण पक्षे सङ्गमिततया तत्र तद्विशेषणोपादानेन तत्सङ्गमनप्रयासस्याकरतात्पर्यानधिगतिज्ञापकत्वात् । वह्निना धूमसाधने साध्यव्यापकताग्राहकानुकूल-तर्केणार्द्रेन्धनप्रभवह्निमत्वस्य साध्यव्यापकता निश्चीयत इति तत्र तस्योपाधिता यथाऽऽकरे समर्थिता तद्वत्प्रकृतोपाधिद्वयस्यापि तद्बलेन तन्निश्चयात्सा सङ्गच्छत इत्याह ।। वह्निनेत्यादि । बाधोन्नीतेऽ-त्रानुकूलतर्को अस्त्येवेत्यादिना बाधोन्नीतपक्षेतरत्वस्योपाधितायाः मणिकारादिभिः समर्थिततया प्रकृतेऽपि बाधोन्नीतत्वावैशिष्ट्येन तेन सोपगन्तव्येति समाधत्ते । बाधित इत्यादि । अत्राद्वैतसिद्धि-कारः । अपि च यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वम्, इतरांशे अनुकूल-तर्काप्रसरात् । तथा च क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वादित्यत्र यथा शरीरविशेषणवैय्यर्थ्यान्न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम् । एवं वियदादिकं न मिथ्या, स्वबाधकाभिमताबाध्यदोषप्रयुक्त भानत्वरहितत्वादिति, साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमता-बाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् । तच्च साधनव्यापकमपीति नोपाधिरित्याह । ब्रह्मानन्दस्तु ‘‘यदिति यदवच्छिन्नप्रतियोगिताकस्येत्यर्थः । साधकत्वं व्याप्यत्वम् । तस्य तद्विशिष्टस्य । व्यापकत्वं व्यापकत्वधीः । तथा चेत्यादि । शरीर-जन्यत्वं यदि कर्तृजन्यत्वव्यापकं न स्यात्तदा कर्तृजन्यत्वाभावव्याप्याभावप्रतियोगि न स्यादिति तर्को नावतरति । लाघवेन जन्यत्वसामान्याभावत्वेनैव व्याप्यतासम्भवेन शरीरविशेषणस्य वैय्यर्थ्यात् तद्वल्लाघवाद्दोषप्रयुक्तभानत्वेनैव व्याप्यतासम्भवेन स्वबाधकेत्यादिवैय्यर्थ्यादित्यर्थः । यत्र तु विशिष्ट-प्रतियोगिकाभावत्वेनैव व्याप्यता व्यर्थविशेषणत्वाद्यभावात्तत्र विशिष्टरूपेणापि व्यापकत्वम् । तर्क-प्रसरात् । उक्तं हि मणावीश्वरवादे– ‘धूमविशेषादौ चन्दनवह्न्यादेः कारणत्वात् विपक्षबाधेन विशिष्टस्य व्यापकत्वाद् विशिष्टप्रतियोगिकाभावत्वेनैव हेत्वभावव्याप्यता । यत्र तु विपक्षे बाधकं नास्ति तत्र विशिष्टव्यापकता नास्ती’त्यादि । न च शरीरजन्यत्वाभावे जन्यत्वसामान्या-भावत्वस्यासत्त्वात् तत्र शरीरांशस्य तेन न वैय्यर्थ्यम् । धूमत्वेनेव धूमप्रागभावत्वादेः स्वसमानाधिकरणव्याप्यतावच्छेदकान्तरघटितत्वस्य व्यर्थविशेषणतारूपत्वादिति वाच्यम् । विशेष्यविशेषणाभावयोरेव विशिष्टाभावत्वात् । येन विशेषणेन विनापि व्याप्तिर्गृह्यते तदेव व्यर्थ-विशेषणमिति स्वीकाराच्च । उक्तं हि मणौ– उक्तस्थले शरीराजन्यत्वे व्यर्थविशेषणत्वं लाघवेना-जन्यत्वस्यैव व्याप्यत्वात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते तस्यैव व्याप्यतावच्छेदकत्वनियमात् । अत एव घ्राणं पार्थिवं रूपादिषु पञ्चसु मध्ये गन्धस्यैव व्यञ्जकत्वादित्यादौ ‘रूपादिषु मध्ये’ इत्यसिद्धिमात्रवारकमपि व्यर्थम् । तेन विना व्याप्त्यग्रहादित्यादि । किञ्च तर्काप्रसरादित्यनेन व्यापकताग्राहकतर्कमात्रमुपाधित्वे बीजमित्युक्तम् । पूर्वोक्तमणिवाक्येपि तथोक्तम् । तथा च व्यर्थ-विशेषणत्वाभावेऽपि शरीरजन्यत्वं यथा नोपाधिस्तादृशतर्काभावात् । तथा स्वबाधकेत्यादिकमित्यत्र प्रकृतग्रन्थतात्पर्यम् । व्यतिरेके व्यर्थत्वं तु तादृशतर्काप्रसरबीजोपलक्षणत्वेनोक्तम् । ’’ इति तद्ग्रन्थं व्याचकार । उभावपि निपुणमाकरमविभाव्यैव वक्तारौ । सिद्धान्ते विशेषणवैशिष्ट्यावच्छिन्न-प्रतियोगिताकाभावादतिरिच्यमानतया तस्य ताद्रूप्याभावात् । धर्मिभेदेन वैय्यर्थ्यमित्यस्यासकृद्धूम-प्रागभाववदवैय्यर्थ्यमिति समादधानस्य दीधितिकारादेरभिप्रेतत्वात् । येन विशेषेणेन विनेत्यादि त्वसमञ्जसमेव ।
ब्रह्मणः प्रपञ्चस्य दोषप्रयुक्तनिर्गुणत्वक्षणिकत्वादिभानविषयतयाऽलीकस्य च ख्यातेरेवोपगमेन तादृशतया अबाध्यान्तघटितोपाधिव्यतिरेकस्याप्रसिद्धस्य तदन्तविशेषणं विना व्याप्तेर्दुर्ग्रहत्वात्् । पूर्वपक्षिमतेऽपि ब्रह्मणः सर्वप्रत्ययवेद्यत्वोपगमेन दोषप्रयुक्तः सन् घट इत्यादिभानविषयतया प्रपञ्च-कल्पत्वात् । शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति वचनं प्रमाणीकुर्वताऽलीकस्यापि तादृश-प्रतीतिविषयत्वोपगमात् । असिद्धिवारकस्यापि व्याप्तिग्रहौपयिकतया सार्थक्यस्याकरनिरूढत्वात् । शरीरविशेषणस्यासिद्धिवारकतया वैय्यर्थ्यस्यैवाभावात् । व्यर्थविशेषणस्याधिकोक्त्या निग्रहस्थानत्वेऽपि तज्ज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकत्वे मानाभावात् । शरीरजन्यत्वे तु व्यर्थविशेषणताप्रयुक्तानुपाधिता-शङ्कनेति तथा चेत्यादिकतर्काभावादित्यन्तेन स्वयमेव प्रतिपादितमाकरसम्मत्येति नास्माभिस्तत्समर्थने प्रयतितव्यम् । ग्रन्थकारेणैव वक्ष्यमाणानुकूलतर्कैरित्यादिकनिश्चयादित्यन्तेन तादृशतर्कबाहुल्य-प्रयुक्तनिश्चयध्रौव्येनोपाधित्वं समर्थितमिति तथास्वबाधकेत्यादिकमिति तदुक्तिरपि तादृश्येवेत्यलं निर्दलपक्षप्रतीकाराभियोगेन । पक्षमात्रव्यावर्तकविशेषणघटितत्वकोटिकशङ्कानास्कन्दितमप्युपाधिमाह– यद्वेति ।। प्रकृतहेतुनैव प्रकृतोपाधिद्वयस्यापि पक्षे सिषाधयिषिततया साधनव्यापकत्वेनानवधृत्यो-पाधित्वायोग इति शङ्कापनोदाय दृश्यत्वेन मिथ्यात्वसाधनदशायामुपन्यस्तोपाधिद्वयस्य तेनैव तत्साधनदशायां च मिथ्यात्वस्य सिषाधयिषेति ध्वनयितुं यथेत्यादिना द्वयोर्निदर्शनीकरणम् । उभयसाधने व्यासज्यवृत्तिधर्मावच्छिन्नविधेयकानुमितेरुद्देश्यत्वे अर्थान्तरम् अप्राप्तकालत्वम् । मिथ्यात्व एव (क)वले विप्रतिपत्तेरित्याशयः ।
अत्र ब्रह्मानन्दः । दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनादित्यनूद्य युगपदुभयसाधनेऽपि नाप्राप्तकालत्वम् । मिथ्या(त)त्वावच्छिन्नविधेयताकानुमितेरेव प्राप्तकालत्वात् । समूहालम्बनानु-मितेरपि तथात्वादिति तदाशयं प्राकाशयत् । तन्न साधीयः । घटपटचक्षुःसन्निकर्षादिघटितसामग््रय-सम्मेलनदशायामेव तदवगाहिसमूहालम्बनचाक्षुषवह्निघटादिनिरूपितव्याप्तिस्मृत्याद्यधीनतत्तद्व्याप्य-वत्तापरामर्शादिघटितसामग्रीसंवलनदशायामेव तत्तदवगाहिनीसमूहालम्बनरूपस्वार्थानुमितिर्नाना-पुरुषप्रणीतवाक्यघटकपदजन्यपदार्थोपस्थित्यादिघटितसामग्रीयौगपद्य एव तादृशी शाब्दधीश्चोदेतीति सङ्गच्छते । परार्थानुमित्यौपयिकासम्भवत्समानकालीनताकावश्योपगन्तव्यैकप्रणेतव्यताकन्यायवाक्यद्वय-प्रयोगाधीननानाव्याप्यवत्तापरामर्शादिघटितसामग्रीयौगपद्यस्यैवायोगेन तदेकनिबन्धनायास्तादृश-समूहालम्बनपरार्थानुमितेरयोगात् । अवयवग्रन्थे उचितानुपूर्वीकं प्रतिज्ञादिपञ्चकसमुदायत्वं न्यायत्व-मिति दीधितिग्रन्थव्याख्यावसरे एवमपि एकैकन्यायघटकं यत्प्रतिज्ञाद्येकैकवाक्यं तत्समुदायेऽतिप्रसङ्गो दुर्वार एवेत्याशङ्क्य मैवं स्वाश्रयीभूतयत्किञ्चित्प्रतिज्ञाद्यव्यवहितोत्तरत्वशून्यहेत्वादिवृत्तियद्यत्समुदायत्वं तत्तदन्यत्वस्य तादृशसमुदायत्वे विवक्षणीयत्वादिति गदाधरेणैव प्रातिस्विकनानाधर्मावच्छिन्न-साध्यकप्रतिज्ञाद्वयोत्तरहेत्वादिघटितस्यासङ्ग्राह्यताया एव सिद्धान्तितत्वात् । नन्वबाध्यत्वान्तविशेषणा-घटितस्य तद्विशेष्यतापन्नदोषप्रयुक्तभानत्वस्यैव तादृशविशेषणाघटितस्य तद्विशेष्यतापन्नबाधकप्रमां प्रति निषेध्यत्वेन विषयत्वस्यैवोपाधिता वक्तव्या न त्वतादृशविपरीतप्रमाविषयत्वस्येत्यत आह ।। बाध इति । साध्योपाध्योरवैशिष्ट्यापत्त्या तथा अभ्युपगमायोगादिति भावः । सिद्धान्ते अलीके दर्शितोपाधिमति साध्यस्यापि सत्त्वेन पूर्ववादिनये च तत्र द्वयोरप्यभावेन साध्यसमव्याप्तताराहित्य-शङ्का नोदोत्येव । सर्वप्रत्ययवेद्यतां ब्रह्मण उपगच्छतां पूर्ववादिनां मते साध्यविनिर्मुक्तस्य तस्या-विद्यादिदोषप्रयुक्तघटादिभानविषयत्वेन तादृशचरमवृत्तिविषयत्वेन चोपाधेः साध्यव्याप्यता दुरुपपादे-त्यपि न शङ्कनीयम् । ब्रह्मणः स्वप्रकाशत्वेन न दोषप्रयुक्तभानविषयतेत्याशयात् ।