यच्चोक्तं वाचस्पतिना जीवाश्रिताऽविद्येति

६४. अज्ञानस्य वाचस्पत्युक्तजीवाश्रितत्वभङ्गः

न्यायामृतम्

यच्चोक्तं वाचस्पतिना जीवाश्रिताऽविद्येति । तन्न, जीवशब्देन चिन्मात्र-लक्षणायामुक्तदोषात् । अविद्यया वा आविद्यकबुद्ध्यादिना वाऽवच्छिन्नस्य तत्प्रतिबिम्बितस्य वा कल्पितभेदस्योक्तावन्योन्याश्रयात् । न च बीजाङ्कुर-न्यायेनासौ न दोषः, तद्वदिह व्यक्तिभेदाभावात् । सन्तानिव्यतिरेकेण च तत्र सन्तानयोरन्योन्यापेक्षाभावात् । न च यथा निरंशेऽप्याकाशे घटस्तटस्थ एव तदुपलक्ष्यैकदेशं सम्पाद्य तेन सम्बध्यते, तद्वदविद्यापि तटस्थैव चिन्मात्रमुप-लक्ष्यैकदेशरूपजीवं सम्पाद्य तत्रावतिष्ठत इति नेतरेतराश्रयः ।

स्वेनैव कल्पिते देशे व्योमि्न यद्वद् घटादिकम् ।

तथा जीवाश्रयाविद्यां मन्यन्तेऽज्ञानकोविदाः ।।

इत्युक्तेरिति वाच्यम् । निराश्रयाविद्यायोगेन जीवसिद्धावविद्यासिद्धिस्तत्सिद्धौ तदुपलक्षितजीवसिद्धिरित्यन्योन्याश्रयात् । त्वन्मते गगनस्याप्यनित्यद्रव्यत्वेन स्वत एवांशसम्भवाच्च । न च जीवाविद्ययोरनादित्वेनोत्पत्तिज्ञप्त्यप्रतिबन्धादय-मदोषः, यतः

अविद्याजीवयोर्यत्र व्यपेक्षा तन्निरोधकः ।

अन्योन्यसंश्रयो नो चेदन्योन्याधीनताहतिः ।।

अज्ञानजीवयोर्हि कुत्रापि विषयेऽन्योन्यापेक्षा न चेदन्योन्याधीनता-व्याहतिः । न हि सर्वथा तदनपेक्षं तदधीनम् । अथानादित्वेऽपि द्रव्यत्व-गुणत्वादिजातिव्यञ्जकयोरिव प्रयुक्त्यादावपेक्षा, तर्ह्यन्योन्याश्रयस्तस्यैव प्रति-बन्धकः । द्रव्यत्वादौ व्यङ्ग्यमेव व्यञ्जकप्रयुक्तं न तु व्यञ्जकं व्यङ्ग्यप्रयुक्तम् । इह तु जीवब्रह्मविभागस्याविद्यकत्वादविद्यायाश्च जीवाश्रितत्वात् जीवत्वाज्ञाने अन्योन्यप्रयुक्ते इति प्रयुक्तेरेव प्रतिबन्धः । एवं च–

यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धेन दोषता ।

तर्हि स्याच्चैत्रमैत्रादेरन्योन्यारोहणादिकम् ।।

न च प्रमेयत्वाभिधेयत्वादावन्योन्यवृत्तिवदिहान्योन्यापेक्षा प्रमिता । अन्यथाऽन्योन्याश्रयादिः क्वापि दोषो न स्यात् । जीवत्वप्रयोजकमज्ञानान्तरं चेत्, चक्रकमनवस्था वा । न चेयं परम्परा सिद्धविषया, अहमज्ञ इति प्रतीतेः सत्यभेदेनैवोपपत्तेः । किं च जीवेश्वरयोर्जीवेश्वराभ्यां कल्पितत्वे आत्माश्रयात्, ईश्वर(ब्रह्म)जीवकल्पितत्वेऽन्योन्याश्रयात्, तत्कल्पकस्य शुद्धस्य ब्रह्मणोऽज्ञान-मावश्यकम् । न चाविद्याया दौर्घट्यं भूषणम्, तत्र लक्षणप्रमाणाद्युक्त्ययोगात् । अविद्याया निराश्रयत्वनिर्विषयत्वात्मस्वरूपत्वाद्यापाताच्च । प्रतीत्यनुसारेणा-श्रयाद्यङ्गीकारे च घटमहं न जनामीति प्रतीत्याऽहमर्थाश्रितत्वजडविषयत्वादि-प्रसङ्गाच्च । अनादित्वादिनाऽनुपपत्तिपरिहारायोगाच्च । उत्तरास्फुरणे प्रकृति-संवृत्यादेर्दौर्घट्यं भूषणमिति सुवचत्वेन साङ्ख्यबौद्धादिमतनिरासायोगाच्च ।

उक्तं च–

दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ।

अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ।। इति ।

एतेन–

प्रश्नविश्रान्ति(हेतु)भूमित्वाच्चोद्यन्तमसि नोचितम् ।

न बुद्धिमन्तः पृच्छन्ति न जानामीति वादिनम् ।।

इति निरस्तम् । न ह्यज्ञं प्रत्यप्रश्नोऽज्ञानस्य दौर्घट्यात्, ज्ञानमेवा-ज्ञानमित्याद्युक्तावपि विरोधाद्यनुद्भावनापातात् । किं तु ज्ञातुरेव, वक्तृत्वात् ।

अद्वैतसिद्धिः

वाचस्पतिमिश्रैस्तु जीवाश्रितैवाऽविद्या निगद्यते । ननु– जीवाश्रिताऽविद्या तत्प्रति-बिम्बितचैतन्यं वा, तदवच्छिन्नचैतन्यं वा, तत्कल्पितभेदं वा जीवः, तथा चान्योन्याश्रय– इति चेन्न, किमयमन्योन्याश्रय उत्पत्तौ ? ज्ञप्तौ ? स्थितौ वा ? नाद्यः, अनादित्वा-दुभयोः । न द्वितीयः, अज्ञानस्य चिद्भास्यत्वेऽपि चितः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः । स किं परस्पराश्रितत्वेन वा, परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न, उभयस्याप्यसिद्धेः, अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेऽपि चिति अविद्याश्रितत्व-तदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनताक्षतिः, समानकालीनयोरप्यवच्छेद्या-वच्छेदकभावमात्रेण तदुपपत्तेः, घटतदवच्छिन्नाकाशयोरिव प्रमाणप्रमेययोरिव च । तदुक्तम्–

स्वेनैव कल्पिते देशे व्योमि्न यद्वद् घटादिकम् ।

तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः ।। इति ।

एतेन– यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धकत्वेनान्योन्यापेक्षताया अदोषत्वम्, तदा चैत्रमैत्रादे-रन्योन्यारोहणाद्यापत्तिरिति निरस्तम्, परस्परमाश्रयाश्रयिभावस्यानङ्गीकारात् । न चेश्वर-जीवयोरीश्वरजीवकल्पितत्वे आत्माश्रयः, जीवेशकल्पितत्वे चान्योन्याश्रयः, न च शुद्धा चित् कल्पिका, तस्या अज्ञानाभावादिति– वाच्यम्, जीवाश्रिताया अविद्याया एव जीवेश-कल्पकत्वेनैतद्विकल्पानवकाशात् । तस्माज्जीवाश्रयत्वेऽप्यदोषः । इत्यद्वैतसिद्धौ अज्ञानस्य जीवाश्रयत्वोपपत्तिः ।।

न्यायामृततरङ्गिणी

।। सन्तानीति ।। तत्तद्बीजाङ्कुरव्यक्तयः सन्तानिरूपाः । बीजाङ्कुरपरम्परा सन्तानः ।। निराश्रयेति ।। घटाकाशसिद्धिं विनापि घटसिद्धिवज्जीवसिद्धिं विनाऽ-ज्ञानसिद्धेरभावादित्यर्थः ।। स्वत इति ।। घटादिसम्बन्धं विनापि । जीवस्त्व-ज्ञानसम्बन्धं विना न सिद्ध इति भावः ।। प्रमेयत्वेति ।। प्रमितस्य अभिहितस्यैव तत्तदभावाधिकरणत्वात् । अन्यथा व्याहतिः स्यादित्यर्थः ।। सिद्धेति ।। अन्यथा-सिद्धेत्यर्थः ।। तत्कल्पकस्येति ।। तथा च शुद्धाश्रितमज्ञानमिति स्यादित्यर्थः । नन्वज्ञानाधीनोऽपि जीवोऽहमज्ञ इति प्रतीतिबलादेवाज्ञानाश्रय इत्यङ्गीक्रियत इत्यत आह ।। प्रतीतीति ।। ज्ञानमेवाज्ञानमितीति ।। अज्ञानविषयप्रश्नाभावे दौर्घट्यं हेतुश्चेत्तर्ह्यज्ञानविषयकविरोधानुद्भावनेऽपि दौर्घट्यं हेतुरिति तत्र विरोधोद्भावनमपि न स्यादित्यर्थः ।। वक्तृत्वादिति ।। वक्तुरेव प्रष्टव्यत्वादिति शेषः ।। अज्ञानस्य वाचस्पत्युक्तजीवाश्रितत्वभङ्गः ।।

न्यायामृतकण्टकोद्धारः

ननु नात्मान्यस्याविद्याश्रयत्वम् । जीव एव तदाश्रयो भविष्यति । तथा चाहमज्ञ इत्यादिप्रतीतिरपि सङ्गच्छते । अहम्पदार्थस्य जीवत्वादिति वाचस्पतिमिश्रमतं दूषयति ।। यच्चेति ।। तन्नेति ।। सर्वज्ञत्वादिविरोधाद्युक्तदोषादित्यर्थः । ननु जीवशब्देन चिन्मात्रं नोच्यतेऽतो नोक्तदोष इत्यत आह ।। अविद्ययेति ।। अवच्छेदप्रतिबिम्बरूपपक्षद्वयानु-सारेण व्यवस्थितविकल्पार्थो वाशब्दः ।। तद्वदिति ।। तत्र व्यक्तिभेदादन्योन्याश्रयपरिहारो न तथा प्रकृते इत्यर्थः । ननु तत्रापि बीजाङ्कुरसन्तानद्वित्वाद्व्यक्तिद्वित्वमेवेत्यत आह ।। सन्तानीति ।। तथा च यत्रापेक्षा तत्र व्यक्तिभेदोऽस्त्येवेति भावः । उपलक्षणमेतत् । सन्तानिव्यतिरेकेण सन्तानाभावाच्चेत्यपि द्रष्टव्यम् ।। निराश्रयेति ।। अविद्यात्वस्य साश्रयत्वव्याप्यत्वादिति भावः । उपलक्षणमेतत् । घटदृष्टान्तोऽप्यसम्प्रतिपन्न एव । आकाशे स्वाभाविकविशेषाभावे घटस्य तदेकदेशसम्पादकत्वाभावस्यान्यत्रोपपादितत्वा-दित्यपि द्रष्टव्यम् ।। त्वन्मत इति ।। तथा च घट इति दृष्टान्तः स्वासिद्ध इति भावः ।। यत इति ।। चिदविद्ययोर्न परस्परसापेक्षत्वमिति कथमितरेतराश्रयत्वमिति वाच्यम् । भ्रान्तोऽसि । न ह्यस्माभिरविद्यायाश्चिन्मात्राश्रयत्वपक्षेऽन्योन्याश्रयादिकमुच्यते किन्तु जीवाश्रितपक्षे जीवश्च न चिन्मात्रम् । तथात्वे तत्पक्षोक्तदोषात् । विशिष्टचैतन्यं जीव इति तु पक्षे कथं न परस्परसापेक्षत्वम् ।

नन्वेवं तर्हि द्रव्यत्वगुणवत्त्वादावप्यन्योन्याश्रयः स्यादित्यत आह ।। द्रव्यत्वा-दाविति ।। तत्र परस्परसापेक्षत्वाभावान्नान्योन्याश्रय इत्यर्थः । ननूत्पत्तिज्ञप्ति-प्रतिबन्धकत्वेनैवान्योन्याश्रयोऽतो नान्यप्रतिबन्धकत्वेनेत्यत आह ।। यदीति ।। चक्र-केति ।। तदप्यज्ञानं अज्ञानत्वात् साश्रयम् तदाश्रयजीवत्वप्रयोजकमज्ञानान्तरं चेदनवस्था इदमेव चेच्चक्रकमित्यर्थः ।। न चेति ।। बीजाङ्कुरपरम्परावदिति भावः ।। अहमिति ।। तथा चाप्रामाणिकपरम्पराकल्पनमेवेति भावः ।। किञ्चेति ।। न च जीवाश्रिताविद्यैव जीवेश्वरकल्पिकेति वाच्यम् । अन्योन्याश्रयादेरुक्तत्वात् ।। शुद्धस्येति ।। सर्वज्ञत्वेन ज्ञानासम्भवादिति भावः । नन्वहमविद्येत्यप्रतीतेरविद्याया आत्मत्वं न स्वीक्रियत इत्यत आह ।। प्रतीतिरिति ।। तर्ह्यविद्यायाश्चिन्मात्राश्रयत्वादिकमपि न स्वीकर्तव्यम् । तथा प्रतीत्यभावादिति भावः । एतेन अविद्याया निर्विषयत्वाद्यापातेनेत्यर्थः । न जानामीति वादिनं प्रति न पृच्छतीत्ययुक्तम् । किमज्ञानविषये प्रश्नादि न युज्यत इति वा ज्ञानप्रतिपादनानभिज्ञं प्रति इति वा । आद्यं प्रतिषेधति ।। न हीति ।। अज्ञानस्य दौर्घट्यात् अज्ञमज्ञानं प्रति तद्विषये प्रश्नो न हीत्यर्थः । तत्र हेतुमाह ।। ज्ञानमेवेति ।। द्वितीयमुत्थाप्य प्रतिक्षिपति ।। किन्त्विति ।। न ह्यस्माभिरज्ञानिनं प्रति प्रश्नः क्रियते । किन्तु ज्ञातारं प्रत्येव । वक्तृत्वेन ज्ञातृत्वात् । तदेव कथमित्यत आह ।। ज्ञातुरेवेति ।। वक्तृत्वं चाज्ञानविषये लक्षणाद्यभिधानेनेति भावः । इति अज्ञानस्य वाचस्पत्युक्तजीवा-श्रितत्वभङ्गः ।

न्यायामृतप्रकाशः

जीवशब्देन चिन्मात्रं विवक्षितं भेदविशिष्टो वा । नाद्य इत्याह ।। जीवशब्देनेति ।।  उक्तदोषादिति ।। श्रुत्यादौ तस्य सर्वज्ञत्वेन प्रतीतत्वादिति भावः । न द्वितीय इत्याह ।। अविद्ययेत्यादिना ।। कल्पितभेदस्य कल्पितभेदविशिष्टस्य ।। अन्योन्येति ।। अविद्यासिद्धौ तदवच्छिन्नतया तत्प्रतिबिम्बिततया वा कल्पितभेदस्य जीवस्य सिद्धिस्तत्सिद्धौ च तदाश्रिततयाऽविद्यासिद्धिरित्यन्योन्याश्रयादित्यर्थः ।। तद्वदिहेति ।। तत्र व्यक्ति-भेदान्नान्योन्याश्रयः । अत्र त्वज्ञानव्यक्तेर्जीवव्यक्तेश्चैकत्वादन्योन्याश्रयः स्यादेवेत्यर्थः । ननु बीजाङ्कुरादिस्थलेऽपि न व्यक्तिभेदः तत्तद्बीजव्यक्तयस्तत्तदङ्कुरव्यक्तयश्च सन्ताननिरूपकाः । बीजपरम्परा अङ्कुरपरम्परा च सन्तानः । तथा च सन्तानिव्यक्तिभेदादन्योन्याश्रयाभावेऽपि सन्तानद्वयविवक्षयान्योन्याश्रयोऽस्त्येवेत्यत आह ।। सन्तानीति ।। न ह्येवं प्रकृत इति भावः । आकाशे महाकाशे । महाकाशमुपलक्ष्य काकवद्व्यावर्तयित्वा ।। तेनेति ।। पाश्चात्यः घटावच्छिन्नाकाश इत्युच्यत इत्यर्थः । तत्र संमतिमाह ।। स्वेनेति ।। महाव्योमि्न स्वेन कल्पिते देशे एकदेशे घटादिकं सम्बद्धम् ।

ननु जीवसिद्धावविद्यासिद्धिरिति नाङ्गीकृतमित्यत उक्तं निराश्रयेति । घटाकाशसिद्धिं विनापि घटासिद्धिवत् जीवसिद्धिं विनाऽविद्यासिद्धेरभावादित्यर्थः । दृष्टान्तोऽप्यसम्प्रतिपन्न इत्याह ।। त्वन्मत इति ।। अनित्यद्रव्यं च भावत्वे सत्यात्मसम्भूतत्वेन सिद्धमिति ध्येयम् । तथा च निरंशेऽप्याकाश इत्युक्तमसदिति भावः । स्वतः घटादिसम्बन्धं विना । जीवस्त्वज्ञानसम्बन्धं विना न सिद्ध इति भावः । अयं अन्योन्याश्रयः । कारिकां व्याचष्टे ।। अज्ञानेति ।। न हीति ।। किञ्चिदुपकाराभावे तदधीनताया एव मृषात्वादिति भावः ।। द्रव्यत्वेति ।। द्रव्यत्वस्य जातित्वेनानादित्वेऽपि गुणवत्वरूपव्यञ्जकप्रयुक्तमित्युच्यते तार्किकमते एवं जीवत्वमज्ञानप्रयुक्तमित्यर्थः । तस्यैव प्रयुक्त्यादेरेव । किं च विषमोऽयं दृष्टान्त इत्याह ।। द्रव्यत्वादाविति ।। न त्विति ।। यद्यपि गुणवत्त्वमपि द्रव्यत्वाधीनमेव तथापि द्रव्यत्वस्य जातिरूपत्वेनाखण्डत्वात्तत्र व्यञ्जकं गुणवत्त्वं गुणवत्त्वस्योपाधित्वेन तत्राखण्डजातेरभावात्तदव्यञ्जकं द्रव्यत्वमिति तार्किकसिद्धान्त इत्यवधेयम् । तथा च तत्र नान्योन्यप्रयुक्तत्वमिति भावः ।

नन्वेवं प्रकृतेऽपि जीवत्वमेवाज्ञानप्रयुक्तं नाज्ञानं जीवत्वप्रयुक्तमिति नान्योन्याश्रय इत्यत आह ।। इह त्विति ।। विभागस्येति ।। विच्छेदपक्षाभिप्रायेणेदम् । अविद्या आदौ निरंशचैतन्यं सम्बध्य विभागं सम्पाद्य जीवत्वं सम्पादयतीत्यङ्गीकारात् ।। अन्योन्या-रोहणादिकमिति ।। एकदैवेति शेषः । अन्यथा कालभेदेनेष्टापत्तिः स्यादिति ध्येयम् । ननु प्रमेयत्वाभिधेयत्वयोरन्योन्यवृत्तित्वेऽपि नान्योन्याश्रय एवमिहापीत्यत आह ।। न चेति ।। न हीत्यर्थः । येनादोषः स्यादिति भावः ।। अन्यथेति ।। अन्योन्यापेक्षाया अप्रमि-तत्वेऽप्यदोषत्वाङ्गीकार इत्यर्थः । अन्योन्याश्रयपरिहाराय जीवत्वप्रयोजकमज्ञानं जीवाश्रिता-ज्ञानकल्पितं चेच्चक्रमम् । अज्ञानसिद्धौ जीवसिद्धिस्तत्सिद्धौ तदाश्रिताज्ञानसिद्धिः तत्सिद्धौ चाज्ञानसिद्धिरिति । अज्ञानान्तरकल्पने त्वनवस्थेत्यर्थः । अनवस्थापरिहारमाशङ्क्य निराकरोति ।। न चेति ।। सिद्धविषयेति ।। अनन्यथासिद्धवस्तुविषयेत्यर्थः । ननु ब्रह्माभिन्ने जीवेऽहमज्ञ इत्यनन्यथासिद्धाज्ञानप्रतीत्यन्यथानुपपत्तेरियं परम्पराऽङ्गीकार्येति तत्राह ।। अहमज्ञ इतीति ।। किं चाज्ञानस्य न जीवाश्रितत्वं युक्तमित्याशयेनाह ।। किं चेति ।। जीवेश्वराभ्यामिति ।। जीवस्य जीवेन ईश्वरस्य चेश्वरेण कल्पितत्व इत्यर्थः ।। ब्रह्मजीवेति ।। जीवेश्वरयोरिति वर्तते । जीवस्य ब्रह्मकल्पितत्वे ब्रह्मणो जीवकल्पितत्व इत्यर्थः ।। तत्कल्पकस्येति ।। कल्पनाया अज्ञानकार्यत्वादिति भावः । दौर्घट्यं अन्योन्याश्रयादिदूषणजातेन दुर्घटत्वम् । तत्रेत्यतः पूर्वं तथात्व इति शेषः । तत्र दुर्घटा-विद्यायाम् ।। अयोगादिति ।। तथात्वे सुघटत्वापत्त्या दुर्घटत्वाभावादिति भावः ।। निराश्रयत्वेति ।। दौर्घट्यस्य भूषणत्वादिति भावः ।। प्रतीतीति ।। अस्यास्मिन्न-ज्ञानमिति प्रतीत्यनुसारेणाश्रयविषयाद्यङ्गीकारे इत्यर्थः ।। अहमर्थेति ।। तथा च जीवाश्रितत्वं त्याज्यं अहमर्थाश्रितत्वानुभवादिति भावः ।। जडेति ।। आवरणकृत्याभावेन जडविषयकाज्ञानानङ्गीकारवादोऽपि त्याज्यः । घटं न जानामीत्यनुभवादित्यर्थः । अविद्याया दुर्घटत्वस्य भूषणत्वाङ्गीकारे दूषणान्तरमाह ।। अनादित्वेति ।। अविद्याया अविद्यातिरिक्त-कल्पितत्वाङ्गीकारेऽन्योन्याश्रयानवस्थादिदोषेणानुपपन्नत्वेऽभिहितेऽनादित्वान्न दोष इत्येवं तत्रानुपपत्तिपरिहारः क्रियमाणोऽनुपपन्नः स्यात् । अनुपपत्त्यादौ दौर्घट्यस्य भूषणत्वात् अनुपपत्तिपरिहारे च सुघटत्वापातादिति भावः ।

।। प्रकृतीत्यादि ।। अयमर्थः – साङ्ख्येन सदेव सोम्येत्यादिवाक्ये प्रकृतिरेव जग-दुदयादिकारणत्वेन प्रतिपाद्येत्यभिहिते ‘‘ईक्षतेर्नाशब्द’’मिति त्वया दूषिते सति साङ्ख्य-स्योत्तरापरिस्फूर्तौ अस्मान्प्रति त्वद्वत् त्वां प्रति तेनापि प्रकृतेर्दौर्घट्यं भूषणमिति सुवचत्वेन तव तन्मतनिरासायोगात् । तथा बौद्धेनापि संवृतेरेव जगत्कारणत्वेऽभिहिते त्वद्दूषणेन संवृतावनुपपन्नायां सत्यां तस्योत्तरास्फूर्तौ दौर्घट्यं भूषणमित्युक्त्वा सोऽपि कृती स्यात् । अतस्तव तन्निरासायोगादिति । विश्रान्तिरुपशमः । तमसि अज्ञानविषये । तदेव विशदयति ।। नेति ।। तथा चाज्ञानविषयकप्रश्नाभावे अज्ञानदौर्घट्यमेव हेतुरिति भावः । एतेने-त्युक्तमेव विशदयति ।। न हीति ।। अज्ञमज्ञानवन्तं प्रति अप्रश्नः अज्ञानस्य दुर्घटत्वान्न भवति किन्तु ज्ञातुरेव तद्वक्तृत्वात् वक्तुरेव प्रष्टव्यत्वात् । अज्ञस्य च ज्ञातृत्वाभावेन वक्तृत्वायोगादेव न तं प्रति प्रश्न इत्यर्थः । ननु अज्ञानस्य दुर्घटत्वेन प्रश्नाभावे किं बाधकमित्यत आह ।। ज्ञानमिति ।। ज्ञानाज्ञानयोरभेदे केनचिदुक्ते ज्ञानाज्ञानयोः कथमभेदो, विरोधादिति तं प्रति विरोधोद्भावं न स्यात् । दुर्घटत्वेनाज्ञानस्य प्रश्ना-विषयत्वादिति भावः । ननु तर्ह्यज्ञं प्रत्यप्रश्नोऽज्ञानस्य दौर्घट्यान्न भवतीति चेत्तर्हि किन्निमित्त इति पृच्छति ।। किन्त्विति ।। उत्तरमाह ।। ज्ञातुरेवेति ।। वक्तुरेव च प्रष्टव्यत्वादज्ञस्य च ज्ञातृत्वाभावेनावक्तृत्वान्न तं प्रत्यप्रश्न इति भावः । अज्ञानस्य वाचस्पत्युक्तजीवाश्रितत्वभङ्गविवरणम् ।

न्यायामृतसौगन्ध्यम्

नन्वस्तु जीवाश्रितमेवाज्ञानमिति चेन्न । जीवो हि तत्प्रतिबिम्बितचैतन्यं वा तदवच्छिन्नचैतन्यं वा तत्कल्पितभेदं वा स्यात् । सर्वथा अन्योन्याश्रयात् । नन्वन्योन्याश्रयः उत्पत्तौ ? ज्ञप्तौ ? स्थितौ वा । नाद्यः । उभयोरनादित्वात् । न द्वितीयः । अज्ञानस्य चिद्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । तृतीये परस्पराश्रितत्वेन वा परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न, उभयस्याप्यसिद्धेः । अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेऽपि चिति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावादिति चेन्न । स्वप्रकाशे चिन्मात्रे अज्ञानाश्रयतायाः निराकृतत्वात् । जीवस्य दृश्यत्वेन च अज्ञाना-श्रयत्वावश्यकत्वात् । अत एवाविद्याश्रितत्वतदधीनस्थितिकत्वयोरावश्यकत्वाच्च । अन्यथा शुद्धचिद्गतमेवाज्ञानमिति स्यात् ।

एतेन समानकालीनयोरपि जीवाज्ञानयोरवच्छेद्यावच्छेदकभावमात्रेणान्योन्याधीनत्वोपपत्तिः घटतदवच्छिन्नाकाशयोरिवेति निरस्तम् । घटाकाशस्य घटाश्रितत्वेऽपि घटस्याकाशाधीनत्वा-भावेन दृष्टान्तासिद्धेः ।

किञ्च जीवेश्वरयोर्जीवेश्वराभ्यां कल्पितत्वे आत्माश्रयः, ईश्वर(ब्रह्म)जीवकल्पितत्वे चान्योन्याश्रयोऽतस्तत्कल्पकस्य शुद्धस्य ब्रह्मणोऽज्ञानमावश्यकम् । एतेन जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वेनैतद्विकल्पानवकाश इति निरस्तम् । जीवेशकल्प-कायास्तस्या एव जगत्कर्तृत्वापत्या निरीश्वरवादापातादिति ।

।। इति अज्ञानस्य जीवाश्रितत्वभङ्गः ।।