प्रतिकूलतर्कहताश्चैते

३५. मिथ्यात्वहेतूनां प्रतिकूलतर्काः

न्यायामृतम्

प्रतिकूलतर्कहताश्चैते । तथा हि– यदि विश्वं कल्पितं स्यात्, तदा साधिष्ठानादिकं स्यात् । भ्रान्तेस्सदृशं सत्यं चाधिष्ठानं प्रधानं दोषमज्ञानं बाधकज्ञानं द्रष्टारं देहेन्द्रियादिकं च विनाऽयोगात् । निस्सामान्ये निर्विशेषे चात्मनि अधिष्ठानत्वे तन्त्रस्य सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्या भावात् । उक्तं हि–

अधिष्ठानस्य कार्त्स्येन ज्ञानेऽज्ञाने च न भ्रमः ।

ज्ञाताज्ञातविभागस्तु निर्विशेषे न युज्यते ।। इति ।

ननु न सामान्यज्ञानं सद्विशेषाज्ञानं च तत्र तन्त्रम्, गौरवात् । किन्तु स्वरूपज्ञानं विशेषाज्ञानं च, लाघवात् । तच्च स्वप्रकाशे निर्विशेषे चात्मन्य-स्तीति चेन्न । त्वन्मतेऽपि भ्रान्तेस्संस्कारादित्रयजन्यत्वात् । सामान्याकारा ज्ञाने च संस्कारानुद्बोधात् । असद्विशेषाज्ञानस्य च बाधकालेऽपि सत्त्वात् । वल्मीके स्थाणुत्वभ्रमनिवर्तकस्यापि पुंस्त्वभ्रमस्य वल्मीकत्वप्रमानिवर्त्यत्वे-नान्ततो भ्रमकालाज्ञाताधिष्ठानविशेषप्रमां विना भ्रमानिवृत्तेश्च । नन्वथ भ्रम विरोधिज्ञानाभावस्तत्र तन्त्रं, न तु विशेषाज्ञानम् । विश्वभ्रमोपादानाज्ञानस्य च श्रवणादिजन्यमात्ममात्रविषयं वृत्तिज्ञानं विरोधि न तु चिद्रूपज्ञानमिति चेन्न । त१स्याविद्याविषयभङ्गे निरसिष्यमाणत्वात् ।

किञ्चात्मानात्मनोर्दृग्दृश्यत्वात्मत्वानात्मत्वादिना भेदज्ञानान्नाधिष्ठानाध्यस्त -भावः । उक्तं हि त्वयैव–

तत्तेदन्ते स्वतान्यत्वे त्वत्ताहन्ते२ परस्परम् ।

प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः ।। इति ।।

स्वयमात्मेति पर्ययौ’ इति च । अपि चाधिष्ठानतिरोधानं विनाऽध्यासा-सम्भवस्य तवापि सम्मतत्वात् प्रकाशमात्रस्वभावस्य चात्मनः तिरोधाने प्रकाशनिह्नवेन कथं तदधीनप्रकाशस्याविद्यादेरध्यस्तस्य प्रकाशः । किञ्च घटाद्य- नुविद्धत्वेनाप्रतीतस्यात्मनः कथं तदधिष्ठानत्वम् । न च ‘सन्घटः’ इति ‘स्फुरति घटः’ इति चात्मा तदनुविद्धतया भातीति युक्तम् । चाक्षुषादिज्ञाने रूपादिहीनात्माप्रतीतेरित्युक्तत्वात् । न च स्वप्रकाशसदर्थभूतं घटाधिष्ठानं चैतन्यं स्वत एव भातीति युक्तम् । घटस्यापि तत्सम्बन्धेन स्फुरणसम्भवे वृत्तिवैयर्थ्यात् । घटः स्फुरतीत्यस्य च स्फुरणानुभवत्वेन घटानुभवत्वायोगात् ।

अद्वैतसिद्धिः

ननु– मिथ्यात्वानुमानं प्रतिकूलतर्कपराहतम् । तथा हि विश्वं यदि कल्पितं स्यात्, साधिष्ठानं स्यात् । न चैवम्, सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्याधिष्ठानत्वप्रयोज-कस्य निर्विशेषे निस्सामान्ये च ब्रह्मण्यसम्भवादिति चेन्न । स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याधिष्ठानत्वप्रयोजकत्वेनाज्ञातविशेषवत्त्वस्याप्रयोजकत्वात् । तथा च नि-स्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात् परिपूर्णत्वानन्दत्वादिना चाज्ञाना-दधिष्ठानत्वमुपपन्नम् । वस्तुतस्तु कल्पितसामान्यविशेषवत्त्वं ब्रह्मण्यपि सुलभमेव । अकल्पितसामान्यविशेषवत्त्वं चाप्रसिद्धम् । न च तत्कल्पनेऽन्योन्याश्रयः । कल्पित-सामान्यविशेषाणां प्रवाहानादित्वात् । सत्त्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्य-त्वात् । परिपूर्णानन्दत्वादीनां च विशेषत्वात् । अत एव सामान्याकारज्ञानं विना संस्कारानुद्बोधात् कथमध्यास इति न वाच्यम् । सदात्मना स्वरूपज्ञानस्यैव सामान्य-ज्ञानत्वात् । न ह्यध्यसनीयं सदात्मना न भाति । एतावानेव विशेषः यदधिष्ठानं स्वत एव तदात्मना भाति । अध्यसनीयं तु तत्सम्बन्धात् ।

ननु अधिष्ठानतिरोधानं विना भ्रमासम्भवः । प्रकाशरूपतिरोधाने तु तदध्यस्ताविद्यादेः प्रकाशानुपपत्तिरिति चेन्न । एकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाशसम्भवात् । तदुक्तं वार्त्तिककारपादैः–

यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम् ।

तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् ।। इति ।

न च बाधकालेऽपि सद्विशेषाज्ञानमस्तीति वाच्यम् । परिपूर्णानन्दत्वादेः सत एव विशेषत्वेन तदा तदज्ञानाभावात् । धर्मत्वमात्रस्यैव कल्पितत्वात् । यद्वा, भ्रमविरोधि ज्ञानाभाव एव तन्त्रम् । न तु विशेषाज्ञानम् । विश्वोपादानगोचराज्ञानस्य श्रवणादि-जन्यमात्ममात्रविषयकं वृत्तिरूपं ज्ञानं विरोधि, न तु चिद्रूपं स्वतःसिद्धं ज्ञानम् । भ्रमविरोधिनश्च वृत्तिरूपस्य ज्ञानस्येदानीमभावोऽस्त्येव । नन्वात्मानात्मनोर्दृग्दृश्यत्वात्मा-नात्मत्वादिना भेदज्ञानात्कथमध्यस्ताधिष्ठानभाव इति चेन्न । इदमनिदं न भवतीति पुरोवर्त्त्यपुरोवर्तिनोर्भेदग्रहेऽपीदं रजतमित्यध्यासवत् सन् घट इत्याद्यध्यासो भविष्यति । न हि रूपान्तरेण भेदग्रहो रूपान्तरेणाध्यसविरोधी । सन् घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटाद्यनुविद्धतया भानान्न तस्य घटाद्यध्यासाधिष्ठानताऽनुपपत्तिः । सद्रूपेण च सर्वज्ञान-विषयतोपपत्तेर्न रूपादिहीनस्याप्यात्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिः ।

न्यायामृततरङ्गिणी

विश्वमिति ।। मिथ्यात्वानुमाने यः पक्षः स एवेह विश्वशब्देनाभिमतः ।। साधिष्ठानेति ।। सामान्यतो ज्ञातत्वे सति विद्यमानविशेषवत्तयाऽज्ञायमानधर्मिमत् स्यादित्यर्थः । आदिपदेन प्रधानादिकम् । अत्र च प्रत्येकं तर्का अभिमता इति न वैयर्थ्यमिति ध्येयम् । प्रथमेऽप्रयोजकत्वं निरस्यति– भ्रान्तेरिति ।। सदृशमित्यधि- ष्ठानेन सम्बध्यते । सत्यमित्यधिष्ठानादिना । सत्यत्वं च कल्पिताधिकसत्ताकत्वम् । अतो न दृष्टान्तासिद्धिः । आदिशब्देन देशकालादृष्टादि । यथाश्रुते प्रथमतर्के आपाद्य- स्येष्टत्वं परिहरति– निःसामान्य इति ।। कार्त्स्न्येनेति ।। विशेषवत्त्वेनापीत्यर्थः ।। अज्ञान इति ।। सामान्यतोऽपीत्यर्थः ।। ज्ञातेति ।। सामान्यविशेषाभ्यामिति शेषः ।। तच्चेति ।। स्वरूपज्ञानं स्वप्रकाशत्वाद्विशेषाज्ञानं निर्विशेषत्वादस्तीत्यर्थः ।। संस्कारेति ।। संस्कारसम्प्रयोगदोषरूपकारणत्रयजन्यत्वादित्यर्थः ।

ननु भ्रमस्य संस्कारजन्यत्वमधिष्ठानस्वरूपाज्ञानजन्यत्वेनापि निर्वक्ष्यतीत्यत आह– सामान्येति ।। असदिति ।। तथा च बाधकालव्यावृत्तं विशेषाज्ञानं तथा वक्तव्यम् । तच्च सद्विशेषाणामेवेत्यर्थः । ननु न सत्सामान्यविशेषज्ञानाज्ञाने भ्रमहेतू । सत्त्वांशप्रवेशेऽप्रसिद्धेः गौरवाच्च । कल्पितसामान्यविशेषवत्त्वं च ब्रह्मण्यपि सुलभमेव । न च तत्कल्पनेऽन्योन्याश्रयः । कल्पितसामान्यविशेषाणां प्रवाहा-नादित्वात् । सत्त्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वात् । परिपूर्णानन्द-त्वादीनां च विशेषत्वात् । अत एव संस्कारोद्वोधोऽपीति चेन्मैवम् । न ह्यधिष्ठान चिन्मात्रस्य सत्त्वपरिपूर्णानन्दत्वादीनां निर्विशेषब्रह्मवादे विशेषोऽस्ति । येनाधिष्ठान स्फुरणेऽपि तेषामज्ञानम् । तस्मादधिष्ठानज्ञाने सति न विशेषाज्ञानं, तस्मिंश्च नाधिष्ठानज्ञानमित्युभयथाऽपि न भ्रम इति भावः ।।

वल्मीक इति ।। प्रथमं वल्मीके स्थाणुत्वभ्रमः । अनन्तरं तत्रैव पुंस्त्वभ्रमः । अनन्तरं तत्रैव वल्मीकत्वप्रमा । तया प्रमया प्राचीनं भ्रमद्वयं निवर्तते । प्रमायाः स्वविरोधिभ्रममात्रनिवर्तकत्वादित्यर्थः ।। अन्तत इति ।। चरमं गत्वाऽपीत्यर्थः ।। भ्रमेति ।। पुंस्त्वज्ञानस्य वल्मीके स्थाणुत्वभ्रमनिवर्तकत्वेऽपि भ्रममात्रनिवर्तकत्वं तत्र तस्य नास्त्येव । पुंस्त्वज्ञानस्यापि वल्मीके भ्रमत्वात् । तेन च तदनिवर्त-नादिति भावः । नन्वधिष्ठानगतविशेषप्रमैव भ्रमविरोधिनीति तदभाव एव हेतुः स्यादित्यत आह– विश्वभ्रमेति ।। अस्येति ।। मुख्याज्ञानविरोधिन्या वृत्तेः मुख्यज्ञानत्वस्य चिद्रूपज्ञानाविरोधिनो वा अमुख्याज्ञानत्वस्य वाऽपातादित्यादेर्वक्ष्य-माणत्वादित्यर्थः ।। तत्तेदन्ते इति ।। एतच्च दृष्टान्तार्थमुक्तम् । ननु स्वत्वान्यत्वयो- र्भेदग्रहेऽपि नात्मानात्मनोस्तद्ग्रह इत्यत आह– स्वयमिति ।। प्रकाशमात्रेति ।।

नन्वेकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाश उपपत्स्यते । तदुक्तं वार्तिके–

यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम् ।

 तमप्यपह्नुतेऽविद्या न ज्ञानस्यास्ति दुष्करम्’ ।।

इतीति शङ्कापरिहारार्थमुक्तम् मात्रेति ।। प्रकाशमात्रस्वभावे निर्विशेष आत्मनि सत्त्वानन्दयोः प्रकाशाप्रकाशयोरयोगादिति भावः ।। घटादीति ।। इदमंशानुविद्धतया रजतस्येवात्मा घट इति तदनुविद्धतया प्रतीत्यभावादिति भावः ।। सन्निति ।। सत्स्फुरणयोरात्मरूपत्वादित्यर्थः ।। चाक्षुषादीति ।। ‘ध्वस्तो घटः, रूपी घटः’ इत्यादिवद् घट एव सत्ता प्रतीयते । न तु सदनुवेधो घटस्येति भावः । ननु रूपादि हीनस्याप्यात्मनः सद्रूपेण चाक्षुषादिज्ञानविषयता भविष्यतीति चेन्न । घटज्ञानादेव मोक्षापातादित्युक्तत्वात् । निर्विशेषे प्रकारभेदाभावाच्च । तदिदमुक्तमित्युक्तम् इत्युक्तत्वादिति ।। ननु नात्मा चाक्षुषादिज्ञाने भातीति ब्रूमः, किन्तु स्वत एव सन्निति स्फुरति तदनुविद्धतया च घटोऽपीति शङ्कां परिहरति– न चेति ।। घटस्येति ।। प्रकाशमानचैतन्यसम्बन्धादिति भावः ।। वृत्तीति ।। न चावरणनिवृत्त्यर्थं वृत्तिरिति वाच्यम् । तथात्वेऽधिष्ठानप्रकाशायोगात् । प्रकारभेदस्तु निरस्त इति भावः ।। घट इति ।। यथा देवदत्तः पचतीत्यत्र देवदत्तकर्तृकपाकः प्रतीयते न तु पाकानुविद्धतया देवदत्तः तथा घटः स्फुरतीत्यत्रापि क्रियाश्रयभूतघटकर्तृकस्फुरणं प्रतीयते, न तु स्फुरणानुविद्धतया घट इत्यर्थः ।

न्यायामृतकण्टकोद्धारः

‘‘अधिष्ठानं च सदृशम्’’ इति तत्त्वनिर्णयटीकानुसारेण अनुकूलतर्काभावमुपपाद्य प्रतिकूलतर्कमुपपादयितुं प्रतिजानीते प्रतिकूलतर्केति । यदीति । अत्र विश्वशब्दो विप्रतिपत्त्युक्तधर्मिपरः । तेनांशे विपर्ययपर्यवसाने न बाधसिद्धसाधनते इति द्रष्टव्यम् । भ्रान्तेरिति । अत्र सदृशं सत्यमिति प्रधानाधिष्ठानयोरुभयोर्विशेषणम् । सादृश्यं चाधिष्ठान प्रधानयोरिति ज्ञातव्यम् । अत्र प्रधानत्वं भ्रमप्रकाराश्रयधर्मित्वं वा भ्रमकारण-संस्कार विषयतावच्छेदकधर्मवत्त्वं वेति द्रष्टव्यम् । अधिष्ठानस्येति । अत्र कार्त्स्न्ये-नेत्यस्यासाधारणधर्मरूपेणेत्यर्थः । अन्यथाऽसम्भवदुक्तिकं स्यात् । न हि भ्रमनिवृत्तिकाले कार्त्स्न्येन ज्ञानं सम्भवति । अज्ञाने । सर्वथेति शेषः । ननु तर्हि केनचिद्रूपेण ज्ञानं, केनचिद्रूपेण न ज्ञानमित्यस्तु । तथा चाधिष्ठानत्वं भविष्यतीत्यत आह ज्ञाताज्ञातेति । न च वस्तुतो निर्विशेषत्वेऽपि कल्पितसामान्यविशेषवत्त्वादधिष्ठानत्वं भविष्यतीति वाच्यम् । अन्योन्याश्रयत्वात् । अधिष्ठानत्वे सिद्धे कल्पितसामान्यविशेषवत्त्वसिद्धिः । तत्सिद्धौ चाधिष्ठानत्वसिद्धिरिति ।

लाघवादिति । सद्विशेषाज्ञानत्वापेक्षया विशेषाज्ञानत्वस्य सदसद्विशेषसाधारणतया सामान्यतया सत्पदार्थाघटिततया च लघुत्वादिति भावः । सामान्याकाराज्ञाने चेति । अधिष्ठानज्ञानस्य संस्कारोद्बोधकतयैव प्रयोजकत्वादिति भावः । न च सदात्मना स्वरूप ज्ञानमेव सामान्यज्ञानमिति वाच्यम् । किमतोऽन्यद् विशेषज्ञानं यद् भ्रमनिवर्तकम् ? सत्त्वस्य ब्रह्मस्वरूपलक्षणत्वेन तद्भानस्यैव विशेषज्ञानत्वात् । परिपूर्णानन्दत्वादिना ज्ञानं विशेषज्ञानमिति चेन्न । परिपूर्णानन्दत्वादेः सद्रूपब्रह्माभिन्नत्वेन सत्त्वानतिरेकात् । निर्विशेष आकारद्वयायोगात् । ब्रह्मातिरिक्तत्वे मिथ्यात्वेन तस्य भ्रमनिवर्तकत्वायोगात् । वेदान्तानाम् अखण्डार्थत्वेन तेन रूपेण ज्ञानजनकत्वासम्भवाच्च । तस्मान्न सामान्याकार ज्ञानम् । असद्विशेषेति । तथा चातिप्रसङ्गितया न भ्रमप्रयोजकत्वमिति भावः ।

किञ्चासद्विज्ञेषाज्ञानस्य भ्रमप्रयोजकत्वेऽसद्विशेषज्ञानं तन्निवर्तकमिति वाच्यम् । तच्चायुक्तम् । आत्यन्तिकभ्रमनिवृत्तेरधिष्ठानगतविशेषप्रमानिवर्त्यत्वात् । न च वल्मीके स्थाणुत्वभ्रमनिवृत्तौ पुंस्त्वभ्रमनिवर्त्यायां व्यभिचारः । तस्या आत्यन्तिकभ्रमनिवृत्तित्वा भावादित्याह– वल्मीक इति । चिद्रूपज्ञानापेक्षया वृत्तिज्ञानस्यानधिकविषयत्वे तद्विरोधि, नेदं विरोधीति वक्तुमशक्यम् । भ्रमाविरोधित्वेऽज्ञानाविरोधित्वापत्त्या ज्ञानत्वं च न स्यादित्यादिवक्ष्यमाणदूषणगणादयुक्तमेतदित्यभिप्रायेण परिहरति– अस्येति ।

किञ्चेति । नन्विदमनिदं न भवतीति पुरोवर्त्त्यपुरोवर्तिनोर्भेदग्रहेऽपि इदं रजत-मित्यध्यासवत् सन् घट इत्यध्यासो भविष्यति । न च रूपान्तरेण विरुद्धधर्माध्यासो रूपान्तरेणाध्यासविरोधी नेति वाच्यम् । प्रकृतेऽपि तुल्यत्वादिति चेन्न । येन रूपेणाविरुद्धधर्माध्यासः तेन रूपेणारोपो न भवति । न हीदमनिदं न भवतीत्यादिज्ञाने इदमनिदम् इत्यारोपो दृष्टचरः । प्रकृते च प्रत्यक्चैतन्यमस्मत्प्रत्ययविषयत्वेन वा दृक्त्वेन वा सत्त्वेनानृतविरोधित्वरूपेण वा भासते । तस्मिंश्च तथा भासमाने इदन्त्वेन

दृश्यत्वेनानृतत्वेन निश्चितस्यारोपो न सम्भवति । रजतस्यानिदन्त्वेऽपि तथा निश्चया-भावादारोपो युक्तः । न च चैतन्येऽपि तथा प्रकाशोऽसिद्ध इति वाच्यम् । घटः प्रकाशते, घटः सन्, अज्ञोऽस्मि इत्यादौ चैतन्यस्योक्तरूपेण घटादेरुक्तरूपेण निश्चयस्यानुभव-सिद्धत्वात् । तथा च विरुद्धधर्मवत्त्वेन निश्चितयोर्नाध्यस्ताधिष्ठानभाव इति भावः ।

अपि चेति । अत्राधिष्ठानतिरोधानं नामाधिष्ठानयाथात्म्यादर्शनम् । न तु सर्वथाऽ-प्रकाशः । तथात्वे क्वापि भ्रमो न स्यात् । सर्वत्र सामान्येनाधिष्ठानप्रकाशात् । एवं तर्हीदं निःसामान्येत्यादिना पुनरुक्तमिति न वाच्यम् । तत्राधिष्ठानत्वखण्डने तात्पर्यम् । प्रकृते तु आरोपान्यथानुपपत्त्याऽधिष्ठानतिरोभावो वक्तव्यः । स च सर्वथाऽप्रकाश एव । केनचिद्रूपेण प्रकाशः केनचिद्रूपेणाप्रकाश इत्येवंरूपतिरोभावस्य निर्विशेषेऽसम्भवात् । तथा चाविद्यादेः प्रकाशो न स्यात् । सर्वथाधिष्ठानाप्रकाशे भ्रमोऽपि न स्यादित्यत्र तात्पर्यम् । तदनुविद्धत्वेन प्रतीतत्वं तदधिष्ठानत्वव्यापकम् । एवं च व्यापकाभावाद् व्याप्याभाव इति प्रकारान्तरेणाधिष्ठानत्वं निराकरोति– किञ्चेति । चाक्षुषादिज्ञान इति । इदं च पुरैवोपपादितम् ।

न्यायामृतप्रकाशः

यदि विश्वमिति ।। विश्वमिथ्यात्वानुमाने यः पक्षः स एव विश्वशब्देनाभिप्रेतो द्रष्टव्यः । ‘साधिष्ठानादिकम्’ इत्यत्रादिपदेन प्रधानादिकं ग्राह्यम् । तथा च यदि विश्वं कल्पितं स्यात्तदा साधिष्ठानं स्यात्, सत्यप्रधानं स्यात्, सत्यसादृश्योपेतं स्यात्, सत्यदोषो पेतं स्यात्, सत्याज्ञानोपेतं स्यात्, सत्यबाधकज्ञानोपेतं स्यात्, सत्यद्रष्ट्रुपेतं स्यात्, सत्य-देहेन्द्रियादिसापेक्षं स्यादिति प्रत्येकं तर्का अभिमता इति न वैयर्थ्यमिति द्रष्टव्यम् । तर्केऽ-प्रयोजकतां परिहरति– भ्रान्तेरिति ।। सदृशं अधिष्ठानप्रधानयोस्सादृश्यं सत्यमिति सर्वत्र सम्बध्यते । आदिपदेन देशकालादृष्टादिकं ग्राह्यम् । इदं प्रतिज्ञावाक्यम् । उत्तरत्रैकैक-स्तर्कस्सम्यगप्रयोजकतादिपरिहारेणोपपाद्यते । तत्रादौ विश्वं यदि कल्पितं स्यात्तदा साधिष्ठानं स्यादिति तर्कस्तावदुपपाद्यते । (नन्वत्रेष्टापत्तिः । ब्रह्मणोऽधिष्ठनस्य सत्यत्वाङ्गीकारादिति चेन्न । त्वन्मते ब्रह्मणोऽधिष्ठानत्वासम्भवात् । अधिष्ठानत्वे सामान्यतो ज्ञातत्वे सत्यज्ञात-विशेषवत्त्वस्य प्रयोजकत्वात् । ब्रह्मणः सामान्यधर्मोपेतत्वादिना तावत् ज्ञातत्वं न सम्भवति । निस्सामान्यत्वात् । अज्ञातविशेषवत्त्वं च न सम्भवति । निर्विशेषत्वाङ्गीकारादित्याह– निस्सामान्य इति । इति पाठान्तरं क्वचित् दृश्यते ।)

ननु यदि विश्वं कल्पितं स्यात्तदा सत्याधिष्ठानोपेतं स्यादित्ययुक्तम् । सत्यस्यात्म-नोऽधिष्ठानत्वाङ्गीकारादिति चेन्न । सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्वस्याधिष्ठानत्वे तन्त्रत्वात् । त्वया चात्मनि निस्सामान्यविशेषत्वेनाङ्गीकृते सामान्यतो ज्ञातत्वे सत्यज्ञात विशेषत्वानङ्गीकारादित्याह– निःसामान्ये इति ।। उक्तं हीति । ‘अधिष्ठानत्वे तन्त्रभूतं सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्वं ब्रह्मणि नास्ति । निस्सामान्यत्वान्निर्विशेषत्वाच्च’ इत्युक्तं हीत्यर्थः । कार्त्स्न्येन सर्वविशेषवत्त्वेन । अज्ञाने सामान्यतोऽप्यज्ञाने चेत्यर्थः ।। ज्ञातेति ।। सामान्यविशेषाभ्यामित्यर्थः ।। निर्विशेष इति ।। सामान्यधर्मशून्ये विशेषधर्म शून्ये चेत्यर्थः ।

यदुक्तं ब्रह्मणो नाधिष्ठानत्वमिति तदयुक्तम् । त्वदुक्तस्याधिष्ठानत्वेऽतन्त्रत्वादित्याशङ्कते–   नन्विति ।। सद्विशेषेति ।। विशेषाणां सत्त्वं नापेक्षितमिति भावः । तत्र अधिष्ठानत्वे ।। तच्चेति ।। स्वरूपज्ञानं स्वप्रकाशत्वाद्युक्तम् । विशेषाणामभावादेव विशेषाज्ञानं चास्तीत्यर्थः । सामान्यतो ज्ञातत्वमेवाऽधिष्ठानत्वे प्रयोजकम् । न स्वरूपेण ज्ञानम् । कुत इत्यत आह–  त्वन्मतेऽपीति ।। संस्कारादीति ।। संस्कारसम्प्रयोगदोषरूपकारणत्रयजन्यत्वादित्यर्थः । ततः किमित्यत आह– सामान्याकारेति ।। ‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः’ इत्युक्तत्वात्संस्कारोद्बोधार्थं सामान्याकारेण ज्ञातत्वमपेक्षितम् । तथा हि । चाकचक्यादि सादृश्यदर्शनेन प्रधानसंस्कारोद्बोधानन्तरं भ्रमो भवति । ब्रह्मणश्च निस्सामान्यत्वेन सामान्यतो ज्ञातत्वासम्भवान्नाधिष्ठानत्वमिति भावः । तथा सद्विशेषाज्ञानस्यैव भ्रमकारणत्वं वक्तव्यम् । कुत इत्यत आह– असदिति ।। बाधकालव्यावृत्तभ्रमकालीनाधिष्ठानत्वेऽसद्विशेषाज्ञानं न प्रयोजकम् । बाधकालेऽपि असद्विशेषाज्ञानस्यैव सत्त्वेन तदानीमप्यधिष्ठानत्वव्यवहारस्स्याद्, अतस्सद्विशेषाज्ञानमेव तत्र प्रयोजकं, तच्च बाधकाले नास्तीति भावः ।

ननु सद्विशेषाज्ञानस्य भ्रमाधिष्ठानत्वप्रयोजकत्वे सद्विशेषज्ञानं, विशेषप्रमेति यावत्, भ्रमनिवृत्तौ प्रयोजकमित्युक्तं स्यात् । तच्च न सम्भवति । तथा हि । आदौ वल्मीके स्थाणुत्वभ्रमो जातः । अनन्तरं तत्रैव पुंस्त्वभ्रमो जातः । अनेनैव पूर्वभ्रमो निवर्तते । तत्र पुंस्त्वस्यासत्वेन विशेषप्रमाया अभावात् पूर्वभ्रमानिवृत्तिः स्यादित्यत आह– वल्मीक इति ।। तत्र पुंस्त्वभ्रमस्य पश्चात्तनत्वेऽपि न निवर्तकत्वं किं नाम पुंस्त्वभ्रमानन्तरं पुनरयं वल्मीक एवेति यदा वल्मीकत्वप्रमा भवति तदैव तद्भ्रमद्वयं निवर्तते नान्यथेति विशेषप्रमैव बाधकत्वेन भ्रमनिवृत्तौ हेतुरिति सद्विशेषत्वाज्ञानमेवाधिष्ठानत्वे प्रयोजकमिति भावः । यद्यप्युत्तरभ्रमः पूर्वभ्रमनिवर्तको भवति तथापि तस्योत्तरज्ञानत्वेनैव निवर्तकत्वं न तु बाधकत्वेन तन्निवर्तकत्वम् । प्रकृते च तादृशमेव विवक्षितमिति भावः ।

जगद्भ्रमे युक्तं ब्रह्मणोऽधिष्ठानत्वमित्याशेयनाधिष्ठानत्वे प्रयोजकान्तरमाशङ्कते– (नन्विति) ।। अथेति ।। तत्र अधिष्ठानत्वे ।। न त्विति ।। येन निर्विशेषत्वेनाज्ञात विशेषत्वं नास्तीत्यधिष्ठानत्वाभावः स्यादित्यर्थः । ननु नात्र भ्रमविरोधिज्ञानाभावोऽस्ति । अधिष्ठानचैतन्यरूपज्ञानस्यैव विश्वभ्रमविरोधित्वादिति चेत्तत्राह– विश्वभ्रमेति ।। अस्येति ।। चिद्रूपज्ञानस्यैव त्वन्मते ज्ञप्तिरूपमुख्यज्ञानत्वात्तदविरोधिनोऽज्ञानस्य मुख्याज्ञानत्वं न स्यात् । वृत्तेश्च ज्ञायतेऽनया चैतन्यमिति करणव्युत्पत्त्याऽमुख्यज्ञानत्वाङ्गीकारेण तस्या एव वृत्तेर्मुख्या-ज्ञानविरोधित्वाङ्गीकारेण मुख्यज्ञानत्वमेव स्यादित्यादिकं वक्ष्यत इत्यर्थः ।

आत्मानात्मनोर्विरुद्धधर्माधिकरणत्वेन प्रतीयमानत्वान्नानात्मन आत्मन्यध्यास इत्याह– किञ्चेति ।। दृग्दृश्यत्वादिरूपं यदात्मत्वानात्मत्वादिकं तदादिनेत्यर्थः । दृक्त्वरूपं यदात्मत्वं दृश्यत्वरूपं यदनात्मत्वमिति विवेकः । यद्वा, दृक्त्वदृश्यत्वादिना आत्मत्वानात्म त्वादिनेत्यर्थः । आत्मत्वानात्मत्वे विरुद्धे इत्यत्र सम्मतिमाह– उक्तं हीति ।। तत्तेदन्ते इति ।। तद्देशकालसम्बन्धैतद्देशकालसम्बन्धावित्यर्थः । स्वस्य भावः स्वता, अन्यस्य भावोऽन्यत्वं, तव भावस्त्वत्ता, मम भावो मत्ता । प्रतिद्वन्द्वितया प्रतिस्पर्धितया । नन्वात्मत्वानात्मत्वयोर्भेदग्रहः कथमनेन लब्ध इत्यत आह– स्वयमात्मेति ।। पर्ययौ पर्यायौ । तथा च स्वतान्यत्वयोरात्मानात्मरूपत्वाद्भेदेन ग्रहो युक्त इत्यर्थः ।

स्वरूपज्ञानमेवाधिष्ठानत्वे प्रयोजकं, तच्च स्वप्रकाशत्वाद्ब्रह्मणो युक्तमित्यत्र दूषणान्तर-माह– अपि चेति ।। प्रकाशनिह्नवेन प्रकाशापलापेन प्रकाशमात्रस्वभावत्वापगताविति यावत् ।। तदधीनेति ।। आत्मप्रकाशाधीनेत्यर्थः । अविद्यादेः प्रातिभासिकत्वेन प्रतिभास-शरीरत्वादविद्याप्रकाशस्य साक्षिचैतन्यरूपत्वात् तस्याप्रकाशेऽविद्यादेः प्रकाश एव न सम्भव-तीत्यर्थः ।। घटादीति ।। इदं रजतमिति इदमंशानुविद्धतया रजतस्येव आत्मा घट इति तदनुविद्धतया प्रतीत्यभावादित्यर्थः ।। भातीति ।। सत्स्फुरणयोरात्मरूपत्वादिति भावः ।। इत्युक्तत्वादिति ।। रूपी घट इत्यादौ रूपादिकमिव सन्घट इत्यत्रापि सत्ता घटनिष्ठैव प्रतीयते, स्फुरतीत्यत्रापि ज्ञानविषयत्वमेव घटे प्रतीयते न त्वधिष्ठानानुवेध इत्युक्तत्वादिति भावः । ननु चाक्षुषज्ञाने रूपादिहीन आत्मा प्रतीयत एव । घटादेरेव चाक्षुषप्रकाशा-धीनत्वात् । आत्मनस्सदर्थतया स्वत एव भानाङ्गीकारेण चाक्षुषप्रकाशाधीन प्रकाशत्वा-भावाद्युक्तो घटादेस्तदनुवेध इति मन्दाशङ्कामपाकरोति– न चेति ।। तत्सम्बन्धेनेति ।। स्वतः प्रकाशमानात्मसम्बन्धेनेत्यर्थः ।। घट इति ।। घटः स्फुरतीति घटानुभवे घटानु-विद्धत्वेन स्फुरणं प्रतीयत इत्ययुक्तम् । विज्ञायते घट इत्यादाविव स्फुरतीत्यस्यापि घ(ट-ज्ञानानु)टानुव्यवसायरूपत्वेन घटस्फुरणानुभवतया घटानुभवत्वाभावान्न घटानुभवे स्फुरणानु-विद्धतया घटः प्रतीयत इत्यर्थः ।

न्यायकल्पलता

एवं विश्वमिथ्यात्वानुमानानामनुकूलतर्काभावमुपपाद्य प्रतितर्कपराहतिमपि प्रतिजानीते–प्रतिकूलेति ।। विश्वमिति । मिथ्यात्वानुमाने यः पक्षः स एवेह विश्वशब्देनाभिमतः ।। साधिष्ठानेति । सामान्यतो ज्ञायमानत्वे सति विद्यमानविशेषवत्तयाऽज्ञायमानधर्मिकं स्यादित्यर्थः । आदिपदेन प्रधानादिकम् । अत्र च प्रत्येकं तर्का अभिमता इति न वैय्यर्थ्य-मिति बोध्यम् । प्रथमे तर्केऽप्रयोजकत्वं निरस्यति– भ्रान्तेरिति । ‘सदृशम्’ इत्यधिष्ठानेन सम्बध्यते । ‘सत्यम्’ इत्यधिष्ठानादिना । सत्यत्वं च कल्पिताधिकसत्ताकत्वम् । अतो न दृष्टान्तासिद्धिः । आदिशब्देन देशकालादृष्टादि । यथाश्रुते प्रथमतर्के आपाद्यस्येष्टत्वं परिहरति– निःसामान्यमिति ।। कार्स्न्येति विशेषवत्त्वेन । स्वेतरावृत्ति स्ववृत्तिरूपा-साधारणधर्मोपरक्तत्वेनापीत्यर्थः ।। अज्ञान इति । सामान्यतोऽपीत्यर्थः । ज्ञातेति । सामान्यविशेषाभ्यामिति शेषः ।। तच्चेति । स्वरूपज्ञानं स्वप्रकाशत्वात्, विशेषाज्ञानं चास्ति निर्विशेषत्वादित्यर्थः ।। संस्कारेति ।। संस्कारसंप्रयोगदोषरूपकारणत्रयजन्य त्वादित्यर्थः । ननु भ्रमस्य संस्कारजन्यत्वमधिष्ठानस्वरूपाज्ञानजन्यत्वेनापि निर्वक्ष्यतीत्यत आह– सामान्येति ।। असदिति । एवं च बाधकालव्यावृत्तं विशेषाज्ञानं तथा वक्तव्यम् । तच्च सविशेषाणामेवेत्यर्थः ।

ननु स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याधिष्ठानत्वप्रयोजकत्वं न तु सत्सामान्य विशेषज्ञानाज्ञाने भ्रमहेतू । सत्वांशप्रवेशेऽप्रसिद्धेर्गौरवाच्च । कल्पितसामान्यविशेषवत्वं च ब्रह्मण्यपि सुलभमेव । न च तत्कल्पनेऽन्योन्याश्रयः । कल्पितसामान्यविशेषाणां प्रवाहा-नादित्वात् । सत्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वात् । परिपूर्णानन्द त्वादीनां च विशेषत्वात् । सदात्मना स्वरूपज्ञानस्यैव सामान्यज्ञानत्वात्संस्कारोद्बोधः । न ह्यध्यसनीयसदात्मना (न) भाति । एतावानेव विशेषः । यदधिष्ठानं स्वत एव सदात्मना भाति । अध्यसनीयं तु तत्सम्बन्धादिति । मैवम् । न ह्यधिष्ठानभूतचिन्मात्रस्य सत्त्व-परिपूर्णानन्दत्वादीनां निर्विशेषब्रह्मवादे विशेषोऽस्ति । येनाधिष्ठानस्फुरणेऽपि तेषामज्ञानम् । तस्मादधिष्ठानाज्ञाने सति न विशेषाज्ञानम् । तस्मिंश्च नाधिष्ठानज्ञानमित्युभयथापि न भ्रम इति भावः ।

नन्वधिष्ठानवृत्तिविशेषदर्शनस्य तदधिष्ठानभ्रमविरोधित्वे वल्मीके पुंस्त्वभ्रमेण स्थाणुत्वभ्रमो न निवर्तेतेत्याशङ्क्य समाधत्ते– वल्मीक इति । प्रथमं वल्मीके स्थाणुत्वभ्रमः । अनन्तरं तत्रैव पुरुषत्वभ्रमः । ततस्तत्रैव वल्मीकत्वप्रमा । तया प्रमया भ्रमद्वयं प्राचीनं निवर्तते । प्रमाया स्वविरोधिभ्रममात्रनिवर्तकत्वादित्यर्थः ।। अन्तत इति । चरमं गत्वाऽपीत्यर्थः ।। भ्रमानिवृत्तेश्चेति । पुरुषत्वज्ञानस्य वल्मीके स्थाणुत्वारोपनिवर्तकत्वेऽप्यारोपमात्रनिवर्तकत्वं तस्य तत्र नास्त्येव । पुरुषत्वज्ञानस्यापि वल्मीके भ्रमत्वात्तेन च तदनिवर्तनादिति भावः । नन्वधिष्ठानगतविशेषप्रमैव भ्रमविरोधिनीति तदभाव एव भ्रमहेतुः स्यादित्यत आह– विश्व-भ्रमोपादानेति ।। अस्येति । मुख्याज्ञानविरोधिन्या वृत्तेर्मुख्यज्ञानत्वस्य वा मुख्यचिद्रूप ज्ञानाविरोधिनोऽज्ञानस्य चामुख्याज्ञानत्वस्य वाऽऽपातादित्यादेर्वक्ष्यमाणत्वादित्यर्थः ।। तत्ते-दन्ते इति । एतच्च दृष्टान्तार्थमुक्तम् । ननु स्वतान्यत्वयोर्भेदग्रहेऽपि नात्मानात्मनोस्तद्ग्रह इत्यत आह– स्वयमिति ।। प्रकाशमात्रेति । नन्वेकस्यैवानन्दाद्यात्मना तिरोहितस्य सदा प्रकाश उपपत्स्यते । तदुक्तं वार्तिके ।

यत्प्रसादादविद्यादि सिद्ध्यतीव दिवा निशम् ।

तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् ।। इति शङ्कापरिहारार्थमुक्तं मात्रेति ।।

प्रकाशमात्रस्वभावे निर्विशेषे आत्मनि सत्वानन्दयोः प्रकाशाप्रकाशयोरयोगादिति भावः । आत्मा न घटाद्यधिष्ठानं तदनुविद्धत्वेनाप्रतीयमानत्वादियुक्तिमभ्युच्चिनोति– किञ्चेति ।। घटादीति ।। इदमंशानुविद्धतया रजतस्येव, आत्मा घट इति तदनुविद्धतया प्रतीत्य भावादिति भावः । हेत्वसिद्धिमाशङ्क्य निराचष्टे– न चेति । सत्स्फुरणयोरात्मरूपत्वादिति भावः ।। चाक्षुषादीति । इष्टो घटः, प्रध्वस्तो घटः, रूपी घटः, इत्यादिवद् घट एव सत्ता प्रतीयते न त्वधिष्ठानसदनुवेधो घटस्येति भावः । ननु रूपादिहीनस्याप्यात्मनः सद्रूपेण चाक्षुषादिज्ञानविषयता भविष्यतीति चेत् । न । घटज्ञानादेव मोक्षापातादित्युक्तत्वात् । निर्विशेषे प्रकारभेदाभावाच्च । तदिदमुक्तम् इत्युक्तत्वादिति । ननु नात्मा चाक्षुषादिज्ञाने भातीति ब्रूमः, किन्तु स्वत एव सन्निति स्फुरति । तदनुविद्धतया घटोऽपीति शङ्कां निराह– न चेति । घटः स्फुरति, घटः प्रकाशत इत्यकर्मकस्वप्रकाशरूपचिदुल्लेखादिति भावः ।

घटस्यापीति । प्रकाशमानचैतन्यसम्बन्धादिति भावः ।। वृत्तीति । न चावरण-निवृत्त्यर्थं वृत्तिरिति युक्तम् । तथात्वेऽधिष्ठानप्रकाशायोगात् । प्रकारभेदस्तु निरस्त इति भावः । यथा ‘देवदत्तः पचति’ इत्यत्र देवदत्तकर्तृकः पाकः प्रतीयते न तु पाकानुविद्धतया देवदतः तथा घटो न स्फुरणानुविद्धतया प्रतीयते । किं नाम घटे ज्ञानमितिवद्घटः स्फुरति, घटः प्रकाशते इति तद्विषयतया तदाश्रयस्फुरणप्रकाशापरपर्यायज्ञानविषयतया प्रतीयते । एवं च ‘ज्ञातो घटः’ ‘घटं जानामि’ इतिवद्घटज्ञानानुभवः साक्षिणो बहिरस्वातन्त्र्यात् । अन्यथा वृत्तिवैय्यर्थ्यप्रसङ्ग इत्याह– घटः स्फुरतीति ।

न्यायामृतसौगन्ध्यम्

तथा हि । दृश्यं यदि कल्पितं स्यात्तदा साधिष्ठानं स्यात् । न चैवं, सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्वं हि तन्त्रम् । तत्र निर्विशेषे निःसामान्ये ब्रह्मणि च तदभावात् । ननु स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वमेव प्रयोजकं न त्वज्ञातविशेषवत्वमिति चेन्न । स्वरूपेण ज्ञातस्य विशेषेणाज्ञातत्वे हि तन्निष्ठविशेषाज्ञानमादाय पर्यवस्यति । न च पुरुषो न वेति संशयधर्मिणः स्थानादप्यन्यत्र ज्ञातविशेषवत्वमस्तीति वाच्यम् । यन्निष्ठतया ज्ञातं सद् भ्रमनिवृत्तिप्रयोजकं तन्निष्ठतयैव ह्यज्ञातं वाच्यम् । अन्यत्र ज्ञातत्वादिकं हि प्रकृतेऽनुप-युक्तम् । ननु निस्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात्परिपूर्णानन्दत्वादिना चाज्ञानादधिष्ठानत्वमुपपन्नम् । तदुभयं च कल्पितमेव । अकल्पितसामान्यविशेषवत्वं चाप्रसिद्धमिति चेन्न । कल्पितपूर्णानन्दत्वादिविशिष्टस्य मिथ्यात्वेन विश्वाधिष्ठानत्वासम्भवात्, मिथ्याभूतपूर्णानन्दत्वादेस्त्वदभिमतविश्वबाधकश्रुतिजन्यप्रमाविषयत्वासम्भवाच्च । एतेन अज्ञातस्वरूपमेव भ्रमे प्रयोजकं न त्वज्ञातविशेषवत्वम् । ‘सोऽयम्’ इत्यादिभ्रमे तथा दर्शनात् । शुक्तिरूप्यादिभ्रमे प्रयोजकस्याज्ञातत्वस्य विशेषावच्छिन्नत्वेनाज्ञातविशेषवत्वं प्रयोजकमिति ते भ्रमः विशेषस्य हि शुक्तित्वादेर्जडत्वेनाज्ञातत्वासम्भवाद् इति निरस्तम् । अज्ञातस्वरूपस्य केनचिद्रूपेण ज्ञानाभावे ज्ञाताज्ञातविभागहीनत्वेनाधिष्ठानत्वासम्भवात् । शुक्तित्वादिवज्जडत्वावच्छिन्नस्य चैतन्यस्य प्रसक्तप्रकाशस्याज्ञातत्वासम्भवाच्च ‘सोऽयम्’ इत्यशुद्धम् । स्वरूपाज्ञाने हि धर्मिज्ञानाभावेन भ्रमाद्ययुक्तम् । अन्यस्मिन् सोऽयमिति भ्रमस्थलेऽपि बाधकज्ञानविषयीभूतविशेषस्यावश्यकत्वात् । कल्पितसामान्यविशेषयोः सामान्यविशेषान्तरापेक्षत्वेनान्योन्याश्रयाद्यापाताच्च ।

एतेन कल्पितसामान्यविशेषाणां प्रवाहानादित्वान्न दोष इति निरस्तम् । अनवस्थादि दोषदुष्टानां व्यावहारिकत्वासिद्धेः । अत एव कपालादिसामान्ये घटादेरध्यासेऽपि घटादि सामान्ये न कपालादेरध्यासः किन्त्वयवे । तस्यापि स्वावयवे इति तत्तत्सामान्यप्रवाहानादि त्वान्नान्योन्याश्रया इति निरस्तम् । घटकपालादीनां परस्पराध्यासस्य.... कत्वात्प्रकृते-रेवान्यत्रानध्यस्ताया अनाद्याया विश्वाधिष्ठानत्वापत्तेः । एतेन सत्वानन्दत्वादिसामान्य-स्यानादिसंसर्ग एव ब्रह्मणि स्वीकृत इति नान्योन्याश्रयशङ्का । तस्य सादित्वस्वीकारेऽप्य-ज्ञानविषयत्वमेव तदध्यासे सामान्यं नान्यत् । तच्चानाद्येवेति न तदध्यासेऽन्यसामान्यापेक्षेति निरस्तम् । कल्पितधर्मसंसृष्टस्य मिथ्याभूतस्याध्यसनीयानधिकसत्ताकत्वेनाधिष्ठानत्वा-सम्भवात् । बाधकज्ञानेन विषयीकर्तव्यस्याज्ञातस्य विशेषस्य ब्रह्मण्यभावे किञ्चिदध्यासेऽ-प्यधिष्ठानत्वासम्भवाच्च ।

किञ्चाध्यसनीयापेक्षया अधिकसत्ताको योऽज्ञातो विशेषस्तद्वत्वम्  अधिष्ठानत्वे तन्त्रम् । शुक्तौ रूप्यारोपे तथा दर्शनात् । किञ्चिद्धर्मेणाधिष्ठानतिरोधानं विना भ्रमासम्भवः । स्वरूप प्रकाशस्यैव तिरोधाने तु तत्राध्यस्तप्रकाशानुपपत्तेः । न चैकस्यैवानान्दाद्यात्मना तिरोधानं सदात्मना च प्रकाश इति वाच्यम् । निरस्तत्वात् । यत्तु भ्रमविरोधिज्ञानाभाव एवाधिष्ठानत्वे तन्त्रं न तु विशेषाज्ञानम् । विश्वोपादानगोचराज्ञानस्य श्रवणादिजन्यचिन्मात्रविषयकं वृत्ति-रूपं ज्ञानविरोधि न तु चिद्रूपं स्वतःसिद्धं ज्ञानम् । भ्रमविरोधिनश्च वृत्तिरूपज्ञानस्येदानीम् अभावोऽस्त्येवेति । तत्तुच्छम् । श्रवणादिजन्यत्वेन ज्ञानस्य निवर्तकत्वं हि त्वया न वाच्यम् । दृष्टान्तासिद्धेः । बन्धसत्यत्वापत्तेः । स्वरूपज्ञानस्य भ्रमकालेऽपि सत्वेन विशेषेणाधिष्ठानज्ञानं हि भ्रमविरोधीति विशेषस्यैव ज्ञानाभावो वाच्य इति सिद्धम् अधिष्ठानस्याज्ञातविशेषवत्वम् । किञ्चात्मानात्मनोर्दृग्दृश्यत्वात्मत्वानात्मत्वादिना भेद-ज्ञानान्नाधिष्ठानाध्यस्तभावः । उक्तं हि त्वयैव ।

तत्तेदन्ते स्वतान्यत्वे त्वत्ता(हन्ते)मत्ते परस्परम् ।

 प्रतिद्वन्द्वितया लोके प्रसिद्धे नास्ति संशयः ।।

इति ‘स्वयमात्मेति पर्ययौ’ इति च । ननु इदम् अनिदं भवतीति पुरोवर्त्यपुरोवर्तिनोर्भेद ग्रहेऽपि इदं रजतमित्यध्यासवत् ‘सन् घटः’ इत्याद्यध्यासो भविष्यति । न हि रूपान्तरेण भेदग्रहो रूपान्तरेणाध्यासविरोधी । सन् घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटाद्यनु विद्धतया भानान्न तस्य घटाद्यध्यासाधिष्ठानत्वोपपत्तिः । सद्रूपेण च सर्वज्ञानविषयतोपपत्तेर्न रूपादिहीनस्याप्यत्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिरिति चेन्न । रूपी घटः, ध्वस्तो घटः इतिवत् सन् घट इत्यस्यापि घटनिष्ठसत्वस्यैव प्रतीतेः । चाक्षुषादिज्ञानविषयस्य सत्वस्य त्वदभिमतब्रह्मरूपत्वासम्भवात् । अन्यथा सप्रकारकशब्दाजन्यवृत्तिविषयत्वदभिमतदृश्यत्वेन मिथ्यात्वापत्तेः रूपादिवृत्तिविषयत्वस्य निरस्तत्वात् ।

Load More