यदि चाक्षं शब्दबाध्यं तर्हि जैमिनिना..
२३. प्रत्यक्षस्य शब्दबाध्यत्वे बाधकम्
न्यायामृतम्
यदि चाक्षं शब्दबाध्यं तर्हि जैमिनिना तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चि-रित्याद्यर्थवादस्यादितिर्द्यौरित्यादिमन्त्रस्य च दृष्टविरोधेनाप्रामाण्ये प्राप्ते तदविरोधाय ‘‘गुणवादस्तु गुणादविप्रतिषेधः स्यात्’’ इत्यादिना गौणार्थता नोच्येत । तत्सिद्धि-रित्यादितत्सिद्धिपेटिकायां च ‘‘यजमानः प्रस्तर’’ इत्यादेर्गौणार्थता नोच्येत । त्वया(ऽपि) च प्रत्यक्षाविरोधाय ‘तत् त्वम्’ पदयोर्लक्षणा नोच्येत, श्रुतिविरोधा-त्प्रत्यक्षस्यैवाप्रामाण्यसम्भवात् । एतेनाद्वैतवाक्यमनन्यपरत्वान्नामुख्यार्थं, प्रस्तर-वाक्यादिकं तु अन्यपरमिति वाचस्पत्युक्तं निरस्तम् । सत्यपि तात्पर्यलिङ्गे मानान्तरविरोधे प्रस्तरादिवाक्यवत् सोमेन यजेतेत्यादिवच्चानन्यपरत्वस्यैवायोगात् । न हि कुरूपाम्, अशूरम् चोद्दिश्य अहो दर्शनीयेति सिंह इति च शतकृत्वः प्रयुक्त-मपि वाक्यं वाच्यार्थपरं भवति । न वा तत्त्वमसि वाक्यम् षड्विधतात्पर्यलिङ्गोपेत-मपि मानान्तरविरुद्धं वाच्यार्थपरम् । किञ्चोपक्रमोपसंहारादिकं हि प्रत्येकं तात्पर्य-लिङ्गम् । अस्ति च प्रस्तरादिवाक्येऽपूर्वता । त्वत्पक्षे च प्रत्यक्षसिद्धे भेदे श्रुतिरिवैक-लिङ्गसिद्धे तात्पर्ये लिङ्गान्तरमनुवादकमेवेति किं तद्बाहुल्येन ?
अद्वैतसिद्धिः
किञ्च परीक्षितप्रमाणभावशब्दबाध्यमपि प्रत्यक्षम् । ननु – प्रत्यक्षं यदि शब्दबाध्यं स्यात्तदा जैमिनिना ‘तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः’ इत्याद्यर्थवादस्य ‘अदितिर्द्यौः’ इत्यादिमन्त्रस्य च दृष्टविरोधेनाप्रामाण्ये प्राप्ते ‘गुणवादस्तु गुणादविप्रतिषेधः स्यात्’ इत्यादिना गौणार्थता नोच्येत । ‘तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवायाद्’ – इति तत्सिद्धिपेटिकायां ‘यजमानः प्रस्तर’ इत्यादेर्गौणार्थता च नोच्येत । त्वयाऽपि प्रत्यक्षाविरोधाय तत्त्वम्पदयोर्लक्षणा नोच्येत । श्रुतिविरोधे प्रत्यक्षस्यैवाप्रामाण्यसम्भवात् । न च – तात्पर्यलिङ्गानामुपक्रमादीनामत्र सत्त्वान्नाद्वैतश्रुतीनाम-मुख्यार्थत्वमिति वाच्यम् । ‘यजमानः प्रस्तरः’ इत्यादावप्यपूर्वत्वाद्येकैकलिङ्गस्य तात्पर्यग्राहकस्य विद्यमानत्वात् । एकैकलिङ्गस्य तात्पर्यनिर्णायकत्वे लिङ्गान्तरमनुवादकमेव । त्वन्मते प्रत्यक्षसिद्धे भेदे श्रुतिरिव । किं बाहुल्येन इति चेन्न । वाक्यशेषप्रमाणान्तरसंवादार्थक्रियादिरूपपरीक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेव एतद्विरुद्धार्थग्राहिणो ‘धूम एवाग्नेर्दिवा ददृशे’, ‘अदितिर्द्यौः’ ‘यजमानः प्रस्तर’ इत्यादेस्तद्विरोधेनामुख्यार्थत्वेऽप्यद्वैतागमस्य परीक्षितप्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तेः । प्रत्यक्षादेर्हि परीक्षया व्यावहारिकप्रामाण्यमात्रं सिद्धम् । तच्च नाद्वैतागमेन बाध्यते । बाध्यते तु तात्विकं प्रामाण्यम् । तत्तु परीक्षया न सिद्धमेव । अतो न विरोधः । ‘धूम एवाग्नेः’ इत्यादेस्तु मुख्यार्थत्वे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं व्याहन्येत । अतो विरोधात्तत्रा-मुख्यार्थत्वमिति विवेकः ।
यत्तु – प्रत्यक्षाविरोधाय तत्त्वम्पदयोर्लक्षणा नाश्रीयेतेति तन्न । षड्विधलिङ्गैर्गतिसामान्येन चाखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्तेर्जीवेशगतसर्वज्ञत्वकिञ्चिज्ज्ञत्वादीना मैक्यान्वयानुपपत्तेश्च तात्पर्यविषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकरणस्यैवोचितत्वात् । तात्पर्यविषयीभूतान्वय-निर्वाहाय लक्षणाश्रयणस्य सर्वत्र दर्शनात् । न च एवं सति अमुख्यार्थत्वं स्यादिति वाच्यम् । तद्धि प्रतीयमानार्थपरित्यागेनार्थान्तरपरत्वं वा? अशक्यार्थत्वं वा? नाद्यः । सामानाधिकरण्येन प्रतीयमान-स्यैक्यस्यात्यागात् । नान्त्यः, जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि ‘सोऽयं देवदत्तः’ इत्यादिवाक्य इव शक्यैकदेशस्यान्वयाभ्युपगमात् । विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणाशब्देन व्यपदेशात् ।
न्यायामृततरङ्गिणी
तस्माद्धूम एवेति । अर्थवादाधिकरणे ‘‘शास्त्रदृष्टविरोधाच्च’’ इति पूर्वपक्षसूत्रेण ‘तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिस्तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूमः’ इत्यादीनां दृष्टविरोधादप्रामाण्यमाशङ्क्य ‘‘गुणवादस्तु’’ इति सिद्धान्तसूत्रेण गुणवादमभ्युपेत्य प्रामाण्य-मुक्तम् । तथा हि ‘‘सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः’’ इति मिश्रलिङ्गमन्त्रविधिशेषो धूम एवाग्नेर्ददृशे इत्यादिरर्थवादः, दिवा अग्निरादित्यमनुप्रविशति रात्रावादित्येऽस्तमित्येतमर्थमुपपादयन्विधेयमर्थं स्तौति । धूम एवेत्यव-धारणं तु दूरभूयस्त्वात् । दूरस्थैर्हि दिवा च धूम एव भूयान्दृश्यते नार्चिः । रात्रौ चार्चिर्भूयो दृश्यते न धूमः । अतो न दृष्टविरोधादप्रामाण्यमिति । अदितिर्द्यौरित्यादिमन्त्रस्य चेति । मन्त्राधिकरणे ‘‘अर्थविप्रतिषेधात्’’ इत्यादिसूत्रेणार्थविरोधाद्विरुद्धार्थकत्वात् ‘‘अदितिर्द्यौरदिति-रन्तरिक्षमदितिर्माता स पिता स पुत्रः,’’ ‘‘एक एव रुद्रो न द्वितीयाय तस्थे,’’ ‘‘सहस्रशो ये रुद्रा अधिभूम्याम्’’ इत्यादेरप्रामाण्यमाशङ्क्य ‘‘गुणादविप्रतिषेधः स्यात्’’ इति सिद्धान्तसूत्रेण मातृत्वादिगुणैरदितिः स्तूयते । तस्मादविरुद्धमित्यादिना गौणार्थत्वमेवाङ्गीकृतम् । तदेतत्सर्वं शब्दस्य प्रत्यक्षबाधकत्वे विरुध्येत । मुख्यार्थपरत्वमेव स्यादित्यर्थः ।
तत्सिद्धिरित्यादीति । प्रथमस्य चतुर्थे पादे विचारितम् – तत्सिद्धिजातिसारूप्यप्रशंसा-भूमलिङ्गसमवायाः । वैदिकशब्देषु क्वचिद्गौणीवृत्तिरस्तीति प्रतिपादयितुं गौण्या लक्षणं तावद्विचार्यते ।
‘‘गौणत्वमेकदेशे किं वृत्तिः सङ्घातवाचिनः ।
किमध्यारोपितार्थत्वं वृत्तिर्वा गुणयोगतः ।।
नाद्यः शौर्यादिरहिते सिंहे नो सिंहगीरियम् ।
मुख्यवृत्तिं प्रपद्येताशतार्थे शतशब्दवत् ।।
अतः सिंहत्वमारोप्य देवदत्ते प्रयुज्यते ।
सिंहशब्दोऽन्यथा न स्यात्तद्बोधः सिंहशब्दतः ।।
शौर्यादिगुणयोगस्य सिंहत्वारोपकारणम् ।
न चैवं मुख्यतापत्तिर्वाच्यस्यावास्तवत्वतः ।।
वेदेऽध्यारोपकाभावान्नाध्यारोपस्तु सम्भवी ।
अतो वैदिकशब्देषु न गौणी वृत्तिरिष्यते ।।
अत्रोच्यते न सिंहत्वबुद्धिर्नरि कदाचन ।
विलक्षणाकृतित्वेन विशेषस्यैव दर्शनात् ।।
सादृश्येऽप्यत्र नारोपः स्पष्टभेदप्रतीतितः ।।
किं तु स्वार्थाविनाभूतशौर्यादिगुणयोगतः ।
पुम्भिः प्रयुज्यमानस्य सिंहशब्दस्य गौणता ।
अतो वेदेऽपि गौणत्वं सम्भवेद्गुणयोगतः ।।
कथं तर्हि खपुष्पशशविषाणादिशब्दानां गौणत्वं ‘‘खपुष्पं भवत्सिद्धांतः’’ इत्यादौ । न हि तेषां मुख्यमभिधेयमस्ति, येन तत्सादृश्याद्गौणत्वं स्यात् । उच्यते ।
‘‘मुख्यमर्थं वदन्त्येव शशशृृङ्गादिका गिरः ।
असद्विशेषं तत्रापि विशेषोऽस्तीति वक्ष्यते ।।’’
असत्यप्यसत्वाविरोधी विशेषोऽस्तीत्यनिर्वाच्यसाधकख्यातिबाधान्यथानुपपत्तिभङ्गे ग्रन्थकार एव वक्ष्यति । तस्माद्वेदेऽपि गौण्याः सम्भवाद्यजमानः प्रस्तरः, यजमान एव कपाल इत्यादिषु विचार्यते । नामधेयं वा गुणविधिर्वाऽर्थवादो वेति संदेहे सामानाधिकरण्यादेकमितरस्य नामधेयं प्रस्तरशब्दो वा यजमानस्य यजमानशब्दो वा प्रस्तरस्येति पक्षो भिन्नार्थत्वेन प्रसिद्धत्वान्नैक-मितरस्य नामधेयं भवितुमर्हतीति निरस्तः । नापि तृतीयः । अर्थान्तरवचनेनार्थान्तरवचनस्य स्तुत्यसम्भवात् । अष्टाकपालादिभिस्त्ववयवद्वारेण स्तुतिरुक्ता द्वादशकपालस्य । न च प्रस्तरावयववचनो यजमानशब्दः । येन स्तुतिः स्यात् । तस्मादन्यतरकार्येऽन्यतरविधानं गुण-विधिः । तत्रापि यजमानस्य मुख्यत्वात् श्रुतिवृत्तो यजमानः प्रस्तरशब्दलक्षिते स्रुग्धारणादौ प्रस्तरकार्ये विधीयते । तस्माद्गुणविधिरिति प्राप्तेऽभिधीयते । यजमानस्य स्रुग्धारणे विनियुक्तस्य स्वपदार्थकरणविरोधात्प्रस्तरवच्च सूक्तवाकेन प्रस्तरं प्रहरतीति प्रहरणापत्तेरेककपालवच्च सर्वहुत-करणात्सर्वतन्त्रपरिलोपः स्यात् । तस्मादर्थवादः । कथं परशब्देन परस्य स्तवनं सामानाधि-करण्यं वा? गुणादिति ब्रूमः । कथमगुणवचनो गुणमभिदध्यात्? नाभिदधाति, किन्त्वर्थ-सम्बन्धेन बोधयति । यजमानशब्दो हि स्वार्थमभिधत्ते । स चाभिहितः । स्वसमवेतं स्वकार्य-परत्वं सम्बन्धाद्बोधयति । तच्च प्रस्तरेऽप्यस्तीति प्रस्तरविबोधः । एवं स्वार्थसदृशे तद्गुणशालिनि तात्पर्यं भजमानः शब्दो गौणः सम्पद्यते । यथा लोके सिंहो देवदत्त इति । तस्य यजमानस्य कार्यसिद्धिः यजमानकार्यकरत्वं स्रुग्धारणादि यजमानशब्दस्य प्रस्तरे प्रवृत्तौ निमित्तं गुणः ।
जातिः ।। अग्निर्वै ब्राह्मण इति वार्तिककारस्योदाहरणम् । आग्नेयो वै ब्राह्मणः ऐन्द्रो राजन्यो वैश्यो वैश्वदेव इत्युदाहरणम् । अत्रापि पूर्ववन्नामधेयत्वगुणविधित्वार्थवादत्वसन्देहे अर्थवादत्वसिद्धान्तः । निमित्तान्तरकथनाय पृथगुक्तिः । अग्निसम्बन्धो मुखजन्यत्वगुणे ब्राह्मणे वर्तते । श्रूयते चाग्निब्राह्मणयोर्मुखजन्यत्वं कस्मिंश्चिदर्थवादे । प्रजापतिरकामयत । प्रजाः सृजेयेति । स मुखतः त्रिवृतं निरमिमीत अग्निर्देवता अन्वसृज्यत गायत्रीछन्दो रथन्तरं साम ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्याः मुखतो ह्यसृजन्तेति । तस्मादाग्नेयशब्दः स्तावकः । एवमैंद्रो राजन्यो वैश्यो वैश्वदेव इत्यादिषु द्रष्टव्यम् ।
सारूप्यात् । आदित्यो यूपो यजमानो यूपः । अत्रापि त एव पक्षाः । सारूप्यं त्वत्र प्रवृत्तिनिमित्तम् । तच्च तेजस्वित्वादि । ननु सर्वत्र सारूप्यं गौणत्वनिमित्तम् । कोऽत्र विशेषः? इह चक्षुर्ग्राह्यसारूप्यं विवक्षितम् ।
प्रशंसा–प्रशंसाऽप्यपरं शब्दस्य गौणत्वे निमित्तम् । तथा हि । अपशवो वा अन्ये गो अश्वेभ्यः पशवो गोअश्वा इत्यत्र अजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न सम्भवति । पशुत्वनिषेधमात्रेण स्तुतेरसम्भवात् । नामधेयत्वं त्वनाशङ्क्यमिति गुणविधित्वेन पूर्वः पक्षः । पशुकार्ये गवाश्वव्यतिरिक्तानामजादीनां प्रतिषेधप्रतीतेरिति । सिद्धान्तस्तु – तत्र तत्राजादीनां विहितत्वादशक्यः पशुकार्येऽजादीनां प्रतिषेधः । पशुव्यतिरिक्तघटादिवचनस्य परशब्दस्यापशु-शब्दस्य परत्राजादिषु गवाश्वगतप्रशंसानिमित्तः प्रयोगः । तस्मादर्थवादः । ननु सर्व एव प्रशंसानिमित्तोऽर्थवादः । किमत्र विशेषेणोपन्यस्यते? सत्यम् । तत्सिद्ध्यादिना गुणेन प्रस्तरादिषु प्रवृत्तो यजमानादिशब्दः प्रस्तरादेः प्रशंसाफलो भवति । इह तु शब्दप्रवृत्तिनिमित्तमपि गुणः प्रशंसैव । तथा हि । अयमत्रार्थः । अपशवो वा अन्ये गोअश्वेभ्यः इत्यत्र नञ्समासगेन पशुशब्देन प्रथमं गवाश्वगतं प्राशस्त्यमुपादाय पश्चात्तदभावो नञा पश्वन्तरेषु कथ्यते । न हि पशुत्वं शक्यं प्रतिषेद्धुम् । अवश्यं च पशुशब्दोपात्तोऽर्थो नञा पश्वन्तरेषु प्रतिषेद्धव्यः । शक्नोति चायं पशुशब्दो गवाश्वाभ्यामेकवाक्यतया सम्बद्धस्तद्गतं प्राशस्त्यं लक्षयितुम् । तच्च नञा पर्युदसिष्यते । एतदुक्तं भवति । गवाश्वेषु यत्प्राशस्त्यं न तदन्येष्वस्ति । तस्मादप्रशस्तास्ते । गवाश्वमेव प्रशस्तम् । सोऽयं गवाश्वगतप्राशस्त्याभावः पश्वन्तराणामपशूनां तुल्य इत्यनेनाभि-प्रायेण पश्वन्तराण्यपशव इत्युच्यन्ते ।
द्विप्रकारा हि प्रशंसा । वस्तुनि विद्यमानगुणोत्कर्ष एकः प्रकारः । स्तावकेन शब्देन सम्पादितो गुणोत्कर्षोऽपरः प्रकारः । गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सोऽत्र निमित्तम्? अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यपशवः सम्पन्नाः । ईदृशो गवाश्वयोर्महिमेति स्तुतिः फलम् । नन्वपशुशब्दस्याजादिषु प्रवृत्तौ कथं गवाश्वगतं प्राशस्त्यं निमित्तम् ? व्यधिकरणत्वात् । अजादिगतप्रशंसाभावस्तु निमित्तं स्यात्समानाधिकरणत्वात् । अतोऽप्रशंसैव सूत्रणीया न तु प्रशंसेति चेदत्र ब्रूमः । अजादिषु प्रवृत्तावपशुशब्दस्य तदवयवभूतेन पशुशब्देन निषेध्यमर्पयता सन्निहितगवाश्वगतप्रशंसाया उपादानादपशुशब्दः प्रशंसानिमित्त इत्युच्यते । एतेनापशुशब्दोऽजादिषु प्रवर्तते । गवाश्वौ च स्तौतीति व्यधिकरणमिति परास्तम् । तत्सिद्ध्यादिषु शब्दप्रवृत्तिस्तुत्योः प्रस्तरादिनिष्ठत्वेऽपि प्रकृते भिन्नरूपत्वात् । अजादिष्वप्रशंसया प्रवर्तमानस्यापशुशब्दस्यार्थविशेषकरणत्वाभावाच्च । न च रजतनिन्दया हिरण्यस्तुतिवदजादि-निन्दया गवाश्वयोः स्तुतिः स्यादिति वाच्यम् । अपशुशब्दात्स्पष्टं निन्दाया अप्रतीतेः । तस्मात्प्रशंसैव सूत्रणीयेति प्रशंसानिमित्तोऽयमर्थवादः ।
अयज्ञो वा एष यदसामा अयज्ञो वा एतद्यदछन्दोममित्यादिष्वयमेव न्यायः । छन्दोमशब्देन चतुर्विंशः चतुश्चत्वारिंशोऽष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते । अक्षरसङ्ख्यासाम्येन गायत्रीत्रिष्टुब्जगतीछन्दोभिर्गीयमानत्वात् । भूमा अग्निचयने श्रूयते । सृष्टीरुपदधातीति सृष्टि-शब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय इत्युच्यन्ते । सृष्टिमाना-सामुपधानो मन्त्र इति विगृह्य ‘‘तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्क्रमतोः’’ इति व्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् सृष्टिशब्दोपेताश्चोपधानमन्त्रा ‘‘एकया स्तुवते’’ इत्यस्मिन्ननुवाके समाम्नाताः । ब्रह्मासृज्यत भूतान्यसृज्यन्तेत्यादिना सृजतिधातोस्तेषु प्रयुक्त-त्वात् । ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते उत सृष्टिशब्दोऽनुवादरूपोऽर्थवादो वेति संशये मन्त्ररूपगुणविधिरिति पूर्वः पक्षः । कुतः? उपदधातीत्यनेनाख्यातेनाभिसम्बन्धात् । न चार्थवादत्वमस्य सम्भवति । विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्तेऽभिधीयते । लिङ्गप्रकरणाभ्यामेव मन्त्राणां प्राप्तत्वान्न विधिः सम्भवति । तथा सति परिसङ्ख्या स्यात् । बहुषु मन्त्रेषु प्रकरणप्राप्तेषु सृष्टिविधानादन्ये परिसङ्ख्यायेरन् । सा च त्रिदोषा । परिसङ्ख्यातानां च मन्त्रान्तराणामानर्थक्यं स्यात् । तस्मान्न ते मन्त्रा अत्र विधीयन्ते । किन्तु तान् मन्त्रा-ननूद्येष्टकोपधानं विधीयते । सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः । यथा सृष्टमेवा-वरुन्ध इति वक्ष्यमाणोऽर्थवादः । यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात्तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्यभ्रमः स्यात् । तस्मान्मन्त्रानुवादी सृष्टिशब्दो न गुणविधायकः किं त्वर्थवादः । ननु प्रथममन्त्रे सृजतिशब्दो न प्रयुक्तः, किन्तु दधातिधातुः । एकया स्तुवते, प्रजा अधीयन्तेति तत्पाठात् बाढम् । तथापि द्वितीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्भूम्ना गुणेन सृष्ट्यसृष्टिसमुदाये सृष्टिशब्दो गौणः प्रवर्तत इति भाष्याभिप्रेतः पक्षः । एवं च ‘‘तद्वानासामुपधानो’’ इत्यादिव्याकरणसूत्रमप्यनुसृतं भवति । यद्यपि व्याकरणसूत्रानुसारेण सृष्टिशब्दार्थान्तर्गतत्वादुपधानमपि न पृथग्विधेयम् । तथाप्युपधान-रूपसृष्टिपदार्थविधानार्थं विधिप्रत्ययस्तावदवश्यं प्रयोक्तव्यः । स च धातुं विना न केवलं साधुप्रयोग इति यस्य कस्यचिद्धातोः प्रयोक्तव्यत्वे बुद्धिसन्निहित उपदधातिरेव प्रयुज्यते । सृष्टिशब्दोपता मन्त्रा यासामिष्टकानामुपधाने वर्तन्ते इत्येव सृष्टिपदार्थे इष्टकाविशेषणत्वे-नोपस्थितस्योपधानविशेषस्य विधिसम्बन्धे क्लिष्टत्वाच्चेति वयं पश्यामः । केचित्त्वयं मन्त्र-विधिरिति समर्थयन्ते । न ह्येकया स्तुवत इत्यादीनामुपधानमेकान्तिकं लिङ्गमस्ति येन प्राप्तिः स्यात् । इष्टकालिङ्गस्य स्त्रीलिङ्गशब्दप्रयोगादेः साधारणत्वेन ग्रहणासादनादिष्वपीष्टकानां प्राप्नुयुः । तथा सत्यस्ति विधेरवकाशः । सत्यामप्युपधाने प्राप्तौ मध्यमचिति सम्बन्धार्थमपि प्रत्यक्षविधानमर्थवद्भविष्यति । यां काञ्चिद्ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमायां चिति निदध्यादिति वचनात् । लिङ्गसमवायात् । चयने श्रूयते – प्राणभृत उपदधातीति । अत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वःपक्षः । लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपाधानविधिरिति सिद्धान्तः । एतस्यैव प्राणान् दधातीत्यस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानु-वादः । पूर्वत्र द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् । इह तु प्रथममन्त्र एव प्राणभृल्लिङ्ग-माम्नायते । अयं पुरोभौवनस्तस्य प्राणो वां यत इति एकस्यैव मन्त्रस्य प्राणभृत्त्वेऽपि तत्सहचरिताः सर्व एव मन्त्राः छत्रिन्यायेन प्राणभृच्छब्देन लक्ष्यन्ते । प्राणभृदप्राणभृद्गणेऽपि प्राणभृच्छब्दसमवायोऽस्तीति सर्वेषु तदनुवाकगतमन्त्रेषु प्राणभृच्छब्दो गौणः । तत्सिद्ध्यादिभि-र्हेतुभिर्यजमानादिशब्दा गौणाश्रयाः गुणवृत्तय इति समग्रः सूत्रार्थः । तदुक्तं–
‘‘तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः ।
षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता’’ ।। इति ।
विशेषस्तु टुप्टीकादौ द्रष्टव्यः । अनेकप्रमेयसङ्ग्रहरूपत्वात्पेटिकाशब्दः ।
अनन्यपरत्वादिति । औते तात्पर्यलिङ्गानां सत्त्वेनाद्वैततात्पर्यकत्वादन्यत्र तात्पर्यलिङ्गा-भावेनान्यत्र तात्पर्याभाव इत्यर्थः । अत्र वदन्ति ‘‘प्रमाणान्तरसंवादार्थक्रियादिरूपपरीक्षा-परीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेव तद्विरुद्धग्राहिणो ‘‘धूम एवाग्नेर्दिवा ददृशे’’, ‘‘अदितिर्द्यौः’’, ‘‘यजमानः प्रस्तर’’ इत्यादेः तद्विरोधेनामुख्यार्थत्वेऽप्यद्वैतागमस्य परीक्षित-प्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तेः । प्रत्यक्षादेर्हि परीक्षया व्यवहारिकप्रामाण्यमात्रं सिद्धम् । तच्च नाद्वैतागमेन बाध्यते । बाध्यते तु तात्विकं प्रामाण्यम् । तत्तु परीक्षया न सिद्धमेवातो न विरोधः । धूम एवाग्नेरित्यादेस्तु मुख्यार्थत्वेन प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं व्याहन्येत । अतो विरोधात्तत्रामुख्यार्थत्वमिति विवेकः । यत्तु प्रत्यक्षाविरोधाय तत्त्वंपदलक्षणा नाऽश्रीयेतेति । तन्न । षड्विधलिङ्गैर्गतिसामान्येन वाऽखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्तेर्जीवेशगत-सर्वज्ञत्वकिञ्चिज्ज्ञत्वादीनामनुपपत्तेरैक्यस्य तात्पर्यविषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गी-करणस्यैवोचितत्वात् । तात्पर्यविषयीभूतान्वयनिर्वाहाय लक्षणाश्रयणस्य सर्वत्र दर्शनात् । न चैवं सत्यमुख्यार्थत्वं स्यादिति वाच्यम् । तद्धि प्रतीयमानार्थपरित्यागेनार्थान्तरपरत्वं वा अशक्यार्थपरत्वम् ? नाद्यः । सामानाधिकरण्येन प्रतीयमानस्यैक्यस्यात्यागात् । नान्त्यः । जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि सोऽयं देवदत्त इत्यादिवाक्य इव शक्यैकदेश-स्यैवान्वयाभ्युपगमात् । विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणाशब्देन व्यपदेशादिति ।
मैवम् । परीक्षया प्रत्यक्षादीनामद्वैतागमसमानयोगक्षेमप्रामाण्यस्यैव प्राप्तेर्विरोधस्य वज्र-लेपत्वात् । यत्तु षडि्वधलिङ्गैरित्यादि तदपि न । अन्योन्याश्रयात् । सिद्धेऽखण्डे तात्पर्ये तन्निर्वाहाय सार्वज्ञादित्यागेन लक्षणया विशेष्यपरतया मानान्तराविरोधः । तदविरोधे च तात्पर्यलिङ्गैरखण्डगोचरतात्पर्यसिद्धिरिति । लौकिकवाक्यस्य मानान्तरविरुद्धार्थगोचरतात्पर्य-कत्वेऽपि वैदिकवाक्यस्य न्यायगम्यतात्पर्यकस्य मानान्तराविरुद्ध एव तात्पर्यकल्पनात् । न हीति । मानान्तराविरोध एवोपक्रमादीनां तात्पर्यप्रमापकत्वं न तु तद्विरोधेऽपीत्याखण्डलार्थः । वाक्यमिति । आगमवाक्यमित्यर्थः ।
न्यायामृतकण्टकोद्धारः
।। तस्माद्धूम एवेति ।। प्रमाणलक्षणे अर्थवादाधिकरणे शास्त्रदृष्टविरोधादिति पूर्वपक्षसूत्रम् (तत्र चिन्तितम्) । तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूम इत्यर्थवादः श्रूयते । अस्य वचनस्य स्वार्थे धर्मे वा प्रामाण्यमस्ति न वेति सन्देहः । पूर्वपक्षस्तु नास्य वचसः स्वार्थेऽपि प्रामाण्यमक्रियार्थत्वात् । धर्मे नास्तीति किमु वक्तव्यम् । किञ्च कुतः दृष्टविरोधात् । कथं दृष्टविरोधः? नक्तं दिवं धूमार्चिषोरुभयोरप्येकैकत्र प्रत्यक्षतो दर्शनादिति । प्रत्यक्षविरुद्धस्याङ्गुल्यग्रे करिशतमिति वाक्यस्याप्रामाण्यं दृष्टमिति । अत्र सिद्धान्तसूत्रं – गुणवादस्त्विति । अयं वादो गुणात् उपचारात् । दिवानक्तं चार्चिर्धूमयोरदर्शनशब्दो गौण इति दृष्टविरोध समाहितः । गौणतायां निमित्तमुक्तं – दूरभूयस्त्वादिति । नन्वेतावता कथं धर्मे प्रामाण्यमिति चेदित्थम् – स्तावकत्वात् । तथा हि – सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातरिति मिश्रलिङ्गकाग्निहोत्रमन्त्रविधेः शेषो धूम एवेत्यादिरर्थवादः दिवाऽग्निरादित्यमनुप्रविशति रात्रावादित्येऽस्तमित्येतमर्थमुपपादयन् विधेयमर्थं स्तुवन् नानर्थको भवितुमर्हति । न च धूम एवेत्यवधारणं दृष्टविरुद्धमिति वाच्यम् । दूरभूयस्त्वेन तस्य समाधेयत्वात् । यथा दूरस्थैर्हि दिवा धूम एव भूयान् दृश्यते तथा नार्चिः, यथा वा रात्रावर्चिर्भूयो दृश्यते न तथा धूम इति । तथा च ‘न ददृशे’ इत्यत्र दर्शनमात्रवाचकेन दृशिना दूरभूयस्त्वविशिष्टे दर्शने लक्षिते तदभावो नञा बोध्यत इति न दृष्टविरोध इति ।
।। अदितिर्द्यैरित्यादिमन्त्रस्य चेति ।। प्रमाणलक्षणे मन्त्राधिकरणे चिन्तितम् अदितिर्द्यै-रदितिरन्तरिक्षमित्यादि । तथा एको रुद्रो न द्वितीयोऽवतस्थे, सहस्राणि सहस्रशो ये रुद्रा अधिभूम्यामिति च श्रूयते । अत्र सन्देहः – एते मन्त्रा विवक्षितार्था न वेति । अत्र पूर्वपक्ष-सूत्रम् – अर्थविप्रतिषेधादिति । एते मन्त्रा अविवक्षितार्थाः । कुतः? एकस्यामदितिदेवतायां परस्परविरुद्धद्युत्वान्तरिक्षत्वाद्यभिधायकत्वात् । विरुद्धार्थविधायकस्य च माता वन्ध्येत्यादेर-प्रामाण्यं दृष्टमिति । तथा च प्रत्यक्षविरुद्धाभिधायकत्वात् मन्त्रा अविवक्षितार्था इति पूर्वपक्षः । अत्र सिद्धान्तसूत्रं– गुणादविप्रतिषेधः स्यादिति । अदितिर्द्यौरित्यादि मन्त्रा नाविवक्षितार्थाः ।
न च विरुद्धार्थाभिधायकत्वादविवक्षितत्वमिति वाच्यम् । भवेदेवं यद्येकस्या अदिति-देवतायाः द्युत्वान्तरिक्षत्वादि मुख्यत उच्येत । किं तर्हि गुणात् । तत्कार्यकरत्वेन गुणेन तेन तेन शब्देनात्र देवता स्तूयते । यथा त्वमेव माता च पिता त्वमेवेत्यादौ मात्रादिशब्दैः देवः स्तूयते तथेत्यतो न विप्रतिषेधसिद्धान्त इति ।। तत्सिद्धिपेटिकयेति ।। प्रमाणलक्षणे चतुर्थपादे चिन्तितम् । तत्सिद्धिजातिसारूप्यभूमलिङ्गसमवाया गुणाश्रया इति सूत्रम् । यजमानः प्रस्तरः यजमानः एककपाल इति श्रूयते । अत्र सन्देहः– किमिमौ मन्त्रौ नामधेयमुत गुणविधिः अथार्थवाद इति । तत्रैकः पूर्वपक्षः– उद्भिदा यजेतेत्यादिवत्सामानाधिकरण्यादेकमितरस्य नामधेयं, प्रस्तरशब्दो यजमानस्य यजमानशब्दो वा प्रस्तरस्येति । द्वितीयस्तु गुणविधिरिति । विधित्वे हि प्रवृत्तिविशेषकरत्वं भवति । न च प्रस्तरादीनां अचेतनत्वात् यजमानकार्ये जपादौ सामर्थ्याभावात् तत्कार्ये कथं प्रस्तरादिविधानमिति वाच्यम् । नात्र यजमानकार्ये जपादौ प्रस्तरादिकं विधीयते । अपि तु प्रस्तरकार्ये स्रुग्धारणादौ यजमानस्य शक्तत्वात् प्रस्तरकार्ये यजमानो विधीयते । एवं च प्रथमतः श्रुतो यजमानशब्दो मुख्यवृत्तिर्भविष्यति । न चात्राष्टा-कपालादिवत् स्तावकत्वं किं न स्यादिति वाच्यम् । वैषम्यात् । अष्टाकपालादीनां हि द्वादश-कपालावयवत्वेनावयवद्वाराऽवयविभूतद्वादशकपालस्तावकत्वमुपपद्यते । प्रकृते तु यजमानस्य प्रस्तरस्य वा नावयवावयवित्वम् । येन यजमानशब्देन प्रस्तरस्तुतिः स्यात् । तस्मात् स्तुतित्वानुपपत्तेः गुणविधिरिति । नापि वायुक्षेपिष्टादिवत्स्तुतिरिति । तत्र क्षिप्रप्रदत्वादि धर्मवदत्र कस्यचिदुत्कर्षस्याप्रतीतेः । तस्मान्न स्तुतिरिति पूर्वपक्षः ।
अत्र सिद्धान्तसूत्रम् ।। तत्सिद्धिरिति ।। अस्यार्थः– तस्य यजमानस्य कार्यसिद्धिः तत्सिद्धिः तत्सिद्धिलक्षणो गुणः यजमानशब्दस्य प्रवृत्तौ प्रस्तरो निमित्तमिति ।। अयं भावः – न तावत्प्रस्तरशब्दो यजमानस्य नामधेयम् । यजमानशब्दो वा प्रस्तरस्य घटकलशवद्युक्तम् । गोमहिषिशब्दयोरिवार्थभेदस्यात्यन्तप्रत्यक्षसिद्धत्वात् । तथा च यजमानप्रस्तरत्वस्य प्रत्यक्षविरुद्ध-त्वान्नामत्वमयुक्तम् । गुणविधिपक्षोऽप्ययुक्तः । प्रस्तरकार्ये यजमानविधौ सूक्तवाकेन प्रस्तरं प्रहरतीत्यग्नौ प्रहरणस्य प्रस्तरकार्यत्वात् यजमाने सति सर्वकर्मविलोपः स्यात् । एवमेक-कपालकार्ये यजमानविधावेककपालं सर्वहुतं करोतीति सर्वहुतकरणात् कर्मलोप इति । तस्मा-द्विधेयः प्रस्तरो यजमानशब्देन स्तूयते । सिंहो देवदत्तः इत्यत्र सिंहगुणेन शौर्यादिना देवदत्तः सिंहशब्देनेति यथा तथा यजमानगुणेन यागसाधकत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते । यथा च तत्र सिंहशब्देन सिंहगुणोपस्थितिस्तथा यजमानशब्देन यजमानगुणोपस्थितिः । तथा च प्रत्यक्षविरोधाद्यजमानशब्दः प्रस्तरे गौणस्तन्निमित्तं तत्सिद्धिरिति ।।
जातिः ।। इदमामनन्ति । आग्नेयो ब्राह्मण इति ।। अत्र सन्देहपूर्वपक्षौ पूर्ववदेव । सिद्धान्तस्तु अत्यन्तप्रसिद्धार्थभेदात् आग्नेयशब्दो न ब्राह्मणनामधेयमित्याद्यः । नाप्यग्निदेवतारूपो गुणो विधीयते । आग्नेयं सूक्तमाग्नेयं हविरित्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् । न च ब्राह्मणः सूक्तं नापि हविः । अतः सम्बन्धवाचितद्धितान्तेनाग्नेयशब्देन ब्राह्मणः स्तूयते । अग्निर्वै ब्राह्मण इत्युदाहरणेऽपि अग्निशब्देन ब्राह्मणः स्तूयते । न तु नामधेयं वा गुणविधिर्वा । न च परशब्देन परस्तुतिर्नेति वाच्यम् । जातिलक्षणेन गुणेन सम्भवात् । जातिर्जननम् । अस्ति चाग्निब्राह्मणयोरेकमुखजन्यत्वम् । तथा च समामनन्ति ‘‘प्रजापतिरकामयत प्रजायेयेति समुख-तस्त्रिवृतं निरमिमीत तमग्निर्देवता अन्वसृज्येत गायत्रं छन्दो रथन्तरं साम ब्राह्मणो मनुष्याणा-मजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त’’ इति । तस्मादाग्नेयशब्दो अग्निशब्दो वा जातिलक्षणनिमित्तेन ब्राह्मणस्तावकः ।
सारूप्यं– आदित्यो यूप इति श्रूयते । अत्रापि सन्देहपूर्वपक्षौ पूर्ववत् । सिद्धान्तस्तु आदित्यशब्दोक्तादित्यत्वस्य यूपे प्रत्यक्षविरुद्धत्वादादित्यशब्दो यूपे गौणः । गुणश्च सारूप्यं, अस्ति चादित्यस्य यूपस्य च सादृश्यं तेजस्वित्वं घृताक्तस्य यूपस्य तेजस्वित्वसम्भवात् । यद्यपि गौणत्वं सर्वमपि सादृश्यनिमित्तं तथापि चक्षुर्गम्यं च सादृश्यं विवक्षितम् । तेजस्त्वित्वं चक्षुर्गम्यमित्यस्य पृथगुपादानम् । तस्मादादित्यशब्देन यूपः स्तूयते सारूप्यगुणेनेति । इदमाम्नायते ‘अपशवो वाऽन्ये गो अश्वेभ्यः’ इति ।। अत्रापि सन्देहः पूर्ववत् । पूर्वपक्षस्तु अजादिषु पशुत्वनिषेधो वा पशुकार्यनिषेधरूपो वा गुणो विधीयते न त्वजादिषु श्रूयमाणस्यापशव इत्यस्यार्थवादत्वं, पशुत्वनिषेधमात्रेण स्तुतेरभावादिति । सिद्धान्तस्तु अपशव इत्यर्थवादः । कुतः । अजादिषु पशुत्वनिषेधस्य पशुकार्यनिषेधस्य च प्रत्यक्षविरोधादजादिपशुत्वविधिवैयर्थ्य-प्रसङ्गाच्चासम्भवात् । अत्र परशब्दस्य परगवादिप्रवृत्तौ प्रशंसानिमित्तं तद्यथा अपशुशब्दः पशुव्यतिरिक्तघटादिपदार्थमभिदधाति । तस्मिन् घटादौ गवाश्ववत्प्राशस्त्यं नास्ति । सोऽयं प्राशस्त्यभावोऽजादिषु पशुष्वस्त्रीत्येवंरूपेण पशव एव सन्तोऽप्यजादयो घटादिसाम्या पशुशब्देन लक्ष्यन्ते । एवं च गो अश्वेभ्योऽन्ये अजादयः, अपशवः अपशुघटादिवदप्रशस्ताः, गो अश्वा एव तु प्रशस्ता इत्यपशुशब्देन गवाश्वादि स्तूयते इति ।
ननु सर्वोऽप्यर्थवादः प्रशंसानिमित्तः । किमत्र विशिष्योपादानमिति चेत् सत्यं, पूर्वत्र यजमानकार्यसिद्धिः, आग्नेये मुखजत्वं, यूपे आदित्यवत्तेजस्वित्वं च यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तमुक्तं, तत्प्रवृत्तिफलं प्रशंसा । इह त्वपशुशब्दस्याजादिषु प्रवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च । नन्वेकस्या एव प्रशंसायाः फलत्वनिमित्तत्वे विरुद्धे इति वाच्यम् । प्रशंसा हि द्विप्रकारा वस्तुनि विद्यमानगुणोत्कर्षः एकः प्रकारः । स्तावकेन सम्पादितो गुणोत्कर्षोऽपरः । एवं च गवाश्वयोरजादिभ्यो य उत्कर्षो लोकसिद्धः सोऽत्र निमित्तम् । अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यपशवः सम्पन्नाः । ईदृशो गवाश्वयोर्महिमेति स्तुतिः । तस्मादपशव इत्यर्थवादः
भूमा– अग्निचयने श्रूयते । सृष्टीरुपदधातीति । अत्र सृष्टिशब्दोपेताः मन्त्राः यासामिष्टका-नामुपधाने विद्यन्ते ता इष्टकाः सृष्टय इत्युच्यन्ते । अत्र सृष्टिमानासामुपधाने मन्त्र इति विगृह्य तद्वानासामुपधान इति व्याकरणसूत्रेण सृष्टिशब्दनिष्पत्तिः कर्तव्या । सृष्टिशब्दोपेताश्च मन्त्राः एकया स्तुवत इत्यस्मिन्ननुवाके समाम्नाताः । ब्रह्मासृज्यत, भूतान्यसृज्यन्त इत्यादिना सृजति-धातोस्तेषु प्रयुक्तत्वात् । अत्र संशयः – सृष्टिशब्दो गुणविधिरुतार्थवाद इति । पूर्वपक्षस्तु सृष्टिशब्दोपेता मन्त्रा सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते । कुतः । उपदधातीत्यनेनाख्या-तेनाभिसम्बन्धात् । न त्वर्थवादत्वम् । विध्यन्तरेण सहैकवाक्यत्वाभावात् । विधित्वे च प्रवृत्तिविशेषकरत्वं च स्यादिति । सिद्धान्तस्तु– न सृष्टिशब्दोपेताः मन्त्रा उपधाने गुणत्वेन विधीयन्ते । तेषां अग्निचयनप्रकरणपठितत्वेन सामान्यतः चयनसम्बन्धावगमात् । न च विशेषसम्बन्धार्थं विधिरिति वाच्यम् । लिङ्गेनैव तस्यावगमसम्भवात् । तथा प्राप्तत्वात् मन्त्रा न विधीयन्ते । किञ्च विधिपक्षे परिसङ्ख्या स्यात् । बहुषु मन्त्रेषु प्रकरणप्राप्तेषु सृष्टिविधानादन्ये परिसङ्ख्यायेरन् । परिसङ्ख्या च त्रिदोषा । प्राप्तबाधः, अप्राप्तकल्पनं, मुख्यार्थत्यागश्चेति । किञ्च विधित्वे परिसङ्ख्यातानां मन्त्राणामानर्थक्यं स्यात् । तस्मान्मन्त्राननूद्य इष्टकोपधानं विधीयते । मन्त्राणां सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः । यथा सृष्टमेवावरुद्ध इति वक्ष्यमाणोऽर्थवादो यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात् तदानीमर्थवादे सृष्टिशब्दप्रयोगात् विध्यर्थं वादयोर्वैय्यधिकरण्यं स्यात् । तस्मान्मन्त्रानुवादी सृष्टिशब्दो न गुणविधायकः किं तु अर्थवादः । ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः किन्तु दधाति धातुः प्रयुक्तः । एकया स्तुवत प्रजा अधीयन्तेति तत्त्यागः । तथा च सृष्टिशब्दोपेतत्वस्य प्रत्यक्ष-बाधितत्वात् कथं तदनुवाद इति चेत्सत्यम् । तथापि द्वितीयतृतीयादि बहुषु मन्त्रेषु सृजति धातुप्रयोगात् भूमरूपं सादृश्यमस्ति । यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र सृष्टिभूमता यथा तथाऽत्रापीति भूमगुणयोगेन सृष्ट्यसृष्टिसङ्घे सृष्टिशब्दो गौणः । तथा च न प्रत्यक्षविरोध इति अपरशब्दस्यापरत्र वृत्तौ भूमता निमित्तमिति ।
लिङ्गसमवायः – प्राणभृत उपदधातीति श्रूयते । अत्रापि विधिर्वा अनुवादो वेति सन्दिह्य सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः । लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः । प्राण-भृच्छब्देन मन्त्रानुवादस्तु एतस्यैव प्राणान् दधातीत्यस्य वक्ष्यमाणानुवादस्योपपत्तये । पूर्ववैलक्षण्यं तु पूर्वत्र द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यं निमित्तम् । इह तु प्रथमत एव प्राणभृल्लिङ्गमाम्नायते । अयं पुरोभुवस्तस्य प्राणो भौवायन इति । नन्वेकस्यैव प्राणभृच्छब्दो-पेतत्वात् तद्रहितेषु कथं प्राणभृच्छब्द इति । सत्यम् । लिङ्गसमवायात् तत्सहचरितत्वादित्यर्थः । छत्रिणो गच्छन्तीतिवत् । तत्सहचरिताः सर्वेऽपि मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते । तथा च प्राणभृच्छब्दरहितेषु तद्वृत्तौ लिङ्गसमवायः । प्राणशब्दोपेतसहचरितत्वं निमित्तम् । तदेवं यजमानकार्यसिद्ध्यादयो गौणवृत्तिहेतवो निर्णीताः । तथा चोक्तं–
‘‘तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः ।
षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता’’ इति ।
सेयं तत्सिद्धिपेटिका । तथा च प्रत्यक्षं यदि शब्दबाध्यं तर्हि प्रत्यक्षाविरोधाय तस्माद्धूम एवेत्यादेः यजमानः प्रस्तर इत्यादेश्च गौणार्थता नोच्येतेति भावः ।
ननु दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । दृष्टान्ते अदितिर्द्यौर्धूम एव इत्यादेः, यजमानः प्रस्तर इत्यादेर्वाक्यशेषस्य प्रमाणान्तरसंवादार्थक्रियारूपपरीक्षापरीक्षितत्वेन प्रत्यक्षस्य प्राबल्यात् तद्विरोधे न मुख्यार्थत्वं युक्तम् । औतागमस्य परीक्षितप्रमाणविरोधाभावादिति वैषम्यात् कथं तद्विरोधेनामुख्यार्थत्वम् । न चात्रापि प्रत्यक्षस्य परीक्षा अस्त्येवेति वाच्यम् । परीक्षया हि व्यावहारिकप्रामाण्यमात्रं सिद्धम् । तच्च नाद्वैतागमेन बाध्यते । बाध्यते तु तात्विकं प्रामाण्यम् । तत्तु परीक्षया न सिद्धम् । अतो न विरोधः । धूम एवाग्नेरित्यादेस्तु मुख्यार्थत्वे प्रत्यक्षादे-र्व्यावहारिकप्रामाण्यं व्याहन्येत । अतो विरोधात् तत्रामुख्यार्थत्वमिति चेन्मैवम् । दृष्टान्तेऽपि परीक्षया व्यावहारिकमेव प्रामाण्यं सिद्धम् । धूम एवेत्यादिना तात्विकमदृश्यत्व प्रस्तरत्वादिक-मुच्यते । न हि धूम एवेत्यादौ व्यावहारिकपदमस्ति । येन तात्विकत्वं वक्तुमशक्यमित्यपि वक्तुमशक्यत्वेन वैषम्याभावात् । दार्ष्टान्तिके बाधाभावप्रमाणान्तरसंवादार्थक्रियारूपपरीक्षया तात्विकप्रामाण्यस्यैव सिद्धत्वाच्च । औतागमस्यैव प्रातिभासिकाद्वितीयत्वपरत्वसम्भवेन तात्विकप्रमाणविरोधाभावेन प्रत्यक्षादेस्तात्विकपरत्वाविरोधाच्च । अन्यथा जगत्प्रत्यक्षस्य परीक्षया व्यावहारिकप्रामाण्यसिद्धिश्चेत् आत्मस्थायित्वप्रत्यक्षस्यापि प्रत्यक्षत्वाविशेषात् परीक्षया व्यावहारिकप्रामाण्यस्यैव सिद्धत्वेन तत्क्षणिकत्वग्राहकानुमानागमयोः ब्रह्मशून्यत्वसाधकमानस्य च तात्त्विकप्रमाणविरोधाभावेन तात्विकपरत्वापत्तौ शून्यवादसिद्धिः स्यादिति जितं सौगतेन । तस्मात् यथा धूम एवेत्यादेः प्रत्यक्षविरोधेनामुख्यार्थत्वं तथा औतागमस्यापि प्रत्यक्षविरोधेना-मुख्यार्थत्वमेव साधु मन्तव्यमिति ।
ननु च न प्रत्यक्षविरोधेन लक्षणा स्वीक्रियते । षड्विधतात्पर्यलिङ्गैः गतिसामान्येन च अखण्डे एव तात्पर्यस्यावधारितत्वात् तदन्यथानुपपत्तेः जीवेशगतसर्वज्ञत्वकिञ्चिज्ज्ञत्वादीनां वाक्यान्वयानुपपत्तेश्च तात्पर्यविषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणा अङ्गीक्रियते । तात्पर्य-विषयीभूतान्वयनिर्वाहाय लक्षणाङ्गीकारस्य सर्वत्र दर्शनादिति चेन्मैवम् । एतावता हि अखण्ड-तात्पर्यानुपपत्या लक्षणेत्युक्तं भवति । न च तद्युज्यते । अखण्डे तात्पर्यग्राहकप्रमाणाभावात् । न च उपक्रमादिभिस्तद्ग्रहः । उपक्रमादीनामन्यथा व्याख्यास्यमानत्वेन तैस्तदसिद्धेः । गति-सामान्यस्य च सर्वे वेदा युक्तयः सुप्रमाणा इत्यादि श्रुत्यनुरोधेन सर्ववेदेतिहासादीनामेक-ब्रह्मरूपार्थप्रतिपादनपरत्वेन अन्यत्र व्याख्यातत्वात् न तेनाप्यखण्डार्थतात्पर्यसिद्धिः । तथा च सर्वज्ञत्वकिञ्चिज्ज्ञत्वादीनामैक्यान्वयानुपपत्या लक्षणा स्वीक्रियते इति वाच्यम् । अन्वयानु-पपत्तेश्च प्रत्यक्षविरोधे एव पर्यवसानादिति प्रत्यक्षविरोधेनैव लक्षणाङ्गीकार इति । अन्वयो हि एकपदार्थस्य अपरपदार्थेन वाच्यः । प्रकृते सर्वेषां पदानां ब्रह्मस्वरूपमात्रपरत्वेन अन्वयाभावेन अन्वयानुपपत्तेरभावात् । अस्तु वा लक्षणास्वीकारः । को दोष इति चेत् अमुख्यार्थत्वमेवेति ब्रूमः । न च अमुख्यार्थत्वं किं प्रतीयमानार्थपरित्यागेन अर्थान्तरपरत्वं वा अशक्यार्थत्वं वा । नाद्यः । सामानाधिकरण्येन प्रतीयमानस्यैक्यस्यात्यागात् । नान्त्यः । जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि सोऽयं देवदत्त इत्यादिवाक्ये इव शक्यैकदेशस्यैव अन्वयाभ्युपगमादिति वाच्यम् । उभयथाप्यमुख्यार्थत्वं दुष्परिहरम् । तत्र आद्यं तावदमुख्यार्थत्वमस्तु । न च प्रतीतसामानाधिकरण्यात्यागात् कथं तदिति वाच्यम् । सामानाधिकरण्येन विशेष्यैक्यमात्रं न प्रतीतम् । किन्तु विशिष्टैक्यम् । तस्य च त्याग एव त्वया क्रियते इति कथं नामुख्यार्थत्वम् । द्वितीयं वा अस्तु । न च एकदेशपरित्यागेऽपि एकदेशान्तरस्य अपरित्यागात् कथं तदिति वाच्यम् । विशिष्टवाचकानां विशेषणविशेष्यान्यतरमात्रपरत्वेन अमुख्यार्थत्वनियमात् । अत एव लोहितोष्णीषा इत्यादौ विशेषणमात्रपरत्वेन अमुख्यार्थत्वम् । न चैतावता विशेषण-मात्रपरत्वे अमुख्यार्थत्वेऽपि विशेष्यमात्रपरत्वे न तदिति वाच्यम् । बीजाभावात् । विशिष्टस्य विशेषणान्यत्ववत् विशेष्यान्यत्वात् । न हि विशेष्यादिरूपमेव विशिष्टमित्यावयोर्मतम् । सोऽयं देवदत्त इत्यादावपि विशिष्टार्थपरत्वस्यैव अखण्डार्थवादे वक्ष्यमाणत्वेन अमुख्यार्थत्वाभावात् ।
एतेनेति । अत्र अनन्यपरत्वं नाम प्रतीतार्थादर्थान्तरपरत्वाभावः, तदभावोऽन्यपरत्वम् इति, वक्ष्यमाणान्यशेषत्वानन्यशेषत्वाभ्यां नाभेदः । तत्र अनन्यपरत्वं च अद्वैतवाक्यस्य तात्पर्यलिङ्गोपेतत्वात्। तदभावात्तदभावः प्रस्तरवाक्य इति भावः । अनन्यपरत्वे मानान्तरा-विरोधस्यैव प्रयोजकत्वं न तु तात्पर्यलिङ्गस्य । प्रकृते च मानान्तरविरोधस्य सत्त्वादनन्यपरत्व-मसिद्धमित्याह – सत्यपीति । न च प्रमाणविरोधाभावेऽपि सोऽरोदीत्, क्रय्या बहुक्षीरा इत्यादौ अन्यपरत्वं दृष्टमस्तीति तत्र न स प्रयोजक इति वाच्यम् । अत्र हि अन्यपरत्वं प्रतीतार्थपरित्यागेन अन्यपरत्वं विवक्षितम् । न च प्रमाणविरुद्धे तदस्ति । बहुक्षीरा इत्यादौ प्रतीतार्थस्य हेतूकृतत्वेन तत्त्यागाभावात् । तादृशस्यैव अन्यपरत्वस्य अमुख्यार्थत्वप्रयोजकत्वात् । अन्यथा स्वार्थात्यागेऽपि अन्यपरत्वमात्रेण अमुख्यार्थत्वे महावाक्यानामवान्तरवाक्यानां च प्राकरणिकार्थपरत्वेन अमुख्यार्थत्वं स्यात् । न च तथा केऽपि व्यवहरन्ति । स्वसमयमात्रस्य अतिप्रसञ्जकत्वादिति ।
तात्पर्यलिङ्गस्य मुख्यार्थत्वप्रयोजकत्वे व्यभिचारं दर्शयति – न हि कुरूपामिति । शतकृत्व इति अभ्यासरूपतात्पर्यलिङ्गसद्भावकथनम् । ननु न लोके तात्पर्यलिङ्गस्य मुख्यार्थत्वप्रयोजक-त्वम् । येन व्यभिचारः । किन्तु वेदे इत्यतो वेदेऽपि व्यभिचारमाह – न वेति । न च एतस्यापि अद्वैतवाक्यत्वेन पक्षत्वात् वाच्यार्थत्वं साध्यत इति न व्यभिचारः इति वक्तुं शक्यम् । अपसिद्धान्तात् । तात्पर्यानुपपत्त्यादित एव अवाच्यार्थपरत्वं न तु मानान्तरविरोधात् इत्यस्य च प्रत्युक्तत्वात् । ननु वाच्यार्थपरत्वाभावेऽपि परमतात्पर्यार्थपरत्वेन मुख्यार्थत्वं भविष्यतीति चेन्न । वाच्यार्थत्वाभावे मुख्यार्थत्वाभावस्य वक्ष्यमाणत्वात् । किञ्च वेदेऽपि यत्किञ्चित्तात्पर्यलिङ्गमात्रं मुख्यार्थत्वे हेतुः किं वा लिङ्गबाहुल्यम् । नान्त्यः । एकेन तात्पर्यसिद्धौ लिङ्गान्तरमनुवादकत्वेन अप्रमाणम् । आद्ये मानांतराप्राप्तार्थप्रतिपादकत्वरूपापूर्वतायाः प्रस्तरवाक्ये विपक्षेऽपि सत्त्वात् व्यभिचार इत्याह – किञ्चेति । ननु प्रस्तरादिवाक्ये अपूर्वतालक्षणतात्पर्यलिङ्गे विद्यमानेऽपि न तद्बाहुल्यम् । तत्त्वमसिवाक्ये च तात्पर्यलिङ्गबाहुल्यस्य सद्भावात् मुख्यार्थत्वं भविष्यतीत्यत आह – त्वत्पक्षे चेति । तात्पर्यलिङ्गबाहुल्यस्यानुपयुक्तत्वात् न तद्बाहुल्यगवेषणा इति भावः । प्रस्तरादिवाक्यमिति । अत्र अन्यशेषं(त्वं) नाम प्रतिपादितार्थस्य फलसाधनीभूतार्थाङ्गत्वमिति न अन्यपरत्वेन अभेदः ।
न्यायामृतप्रकाशः
तस्माद्धूम एवाग्नेरिति ।। प्रमाणलक्षणेऽर्थवादाधिकरणे ‘‘तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिस्तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूमः’’ इत्यर्थवादयोर्दिवाप्यर्चिर्दर्शनान्नक्तमपि धूमदर्शनात् दृष्ट-विरोधेनाप्रामाण्यं ‘‘शास्त्रदृष्टविरोधाच्चे’’ति सूत्रेण पूर्वपक्षयित्वा, दिवा नक्तं चार्चिर्धूमयोर्दर्शनशब्दो गौण इति ‘‘गुणवादस्त्वि’’ति सिद्धान्तसूत्रेण दृष्टविरोधः समाहितः । गौणतानिमित्तं च ‘‘दूर-भूयस्त्वात्’’ इति सूत्रेणोक्तं यथा दिवा धूमो दूरस्थैर्भूम्ना दृश्यते न तथार्चिः रात्रौ च यथा अर्चिर्दूरस्थैर्भूम्ना दृश्यते न तथा धूमः । अतो न दृष्टविरोधादप्रामाण्यमिति ।। अदितिर्द्यौरिति ।। प्रमाणलक्षणे मन्त्राधिकरणे ‘‘अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः’’ इति मन्त्रस्य एकस्या अदितेः परस्परभिन्नद्युगगनाद्यनेकात्मकत्वस्य दृष्टविरोधेनार्थविवक्षाया अयोगादप्रामाण्यमिति ‘‘विप्रतिषेधादि’’ति सूत्रेण पूर्वपक्षयित्वा ‘‘गुणादविप्रतिषेधः स्यात्’’ इति सिद्धान्तसूत्रेण द्व्यन्तरिक्षादिवत् सुखकरत्वादिना द्युशब्दादीनां गौणार्थत्वमङ्गीकृत्य दृष्टविरोधःसमाहितः । तदेतत्सर्वं शब्दस्य प्रत्यक्षबाधकत्वे विरुध्येत । मुख्यार्थपरत्वमेव स्यादित्यर्थः ।। तत्सिद्धिरित्यादित-त्सिद्धिपेटिकयेति ।। एकार्थप्रतिपादकानेकाधिकरणसङ्ग्रहःपेटिकेत्युच्यते । मीमांसाशास्त्रप्रसिद्धोऽयं शब्दः । प्रमाणलक्षणे नामधेयपादे ‘‘तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवायात्’’ इति सूत्रेण ‘‘यजमानः प्रस्तरः, अग्निर्वै ब्राह्मणः, आदित्यो यूपः, अपशवो वा अन्ये गो अश्वेम्यः’’ इति श्रुतिषु प्रस्तरस्य यज्ञसाधनभूतदर्भमुष्टिविशेषस्य यजमानत्वं, ब्राह्मणस्याग्नित्वं, यूपस्यादित्यत्वं, गवाश्वव्यतिरिक्तानाम् अजादीनामपशुत्वं प्रत्यक्षविरुद्धमिति । तत्परिहाराय प्रस्तरादिषु यजमानादि-शब्दा गौणा इति तेषां प्रवृत्तिनिमित्तभूता गुणाः प्रदर्शिताः । तत्र यजमानशब्दस्य प्रस्तरे प्रवृत्तौ तत्कार्यकरत्वं गुणः । उभयोरपि यज्ञसाधनत्वेन एककार्यकरत्वात् । ब्राह्मणेऽग्निशब्दप्रवृत्तौ जन्म= एकप्रभवत्वं गुणः । ‘‘ब्राह्मणोऽस्य मुखमासीत्, मुखादिन्द्रश्चाग्निश्चे’’ति ब्राह्मणाग्न्योर्मुखजत्व-श्रवणात् । यूपे आदित्यशब्दस्य प्रवृत्तौ आज्याञ्जननिमित्तमौज्वल्यं गुणः । तदेव सारूप्यमित्युक्तं सूत्रे । यद्यपि तत्सिद्ध्यादिकमपि सारूप्यमेव । तथापि इदं चक्षुर्ग्राह्यं सारूप्यमिति विशेषा-त्तथोक्तम् । अपशुशब्दस्याजादिषु प्रवृत्तौ गवादीनां प्रशंसानिमित्तम् । पशुशब्देन गवाश्वगतेनोप-कारातिशयेन प्रशस्तत्वे लक्षिते नञा तदभावः पश्वन्तरेषु बोध्यते । यथोक्तम् ।
‘‘गवाश्वादिगतां पूर्वमुपादाय प्रशस्तताम् ।
तदभावोऽन्यपश्वादौ नञ्समासेन बोध्यते’’ इति ।
भूमलिङ्गसमवायोदाहरणानि तु ग्रन्थगौरवभयान्न प्रदर्श्यते । एतावतैव चारितार्थ्यात् । यथोक्तं
‘‘तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः ।
षङ्भिःसर्वत्र शब्दानां गौणीवृत्तिः प्रकल्पिता’’ ।।
इति प्रत्यक्षाविरोधायेति ।। सार्वज्ञादिविशिष्टदुःखादिविशिष्टयोरैक्यस्य प्रत्यक्षविरुद्धत्वात् तदविरोधायेत्यर्थः । लक्षणा सार्वज्ञादिभागत्यागेनेति शेषः ।। अनन्यपरत्वादिति ।। औते तात्पर्य-लिङ्गानां सत्त्वेनाद्वैतव्यतिरिक्तेऽर्थे तात्पर्याभावात्तत्रैव तात्पर्यम् । प्रस्तरादिवाक्ये तु तात्पर्यलिङ्गा-भावेन यजमानाभेदे न तात्पर्यं, किंनामान्यत्रैव तत्कार्यकारित्वादावित्यर्थः । वाक्यस्यैकत्र तात्पर्य-तदभावयोर्मानान्तराविरोधतदभावयोरेव प्रयोजकत्वं न तात्पर्यलिङ्गसत्त्वासत्त्वयोः । व्यभिचारा-दित्याह ।। सत्यपीति ।। मानान्तरविरोधे प्रत्यक्षरूपमानान्तरविरोधे ।। सोमेनेति ।। सोमेन यागेनेष्टं भावयेदिति तदर्थः । एवं च सोमलताया यागाभेदः प्रत्यक्षेण विरुद्ध इत्यर्थः । अनन्यपरत्वस्य प्रतीतार्थव्यतिरिक्तार्थन्तरे तात्पर्याभावस्यायोगादित्यर्थः । सत्यपि तात्पर्यलिङ्गे मानान्तरविरोधे स्वार्थे तात्पर्यं नास्तीत्येतद्दृष्टान्तांतरेणोपपादयति ।। न हीति ।। दर्शेति ।। दर्शनीया सुरूपा । शतकृत्वः शतवारं । शतकृत्व इत्यभ्यासरूपतात्पर्यलिङ्गसद्भावोक्तिः ।। प्रयुक्तमपीति ।। आप्तवाक्यमपीत्यर्थः । प्रत्यक्षविरोधस्तु स्पष्टः ।। वाच्यार्थेति ।। विशिष्टैक्यरूपेत्यर्थः ।। त्वन्मत इति शेषः । ननु प्रस्तरादिवाक्यवदिति पूर्वोक्तो दृष्टान्तो न युक्तः । तत्र तात्पर्यलिङ्गस्यैवाभावादित्यत आह ।। अस्ति चेति ।। उपक्रमादीनां षण्णामपि सम्भूयैव तात्पर्यलिङ्गत्वान्नापूर्वतामात्रं तात्पर्यलिङ्गमित्यत उक्तं उपक्रमेत्यादि । किञ्चोपक्रमादीनां प्रत्येकमेव तात्पर्यलिङ्गत्वं वक्तव्यं न तद्बाहुल्यस्य, अतिप्रसङ्गा-दित्याह ।। त्वत्पक्षे चेति ।। बहुप्रमाणसंवादस्यास्मन्मते दार्ढ्यहेतुत्वात्त्वत्पक्षेत्युक्तम् ।। एक-लिङ्गेति ।। उपक्रमरूपेत्यर्थः । लिङ्गान्तरं तत्रैव प्रवर्तमानमुपसंहारादिकम् । तत्र दृष्टान्तः प्रत्यक्ष-सिद्ध इति । प्रत्यक्षसिद्धे भेदे प्रवर्तमानायाः भेदश्रुतेर्यथानुवादकत्वमुच्यते तथेत्यर्थः । तथा चैकलिङ्गसिद्धे तात्पर्ये लिङ्गान्तरस्यानुवादकत्वाभावे भेदश्रुतेरप्यनुवादकत्वं न स्यादित्याशयः ।।
न्यायकल्पलता
ननु तथापि परीक्षितप्रमाणाभावशब्दबाध्यं सन्घटइत्यादिप्रत्यक्षमस्त्वित्यत आह । यदि चाक्षं शब्दबाध्यमिति । परीक्षितोपजीव्यप्रत्यक्षविरोधेनानुपपन्नप्रमाणाभावत्वादिति भावः । अक्षस्यानुपपन्न-प्रमाणभावशब्दबाध्यत्वेऽतिप्रसङ्गमाह । तर्हीति । अर्थवादाधिकरणे शास्त्रदृष्टिविरोधाच्चेति पूर्वपक्षसूत्रेण तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूम इत्यर्थवादयोर्दिवाप्यर्चिर्दर्शनात् नक्तमपि धूमदर्शनात् । दृष्टविरोधेनाप्रामाण्ये प्राप्ते गुणवादस्त्विति सिद्धान्तसूत्रेण गुणवादमभ्युपेत्य दिवानक्तं चार्चिधर्ूूमयोरदर्शनशब्दो गौण इति दृष्टविरोधपरिहारेण प्रामाण्यमुक्तम् । तथाहि । सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातरिति मिश्रलिङ्गमन्त्रविधेः शेषो धूम एवाग्नेर्दिवा ददृशे इत्यादिरर्थवादः । दिवाग्निरादित्यमनुप्रविशति रात्रावादित्येऽस्तमित्येतमर्थ-मुपपादयन् विधेयमर्थं स्तौति । धूम एवेत्याद्यवधारणमप्यदर्शनशब्दवद्गौणम् । गौणतानिमित्तं च दूरभूयस्त्वादिति सूत्रेणोक्तम् । यथा दिवा दूरस्थैर्भूम्ना धूमो दृश्यते न तथाऽर्चिः । रात्रौ च यथा दूरस्थैरर्चिर्भूम्ना दृश्यते न तथा धूमः । एवं च न ददृशे इत्यत्र दर्शनमात्रवाचिना दृशिना दूरभूम्नविशिष्टे दर्शने लक्षिते तदभावस्तयोर्नञा बाध्यते । अवधारणस्यापि दर्शनव्यावृत्यर्थत्वात् तदपि गौणम् । अतो न दृष्टविरोधादप्रामाण्यमिति ।
अदितिर्द्यौरित्यादिमन्त्रस्य चेति । मन्त्राधिकरणे अर्थविप्रतिषेधादिति पूर्वपक्षसूत्रेणार्थविरोधा-द्विरुद्धार्थत्वादेकस्या अदितेर्देवतायाः परस्परभिन्नद्यु-गगनात्मकत्वासम्भवात् ‘‘अदितिर्द्यौरदितिरन्तरिक्ष-मदितिर्माता स पिता स पुत्रः, एक एव रुद्रो न द्वितीयाय तस्थे, सहस्रशो ये रुद्रा अधिभूम्या-मित्यादिमन्त्रस्यार्थवादविवक्षायां दूषितायामप्रामाण्ये प्राप्ते गुणादविप्रतिषेधः स्यादिति सिद्धान्तसूत्रेण मातृत्वादिगुणैरदितिर्देवता स्तूयते । अदितेर्द्युकार्यकरत्वादिना
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ।।
इत्यादौ मात्रादिशब्दानामिव द्युशब्दादीनां गौणत्वमाश्रित्य विरोधः समाहितः । तदेतत्सर्वशब्दस्य प्रत्यक्षबाधकत्वे विरुध्येताम् । प्रत्यक्षस्य शब्दबाध्यत्वे शब्दस्य मुख्यार्थपरत्वमेव स्यादित्यर्थः ।
तत्सिद्धिरित्यादीति । प्रमाणलक्षणे प्रथमाध्याये चतुर्थपादे विचारितम् । तत्सिद्धिजाति-सारूप्यप्रशंसाभूमलिङ्गसमवाया गुणाश्रयाः इति । वैदिकशब्देषु क्वचिद्गौणीवृत्तिरस्तीति प्रतिपादयितुं गौण्या वृत्तेर्लक्षणं तावद्विचार्यते ।
गौणत्वमेकदेशे किं वृत्रिः सङ्घातवाचिनः । किमध्यारोपितार्थत्वं वृत्तिर्वा गुणयोगतः ।। १ ।।
नाद्यः शौर्यादिरहिते सिंहे नो सिंहगीरियम् । मुख्यवृत्तिं प्रपद्येत शतार्थे शतशब्दवत् ।। २ ।।
अतः सिंहत्वमारोप्य देवदत्ते प्रयुज्यते । सिंहशब्दोऽन्यथा न स्यात्तद्बोधः सिंहशब्दतः ।। ३ ।।
शौर्यादिगुणयोगस्य सिंहत्वारोपकारणम् । न चैवं मुख्यतापत्तिर्वाच्यस्यावास्तवत्वतः ।। ४ ।।
वेदेध्यारोपकाभावान्नाध्यारोपस्तु सम्भवी । अतो वेदेऽपि गौणत्वं सम्भवेद्गुणयोगतः ।। ८ ।।
ननु पुरुषाप्रणीते वेदे कथं वृत्यन्तरमिति । पुरुषाभिप्रायानुप्रवेशात् । अन्यथा व्युत्पादकपुरुषाभावेन वेदस्याबोधकत्वलक्षणाप्रामाण्यापातात् । तथाहि–
पुमभिप्रायभावे तु विधेरनुपपत्तितः । अहमाद्यनुपपत्तेश्च तथाचैव लिङादिषु ।। १ ।।
चैतन्याध्यासस्वीकाराद्वेदाप्रामाण्यामापतेत् । नाप्यचैतन्यविज्ञाने चैतन्याध्याससम्भवः ।। २ ।।
वेदस्याकर्तृकत्वेऽपि विध्यादेरुपत्तितः । तत्ववित्परमाचार्यैः पराभिप्राय इष्यते ।। ३ ।।
प्रयोक्ता भगवान् विष्णुः निर्दोषाशेषसद्गुणः । यो ब्रह्माणमिति श्रुत्या वक्तृत्वं तस्य निश्चितम् ।।४।।
नचैवम् । रुढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेदिति भगवत्पादोक्तिविरोधः । तत्र रुढियोगौ विहाय केवलवृत्यन्तरस्य निषिद्धत्वात् । रुढियोगपूर्वकगौण्यादिवृत्तेरनिवारणात् । यत्तु वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यत इति भगवत्पादीयवाक्यान्तरबलाद्वेदे मुख्यवृत्तिरेव नास्तीति व्याख्यानन्तु न बुध्यामहे । तथाहि । किं वैदिकानि पदानि अभिधाशक्तिमन्त्येव गौणीलक्षणावृत्तिमन्ति न भवन्तीत्यभिप्रायः । उत गौणस्य लाक्षणिकस्य चार्थस्य वेदवाक्यार्थान्वयो नास्तीति । आद्ये लौकिकानां वैदिकानां च शब्दानां भेदाभावाद्वृत्तिभेदकथा वृथा स्यात् । न द्वितीयः । हृद्यपेक्षया तु मनुष्याधिकारत्वादिति लक्षणायास्तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदिति गौण्याश्च वृत्तेरङ्गुष्ठमात्रः पुरुषः, तत्वमसीत्यादौ सूत्रकृताऽङ्गीकृतत्वात् । अत एव परमात्मनि गौण्याद्यभावपरमेतदिति निरस्तम् । अङ्गुष्टमात्रश्रुतेः सुषिरश्रुतेश्चेश्वर एव लाक्षणिकत्वेनोक्तत्वात् । प्राज्ञवदिति सर्वं खलु इदं ब्रह्मेति श्रुतेर्गौणत्वेन स्वीकृतत्वादिति टीकाकारैरेव तत्र तत्र समर्थितत्वात् । कथं तर्हि खपुष्पशश-विषाणादिशब्दानां गौणत्वं वन्ध्यासुतवचनं भवत्सिद्धान्त इत्यादौ । न हि तेषां मुख्यमभिधेयमस्ति । येन तत्सादृश्याद्गौणत्वं स्यात् । उच्यते ।
मुख्यमर्थं वदन्त्येव वन्ध्यापुत्रादिका गिरः । असद्विशेषं तत्रापि विशेषोऽस्तीति वक्ष्यते ।।
असत्स्वपि सद्व्यावर्तकोऽर्थक्रियाकारित्वाभावादिरसत्वाविरोधी विशेषोऽस्तीत्यर्निवाच्यसाधकख्याति-बाधान्यथानुपपत्तिभङ्गे ग्नन्थकार एव वक्ष्यति । तस्माद्वेदेऽपि गौण्यावृत्तेः सम्भवाद्यजमानः प्रस्तरः यजमान एककपाल इत्यादिषु विचार्यते । नामधेयं वा गुणविधिर्वा अर्थवादो वेति सन्देहे सामानाधि-करण्यादेकमितरस्य नामधेयं प्रस्तरशब्दो वा यजमानस्य यजमानशब्दो वा प्रस्तरस्येति पक्षो भिन्नार्थत्वेन प्रसिद्धत्वान्नैकमपीतरस्य नामधेयं भवितुमर्हतीति निरस्तः ।
नापि तृतीयः । अर्थान्तरवचनेनार्थान्तरस्य स्तुत्यसम्भवात् । अष्टाकपालादिभिस्त्ववयवद्वारेण स्तुतिरुक्ता द्वादशकपालस्य । न च प्रस्तरावयववचनो यजमानशब्दः । येन स्तुतिः स्यात् । तस्मा-दन्यतरकार्येऽन्यतरविधानं गुणविधिः । तत्रापि यजमानस्य मुख्यत्वाच्छ्रुतिवृत्तो यजमानः प्रस्तर-शब्दलक्षिते स्रुग्धारणादौ प्रस्तरकार्ये विधीयते । तस्माद्गुणविधिरिति प्राप्तेऽभिधीयते । यजमानस्य स्रुग्धारणे विनियुक्तस्य स्वपदार्थकरणविरोधात्प्रस्तरवच्च सूक्तवाकेन प्रहरणादेककपालवच्च सर्वहुतकरणा-त्सर्वतन्त्रपरिलोपः स्यात् । तस्मादर्थवादः । कथं परशब्देन परस्य संस्तवनं सामानाधिकरण्यं वा । गुणादिति ब्रूमः । कथमगुणवचनो गुणमभिदध्यात् । नाभिदधाति, किन्त्वर्थसम्बन्धेन बोधयति । तच्च प्रस्तरेऽप्यस्तीति प्रस्तरविबोधः । प्रस्तरस्य यज्ञसाधनभूतदर्भमुष्टिविशेषस्य यजमानत्वं प्रत्यक्षविरुद्धमिति तत्परिहाराय प्रस्तरे यजमानशब्दो गौणः । स्वार्थसदृशे तद्गुणशालिनि तात्पर्यं भजमानः शब्दो गौणः सम्पद्यते । यथा लोके सिंहो देवदत्त इति । यजमानस्य कार्यसिद्धिः यजमानकार्यकरत्वं स्रुग्धारणादि । यजमानशब्दस्य प्रस्तरे प्रवृत्तौ निमित्तं तत्सिद्धिस्तत्कार्यकरत्वं गुणः । उभयोरपि यज्ञसाधनत्वेनैक-कार्यकरत्वात् ।
जातिः । अग्निर्वै ब्राह्मण इति वार्तिककारस्योदाहरणम् । आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो वैश्यो वैश्वदेव इति भाष्यकारस्योदाहरणम् । अत्रापि पूर्ववन्नामधेयत्वगुणविधित्वार्थवादत्वसन्देहेऽर्थवादत्वं सिद्धान्तः । निमित्तान्तरकथनाय पृथुगुक्तिः । ब्राह्मणेऽग्निशब्दस्य प्रवृत्तौ जातिर्जन्म एकप्रभवत्वं गुणः । ब्राह्मणोऽस्य मुखमासीत् मुखादिन्द्रश्चाग्निश्चेति तयोर्मुखजत्वान्मानात् । अग्निसमवेतमुखजन्यत्वगुणस्य ब्राह्मणेऽपि वर्तमानत्वात् । श्रूयते चाग्निब्राह्मणयोर्मुखजन्यत्वं कस्मिंश्चिदर्थवादेऽपि । प्रजापतिरकामयत प्रजाः सृजेयेति समुखतस्त्रिवृतं निरमिमीत तमग्निर्देवता अन्वसृज्यन्त गायत्रं छन्दो रथन्थरं साम ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्तेति । तस्मादग्निशब्द आग्नेयशब्दश्च स्तावकः । एवमैन्द्रो राजन्यो वैश्यो वैश्वदेव इत्यादिषु द्रष्टव्यम् ।
सारूप्यं– आदित्यो यूपः यजमानो यूपः इत्यादिष्वपि नामधेयत्वादिसन्देहे अर्थवादत्वं सिद्धान्तः । यूपे आदित्यशब्दप्रवृत्तिनिमित्तं घृताक्ते यूपे ऊर्ध्वत्वमाज्यांजननिमित्तं ज्वलनरूपं तेजस्वित्वादिसारूप्यं गुणः । सूत्रे यद्यपि तत्सिध्यादिकमपि सारूप्यमेव तथापीदं चक्षुर्ग्राह्यं सारूप्यमिति विशेषात्तथोक्तम् । प्रशंसाशब्दस्य गौणत्वे प्रशस्तत्वमपि निमित्तम् । तथाहि अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वा इत्यत्र श्रुतावजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न सम्भवति । पशुत्वनिषेधमात्रेण स्तुतेर-सम्भवात् नामधेयत्वं त्वनाशङ्क्यमिति गुणविधित्वेन पूर्वपक्षः । पशुकार्ये गवाश्वव्यतिरिक्तानामजादीनां प्रतिषेधप्रतीतेरिति । सिद्धान्तस्तु तत्र तत्राजादीनां प्रतिविहितत्वादशक्यः पशुकार्येऽजादीनां प्रतिषेधः । पशुव्यतिरिक्तघटादिवचनस्यापशुशब्दस्य परत्राजादिषु गवाश्वगतप्रशंसानिमित्तः प्रयोगः । तस्मादर्थवादः ।
ननु सर्व एव प्रशंसानिमित्तोऽर्थवादः किमत्र विशेषेणोपन्यस्यते । सत्यं तत्सिध्यादिगुणेन प्रस्तरादिषु यजमानादिशब्दः प्रस्तरादेः प्रशंसाफलो भवति । इह तु शब्दप्रवृत्तिनिमित्तमपि गुणः प्रशंसैव । तथाहि । अयं मन्त्रार्थः । अपशवो वा अन्ये गो अश्वेभ्य इत्यत्र नञ्समासगतेन पशुशब्देन प्रथमं गवाश्वगतं प्राशस्त्यमुपादाय पश्चात्तदभावो नञा पश्वन्तरेषु प्रतिपाद्यते । न हि पशुत्वं शक्यं प्रतिषेद्धुम् । प्रत्यक्षविरोधात् । अवश्यं पशुशब्दोपात्तोऽर्थो नञा पश्वन्तरेषु प्रतिषेद्धव्यः । शक्नोति चायं पशुशब्दो गवाश्वाभ्यामेकवाक्यतया सम्बद्धः तद्गतं प्राशस्त्यं लक्षयितुम् । तच्च नञा पर्युदस्यते । एतदुक्तं भवति । गवाश्वेषु यत्प्राशस्त्यं न तदन्येष्वस्ति । तस्मादप्रशस्तास्ते । गवाश्वमेव प्रशस्तम् । सोऽयं गवाश्वगतप्राशस्त्याभावः पश्वन्तराणामपशूनां च तुल्य इत्यनेनाभिप्रायेण पश्वन्तराण्यपशव इत्युच्यन्ते । द्विप्रकारा हि प्रशंसा । वस्तुनि विद्यमानगुणोत्कर्षः एकः प्रकारः । स्तावकेन शब्देन सम्पादितो गुणोत्कर्षोऽपरः प्रकारः । गवाश्वयोरजादिभ्य उत्कर्षो यो लोकसिद्धः स उत्कर्षोऽत्र निमित्तम् । अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यपशवः सम्पन्नाः ईदृशो गवाश्वयोर्महिमेति स्तुतिः फलम्् ।
ननु व्यधिकरणत्वादपशुशब्दस्याजादिषु प्रवृत्तौ कथं गवाश्वगतप्रशंसानिमित्तम् । समानाधिकरण-त्वादजादिगतप्रशस्तत्वाभावस्तु निमित्तं स्यात् । अतोऽप्रशंसैव सूत्रणीया न प्रशंसेति चेत् मैवम् । अजादिषु प्रवृत्तावपशुशब्दस्य तदवयवभूतेन पशुशब्देन निषेध्यमर्पयता सन्निहितगवाश्वगतप्रशंसाया उपादानादपशुशब्दः प्रशंसानिमित्त इत्युच्यते । अपशुशब्दस्याजादिषु प्रवृत्तौ प्रशंसा निमित्तम् । तत्सिद्ध्यादिषु शब्दप्रवृत्तिस्तुत्योः प्रस्तरादिनिमित्तत्वेऽपि प्रकृते भिन्नरूपत्वात् । अजादिष्वप्रशंसया प्रवर्तमानस्यापशुशब्दस्यार्थविशेषकरत्वाभावाच्च । न च रजतनिन्दया हिरण्यस्तुतिवदजादिनिन्दया गवाश्वयोः स्तुतिः स्यादिति वाच्यम् । तस्माद्बर्हिषि रजतं न देयमिति शब्दाद्रजतनिन्दाया इवापशुशब्दात् स्पष्टं निन्दाया अप्रतीतेः । तस्मात् प्रशंंसैव सूत्रणीयेति प्रशंसानिमित्तोऽयमर्थवादः । अयज्ञो वा एष यदसाम । असत्रं वा एतद्यदछन्दोममित्यादिष्वयमेव च न्यायः । छन्दोमशब्देन चतुर्विंशश्चत्वारिंशोऽष्ट-चत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते । अक्षरसङ्ख्यासाम्येन गायत्रीत्रिष्टुप्जगतीछन्दोभिर्गीयमानत्वात् । भूमा– अग्निचयने श्रूयते । सृष्टीरुपदधातीति । सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय इत्युच्यते । सृष्टिमानासामुपधानो मन्त्र इति विगृह्य तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोरिति व्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् । सृष्टिशब्दोपेताश्चोपधानमन्त्रा एकया स्तुवतेत्यस्मिन्ननुवाके समाम्नाताः ब्रह्मासृज्यत भूतान्यसृज्यंतेत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात्ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते । उत सृष्टिशब्दोऽनुवादरूपोऽर्थवादो वेति संशये मन्त्ररूपगुणविधिरिति पूर्वः पक्षः । कुतः । उपदधतीत्यनेनाख्यातेन लेटाऽभिसम्बन्धात् । न चार्थ-वादत्वमस्य सम्भवति । विध्यन्तरेण सहैकवाक्यत्वाभावात् । इति प्राप्ते सिद्धान्तः । लिङ्गप्रकरणाभ्यामेव मन्त्राणां प्राप्तत्वान्नायं विधिः सम्भवति । तथा सति परिसंख्या स्यात् । बहुषु मन्त्रेषु प्रकरणप्राप्तेषु सृष्टिविधानादन्ये परिसङ्ख्यायेरन् । सा च त्रिदोषा । परिसङ्ख्यातानां मन्त्रान्तराणामानर्थक्यं स्यात् । तस्मान्न ते मन्त्रा अत्र विधीयन्ते । किन्तु तान्मन्त्राननूद्येष्टकोपधानं विधीयते । सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्यर्थः । यथा सृष्टमेवावरुन्ध इति हि वक्ष्यमाणोऽर्थवादः । यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात्तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्यभ्रमः स्यात् । तस्मान्मन्त्रानुवादी सृष्टिशब्दो न गुणविधायकः । किन्त्वर्थवादः ।
ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः किन्तु दधातिधातुः । एकया स्तुवते प्रजाः अधीयन्तेति तत्त्यागात् । बाढम् । तथापि द्वितीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्भूम्ना गुणेन सृजतिधातुप्रयोगाद्भूम्ना गुणेन सृष्ट्यसृष्टिसमुदाये सृष्टिशब्दो गौणः प्रवर्तत इति भाष्याभिप्रेतः पक्षः । एवं च तद्वानासामुपधान इत्यादिव्याकरणसूत्रमप्यनुसृतं भवति । यद्यपि व्याकरणसूत्रानुसारेण सृष्टिशब्दार्थान्तर्गतत्वादुपधानमपि न पृथग्विधेयम् । तथाप्युपधानरूपसृष्ठिपदार्थविधानार्थं विधिप्रत्ययस्तावदवश्यं प्रयोक्तव्यः स च धातुं विना न केवलः साधुप्रयोग इति यस्यकस्यचिद्धातोः प्रयोक्तव्ये बुद्धिसन्निहित उपदधातिरेव प्रयुज्यते । सृष्टि-शब्दोपेता मन्त्रा यासामिष्टकानामुपधाने वर्तन्त इत्येवं सृष्टिपदार्थे इष्टकाविशेषणत्वेनोपस्थितस्योपधानस्य विधिसम्बन्धे क्लिष्टत्वाच्चेति ।
केचित्त्वयं मन्त्रविधिरिति समर्थयन्ते । न ह्येकया स्तुवत इत्यादीनामुपधानमेकान्तिकं लिङ्गमस्ति येन प्राप्तिः स्यात् । इष्टकालिङ्गस्य स्त्रीलिङ्गशब्दप्रयोगादेः साधारणत्वेन ग्रहणासादनादिष्वपीष्टकानां प्राप्नुयुः । तथा सत्यस्ति विधेरवकाशः । सत्यामप्युपधाने प्राप्तौ मध्यमचिति सम्बन्धार्थमपि प्रत्यक्ष-विधानमर्थवद्भविष्यति । यां काञ्चिद्ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमायां चिति निदध्यादिति वचनात् । लिङ्गसमवायः । चयने श्रूयते । प्राणभृत उपदधातीति । अत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः । लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिरिति सिद्धान्तः । एतस्यैव प्राणान् दधातीत्यस्य वक्षमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः । पूर्वत्र द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां भूयस्त्वम् । इह तु प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते । अयंं पुरोभौवनस्तस्य प्राणो वाऽयन इत्येकस्यैव मन्त्रस्य प्राणभृत्वेपि तत्सहचरिताः सर्व एव मन्त्राश्छत्रिन्यायेन प्राणभृछब्देन लक्ष्यते । प्राणभृदप्राणभृत्समूहेऽपि प्राणभृच्छब्दसमवायोऽस्तीति सर्वेषु तदनुवाकगतमन्त्रेषु प्राणभृच्छब्दो गौणः । तत्सिद्ध्यादिभि-निर्मित्तैर्यजमानादिशब्दाः गुणाश्रयाः गुणवृत्तय इति समस्तजैमिनिसूत्रार्थः । तदुक्तम् ।
तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः ।
षडि्भः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता ।। इति ।
विशेषस्तु टुप्टीकादौ द्रष्टव्यः । अनेकप्रमेयसङ्ग्रहरूपत्वात् पेटिकाशब्दः ।
न च तत्सिध्याद्युदाहरणचतुष्टये प्रत्यक्षविरोधेन गौणार्थतेत्यस्ति । प्रकृतोपयोगभूमलिङ्ग-समवायोदाहरणयोः कथं प्रकृतोपयोगित्वमिति देश्यम् । ऐन्द्य्रा गार्हपत्यमुपतिष्ठत इतिवत्सृष्टी-रुपदधातीत्यादिश्रुतिस्वरूपग्राहिप्रत्यक्षविरोधेन गौणार्थत्वोपपत्तेः । तत्सिद्धिपेटिकायां यजमानः प्रस्तर इत्यादेः प्रत्यक्षविरोधेन गौणताया उक्तत्वात् । परीक्षितप्रत्यक्षस्य शब्दाबाध्यत्वं परेणाप्यंगीकारयति । त्वयाचेति । उक्तदूषणकलापातिदेशेन परोक्तमद्वैतवाक्यस्य प्रस्तरादिवाक्यवैषम्यं निरस्यति । एतेनेति । अनन्यपरत्वात् । श्रुतेरद्वैते तात्पर्यलिङ्गानां सत्वेनाद्वैततात्पर्यकत्वादन्यत्र तात्पर्यलिङ्गाभावेन तात्पर्याभाव इत्यर्थः । अद्वैतवाक्यस्यानन्यपरत्वमेवोन्मूलयति । सत्यपीति । वस्तुतस्तु नाद्वैततात्पर्यप्रमापकलिङ्ग-मस्तीति सूचयत्यपिशब्देन । न हीति । मानान्तराविरोधे एवोपक्रमादीनां तात्पर्यप्रमापकत्वं न तु तद्विरोधेऽपीत्याखण्डलार्थः । वाक्यमिति । अपूर्वताविरोधित्वादित्यर्थः ।
अत्राहुर्मायावादिनः । प्रमाणान्तरसंवादार्थक्रियादिरूपपरीक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेवैतद्विरुद्धग्राहिणा ‘‘धूम एवाग्नेर्दिवा ददृशे’’ ‘‘अदितिर्द्यौः’’ ‘‘यजमानः प्रस्तरः’’ इत्यादेस्तद्विरोधेनामुख्यार्थत्वेऽप्यद्वैतागमस्य परीक्षितप्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तेः । प्रत्यक्षादेर्हि परीक्षया व्यावहारिकप्रामाण्यमात्रं सिद्धम् । तच्च्च नाद्वैतागमेन बाध्यते । बाध्यते तु तात्विकं प्रामाण्यम् । तत्तु परीक्षया सिद्धमेवातो न विरोधः । धूम एवाग्नेरित्यादेस्तु मुख्यार्थत्वे प्रत्यक्षादे-र्व्यावहारिकं प्रामाण्यं व्याहन्येत । अतो विरोधात्तत्रामुख्यार्थत्वमिति विवेकः । यत्तु प्रत्यक्षाविरोधाय तत्वंपदयोर्लक्षणा नाश्रीयेतेति । तन्न । षडि्वधलिङ्गैर्गतिसामान्येन चाखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्तेर्जीवेशगतसर्वज्ञत्वकिञ्चिज्ञत्वादीनामैक्यान्वयानुपपत्तेस्तात्पर्यविषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकारणस्यैवोचितत्वात् । तात्पर्यविषयीभूतान्वयनिर्वाहाय लक्षणाश्रयणस्य सर्वत्र दर्शनात् । न चैवं सत्यमुख्यार्थत्वं स्यादिति वाच्यम् । तद्धि प्रतीयमानार्थपरित्यागेनार्थान्तरपरत्वं वा । अशक्यार्थपरत्वं वा । नाद्यः । सामानाधिकरण्येन प्रतीयमानस्यैक्यस्यात्यागात् । नान्त्यः । जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि सोऽयं देवदत्त इत्यादिवाक्य इव शक्यैकदेशस्यैवान्वयाभ्युपगमात् । विशेषण-बाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणापदेन व्यपदेशादिति ।
अत्रोच्यते । यदुक्तं अद्वैतश्रुतेः धूम एवाग्नेरित्यादिश्रुतिवैषम्यम् । तदनुपपन्नम् । परीक्षितप्रमाण-भावप्रत्यक्षादिविरोधस्योभयत्रापि वज्रलेपत्वात् । यदप्यवादि प्रत्यक्षादेर्हि परीक्षया व्यावहारिकं प्रामाण्यमात्रं सिद्धमित्यादि । तदप्यसत् । औतागमसमानयोगक्षेमत्वात् । किंच व्यावहारिकमिति किं बाध्यं उताबाध्यं विवक्षितम् । नाद्यः । स्वव्याहतेः । तच्च नाद्वैतागमेन बाध्यते दुर्बलत्वात् । नद्वितीयः । तात्विकस्यैव नामान्तरकरणेनास्मत्समीहिताव्याकोपात् । यदप्युक्तं बाध्यते तु तात्विक-मित्यादि । तन्न । अद्वैतश्रुतेरप्रसक्तप्रतिषेधकत्वापातात् । त्वद्रीत्या कालत्रयाबाध्यसत्वस्य प्रत्यक्षादिना विषयीकर्तुमशक्यत्वात् । विषयीकरणे तु विरोधस्य दुुरुद्धरत्वात् । अतो विरोधाद्धूम एवाग्नेरित्यादि-श्रुतिवदद्वैतश्रुतेरमुख्यार्थत्वम् । यत्तु षडि्वधलिङ्गैरित्यादि तदप्यतीव तुच्छम् । अन्योन्याश्रयात् । अद्वैतश्रुतेरसंसृष्टार्थरूपाखण्डे ब्रह्मणि सिद्धे तात्पर्ये तन्निर्वाहाय सर्वज्ञत्वादितद्धर्मज्ञनेन जहदजहल्लक्षणया विशेष्यमात्रपरतया मानान्तरविरोधः, सिद्धे च तदविरोधे तात्पर्यलिङ्गैरुक्तरूपाखण्डगोचरत्वदभिमत-तात्पर्यसिद्धिरिति । लौकिकवाक्यस्य मानान्तराविरुद्धतात्पर्यकत्वस्य दृष्टान्तत्वान्न्यायगम्यतात्पर्यं कस्यापि वैदिकवाक्यस्य मानान्तराविरुद्ध एवार्थे तात्पर्यकल्पनस्योचितत्वात् । उपजीव्यप्रमाणविरुद्धं चाद्वैत-बोधनम् । जीवपरमात्मविषयप्रमाणैर्भेदस्यैव ग्रहणात् । परेणापि हि प्रमाणविरोधभीरुणा लाक्षणिकोऽर्थोऽङ्गीकृतोऽद्वैतश्रुतेः ।
ननु नात्र प्रमाणविरोधेन श्रुतेरमुख्यार्थताऽभ्युपगम्यते । किं नाम श्रुतेरेव तथाऽभिप्रेतत्वादिति चेत् । तत्र प्रष्टव्यम् । कथमयं श्रुतेरभिप्रायो लोकोत्तरप्रज्ञेन विज्ञात इति । तात्पर्यलिङ्गैरिति तु दुर्वचम् । न हि लिङ्गानि तात्पर्यार्थावबोधकानि लाक्षणिकार्थग्रहणे कारणानीति युक्तम् । न तु लिङ्गबलादद्वैत एव तात्पर्ये सिद्धे प्रमाणविरोधाल्लक्षणाऽऽश्रीयते इति चेत् । न । उपक्रमादीना-मन्यार्थत्वस्य वक्ष्यमाणत्वादिति ।
न्यायामृतसौगन्ध्यम्
किञ्च प्रत्यक्षं यदि शब्दबाध्यं स्यात् तदा जैमिनिना ‘‘तस्मात् धूम एवाग्नेर्दिवा ददृशे नार्चि’’रित्याद्यर्थवादस्य ‘‘अदितिर्द्यौरि’’त्यादिमन्त्रस्य च दृष्टविरोधेनाप्रामाण्ये प्राप्ते ‘‘गुणवादस्तु गुणादविप्रतिषेधः स्यादि’’त्यादिना गौणार्थता नोच्येत, तत्सिद्धिजातिसारूप्यप्रशंसा भूमलिङ्गसमवाया इति तत्सिद्धिपेटिकायां ‘यजमानः प्रस्तरः’ इत्यादेर्गौणार्थता च नोच्येत । त्वयाऽपि प्रत्यक्षाविरोधाय तत्त्वंपदयोर्लक्षणा नोच्येत । श्रुतिविरोधे प्रत्यक्षस्यैवाप्रामाण्यसम्भवात् । न च तात्पर्यलिङ्गानामुप-क्रमादीनामत्र सत्त्वात् नाद्वैतश्रुतीनाममुख्यार्थत्वमिति वाच्यम् । यजमानः प्रस्तर इत्यादावप्य-पूर्वत्वाद्येकैकलिङ्गस्य तात्पर्यग्राहकस्य विद्यमानत्वात् । एकैकलिङ्गस्य तात्पर्यनिर्णायकत्वे लिङ्गान्तर-मनुवादकमेव । त्वन्मते प्रत्यक्षसिद्धे भेदे श्रुतिरिव किं बाहुल्येन ।
ननु परीक्षितप्रत्यक्षप्राबल्येन व्यवहारदशायामेव तद्विरुद्धग्राहिणो धूम एवाग्नेरित्यादेर-मुख्यार्थत्वेऽपि औतागमस्यापरीक्षितप्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तिः । प्रत्यक्षादेर्हि परीक्षया व्यावहारिकप्रामाण्यमात्रं सिद्धम् । तच्च नाद्वैतागमेन बाध्यते । बाध्यते तु तात्त्विकं प्रामाण्यं, तत्तु परीक्षया न सिद्धमेव । अतो न विरोधः । धूम एवाग्नेरित्यादेर्मुख्यार्थत्वे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं व्याहन्येत । तत्त्वंपदर्योर्लक्षणा हि न प्रत्यक्षाविरोधायाऽश्रीयते । किन्तु षड्विधतात्पर्य-लिङ्गैर्गतिसामान्येन चाखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्या जीवेशगतसर्वज्ञत्व किञ्चिज्ज्ञत्वा-दीनामैक्यान्वयानुपपत्तेश्च तात्पर्यविषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाऽङ्गीकर्तुमुचिता । न चैवं सत्यमुख्यार्थत्वं, तद्धि प्रतीयमानार्थपरित्यागेनार्थान्तरपरत्वं वा । अशक्यार्थत्वं वा । नाद्यः । सामानाधिकरण्येन प्रतीयमानस्य ऐक्यस्यात्यागात् । नान्त्यः । जहदजहल्लक्षणाश्रयणेेन शक्यैकदेश-परित्यागेऽपि सोऽयं देवदत्त इत्यादिवाक्य इव शक्यैकदेशस्यैवान्वयाभ्युपगमात् । विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणापदेन व्यपदेशः । उक्तं च वाचस्पत्ये प्रस्तरादिवाक्यमन्यशेषत्वाद-मुख्यार्थम् । अद्वैतवाक्यं त्वनन्यशेषत्वान्मुख्यार्थमेव । उक्तं हि शाबरभाष्ये– न विधौ परः शब्दार्थ इतीति चेन्न । नास्ति नासीन्न भविष्यतीति स्वरूपेणैव त्रैकालिकनिषेधं स्वीकुर्वतोऽर्थाबाधलक्षण-प्रामाण्यस्य कालत्रयेऽप्यसत्त्वात् । वर्तमानकाले सत्त्वं गृह्णता सन् घट इति प्रत्यक्षेण सुपरीक्षितेन त्रैकालिकनिषेधबोधकस्य त्वदभिमतमानस्य प्रतिरोधसम्भवात् । बाधितार्थकस्य अर्थाबाधलक्षणं व्यावहारिकं प्रामाण्यमित्युक्तेरुन्मत्तप्रलापत्वात् । न हि त्वन्मते वर्तमानकालेऽप्यर्थाबाधोऽस्ति । परीक्षया प्रत्यक्षस्य तात्विकं प्रामाण्यमित्यत्र प्रमाणस्यानुक्तत्वात् । अद्वैतस्य ब्रह्माभिन्नत्वेन तत्र श्रुतितात्पर्यस्य सदैव ज्ञातत्वात् । भिन्नत्वेनैवाद्वैतहानिः । गतिसामान्यं तु तत्तच्छब्दप्रवृत्तिनिमित्ताश्रये अनन्तगुणालये सगुणे ब्रह्मण्येवोपपन्नम् । त्वदभिमताखण्डस्याविशेष्यमात्रस्य त्वद्रीत्या सर्वदैव ज्ञातत्वेन तत्र तात्पर्यासम्भवः । जीवेशयोरैक्यसिद्धौ तत्र जीवत्वेशत्वयोरन्वयानुपपत्या लक्षणा-श्रयणम् । लक्षणाश्रयणे च तयोरैक्यसिद्धिरित्यन्योन्याश्रयात् ।
तद्धीत्याद्ययुक्तम् । अर्थान्तरपरत्वं ह्यमुख्यार्थत्वम् । एैक्यं हि त्वन्मते न स्वरूपभिन्नं, ब्रह्मणोऽखण्डत्वहानेः । स्वरूपस्य सर्वदैव प्रतीतत्वेन तत्परत्वे ऐक्यं व्यर्थमेव स्यात् । अशक्यार्था-बोधने लक्षणावैय्यर्थ्यात् । शक्याद्भिन्नेन रूपेण बोधे भवति हि लक्षणा । विशेषणबाधे नेत्यशुद्धम् । जीवेशयोरैक्यसिद्धौ हि ऐक्याश्रयणे सर्वज्ञत्वाल्पज्ञत्वान्वयबाधे त्वत्प्रलिपितं सिद्ध्येत् तदेवासिद्धम् । एतेन सामानाधिकरण्येन= अकार्यकारणमात्रतात्पर्यकसमानविभक्तिकनानानामत्वेन शुद्धव्यक्तिमात्ररूप ऐक्यप्रतीतिः । तथा च विशिष्टशक्तिज्ञानाकार्यशाब्दधीजनकोपस्थितिरूपलक्षणासाम्याच्छक्योप-स्थितेरपि लक्षणात्वोपचार इति निरस्तम् । विशेषणद्वयाश्रयैक्यसिद्धिं विना तत्त्वंपदयोः सामानाधि-करण्यस्यैवासिद्धेः । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिर्हि सामानाधिकरण्यमिति तल्लक्षणात् । त्वत्प्रलपितं लक्षणं तु व्यक्तावेव शक्तिरिति मते घटः पट इत्यत्राप्यस्ति । यत्तु अनुकूलयत्नशक्तादाख्यातपदादनुकूलत्वमात्रेण रथो गच्छतीत्यादौ व्यापारस्य बोधः शक्त्यैवेति कुसुमाञ्जलावुक्तम् । अनुकूलत्वयत्नत्वाभ्यां विशिष्टे शक्तिस्वीकारादिति । बलवदनिष्टाजनकत्व-समानाधिकरणेष्टसाधनत्वशक्तस्यापि विधिप्रत्ययस्य श्येनेनाभिचरन् यजेतेत्यादौ केवलेष्टसाधनत्व-बोधकत्वं लक्षणां विनैवेति मणावुक्तमिति । तन्न । दृष्टान्तवैषम्यात् । तथा हि । यत्रानेकविशेषण-विशिष्टपदस्य शक्यं तत्र क्वचिदेकविशेषणान्वयबाधे अपरविशेषणविशिष्टस्यैवान्वयः । अन्यथा शुद्धयत्ने शक्तिरिति मते रथो गच्छतीत्यत्र यत्नत्वं विहाय यत्नस्यान्वयः स्यात् । अत एव बलवदनिष्टेत्याद्यपि प्रलापो वृथा । तत्र ह्येकस्य विधिपदस्यानेकविशेषणविशिष्टो अर्थः क्वचिदेक-विशेषणान्वयबाधे अपरविशेषणविशिष्टस्यान्वयः । तत्त्वमसीत्यत्र तु एकस्य पदस्य तादृशार्थाभावात् । न च वाक्यस्य तादृशो अर्थः स्यात् । विरुद्धार्थकपदघटितवाक्यस्यैवासिद्धेः । शाबरवाक्यं तु अनुवादानुरोधेन विधौ न लक्षणेत्यतत्परम् । ‘‘स्वर्गकामो यजेत’’ इत्यत्र हि स्वर्गाद्यनुवादेन यागो विधेयः । तस्य चान्योपसर्जनत्वेन तत्वासम्भवः । अनुवादकविधायकयोरन्यतरत्र लक्षणाप्रसक्तौ स्वर्गकामपदे स्वर्गे लक्षणा । तदुक्तं– स्वर्गकामादिपदं लक्षणया स्वर्गपरं प्रथमा च कर्मत्वपरेति भावनान्वयोपपत्तेर्नान्योपसर्जनस्वर्गस्य तदनन्वयाशङ्केति ।
न्यायामृतमाधुरी
तस्मादित्यादि । तस्माद्धूम एवेत्यादेरर्थवादस्य गुणवादस्त्विति सूत्रेण, अदितिरित्यादिमन्त्रस्य च गुणादविप्रतिषेध इति सूत्रेण गौणार्थता सिद्धान्तत्वेन नोच्येतेति योजना । अर्थवादाधिकरणे शास्त्रदृष्टविरोधादिति पूर्वपक्षसूत्रेण ‘‘तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिस्तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूमः’’ इत्यादीनां दृष्टविरोधादप्रमाण्यमाशङ्क्य गुणवादस्त्विति सिद्धान्तसूत्रेण गुणवादमुपेत्य प्रामाण्यमुक्तम् । तथा हि । सूर्यो ज्योतिः ज्योतिरग्निः स्वाहेति सायं जुहोति अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातरिति श्रुतिलिङ्गमन्त्रविधिशेषो धूम एवाग्नेर्ददृशे इत्यादिरर्थवादः । दिवाग्निरादित्य-मनुप्रविशति रात्रावादित्येऽस्तमित्येतमर्थमुपपादयन्विधेयमर्थं स्तौति । धूम एवेत्यवधारणं तु धूम एव भूयान् दृश्यते नार्चिः रात्रौ चार्चिर्भूयो दृश्यते न धूमः । अतो न दृष्टविरोधादप्रामाण्यमिति सिद्धान्तितम् । मन्त्रस्य चेति ।। मन्त्राधिकरणे ‘अर्थविप्रतिषेधात्’ इति सूत्रेणार्थविरोधा-द्विरुद्धार्थकत्वात् ‘‘अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः’’ ‘‘एक एव रुद्रो न द्वितीयाय तस्थ’’ इत्यादेरप्रामाण्यमाशङ्क्य गुणादविप्रतिषेधः स्यादिति सिद्धान्तसूत्रेण मातृत्वादि-गुणैरदितिः स्तूयते । तस्मादविरुद्धमित्यादिना गौणार्थत्वमेवाङ्गीकृतम् । तदेतदखिलं शब्दस्य प्रत्यक्षबाधकतायां मुख्यार्थत्वस्यैव प्रसङ्गेन न घटेतेत्यर्थः । तत्सिद्धिरित्यादीति । प्रमाणलक्षणे तुरीयचरणे त्रयोदशनये चिन्तितम् । ‘तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवायाः इदमाम्नायते । यजमानः प्रस्तरो यजमान एककपालः’ इत्यादि । किंनामधेयं, प्रस्तरशब्दो यजमानस्य यजमानशब्दो वा प्रस्तरस्योद्भिदायागेनेत्यादाविव सामानाधिकरण्यादित्येकः पक्षः । गुणविधिरित्यपरः । गुणविधिपक्षे प्रथमलूनबर्हिर्मुष्टिविशेषरूपप्रस्तरत्वस्य यजमाने, यष्टत्वरूपयजमानत्वस्य वा प्रस्तरे विधातु-मशक्यतया तत्कार्यगुणविधाने वाच्ये तत्रापि प्रस्तरस्याचेतनत्वेन यजमानकार्यजपादिकर्तृत्वानुपपत्या प्रस्तरे यजमानकार्यरूपगुणविध्यनुपपत्तावपि प्रस्तरे जुहुं सादयतीत्यादेः प्रस्तरकार्यतयाऽवधारित-स्रुग्धारणादौ यजमानस्य शक्ततया प्रस्तरकार्ये यजमानरूपगुणविध्यङ्गीकारे नानुपपत्तिः । न चायमर्थवाद एवास्त्विति वाच्यम् । अर्थान्तरवचनेनार्थान्तरस्य स्तुत्ययोगात् । न चावयवद्वाराऽष्टा-कपालवचनेन द्वादशकपालस्येवेहापि अन्यतरवचनेनान्यतरस्तुतिरुपपन्नेति वाच्यम् । अष्टाकपाल-द्वादशकपालयोरिव प्रकृते अंशांशिभावाभावेनावयवद्वारा स्तुत्यनुपपत्तेः । क्षिप्रत्वादिधर्मवत् कस्य-चिदुत्कर्षस्याप्रतीत्या वा पूर्वे क्षेपिष्टेत्यादिवत् स्तुतिरूपत्वस्याप्ययोगाच्च । तस्मान्नामधेयगुण-विध्योरन्यतरत्वमिति प्राप्ते, ब्रूमः । गोमहिषयोरिवात्यन्तभिन्नार्थकत्वेन प्रसिद्धेः उभयानुगतप्रवृत्ति-निमित्ताभावात् । अनेकशक्तिकल्पनाप्रसङ्गाच्च । न तावदेकस्येतरनामधेयतोपपद्यते ।
नापि गुणविधिरिति द्वितीयः पक्षः । प्रस्तरकार्यस्रुग्धारणादौ यजमानरूपगुणविधावन्तर्वेद्यां प्रस्तरवद्यजमाने स्रुगाद्यासादनापातेन दक्षिणतो ब्रह्मयजमानावाऽऽसाते इत्यादिवाक्यप्रमापितयजमान-कार्यविलोपापत्तेः । सूक्तवाके प्रस्तरं प्रहरतीति विहितहोमरूपकार्येऽपि यजमानस्य हविष्ट्वेन प्रस्तरवद्विधानात् यजमाने प्रहुते सर्वकर्मविलोपापत्तेश्च । एककपालकार्ये यजमानरूपगुणविध्यङ्गीकारे एककपालं सर्वं हुतं करोतीति शास्त्रात् एककपालं सर्वहुतं करोतीति विध्यन्तरैकवाक्यतया तत्स्तावकत्वादर्थवादत्वमेव वाच्यम् । न चोभयानुगतप्रवृत्तिनिमित्ताभावेन परशब्दस्य परत्र प्रयोगायोगाद्यजमानप्रस्तरयोस्तादात्म्यस्य प्रत्यक्षविरुद्धत्वाच्च कथं स्तावकत्वं सामानाधिकरण्येनेति वाच्यम् । सिंहो देवदत्त इत्यादौ सिंहगुणशौर्यादियुक्तदेवदत्तस्य सिंहपदेनेव यजमानगुणयागसाधनत्व-युक्तप्रस्तरस्य यजमानपदेन स्तुत्युपपत्तेः । न च गुणे अशक्तत्वान्न तदभिधायकत्वं, ततश्चाशक्तत्वान्न शाब्दप्रस्तरान्वयो युक्त इति वाच्यम् । बोधकत्वमात्राङ्गीकारेण शक्त्या तदभिधायकत्वानङ्गीकारात् । न चाशक्तत्वे बाधकत्वासम्भवः । लक्षितलक्षणारूपगौण्यैव तद्बोधकत्वात् । यजमानशब्दो हि स्वार्थं यजमानं शक्त्या प्रतिपादयति । स चाभिहितस्वसमवेतकार्यकरत्वसम्बन्धात् बोधयति । तच्च प्रस्तरेऽप्यस्तीति प्रस्तरावबोधो यजमानपदेनेति स्तावकत्वोपपत्तेरर्थवादत्वमेवेति ।
अत्राद्वैतसिद्धिकारः । यदि चाक्षं शब्दबाध्यं तर्हि इत्यादिकं किं तद्बाहुल्येनेत्यन्तं ग्रन्थमनूद्य वाक्यशेषप्रमाणान्तरसंवादार्थक्रियादिरूपरीक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेवै-तद्विरुद्धार्थग्राहिणो ‘‘धूम एवाग्नेर्दिवा ददृशे’’ ‘‘अदितिर्द्यौः, यजमानः प्रस्तर’’ इत्यादेस्त-द्विरोधेनामुख्यार्थत्वेऽप्यद्वैतागमस्य परीक्षितप्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तेः । प्रत्यक्षादेर्हि परीक्षया व्यावहारिकप्रामाण्यमात्रं सिद्धम् । तच्च नाद्वैतागमेन बाध्यते । बाध्यते तु तात्विकं प्रामाण्यम् । तत्तु परीक्षया न सिद्धमेव । अतो न विरोधः । धूम एवाग्नेरित्यादेस्तु मुख्यार्थत्वे प्रत्यक्षादेर्व्यावहारिकप्रामाण्यं व्याहन्येतातो विरोधात्तत्रामुख्यार्थत्वमिति विवेकः । यत्तु प्रत्यक्षा-विरोधाय तत्वंपदयोर्लक्षणा नाश्रीयेतेति । तन्न । षडि्वधलिङ्गैर्गतिसामान्येन चाखण्ड एवावधार्य-माणस्य तात्पर्यस्यानुपपत्तेर्जीवेशगतसर्वज्ञत्वकिञ्चिज्ञत्वादीनामैक्यान्वयानुपपत्तेश्च । तात्पर्यविषयी-भूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकरणस्यैवोचितत्वात् । तात्पर्यविषयीभूतान्वयनिर्वाहाय लक्षणा-श्रयणस्य सर्वत्र दर्शनात् । नचैवं सत्यमुख्यार्थत्वं स्यादिति वाच्यम् । तद्धि प्रतीयमानार्थपरित्यागे-नार्थान्तरपरत्वम् अशक्यार्थपरत्वं वा । नाद्यः । सामानाधिकरण्येन प्रतीयमानस्यैक्यस्यात्यागात् । नान्त्यः । जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि सोऽयं देवदत्त इत्यादिवाक्यवत् शक्यैकदेशस्यान्वयाभ्युपगमात् । विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणाशब्देन व्यपदेशात् । तथा चोक्तं वाचस्पतिमिश्रैः– प्रस्तरादिवाक्यमन्यशेषत्वादमुख्यार्थमद्वैतवाक्यं त्वनन्यशेषत्वात् मुख्यार्थमेव । तदुक्तं शाबरभाष्ये । न विधौ परः शब्दार्थ इतीति । यथा चापूर्वत्वाद्येकैक-तात्पर्यलिङ्गेन यजमानः प्रस्तर इत्याद्यर्थवादानां न स्वार्थपरत्वं तथा वक्ष्याम इति समादधे । तद्रोमन्थायितमिति गुरुपादाः । सन् घट इत्यादिप्रत्यक्षस्यापि प्रमाणान्तरसंवादार्थक्रियादिरूप-परीक्षागोचरतायाः क्रियासमभिहारेण समर्थिततया तद्विरोधस्य दुरुद्धरत्वात् । तात्विकव्यावहारिक-प्रभेदस्य विश्वमिथ्यात्वसिद्धेः प्रागनाशास्यमानत्वात् घटचेटीतनूजस्य सार्वभौम इति परिभाषावत् न्यायनयादितन्त्रान्तरसंवादेन सिद्धतात्विकप्रामाण्यस्यैव व्यावहारिकप्रामाण्यमिति परिभाषामात्रस्य त्वदीयस्याकिञ्चित्करत्वात् । एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गलक्षणस्य संसृष्टलक्षणस्य च वाक्यार्थस्याखण्डत्वप्रतिकूलतयाऽखण्डे तात्पर्यस्य दुरधिगमत्वमवोचामैवम् । जलं पृथिवीत्यादि-वाक्यस्य सार्वकालिकजलत्वपृथिवीत्वाद्यविवक्षामात्रेण पदार्थस्वरूपमात्रलक्षणया तत्तादात्म्य-बोधकत्वस्यासम्भवदुक्तिकत्वात् । अन्वयितावच्छेदकरूपेणान्वयप्रतियोग्यनुयोग्युपस्थितिमन्तरान्वय-बोधस्य व्युत्पत्तिविरुद्धत्वात् । यथा प्रस्तरवाक्यस्य न मुख्यार्थपरत्वं तथा द्वैतवाक्यस्यापि प्रत्याख्यास्याम इति ।
अत्र ब्रह्मानन्दः । ऐक्यान्वये इति । ऐक्यबोधेत्यर्थः । पदार्थतावच्छेदकविशिष्टयोरेव मिथोऽन्वयधीर्मुख्यया वृत्या सर्वत्रौत्सर्गिकी । यथा घटो मेयवानित्यादौ घटत्वघटयोर्मेय-तद्वतोरभेदान्वयधीः । अत एव सर्वादीनि सर्वनामानीति सूत्रे लोहितोष्णीषाः ऋत्विजः प्रचरन्ती-त्यादौ लौहित्यस्य विशेषणत्वेन प्रचरणकाले उष्णीषे तत्सत्वमपेक्षितमिति सर्वपदस्यापि विशेषणत्वात्सर्वनामसंज्ञेति महाभाष्यकाराः । यत्र तु पदार्थतावच्छेदकेनोपहित उपलक्षितो वा पदार्थः शाब्दबोधे विषयस्तत्र लक्षणैव । विशिष्टे शक्तिज्ञानेन शाब्दबोधे जननीये विशेषणस्य पदार्थान्तरयोग्यताज्ञानस्य सहकारित्वकल्पनेन शक्तिज्ञानजन्यबोधस्य पदार्थान्तरे पदार्थता-वच्छेदकान्वयविषयकत्वनियमात् । तथा च लक्षणां विनैव तत्त्वमसीत्यत्र जायमानो बोधः पदार्थतावच्छेदकस्य पदार्थान्तरे तत्वावच्छेदके वान्वयं विषयीकुर्यात् । अविषयीकुर्वन्वा विशिष्टे शक्तिज्ञानेन न जन्यते किन्तु विशेष्यमात्रे शक्तिज्ञानेनेति भावः ।