नापि ‘वाचारम्भणं विकारो नामधेयम्’ इति श्रुतिस्तत्र मानम्
४२. वाचारम्भणश्रुत्यर्थविवरणम्
न्यायामृतम्
नापि ‘वाचारम्भणं विकारो नामधेयम्’ इति श्रुतिस्तत्र मानम् । वाचा-रम्भणशब्दस्य मिथ्यात्वे रूढेरभावात् । आरभ्यत इत्यारम्भणमिति योगेऽपि कृद्योगे तृतीयायाः अयोगात्, वाचारब्धकाव्यादेरिव मिथ्यात्वालाभाच्च । वागा-लम्बनमात्रमिति व्याख्याने अश्रुतकल्पनाद् अक्षरसाम्येन निर्वचनेऽपि मात्र-शब्दाश्रवणात् । त्वया नामधेयमित्यस्यापि नाममात्रं ह्येतदिति व्याख्यातत्वेन पौनरुक्त्याच्च । मृत्तिकेत्यत्रार्थविवक्षायामितिशब्दवैयर्थ्याच्च । पदार्थ विपर्यासे खल्वत्रेतिशब्दः । स च शब्दप्रकरणे प्रसक्तं शब्दपदार्थकत्वं निवार्यार्थपदार्थकत्वं व्यवस्थापयति यथा ‘न वेति विभाषा’ इति ।
अर्थप्रकरणे तु शब्दपदार्थकत्वं यथा गौरित्ययमाहेति । उक्तं हि महाभाष्ये– ‘न वेति विभाषा’ इत्यत्र इतिकरणः क्रियते सोऽर्थनिर्देशार्थो भविष्यति तद्यथा गौरित्ययमाहेति गोशब्दादितिकरणः प्रयुज्यमानः गोशब्दं स्वस्मात्पदार्थात् प्रच्यावयति सोऽस्मात्प्रच्युतश्शब्दपदार्थकस्सम्पद्यते’ इति अत्र च अर्थप्रकरणा देवार्थपदार्थकत्वे सिद्धे किमितिशब्देन? न चात्रेतिशब्दः प्रकारार्थः । प्रकारस्यानुपादानत्वात् । तदुक्तम्—
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।।
तस्माद्वाचया वागिन्द्रियेणारम्भणम् उत्पादनं यस्य साङ्केतिकस्य भाषा शब्दस्य तन्नामधेयं विकारः, कर्मणि घञ् विकृतं, संस्कृतापभ्रंशरूपेण विक्रिय माणत्वात् । मृत्तिकेत्यादिसंस्कृते नामधेयं तु सत्यं नित्यं ‘नास्य जरयैत-ज्जीर्यते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरम्’ इति एतच्छ्रुतावेवोत्तरत्र सत्यशब्दस्य नित्ये प्रयोगात् । सदाशब्दाद् ‘अव्ययात् त्यप्’ इति त्यबन्तस्य सत्यशब्दस्य नित्ये प्रयोगसम्भवाच्च । ‘सनातनं सत्यमिति नित्यमेवोच्यते बुधैः’ इति वचनाच्च । इह विकृतत्वप्रतियोगिन एव सत्यशब्देन विवक्षणीय-त्वाच्च । ‘टापं चापि हलन्तानां यथा वाचा निशा दिशा’ इति वचनाद्वाचा-रम्भणमिति समासस्साधुः । तस्मात्तत्सादृश्यादेकविज्ञानेन सर्वविज्ञाने मृत्पिण्ड- मृण्मयादिदृष्टान्ताः प्रधानज्ञानादप्रधानज्ञाने संस्कृतापभ्रंश दृष्टान्तः भाषाशब्द-ज्ञानाद्धि यत्फलं तच्चाधिकं च सार्वत्रिकव्यवहारादिकं संस्कृतज्ञानाद् भवतीति तज्ज्ञो विद्वानित्युच्यते तदर्थं च १‘यथा सोम्य’ इत्यादिकं ‘तनूर्वर्षिष्ठा’ इत्यादिवदनुषञ्जनीयम् ।
कथं च विवर्तपक्षे मृत्पिण्डमृण्मयादिदृष्टान्ताः ? ब्रह्माविद्याविशिष्टं सदुपा दानमपीति चेन्न । मुमुक्षुज्ञेयशुद्धब्रह्मज्ञानेनैव सर्वविज्ञानप्रतिज्ञानात् । अन्यथा अविद्याया अपि ‘येनाश्रुतम्’ इत्यादिप्रतिज्ञावाक्योक्तज्ञेयकोटित्वा पातात् । अनाद्यविद्यादीन् प्रत्युपादानत्वायोगाच्च । उपादानत्वाभिप्रायत्वे मृदा ज्ञातया मृण्मयं विज्ञातं स्यादित्येतावतैव पूर्णत्वेन मृत्पिण्डादिवाक्यत्रये प्रत्येकं श्रुतानामेकशब्दसर्वशब्दानां वैयर्थ्याच्च । न हि सर्वमृण्मयादिकमेकमृत्पिण्ड विकारः । नखनिकृन्तनस्यान्त्यावयवित्वेनोपादानत्वस्यैव सम्भवाच्च । मृत्त्वे निश्चितेऽपि घटादौ संशयादिदर्शनाच्च । न च घटादेरपि मृद्यध्यस्तत्वाद्विवर्त पक्षेऽपि तद्दृष्टान्तो युक्तः । मृत्तत्वज्ञानेऽपि घटाद्यनिवृत्तेः । व्यवहारदशायां मृदादिवत् कारकव्यापारसाध्यस्य जलाहरणादिसमर्थस्य चावस्थाविशेषरूपस्य घटादेरपि सत्त्वात् । तात्त्विकविवक्षायां तु मृदोऽपि सत्त्वोक्त्ययोगाच्च । शुक्त्यादितत्वज्ञानेन रूप्यादिज्ञानादर्शनाच्च ।
यत्तूक्तं वाचस्पतिना ‘‘शुक्तौ ज्ञातायां रूप्यं तत्त्वतो ज्ञातं भवति । सा हि तस्य तत्त्वम् । एवं ब्रह्मज्ञानात्सर्वं तत्त्वतो ज्ञातं भवति’’ इति । तन्न । एवं हि ब्रह्मज्ञानेन ब्रह्मैव ज्ञातं भवतीत्यर्थः स्यात् । तच्च न युक्तम् । सर्व साधारण्यात् । स्वस्य स्वहेतुत्वायोगाच्च । ‘येनाश्रुतं श्रुतं भवत्यमतं मतम विज्ञातं विज्ञातम्’ इति श्रुतिगताश्रुतादिपदायोगाच्च । किं चासाधारणं स्वरूपम् असाधारणधर्मो वा तत्त्वम्, न तु भ्रमाधिष्ठानम् । तथात्वे हि ब्रह्माद्यनधि-ष्ठानमानन्दः शुक्तित्वादिकं ब्रह्म शुक्त्यादितत्त्वं न स्यात् । न च शुक्तिः शुक्ति-ज्ञाननिवर्त्यस्य रूप्यस्य स्वरूपं धर्मो वा । न चानेकारोप्यानुगतम् अधिष्ठान-मेकैकस्यारोपितस्यासाधारणम् । किं चैवं शुक्तौ रूप्यधीरानन्दादौ ब्रह्मधीरिव प्रमा स्यात् । तत्तत्वे तद्धीत्वात् । तस्मात् परमते एकविज्ञानेन सर्वविज्ञान-मयुक्तम् । अस्मत्पक्षे तु प्रधानपुरुषज्ञानाह्वानपूजनादौ लोके जनपदस्सर्वोऽपि ज्ञात आहूत इत्यादेः । पुराणादौ च–
शशास पृथिवीं सर्वां सशैलवनकाननाम् ।
नाशिता पृथिवी सर्वा धार्तराष्टे्रण दुर्नयैः ।।
इत्यादेश्च व्यवहारस्य दर्शनात्प्रधानभूतब्रह्मज्ञानादप्रधानभूतदेवतादिज्ञान फलसिद्धेस्तद्युक्तम् । ‘ज्ञानादेव सर्वे कामाः सम्पद्यन्ते’ इति श्रुतेः । ‘तावन् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः’ इति स्मृतेश्च ।
यथा मृत्पिण्डविज्ञानात्सादृश्यादेव मृण्मयाः ।
विज्ञायन्ते तथा विष्णोस्सादृश्याज्जगदेव च ।।
अनन्याधीनविज्ञानादन्याधीनं तथैव च ।
मृदयोलोहनाम्नां हि ज्ञानात्साङ्केतिकं यथा ।।
इत्यादिस्मृतेश्च । एतेनैकविज्ञाने सर्वविज्ञानान्यथानुपपत्तिर्मिथ्यात्वे प्रमाणं इति निरस्तम् । केचित्तु सूक्ष्माव्यक्तादिविशिष्टब्रह्मणो महदादि विशिष्टात्मना परिणामात् कार्यकारणयोश्चाभेदात् कार्यस्य कारणातिरेकेणासत्त्वपरेयं श्रुतिर्न तु मिथ्यात्वपरेत्याहुः ।
।। इति वाचारम्भणश्रुत्यर्थः ।।
न्यायामृततरङ्गिणी
ननु छन्दोगोपनिषदि पित्रोद्दालकेन गुरुकुलं प्रति प्रेषितं पुनः परावृत्यागतम् अब्रह्मविदं श्वेतकेतुं प्रति यस्मिन् ज्ञाते सर्वं ज्ञातं भवति तादृशमुपदिश्यमानं वस्तु गुरून् पृष्टं किमित्युक्ते अवाच्यमपि स्वगुरूणामज्ञानं पुनर्गुरुकुलप्रेषणभयात् श्वेतकेतु-रुक्तवान् ‘मम गुरवस्तद्वस्तु नावेदिषुः यद्यावेदिष्यन् मां प्रत्युपादिक्ष्यन्’ इति । भवानेव तु पिता ब्रवीत्विति श्वेतकेतुना पृष्टे ब्रह्मज्ञानेन सर्वं ज्ञातमित्यस्योपपादकं सर्वस्य ब्रह्मानन्यत्वमुक्तमित्यतो वाचारम्भणादिशब्दा मिथ्यात्वे मानमित्यत आह– वाचारम्भणेति ।। कृद्योग इति ।। कर्तृकर्मणोः कृतीति षष्ठ्या बाधितत्वात्तृतीया नोपपद्यत इत्यर्थः । ननु करणे तृतीया भविष्यतीत्यत आह– वाचेति ।। अक्षरेति ।। अप्येकाक्षरसाम्यान्निर्ब्रूयादिति यास्कोक्तेरित्यर्थः ।। उक्तं हीति ।। अन्यथा स्वं रूपमिति परिभाषया नवाशब्दयोरेव विभाषासंज्ञायां विभाषा जसी-त्यादौ नवाशब्दयो रेव ग्रहणं स्यान्नार्थस्येति भावः ।
तनूर्वर्षिष्ठेत्यादि ।। द्वितीयस्य प्रथमपादे विचारितं अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् । पूर्वाह्णापराह्णयोरभ्यस्यमानमाग्नेयसौम्यवैष्णवयागत्रयमेकोप- सत् । तथाविधानां तिसॄणामुपसदां ज्योतिष्टोमे विहितानामवयवभूता प्रत्येकमादा वाग्नेय्युपसद् ‘अग्निमनीकम्’ इति वाक्येन विहिता । ततश्चाग्नेय्यस्तिस्र उपसदो भवन्ति । ताश्च त्रिषु दिवसेष्वनुष्ठीयन्ते । तत्र यथासङ्ख्यलक्षणेन क्रमप्रमाणेन प्रथमाया उपसदः ‘याते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहा’ इति निराकांक्षो मन्त्र आम्नातः । उत्तरयोस्तु ‘याते अग्ने रजाशया’ ‘या ते अग्ने हराशये’ति साकांक्षौ मन्त्रौ तत्रापरिपूर्णमन्त्रस्यावश्यं परिपूर्णस्समर्थो वाक्यशेषः कल्पनीयः । तदुक्तं वार्तिके ।
न्यूनवाक्यप्रयोगो हि वेदेन च समाश्रितः ।
कश्चित्क्वापि स्थितः शेषः सोऽन्वेष्टव्यः प्रयत्नतः ।। इति ।
एवं स्थिते शेषे किं लौकिको वा वैदिको वा शेष इति चिन्त्यते । तत्र लौकिक एवेति पूर्वपक्षः । तदुक्तं वार्तिके–
नान्यत्रोत्सहते गन्तुं वैदिकं सन्निबन्धनम् ।
यथेष्टविनियोगं तु सर्वार्थं वस्तु लौकिकम् ।। इति ।
लौकिकाल्लघुतरप्रयोगत्वेन प्रयोज्यत्वमवधार्यते । तथापि तत्र वैदिकत्व-बुद्धिविरहः पूर्वपक्षिणोऽभिमतः । तदुक्तं वार्तिके ।
तानेव वैदिकान् वर्णान् भारतादिनिवेशितान् ।
स्वाध्यायनियमं हित्वा लोकबुध्द्या प्रयुञ्जते ।। इति ।
सिद्धान्तस्तु । वैदिकवाक्यस्य वैदिक एव शेषः न लौकिकः । तदुक्तं वार्तिके–
किमुक्तव्यापृतौ वेदे लौकिकावसरस्थितिः ।
तद्व्यापारविमोकश्च सकलान्वेषणक्षये ।
अदृष्टः प्रकृतावर्थः प्रत्ययेऽन्विष्यते ततः ।
पदे स्वस्मिन्नलब्धस्तु प्रार्थनीयः पदान्तरे ।
स्वस्मिन्वाक्येऽपि न स्याच्चेन्मृष्यो वाक्यान्तरे ततः ।
वाक्यान्तरेपि न स्याच्चेन्मृष्यः प्रकरणे ततः ।
यदि प्रकरणे न स्यान्मृष्यः प्रकरणान्तरे ।। इति ।
तदिह रजाशयाहराशयामन्त्रयोः शेषः स्वपदवाक्ययो लब्धत्वाद्वाक्यान्तरे नूनमित्युपसंह्रियते । स च यत्प्रदेशवर्तित्वेन ताभ्यामाकाङ्क्षितस्तत्रैव विनियुज्यते । शक्नोति चायं सर्वैरन्वेतुम् । अन्वयकारणानामाकांक्षादीनामविशेषात् । व्यवहित समाम्नातानामपि असम्बन्धिपद व्यवधानाभावेन बुद्धिविपरिवृत्तिरूपसन्निधिसत्त्वात् । आनन्तर्यस्याप्रयोजकत्वात् तदुक्तं वार्तिके ।
आकांक्षा सन्निधानं च योग्यता वेति तत्त्रयम् ।
सम्बन्धकारणत्वेन क्लृप्तं नानन्तरश्रुतिः । तथा–
अनन्तरेण सम्बन्धः स्यात्परस्याप्यनन्तरः ।
ततः पुनस्तदा रूढः परानन्तर्यमश्नुते ।। इति ।
तस्मादाम्नातमेव सर्वार्थमिति वैदिक एव शेष इति ।। कथं चेति ।। दृष्टान्तस्य मृन्मयादेर्मृदाद्युपादानकत्वेन तद्विवर्तत्वाभावादित्यर्थः ।। ब्रह्मेति ।। तथा चोपा-दानत्वसाम्याद्दृष्टान्तोक्तिरित्यर्थः ।। मुमुक्ष्विति ।। मोक्षहेतुब्रह्मज्ञानशून्यं स्तब्धं श्वेतकेतुं प्रति ब्रह्मणो बुबोधयिषया उद्दालकस्य तथा प्रतिज्ञानादित्यर्थः ।। अन्य-थेति ।। विशिष्टज्ञानेन सर्वविज्ञानप्रतिज्ञायामित्यर्थः ।। अनादीति ।। ब्रह्मज्ञानेना-विद्यादे र्ज्ञानं न स्यादित्यर्थः ।। वैयर्थ्याच्चेति ।। निष्प्रयोजन त्वाद्विरुद्धार्थत्वा-च्चेत्यर्थः । तदेवाह– न हीति ।। मृत्व इति ।। तथा चासम्भव इत्यर्थः ।
विवर्तत्वसाम्याद्दृष्टान्ता इति द्वितीयमाशङ्क्य निराकरोति– न चेति ।। मृदादौ घटादेरनध्यासाद्दृष्टान्तानानुगुण्यमित्यर्थः । मृदादौ घटादेरनध्यासे हेतुमाह– मृत्त-त्वेति ।। मृद्घटयोः सत्वसाम्यात् ‘मृत्तिकेत्येव सत्यम्’ इति विशिष्य मृत्तिका सत्यत्वोक्त्ययोग इत्याह– व्यवहारेति ।। घटादेर्मृद्विवर्तत्वमभ्युपेत्यापि दूषयति– शुक्त्यादीति ।। घटादेर्मृद्विवर्तत्वेऽपि मृज्ज्ञानाद् घटादिज्ञाननिदर्शनं न सम्भवति । शुक्तिरूप्यादावदर्शनादित्यर्थः ।। एवं हीति ।। प्रपञ्चतत्वस्य ब्रह्मरूपत्वादित्यर्थः ।। सर्वेति ।। घटज्ञाने सति घटस्यापि ज्ञातत्वादित्यर्थः ।
ननु न सर्वसाधारण्यं घटादिज्ञानस्य, तत्प्रत्यहेतुत्वादत आह– स्वस्येति ।। ब्रह्म ज्ञानस्येत्यर्थः । ननु व्यक्तिभेदविवक्षायां न दोष इत्यत आह– येनेति ।। ज्ञानव्यक्ति भेदेऽपि ज्ञातस्यैव ज्ञातत्वादित्यर्थः ।। तथात्व इति ।। ब्रह्म-भ्रमानधिष्ठानं आनन्दो ब्रह्मतत्वं न स्यात् । एवं शुक्तित्वमपीत्यर्थः । तत्त्वलक्षणस्य शुक्त्यादावभावान्न तद् रूप्यादेस्तत्वमित्याह– न चेति । स्वरूपमेव न भवति । नतराम् असाधारणं तदित्यर्थः । इतोऽपि नासाधारणमित्याह– अनेकेति ।। किं चेति ।। तत्वतत्विनोरभेदादिति भावः । घटघटत्वादेः सपक्षत्वान्न व्यभिचारः । ननु मृन्निश्चयेऽपि घटादौ संशयात्तव मते न सदृशज्ञानादिना सर्वविज्ञानोपपत्तिरित्यत आह– अस्मत्पक्ष इति ।। न वयमेकान्ततः प्रधानज्ञानेन सर्वविज्ञानं ब्रूमोऽपि तु सदृशप्रधानज्ञाने सति सर्वविज्ञानफलं भवतीति ।
न्यायामृतकण्टकोद्धारः
ननु तथापि वाचारम्भणं विकारो नामधेयमिति श्रुतिर्मिथ्यात्वे प्रमाणं भविष्यति । अत्र वाचा केवलमारभ्यते । न तु वस्तुतो घटः शराव उदञ्चनं चेत्यर्थोऽस्तीति प्रपञ्चस्य मिथ्यात्वप्रतीतिरित्यत आह– नापीति । अत्र हि वाचारम्भणशब्देन मिथ्यात्वं प्रतिपाद्यते इत्यभिमतम् । तत्र प्रष्टव्यम् । किं वाचारम्भणशब्देन रूढ्या मिथ्यात्वं प्रतिपाद्यते, योगेन वा ? नाद्यः । तदभावादित्याह– वाचेति । रूढिज्ञापकव्याकरणकोशादेरभावादिति भावः । न द्वितीय इत्याह– आरभ्यत इतीति । कर्तृकर्मणोः कृतीति कृद्योगे षष्ठ्या विहितत्वादिति भावः । पदार्थविपर्यास इति । प्रकाराद्यर्थत्वासम्भवादिति भावः । यथेति । ‘नवेति विभाषा’ इत्यत्र नवा शब्दग्रहणे तस्यैव विभाषासंज्ञा स्यात् । अन्यतरस्यामित्यादेर्न स्यात् । ततश्च ततो विकल्पार्थप्रतीतिर्न स्यादित्यर्थग्रहणम् । एवं चार्थे संज्ञा प्रयोजनाभावात् तद्वाचकशब्दमात्रे पर्यवस्यतीत्यन्यतरस्यामित्यादेरपि तत्सम्भव इति भावः । पदार्थविपर्यास इतिशब्द इत्यत्र महाभाष्यसंमतिमाह– उक्तं हीति ।
ननु तर्हि नवेत्यत्रेवात्रापि अर्थग्रहणार्थ इतिशब्दो भविष्यतीति न वैयर्थ्यमित्यत आह– अत्र चेति । तथा चात्रार्थपदार्थकत्वस्य प्राप्तत्वात् तद्विपरीतं शब्दपदार्थकत्वमेव व्यवस्थाप्यत इति भावः । अनुपपादकत्वात् । एकविज्ञानेन सर्वविज्ञानोपपादकत्वा-भावादित्यर्थः । नन्वर्थान्तराभावादश्रुतत्वादिकं सोढ्वा मिथ्यात्वपरत्वं स्वीकर्तव्य-मेवेत्यतोऽर्थान्तरस्य विद्यमानत्वादित्याह– तस्मादिति । ननु सत्यशब्दस्य नित्यशब्दार्थ-कत्वं कथम् ? काप्य प्रयोगादित्यत आह– नास्येति । सदाशब्दादिति । त्यपि सदाशब्दस्य सादेशे सत्यशब्द निष्पत्तिः । वचनाच्चेति । तथा च बुधैरित्युक्तत्वाद् विद्वद्रूढिरप्यस्तीति भावः । सत्य शब्दस्य नित्यपरत्वे युक्तिमप्याह इहेति । ननु तथापि वागारम्भणमिति भवेत् । चोः कुः इति कुत्वे झलां जशोऽन्ते इति जश्त्वस्यावश्यकत्वात् इत्यत आह– टापं चापीति । ननु संस्कृतादिनाम्नां प्राधान्यादिकथनं प्रकृतानुपयुक्तत्वा-दयुक्तमित्यत आह तस्मादिति । तथा च यथा सोम्येत्यादेरिव प्राधान्यादिकथनस्य दृष्टान्तार्थत्वान्न तदयुक्तमिति भावः ।
ननु यथा सोम्येत्यत्रेवात्र दृष्टान्तत्वज्ञापकाभावात् कथं दृष्टान्तत्वमित्यत आह तदर्थं चेति । द्वितीयाध्याये प्रथमपादे चिन्तितम् । ‘अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगि त्वात्’ । ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते ‘याते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचोऽपावधीं त्वेषं वचोपावधीन्त्स्वाहा याते अग्ने रजाशया या ते अग्ने हराशया । तत्रोत्तरौ मन्त्रावुदाहरणम् । किं तयोर्लौकिकः शेषोध्याहर्तव्य उत योऽसौ पूर्वमन्त्रानन्तरं पठितः तनूर्वर्षिष्ठेत्यादिः स एव सर्वेषामर्थेनाम्नातः पूर्वस्येवोत्तरयोरप्यनुषङ्गेण शेष इति संशयः । न चाध्याहारेऽनुषङ्गे वा विशेषाभावात् किमनेन विचारेणेति वाच्यम् । अध्याहारे ‘याते अग्ने रजाशया’ इत्येतावानेव मन्त्रः । अध्याहारस्य लौकिकस्योहादि-वदमन्त्रत्वात् । अनुषङ्गे तु तत्सहित एव मन्त्र इत्यस्ति मन्त्रपरिमाणसिद्धि-र्विचारप्रयोजनम् ।
पूर्वपक्षस्तु लौकिकोऽध्याहार एव कर्तव्यः । कुतः ? लौकिको हि शब्दः सर्वार्थः । न क्वचिदेव विशेषेण निबद्धः । स यत्र यत्र कार्यं तत्र सर्वत्र यथेष्टं विनियुज्यमानो न विरुध्यते । वैदिकस्तु यदर्थमाम्नातस्तेनैव निबद्धो नान्यत्र नेतुं शक्यते । नीयमानो वा समाम्नायबहिर्भावात् लौकिक एव स्यात् । न च सर्वार्थमाम्नात इति वाच्यम् । तदाम्नानस्यानेकार्थतानुपपत्तेः । न चास्यैव शेषो नान्यस्येति विशेषानवधारणमिति वाच्यम् । आनन्तर्येण देशभेदेन च विशेषग्रहणोपपत्तेः । प्रथमस्य ह्यसावनन्तरो न तृतीयस्य । द्वितीयस्य तु यद्यप्यनन्तरः तथापि परस्ताद्भावित्वेन वाक्यशेषस्याकाङ्क्षि-तत्वान्न पुरस्ताद्भाविना सम्बन्धः । प्रथमस्य त्वपेक्षितदेश एव पठितः । तस्मात्तस्यैव शेषः । अन्ययोस्तु लौकिकोऽध्याहार इति ।
सिद्धान्तस्तु । अनुषङ्गेण सर्वशेष इति । तथात्वे सर्वानन्तरं पाठः स्यादिति चेन्न । प्रत्येकं पाठे गौरवात् । सकृच्च सर्वानन्तरपाठासम्भवात् । तर्हि कथं सर्वसम्बन्ध इति चेत्, बुद्धिविपरिवृत्तिमात्रेण सर्वैः साकाङ्क्षैः सम्बन्धसिद्धेः । पुनः पुनरसमाम्नातोऽपि सर्वशेष इत्येवाङ्गीकर्तव्यः । एवं च वेदसमर्पितेनानुषङ्गेण सर्वेषां नैराकांक्ष्यसिद्धेर्न लौकिको निष्प्रमाणकोऽध्याहारः । न च कथमेकत्रोच्चारितस्य सर्वैः सम्बन्ध इति वाच्यम् । तादृशस्यापि सर्वैः सम्बन्धसम्भवात् । प्रथमेन हि सम्बन्धो द्वितीयस्याप्याकाङ्क्षाबलायां बुद्धौ विपरिवर्तमानः तेनाभिसम्बध्यते । तत् सम्बन्धे विपरिवृत्त्यभङ्गात् तृतीयेनापि सम्बन्धसिद्धिः । कारणाविशेषात् । एतावच्च शब्दानामन्वये कारणम् । आकाङ्क्षा सन्निधिर्योग्यत्वं च । न त्वनन्तरसमाम्नानम् । व्यवहितस्याप्यसम्बन्धिव्यवधानाभावे बुद्धि विपरिवृत्तिरूपसन्निधानं सर्वत्र क्रमेण लभ्यते । तस्मात् सकृदाम्नानमेव सर्वार्थमिति सर्व शेषता । एवं च तनूर्वर्षिष्ठेत्यस्य यथानुषङ्गस्तथा यथा सोम्येत्यस्यापि वाचारम्भणम् इत्यत्रानुषङ्गात् तदपि दृष्टान्तार्थपरमेवेति युक्तमिति ।
कथञ्चेति । मृत्पिण्डादिषु घटादीनां विवर्तत्वाभावादिति भावः । ब्रह्मेति । विवर्त-पक्षे दृष्टान्तत्वासम्भवेति उपादानत्वपक्षे दृष्टान्तत्वं सम्भवतीति भावः । अन्यथेति । यद्यविद्या विशिष्टज्ञानेन सर्वज्ञानं प्रतिज्ञायेतेत्यर्थः । अनादीति । न च प्रवाहानादि-त्वाङ्गीकारेणा विद्या दीन् प्रति ब्रह्मण उपादानत्वोपपत्तिरिति वाच्यम् । तथात्वेऽनवस्था स्यात् । अज्ञानादीन् प्रति शुद्धस्य नोपादानत्वम् । तस्य निर्विकारत्वात् । अविद्याङ्गी-कारवैयर्थ्याच्च । जगत् प्रत्यपि ब्रह्मण एवोपादानत्वसम्भवात् । अज्ञानविशिष्टस्य चोपा-दानत्वे तदज्ञान विशिष्टस्य तत्वे आत्माश्रयः । अज्ञानान्तरविशिष्टस्य तत्वे अनवस्था-दीति भावः ।
वैयर्थ्याच्चेति । विगतप्रयोजनत्वं विरुद्धप्रयोजनत्वं चेत्यर्थद्वयमभिप्रेतम् । तत्र विरुद्ध प्रयोजनत्वमुपपादयति न हीति । मृत्त्वे निश्चितेऽपीति । न च सादृश्यादेकविज्ञानेन सर्वविज्ञानमिति पक्षेऽपि मृत्त्वे निश्चितेऽपि घटादौ संशयादिदर्शनरूपं दूषणं तुल्यमिति वाच्यम् । अस्मत्पक्षे एकस्य मृत्पिण्डस्य यथाकथञ्चिज्ज्ञानं घटादिज्ञानमिति न विवक्षितम् । किन्तु सादृश्यात् तच्च सादृश्यमसाधारणम् । एवं च एकस्य मृत्पिण्डकार्यस्य घटस्य पृथुबुध्नो-दराकारत्वादिना ज्ञाने तादृशसादृश्यदर्शनेऽन्यस्यापि घटत्वेन ज्ञानमिति काऽनुपपत्तिः ? अत एवोक्तं सादृश्यादेकस्त्रीज्ञानादन्यस्त्रीज्ञानमिति । विवर्तपक्षे मृदादिदृष्टान्तासम्भवः प्रागुक्तः । तमुपपादयितुमाशङ्क्य निषेधति न चेति । मृत्तत्वेति । यत्तत्वज्ञानेन यन्निवर्तते तस्यैव तत्राध्यस्तत्वादिति भावः ।
किञ्च घटादेर्व्यवहारतोऽसत्त्वं, तत्वतो वा ? नाद्य इत्याह– व्यवहारेति । न द्वितीय इत्याह– तात्विकसत्वविवक्षायामिति । किञ्च विवर्तपक्षे ब्रह्मज्ञानेन न सर्वज्ञानम् । अधिष्ठानज्ञानेनाध्यस्तज्ञानादर्शनादित्याह– शुक्त्यादीति । सर्वेति । ब्रह्मज्ञानेन सर्वज्ञानं भवतीति सर्वप्रहाणेन ब्रह्मैव ज्ञातव्यमिति न स्यादिति भावः । यद्यपि सामान्यज्ञानं विशेषज्ञाने हेतुरिति न स्वस्य स्वं प्रति हेतुत्वम् । तथापि सामान्यविशेषभावाभावात्, नैवंविध कार्यकारणभाव इति भावः । येनेति । न च विशेषरूपेणाश्रुतमिति अश्रुतादि-पदोपपत्तिरिति वाच्यम् । दत्तोत्तरत्वात् । एतेनैव ब्रह्मत्वेन ज्ञाने तत्तत्वेन ज्ञानमिति निरस्तम् । निर्धर्मके ब्रह्मत्वतत्तत्वादेरभावेन तेन रूपेण ज्ञानस्य निष्प्रयोजनत्वात् । ननु ब्रह्मैव जगत्तत्वरूपमिति ज्ञानं पुरुषार्थसाधनम् । तदेवात्र एकविज्ञानेन सर्वविज्ञानं विवक्षितमित्यत आह– किञ्चेति । तथा च जगत्स्वरूपत्वादसाधारणधर्मत्वाभावान्न ब्रह्म जगत्तत्वमिति भावः । तथात्वे अधिष्ठानस्यैव तत्वत्वे । उपसंहरति तस्मादिति ।
ननु यथाऽस्मत्पक्ष एकविज्ञानेन सर्वविज्ञानमयुक्तं तथा भवत्पक्षेऽपि ब्रह्मजगतोर्भेदेन ब्रह्मज्ञानेन जगज्ज्ञानमयुक्तम् । अन्यज्ञानेनान्यज्ञानादर्शनादित्यत आह– अस्मत्पक्ष इति ।। अस्मत्पक्षे तु तद्युक्तमित्यन्वयः । लोके इत्यादेः पुराणादौ चेत्यादेश्च व्यवहारस्य दर्शनादित्यन्वयः । तथा च मुख्यस्यैकविज्ञानेन सर्वज्ञानस्यासम्भवेऽपि निरूढोपचारेण प्रयोगोपपत्तिरिति भावः । उपचारे बीजं च जगज्ज्ञानफलस्य ब्रह्मज्ञानात्सिद्धिः । उपचार स्य किं प्रयोजनमित्यतो निरूढत्वान्न प्रयोजनापेक्षेति दर्शयितुमनेकव्यवहारप्रदर्शनमिति मन्तव्यम् । ब्रह्मज्ञानेन सर्वज्ञानफलसिद्धिरित्यत्र प्रमाणमाह ज्ञानादेवेति । सर्वेषु वेदेषु प्रतिपाद्यत्वेन ब्रह्म विजानतो ब्राह्मणस्य ब्रह्माणनयोग्यस्य जगज्ज्ञानेन यावानर्थः तावान् ततोऽधिकश्च भवतीति स्मृत्यर्थः । स्मृत्या तथैव व्याख्यातत्वाच्चेत्याह यथेति । एतेन एकविज्ञानेन सर्व विज्ञानस्य प्रकारान्तरेणोपपन्नत्वेनेत्यर्थः । केचित्त्विति । अत्रा-स्वरसबीजं केवलब्रह्मपरस्य येनेत्यादि पदस्याव्यक्तादिविशिष्टपरत्वं लक्षणया स्वीकर्तव्यम् । निर्विकारस्य ब्रह्मणः परिणामादिकं च प्रमाणविरुद्धं कल्प्यमिति ।
न्यायामृतप्रकाशः
कृद्योग इति । आरम्भणशब्दस्य ल्युडन्तत्वात्, ल्युटश्च कृत्त्वादित्यर्थः । तथा च तद्योगे षष्ठी स्यान्न तृतीयेति भावः । ननु कृद्योगे तृतीयाऽयोगः कुतः ‘कर्तृकर्मणोः कृति’ इति कृद्योगे कर्तरि कर्मणि च षष्ठी विहिता न तृतीया निषिद्धा । अतः कृद्योगेऽपि करणे तृतीयोपद्यत इति चेन्न । परेण हि हन्ता रामशर इतिवत् करणे कर्तृत्वोपचारमङ्गीकृत्य वागिन्द्रियमेव सर्वजगत्कल्पकमित्यङ्गीकृतत्वेन करणार्थकतृतीयायास्तन्मतेऽयोगात् । ‘कर्तृ-करणयोस्तृतीया’ इति कर्तर्यपि तृतीयाविधानाद् ‘रामेण बाणेन हतो वाली’ इत्यादिप्रयोगाच्च कर्त्रर्थकत्वेऽपि मन्मते तृतीयोपपद्यत एवेति शङ्कायाः समाधानं विचार्यम् ।। वागा-लम्बनमात्रमति ।। न तु वस्त्वस्तीत्यर्थः । काव्यादौ वस्तुसत्त्वमस्तीति हृदयम् ।
यन्मिथ्याभूतं तत्रापि वागालम्बनमात्रमिति शब्दः प्रयुज्यते जगत्यपि श्रुतौ स प्रयुक्तोऽतो मिथ्यात्वस्य तेन लाभ इत्यत आह– अक्षरेति ।। शब्देत्यर्थः ।। इतिकरणः क्रियत इति ।। इतिशब्दः प्रयुज्यत इत्यर्थः । प्रकारार्थः मृत्तिकात्वादिप्रकारार्थ इत्यर्थः ।। प्रकारस्येति ।। अत्र ह्युपादानस्यैव सत्यत्वमेकविज्ञानार्थः । न हि मृत्तिकादिगतो मृत्त्वादिः प्रकारो घटाद्युपादानं येन सोऽर्थो युक्तः स्यादित्यर्थः । स्वमते श्रुत्यर्थमाह– तस्मादिति ।। कृद्योगे तृतीयाऽयोग इति दूषणं नास्मत्पक्षे प्राप्नोति समस्तपदत्वाङ्गीकारेण वाचेत्यस्य तृतीयान्तभिन्नपदत्वानाश्रयणादित्याशयेनोक्तम्– वाचयेत्यादि ।। कर्मणि घञिति ।। विपूर्वात्करोतेः कर्मणि घञि अकारमात्रं विहाय सर्वस्यापि लोपे ञित्त्वाद्धातोर्वृद्धौ रपरत्वे च विकारशब्दो विकृतत्वार्थक इति भावः । सत्यशब्दस्य नित्यार्थत्वे प्रयोगश्चोत्तरत्राऽ-स्तीत्यनुव्याख्यानानुसारेणोपपादयति– नास्येति ।। त्यबन्तस्येति ।। सदाशब्दात् त्यप्प्रत्ये पकारलोपे देत्याकारलोपे दस्य तत्वे सत्यशब्दो नित्यार्थक इति भावः ।।
विकृतत्वेति ।। ‘वाचारम्भणम्’ इत्युक्तविकृतत्वेत्यर्थः । ननु वाचारम्भणमिति कथं समासः । वागारम्भणमिति स्यादित्यत आह– टापं चापीति ।। हलन्ताद्वाक्शब्दात् टापि वाचेत्याकारान्तशब्दः । तस्य चारम्भणशब्देन समासो युक्त इत्यर्थः । प्रधानज्ञानादप्रधाने ज्ञाने संस्कृतापभ्रंशयोर्दृष्टान्तत्वप्रतिपादनाय वाचारम्भणवाक्यमित्ययुक्तम् । तत्र पूर्वदृष्टान्ते यथा सोम्येत्यादिवदत्र तदभावादित्यत आह– तदर्थमिति ।। दृष्टान्तत्वलाभार्थमित्यर्थः ।। तनूर्वर्षिष्ठेत्यादिवदिति ।। द्वितीयाध्याये प्रथमपादे चिन्तितम् । ‘अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्’ इत्यत्र । ज्योतिष्टोमे उपसद्धोमे ‘या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहा, याते अग्ने रजाशया याते अग्ने हराशया’ इति मन्त्रत्रयमाम्नायते ।
अयं मन्त्रार्थः । अयसा रजतेन हिरण्येन निर्मिता अग्नेस्तिस्रस्तनवो वेदप्रसिद्धाः ताः प्रतिप्रार्थनं क्रियते हे स्वाहा स्वीयमादत्त इति स्वाहा अग्ने या ते तव अयाशया अयो-निर्मिता तनूः या ते रजाशया रजतनिर्मिता तनूः । या ते हराशया हिरण्यनिर्मिता तनूः कथम्भूता वर्षिष्ठा अभिलषितवर्षणशीला । गह्वरे स्थाने तिष्ठतीति गह्वरेष्ठा एतादृशीः तनूः मे उग्रं वचः अशनायापिपासे तज्जन्यं दुःखमिति यावत् त्वेषं वचः उपपातकमहापातका-द्येनः अपावधीत् नाशयत्विति । तथा च ब्राह्मणं ‘उग्रं वचोऽपावधीत्स्वाहेति अशनाया-पिपासे ह वा उग्रं वचः एनो हैव त्वेषं वचः’ इति । तत्र रजाशयाहराशयामन्त्रयोः साकांक्षयोः किं लौकिकः शेषोऽध्याहार्य उत अयाशयामन्त्रशेषस्तनूर्वर्षिष्ठेत्यादिरेव तयो-रप्यनुषङ्गेण शेष इति संशये लोके विवक्षानुसारेणानुषङ्गो न चैवमनुषङ्गः क्रमनियमवति वेदे यदर्थं वाक्यशेषाम्नानं ततोऽन्यत्र तस्य नयनायोगात् । तस्माल्लौकिकः शेषोऽध्याहार्य इति पूर्वपक्षः । वैदिके वाक्यशेषे लभ्यमाने न लौकिकशेषोऽध्याहार्यः । शक्नोति चायं सर्वैरन्वेतुं अन्वयकारणानाम् आकाङ्क्षासन्निधियोग्यतानामविशेषात् व्यवधानेन समाम्नातानामपि गिरिर्भुक्तमित्यादिवदसम्बद्धपदनिचयव्यवधानाभावेन बुद्धिविषयत्वरूपसन्निधिसद्भावादानन्त-र्यस्याप्रयोजकत्वात् । तस्मात्तनूर्वर्षिष्ठेत्येतदाम्नातं ‘सर्वार्थम्’ इति सर्वस्यैवायं शेष इति सिद्धान्तः ।
स्वमतमुपपाद्य परपक्षे बाधकमाह– कथं चेति ।। एतेषां दृष्टान्तानां त्वन्मते उपा-दानोपादेयाभिप्रायत्वाद्ब्रह्मणश्च चिन्मात्रस्य जगदुपादानत्वाभावादिति भावः । शुद्धस्योपादा-नत्वा भावेऽपि अविद्याविशिष्टस्य जगदुपादानत्वं युक्तमित्याशङ्कते– ब्रह्मेति ।। प्रतिज्ञाना-दिति ।। तथा चोपादानभूताविद्याविशिष्टब्रह्मज्ञानेनैव सर्वज्ञानं प्राप्तं न शुद्धज्ञानेन । अतः प्रतिज्ञा हानिरित्यर्थः । ननूपादानभूताविद्याविशिष्टब्रह्मज्ञानेनैव सर्वज्ञानं प्रतिज्ञातमिति चेत्तत्राह– अन्यथेति ।। किञ्चाविद्याविशिष्टब्रह्मणोऽविद्याद्युपादानत्वाभावेन ब्रह्मज्ञानेनाविद्यादि- ज्ञानाभावापत्त्या उपादानोपादेयभावेनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा भग्नेत्याह– अनादीति ।। विगत प्रयोजनत्वमुपपाद्य विरुद्धप्रयोजनत्वमुपपादयति– न हीति ।। आदिपदाभ्यां लोहमणि विकारात्मकम् अन्यल्लोहमयमित्यस्य ग्रहणम् । नखनिकृन्तनदृष्टान्तस्त्वत्यन्तासम्बद्ध इत्याह– नखेति ।। किं च मृदा तत्त्वेन विज्ञातया सर्वं मृण्मयं घटशरावोदञ्चनादिकं सर्वं विज्ञातं स्यादित्येतदयुक्तम् । तथात्वे घटशरावादौ मृत्त्वे निश्चितेप्ययं घटो वा शरावो वा उदञ्चनं वा शराव एवेति संशयविपर्ययौ न स्यातामित्याह– मृत्त्व इति ।। मृद्यध्यस्तत्वा दिति ।। मृद्व्यृतिरेकेण घटादेरभावादित्यर्थः । अधिष्ठानतत्वज्ञानेनाध्यस्तं निवर्तत इति लोके दर्शनात् मृदादौ घटादेरध्यासे मृत्त्वज्ञानान्निवृत्तिः स्यात् । न चैवमस्तीत्याह– मृत्त्वेति ।।
घटादीनां मृद्व्यतिरेकेणासत्त्वरूपं मृदध्यस्तत्वं किं व्यवहारदशायामुच्यते तात्विकत्व दशायां वा । नाद्य इत्याह– व्यवहारेति ।। घटादेः सत्त्वोपपादकं मृदादिवदिति ।। कारक व्यापारेति ।। कुलालादिव्यापारेत्यर्थः ।। अवस्थेति ।। पृथुबुध्नोदराकारत्वावस्थाविशेष एव घट इत्यर्थः । मृद्व्यतिरेकेणासत्त्वे प्रागुक्तं कारकव्यापारसाध्यत्वमयुक्तं स्यादिति भावः । द्वितीये त्वाह– तात्विकेति ।। तात्विकत्वदशायां मृदोऽपि ब्रह्मण्यध्यस्तत्वेन ब्रह्मव्यति-रेकेणाभावात् उपादानत्वेन ‘मृत्तिकैव सत्यम्’ इति मृदः सत्त्वोक्त्ययोगादित्यर्थः । एक-विज्ञानेन सर्वविज्ञानस्याध्यस्तत्वाभिप्रायो न युक्तः । अधिष्ठानतत्वज्ञानेनाध्यस्तज्ञानस्य क्वाप्यदर्शनात् । न हि शुक्तिज्ञो रजतज्ञ इत्युच्यत इत्याह– शुक्त्यादीति ।। वाचस्पति-नेति ।। शुक्त्यादितत्वज्ञानेन रूप्यादिज्ञानादर्शनादित्येतदसहमानेनेत्यर्थः ।। सा हीति ।। आरोपितस्य रूप्यस्य तत्त्वमधिष्ठानभूता शुक्तिरेव । एवं ब्रह्मणि ज्ञाते सति तत्राध्यस्तं जगत्तत्वतो ज्ञातं भवति तद्धि तस्य तत्त्वं अतोऽधिष्ठानज्ञानेनाध्यस्तस्य तत्वतो ज्ञानमेवैक-विज्ञानेन सर्वविज्ञानशब्दार्थ इत्यर्थः ।। एवं हीति ।। अधिष्ठानतत्त्वज्ञानेनाध्यस्तं तत्त्वतो ज्ञातं भवतीत्युक्ते ब्रह्मण एवाध्यस्तत्वेन ब्रह्मज्ञानेन ब्रह्म ज्ञातं भवतीत्युक्तं स्यात्तच्चायुक्त-मित्यर्थः । कुत इत्यत आह– सर्वेति ।। घटज्ञाने सति घटस्यापि ज्ञातत्वादिति भावः ।
ननु न सर्वसाधारण्यं घटज्ञानस्य घटज्ञानं प्रत्यहेतुत्वादिति चेत्समं प्रकृतेऽपीत्याह– स्वस्येति ।। ब्रह्मज्ञानस्यापि ब्रह्मज्ञानं प्रत्यहेतुत्वमेव । अन्यथा आत्माश्रयादिति भावः ।। येनेति ।। येन ब्रह्मणा श्रुतेनाश्रुतं जगत्तत्त्वं श्रुतं भवतीति तदर्थः । जगत्तत्त्वं च ब्रह्मैव तथा च येन श्रुतेन ब्रह्मणाऽश्रुतमित्येतदेव विरुद्धत्वान्न सम्भवतीत्यर्थः । ननु नेदं दूषणं येनाश्रुतं जगत्तत्त्वं श्रुतं भवतीत्युक्तेन विरोध इत्यस्वरसादाह– किं चेति ।। असाधारणं स्वरूपमिति ।। चाकचक्यस्यासाधारणस्वरूपं शुक्तित्वासाधारणधर्मो वा तत्त्वं न तु भ्रमा धिष्ठानं तत्त्वमित्युच्यत इति भावः । कुतो नेत्यत आह– तथात्वे हीति ।। यदि भ्रमा-धिष्ठानमेव तत्त्वं तर्ह्यानन्दो ब्रह्म तत्त्वं न स्यात् । आनन्दस्य ब्रह्मीयभ्रमाधिष्ठानत्वाभावात् । यथा शुक्तित्वं शुक्तेस्तत्वं न स्यात् । शुक्त्यारोपाधिष्ठानत्वाभावादित्यर्थः । एवं सत्यसाधा- रणस्वरूपासाधारणधर्मत्वरूपं तत्त्वलक्षणं रूप्यतत्त्वभूतायां शुक्तौ नास्तीत्याह– न चेति ।। शुक्तिज्ञाननिवर्त्यस्येति हेतुगर्भम् । न हि तज्ज्ञाननिवर्त्यं तस्य स्वरूपं भवतीत्यर्थः ।
इतोऽपि न शुक्तिरारोप्यस्य रूप्यस्यासाधारणं स्वरूपं अतो न तत्वमित्याह– न चेति ।। एकस्यामेव शुक्तौ वङ्गाद्यनेकाध्यासो भवति । एवं च शुक्तिर्नारोप्यस्य रूप्यस्य तत्त्वं तस्याः वङ्गाद्यनेकासाधारणस्वरूपत्वाभावादित्यर्थः ।। किं चैवमिति ।। यदि रूप्य-तत्त्वं शुक्तिः स्यात्तर्हि आनन्दस्य ब्रह्मतया आनन्दो ब्रह्मेत्यानन्दे ब्रह्मतया धीर्यथा प्रमा
ब्रह्मतत्त्वे ब्रह्मधीत्वात् । एवं शुक्तौ रूप्यधीः प्रमा स्यात् । रूप्यतत्त्वे रूप्यधीत्वादित्यर्थः । तथा च शुक्त्यादिज्ञानेन रूप्यादिज्ञानादर्शनादित्युक्तं दूषणं युक्तमेवेति भावः । ज्ञानादेव प्रधान भूतब्रह्मज्ञानादेव । सर्वे कामाः देवतादिज्ञानफलभूताः ।। तावानिति ।। सर्ववेदेषु देवता ज्ञानकर्मादिफलतया प्रमितं स्वर्गादिकं सर्वं ब्रह्मप्राप्तियोग्यस्यापरोक्षज्ञानिनः फलेऽन्तर्भव-तीत्यर्थः ।। एतेनेति ।। एकविज्ञानेन सर्वविज्ञानस्य सादृश्यादिनाऽन्यथैवोपपन्नत्वादित्यर्थः । केचित् रामानुजीयाः । अव्यक्तादिविशिष्टस्य अव्यक्ताधिष्ठानतयाऽव्यक्तशरीरस्य तदधिष्ठिता- व्यक्तस्येति यावत् । महदादिविशिष्टात्मना महदाद्यधिष्ठितात्मना तदधिष्ठितमहदादिरूपेणेति यावत् ।
न्यायकल्पलता
ननु छन्दोगोपनिषदि पित्रोद्दालकेन गुरुकुलं प्रति प्रेषितं, पुनः परावृत्यागतम् अब्रह्म-विदं श्वेतकेतुं प्रति ‘यस्मिन्विज्ञाते सर्वं विज्ञातं भवति’ तादृशमुपदेश्यं वस्तु गुरून्प्रति त्वं पृष्टवानसि किमित्युक्तेऽवाच्यमपि स्वगुरूणामज्ञानं पुनर्गुरुकुलप्रेषणभयात् श्वेतकेतुरुक्तवान् ‘मम गुरवस्तद्वस्तु नावेदिषुः । यद्यवेदिष्यंस्तर्हि मां प्रत्युपादिक्ष्यन् इति भवानेव पिता ब्रवीत्विति श्वेतकेतुना पृष्टे ब्रह्मज्ञानेन सर्वज्ञानमित्यस्योपपादकं सर्वस्य ब्रह्मानन्यत्वमुक्तम् इत्यतो वाचारम्भणादिशब्दा मिथ्यात्वे मानमित्याशङ्क्य निराचष्टे– नापि वाचा-रम्भणमिति ।।
१‘कृत्यल्युटो बहुलम्’ इति कर्मणि ल्युटमाश्रित्यापि तत्समाधेयमित्याह– आरभ्यत इतीति ।। कृद्योग इति ।। २‘कर्तृकर्मणोः कृति’ इति षष्ट्या बाधितत्वात्कर्तरि तृतीया नोपपद्यत इत्यर्थः । ननु करणतृतीयाया अनपोदितत्वात्करण तृतीयान्तं समसनीयम् । ३‘कर्तृकरणे कृता बहुलम्’ इति तद्विधानात् । ४‘तत्पुरुषे कृति बहुलम्’ इति बहुलोक्ते-रलुक्समासोऽयमित्यत आह– ।। वाचेति ।। हलन्तादपि टापमाश्रित्य भावे ल्युट् प्रत्यय-मुत्पाद्य व्यधिकरणबहुव्रीहिसमासाश्रयणेऽपि दोषमाह– वागालम्बनेति ।। ‘अप्येकाक्षर-साम्यान्निर्ब्रूयात्’ इति यास्कोक्तिसमाश्रयणेऽपि नोक्त दोषनिस्तार इत्याह– अक्षरेति ।। परस्य श्रुतिव्याख्यानिष्णातत्वं नास्तीत्याह ।। त्वयेति ।। व्याकरणनिष्णातत्वमपि न परस्येत्याह– मृत्तिकेत्यत्रेति ।।
उक्तं हीति ।। अन्यथा ५‘स्वं रूपं शब्दस्याशब्दसंज्ञा’ इति परिभाषया नवाशब्दयोरेव विभाषासंज्ञायां ६‘विभाषा जसि’ इत्यादौ नवाशब्दयोरेव ग्रहणं स्यान्नार्थस्येति भावः । नन्वत्रेतिशब्दः प्रकारार्थोऽस्तु । ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इति अमरोक्तेरित्या-शङ्क्य निराकरोति ।। न चेति ।। सामान्यस्य भेदको विशेषः प्रकारः । तच्च मृत्तिकात्वं, तस्योपादानतावच्छेदकत्वेनानुपादनत्वादित्यर्थः । एतेन ‘आनन्दो ब्रह्मेति व्यजानात्’ इति-वत्प्रकारार्थता स्यादिति निरस्तम् । तत्र बाधकाभावात् । स्वोक्तमर्थम् अनुव्याख्यानेन सम्मतयति– तदुक्तमिति ।। तस्मादिति ।। वाचा केवलमस्तीत्यारभ्यते घटः शराव उदञ्चनेति । यथा मिथ्यामिरजतं भ्रान्तस्य वाङ्मात्रमित्यास्यापव्याख्यादित्यर्थः ।। कर्मणि घञिति ।। विक्रियत इति विकारः । ७‘अकर्तरि च कारके संज्ञायाम्’ इत्यत्र ‘चाद-संज्ञायाम्’ इत्युक्तत्वादित्यर्थः । विकारशब्दस्य नियतपुल्लिङ्गत्वात्, वेदाः प्रमाणम्’ इतिवद् ‘वाचारम्भणं विकारः’ इति विशेषणविशेष्यभावो नानुपपन्नः । सत्य शब्देनात्र निर्त्यार्थग्रहणे गमकान्याह– एतच्छ्रुतावित्यदिना ।। तथापि निरुक्तसत्यशब्दस्य ग्रहणे किं गमकमिति तत्राह– इहेति ।। विकारशब्दोक्तविकृतत्वविरोध्यर्थस्यैव सत्यपदेन ग्राह्यत्वादित्यर्थः ।
ननु करणतृतीयान्तं हलन्तं भावल्युडन्तेन विगृह्य बहुव्रीहेराश्रयणमप्ययुक्तम् । ‘समाधि करणनां बहुव्रीहिरिष्यते’ इति भाष्यविरोधादित्यत आह– टापञ्चैवेति ।। १‘सप्तमी विशेषणे बहुव्रीहौ’ इति सूत्रेण गमकत्वाद्व्यधिकरणोऽपि बहुव्रीहिर्ज्ञापित इति समानाधिकरण बहुव्रीहि-विधायकं वचनं प्रायिकम् । हलन्तादप्याब्विधानेनाबन्ततृतीयान्तशब्दस्यैव विग्रह स्थत्वा-दित्यर्थः ।। तस्मादिति ।। पराभिमतस्यार्थस्यानुपपन्नत्वादित्यर्थः ।। सादृश्यदिति ।। यथा गन्धवत्वादिना एकमृत्पिण्डविज्ञाने सति गन्धवत्वा दिना सादृश्यात्सर्वं मृण्मयं तथा ज्ञायते । एवं प्रामाणिकत्वात्सत्वेन ज्ञातस्य ब्रह्मणः सत्वसादृश्याज्जगदपि अबाध्यमिति विज्ञायते तथा चेतनत्वेन ज्ञानानन्दाद्यात्मकत्वेन श्रुतस्य परमात्मनश्चेतनत्वेन सादृश्यात् ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ इति श्रुत्या चेतनत्वेन श्रूयमाणा जीवा ज्ञानान्दात्मका विज्ञायन्ते ।
प्राधान्यादेकविज्ञानेन सर्वविज्ञानं मूलाभिप्रेतं विशदमुपपादयति ।। भाषेति ।। अथवा ‘यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्’ इत्ययमपि दृष्टान्तः प्राधान्याभि-प्रायः । लोहेषु मणिः श्रेष्ठः लोहमणिः सुवर्णम् । ‘स्वर्णं लोहमणिश्चैव पुरटं चाभिधीयते’ इत्यभिधानात् । ‘मणिर्मुखं प्रधानश्चेत्युत्तमस्य वचो भवेत्’ इति च । यथा लोहमणेः स्वर्णस्य विज्ञानात्साधनानुष्ठानेन तल्लाभे सर्वे लोहमया लब्धफला भवन्ति । एवं प्रधान्येन ब्रह्मज्ञानाद्वैदिककर्मदेवतादिकं प्राप्तफलं भवति । ब्रह्मज्ञानफले तदितरफलानाम् अन्तर्भावात् । तदुक्तं २छान्दोग्योपनिषद्भाष्ये ।
३‘यथा स्वर्णस्य विज्ञानात्सर्वे लौहमयास्तथा ।
प्राधान्याद्विष्णुविज्ञानाद्विज्ञानं स्याज्जगत्सदा ।। इति ।
४‘पुरुषार्थोऽतः शब्दादिति बादरायणः’ इति सूत्रं च ।
ननु वाचारम्भणम् इत्यादिवाक्यत्रयं यदि प्राधान्यादेकविज्ञानेन सर्वविज्ञाने पृथक् पृथक् दृष्टान्तप्रदर्शनपरं तर्हि प्रत्येकं ‘यथा सोम्य’ इत्येवं ब्रूयात् न चैवमवोचत् । तेन विदाङ्ग-रवाम नेदं स्वतन्त्रं किन्तु तत्तच्छेषमित्यत आह– तदर्थमिति ।। पृथक् पृथग्दृष्टान्तत्व-प्रत्यायनार्थं पूर्वपूर्ववाक्यस्थं ‘यथा सोम्य’ इति प्रत्येकमनुषञ्जनीयमित्यर्थः । तत्र श्रौतं निदर्शनमुक्तं तनूर्वषिष्ठेत्यादीति । द्वितीयस्य प्रथमपादे विचारितम् १‘अनुषङ्गो वाक्य-समाप्तिः सर्वेषु तुल्ययोगित्वात्’ । पूर्वाह्वापराह्नयोरभ्यस्यमानमाग्नेयी सौम्या वैष्णवीति यागत्रयमेकोपसत् । तथाविधानां तिसॄणामुपसदां ज्योतिष्टोमे विहितानामेव यवभूता प्रत्येकमादौ आग्नेय्युपसत् ‘अग्निमनीकम्’ इति वाक्येन विहिता । ततश्चाग्नेय्यस्तिस्र उपसदो भवन्ति । ताश्च त्रिषु दिवसेष्वनुष्ठीयन्ते । तत्र यथासङ्ख्यलक्षणेन क्रमप्रमाणेन प्रथमाया उपसदः ‘या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीत् त्वेषं वचो अपावधीत् स्वाहा’ इति निराकाङ्क्षो मन्त्र आम्नातः । उत्तरयोस्तु ‘या ते अग्ने रजाशया । या ते अग्ने हराशया’ इति साकाङ्क्षौ मन्त्रौ । तत्रापरिपूर्णमन्त्रस्यावश्यं परिपूर्णस्समर्थो वाक्यशेषः कल्पनीयः । तदुक्तं वार्तिके–
न्यूनवाक्यप्रयोगो हि वेदेन च समाश्रितः ।
कश्चित्क्वापि स्थितः शेषः सोऽन्वेष्टव्यः प्रयत्नतः ।। इति ।
एवं स्थिते शेषे किं लौकिको वा वैदिको वा शेष इति चिन्त्यते । तत्र लौकिक एवेति पूर्वपक्षः । तदुक्तं वार्तिके–
नान्यत्रोत्सहते गन्तुं वैदिकं सन्निबन्धनम् ।
यथेष्टं विनियोगं तु सर्वार्थं वस्तु लौकिकम् ।। इति ।
यद्यपि व्यवस्थितत्वेन बुद्धिविलम्बाभावाद्वैदिकस्याव्यवस्थिताल्लौकिकाल्लघुतरप्रयोगत्वेन प्रयोज्यत्वमवधार्यते तथापि तत्र वैदिकत्वबुद्धिविरहः पूर्वपक्षिणोऽभिमतः । तदुक्तं वार्तिके–
तानेव वैदिकान्वर्णान् भारतादिनिवेशितान् ।
स्वाध्यायनियमं हित्वा लोकबुद्ध्या प्रयुञ्जते ।। इति ।
एवं च लोके विवक्षानुसारेणानुषङ्गेऽपि न वेदेऽनुषङ्गः । क्रमनियमवति वेदे यदर्थं वाक्य शेषाम्नानं ततोऽन्यत्र तस्य नयनायोगात् । तस्मादध्याहार इति । सिद्धान्तस्तु – वैदिके वाक्यशेषे लभ्यमाने लौकिकः शेषो वेदे नाध्याहार्यः । किन्तु वैदिक एवानुषञ्जनीयः । तदुक्तं वार्तिके–
विमुक्तव्यापृतौ वेदे लौकिकावसरस्थितिः ।
तद्व्यापारविमोकश्च सकलान्वेषणक्षये ।। १ ।।
अदृष्टः प्रकृतावर्थः प्रत्ययेऽन्विष्यते ततः ।।
पदे स्वस्मिन्नलब्धस्तु प्रार्थनीयः पदान्तरे ।। २ ।।
स्वस्मिन्वाक्येऽपि न स्याच्चेन्मृष्यो वाक्यान्तरे ततः ।
वाक्यान्तरेऽपि न स्याच्चेन्मृष्यः प्रकरणे ततः ।। ३ ।।
यदि प्रकरणे न स्यान्मृष्यः प्रकरणान्तरे ।। इति ।
तदिह ‘रजाशया हराशया’मन्त्रयोः शेषः स्वपदवाक्ययोरलब्धत्वाद्वाक्यान्तरे नूनमिति लभ्यते । स च यत्प्रदेशवर्तित्वेन ताभ्यामाकाङ्क्षितस्तत्रैव विनियुज्यते । शक्नोति चायं सर्वैरन्वेतुम् । अन्वयकारणानामाकाङ्क्षायोग्यतासन्निधीनामविशेषात् । व्यवहितसमाम्नातानाम् सम्बन्धिपदनिचयव्यवधानाभावेन बुद्धिविपरिवृत्तिरूपसन्निधिसत्वादानन्तर्य्यस्याप्रयोजकत्वात् । तदुक्तम्–
आकाङ्क्षा सन्निधानं च योग्यता चेति तत्त्रयम् ।
सम्बन्धकारणत्वेन क्लृप्तं नानन्तरश्रुतिः ।।
तथा,
अनन्तरेण सम्बन्धः स्यात्परस्याप्यनन्तरम् ।
ततः पुनस्तदारूढः परानन्तर्यमश्नुते ।। इति ।
तस्मादाम्नातमेव सर्वार्थमिति सर्वस्यैवायं वैदिक एव शेष इति ।। कथं चेति ।। मृन्मयादेर्मृदाद्युपादानकत्वेन तद्विवर्तत्वाभावान्मृत्पिण्डमृण्मयादिदृष्टान्ताः कथं दार्ष्टान्तिक ब्रह्मजगत्सङ्गताः स्युरित्यर्थः । अविद्याविशिष्टस्य ब्रह्मणो जगदुपादानत्वं, केवलस्य तु विवर्ताधिष्ठानत्वमिति न दृष्टान्तासङ्गतिरिति शङ्कते– ब्रह्मेति ।। तथा चोपादानत्वसाम्याद् दृष्टान्तोक्तिरिति शङ्कार्थः । प्रतिज्ञावाक्यासङ्गत्या दूषयति– मुमुक्ष्विति ।। मोक्षसाधनब्रह्म ज्ञानविकलं श्वेतकेतुं प्रति ब्रह्मतत्वविजिज्ञापयिषया पित्रोद्दालकेन तथा प्रतिज्ञातत्वादित्यर्थः ।। अन्यथेति ।। अविद्याविशिष्टज्ञानेन सर्वविज्ञानप्रतिज्ञायामित्यर्थः ।। अनादीति ।। ब्रह्मज्ञानेनाविद्यादेर्ज्ञानं न स्यादित्यर्थः ।। वैय्यर्थ्याच्चेति ।। निष्प्रयोजनत्वाद्विरुद्धार्थत्वाच्च इत्यर्थः । तदुभयमुपपादयति– न हीति ।। परपक्षे नखनिकृन्तनकार्ष्णायसदृष्टान्तस्त्व- सम्भवदुक्तिकत्वाच्चानुपपन्न इत्याह– नखनिकृन्तनस्येति । अन्त्यावयवित्वेन द्रव्या-नारम्भक द्रव्यत्वेन । स्वमते त्वयं दृष्टान्तः कैमुतिकन्यायप्रदर्शनार्थः ।
१‘अत्यल्पेऽपि हि विज्ञाते सदृशे तादृशं बहु ।
ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम् ।
किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम् ।।
इति छान्दोग्योपनिषद्भाष्योक्तः । बहोः पूर्णस्येत्यर्थः ।। मृत्व इति । तथा चासम्भव इत्यर्थः । अथ विवर्तत्वसाम्याद्दृष्टान्ता इति द्वितीयमाशङ्क्य निराचष्टे– न चेति ।। मृदादौ घटादेरनध्यासाद् दृष्टान्तानानुगुण्यमित्यर्थः । मृदादौ घटादेः कुतोऽनध्यास इति मन्दाशङ्कामपनेतुं हेतुमाह– मृत्तत्वेति ।। मृद्घटाद्योः सत्वसाम्यात् ‘मृत्तिकेत्येव सत्यम्’ इति विशिष्य मृत्तिकासत्यत्वोक्तिरयुक्तेत्याह– व्यवहारेति ।। मृदोऽपीति ।। तथा च सुतरां दृष्टान्तदार्ष्टान्तिकभावानुपपत्तिरित्यर्थः । घटादेर्मृद्विवर्तत्वमभ्युपेत्यापि दूषयति– शुक्त्यादीति ।। घटादेर्मृद्विवर्तत्वेऽपि मृद्ज्ञानाद्घटादिज्ञाननिदर्शनं न सम्भवति । शुक्ति-रूप्यादावदर्शनादित्यर्थः । अत्र भामत्युक्तं विवर्तमतसमाधानमुपन्यस्यति ।। यत्त्विति ।। स्वपक्षसमाधान सम्भ्रमव्याकुलोपन्यस्तं मतं दूषयति– तन्नेति ।। एवं हीति ।। प्रपञ्च-तत्वस्य ब्रह्मरूपत्वादित्यर्थः ।। सर्वेति ।। घटज्ञाने सति घटस्यापि ज्ञातत्वादित्यर्थः ।
ननु न सर्वसाधारण्यम् । घटादिज्ञानस्य तत्प्रत्यहेतुत्वादत आह– स्वस्येति ।। ब्रह्मज्ञानस्येत्यर्थः । ननु व्यक्तिभेदविवक्षायां न दोष इत्यत आह– येनेति ।। ज्ञातव्यक्ति-भेदेऽपि ज्ञानस्यैव ज्ञातत्वादित्यर्थः ।। तथात्वे हीति ।। ब्रह्मभ्रमानधिष्ठानं आनन्दो ब्रह्मतत्वं न स्यात् । एवं शुक्तित्वमपीत्यर्थः । तत्वलक्षणस्य शुक्त्यादावभावान्न तद्रूप्यादे-स्तत्वमित्याह– न चेति ।। अधिष्ठानमध्यस्तस्य स्वरूपमेव न भवति । नतरामसाधारणं तदित्यर्थः । इतोऽपि नासाधारणमित्याह– न चानेकेति ।। दोषान्तरम् अभ्युच्चिनोति– किञ्चेति ।। तत्वतत्विनोरभेदादिति भावः । घटघटत्वादेः सपक्षत्वान्न व्यभिचारः । निगमयति– तस्मादिति ।। ननु मृन्निश्चयेऽपि घटादौ संशयात्तव मतेऽपि न सदृश-ज्ञानादिना सर्वविज्ञानोपपत्तिरित्यत आह– अस्मत्पक्षे त्विति ।। तुशब्दः परमत वैलक्षण्यार्थः । न वयमेकान्ततः प्रधानज्ञानेन सर्वविज्ञानं ब्रूमोऽपि तु सदृशप्रधानज्ञाने सति सर्वविज्ञानफलं भवतीति ।
एवं श्रौतम् एकविज्ञानेन ब्रह्मेतरसर्वतदङ्गभूतदेवतादिविज्ञानं समग्रतदुचितफलसिद्ध्यैवो-पपन्नमितीममर्थं प्रदर्श्य श्रुतिगीतातद्भाष्योदाहृतस्मृतिभिः समर्थयते– ज्ञानादेवेति ।। परैर्विश्वमिथ्यात्वे प्रमाणीकृता श्रुतार्थापत्तिरपि उक्तन्यायेनैव निरस्तेत्याह– एतेनेति ।। एवं च शाखाचन्द्रन्यायेन मृदाद्यधिष्ठानं ब्रह्मैव सत्यपदेनाभिप्रेतमित्यपि प्रत्युक्तम् । तस्मादेक विज्ञानेन सर्वविज्ञाने दृष्टान्तषट्कं, तत्र सादृश्यादेकविज्ञानेन सर्वविज्ञाने दृष्टान्तद्वयम् । प्राधान्यादेकविज्ञानेन सर्वविज्ञाने दृष्टान्तचतुष्टयमिति तद्भाष्योक्तरीत्या विज्ञेयम् । अथ स्वरूपव्याक्रियैव तन्निराक्रियेति मन्वानः परिणामवादिमतमुपन्यस्यति– केचित्त्विति ।। अत्रेदमस्वरसबीजम् । विशिष्टस्य ब्रह्मणः परिणामित्ववचनं यदि ‘सविशेषणे हि’ इति न्यायेन ब्रह्मविशेषभूताचेतनाव्यक्तमात्रोपसङ्क्रान्तं तदा नास्माकमसङ्गब्रह्मवादिनां काचन क्षतिः । अथ तदन्तर्यामिणोऽपि परिणामस्तदा षड्भावविकारप्राप्त्या ब्रह्मत्वहानिः । ‘यस्तमतिष्ठन्’ इति तदन्तर्यामित्त्वश्रुतेः । अनादीनव्यक्तादीन् प्रत्युपादानत्वायोगश्च । नखनिकृन्त-नस्यान्त्यावयवित्वेन दृष्टान्तासङ्गतिश्चेत्यलम् अतिविस्तरेण । अन्ये तूपादानोपादेययोर्भेद-मङ्गीकृत्य ‘यस्य पृथिवी शरीरम्’ इत्यादिश्रुत्या ब्रह्मणश्चिदचिच्छरीरत्वावगमात् शरीरवाचिनां च शब्दानां तदन्तर्यामिणि शरीरिण्येव ब्रह्मणि पर्यवसानमित्याहुः । यत्तु स्वतः सविशेषब्रह्माङ्गीकृत्य सच्छक्तिकमुपादानं चिच्छक्तिकं कर्तृ । तेन मायिमत वदभिन्न-निमित्तोपादानं जगदिति कल्पनमपि नातिशोभनम् । प्रकृत्यङ्गीकारवैय्यर्थ्यात् । प्रकृ-त्यन्तर्यामित्वेन तदुपादानशक्त्युद्बोधकतयोपादानत्वे न नो विवादः । ‘तदधीनत्वादर्थवत्’ इति सौत्रन्यायसिद्धत्वादिति ।
न्यायामृतसौगन्ध्यम्
नापि वाचारम्भणं विकारो नामधेयम् इति श्रुतिस्तत्र मानम् । वाचारम्भणशब्दस्य मिथ्यात्वे रूढेरभावात् । आरभ्यत इत्यारम्भणमिति योगेऽपि कृद्योगे तृतीयाया अयोगात् । वाचारब्धकाव्यादेरिव मिथ्यात्वालाभाच्च । वागालम्बनमात्रमिति व्याख्यानेऽश्रुतकल्पनात् । अक्षरसाम्येन निर्वचनेऽपि मात्रशब्दाश्रवणात् । त्वया नामधेयमित्यस्यापि नाममात्रं ह्येतदिति व्याख्यातत्वेन पौनरुक्त्याच्च । मृत्तिकेत्यत्रार्थविवक्षायां इतिशब्दवैय्यर्थ्याच्च । पदार्थविपर्यासे खल्वत्रेतिशब्दः । स च शब्दप्रकरणे प्रसक्तं शब्दपदार्थकत्वं निवार्यार्थपदार्थकत्वं व्यवस्थापयति यथा ‘न वेति विभाषा’ इति ।
अर्थप्रकरणे तु शब्दपदार्थकत्वम् । यथा ‘गौरित्ययमाह’ इति । उक्तं हि महाभाष्ये ‘न वेति विभाषा’ इत्यत्र इतिकरणः क्रियते । सोऽर्थनिर्दशार्थो भविष्यति । तद्यथा गौरित्यय-माहे ति गोशब्दादितिकरणः प्रयुज्यमानः गोशब्दं स्वस्मात्पदार्थात् प्रच्यावयति सोऽस्मा-त्प्रच्युतः शब्दपदार्थकः सम्पद्यते’ इति । अत्र चार्थप्रकरणादेवार्थपदार्थकत्वे सिद्धे किमिति-शब्देन । न चात्रेतिशब्दः प्रकारार्थः । प्रकारस्यानुपादानत्वात् । तदुक्तं–
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।। इति ।
तस्माद्वाचया वागिन्द्रियेणारम्भणमुत्पादनं यस्य साङ्केतिकस्य भाषाशब्दस्य तन्नामधेयम् । विकारः कर्मणि घञ् विकृतं, संस्कृतापभ्रंशरूपेण विक्रियमाणत्वात् । मृत्तिकेत्यादि संस्कृत नामधेयं तु सत्यं नित्यं ‘‘नास्य जरयैतज्जीर्य्यते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरम्’’ इति । एतच्छ्रुतावेवोत्तरत्र सत्यशब्दस्य नित्ये प्रयोगात् । सदाशब्दाद् ‘अव्ययात् त्यप्’ इति त्यबन्तस्य सत्यशब्दस्य नित्ये प्रयोगसम्भवाच्च । ‘सनातनं सत्यमिति नित्यमेवोच्यते बुधैः’ इति वचनाच्च । इह विकृतत्वप्रतियोगिन एव सत्यशब्देन विवक्षणीयत्वाच्च ।
‘टापञ्चापि हलन्तानां यथा वाचा निशा दिशा’ इति वचनाद्वाचारम्भणमिति समासः साधुः । तस्मात्तत्सादृश्यादेकविज्ञानेन सर्वविज्ञाने मृत्पिण्डमृण्मयादिदृष्टान्तः । प्रधानज्ञानेना प्रधानज्ञाने संस्कृतापभ्रंशदृष्टान्तः । भाषाशब्दज्ञानाद्धि यत्फलं तच्चाधिकं च सार्वत्रिक व्यवहारादिकं संस्कृतज्ञानाद् भवतीति तज्ज्ञो विद्वानित्युच्यते । तदर्थं यथा सौम्येत्यादिकं, तनूर्वर्षिष्ठेत्यादिवद् अनुषञ्जनीयम् । कथञ्च विवर्तपक्षे मृत्पिण्डमृण्मयादिदृष्टान्ताः ब्रह्माविद्या विशिष्टं सदुपादानमपीति चेत् । न । मुमुक्षुज्ञेयशुद्धब्रह्मज्ञानेनैव सर्वविज्ञानप्रतिज्ञानात् । अन्यथा अविद्याया अपि ‘येनाश्रुतम्’ इत्यादिप्रतिज्ञावाक्योक्तज्ञेयकोटित्वापातात् । अनाद्य विद्यादीन् प्रत्युपादानत्वायोगाच्च । उपादानत्वाभिप्रायत्वे मृदा ज्ञातया मृण्मयं विज्ञातं स्यात् इत्येतावतैव पूर्णत्वेन मृत्पिण्डादिवाक्यत्रये प्रत्येकं श्रुतानां एकशब्द(मृत्)पिण्डसर्व शब्दानां वैय्यर्थ्याच्च । न हि सर्वमृण्मयादिकं एकमृत्पिण्डादिविकारः । नखनिकृन्तनस्यान्त्यावय-वित्वेनोपादानत्वस्यैवासम्भवाच्च । मृत्वे निश्चितेऽपि घटादौ संशयादिदर्शनाच्च । न च घटादेरपि मृद्यध्यस्तत्वाद् विवर्तपक्षेऽपि तद्दृष्टान्तो युक्तः । मृत्तत्वज्ञानेऽपि घटाद्यनिवृत्तेः । व्यवहारदशायां मृदादिवत्कारकव्यापारसाध्यस्य जलाहरणादिसमर्थस्य चावस्थाविशेषरूपस्य घटादेरपि सत्वात् । तात्विकसत्वविवक्षायां तु मृदोऽपि सत्वोक्त्ययोगाच्च । शुक्त्यादितत्व ज्ञानेन रूप्यादिज्ञानादर्शनाच्च ।
यत्तूक्तं वाचस्पतिना । ‘शुक्तौ ज्ञातायां रूप्यं तत्वतो ज्ञातं भवति । सा हि तस्य तत्वम् । एवं ब्रह्मज्ञानात्सर्वं तत्वतो ज्ञातं भवति’ इति । तन्न । एवं हि ब्रह्मज्ञानेन ब्रह्मैव ज्ञातं भवतीत्यर्थः स्यात् । तच्चायुक्तम् । सर्वसाधारण्यात्, स्वस्य स्वहेतुत्वायोगाच्च । ‘येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ इति श्रुतिगताश्रुतादिपदायोगाच्च । किञ्चा-साधारणं स्वरूपं असाधारणधर्मो वा तत्वं न तु भ्रमधिष्ठानम् । तथात्वे हि ब्रह्म शुक्त्या-द्यनधिष्ठानमानन्दः शुक्तित्वादिकं ब्रह्मशुक्त्यादितत्वं न स्यात् । न च शुक्तिः शुक्तिज्ञान निवर्त्यस्य रूप्यस्य स्वरूपं धर्मो वा । न चानेकारोप्यानुगतमधिष्ठानम् एकैकस्यारोपितस्या साधारणम् । किञ्चैवं शुक्तौ रूप्यधीः आनन्दादौ ब्रह्मादिधीरिव प्रमा स्यात् । तत्तत्वे तद्धी त्वात् । तस्मात्परमते एकविज्ञाने सर्वविज्ञानमित्ययुक्तम् । अस्मत्पक्षे तु प्रधानपुरुषज्ञाना ह्वानपूजनादौ लोके जनपदः सर्वोऽपि ज्ञात आहूत इत्यादेः । पुराणादौ च–
शशास पृथिवीं सर्वां सशैलवनकाननाम् ।
नाशिता पृथिवी सर्वा धार्तराष्ट्रेण दुर्नयैः ।।
इत्यादेश्च व्यवहारस्य दर्शनात् प्रधानभूतब्रह्मज्ञानादप्रधानभूतदेवतादिज्ञानफलसिद्धेः । तदुक्तं ‘ज्ञानादेव सर्वे कामाः सम्पद्यन्ते’ इति श्रुतेः, ‘तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः’ इति स्मृतेश्च ।
यथा मृत्पिण्डविज्ञानात्सादृश्यादेव मृण्मयाः ।
विज्ञायन्ते तथा विष्णोस्सादृश्याज्जगदेव च ।।
अनन्याधीनविज्ञानादन्याधीनं तथैव च ।
मृदयोलोहनाम्नां हि ज्ञानात्साङ्केतिकं यथा ।। इत्यादिस्मृतेश्च ।
एतेनैकविज्ञानेन सर्वविज्ञानान्यथानुपपत्तिर्मिथ्यात्वे प्रमाणमिति निरस्तम् । केचित्तु सूक्ष्माव्यक्तादिविशिष्टस्य ब्रह्मणो महदादिविशिष्टात्मना परिणामात्कार्यकारणयोश्चाभेदात्कार्यस्य कारणातिरेकेणासत्वपरेयं श्रुतिर्न मिथ्यात्वपरेत्याहुः । यत्तु वाचारम्भणशब्दस्य वागालम्बन मात्रम् इत्यादिः, अहं भवः ‘येनाश्रुतम्’ इत्यादि सामानाधिकरण्यबाधायां अश्रुतमन्यत्सर्वं यदभिन्नश्रुतस्वरूपव्यतिरेकेण नास्तीत्यर्थः । तथा चैकं सर्वस्याधिष्ठानमित्यर्थः प्रतिज्ञातः । तत्र मृत्पिण्डव्यतिरेकेण तद्विकारो यथा नास्तीत्यादिदृष्टान्ता यथा सोम्येकेनेत्यादिना प्रति-पाद्यन्ते । मृत्पिण्डपदं च मुख्यार्थकैकपदयोगाद् भूमिरूपपिण्डार्थकं, पिण्डपदं च स्थौल्य विशेषबोधकं मृण्मयमात्रोपादानतायोग्यतालाभाय । मृण्मयपदं च भूमिविकारमात्रार्थकं, तथा च भूमिविकारः सर्वो यथा नास्तीत्यर्थः । भूमिविकारकत्वं च साक्षादेव वृक्षादावक्षतमिति भूमिविकृतपिण्डस्य नानाविकारानुपादानत्वेऽपि न क्षतिः ।
यद्यपि भूमिर्नाधिष्ठानं तथाप्यधिष्ठानावच्छेदकशुक्त्यादिव्यतिरेकेण रूप्यादि नास्तीति व्यवहारवद् भूमिविकारादिस्वरूपविचारदशायां आधारतावच्छेदकभूम्यादिव्यतिरेकेण तद्विकारो नास्तीति व्यवहारात् । श्रुत्या तथोक्तमेव सर्वमृण्मयं एकमृत्पिण्डभिन्नज्ञानस्वरूपमित्यपि बाधायां सामानाधिकरण्यं, तत्र हेतुर्मृत्तिकेत्येव सत्यमिति । मृत्तिका भूमिरिति गृह्यमाणाद्य-त्तदेव सत्यं, मृतिकास्वरूपस्य सत्यत्वाभावात् । तदवच्छिन्न सद्रूपस्य दृष्टान्तत्व धीदशायां मृदविविच्याज्ञानाद् भूमित्वेन ज्ञायमानत्वेन सद्रूपलाभार्थमितिशब्दः । ‘मनो ब्रह्म’ इत्यादौ ज्ञानस्येतिशब्दार्थत्वात् । तथा च भूमिविकारस्वरूपस्य विकारदशायां भूमेरिव तत्स्वरूप-विचारदशायां सापि मिथ्या । तत्कारणानि पञ्चीकृतभूतान्येव सत्यानि । तेषामपि स्वरूप-विचारदशायां तान्यपि मिथ्या तत्कारणमेव सत्यमित्याद्यर्थकत्वलाभः । नखनिकृन्तन पदचायाः सामान्यपदं लोहपदमपि सवर्णार्थकं तयोर्विशेषणमेकपदं चैकजातीयार्थकम् । तदुपादानं एकजातीयत्वेन (सर्वत्र स्वविकारे) सर्ववस्त्वविकारे उपादानत्वसम्भवलाभाय इतिशब्दस्तत्राप्युक्तरीत्या व्याख्येयः । ‘मृत्तिकेत्येव सत्यम्’ इत्यादौ च हेतुः ‘वाचारम्भणं विकारो नामधेयम्’ इति । आरम्भणम् असमवायिकारणजन्यत्वमुत्पत्तिर्वाच्यवास्यान्न विचारासहमिति यावत् । तथोत्पत्तिः सतोऽसतो वेति निरूपयितुमशक्यत्वात् ।
उत्पन्नसामान्यं विचारासहं तावताप्यनाद्यविद्यासाधारण्येन हेत्वलाभात् आह– ‘विकारो नामधेय’मिति । नाशादिविकृतियुक्तं नाममात्रविचारासहं, अर्थे नामाभेदासम्भवादपदभक्ष इत्यादौ इव मात्रार्थान्तर्भावे विचारसहत्वलाभः । तथा चोत्पत्यादिविकृतिस्तद्युक्तस्य च संसर्गाद् दुर्निरूपत्वादिना विचारासहत्वान् मिथ्यात्वं, निर्विकारं ब्रह्मैव सत्यमिति दृष्टान्तोप पादकत्वेनोक्तमपि दार्ष्टान्तिकस्याप्युपपादकं भामत्युक्तेरपि साधु । अनारोपितरूपस्यैव तत्वरूपत्वेन साधारणस्वरूपधर्मयोरिवाधिष्ठानस्यापि तत्वरूपत्वात् । शुक्तिरेव रूप्यस्य तत्वमिति लोके व्यवहारात् । अत एव ‘तत्वज्ञानान्निश्चये साधिगम’ इति भाष्ये तत्वमना-रोपितरूपमित्युदयनाचार्याः । व्यवहारदशायां शुक्त्यादावनारोपितत्वे भ्रमेण रूपादि तादा-त्म्योपलक्षितत्वेन च रूप्यादिः स्वरूपत्वं? शुक्तिरिति व्यवहारः । शुक्त्यादिधर्म(त)त्वे शुक्तित्वादि(ति)रिति च व्यवहारः । विवेकदशायां तु ब्रह्मैवानारोपितत्वेन ज्ञायते इति । वस्तुगत्या तदेव सर्वेषां स्वरूपतत्वमित्याशयेन ब्रह्मतत्वे तयोरेवेत्यमरोक्तिः तत्वब्रह्ममार्गे सम्पन्न इति जाबालश्रुतिः युञ्जानः प्रथमं मनस्तत्वायति श्वेताश्वेतरश्रुतिः । भगवन्नाह-मात्मवित त्वं तत्वविदिति मैत्रायणिश्रुतिः । तत्वं परात्मनि वाद्यभेदे स्वरूपे चेति हैमः । तननं तत्संपदादित्वात् क्विबन्तस्यास्तीति प्रकरणे अन्यत्रापीति तसो मतुबर्थ इति । तन्न श्रुतयत् इत्याद्यश्रुतकल्पनापातात् । न हि स्वरूपव्यतिरेकेण नास्तीति पदं श्रौतमस्ति । बाधायामित्याद्यप्ययुक्तं । यः पौरत्वेन प्रतीतः स न पौरः किन्तु स्थाणुरितिवत् यत्पूर्व-मश्रुतत्वेन प्रतीतं तन्न किन्तु यदभिन्नं श्रुतमेवेति हि तव सामानाधिकरण्यं तच्च प्रकृतेऽ-सङ्गतम् । अन्यथा पूर्वं यच्छ्रुतत्वेन प्रतीतं तन्न किन्तु यदभिन्नमेवेत्यपि तव वेदविडम्बनं स्यात् । तथा चेत्यादि तु त्वयैव प्रतिज्ञातम् । न तु श्रुतौ तद्बोधकपदमपि ।
।। इति वाचारम्भणमिति श्रुत्यर्थः ।।