अर्थापत्तावपि सच्चेन्न बाध्येतेत्यत्र किमिदं सत् ?

७१. अनिर्वाच्यसाधकख्यातिबाधान्यथानुपपत्तिभङ्गः

न्यायामृतम्

अर्थापत्तावपि सच्चेन्न बाध्येतेत्यत्र किमिदं सत् ? सत्ताजातिमद्वा ? अर्थक्रियाकारि वा ? अबाध्यं वा ? अबाध्यत्वावच्छेदकावच्छिन्नं वा ? प्रामाणिकं वा ? नाद्यद्वितीयौ, त्वन्मते प्रपञ्चे व्यभिचाराद्, व्यवहारदशायां न बाध्येतेत्यापादने च ‘नेह नाना’ इति बाधेन जगतोऽनिर्वाच्यत्वासिद्धेः, व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शनाच्च, प्रत्यक्षबाधस्य च परोक्षाध्यस्ते अपरोक्षाध्यस्ते नभोनैल्यादौ चाभावात्, सत्तादिराहित्येऽपि ब्रह्मवदनिर्वाच्यत्वाभावोपपत्तेश्च, व्यवहारदशायां बाध्यस्यापि रूप्यस्याद्वैत-वत्पारमार्थिकत्वोपपत्तेश्च । न तृतीयः, यदबाध्यम् तदबाध्यमिति साध्या-वैशिष्ट्याद्, व्यवहारस्यापाद्यत्वे च बाध्यत्वेनैवासद्व्यावृत्तेरपि सिद्ध्या शेषवैयर्थ्यात् । अत एव न चतुर्थः, प्रामाणिकत्वादन्यस्य तदवच्छेदकस्या-भावाच्च । न पञ्चमः, बाधस्यापि बाध्यत्वाकारेण प्रामाणिकत्वात्, सत्त्वेन प्रामाणिकत्वविवक्षायामात्माश्रयापातात्, मानान्तराप्राप्तस्य तत्त्वावेदकश्रुति-वेद्यत्वेन प्रामाणिकस्य च, अबाध्ये अविद्यादिसाधकतया स्वतःप्रकाशमाने चिन्मात्रे वैयर्थ्येन प्रमाणाप्रवृत्त्या प्रामाणिकत्वस्य बाध्यत्वेनैव व्याप्तत्वाच्च, रूप्यादिबाधकस्यातत्त्वावेदकत्वेन तदप्रामाणिकतानापादकत्वाच्च । अतत्त्वा-वेदकव्यावहारिकप्रमाणबाधितस्यापि रूप्यादेरद्वैतवत्स्वतः प्रामाण्यप्रयुक्त-पारमार्थिकत्वोपपत्तेः । न चास्य तत्त्वावेदकाद्वैतश्रुतिबाधः तस्याः भेदश्रुतिवत् प्रत्यक्षप्राप्तव्यावहारिकरूप्य निषेधानुवादित्वोपपत्तेः ।

एतेनासत एव विलक्षणमिह सद्विवक्षितमिति केनचिदुक्तं निरस्तम् । अवधारणस्य सदसद्विलक्षणं न चेदित्यर्थकत्वेन प्रतियोग्यप्रसिद्ध्यापादकासिद्धेः, बाधेनैवानिर्वाच्यत्वसिद्ध्या ख्यात्युक्त्ययोगाच्च । सदसद्विलक्षणं न चेदित्यत्र सत्किं विवक्षितमिति पूर्वविकल्पप्रसरेण घट्टकुटीप्रभातवृत्तान्तापाताच्च । एवं न बाध्येतेत्यत्र बाधः किं ज्ञानेन निवृत्तिः ? प्रतिपन्नोपाधौ त्रैकालिकनिषेधो वा ? नोभयमपि मिथ्यात्वभङ्गे उक्तरीत्या आद्ये इष्टापत्तेर्द्वितीये अस-द्विलक्षणत्वपक्षे बाध्यते चेति विपर्ययापर्यवसानात् ।

एवमसच्चेदित्यत्रासत् किं सत्तादिहीनम् ? बाध्यं वा ? निरुपाख्यं वा ? निरुपाख्यत्वावच्छेदकावच्छिन्नं वा ? निस्स्वरूपं वा ? नाद्यः, सत्तादि-हीनस्यात्मादेः प्रतीत्या व्यभिचाराद्रूप्यादौ तस्मादसन्न भवतीति विपर्यया-पर्यवसानाच्च । अत एव न द्वितीयः, न तृतीयः, निरुपाख्यं चेन्न ख्यायेतेति साध्यावैशिष्ट्यात् । न चतुर्थः, निस्स्वरूपत्वाद्यन्यस्य तस्याभावादसत एव ख्यात्यङ्गीकारेणापादकासिद्धेश्च । न पञ्चमः पारमार्थिकत्वाकारेण त्रैकालिक-निषेधप्रतियोगित्वस्य निर्धर्मके ब्रह्मण्यपि सत्वेनानिर्वाच्यस्य स्वरूपेण तत्प्रतियोगित्वे वाच्ये शशशृृङ्गादेरपीतोऽन्यस्य निस्स्वरूपत्वस्याभावेन तस्मादसन्न भवतीति विपर्यापर्यवसानात् । किं चासत्त्वं यदि सत्त्वा-भावतद्व्याप्यान्यतरत्, तर्ह्यनिर्वाच्यख्यातौ न विपर्ययपर्यंवसानं अन्यच्चेदिष्टा-पत्तिः । एवं न प्रतीयेतेत्यत्र किं प्रतीतिमात्रं विवक्षितम् ? सत्त्वेन प्रतीतिर्वा ? अपरोक्षप्रतीतिर्वा ? सत्त्वेनापरोक्षप्रतीतिर्वा नाद्यः, असतोऽ-प्रतीतावसद्वैलक्षण्यज्ञानायोगाद्, असत्प्रतीतिनिरासानुपपत्तेश्च, असत्पदस्यानर्थ-कत्वे प्रयुक्तपदानां सम्भूयकारित्वेनासन्न प्रतीयते इति वाक्यस्या-बोधकत्वापाताच्च । असतोऽसत्वेनाप्रतीतावसद्व्यवहारानुपपत्तेश्च । तदुक्तम्–

असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।

तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ।। इति ।

द्वितीयेऽपि सा किं प्रमारूपा निषिध्यते ? भ्रमरूपा वा ? नाद्यः, इष्टापत्तेः । न द्वितीयः, उक्तन्यायेनासतः प्रतीतिसिद्धौ सतोऽसत्वेनेवारूप्यस्य च रूप्यत्वेनेव भ्रान्तित्वादेवासतः सत्त्वेन प्रतीत्युपपत्तेः अप्रयोजकता । तदुक्तम्– ‘असतः सत्प्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्ति-त्वात्’ इति । येन पुंसा शशशृृङ्गाभावो न निश्चितः, तस्य शशशृृङ्ग-मस्तीतिवाक्याभासाज्ज्ञानोत्पत्तेश्च । न ह्यत्र ‘घढधष्’ इत्यादिनिरर्थकेष्विव पदार्थधीरेव वा कुण्डमजाजिनम्’ इत्याद्यपार्थकेष्विवान्वयधीर्वा नास्ति विपरीतबोधकेषु योग्यताभावेऽपि अयोग्यत्वज्ञानाभावमात्रेण योग्यताभ्रमेण वा आकांक्षासन्निधिभ्यां ज्ञानोत्पत्तेरनुभवात् । अन्यथा प्रवृत्त्यादेरयोगात् । योग्यताहीनाद्वाक्याज्ज्ञानानुत्पत्तौ तद्धीनात्प्रतिवादिवाक्याद्धीरेव न स्यादिति कथा बधिरकलहः स्यात् ।

ननु शशशृृङ्गादिशब्दाद्विकल्पमात्रमेव जायते, उक्तं हि योगसूत्रे– ‘शब्द-ज्ञानानुपाती वस्तुशून्यो विकल्प’ इतीति चेन्न, विकल्पस्येच्छादिवज्ज्ञाना न्यवृत्त्यन्तरत्वेऽनुभवविरोधात् प्रवृत्त्ययोगाच्च । न हि शशशृृङ्गस्यासत्त्वा-ज्ञानदशायां तदस्तित्वज्ञानस्य गोशृृङ्गास्तित्वज्ञानान्मात्रयापि विशेषोऽनुभूयते । असति वृत्त्यन्तरवज्ज्ञानस्यैवोपपत्तेश्च । अन्यथा शुक्तिरूप्यादेरपि विकल्पमात्रं न तु प्रतीतिरिति स्यात् । विकल्पस्य ज्ञानविशेषत्वे त्विष्टापत्तिः । वस्तुशून्य इति च कोऽर्थः किं किमप्यनुल्लिखन्निति ? असदेवोल्लिखन्निति वा ? आद्ये अनुभवविरोधः, व्यवहारानुपपत्तिश्च । न ह्ययं घटादिवत्किमप्यनुल्लिख-न्ननुभूयते । द्वितीये सिद्धं नः समीहितम् । न चेयमपि धीरनिर्वाच्यविषया । निस्स्वरूपस्य शशशृृङ्गादेरप्यनिर्वाच्यत्वे हि रूप्यादेः कुतो वैलक्षण्यमाशा-स्यते ? निरुपाख्यादिति चेन्न, तस्य दुर्बोधत्वादित्युक्तत्वात् । तादृशा-सद्वैलक्षण्यस्येष्टत्वाच्च, अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति त्वन्मतेऽपि तत्राध्यस्तस्यास्तित्वस्यानिर्वाच्यत्वेऽपि शशशृृङ्गमसदितिवाक्य इव शशशृृङ्गमस्तीतिवाक्ये शशशृृङ्गशब्देनासत एव प्रतीतेश्च । ‘तद्धेक आहुरसदे-वेदमग्र आसीत्’ इति श्रुत्याऽप्यसतः सत्त्वप्रतीतेश्च ।

एतेन शशशृृङ्गशब्दो निश्चितानन्वयत्वादपार्थक इति चिन्तामण्युक्तं निरस्तम्, अपार्थकशब्देनाप्रत्यायकोक्तावनन्वयानिश्चयदशायां प्रवृत्तिपर्यन्त-प्रतीत्यनुभवविरोधात्, तेनात्यन्तिकनिषेधयोग्याप्रतीतौ असच्छशशृृङ्गमित्यादौ समभिव्याहृतस्यासत्पदस्यानन्वयापाताच्च । असत्प्रत्यायकत्वोक्तौ चेष्टापत्तेः । एतेनैव शशशृृङ्गादिशब्दानां सङ्गतिग्रहणासम्भवादबोधकतेत्यात्मतत्त्वविवेकोक्तं निरस्तम्, यौगिकशब्दानामवयवसङ्गत्यतिरेकेण पृथक्सङ्गत्यनपेक्षतया सतो वाऽसतो वाऽर्थस्य बोधनसम्भवात् । एतेनैव शशशृृङ्गशब्दस्य शशे शृृङ्गा-भावोऽर्थ इति वार्तिकोक्तं निरस्तम्, तत्र तस्याशक्तेः, नास्तीत्यस्य पौनरुक्त्यापाताच्च । न तृतीयः, यदसत् तन्न प्रतीयते इति व्याप्तिज्ञानस्य प्रत्यक्षतावश्यम्भावात् शशशृृङ्गाद्यत्यन्ताभावस्याप्रत्यक्षत्वापातेनासतोऽसत्त्वा-सिद्धेश्च । न चतुर्थः, भ्रान्तित्वादेव तदुपपत्तेः सन्मात्राविषयकं अपरोक्ष-ज्ञानमपरोक्षभ्रमो वा असद्विषयकः सत्त्वानधिकरणविषयकत्वादसद्विषयक-परोक्षज्ञानवदित्याद्यनुमानैरप्यसतः अपरोक्षप्रतीतिसिद्धेश्च ।

नन्वसतोऽपरोक्षधीश्चेत् शशशृृङ्गादेरपि सा स्यात् न चासद्विशेषस्य सा सद्विशेषत्वे असत्त्वायोगादिति चेन्न, दुष्टेन्द्रियस्य सत्यरूप्यसंस्कारसाचिव्यवत् शशशृृङ्गादिसंस्कारसाचिव्याभावाद्, असतः सत्यादसत्त्वरूपेण सद्वैलक्षण्य-रूपेणापरोक्षप्रतीत्यविषयत्वरूपेण नृशृृङ्गशशशृृङ्गादीनामेवान्योन्यं नृशृृङ्गादि-शब्दैरेव परोक्षप्रतीतिव्यवहारविषयत्वरूपेण शशशृृङ्गस्यैव कदाचिदेव परोक्ष-प्रतीतिविषयत्वरूपेण च विशेषेणेवानेनापि बौद्धेन सत्त्वानपेक्षेण विशेषेणा-सत्त्वाव्याघाताच्च ।

एतेन असत् नापरोक्षधीविषयं सर्वसामर्थ्यविधुरत्वात्  व्यतिरेकेण घटवत् सर्वसामर्थ्यहीनस्यासतः सता ज्ञानेनासम्बन्धाद्विषयत्वरूपधर्मानाश्रयत्वाद्, भाति ज्ञायत इति कर्तृत्वकर्मत्वाद्ययोगाच्च, नापरोक्षधीरिति निरस्तम्, अतीतादेः स्मृत्यनुमित्यादिकं प्रति विषयत्वादिवदसतोऽसद्वैलक्षण्यं प्रति प्रतियोगित्ववद् व्यवहारं परोक्षज्ञानं च प्रति विषयत्वकर्तृत्वकर्मत्वादिवद-परोक्षप्रतीत्यविषयत्वरूपसाध्यवत् सर्वसामर्थ्यवैधुर्यरूपसाधनवच्चापरोक्षभ्रान्ति-विषयत्वस्याप्युपपत्तेः । यदि तत्रानुमित्यादावेव तद्विषयकत्वं न त्वतीतादौ विषयत्वम्, तर्हीहापि तथास्तु तत्सत्त्वानपेक्षं चेदिदमपि तथा, न हि सत्त्वेन भ्रान्तिः सत्त्वसापेक्षा, अन्यथा सद्विलक्षणत्वेऽपि सा न स्यात् सम्बन्धा-दावसद्वैलक्षण्यादपि लाघवेन सत्त्वस्यैव तन्त्रत्वाद्, दुष्टाच्छब्दादसति सत्त्वेन परोक्षभ्रान्तिवद् दुष्टादिन्द्रियात् सत्त्वेनापरोक्षभ्रान्त्युपपत्तौ परोक्षप्रतीति-स्वीकारेणापरोक्षप्रतीतिनिषेधे विशेषहेत्वभावाच्च ।

एतेन प्रवृत्तिविषयत्वान्यथानुपपत्त्या असद्वैलक्षण्यसिद्धिरिति निरस्तम्, इदमंशस्यासद्रूप्यात्मना प्रतीतत्वमात्रेण तदर्थिप्रवृत्तिविषयत्वोपपत्तेः । न चापरोक्षज्ञानस्यार्थेनेन्द्रियसन्निकर्षेण च जन्यत्वादसतश्च हेतुत्वसन्निकर्षयोर-योगान्नापरोक्षधीरिति वाच्यम्, अपरोक्षप्रमाया एवार्थादिजन्यत्वाद्रूप्यसंस्कार-सचिवस्य दुष्टेन्द्रियस्याधिष्ठान सन्निकर्षादेवाधिष्ठानस्यासद्रजतात्मना प्रतीत्युप-पत्तेश्च । अन्यथा अनिर्वाच्यपक्षेऽप्ययं दोषः स्यात् । न हि धीमात्रशरीरं रूप्यं स्वज्ञानात्प्रागस्ति ।

किं चानिदंरूपे प्रातिभासिके च रूप्ये यदिदन्त्वं यच्च व्यावहारिकत्वं भाति तदुभयं न तावत् सत् नाप्यनिर्वाच्यम् तथात्वे हि तस्यासद्वैलक्षण्यार्थं प्रातिभासिकसत्त्वाय च सत्त्वप्रतीत्या भाव्यमेवं तदपि सत्त्वमनिर्वाच्यं चेत्तस्यापि सत्त्वप्रतीत्या भाव्यमित्यनवस्थापातात् । तस्मादिदन्त्व-व्यावहारिकत्वयोरसत्त्वं वाच्यम् । एवं रूप्यमसद्विलक्षणं धीकालेऽस्ति चेत्तस्य स्वरूपेण त्रैकालिकनिषेधायोगादिदन्त्वाकारेण वा पारमार्थिकत्वाकारेण वा निषेधो वाच्यः, तयोरप्यसद्विलक्षणत्वे स्वरूपेण निषेधायोगात्पारमार्थिकत्वा-कारेण निषेधे चानवस्थानात्तयोरसत्त्वं वाच्यम् । ते च सत्त्वेनापरोक्षे इति कथमसतः सत्त्वेनापरोक्षज्ञानाभावः । तदुक्तम्–

अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।

सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ।।

तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः । इति

टीकायां त्विदन्त्वसत्त्वयोः सत्त्वायोगादनिर्वाच्यत्वे च तथैव प्रतीतौ प्रवृत्त्ययोगात्सत्त्वेन भाने च तस्मिन्नपि सत्त्वे सत्त्वादिविकल्पप्रसारेणा नवस्थानादिदन्त्वव्यावहारिकत्वयोरसत्त्वमित्युक्तम् । न च तत्र त्वत्पक्षेऽप्य-सति रूप्ये यत्सत्त्वं भाति, तस्य सत्त्वायोगादसत्त्वे च तथैव भाने प्रवृत्त्ययोगात् सत्त्वेन भाने च तस्मिन्नपि सत्त्वे उक्तविकल्पप्रसरेणानवस्थेति वाच्यम्, परमतेऽनिर्वाच्यसत्त्वस्य सत्त्वेनाभाने प्रातिभासिकत्वासिद्धिवत् मन्मते असतः सत्त्वस्य सत्वेनाप्रतीतावसत्त्वासिद्धेरभावात् ।

किं च प्रत्येकं सत्त्वासत्त्वयोरनुपपत्तौ सदसदात्मकमस्तु निषेधसमुच्चयवत् विधिसमुच्चयस्याप्यतात्त्विकत्वे नाविरोधसम्भवात् । एवं चतुर्थप्रकारा-कल्पनाल्लाघवं त्वत्पक्षे असदेव रूप्यमभादितिबाधकस्य विद्यमानसद्वैलक्षण्य-विषयकत्वेनाभ्रान्तित्ववत् सद्रूप्यमिति भ्रमस्याविद्यमानासद्वैलक्षण्यविषय-कत्वेन भ्रान्तित्वमस्तु । यद्वा त्वत्पक्षे सदसद्विलक्षणे रूप्येऽनिर्वाच्यम् । सत्त्वमिवात्रापि सदसदात्मके रूप्ये सदसदात्मकं सत्त्वं भ्रान्तौ प्रतीयताम् । भ्रान्तित्वे च त्वत्पक्षेऽनिर्वाच्यविषयत्वमिवात्रापि सदसद्विषयत्वं तन्त्रमस्तु । अन्यथा नित्यकाम्येऽपि नित्यत्वादेः प्रत्येकमनुपपत्त्या भिन्नाभिन्ने च गुणगुण्यादौ भेदादेः प्रत्येकमनुपपत्त्योभयबहिर्भावः स्यात् ।

किं चासद्विलक्षणं चेन्न बाध्येत्, सद्विलक्षणं चेन्न प्रतीयेतेत्यर्थापत्त्या निर्वाच्यत्वाभाव एव किं न स्यात् । न चाबाधाप्रतीत्योः सत्त्वासत्त्वे तन्त्रे लाघवात्, न त्वसद्विलक्षणत्वसत्त्वविलक्षणत्वे गौरवादिति युक्तम् । अबाधा-प्रतीतिप्रतियोगिन्योर्बाधप्रतीत्योरेव हि प्रथमं प्रयोजकं चिन्त्यतां प्रथमोप-स्थितत्वात् कल्पकत्वाच्च । भावप्रयोजकाभावादेवाभावोपपत्तौ प्रयोज-कान्तरस्यानन्वेषणीयत्वाच्च । बाधप्रतीत्योश्चासत्त्वसत्त्वे तन्त्रे लाघवात्, न तु सद्विलक्षणत्वासद्विलक्षणत्वे गौरवात् । तथा चाबाधाप्रतीती प्रत्य-सद्विलक्षणत्वसद्विलक्षणत्वे तन्त्रे । एवं चोक्तरीत्या सत्त्वात्प्रतीतिरसत्त्वाद् बाध इति विधिसमुच्चयः स्यात् । नृशृृङ्गादौ सद्वैलक्षण्यवदसत्त्वस्य भावेऽपि बाधाभावः प्रसक्त्यभावात् । एवं चासद्विलक्षणं चेन्न बाधः स्यात् सद्विलक्षणं चेन्न भायादिति भवत्वनिर्वाच्यविलक्षणम् ।

अद्वैतसिद्धि:

ख्यातिबाधान्यथानुपपत्तिसमर्थनम्, अर्थापत्तिरपि ख्यातिबाधान्यथानुपपत्त्यादिरूपा तत्र प्रमाणम् । तथा हि विमतं रूप्यादि सच्चेन्न बाध्येत, असच्चेन्न प्रतीयेत, बाध्यते प्रतीयतेऽपि, तस्मात् सदसद्विलक्षणत्वादनिवचनीयम् । ननु सत्ताजात्यर्थक्रियाकारित्वादिक-मनङ्गीकारपराहतं त्वन्मते व्यभिचारि च । न च व्यवहारदशाबाध्यत्वमापाद्यम्, तथा सति ‘नेह नाना’ इति श्रौतनिषेधेन व्यवहारदशायामबाध्यस्य जगतोऽनिर्वचनीयत्वासिद्धिप्रसङ्गाद्, यौक्तिकबाधस्य व्यवहारदशायामपि दर्शनाच्च । अबाध्यत्वरूपं सत्त्वमापाद्याविशिष्टम्, प्रामाणिकत्वं तु ब्रह्मनिष्ठानिर्विशेषत्वादौ तत्त्वावेदकश्रुतिवेद्ये ब्रह्मभिन्नतया बाध्ये व्यभिचारीति सत्त्वानिरुक्ति इति । मैवम्, सत्त्वं ह्यत्र प्रामाणिकत्वम्, प्रामाणत्वं च तत्त्वावेदकत्वम्, तच्च लक्षणया शुद्धब्रह्मबोधकवेदान्तवाक्ये न तु निर्विशेषत्वादि-धर्मप्रतिपादके अतो न तत्र व्यभिचारः । न च स्वतः प्रकाशमाने ब्रह्मणि चिन्मात्रे वैयर्थ्येन प्रमाणाप्रवृत्त्या प्रामाणिकत्वाबाध्यत्वयोर्व्याप्तिग्रहो न स्यात्, प्रत्युत ब्रह्मभिन्न एव प्रामाणिकत्वसत्त्वेन तस्य बाध्यत्वेनैव सह व्याप्तिः स्यादिति वाच्यम्, ब्रह्मणः स्वप्रकाश-त्वेऽपि व्यवहारप्रतिबन्धका ज्ञाननिवृत्त्यर्थं प्रमाणप्रवृत्तेः सफलत्वात् । अत एव न बाध्य-त्वेन सह प्रामाणिकत्वस्य व्याप्तिः, ब्रह्मणि व्यभिचाराद्विरोधाच्च । न हि तत्त्वमावेदयता वेद्यमतत्त्वं नाम ।

ननु रूप्यादिबाधकस्य तत्त्वावेदकत्वे औतहानिः अतत्त्वावेदकत्वे तन्निबन्धनं रूप्यादेरप्रामाणिकत्वं न स्यादिति चेन्न बाधकस्यातत्त्वावेदकत्वेऽपि रूप्याद्याप्रमाणिकत्वे प्रयोजकतैव बाध्यान्यूनसत्ताकत्वस्यैव बाधकत्वे तन्त्रत्वात् । अत एव अतत्त्वावेदक-व्यावहारिकप्रमाणबाधितस्यापि रूप्यादेरद्वैतवत् स्वतः प्रामाण्यप्रयुक्तपारमार्थिकत्वमस्तु । न चास्य तत्त्वावेदकाद्वैतश्रुतिबाधः, तस्याः भेदश्रुतिवत् प्रत्यक्षप्राप्तव्यावहारिकरूप्यनिषेधानु-वादितयोपपत्तेरिति निरस्तम्, अधिकरणानात्मकत्वपक्षे द्वैतनिषेधस्यापि व्यवहारिकत्वोप-पादनाच्च ।

केचित्तु सदित्यसत एव विलक्षणमिह विवक्षितम् । न च असत एवेत्यवधारणस्य सदसद्विलक्षणं न चेदित्यर्थपर्यवसानेन प्रतियोग्यप्रसिद्ध्या आपादकाप्रसिद्धिरिति वाच्यम्, प्रतियोगिप्रसिद्धेरनुमानेन प्रागेव साधितत्वात् । न च सदसद्विलक्षणं न चेदित्यत्र सत् किमिति पूर्वविकल्पप्रसरः, प्रामाणिकत्वरूपसत्त्वे दोषानवकाशात् । न च बाधेन वानिर्वाच्यत्वसिद्ध्या ख्यात्युक्त्ययोगः, तस्या अर्थापत्त्यन्तरत्वात्, आकरे एकत्वोक्तिस्तु प्रयोजनवाक्यादिति कण्ठतस्तात्पर्यतश्चेति आहुः ।

यद्वा अबाध्यत्वमेव सत्त्वम्, न च तर्ह्यापाद्यावैशिष्ट्यम्, अबाध्यत्वं हि त्रैकालिक-निषेधाप्रतियोगित्वम् । तेन च विपरीतप्रमाविषयत्वाभाव आपाद्यत इति नापाद्यावैशिष्ट्यम् । व्यवहारस्यापाद्यत्वेन वा नापाद्यावैशिष्ट्यम् । न च बाध्यत्वेनैवासद्व्यावृत्तेरपि सिद्ध्या अनिर्वचनीयत्वसिद्धिपर्यवसानेन शेषवैयर्थ्यम्, न प्रतीयेतेत्यत्र विपर्यये दृश्यत्वेनैव   सद्वैलक्षण्यसिद्ध्या न बाध्येतेत्युक्तिरप्ययुक्तेति वाच्यम्, बाध्यत्वदृश्यत्वयोरेकैकस्य सदसद्व्यावृत्त्युभयसाधकत्वं यद्यपि सम्भवति तथाप्येकैकस्य एकैकदेशव्याप्यत्वग्रहदशाया-मुभयोः साफल्याद्, उभयव्याप्यमप्येकैकमेक देशसाधकत्वेनोपन्यस्यतः प्रति एकैकसाधक-त्वस्य दोषावहत्वाभावात् । अर्थापत्तिद्वयं वैतत्, एकत्वोक्तिस्तु असतो बाध्यत्वं सतोऽ-प्यात्मनो दृश्यत्वमङ्गीकुर्वतः परस्य मते एकैकेन उभयसाधनासम्भवनिबन्धना ।

ननु न बाध्येतेत्यत्र बाधः किं बाधकज्ञानेन निवृत्तिः ? त्रैकालिकनिषेधो वा ? नाद्य इष्टापत्तिः । द्वितीये असद्विलक्षणत्वपक्षेण बाध्यते चेति विपर्ययापर्यवसानमिति चेन्न, उभयथाप्यदोषात् । न चाद्य इष्टापत्तिः, ज्ञाननिवर्त्यत्वे श्रुत्यादिसम्मतेरुक्तत्वात् । द्वितीयेऽपि नासद्विलक्षणत्वेन विपर्ययापर्यवसानम्, प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वस्या सत्य-सम्भवेनासद्वैलक्षण्यस्यैव विपर्ययपर्यवसानप्रयोजकत्वात् ।

असच्चेदित्यत्रापि यद्यप्यसत्त्वं न सत्ताजातिराहित्यम्, सत्ताहीने सामान्यादौ व्यभिचारात् । यत्त्वात्मनि व्यभिचारादित्युक्तं परैः । तन्न, तन्मते आत्मनि सत्तायाः सत्त्वेनापादकस्यैवाभावाद्, अस्मन्मते च तत्र दृश्यत्वस्यैवाभावेनापाद्यस्यैवाभावात् । नापि बाध्यत्वम्, शुक्तिरूप्यादौ व्यभिचारापत्तेः, तथापि निरूपाख्यत्वं निःस्वरूपत्वं वा असत्त्वम् । न च निरुपाख्यत्वं ख्यत्यभावः तथा चापाद्यावैशिष्ट्यमिति वाच्यम्, निरुपाख्य-त्वस्य पदवृत्त्यविषयत्वरूपत्वात् । ननु निःस्वरूपत्वं स्वरूपेण निषेधप्रतियोगित्वम्, तच्च प्रपञ्चसाधारणमिति तत्र व्यभिचारः, न वा पारमार्थिकत्वाकारेण निषेधो न स्वरूपतः प्रपञ्चस्येति वाच्यम्, निर्धमकब्रह्मण्यपि तेन रूपेण निषेधात्तस्यापि मिथ्यात्वापत्तेरिति चेन्न । मिथ्यात्वलक्षणे प्रतिपन्नोपाधाविति विशेषणबलात्तत्र नातिव्याप्तिरित्युक्तत्वात् । यस्मिन्नपि पक्षे प्रपञ्चस्य स्वरूपेण निषेधः, तदा अप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेध-प्रतियोगित्वं निःस्वरूपत्वम् । न चैतत् प्रपञ्चेऽस्ति, येन तस्मादसन्न भवतीति विपर्ययपयवसानं न स्यात् ।

ननु न प्रतीयेतेत्यत्र प्रतीतिसामान्यविरहस्तावदापाद्यते, तदयुक्तम्, असन्नृशृृङ्गमित्यादि-वाक्यादसतोऽपि प्रतीतेः, अन्यथा असद्वैलक्षण्यज्ञानायोगः, असत्प्रतीतिनिरासायोगाच्च, असत्पदस्य अनर्थकत्वे प्रयुक्तपदानां सम्भूय कार्यकारित्वायोगे बोधकत्वानुपपत्तिः, असतोऽसत्त्वेनाप्रतीतौ असद्व्यवहारानुपपत्तिः, तदुक्तम्–

असद्विलक्षणज्ञप्तौ ज्ञातव्यमसदेव हि ।

तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ।।

इति चेन्न, प्रतीत्यभावेऽपि असतो असन्नृशृृङ्गमिति विकल्पमात्रेणैव सर्वोपपत्तेः । तदुक्तम्– ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्प’ इति । न च विकल्प इच्छादिवत् ज्ञानान्यवृत्तिर्वा ? ज्ञानविशेषो वा ? आद्ये अनुभवविरोधप्रतीत्ययोगौ, द्वितीये असतः प्रतीतिरागतैव । वस्तुशून्य इत्यत्रापि किमपि नोल्लिखतीति वा ? असदवोल्लिखतीति वा ? आद्ये अनुभवविरोधः, द्वितीये इष्टापत्तिरिति वाच्यम्, विकल्पस्य ज्ञानान्यवृत्तित्वे बाधका-भावात्, शशविषाणमनुभवामीत्यप्रत्ययाच्च । वस्तुशून्यता च सोपाख्यधर्मानुल्लेखित्वम्, अतो न कोऽपि दोषः । विकल्पस्य ज्ञानत्वे तु तदन्यज्ञानविषयत्वाभाव आपाद्यः । शुक्ति-रूप्यादेरसत्त्वे च प्रतीतिविषयत्वं विकल्पान्यप्रतीतिविषयत्वं वानुपपन्नमित्यनिर्वाच्यत्व-सिद्धिः । यद्वा सत्त्वेन प्रतीत्यभाव एवापाद्यः ।

ननु प्रमारूपतादृक्प्रत्ययाभावापादनमिष्टमेव । न ह्यसतः सत्त्वेन प्रतीतिः केनचित् प्रमोच्यते । न च तादृग्भ्रान्तिविरहः तादृक्प्रतीतिसामान्यविरहो वाऽऽपाद्यः, येन पुंसा शशे शृृङ्गाभावो नावगतः, तस्य गोशृृङ्गमस्तीति वाक्यादिव शशशृृङ्गमस्तीति वाक्यादपि भ्रान्ति-दर्शनात्, न हि घढधषादिशब्दवदत्र पदार्थानुपस्थापकत्वम्, न वा कुण्डमजाजिन-मित्यादिवदन्वयाबोधकत्वम्, अयोग्यताज्ञानाभावस्य योग्यताभ्रमस्य वा आकाङ्क्षादिसामग्री-सध्रीचीनस्य सत्त्वाद्, अन्यथा प्रतीत्याद्यभावाप्रसङ्ग इति चेन्न, इदं रजतम् इति प्रात्यक्षिकभ्रमवद् अस्याप्यनिर्वाच्यविषयत्वात् । न च अस्याप्यनिर्वाच्यत्वे रूप्यात् भेदो न स्यादिति वाच्यम्, को हि अनिर्वाच्यादनिर्वाच्यं भेत्तुमध्यवसितः ? यमेवमाक्षिपसि, किन्तु निःस्वरूपात् । यथा च सत्त्वेन न निःस्वरूपविषयत्वं यथोक्तं प्राक् । न चैवं शशशृृङ्गादेरनिर्वाच्यत्वे निःस्वरूपत्वोच्छेदः, शशशृृङ्गमस्तीत्यत्र शशे शृृङ्गारोपेण शशीयत्वारोपेण वा अनिर्वाच्यविषयत्वेऽपि ‘असन्नृशृृङ्गम्’ इत्यादिवाक्यश्रवणसमनन्तरं विकल्प्यमानाखण्डशशशृृङ्गादेरनिर्वाच्यानात्मकस्य निःस्वरूपत्वात् । न चात्र निःस्व-रूपत्वादिविकल्पः, उक्तोत्तरत्वात् । न च ‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।’ इति त्वन्मते तस्याध्यस्तस्यास्तित्वस्यानिर्वाच्यत्वेऽपि ‘शशशृृङ्गमसदिति वाक्यादिव ‘शशशृृङ्गमस्ति’ इति वाक्येऽपि शशशृृङ्गशब्देनासत एव प्रतीतिरिति वाच्यम्, अस्तित्वस्या-निर्वाच्यत्वेन शशशृृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम् । अत्यन्तासच्चानधिष्ठानमिति न शशशृृङ्गपदाभ्यां तदुपस्थितिः, दृष्टान्तीकृतवाक्ये तु नानिर्वाच्यं किञ्चिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यात् । अत्यन्तासत्यपि ज्ञानमित्यादि तु अस्त्यादिवदसमभि-व्याहृतशशशृृङ्गमसदिति वाच्यपरम् । न च ‘तद्धैक आहुः असदेवेदमग्र आसीत्’ इति श्रुत्या असतः सत्त्वेन प्रतीतिरिति वाच्यम्, यथा नानया असतः सत्त्वप्रतिपादनं तथोक्तं मिथ्यात्वलक्षणे ।

तार्किकास्तु शशशृृङ्गादिपदानामपार्थकतैवेति वदन्ति । न चानन्वयनिश्चयविरहदशायां प्रवृत्तिपर्यन्तानुभवविरोधः, अनन्वयनिश्चयदशायामेवाबोधकतोक्तेस्तद्विरहदशायामपि नाखण्ड-शशशृृङ्गादिबोधकत्वम्, किन्तु सन्मात्रगोचरव्यधिकरणप्रकारकज्ञानं वा, सदुपरागेणा-सद्गोचरज्ञानं वा । केवलासद्भाने सामग्रीविरहात् । तदुक्तं बौद्धधिक्कारेे– ‘सङ्गतिग्रहणाभावात् शशशृृङ्गादिपदानामबोधकता’ इति । न च यौगिकशब्दानामवयवसङ्गत्यतिरेकेण पृथक्सङ्गत्य-नपेक्षत्वम्, अवयवशक्तिप्राधान्येन बोधने अखण्डासद्बोधनस्याशक्तत्वाद्, अवयवानां स्वशक्त्यपुरस्कारेणाप्रत्यायकत्वात् । न हि पाचकादिः पाकादिमबोधयन् बोधयति । न च तर्हि शशशृृङ्गमसच्छशशृृङ्गं नास्तीत्यादिवाक्यानामबोधकत्वम्, तेषां शशे शृृङ्गाभावबोधक-त्वात् । एषा तु बोधकता न शशशृृङ्गपदमात्रे, किं तु नास्तीतिपदसमभिव्याहृते । अतो न नास्तीति पौनरुक्त्यरूपशङ्काभासाद्यवकाश इति । यद्वा अपरोक्षप्रतीत्यभाव आपाद्यः । न च यदसत्तन्न प्रतीयत इति व्याप्तिज्ञानस्य प्रत्यक्षमावश्यकम्, अतश्चासतोऽपि प्रत्यक्षत्वम्, अन्यथा असतोऽपि असत्त्वबुद्धिर्न स्यात्, तथा च शशशृृङ्गादेः प्रत्यक्षत्वमेवेति वाच्यम्, साक्षादित्यनिषेध्यतयेति चापरोक्षप्रतीतिविषयविशेषणात् । उक्तस्थले च ज्ञानविषयतया निषेध्यतया च विषयत्वमिति नास्ति विशिष्टाभावस्यापाद्यस्यासम्भवः । यद्वा सत्त्वेना-परोक्षप्रतीतिविषयत्वाभाव आपाद्यः । न च इदं रूप्यमित्यादिभ्रान्त्या अत्यन्तासदेव सत्त्वेन प्रतीयत इति वाच्यम्, अत्यन्तासतस्तादृशप्रतीतिविषयत्वे सामग््रयभावात् । इन्द्रियसन्निकर्षो हि प्रत्यक्षे सामान्यसामग्री, न चासति सोऽस्ति । न च प्रातिभासिकत्वपक्षे रूप्यादेः प्रतीतिपूर्वकालेऽसत्त्वेन कथं सन्निकर्षरूपप्रत्यक्षसामग्रीसम्भव इति वाच्यम्, अस्मिन्मते ज्ञातैकसति रूप्यादौ साक्ष्यपरोक्षे अज्ञाननाशकान्तःकरण वृत्तिप्रयोजकसन्निकर्षानुपयोगात् । न हि तवापीश्वरसाधारणप्रत्यक्षमात्रे सन्निकर्षो हेतुः । न च प्रमायां निर्दुष्टेन्द्रियसन्निकर्षो हेतुः, न तु भ्रमे, स हि दोषसहितेन्द्रियादेव भविष्यतीति वाच्यम्, सन्निकर्षो हि इन्द्रिय-वत्सामान्यसामग्री, तदनपेक्षस्येन्द्रियस्याजनकत्वमित्युक्तत्वात् । न च तर्हि शाब्दबोध-सामान्यसामग््रयायोग्यताज्ञानादेरभावात् कथं परोक्षविकल्पः स्यात् ? अयोग्यताज्ञानविरहो हि सामान्यसामग्री, न तु योग्यताज्ञानम्, असंसर्गाग्रहरूपायोग्यताज्ञानविरहस्य विशिष्टज्ञाने आवश्यकत्वात् । स चासद्वोधके वाक्येऽस्त्येव । न हि शशशृृङ्गे असत्त्वं नास्तीति जानानः शशशृृङ्गमसदित्यवगच्छति । एतन्निबन्धन एवापरोक्षप्रतीतौ प्रद्वेषः ।

एतेन सन्मात्राविषयकापरोक्षज्ञानमसद्विषयकम्, सत्त्वानधिकरणविषयक प्रतीतित्वाद-सद्विषयकपरोक्षप्रतीतिवत् । न च अत्र प्रातिभासिकसाधारण सद्विवक्षायामाश्रयासिद्धिः । परमार्थसद्विवक्षायां मात्रपदवैयर्थ्यमिति वाच्यम्, भ्रममात्रस्यैवाधिष्ठानीभूतपरमार्थसद्विषयतया मात्रपदं विना आश्रयासिद्धेर्दुष्परिहरत्वादिति निरस्तम्, सामग्रीविरहेण बाधात्, शाब्द-त्वस्योपाधित्वाद्, धर्मादिकमपरोक्षप्रतीतिविषयः प्रतीतिविषयत्वादित्याद्याभाससाम्याच्च । किञ्चासतो रूप्यस्यापरोक्षप्रतीतिविषयत्वे शशशृृङ्गादेरप्यपरोक्षप्रतीतिविषयत्वं स्याद्, विशेषाभावात्, सविशेषत्वे असत्त्वव्याकोपात् ।

ननु सदसतोः सत्ता निःस्वरूपत्वादिनैव नृशृृङ्गशशशृृङ्गादीनामपि परस्परं नृशृृङ्ग-शशशृृङ्गादिशब्दैरेव परोक्षप्रतीतिव्यवहारविषयत्वादेर्विशेषस्यासत्त्वाविरोधिनो बुद्धिसिद्धस्य सम्भवः । न च सर्वसामर्थ्यहीनस्यासतः सता ज्ञानेन कथं सम्बन्धः ? विषयत्वस्य तत्र वक्तुमशक्यत्वाद्, भाति प्रतीयत इत्यादिकर्तृकर्मत्वादिविरोधाच्चेति वाच्यम्, अतीतादेः स्मृत्यनुमित्यादिविषयत्वादिवदुपपत्तेः । न च तत्र प्रतीत्यादेरेव विषयत्वम्, तावतैव तत्र विषयताव्यवहार इति वाच्यम्, समं ममापीति चेत्, मैवम्, शशशब्दस्य नरि भ्रमदशायां नृशृृङ्गशब्देनेव शशशृृङ्गशब्देनापि नृशृृङ्गस्य प्रतीयमानत्वेन नृशृृङ्गादिशब्दैरेव प्रतीयमानत्वादे-रपि परस्परविशेषस्य वक्तुमशक्यत्वात् । न च दुष्टेन्द्रियादे रूप्यसंस्कारसाचि-व्यवच्छशशृृङ्गसंस्कारसाचिव्याभावात् तस्यापरोक्षभ्रमाविषयत्वम्, अन्यथा तवाप्य-निर्वाच्यान्तरमेव तत्र कथं नोत्पद्येतेति वाच्यम्, संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोगः, स्मृतित्वापत्तेः कित्वर्थोत्पत्तिद्वारा । तथा च संस्कारनियामकतापि अनिर्वाच्यतापक्ष एव न त्वसद्विषयतापक्षे । वस्तुतस्तु संस्कारस्तावत् तात्त्विकरजतादिगोचर एव प्राथमिक-रजतादिभ्रमे प्रयोजकः सर्वमते, स चासद्रूप्यशशशृृङ्गादिसर्वसाधारण एव, तदविषयत्वा-विशेषात् । तथा च कथं स नियामको भवतु ?

प्रवृत्तिविषयत्वान्यथानुपपत्तिः । एवं प्रवृत्तिविषयत्वान्यथानुपपत्तिरपि प्रमाणम् । इदमंशस्यासद्रूप्यात्मना प्रतीतौ सामग्रीविरहस्योपपादनात् । ननु अनिदं रूपे प्रातिभासिके यदिदन्त्वं व्यावहारिकसत्त्वं च तद्द्वयं न तावत् सद् औतव्याकोपात्, नाप्यनिर्वाच्यम्, तथा सति तस्यासद्वैलक्षण्यार्थप्रातिभासिकत्वाय सत्त्वेन प्रतीत्या भाव्यम् । एवं च तदपि सत्त्वमनिर्वाच्यं चेत्, तस्यापि सत्त्वेन प्रतीत्या भाव्यमित्यनवस्था, तथा च तयोरसत्त्वं वाच्यम् । तदुक्तम् अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।

सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ।

तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।। इति ।।

टीकायामपि इदन्त्वसत्त्वयोः सत्त्वायोगादनिर्वाच्यत्वे इदन्त्वेन रूप्यावगाहि तदप्रतीतौ प्रवृत्त्ययोगात् सत्त्वेन भाने च तस्मिन्नपि सत्त्वादिविकल्पप्रसरेणा नवस्थानादिदन्त्व-व्यावहारिकसत्त्वयोरसत्त्वमित्युक्तमिति चेन्न, तयोरसत्त्वे अपरोक्षप्रतीतिविषयत्वे सामग््रय-भावादेर्बाधकस्योक्तत्वाद् अनिर्वाच्यत्वमेव । न च तथा सत्त्वेन प्रतीत्या भाव्यम्, इष्टापत्तेः । न चैवमनवस्था, सत्त्वस्य सदिति प्रतीतावतिरिक्तसत्त्वस्यानपेक्षणात्, अन्यथा त्वत्पक्षेऽ-प्यसति रूप्ये यत्सत्वं प्रतीयते तस्य सत्त्वायोगात् असत्त्वे च तथैव प्रतीतौ प्रवृत्त्यनु-पपत्तिः, सत्त्वेन प्रतीतावनवस्था च स्यात् ।

न च सत्त्वे सत्त्वासत्त्वयोरौदासीन्येऽपि असतः सत्त्वेन प्रतीत्या प्रवृत्त्युपपत्तेः असति प्रतीतस्य सत्त्वस्य सत्त्वेनाप्रतीतावपि असत्त्वसिद्धेश्च नास्माकं काप्यनुपपत्तिः, तव तु रूप्यादिसत्त्वस्य सत्त्वेनाप्रतीतौ प्रवृत्त्युपपत्तावपि प्रातिभासिकत्वानुपपत्तिरिति वाच्यम्, एवं हि तत्सत्त्वं स्वरूपतो न सत्, तुच्छत्वाद्, विज्ञानतोऽपि न सत्, सत्त्वेनाप्रतीतेः । तथा च असति कथं तन्निबन्धनो व्यवहारः । न च प्रतिभासकाले सत्त्वे स्वरूपतो निषेधप्रतियोगित्वं न स्यात्, पारमार्थिकत्वेन निषेधप्रतियोगित्वे अनवस्थैवेत्यसत्त्वमेव रूप्यादीनामिति वाच्यम्, प्रतीतिकाले सत्त्वेऽपि स्वरूपतो निषेधस्य पारमार्थिकत्वेन निषेधेऽप्यनवस्थापरिहारस्य चोक्तत्वात् । नापि प्रत्येकात्मकत्वे अनुपपत्त्या उभयात्मक-तैवास्त्विति वाच्यम्, दत्तोत्तरत्वाद्, भ्रमत्वानुपपत्तेश्च । न चानिर्वाच्यविषयत्वेन यथा तव मते भ्रमत्वं, तथा सदसदात्मकत्वे यत् सत्त्वं तद्विषयत्वेन भ्रमत्वमस्तु, एवं तर्हि ‘सच्चासच्च रजतम्’ इत्यकारताया दुर्निवारत्वापत्तेः । न च असदेव रूप्यमिति बाधस्य सद्वैलक्षण्य-विषयत्ववत् सद्रजतमिति भ्रमस्याप्यसद्वैलक्षण्यमेव विषयोऽस्तु, तथा च प्रातीतिकमपि सत्त्वं मास्त्विति वाच्यम्, तथा सति बाधेन भ्रमविषयसत्त्वानपहारे बाधकत्वव्यवहारोच्छेदप्रसङ्गाद्, अगृहीतासत्त्वस्यापि इदं रजतं सदिति प्रतीतेश्च । न हि  पुनरगृहीतसत्त्वस्यासद्रूप्यमभादिति प्रत्ययः, बाधस्य प्रसक्तिपूर्वकत्वात् ।

ननु असद्विलक्षणं चेन्न बाध्येत, सद्विलक्षणं चेन्न प्रतीयेत, अतोऽनुपपत्त्या अनिर्वाच्यत्वाभाव एव किं न सिध्येत्, न च बाधाप्रतीत्योर्लाघवात् सत्त्वासत्त्वे प्रयोजके, न त्वसद्वैलक्षण्यसद्वैलक्षण्ये, गौरवादिति वाच्यम्, बाधप्रतीत्योरेव प्रथमोपस्थितयोः प्रयोजक-जिज्ञासायामसत्त्वसत्त्वयोः प्रयोजकत्वं कल्प्यते, लाघवात्, प्रथमोपस्थितत्वाच्च, न तु सद्विलक्षणत्वादेः गौरवात्, चरमोपस्थितत्वाच्च । तदनन्तरं च भानप्रयोजकाभावादेवा भानो-पपत्तौ न प्रयोजकान्तरकल्पना । नृशृृङ्गादेरसत्त्वेऽपि न बाधः, प्रसक्त्यभावादिति चेत्, मैवम्, सत्त्वं न तावत् प्रतीतिप्रयोजकम्, रूप्यस्य उभयमतेऽप्यप्रतीत्यापत्तेः, नाप्यसत्त्वं बाधप्रयोजकम्, उभयमतसिद्धासति बाधादर्शनात्, रूप्ये चासत्त्वस्याद्याप्यसिद्धेः, प्रत्युता-सत्त्वेऽनुपपत्तेर्वक्ष्यमाणत्वात् गौरवं प्रामाणिकम् । तस्मात् सिद्धं ख्यातिबाधान्यथानुपपत्त्या अनिर्वाच्यत्वमिति ।

न्यायामृततरङ्गिणी

।। व्यवहारदशायामिति ।। नेह नानेति श्रुत्या व्यवहारदशायां प्रपञ्चबाधा-भावादापाद्यस्य विपर्ययेऽपर्यवसानमित्यर्थः ।। व्यवहारेति ।। तथा च व्यभिचार इत्यर्थः ।। शेषेति ।। ख्यात्यनुपपत्त्याऽसद्व्यावृत्तिसाधनवैयर्थ्यमित्यर्थः ।। अत एवेति ।। शेषवैयर्थ्यादेव ।। मानान्तरेति ।। ननु निर्विशेषत्वादिबोधकं न प्रमाणम् । किं तु लक्षणया शुद्धब्रह्मबोधकमेवेति चेन्न । निर्विशेषत्वस्याप्रामाणिकत्वे सविशेषत्वस्य प्रामाणिकत्वापातात् । न चोभयोरप्रामाणिकत्वम् । विरोधात् ।। अबाध्य इति ।।

ननु ब्रह्मणः स्वप्रकाशत्वेऽपि व्यवहारे प्रतिबन्धकाज्ञाननिवृत्त्यर्थं प्रमाणापेक्षास्तीति चेन्न । एतादृशाप्रामाणिकत्वस्य जगति इष्टत्वात् ।। रूप्यादीति ।। तथा च बाध्यत्वा-प्रामाणिकत्वयोर्व्याप्त्यग्रहान्न बाध्यत्वेन प्रपञ्चेऽप्रामाणिकत्वं सिद्ध्यतीत्यर्थः ।। अतत्वा-वेदकेति ।। रूप्यवत्प्रपञ्चस्यापि पारमार्थिकत्वमेवास्त्वित्यर्थः । रूप्यादेस्तत्वावेदक-बाध्यत्वे नाद्वैताद्वैषम्यमाशङ्क्य निराकरोति ।। न चास्येति ।। श्रुतेर्भिन्नविषयत्वेन न रूप्यादिबाधकत्वमित्याह ।। तस्या इति ।। प्रतियोगीति ।। तत्प्रसिद्धिसाधकानुमानस्य प्रागेव निरस्तत्वात् ।। बाधेनैवेति ।। न चार्थापत्त्यन्तरे तात्पर्यम् । एकत्वोक्ति-विरोधात् । न च प्रयोजनैक्यात्तथोक्तिः । तेनासद्वैलक्षण्यमात्रसाधनात् ।। इष्टापत्तेरिति ।। रूप्यं न ज्ञाननिवर्त्यत्वम् । किं तु शुक्त्यज्ञानादावेवेत्यर्थः ।। द्वितीय इति ।। बाध्यत्वेन सद्वैलक्षण्यं यस्य रूप्यादेः सिषाधयिषितं तस्यासद्वैलक्षण्यपक्षेऽसद्वैलक्षण्याङ्गीकारे रूप्यादौ त्रैकालिकनिषेधप्रति योगित्वरूपं बाध्यत्वं न स्यात् । उक्तरूपबाध्यत्वेऽसत्त्वस्यैव प्रयोजकत्वादित्यर्थः ।। रूप्यादाविति ।। रूप्यादेः सत्ताहीनरूपसत्त्ववत्त्वादित्यर्थः ।। अत एवेति ।। रूप्यादेर्बाध्यरूपासद्रूपत्वेन विपर्ययापर्यवसानात् ।। तस्येति ।। निरुपाख्यत्वावच्छेदकस्य सन्नेति रूप्यस्यापि स्वरूपेण निषेधपक्षे निःस्वरूपादित्यर्थः । यत्तु प्रतिपन्नोपाधौ स्वरूपेण निषेधप्रतियोगित्वं निःस्वरूपत्वं न वै तद्रूप्यादाविति । तन्न । असतोऽपि प्रतिपन्नोपाधेरुक्तत्वात् ।। विपर्ययेति ।। रूप्यादेः सत्त्वाभाववत्त्वात् । शशशृृगमस्तीति वाक्येऽपि शाब्दबोधसामग्रीं व्युत्पादयति ।। विपरीतेति ।। अन्यथेति ।। ज्ञानानुत्पादे योग्यताहीनादिति प्रतिवादिवाक्येऽपि योग्यतासंशयोऽस्तीति मन्यते ।। कथेति ।। बधिराणां कलहेन तुल्या कथा स्यात् परस्परवाक्यार्थस्य परस्पराज्ञानादित्यर्थः । यद्यपि नागमतया वादिवाक्यं बोधकम् । तथापि व्याप्त्यादिस्मारकत्वेनोपयोगोऽस्त्येव ।। अनुभवविरोधादिति ।। शशविषाणमस्तीति शब्दाच्छशविषाणं जानामीत्यनुभवादित्यर्थः । न चानुभवामीति न प्रत्यय इति वाच्यम् । शब्दात्स्वर्गमनुभवामीत्यनेन तुल्ययोगक्षेमत्वात् ।। अन्यथेति ।। तथा च प्रतीत्या रूप्यादेरसद्वैलक्षण्यं न सिद्ध्येदिति भावः ।। निःस्वरूपस्येति ।। अनिर्वाच्यत्वेनेष्टस्य रूप्यादेरनिर्वाच्यान्निःस्वरूपाद्भेदानुपपत्तेरन्यस्य च भेदप्रतियोगिनोऽभावात् रूप्यादीनां कुतः सकाशाद्वैलक्षण्यमिष्यते । तथा च रूप्यादेरपि निःस्वरूपत्वमेव प्राप्तमित्यर्थः ।। तस्येति ।। निःस्वरुपभिन्नस्य निरूपाख्यस्याभावादिति मिथ्यात्वभङ्गे उक्तमित्यर्थः ।

नन्वपरोक्षज्ञानाविषयाखण्डाच्छशशृृङ्गाद्वैलक्षण्यं रूप्यादेराशास्यत इत्यत आह ।। तादृशादिति ।। तावतापि रूप्यादेरसद्विशेषविलक्षणत्वेऽप्यसद्वैलक्षण्यं न सिद्ध्यतीत्यर्थः ।। अत्यन्तासत्यपीति ।। नन्वस्तित्वस्यानिर्वाच्यत्वेन शशशृृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम् । अत्यन्तासच्च नाधिष्ठानमिति न शशशृृङ्गपदाभ्यां तदुपस्थितिः । दृष्टान्ती-कृतवाक्ये तु नानिर्वाच्यं किञ्चिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यम् । अत्यन्तासत्यपि ज्ञानमित्यादित्वस्त्यादि पदसमभिव्याहृतशशशृृङ्गमसदिति वाक्यपरम् । तस्माच्छशशृृङ्गमस्तीत्यत्र शशे शृृङ्गारोपः शृङ्गे च शशीयत्वस्यारोप इत्यनिर्वाच्यमेव शृङ्गमिति चेन्मैवम् । अश्वादावत्र गोशृङ्गमस्तीति विशिष्टस्येव शशशृृङ्गस्य विशिष्टस्यैवानु-भूयमानत्वात् । समस्तपदप्रतिपाद्यस्यैवा परपदार्थेऽन्वयस्यौचित्याच्च । असच्छशविषाणं प्रत्याश्रयत्वेन प्रतीतस्याश्वादेरिदम्पदार्थस्यैवाधिष्ठानत्वसम्भवेन सर्वथा निरधिष्ठानत्वा-सम्भवाद स्तित्वस्यासदधिष्ठानत्वेऽपि न दोषः ।। शशशृृङ्गमस्तीति ।। अत्रेति शेषः ।। एतेनेति ।। अत्यन्तासत्यपि शब्दस्य ज्ञानजनकत्वेनेत्यर्थः ।। शशशृृङ्गशब्द इति ।। व्योमकमलशब्देन समानत्वादस्योदाहरणम् ।। यौगिकेति ।। न च यौगिकशब्दानामवयव-शक्तिप्राधान्येन बोधकत्वादखण्डासद्बोधनमशक्यमिति वाच्यम् । अवयवानां स्वशक्त्य-संसृष्टरूपस्य पदार्थान्तरान्वयाभिमुखस्य सतः पाचकादेरिवाखण्डस्या सतोऽप्यखण्डस्य बोधनसम्भवात् ।। वार्तिकेति ।। खपुष्पवार्तिके तत्सिद्ध्यधिकरणे उक्तम् । कथं तर्हि खपुष्पं तत्सिद्धान्त इत्यत्राभावावगतिः मरुभूमिवदत्र जलमित्यादिवदित्यवेहि । न ह्यत्राप्यभावः शब्द शक्य इति ।। प्रत्यक्षतेति ।। व्याप्तिज्ञानस्य सद्विषयकत्वनियमादिति भावः ।। शशशृृङ्गादीति ।। प्रतियोगिनमनन्तर्भाव्याभावप्रत्यक्षस्यादर्शनादित्यर्थः ।

ननु साक्षादित्यनिषेध्यतयेति चापरोक्षप्रतीतिविषयविशेषणान्नोक्तदोष इति चेन्न चतुर्थपक्षनिरासेन निरसिष्यमाणत्वात् ।। सन्मात्रेति ।। अधिष्ठानज्ञानाबाध्यमत्र सद्विवक्षितम् । तेन प्रातिभासिकस्यापि परमते सद्विशेषतयाश्रयासिद्धिरिति परास्तम् । भ्रममात्रस्यैवोक्तसद्रूपाधिष्ठानविषयतयाश्रयासिद्धिर्मा भूदिति मात्रपदम् । न च शाब्दत्व-मुपाधिः । अनुमितिभ्रमे साध्याव्याप्तेः । व्यतिरेकव्याप्तौ निश्चितव्यापकाभाववति व्याप्यसन्देहेन सन्दिग्धव्यभिचाराच्च ।। संस्कारेति ।। शब्दाभासादिजन्यस्य ज्ञानस्य न संस्कारजनकत्वं प्रमाजन्य एव संस्कारो हेतुरिति प्रागुक्तत्वाद्वा । अन्यथा तवाप्य-निर्वाच्यगोचरसंस्कारादनिर्वाच्यान्तरमेव कथं नोत्पद्येत । यत्तु संस्कारस्य न ताव-त्साक्षात्प्रतीतावुपयोगः । स्मृतित्वापत्तेः । किन्त्वर्थोत्पत्तिद्वारा । तथा च संस्कारनियाम-कताप्यनिर्वाच्य पक्ष एवेति । तन्न । अर्थस्य स्मृतित्वापत्त्या तुल्ययोगक्षेमत्वात् ।। नृशृृङ्गादिशब्दैरेवेति ।। शब्दशक्तिभ्रमविरहकाल इति शेषः । तेन शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशब्देनेव शशशृङ्गशब्देनापि नृशृङ्गस्य प्रतीयमानत्वेन नृशृङ्गशब्देनैव प्रतीयमानत्वं न तस्य विशेष इति निरस्तम् ।। अन्यथेति ।। सत्त्वप्रकारकभ्रान्तेः सत्त्वसापेक्षत्वे तव मतेऽपि रूप्यस्य सद्विलक्षणत्वात् सा भ्रान्तिर्नस्यादित्यर्थः ।। सम्बन्धादाविति ।। तथा च तव मतेऽपि रूप्यस्य ज्ञानेन सम्बन्धः । भातीत्यादौ कर्तृत्वादिकं च न स्यात् ।। दुष्टादिति ।। स्वरूपयोग्यस्य सहकारिविशेषसमवधाने सति कार्यविशेषजनकत्वदर्शनादि न्द्रियस्याप्यसन्निहिततत्तादिज्ञानजनकत्वेन योग्यत्वात् ।। प्रमाया एवेति ।। न च सन्निकर्षोऽपि सामान्यसामग््रयैवेति वाच्यम् । सन्निकर्षे सति क्वाप्यप्रमाया अदर्शनेन प्रत्युत प्रमाया एव दर्शनेनेन्द्रियवदुभयानुगत्यभावेन सन्निकर्षस्य सामान्यसामग्रीत्वाभावात् । अत एवोक्तं मणिकृता । असन्निकृष्टमपि दोषवशाद्भासत इत्युपेयमिति ।। अन्यथेति ।। अपरोक्षज्ञानमात्रे सन्निकर्षस्य हेतुत्वे ।। अयं दोष इति ।। अनिर्वाच्यस्यापरोक्षज्ञानं ह्यविद्यावृत्तिर्वा तत्प्रतिबिम्बितः साक्षी वा । नोभयमपि सन्निकर्षजन्यम् । तथात्वे अनिर्वाच्यत्वे ।। तस्येति ।। रूप्ये प्रतीतस्येदन्त्वस्य व्यावहारिकत्वस्य च सत्त्वेन प्रतीतिं विना प्रातिभासिकत्वासम्भवादित्यर्थः ।। तदपीति ।। रूप्ये प्रतीतेदन्त्वादौ यत्सत्वं प्रतीतं तस्याप्यनिर्वाच्यस्य प्रातिभासिकत्वाय सत्त्वान्तरवत्तया प्रतीतिर्वाच्या । एवं सत्त्वे प्रतीतसत्त्वस्यापि प्रातिभासिकत्वाय सत्त्वान्तरवत्तयेत्यनवस्था ।। तयोरपीति ।। रूप्ये निषिध्यमाने इदन्त्वपारमार्थिकत्वे सती वाऽसद्विलक्षणे वाऽसती वा । आद्ये निषेधायोगः । द्वितीयेऽनवस्था । असद्विलक्षणयोः स्वरूपेण निषेधायोगात्तयोरपि पारमार्थिकत्वान्तरेण निषेधोे वाच्यः । तद्गतपारमार्थि-कस्याप्यसद्विलक्षणत्वे पारमार्थिकत्वान्तरेणेत्यनवस्था । तृतीये असतः सत्त्वेनापरोक्ष-प्रतीतिर्दुर्वारेत्याह ।। ते चेति ।। रूप्ये निषिध्यमाने इदं पारमार्थिकत्वे ।। सत्त्वेनापरोक्षे इति ।। सत्त्वनिषेधस्य सत्त्वप्रसक्तिपूर्वकत्वात्प्रकृते च परिशेषात्प्रत्यक्षरूपैव प्रसक्तिरिति भावः ।। अन्यथात्वमिति ।। अन्यप्रकारत्वमन्यरूपत्वमिति यावत् । अनिदंरूपे इदन्त्वमव्यावहारिके व्यावहारिकत्वम् । तस्य अपारमार्थिके निषिध्यमानस्य पारमार्थि-कत्वादेः । सुधायां तु शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्य चेदन्ता संसर्गोऽन्यथात्व-शब्दार्थः । सत्त्वशब्देन रजते शुक्तिकासत्त्वसंसर्ग इति व्याख्यातम् । अत्रानिर्वचनीये रूप्ये प्रतीयमानयोरिदंत्वव्यावहारिकत्वयोः । तत्र निषिध्यमानपारमार्थिकत्वस्यासत एवापरोक्ष्य-मनवस्थाभयात्परं प्रति स्वयमापादितम् । सुधायां तु इदंतारजतत्वयोरितरेतरसंसर्गस्य रजते शुक्तिकासत्त्वसंसर्गस्य चानिर्वचनीयस्य तथैव प्रतीतौ प्रवृत्त्ययोगाद्व्यावहारिकतया प्रतीतिर्वाच्या । तद्व्यावहारिकतायाः सत्त्वे उक्तसंसर्गद्वयस्य प्रातिभासिकत्वायोगादसत्या एव तस्या आपरोक्ष्यमायातम् । तस्या अप्यनिर्वाच्यत्वे तथैव तस्याः प्रतीतौ प्रवृत्त्य-योगादनिर्वाच्यायास्तस्याः व्यावहारिकत्वेनापरोक्ष्यं वाच्यम् । अनिर्वचनीयव्यावहारिकता-गतव्यावहारिकत्वस्य सत्त्वे तदाश्रयव्यावहारिकताया अनिर्वाच्यत्वायोगादसदेव व्यावहारि-कत्वमपरोक्षतया प्रतीयत इति वाच्यम् । तद्व्यावहारिकत्वस्याप्यनिर्वाच्यत्वे उक्तरीत्या-नवस्थेत्युक्तमित्याह ।। टीकायान्त्विति ।। इदन्त्वमिदन्त्वसंसर्गः । सत्वं सत्वसंसर्गः ।। सत्त्वायोगादिति ।। इदन्त्वादिसंसर्गद्वयस्यानिर्वाच्यत्वविरोधात् । न हि यस्य सत्त्वं सत्तदनिर्वाच्यमिति सम्भवतीत्यर्थः ।। प्रवृत्तीति ।। न ह्यनेनानिर्वाच्यं क्वचिदर्थ-क्रियासूपयुज्यमानं दृष्टम् । येन तद्भावं प्रतीत्यापि प्रवर्तेत ।। सत्त्वेनेति ।। व्यावहारि-कत्वेनेत्यर्थः ।। सत्वं इति ।। व्यावहारिकत्वे । अत्र पक्षद्वयेऽपीदंत्वादेरेवासत्त्वमुक्तम् । अनवस्थोपपादनभेदेन तु पक्षभेद इति बोध्यम् ।। अनिर्वाच्येति ।। सद्विलक्षणस्येत्यर्थः । एतेन सत्त्वस्य सत्त्वप्रतीतावतिरिक्तसत्त्वानपेक्षेति निरस्तम् । सत्त्वप्रतीतिं विना सत्त्वस्वरूपासिद्धेः ।। असतःसत्त्वस्येति ।।

ननु तत्सत्वं स्वरूपतो न सत् । विज्ञानतोऽपि न सत् । सत्त्वेनाप्रतीतेः । तथा च सति कथं तन्निबन्धनो व्यवहार इति चेन्न । सत्त्वेनाप्रतीतस्यासतोऽपि सत्त्वस्य प्रतीति-मात्रादेव व्यवहाराद्युपपत्तेः । न हि मम मतेऽप्यर्थो हेतुः । येनासतोऽर्थस्य स्वरूपसिद्ध्यर्थं सत्त्वेन तज्ज्ञानमपेक्षेतेति । ननु रूप्यस्य सदसदात्मकत्वे सद्रूप्यमिति ज्ञानस्य भ्रमत्वं न स्यात् । रूप्यस्य सद्रूपत्वादित्यत आह ।। असदेवेति ।। तव मते रूप्यस्यासद्विलक्षण-त्वेऽप्यसदेव रूप्यमिति बाधस्य भ्रमत्वं यथा नायाति तस्य तत्र विद्यमानसद्वैलक्षण्य-विषयत्वात् एवं सद्रूप्यमिति भ्रमस्याविद्यमानासद्वैलक्षण्यविषयत्वेन भ्रमत्वमक्षतमेव । तथा च प्रातीतिकमपि तत्र सत्त्वं मास्तु बाधोऽसत्त्वविषयकोऽस्तु ।। सदसदात्मकत्वमिति ।। सदसदात्मकत्वं यत्सत्वं तद्भ्रान्तौ विषयोऽस्तु । नन्वेवं सच्चासच्चरजतमित्याकारा प्रतीतिः स्यात् । न । वस्तुतो रजतस्य तथात्वेऽपि प्रतीतेस्तदाकारत्वाभावात् । अन्यथा तव मतेऽपि सदसद्विलक्षणमित्याकारा प्रतीतिः स्यात् । बाधकालेत्विष्टापत्तिरित्याह ।। अन्यथेति ।। प्रथमोपस्थितत्वादिति ।। अभावापेक्षया भावस्य प्रथमं बुद्धिस्थत्वात् ।। कल्पकत्वादिति ।। भावप्रयोजककल्पनानन्तरमभावेन जिज्ञासा भवतीति भावप्रयोजक-कल्पनाभावे प्रयोजकस्य कल्पिता भवतीत्यर्थः ।। बाधप्रतीत्योरिति ।। न च प्रतीतौ न सत्त्वं तन्त्रम् । उभयमतेऽपि रूप्येऽभावादिति वाच्यम् । रूप्य एव सत्त्वस्य प्रतीत्या-पाद्यमानत्वात् । तदिदमाह ।। सत्त्वात्प्रतीतिरिति ।। नन्वसत्त्वं न बाधे प्रयोजकम् । नृशृङ्गादावसत्त्वेऽपि बाधादर्शनादित्यत आह ।। नृशृृङ्गादाविति ।। यथा तव मते नृशृङ्गादावबाध्ये बाधप्रयोजकत्वेनाभिमतस्य सद्वैलक्षण्यस्य सत्त्वेऽपि तस्य यथाबाधं प्रति प्रयोजकत्वाक्षतिः तथाऽसत्त्वस्य नृशृङ्गादौ सत्त्वेऽपि न क्षतिरित्यर्थः ।

न्यायामृतकण्टकोद्धारः

अनिर्वचनीयेऽर्थापत्तिं दूषयितुं विकल्पेन पृच्छति ।। अर्थापत्तावपीति ।।  त्वन्मत इति ।। प्रतिवादिनो मते प्रपञ्चस्याबाध्यत्वादिति भावः । ननु व्यवहारदशायां न बाध्येत्यापादनकरणान्न व्यभिचारः । प्रपञ्चस्य व्यवहारदशायामबाध्यत्वादित्याह ।। व्यवहारदशायामिति ।। अत्र बाध्यते च व्यवहारदशायां तस्मात्सद्विलक्षणमिति विपर्यय-पर्यवसानं कर्तव्यम् । तत्र नेहनानेति श्रुत्या वा बाध्यत्वं ? युक्त्या वा ? प्रत्यक्षेण वा ? नाद्य इत्याह ।। नेहेति ।। तथा व्यवहारदशायां प्रपञ्चस्याबाधनात् तत्प्रत्यायकपदादे-स्तत्राभावात् । तथा च विपर्ययापर्यवसानं दूषणमिति भावः । द्वितीय आह ।। व्यवहारदशायामेवेति ।। तथा च प्रपञ्च एव त्वन्मते व्यभिचार इति भावः । क्वचित् यौक्तिकाबाधस्येति पाठः । तदापि विपर्ययापर्यवसानमेवेति भावः । तृतीय आह ।। प्रत्यक्षेति ।। तथा च तदंशे विपर्ययापर्यवसानमेवेति । उपलक्षणमेतत् । घटाद्यंशे प्रत्यक्षबाधाभावेन व्यभिचारश्चेत्यपि बोध्यम् ।। शेषेति ।। असच्चेन्न प्रतीयेतेत्यंशस्येत्यर्थः ।। अत एवेति ।। शेषवैयर्थ्यादेवेत्यर्थः । असतः परेण बाध्यत्वानङ्गीकारादित्यर्थः ।। प्रामाणिकादन्यस्येति ।। न च प्रामाणिकत्वमेव तदवच्छेदकमस्त्विति वाच्यम् । तस्यानुपदमेव निरसिष्यमाणत्वात् ।। बाध्यस्यापीति ।। तथा च बाध्य एव व्यभिचार इत्यर्थः ।। आत्माश्रयादिति ।। सत्त्वलक्षणे सत्वस्य प्रवेशादित्यर्थः ।। मानान्तरेति ।। न चात्र प्रामाणिकत्वमेव सत्त्वम् । प्रमाणत्वं च तत्वावेदकत्वम् । तदपि लक्षणया स्वरूपमात्रबोधकत्वम् । न च निर्विशेषत्वादिविशिष्टबोधकागमस्तादृशः । अतो न व्यभिचारः । निर्विशेषत्वादिधर्मे स्वरूपमात्रपरागमाबोध्यत्वेन तत्र प्रामाणिकत्वाभावादिति वाच्यम् । तादृशप्रामाणिकत्वस्याप्रसिद्धत्वेनापादनप्रयोजकव्याप्तेरसम्भवाद्विशिष्टबोधकेऽपि प्रामाणिकत्वव्यवहारेण तादृशपरिभाषाकरणे निमित्ताभावाच्च । तादृशसद्वैलक्षण्यस्य ब्रह्मण्यपि सुसाधनत्वाच्च । प्रपञ्चेऽपि तद्वैलक्षण्यस्येष्टत्वाच्चेति दिक् ।। अबाध्य इति ।। तथा च विरुद्धत्वमिति भावः । न च स्वप्रकाशत्वेन प्रकाशार्थं प्रमाणप्रवृत्यनङ्गी-कारेऽप्यज्ञाननिवृत्यर्थं प्रमाणप्रवृत्तिः सफलेति वाच्यम् । प्रकाशमानेऽज्ञानासम्भवस्योप-पादितत्वात् । अज्ञानाविरोधित्वे प्रकाशत्वायोगस्योक्तत्वाच्च । किञ्च रूप्यादिबाध-स्तत्वावेदक उतातत्वावेदकः ? आद्येऽद्वैतहानिः । द्वितीय आह ।। रूप्यादीति ।। न च अप्रामाणिकतापादकत्वे न तत्वावेदकत्वं तन्त्रम् । किन्तु बाध्यन्यूनसत्ताकत्वमेव । तथा च रूप्यादिबाधस्यापि अप्रामाणिकतापादकत्वं भविष्यतीति वाच्यम् । तथात्वे वल्मीके स्थाणुत्वभ्रमस्य पुरुषत्वभ्रमबोध्यत्वप्रसङ्गात् । किञ्च भ्रमत्वज्ञापनं हि बाध्यत्वम् । न च भ्रमेण भ्रमत्वज्ञापनं सम्भवतीति तत्वावेदकत्वमेवा प्रामाणिकतापादने प्रयोजकमास्थेयमत एवाह ।। अतत्वेति ।। न च निषेधस्य व्यावहारिकत्वमिष्टमेवेति वाच्यम् । निषेधस्य बाध्यत्वे प्रपञ्चस्य सत्यत्वापत्यादेरुक्तत्वात् । एतेनेति परामृष्टं हेतुमाह ।। अवधारण-स्येति ।। न चानुमानेन प्रतियोगिप्रसिद्धिरापादितैवेति वाच्यम् । अनुमानानां सम्यक् प्रागेव निरस्तत्वात् ।। बाधेनैवेति ।। न च तर्कान्तरोक्त्यर्थं ख्यात्युपन्यासो वा येनाबाध्यत्वेऽसत्वव्याप्तिर्वान ज्ञाता तं प्रति वा सार्थकत्वमिति वाच्यम् । असतोऽपि ख्यातेरुपपादयिष्यामाणत्वेन तर्कान्तरोक्त्यादेरसम्भवात् ।। सदिति ।। न च प्रामाणि-कत्वमेव सत्त्वमिति वाच्यम् । तस्य पूर्वं दूषितत्वात् ।

ननु चाबाध्यत्वमेव सत्त्वम् । न चापाद्यापादकयोरविशेषः । त्रैकालिक-निषेधाप्रतियोगित्वमबाध्यत्वम् । विपरीतप्रमाविषयत्वाभावो द्वितीयमबाध्यत्वम् । यद्वा तद्व्यवहारो वा आपाद्यत इति । न चाबाध्यत्वेनैवासद्व्यावृत्तिसिद्ध्या शेषवैयर्थ्यमिति वाच्यम् । तस्य तर्कान्तरोपदर्शनार्थत्वादिति चेन्न । विपरीतप्रमाविषयश्च भवतीति विपर्ययापर्यवसानेन तर्कस्याभावत्वात् । विपरीतप्रमाविषयत्वाभावस्य प्रमाणविरुद्धत्वा-भावेनेष्टापादनत्वाच्च । ब्रह्मणो निर्धर्मकत्वेनापाद्यापादकयोस्तत्राभावेन व्याप्त्यसम्भवाच्च । कल्पितयोः प्रपञ्चेऽपि भावाच्च । तर्कान्तरत्वार्थं च ख्यात्युक्तौ एकत्वेनोक्त्ययोगाच्च । न ह्येकस्मिन्ननुमाने हेतुद्वयं क्रियत इति । नहि त्वद्वाक्यमाप्तवाक्यतया बोधकम् । येन व्याख्यानतो विशेषप्रतिपत्तिः स्यात् । क्वचिदपि भिन्नत्वेनोक्त्यभावाच्च । तस्य तर्कान्तरत्वाभावस्य वक्ष्यमाणत्वाच्च । एवमापादकं दूषयित्वाऽपाद्यमपि दूषयति ।। एवं नेति ।। एतच्च सर्वं मिथ्यात्वभङ्ग एवोपपादितमिति नेह तन्यत इति ।। द्वितीय इति ।। असत्त्वस्योक्तबाध्यत्वानतिरेकादिति भावः । न चासतः प्रतिपन्नोपाधौ निषेधप्रतियोगि-त्वस्यासम्भवात् तद्वैलक्षण्यमेव बाध्यत्वप्रयोजकमिति वाच्यम् । तस्यासत्यपि प्रतिपादितत्वात् तदतिरेकेणासत्वानिर्वचनाच्चेति । एवं सच्चेन्न बाध्येतेत्यंशं दूषयित्वाऽसच्चेन प्रतीयेतेत्यंशं दूषयितुं पृच्छति ।। एवमिति ।। सत्ताहीनस्यापीति ।। न त्वात्मनि व्यभिचारः किं त्वन्मतरीत्या मद्रीत्या वा ? नाद्यः । त्वन्मत आत्मनि सत्तायाः सत्त्वेनापादकाभावात् । न द्वितीयः । मन्मते तत्र दृश्यत्वस्यैवाभावेनापाद्यसत्त्वादिति चेन्न । उभयथाप्यदोषात् । मया तत्र सत्ताजातेरनङ्गीकारात् परं प्रत्यात्मनि दृश्यत्वस्योप-पादितत्वाच्च । यथा चैतत्तथा दृश्यत्वभङ्गे द्रष्टव्यम् ।। रूप्यादाविति ।। असदेव रजतं प्रत्यभादित्यनुभवबाधादिति भावः ।। अत एवेति ।। विपर्ययापर्यवसानादेवेत्यर्थः ।। अन्यथाविज्ञातस्येति ।। बाधपक्षे आत्मनि व्यभिचारादेवेत्यर्थः ।। निरुपाख्यं चेदिति ।। न च निरुपाख्यत्वं नाप्रतीयमानत्वम् । किन्तु शब्दवृत्यविषयत्वम् । तथा च कथं साध्याविशेष इति वाच्यम् । असतः पदवृत्यविषयत्वे निरुपाख्यपदप्रयोगस्य तत्राभावापत्तेः । किञ्चासतोऽपि असत्पदवाच्यत्वात् कथं पदवृत्यविषयत्वम् ? न च निर्धर्मकस्य कथं वाच्यत्वमिति वाच्यम् । तर्हि निरुपाख्यत्वमपि कथम् ? तत्र धर्मिसत्तासापेक्षमिति यदि तदेतदत्रापि तुल्यम् । ख्यात्यङ्गीकारेण पदवृत्तिविषय-त्वाङ्गीकारेणेत्यर्थः ।। इतोऽन्यस्येति ।।

नन्वप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेधप्रतियोगित्वं निःस्वरूपत्वम् । तच्च न प्रपञ्चे न वा शुक्तिरूप्यादाविति विपर्ययपर्यवसानोपपत्तिः । मिथ्यात्वलक्षणे च प्रतिपन्नोपाधाविति विशेषणबलान्नासत्यतिव्याप्तिर्न वा ब्रह्मण्यतिव्याप्तिरिति चेन्न । असतोऽपि भ्रमप्रतिपन्नोपाधिसम्भवात् । ब्रह्मणश्च स एवाधस्तादिति श्रुत्यैव प्रतिपन्नोपाधेः सत्वात् । तथा च दत्तेऽपि विशेषणे नासतो व्यावृत्तिरिति विपर्ययापर्वसानमेवेति ।। किञ्चेति ।। सत्त्वाभावतद्व्याप्तान्यतरस्य शुक्तिरूप्यादावङ्गीकारेण तस्मान्नासदिति विपर्यया-पर्यवसानमित्यर्थः ।। असत इति ।। अभावज्ञाने प्रतियोगितावच्छेदक प्रकारकप्रतियोगि-ज्ञानस्य कारणत्वादिति भावः ।। असदिति ।। निराकरणे निराकार्यज्ञानं कारणम् । निराकार्या चासद्विशिष्टा प्रतीतिः । न च विशेषणाप्रतीतौ विशिष्टप्रतीतिः सम्भाविनीति भावः ।। असत्पदस्येति ।। तथा चासच्चेन्न प्रतीयेतेति वाक्यस्याबोधकत्वात्तद्वैयर्थ्यम् । न चासत्पादस्याबोधकत्वेऽपि इतरपदसमुदायस्य बोधकत्वं भविष्यतीति वाच्यम् । तत्पद-जन्यबोधस्यासद्वैलक्षण्यासाधकत्वेन प्रकृतानुपयोगित्वात् ।। असत इति ।। व्यवहारस्य व्यवहर्तव्यधीजन्यत्वादिति भावः । न चासद्विषयकविकल्पाङ्गीकारेण सर्वस्योपपत्तिरिति वाच्यम् । विकल्पस्य प्रतीत्यतिरिक्तस्य वक्तुमशक्यत्वात् । सत्त्वस्योपपादयिष्यमाणत्वात् । न चास्तु विकल्पस्य ज्ञानत्वं तथापि तदन्यज्ञानविषयत्वं निषिध्यते इति वाच्यम् । विकल्पोऽनुभवः स्मरणं वा । उभयथापि शुक्तिरूप्यादेस्तदन्यज्ञानविषयत्वाभावेन इष्टापाद-नत्वात् । प्रतीयते चेति विपर्ययपर्यवसानायोगाच्च ।। इष्टेति ।। मयापि शुक्तिरूप्यादेः सत्त्वेन प्रमाविषयत्वानङ्गीकारादित्यर्थः ।। भ्रान्तित्वादेवेति ।। अन्यथा भ्रान्तित्वमेव न स्यात् । न चासतः सत्त्वेन प्रतीत्यभावेऽपि अनिर्वचनीयविषयत्वेन भ्रान्तित्वं भविष्यतीति वाच्यम् । अनिर्वचनीयत्वस्याद्याप्यसिद्ध्याऽन्योन्याश्रयात् । असदेवेदमित्यनुभवेनानि र्वचनीयत्वाभावस्यैवानिणीतत्वाच्चेति । किञ्च सत्त्वेन प्रतीत्या नासद्वैलक्षण्यं साधयितुं शक्यम् । असत्यपि सत्त्वेन प्रतीतिविषयत्वसत्वादित्याह ।। येनेति ।। ननु तद्वाक्या-दनुभव एव न भवत्यत आह ।। न हीति ।। तथात्वेऽनुभवविरोध इति भावः । ननु योग्यताभावादयोग्यतानिश्चयसद्भावाच्च कथं तद्बोधकमित्यत आह ।। विपरीतेति ।। न ह्ययोग्येऽयोग्यतानिश्चयः सर्वदाऽस्तीति नियमः । यदा स नास्ति यदा वा योग्यताभ्रमोऽस्ति तदाऽयोग्यादप्यनुभवो दुरपह्नव इति भावः ।। अन्यथेति ।। अयोग्याद्बोधानङ्गीकार इत्यर्थः।

प्रतारकवाक्यात्प्रवृत्तिदर्शनात् तस्याश्च स्वसमानप्रकारकस्वसमान विषयकज्ञान-साध्यत्वात् तादृशज्ञानस्य च वाक्यातिरिक्तप्रमाणाजन्यत्वादिति भावः । बाधकान्तरमाह ।। योग्यताहीनादिति ।। विकल्पः किं ज्ञानान्यत् मानसं वृत्यन्तरं ज्ञानविशेषो वा ? आद्य आह ।। विकल्पस्येति ।। विकल्पस्थले जानामीत्यबाधितानुभवात् विकल्पोऽपि ज्ञानम् । अन्यथा तद्विरोधः स्यादित्यर्थः ।। प्रवृत्तीति ।। तस्याज्ञानसाध्यत्वादिति भावः । द्वितीय आह ।। विकल्पस्येति ।। तथा च न तेनासद्वैलक्षण्यसिद्धिरिति भावः ।। द्वितीये ।। असदेवोल्लिखन् इति पक्ष इत्यर्थः ।। निःस्वरूपस्येति ।। निःस्वरूप-त्वस्यैवासत्त्वात् निःस्वरूपस्यानिर्वचनीयत्वेऽसद्वैलक्षण्यमनिर्वाच्यस्य न स्यादित्यर्थः । न च नृशृृङ्गमसदिति वाक्यश्रवणसमनन्तरं विकल्प्यमानाखण्डानिर्वाच्यानात्मकनृशृृङ्गादे-र्वैलक्षण्यमुच्यते । नृशृृङ्गमस्तीत्यत्र तु नरि नृशृृङ्गमनिर्वाच्यम् । तस्मिंश्च सत्त्वमप्य-निर्वाच्यमेवेति वाच्यम् । उभयत्र नृशृृङ्गपदप्रतिपाद्यस्यैकस्यैवानुभवेन विशेषकल्पनायां प्रमाणाभावात् । न च नृशृृङ्गमस्तीत्यत्र सत्त्वस्यारोप्यतयाऽधिष्ठानाक्षेपे नासतस्तदयोगात् । नृशृृङ्गपदेनान्यदेव प्रत्याय्यते । नैवमितरत्रेति वाच्यम् । असतोऽप्यनिर्वाच्यवदधिष्ठानत्व-सम्भवात् । न चासन्न प्रतीयत एवेति वाच्यम् । अस्यानिर्वाच्यसिद्ध्युत्तरकल्प्य-त्वेनान्योन्याश्रयात् । अनिर्वचनीयं चेन्न प्रतीयेतेत्यपि वक्तुं शक्यत्वाच्च । तस्मान्निः-स्वरूपाद्वैलक्षण्यं वक्तव्यम् । सर्वथाऽसतो ज्ञानानङ्गीकारेऽपसिद्धान्त इत्याह ।। अत्यन्ता-सत्यपीति ।। न चेदमस्त्यादिपदसमभिव्याहृतपरमिति वाच्यम् । नास्त्यादिपद-समभिव्याहृतपरत्वे बाधकाभावात् । अन्यथा सच्चेन्न प्रतीयेतेति वाक्यमबोधकं स्यात् । अस्त्यादिपदसमभिव्याहाराभावादित्युक्तत्वात् ।। तद्धैक इति ।। यथाऽनेनासतः सत्त्वं प्रतीयते तथा मिथ्यात्वलक्षणभङ्ग एवोक्तम् । अपार्थकशब्देनाप्रत्यायकत्वं वा आत्यन्तिक-निषेधयोग्या प्रतीतिर्वा असत्प्रत्यायकत्वं वा ? नाद्य इत्याह ।। अपार्थकेति ।। न चानन्वयनिश्चयदशायामबोधकत्वमुच्यत इति वाच्यम् । तस्य योग्येऽप्यनन्वयभ्रमदशायां सत्त्वेन तस्याप्यपार्थकत्वापातात् । न चानन्वयानिश्चयदशायामपि व्यधिकरणप्रकारक-ज्ञानमात्रजनकत्वमिति वाच्यम् । तस्याप्यसद्विषयतामन्तरेण दुःसम्पादत्वादित्य-न्यत्रोक्तत्वात् । द्वितीय आह ।। तेनेति ।। तथाचानुभवविरोध इति भावः । तृतीय आह ।। असदिति ।। यौगिकेति ।। न चैवमखण्डासद्बोधाभावापत्तिरिति वाच्यम् । यत्रोप-देशादिनाऽखण्डे शक्तिग्रहस्तत्र तस्याप्युपपत्तेः । यत्र तु न तद्ग्रहस्तत्र योगवृत्या बोध-सम्भवादिति । न चात्र शशे शृृङ्गाभावबोधनमात्रमेवेति वाच्यम् । तथा सति शशशृृङ्गमसदिति सामानाधिकरण्यानुपपत्तेः । प्रयोगान्तरे गवीत्यधिकरणान्तरप्रतीत्या शशस्य तदप्रतीतेश्चेति दिक् ।। वार्तिकोक्तमिति ।। तत्सिध्द्यधिकरणवार्तिकोक्तमित्यर्थः ।। तत्रेति ।। न च नास्तीतिपदसमभिव्याहारबलात् तथा प्रतीतिरतो न पौनरुक्त्यादीति वाच्यम् । तावताऽखण्डस्यैव प्रतियोगित्वप्रतीतेः । अन्यथा विशिष्टाभावो न सिद्ध्येतेति । तस्मात्सिद्धमेतदसतोऽपि सत्त्वेन प्रतीतिरस्तीति न तयाऽसद्वैलक्षण्यसाधनं युक्तमिति ।

अस्तु तर्हि असच्चेन्न प्रत्यक्षतः प्रतीयेतेति तृतीयः पक्ष इत्यत आह ।। न तृतीय इति ।। तथा च यथा कथञ्चिदपरोक्षप्रतीतिविषयत्वस्यासत्यपि सत्त्वात् न तेनासद्वैलक्षण्य-साधनं युक्तमिति भावः । नन्वनिषेध्यतया साक्षादपरोक्षतया प्रतीत्यभाव आपाद्यत इति चेन्न । तत्किं प्रमाभावो वा भ्रान्त्यभावो वा ? नाद्यः इष्टापत्तेः । न द्वितीय इत्याह ।। न चतुर्थ इति ।। न च तादृशप्रत्यक्षसामग््रयभावात् कथं तादृशप्रत्यक्षम् ? इन्द्रियार्थ-सन्निकर्षो हि प्रत्यक्षसामग्री । न चासता सन्निकर्षः सम्भवतीति वाच्यम् । तार्किकाणां मते योगीन्द्रियादिनाऽतीतादेरिव तव प्रातिभासिकेनेव प्रत्यक्षस्याभावेनेवासता सन्निकर्षाभावेऽपि तद्भानजननोपपत्तेः । न च तत्र योगजधर्मादिर्नियामकोऽथवा स एव सन्निकर्ष इति वाच्यम् । प्रकृतेऽपि दोषस्य नियामकत्वात् । तस्यैव वा सन्निकर्षत्वात् । किञ्च प्रमायामेव निर्दोषेन्द्रियसन्निकर्षो हेतुः । न चेन्द्रियवत् सन्निकर्षस्यापि जन्यप्रत्यक्ष-सामान्यसामग्रीत्वमिति वाच्यम् । इन्द्रियजन्यत्वमात्रेण तदुपपत्तौ सन्निकर्षस्यापि सामान्यसामग्रीत्वे मानाभावात् । अत एव मणिकृदाह ।। इन्द्रियत्वेनेन्द्रियजन्यं ज्ञानं प्रत्यक्षमिति ।। अन्यथा सम्बन्धिभिन्नसम्बन्धस्यैव सन्निकर्षत्वात् तस्य चाभाव-प्रत्यक्षादावभावात् अभावादि प्रत्यक्षाभावापत्तौ बहुविप्लवः स्यात् । किञ्च न हि सन्निकर्षः सन्निकर्षत्वेन कारणमननुगमात् । किन्त्ववान्तरव्यापारत्वेन । प्रकृतेऽपीन्द्रियस्य कारणत्वनिर्वाहार्थं कश्चिदवान्तरव्यापारो भविष्यतीति न कश्चित् क्षुद्रोपद्रवः । अपि च विषयेन्द्रियसन्निकर्षः कारणम् । प्रकृते च सोऽस्त्येव । मुक्तेरेव विषयत्वात् । यथा चैतत्तथा विषयत्वनिर्वचने प्रपञ्चितमित्यलम् ।

किञ्च प्रत्यक्षेणासतो ज्ञानाभावे शब्देनापि तत् कथं स्यात् । योग्यताज्ञानविरहात् । न चायोग्यताज्ञानविरहः शाब्दत्वावच्छिन्नसामग्री । सा च प्रकृतेऽस्त्येवेति वाच्यम् । लाघवेन योग्यतादेरेव हेतुत्वमिति वक्तुं शक्यत्वात् । अत एवाह ।। सन्मात्राविषयकमिति ।। न च सर्वस्यापरोक्षज्ञानस्य प्रातिभासिकसाधारणविषयत्वात् तदविषयकमपरोक्षज्ञानमसिद्धम् । सत्पदेन पारमार्थिकसत्वविवक्षायां मात्रपदवैयर्थ्यमेवेति वाच्यम् । सत्पदेन पारमार्थिकत्व-विवक्षायामपि सर्वस्याप्यधिष्ठानीभूतब्रह्मविषयत्वेन सद्विषयत्वान्मात्रपदाभावे आश्रया-सिद्धयनुद्धारात् । न च सामग्रीविरहेण बाध इति वाच्यम् । तस्या उपपादितत्वात् । न च शाब्दत्वमुपाधिरिति वाच्यम् । प्रत्यक्षत्वतुल्यत्वेन शाब्दत्वस्य साध्यव्यापकताऽनिश्चयाद-प्रयोजकत्वाच्च । न च धर्मादिकमपरोक्षप्रतीतिविषयः । प्रतीतिविषयत्वादित्या-भाससाम्यमिति वाच्यम् । तस्यानाभासत्वात् । धर्मादेरपि यत्किञ्चित्प्रत्यक्षविषयत्वात् । न चास्मदादिप्रत्यक्षविषयत्वे साध्ये आभासत्वमिति वाच्यम् । तत्रास्मदादियोग्यत्वस्यो-पाधित्वात् । न च साधनव्यापकत्वं धर्मादेरस्मदादियोग्यत्वे धर्मादिकं साक्षात्कारोमीति प्रत्ययापत्तेः । योग्यतायाः फलबलकल्प्यत्वादिति दिक् ।। सविशेषत्व इति ।। यत् सविशेषं तन्नासत् । यथा घटादीति व्याप्तेरिति भावः ।। दुष्टेन्द्रियस्येति ।। तथा च संस्काराभावात् न शशशृृङ्गादिप्रत्यक्षमिति भावः ।

ननु संस्कारस्य भ्रमोपयोगिता कथम् ? न तावत्प्रतीतौ । संस्कारजन्यत्वे स्मृतित्वापत्तेः । नापि रजतोत्पत्तौ । रजतोत्पत्यङ्गीकारेऽनिर्वचनीयतापक्षानुसरणमिति चेन्न । प्रतीतावेवोपयोगं ब्रूमः । न च स्मृतित्वापत्तिः । संस्कारजन्यत्वेन स्मृतित्वे संस्कारलिङ्गकानुमितेः प्रत्यभिज्ञायाः संस्कारध्वंसस्य च स्मृतित्वापत्तेः । किञ्चारोप्य-ज्ञानजननद्वाराऽस्तु भ्रमोपयोगिता । आरोप्यज्ञानं च स्मरणरूपमिति न कश्चिद्दोषः । न च भ्रमे आरोप्यज्ञानं न कारणमिति वाच्यम् । अन्वयव्यतिरेकसिद्धत्वात् । न चारोपस्यासत्यत्वात् तस्य च प्रागननुभवात् कथं संस्कारस्य तत्स्मारकत्वमिति वाच्यम् । लाघवेनारोप्यतावच्छेदकप्रकारकज्ञानस्यैव भ्रमकारणत्वेन तादृशस्य सत्यरजतानु-भवसाध्यत्वसम्भवेनोक्तदोषाभावात् । समानविषयकत्वस्य गौरवेण त्याज्यत्वात् । एतेन संस्कारस्तात्विकरजतादिगोचर एव प्राथमिकरजतादिभ्रमे प्रयोजकः । स चासद्रूप्य-शशशृृङ्गादिसर्वसाधारण एव तदविषयत्वाविशेषात् । तथा च कथं च नियामक इति परास्तम् । असद्रूप्याविषयत्वेऽप्यारोपसमानप्रकारकत्वेन रजतसंस्कारस्य रजतारोप-प्रयोजकत्वं न शशशृृङ्गारोपप्रयोजकत्वमिति व्यवस्थोपपत्तेः । भिन्नविषयकव्याप्ति-स्मृतेरनुमिताविव शक्तिग्रहस्य शाब्दानुभव इव भिन्नविषयकस्यापि प्रयोजकत्वोपपत्तेः । न ह्यावयोर्मते सामान्यलक्षणा अस्ति । तथा च शशशृृङ्गादिविषयारोपे संस्कारसाचि-व्याभावादिति यदुक्तं न साधूक्तम् । किञ्चासद्विशेषस्यास्तु भ्रान्तिविषयत्वम् । न च सविशेषत्वे सत्त्वायोग इति वाच्यम् । असतः सविशेषत्वस्यावश्यमङ्गीकार्यत्वादित्याह ।। असत इति ।। प्रतीत्यविशेषेऽन्यविशेषमङ्गीकृत्य विशेषान्तरानङ्गीकरणे हेत्वभावादिति भावः ।। नृशृृङ्गेति ।। न च शशशब्दस्य नृशब्दभ्रमदशायां नृशृृङ्गशब्देनेव शशशृृङ्ग-शब्देनापि नृशृृङ्गस्य प्रतीयमानत्वेन नृशृृङ्गादिशब्देनैव प्रतीयमानत्वरूपो विशेषोऽसिद्ध इति वाच्यम् । अभ्रमदशाविशिष्टस्यैव प्रतीयमानत्वस्य विशेषव्यवस्थापकत्वात् । अन्यथा घटादावपि घटादिशब्दैरेव प्रतीयमानत्वादिरूपो विशेषो न स्यात् । घटस्य पटत्व-भ्रमदशायां घटशब्देन पटस्य प्रतीयमानत्वादिति तत्रापि वक्तुं शक्यत्वात् । न चैवमेवेति वाच्यम् । घटादेर्घटत्वादिरूपोऽपि विशेषो न स्यात् । भ्रमदशायामन्यथाप्रतीयमानत्वादिति यत्किञ्चिदेतत् ।। एतेनेति ।। असतोऽपि धर्माश्रयत्वप्रतिपादनेनेत्यर्थः । यद्वा परोक्ष-प्रतीतिविषयत्वाङ्गीकारेणेत्यर्थः । एतदेव स्पष्टयति ।। अतीतादेरिति ।। अन्यथेति ।। सत्त्वेन भ्रान्तेः सत्त्वसापेक्षत्व इत्यर्थः । तथा च त्वन्मतेऽपि रूप्यविषयिणी सत्त्वभ्रान्तिर्न स्यात् । तस्य सद्विलक्षणतया सत्त्वाभावेन सता ज्ञानादिना सम्बन्धाभावादित्यर्थः ।

ननु सम्बन्धादावसद्वैलक्षण्यमेव प्रयोजकं न सत्त्वमित्यत आह ।। सम्बन्धा-दाविति ।। उपलक्षणमेतत् । लाघवेनासत्त्वाभावस्यैव सत्त्वादित्यपि द्रष्टव्यम् । ननु तथाप्यसदपरोक्षप्रतीतौ कारणाभावात् कथमपरोक्षप्रतीतिरित्यत आह ।। दुष्टादिति ।। न च तदिन्द्रियसन्निकर्षस्य तत्प्रत्यक्षे कारणत्वात् तदभावे कथं तत्प्रत्यक्षमिति वाच्यम् । दत्तोत्तरत्वादित्यलम् । उक्तन्यायमन्यत्रातिदिशति एतेनेति । एतेनेति परामृष्टहेतुमाह ।। इदमंशस्येति ।। न च सामग्रीविरहात् कथं तथाप्रतीतिरिति वाच्यम् । तस्या उपपादयिष्यमाणत्वात् उपपदितत्वाच्चेति भावः ।। अपरोक्षप्रमाया एवेति ।। वस्तुतस्तु विषयस्य क्वापि प्रत्यक्षे न हेतुत्वम् । सन्निकर्षहेतुत्वेनान्यथासिद्धत्वात् । अत एव यत्रार्थं विनापि सन्निकर्षस्तत्र तं विनापि प्रत्यक्षोदयः प्रत्यभिज्ञादौ । तथाचार्थस्याकारणत्वा-त्तदभावेऽपि प्रत्यक्षोदयो युक्तः । सन्निकर्षोऽपि न यत्किञ्चित्सन्निकर्षः कारणम् । किन्तु विषयसन्निकर्षः । विषयश्च शुक्तिकैवेति तत्सन्निकर्षोऽस्त्येव यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तस्य तद्विषयत्वात् । तथा च भ्रमरूपेऽपि प्रत्यक्षे सर्वापि सामग््रयस्त्येवेति भावः । एतदेवाभिप्रेत्याह ।। रूप्येति ।। लेख्यसन्निकर्षः कारणं गौरवादिति भावः ।। अन्यथेति ।। यावदुल्लेख्यसन्निकर्षस्य कारणत्व इत्यर्थः । न च रजतज्ञानस्य साक्षिरूपत्वात् नार्थादिजन्यत्वमिति वाच्यम् । रजतज्ञानस्य साक्षिरूपत्वासम्मतेः । चक्षुषा रजतमद्राक्ष-मित्यनुभवेन चाक्षुषत्वस्यैव युक्तत्वादिति भावः । किञ्च प्रतीयमानस्य रजतस्य सत्त्वप्रातिभासिकत्वयोरनुपपत्तेरसत्वमेवासेयम् । तथा च कथमसतः सत्त्वेनाप्रतीतिरित्याह ।। किञ्चेति ।। प्रकारान्तरेणानवस्थामाह ।। एवं रूप्यमिति ।। टीकोक्तानवस्थायां प्रतिबन्दिं परिहर्तुमनुवदति ।। टीकायान्त्विति ।। टीकायान्त्वित्युक्तमिति सम्बन्धः ।। न चेति ।। टीकोक्तानवस्थापक्ष इत्यर्थः ।। मन्मत इति ।। न च सत्त्वस्य सत्त्वेनाप्रतीतौ कथं व्यवहार इति वाच्यम् । घटोऽयमित्यादौ घटत्वादौ घटत्वादेः स्वरूपेण प्रतीत्या घट इत्यादि व्यवहारवत् सत्त्वस्यापि स्वरूपेण प्रतीत्या व्यवहारोपपत्तेः । न च स्वरूपमपि न सदिति वाच्यम् । दोषवशादसत एव प्रतीत्युपपत्तेः । न च सत्त्वस्य सत्त्वासत्त्वौदासीन्येन कथं तस्यासत्त्वसिद्धिरिति वाच्यम् । बाधकप्रत्ययेन तत्सिद्ध्युप-पत्तेरिति । उपलक्षणमेतत् । त्वन्मते सत्त्वावान्तरप्रातिभासिकसत्त्ववत् मन्मतेऽ-सत्वावान्तरासत्त्वाभावात् त्वन्मते सदित्युक्तौ प्रातिभासिकत्वादिसन्देहवत् शृृङ्गमित्युक्तौ नृशृृङ्गसन्देहवत् मन्मतेऽसत्त्वमित्युक्तौ असत्सत्त्वसन्देहाभावात् न प्रवृत्यनुपपत्तिरित्याद्यपि द्रष्टव्यम् ।। किञ्चेति ।। न चेष्टापत्तिः । चतुर्थप्रकाराभावेन पञ्चमप्रकाराभावप्रसङ्गात् ।

नन्वेवं सदसदात्मकत्वे सद्रूप्यमिति भ्रमो न स्यात् । तस्य सत्त्वात् सति सत्त्वज्ञानस्य यथार्थत्वादित्यत आह ।। असदेवेति ।। तथा चासद्वैलक्षण्यविषयत्वेन भ्रमत्वोपपत्तिरिति भावः । न चैवं बाधकेन भ्रमविषयानपहारे तस्य बाधकत्वमनुपपन्नमिति वाच्यम् । भ्रमविषयीकृतासद्वै लक्षण्याभावविषयत्वेन तदपहारसम्भवात् । न चागृहीता सत्त्वस्यापि सद्रूप्यमिति प्रतीतेर्नासद्वैलक्षण्यं भ्रमविषयः । न ह्येवमगृहीतसत्त्वस्यासदेवेति बुद्धिरस्त्यतः सत्त्वाभावविषयत्वं बाधकस्य युक्तमिति वाच्यम् । न ह्यसत्त्वाभावत्वप्रकारक-प्रतीतिमापादयामो येनासत्त्वज्ञानं विनापि सदिति बुद्धेर्जायमानत्वात् असत्वाभावविषयत्वं न स्यात् । तदभावत्वप्रकारकज्ञाने हि तत्प्रतियोगिज्ञानापेक्षा न तु स्वरूपेण न वान्य-प्रकारेण ज्ञाने । अन्यथा प्रमेयत्वेनाभावज्ञानेऽपि तदपेक्षा स्यात् । प्रकृते चासत्त्वाभावः स्वरूपेण भासते इति काऽनुपपत्तिः । न हि सदित्यत्र सत्वेऽपि धर्मान्तरमवभासते । न ह्यसत्त्वं सत्त्वाभावरूपं येनासत्त्वज्ञानं सत्त्वज्ञानपूर्वकं स्यात् । सार्वदैशिकसार्वकालिक-निषेधप्रतियोगित्वस्यैवासत्त्वात्तदभावरूपत्वाच्च सत्त्वस्य तज्ज्ञानस्यैवासत्त्वज्ञानपूर्वकत्वमिति वैपरीत्यमेवेति । प्रकारान्तरेण भ्रमत्वं समर्थयते ।। यद्वेति ।।

नन्वेवं सदिति प्रतीतेर्भ्रान्तित्वं न स्यादित्यत आह ।। भ्रान्तित्वे चेति ।। अन्यथेति ।। एकैकात्मकत्वे विरोधादुभयबहिर्भावश्चेदित्यर्थः । न चेष्टापत्तिः । यथा-कथञ्चिदुभयत्वोपपत्तौ उभयबहिर्भावस्यायुक्तत्वात् । एकस्य तूभयत्वे संयोगपृथत्त्क-मित्यधिकरणविरोधश्च ।। अनिर्वाच्यत्वाभाव एवेति ।। सदसदात्मकत्वापत्येत्यर्थः ।। बाधप्रतीत्योश्चेति ।। न च सत्त्वासत्त्वे न प्रतीतिबाध प्रयोजके । शुक्तिरजतस्य सत्त्वाभावेऽपि प्रतीयमानत्वात् । शशविषाणादेश्चासतो बाधादर्शनादिति वाच्यम् । एवं हि सद्विलक्षणत्वमपि बाधकं न स्यात् शशविषाणादेस्तददर्शनात् । सद्विलक्षणविशेषस्य तथात्वेऽसद्विशेषस्यैव तथात्वमस्तु । असत एव बाध्यत्वस्य समर्थितत्वाच्च ।

एवमसद्विलक्षणमपि न प्रतीतिप्रयोजकम् । ब्रह्मणोऽसद्विलक्षणत्वेऽप्यवेद्यत्वेन प्रतीत्य-भावात् । ब्रह्म वृत्तिव्याप्यमपि नेति सर्वथायोगाच्च । तस्मात् सत्वासत्वे एव प्रतीतिबाधप्रयोजके लाघवादिति साधूक्तम् । नन्वेवं शशशृृङ्गादेरपि बाधः स्यादित्यत आह ।। नृशृृङ्गादाविति ।। प्रसक्तिसत्त्वे बाधस्येष्टत्वादिति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति ।। एवञ्चेति ।।

न्यायामृतप्रकाशः

साध्यावैशिष्ट्यपरिहारायाह ।। अबाध्यतावच्छेदकेति ।। प्रामाणिकत्वादित्यर्थः ।। व्यभिचारादिति ।। सत्ताजातिमतोऽर्थाक्रियाकारणस्य च प्रपञ्चस्य ब्रह्मज्ञानबाध्यत्वाङ्गी-कारादिति भावः । व्यवहारादिति भावः ।। व्यवहारेति ।। तथा च न व्यभिचार इति भावः नेह नानेति ।। नेह नानेति श्रुतिबाधेन जगतो यदनिर्वाच्यत्वं तदसिद्धेरित्यर्थः । तथा च ‘यत् सत् तद् व्यवहारदशायां न बाध्येत, बाध्यते चेदं व्यवहारदशायां तस्मात् सत् न’ इति विपर्ययपर्यवसानं विधाय व्यवहारदशायां बाध्यत्वेनानिर्वचनीयत्वं साधितं स्यादिति यत्’ तदयुक्तम् । नेह नानेति वेदान्तजन्यचरमसाक्षात्कारबाधेनैव जगतोऽनिर्वाच्यत्वमिति त्वन्मतभङ्गादिति भावः । यद्वा व्यवहारदशायां न बाध्येत इत्यत्र ‘नेह नानेति श्रुत्या न बाध्यते इत्यर्थो विवक्षितो वा ‘युक्त्या न बाध्येत’ इति वा ‘प्रत्यक्षेण न बाध्येत’ इति वा । नाद्य इत्याह ।। नेह नानेति ।। व्यवहारदशायां नेह नानेति श्रुत्या बाध्येत तस्मात् सत् न इति विपर्यपर्यवसानं विधेयम् । तन्न सम्भवति ।  नेहं नानेति श्रुतिबाधस्य चरमत्वेन व्यवहारदशायमिदानीमभावात् व्यावहारदशायां नेह नानेति श्रुतिबाध्यत्वाद्धेतो-रुच्यमानं यदनिर्वाच्यत्वं तस्यासिद्धेरित्यर्थः । न द्वितीयः, व्यभिचारादित्याह ।। व्यवहारेति ।। दृश्यत्वादियुक्तिभिः त्रैकालिकनिषेधप्रतियोगित्वरूपबाध्यत्वसाधनाङ्गीकारेण व्यवहारदशायामिदानीमपि युक्त्या बाध्यत्वस्य प्रपञ्चे त्वन्मते दर्शनेन व्यभिचार इत्यर्थः । न तृतीय इत्याह ।। प्रत्यक्षेति ।। व्यावहारिकप्रातिभासिकयोरुभयोरप्यनिर्वाच्यत्वसाधन-मपेक्षितम् । तत्र व्यवहारदशायां प्रत्यक्षतो न बाध्येतेति तर्केण व्यावहारिकप्रपञ्चे सत्व-राहित्यं न सिध्यति । चरमसाक्षात्कारबाध्यत्वेन विपर्ययपर्यवसानासम्भवात् । प्रातिभासिके तु न तत् सम्भवति । तत्र विपर्ययपर्यवसानायोगात् ।  परोक्षतोऽध्यस्ते प्रत्यक्षेण बाधा-भावात् अपरोक्षतोऽध्यस्ते नभोनैल्यादौ विभुत्वाद्यनुमानबाधस्यैव सत्त्वेन प्रत्यक्षेण बाधा-योगादित्यर्थः । अस्तु वा तर्केण सत्वराहित्यसिद्धिः, तथाऽपि नानिर्वाच्यत्वम् । सत्ताजातिराहित्येऽपि ब्रह्मवदनिर्वाच्यत्वाभावस्योपपत्तेरित्याह ।। सत्तादीति ।। किं च व्यवहारदशायां बाध्यत्वेनानिर्वाच्यत्वसाधनमयुक्तम् । यथेदानीं व्यवहारदशायामद्वैतस्य ‘द्वा सुपर्णा’ इत्यादिभेदश्रुतिबाधेऽपि पारमार्थिकत्वमङ्गीकृतं तद्वत् जगतोऽपि व्यवहारदशायां बाध्यत्वेऽपि पारमार्थिकसत्त्वमेवास्त्वित्याह ।। व्यवहारेति ।। विपर्ययपर्यवसानेऽ-प्रयोजकतेति भावः ।

ननु न साध्यावैशिष्ट्यं, ‘अबाध्यं चेत् अबाध्यमिति व्यवह्रियेत’ इति व्यवहार-स्यैवात्रापादानादित्यत आह ।। व्यवहारस्येति ।। शेषेति ।। ख्यात्यन्यथाऽनुपपत्त्याऽ-सद्व्यावृत्तिसाधनवैय्यर्थ्यमिति भावः । त्वन्मतेऽसतः प्रतिपन्नोपाधेरभावेन तस्मिन् त्रैकालिक-निषेधप्रतियोगित्वरूपबाध्यत्वानङ्गीकारे ‘सच्चेत् न बाध्येत’ इति बाध्यत्वेन सद्वैलक्षण्य-सिद्धिवत् ‘असच्चेत् न बाध्येत’ इति बाध्यत्वेनैवासद्वैलक्षण्यसिद्धेरुपपत्तेः तत्साधक-द्वितीयतर्कवैय्यर्थ्यमिति भावः । साध्यावैशिष्ट्यपरिहाराय सच्चेत्, अबाध्यत्वावच्छेदकावच्छिन्नं चेत् न बाध्येत इति विवक्षित चतुर्थपक्षोऽपि न युक्त इत्याह  ख्यात्यनुपपत्त्याऽ-सद्व्यावृत्तिसाधनरूपशेषवैय्यर्थ्यादेवेत्यर्थः ।। तदवच्छेदकस्येति ।। अबाध्यतावच्छेदक-स्येत्यर्थः । तथा चाबाध्यतावच्छेदकं प्रामाणिकत्वम् । तदवच्छिन्नं प्रामाणिकमित्यर्थः स्यात् । तथा च पञ्चमपक्षान्तर्भावः स्यात् । स च दूषयिष्यते इति भावः ।। बाध्य-स्यापीति ।। रूप्यादेरित्यर्थः ।। बाध्यत्वाकारेणेति ।। निषेध्यत्वेन रूपेण बाधरूप-प्रमाणविषयत्वरूपप्रामाणिकत्वादित्यर्थः । एवं च रूप्ये व्यभिचार इत्यर्थः । सत्त्वेन प्रामाणिकत्वं विवक्षितमिति न रूप्ये व्यभिचार इति चेत् तत्राह सत्त्वेनेति ।। आत्माश्रया-दिति ।। ‘सत् चेन्न बाध्येत’ इत्यत्रापादकीभूतं सत्वं नाम सत्त्वेन प्रमाणविषयत्वरूपं चेत् सत्त्वलक्षणमध्ये सत्वप्रवेशादात्माश्रय इत्यर्थः । किं च ‘प्रामाणिकं चेत् न बाध्येत’ इत्यत्र ब्रह्मगतनिर्विशेषत्वादिधर्मे व्याभिचार इत्याह ।। मानान्तरेति ।। प्रामाणिकत्वोपपादनायोक्तं तत्वावेदकेत्यादि ।। ‘केवलो निर्गुणश्च’ इति श्रुतिवेद्यत्वेनेत्यर्थः ।

ननु मानान्तरप्राप्तनिर्विशेषत्वानुवादित्वान्न स्वार्थे तात्पर्यमित्यत उक्तम् ।। मानान्त-रेति ।। आपाद्याभावमुपपादयति ।। ब्रह्मान्यत्वेनेति ।। भावाभावयोरैक्यायोगादित्यर्थः । विरुद्धत्वं चाह ।। अबाध्य इति ।। ननु प्रामाणिकत्वस्य कथं बाध्यत्वेनैव व्याप्तिरित्यत आह वैय्यर्थ्येनेति ।। व्यवहारादेरन्यथासिद्धत्वादिति भावः ।। प्रमाणेति ।। तथा चानधिगतार्थं गन्तृप्रमाणविषयत्वरूपप्रामाणिकत्वादिति भावः । तथा च प्रामाणिकत्वं प्रपञ्चमात्रवृत्तीति तर्कस्य विरुद्धत्वमिति द्रष्टव्यम् ।। रूप्यादीति ।। तत्वावेदकस्यैव बाधकप्रमाणस्य रूप्याद्यप्रामाणिकत्वे तन्त्रतया रूप्यादिबाधकस्य च ब्रह्मभिन्न-विषयतयाऽतत्त्वावेदकस्य रजताभावादिविषयकत्वेऽपि रूप्याद्यप्रमाणिकत्वानापादकत्वात् । अन्यथाऽतत्वावेदकप्रमाणबाधितस्याप्यप्रमाणिकत्वे ‘द्वा सुपर्णा सयुजा’ इत्याद्यतत्वावेदक-प्रमाणबाधितस्याद्वैतस्याप्रामाणिकत्वापत्तेः । तथा चातत्वावेदकप्रमाणबाधितत्वेना-प्रामाणिकत्वसाधनेऽद्वैते व्यभिचारेण विपर्ययपर्यवसानं न सम्भवतीति भावः । विपर्यय-पर्यववसानेऽप्रयोजकत्वं चाह ।। अतत्वेति ।। रूप्यादेः पक्षीभूतस्येत्यर्थः । पारमार्थिकत्वं, प्रामाणिकत्वम् । तदुपपादकं स्वत इति ।। ज्ञानमुत्पद्यमानं प्रमाणं सदेवोत्यापाद्यत इत्यङ्गीकारेण प्रामाण्यस्य स्वतस्त्वाङ्गीकारात् ‘इदं रजतम्’ इति ज्ञानस्यापि प्रामाण्यापत्या रूप्यादेरपि पारमार्थिकत्वोपपत्तेः । न च बाधेन रूप्यादिज्ञानस्य प्रामाण्यायोगात् रूप्यादेरपारमार्थिकत्वोपपत्तिरिति वाच्यम् । अतत्वावेदकव्यावहारिकप्रमाणबाधितत्वस्याद्वैत-व्यभिचारेणापारमार्थिकत्वानापादकत्वादिति भावः । रूप्यादेरपामार्थिकत्वेऽतत्वावेदक-व्यावहारिकप्रमाणबाधः प्रयोजकत्वेन नोच्यते, किं नाम नेह नानेति तत्वावेदकाद्वैतश्रुतिबाध एव । तस्याः ब्रह्मेतरसर्वनिषेधकत्वेन रूप्यादेरपि निषेधकत्वात् । औतस्य तु न तत्वावेदकप्रमाणबाधः । अतस्तस्य पारमार्थिकत्वमित्येवं रूप्यादेरद्वैताद्वैषम्यं स्यात् । एवं च ‘रूप्यादिकं प्रामाणिकं चेत् तत्वावेदकप्रमाणेन न बाध्येत’ इत्यापदनात् तत्र विपर्ययपर्यवसानसम्भवात् न दोष इत्याशंक्य निषेधति ।। न चास्येति ।। रूप्यादे-रित्यर्थः । कुतो न चेत्यत आह ।। तस्या इति ।। तथा हि भेदश्रुतेः प्रत्यक्षप्राप्त-व्यावहारिकभेदानुवादित्वान्न स्वार्थे तात्पर्यम् । एवं नेह नानेति श्रुतेः ‘नेदं रजतं’ इति प्रत्यक्षप्राप्तव्यावहारिकरूप्यनिषेधानुवादित्वेन स्वार्थे तात्पर्याभावान्न प्रामाण्यमिति बाधकत्वं न स्यादिति भावः ।। असत एवेति ।। इह ‘सत् चेत् न बाध्येत’ इति तर्के सत्शब्दार्थं विकल्प्य दूषणभीरुणा केनचित् सत्वं नाम ‘असत एव विलक्षणम्’ इत्युक्तम् । अत्राव-धारणाभावेऽसद्विलक्षणत्वरूपस्य सत्वलक्षणस्यानिर्वचनीयेऽतिव्याप्तिः स्यात् । अतोऽव-धारणम् । तस्य च सद्विलक्षणं न भवतीत्यर्थः । अतोऽसत एव विलक्षणत्वस्य न कुत्राप्यतिव्याप्तिरिति भावः । एतेनेत्युक्तं विशदयति ।। अवधारणस्येति ।। अत्र सत्वं नामसत एव विलक्षणत्वं, न तु सद्विलक्षणत्वम् । एवं च ‘सत् चेत्’ इत्यस्यासतो विलक्षणं न तु सतो विलक्षणं चेदित्यर्थः । तत्र न नञः चेदित्यनेन सम्बन्धे तस्य च प्रत्येकं सम्बन्धे सति ‘असतो विलक्षणं सतश्च विलक्षणं न चेत्’ इत्यर्थः । तथा च ‘सद-सद्विलक्षणं न चेत् इति यावत्’ इति पर्यवस्यति । तथा च निषेधप्रतियोगिनः सदसद्वै-लक्षण्यस्य कुत्राप्यसिद्धत्वादापादाकासिद्धिरिति सम्प्रदायः ।। बाधेनैवेति ।। ‘सत् चेन्न बाध्येत’ इत्यस्य सदसद्विलक्षणं न चेत् न बाध्येतेत्यर्थे पर्यवसानात् बाध्यते चेदं तस्मात् सदसद्विलक्षणं नेति न, किन्तु सदसद्विलक्षणमेवेति बाधान्यथाऽनुपपत्त्यैव सदसद्वैलक्षण्य-रूपानिर्वाच्यत्वसिद्धेः ख्यात्यन्यथाऽनुपपत्तिरूपद्वितीयतर्कोक्तिर्व्यर्थेत्यर्थः ।। घट्टकुटीति ।। सत् चेत् न बाध्येतेत्यत्र सत्वनिरुक्तिरूपविकल्पभीरुणाऽसत एव विलक्षणं सद् विवक्षित-मित्युक्तम् । तत्रावधारणार्थविचारे सत् चेदित्यस्य सदसद्विलक्षणं न चेदित्यर्थपर्यवसाने प्राप्ते तत्राप्यापादकप्रविष्टसत्त्वं नाम किम्? सत्ताजात्यादिमत्वं चेत् प्रपञ्चे सत्ताजात्यादि-मद्वैलक्षण्याभावत्वेऽपि बाध्यत्वस्यैव सत्वाद् व्यभिचार इत्येवमादिपूर्वविकल्प दूषणप्रसरेण घट्टकुट्टीप्रभातवृत्तान्त इत्यर्थः । अयं च न्यायः पूर्वमेव वर्णितः ।। उक्तरीत्येति ।। ‘रूप्यं नष्टं’ इत्यप्रतीत्या ज्ञानजन्यध्वंसप्रतियोगित्वाभावेनेष्टापत्तेरित्यर्थः । असद्विलक्षणत्वपक्ष इति बाध्यत्वेन सद्वैलक्षण्यं यस्य रूप्यादेः सिषाधयिषितं तस्यैवासद्वैलक्षण्यमङ्गीकर्तुस्तव मत इत्यर्थः । तथा च सत् चेत् न बाध्येतेत्यस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न स्यात् । अत्र चेदं बाध्यते, अतः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि इति विपर्यय-पर्यवसानम् । तन्न सम्भवति । मिथ्यात्वभङ्गे उक्तरीत्या प्रतिपन्नोपाधौ त्रैकालिक-निषेधप्रतियोगित्वेऽसत्वस्यैव प्राप्तेः । रूप्यादेश्चासद्वैलक्षण्याङ्गीकारात् । अतो न विपर्यय-पर्यवसानं युक्तमित्यर्थः ।

एवं ‘सत् चेत् न बाध्येत’ इति तर्कं निराकृत्य ‘असत् चेत् न प्रतीयेत’ इति द्वितीयतर्कं दूषयितुमसत्शब्दार्थं विकल्पयति ।। एवमिति ।। साध्यावैशिष्ट्यपरिहारायाह ।। निरुपाख्यत्वेति ।। अवच्छेदकं निःस्वरूपत्वम् ।। सत्ताहीनस्यापीति ।। सत्ताजाति-हीनस्यापीत्यर्थः ।। विपर्ययेति ।। सत्ताजातिहीनस्यैवासत्त्वेन ‘असन्न भवति’ इत्युक्तेः सत्ताजातिहीनं न भवतीत्यर्थप्राप्त्या रूप्यादौ सत्ताजातिमत्वस्यैव प्राप्तेः तस्य च बाधात् न विपर्ययपर्यवसानमित्यर्थः ।। अत एवेति ।। रूप्यादौ बाध्यत्वरूपासत्वस्यैव सत्वेन ‘असन्न भवति’ इति विपर्ययपर्यवसानाभावादेवेत्यर्थः ।। तस्येति ।। निरुपाख्यता-वच्छेदकस्येत्यर्थः । तथा च निरूपाख्यातावच्छेदकं निस्वरूपत्वं, तदवच्छिन्नं निःखरूप-मित्यर्थः स्यात् । एवं च पञ्चमपक्षान्तर्भावः स्यात् । स च दूषयिष्यत इति भावः । नन्वस्तु निरूपाख्यातावच्छेदकं निःस्वरूपत्वातिरिक्तं यत्किञ्चित् । तथापि निरूपाख्यतावच्छेदका-वच्छिन्नं निरूपाख्यमेव पर्यवस्यति, नान्यम् । यथा कारणतावच्छेदकावच्छिन्नस्य कारण-त्वम् । तथा च नास्यापादकत्वं युक्तम् । ‘रूप्यम् असत् चेत्’ इत्यस्य निरूपाख्यं चेदित्यर्थः पर्यवस्यति । निरूपाख्यत्वं नामाज्ञायमानत्वम् । तथा च रूप्यं निरूपाख्यं चेदित्यस्याज्ञायमानं चेदित्यर्थः स्यात् । एवं च रूप्येऽज्ञायमानत्वरूपापादकस्यासिद्धिः । न चासतो रूप्यस्य कथं प्रतीतिरिति वाच्यम् । असत एव ख्यातेर्मयाऽङ्गीकारादित्याशयेनाह ।। असत एवेति ।। इदमुपलक्षणम् । रूप्यं निरूपाख्यमज्ञायमानं चेत् न प्रतीयेतेति  साध्यावैशिष्ट्यं च द्रष्टव्यम् ।। पारमार्थिकत्वाकारेणेति ।। रूप्यस्य बाध्यत्वं त्वयाऽङ्गीकृतम् । तद् बाध्यत्वं तावन्निरुच्यताम् । तद्धि न तावत् त्रैकालिकनिषेध-प्रतियोगित्वम् । निधर्मकस्य ब्रह्मणोऽपि पारमार्थिकत्वाकारेण त्रैकालिकनिषेधप्रतियोगि-त्वात् । अतोऽनिर्वाच्यस्य रूप्यस्य स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वमेव बाध्यत्वं वाच्यम् । तथा च रूप्यमसत् चेत् न प्रतीयेतेत्यत्रासत्वं नाम निःखरूपत्वं चेत् तर्हि तत् निर्वक्तव्यम् । पारमार्थिकत्वाकारेण त्रैकालिकनिषेधप्रतियोगित्वं चेत् ब्रह्मणोऽपि निःस्वरूपत्वापत्तिः । स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वं चेत् तर्हि शशशृङ्गादीनामपि स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वात् अन्यस्य निःस्वरूपत्वस्याभावात्, एवं च त्वया रूप्यस्य यदा स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वं बाध्यत्वमङ्गीकृतं तदेदमेव निःस्वरूपत्वापरपर्यायमसत्वमिति तदप्यङ्गीकृतं स्यात् । तथा चासन्न भवतीति विपर्यय-पर्यवसानायोग इत्यर्थः । अभावाभावो भावो वा, तद्व्याप्यो वा इति मतद्वयसद्भावादाह ।। सत्वाभावतद्व्याप्यान्यतरदिति ।। सत्वाभावप्रकारकप्रमाविशेष्यकत्वादिरूपः सत्वाभाव-व्याप्तौ धर्मौ द्रष्टव्यः ।। न विपर्यय इति ।। रूप्यमसत् चेत् सत्वाभाववत् चेत् न प्रतीयेत, प्रतीयते च तस्मात् सत्वाभाववत् नेति विपर्ययपर्यवसानमयुक्तम् । सदसद्विलक्षण-रूपमनिर्वचनीयमेव रूप्यं ख्यायत इति मते रूप्ये सत्वाभावस्यैव सत्वादिति भावः ।। अन्यच्चेदिति ।। सत्वाभावातिरिक्तं स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वरूपं चेत् तर्हि उक्तरीत्या यदैतादृशबाध्यत्वं रूप्यस्याङ्गीकृतं तदेवेदमसत्वमिति तदप्यङ्गीकृतं स्यात् ।  तथा च विपर्ययपर्यवसानायोगेनाङ्गविकलतया तर्कस्याभासत्वप्राप्त्येष्टापत्तिरित्यर्थः । एवमसत् चेदित्यापादकं दूषयित्वा ‘न प्रतीयेत’ इत्यापाद्यं दूषयति ।। एवमिति ।। ज्ञाना-योगादिति ।। प्रतियोगिज्ञानाभावादिति भावः  ।। असदिति ।। असतोऽप्रतीतौ असन्न प्रतीयते इत्यसद्विषयकप्रतीतिनिरासो न भवति । विशेषणज्ञानाभावादिति भावः । अस-त्प्रतीत्यनङ्गीकारे दूषणान्तरं चाह ।। असदिति ।। अनर्थकत्वे असद्रूपार्थप्रतीतिजनकत्वा-भावे असत्प्रतीतिजनकत्वाभावे असन्न प्रतीयते’ इति वाक्यस्याबोधकत्वं स्यात् ।

ननु न प्रतीयते इति पदयोः तावत् स्वार्थप्रतीतिजनकत्वात् ‘असन्न प्रतीयते’ इति वाक्यस्य संसर्गबोधकत्वं युक्तमित्यत उक्तम्’ ।। प्रयुक्तेति ।। वाक्यप्रयुक्तपदानां सर्वेषां सम्भूय संसर्गबोधनरूपैकार्थकारित्वनियमात् असत्पदस्यासत्प्रतीत्यजनकत्वे सर्वेषां पदानां सम्भूय संसर्गबोधकत्वाभावेनासत्कर्मकप्रतीत्यभावरूपसंसर्गबोधकत्वम् ‘असन्न प्रतीयते’ इति वाक्यस्य न स्यादित्यर्थः ।। असद्व्यवहारेति ।। असद्विशिष्टव्यवहारेत्यर्थः । व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादित्यर्थः ।। सा किमिति ।। तथा च ‘असत् चेत् असत्त्वेन न प्रतीयेत इत्यर्थो वा सत्त्वेन भ्रमो न स्यात् इत्यर्थो वा विवक्षित इत्यर्थः ।। उक्तन्यायेनेति ।। असद्व्यवहारानुपपत्यादिनेत्यर्थः । सतः शुक्त्यादेः अन्यथा सतः सत्त्वेन प्रतीतौ भ्रान्तित्वं न स्यादिति भावः ।। अरूप्यस्येति ।। यथाऽरूप्यस्यैव शुक्तिकाशकलस्य रूप्यत्वेन प्रतीतिर्भ्रान्तित्वादेवोपपद्यते, एवं भ्रान्तित्वादेवासतोऽपि सत्त्वेन प्रतीतिसम्भवात् तर्केऽप्रयोजकतेत्यर्थः । असत एव सत्वभ्रमाधिष्ठानत्वोक्त्याऽधिष्ठानं सदेवेति नास्मन्मते नियतमित्यवधेयमित्याह ।।  तदुक्तमिति ।। इतोऽप्यसतः प्रतीत्यङ्गीकार्येत्याह ।। येनेति ।। नन्वयोग्यतानिश्चयस्य प्रतिबन्धकत्वात् कथं सत्वप्रकारकज्ञानोत्पत्तिरित्यत उक्तम् ।। येनेति ।। अयोग्यतानिश्चयाभावदशायामित्यर्थः । ज्ञानोत्पत्तेः सत्वप्रकारकज्ञानोत्पत्तेः ।

ननु शशशृङ्गमस्तीति वाक्यात् निरर्थकवाक्येष्विव पदार्थज्ञानमेव न भवति । सत्यपि पदार्थज्ञानेऽपार्थकेष्विवान्वयधीरेव वा न भवतीति चेत् तत्राह ।। न हीति ।। अपार्थकेषु अनन्वितेषु इत्यर्थः । अनन्वितार्थकमिति भावः । कुतो न हीत्यतः शशशृंगमस्तीत्यादि-विपरीतबोधकवाक्येष्वपि शाब्दबोधसामग्रीं व्युत्पादयति ।। विपरीतेति ।। अयोग्यतेति ।। अवास्तवयोग्यतेत्यर्थः ।। योग्यतेति ।। अत एव पूर्वं येन पुंसा शशशृंगाभावो न निश्चितः इत्युक्तमिति ध्येयम् । अन्यथा, ज्ञानस्यैवानुत्पादे ।। प्रवृत्यादेरिति ।। शृङ्गार्थिन इति शेषः । आदिपदेन व्यवहारग्रहणम् । प्रवृत्यादेः ज्ञानसाध्यत्वेन तदभावेऽयोगादिति भावः । वास्तवाकांक्षासन्निध्योरिव सत्या एव योग्यताया वाक्यात् वाक्यार्थज्ञानोत्पत्तौ हेतुत्वात् शशशृङ्गमस्तीति वाक्यात् न ज्ञानोत्पत्तिरित्यत आह ।। योग्यतेति ।। तद्धीनात् योग्य-ताहीनात् ।। बधिरेति ।। बधिराणां कलहेन तुल्या कथा स्यादित्यर्थः । वाक्यार्थज्ञान-हेतुभूतवास्तवयोग्यताया प्रतिवादिवाक्येऽभावेन प्रतिवादिवाक्यात् ज्ञानस्यैवानुत्पत्तेरिति भावः ।। विकल्पमात्रमेवेति ।। न ज्ञानमित्यर्थः ।। शाब्दज्ञानानुपातीति ।। शब्दजन्यज्ञान-सदृश इत्यर्थः । अत्र विकल्पस्येच्छादिवत् ज्ञानान्यवृत्त्यन्तरत्वमभिप्रेतम्? ज्ञानविशेषत्वमेव वा? नाद्य इत्याह ।। विकल्पस्येति ।। वृत्त्यन्तरत्वे अन्तःकरणवृत्यन्तरत्व इत्यर्थः ।। अनुभवेति ।। शशविषाणशब्दात् शशविषाणं जानामीत्यनुभवविरोधादित्यर्थः ।। प्रवृत्तीति ।। ज्ञानस्यैव प्रवर्तकत्वादिति भावः । प्रवृत्त्ययोगमेवोपपादयति ।। हीति ।। अनुभूयत इति ।। येन प्रवृत्तिर्न स्यादिति भावः । किं चासति इच्छादिरूपान्तःकरण-वृत्त्यन्तरवदिच्छादिवद्वा ज्ञानमेवाङ्गीक्रियताम् । न तु तदतिरिक्ते विकल्प इत्याह ।। असतीति ।। अन्यथेति ।। विकल्पमात्रमित्यङ्गीकृत्य ज्ञानानङ्गीकार इत्यर्थः ।। स्यादिति ।। प्रतीत्यन्यथाऽनुपपत्त्या रूप्यादेरसद्वैलक्षण्यं न सिध्येदिति भावः । द्वितीये त्वाह ।। विकल्पस्येति ।। अनुभवेति ।। ज्ञाने शशशृङ्गोल्लेखित्वावगाहिना शशशृङ्गं जानामीत्यनु-भवेन विरोधादित्यर्थः ।। व्यवहारेति ।। शशशृङ्गोल्लेखिव्यवहारेत्यर्थः । अनुभवविरोधमेवो-पपादयति ।। न हीति ।। कस्याप्यनुल्लेखितयाऽनुव्यवसायरूपानुभवविषयो व्यवसायो नानुभूयते । किन्तूल्लिखदेवानुभूयत इति भावः ।। सिद्धमिति ।। ज्ञाने उल्लिख्यमानस्यासत एव विषयत्वादिति भावः ।

ननु शशशृङ्गवाक्यात् जायमानशशशृङ्गप्रतीतिः नासत्शृङ्गविषयिणी येनासतः प्रतीतिः स्यात् । किं नाम सदसद्विलक्षणविषयिणी सेत्यत आह ।। न चेयमिति ।। अनिर्वाच्यत्व इति ।। सदसद्विलक्षणत्वेन रूप्यादितुल्यत्व इत्यर्थः ।। रूप्यादेरिति ।। रूप्यादेर-निर्वाच्यत्वं नाम असद्वैलक्षण्यं वक्तव्यम् । तत्र किमसत्, यद्वैलक्षण्यं रूप्यादेः स्यात् । शशशृृङ्गस्यासद्वैलक्षण्याङ्गीकारादिति भावः ।। तस्येति ।। निःखरूपशशशृृङ्गादिभिन्नस्य निरूपाख्यस्याभावेन बुद्धावनारोहात् तत्प्रतियोगिकवैलक्षण्यं न रूप्यादेर्ज्ञातुं शक्यमिति भावः ।। तादृशेति ।। शशशृृङ्गादिभिन्नं निरूपाख्यं किञ्चिदस्ति तद्वैलक्षण्यमेवानिर्वाच्यत्वं शशशृृङ्गादिवैलक्षण्यं तावन्न मन्तव्यम् तदेवचास्मन्मनोगतमिति भावः । किञ्च शशशृृङ्ग-मस्तीति वाक्यात् जायमानं ज्ञानं नानिर्वाच्यविषयकम् । न च शृृङ्गस्यानिर्वाच्यत्वात् तद्विषयकं भवत्येवेति वाच्यम् । शशशृृङ्गमसदिति वाक्यात् यथाऽसदेव शृृङ्गं प्रतीयते एवं शृृङ्गमस्तीति वाक्यात् अनिर्वाच्यतयाध्यस्तास्तित्वाधिकरणीभूतं शशशृृङ्गमसदेव प्रतीयते इत्यङ्गीकार्यम् । न चासतः कथं प्रतीतिरिति वाच्यम् । अर्थे अत्यन्तमसत्यपि तद्विषये शब्दो ज्ञानं करोति इति त्वदङ्गीकारात् । अतोऽसत् चेत् न प्रतीयेतेति तर्के व्यभिचार इत्याह ।। अत्यन्तेति ।। इतोऽपि व्यभिचार इत्याह ।। तद्धैक इति ।। एतेनेति ।। अत्यन्तासत्यपि ज्ञानजनकत्वेनेत्यर्थः ।। निश्चितेति ।। शशाधिकरणकशृृङ्गाधेयकसंसर्ग-रूपान्वयाभावस्य निश्चितत्वात् शशशृङ्गशब्दोऽपार्थक इत्यर्थः । यद्यपि मणौ व्योमकमल-शब्दोऽनिश्चितान्वयत्वादपार्थक इत्युक्तम् । तथाऽपि व्योमकमलशब्दोऽत्र ग्रन्थेऽप्रस्तुतः । परोक्षतः प्रतीयमानत्वं, यन्निषेधप्रतियोगित्वरूपमसत्वं न सिद्ध्येदिति भावः ।

नन्वत्र निषेध्यतयाऽसतोऽपरोक्षप्रतीतिविषयत्वेऽपि असत् चेदनिषेध्यतयाऽपरोक्षतो न प्रतीयेतेति विशेषणान्न दोष इति चेन्न । अस्यापि चतुर्थपक्षदूषणेनैव दूषयिष्यमाणत्वादिति ध्येयम् । ‘सत्त्वेनापरोक्षप्रतीतिर्वेति चतुर्थपक्षोऽपि नेत्याह ।। न चतुर्थ इति ।। भ्रान्ति-त्वादेवेति ।। रूप्यमसत् चेत् सत्वेनापरोक्षतो न प्रतीयेतेत्यापादानं न युक्तम् । भ्रान्तित्वादेवासतोऽपि सत्वेन प्रतीत्युपपत्त्याऽप्रयोजकत्वात् । अन्यथा भ्रान्तित्वमेव न स्यात् । असतः सत्त्वेनापरोक्षतः पतीतेरेव भ्रान्तित्वादित्यर्थः । सदविषयकस्य पक्षत्वे ज्ञानसामान्यस्य भ्रमस्यैव पक्षत्वे भ्रमस्याधिष्टानरूपसद्विषयकत्वेनाश्रयविशेषमासिद्धिर्माभूदिति मात्रपदम् । भ्रमः भ्रमरूपज्ञानम् ।। असदिति ।। असद्विषयकपरोक्षभ्रमवदित्यर्थः । न चात्र शाब्दत्वमुपाधिरिति वाच्यम् । असद्विषयकभ्रमरूपानुमितौ साध्याव्यापकत्वादिति द्रष्टव्यम् । नन्वसद्विशेषस्य रूप्यादेरेवापरोक्षप्रतीतिरङ्गीक्रियते ।

नासतः शशशृृङ्गादेरित्याशङ्क्य निराकरोति ।। न चेति ।। कुतो न चेत्यत आह ।। सद्विषत्वेति ।। असतोऽप्यवान्तरविशेषत्वे पृथिव्यादिवत् सत्त्वापत्तेः । अतः कस्याप्य-सतोऽपरोक्षप्रतीतिविषयत्वं नास्तीत्यर्थः ।। साचिव्याभावादिति ।। प्रधानप्रमाजन्यसंस्कारो भ्रमहेतुः । रूप्यादिभ्रमहेतुदुष्टेन्द्रियसचिवश्च संस्कारः प्रधानभूतापणस्थ, रूप्यप्रमाजन्यः न ह्यत्र प्रधानभूतं शशशृृङ्गंमस्ति येन तत्प्रमाजन्यसंस्कारसचिवदुष्टेन्द्रियेण शशशृृङ्ग•परोक्षभ्रमः स्यादित्यर्थः । किञ्चासतोऽप्यपरोक्षप्रतीतिविषयत्वे शशशृंगादेरपि सा स्यादित्यापादनं न युक्तम् । असद्विशेषस्य रूप्यादेरेवापरोक्षप्रतीतिविषयत्वाङ्गीकारात् ।

नन्वसतोऽपि सद्विशेषत्वेऽसत्वायोग इति चेन्न । असत्यपि विशेषाणामनुभूयमानत्वात् । तेषां च वैज्ञानिकानां सत्वेऽपि धर्मिसत्त्वानपेक्षणात् । तद्वदपरोक्षप्रतीतिविषयत्वरूप विशेषस्यासद्विशेषे वैज्ञानिकसम्बन्धेनोपपत्तेर्धमिसत्वानपक्षेण, तेन विशेषेणासत्वाव्याघाता-दित्याह ।। असत इत्यादिना ।। असत्वरूपेणेत्यादि तृतीयान्तानां ‘विशेषेणेव’ इत्य-नेनान्वयः ।। नृशृृङ्गादिशब्दैरेवेति ।। शब्दशक्तिभ्रमविरहकाले इति शेषः । तेन शशशब्दस्य नरि भ्रमदशायां नृशृृङ्गशब्देनेव शशशृृङ्गशब्देनापि नृशृृृङ्गस्य प्रतीयमानत्वेन नृशृृङ्गशब्देनैव प्रतीयमानत्वेन तस्याविशेष इति निरस्तम् । तथा च नृशृृङ्गशब्देनैव शृृङ्गपरोक्षप्रतीति-व्यवहारविषयत्वं नृशृृङ्गस्य । आदिपदेन शशशृृङ्गशब्देनैव परोक्षप्रतीतिव्यवहारविषयत्वं शशशृृङ्गस्य शशशृृङ्गशब्दस्यैव रूपेणेत्यर्थः । कदाचिदेव न सर्वदा ।। विशेषेणेवेति ।। विशेषेण बौद्धेन धर्मिसत्वानपेक्षेण असत्वाव्याघात इवेत्यर्थः ।। अनेनापीति ।। अपरोक्षधीविषयत्वरूपेणापीत्यर्थः ।। बौद्धेनेति ।। बुद्ध्यैव केवलमस्तीति बौद्धम् । ज्ञायमानेन वैज्ञानिकसम्बन्धेन विद्यमानेनेति यावत् । सर्वसामर्थ्येत्यादि विषयत्वानाश्रयत्वे हेतुः । सता ज्ञानेनासम्बन्धादिति ।। असतोऽपरोक्षधीविषयत्वे सता ज्ञानेन सम्बन्ध-मङ्गीकृत्य, तत्प्रयुक्तविषयत्वाश्रयत्वम्, असत् भाति, ज्ञायते इति भानकतृत्वकर्मत्वादिकं तस्मिन्नेव वक्तव्यम् । इदं चायुक्तं, सर्वसामर्थ्यहीनत्वादित्यर्थः। ततश्च ‘असत् नापरोक्षधी-विषयः, सर्वसामर्थ्यविधुरत्वात् व्यतिरेकेण घटवत्’ इत्यनुमानमुक्तं भवति । एतेनेत्युक्तं विशदयति । अतीतादेरित्यादिना ‘विषयत्वादिवत् विषयत्वादिरूपधर्माश्रयत्वादिवत् । परोक्षज्ञानम् अनुमित्यादिरूपम् ।। इहापीति ।। अपरोक्षज्ञान एवासद्विषयकत्वं, न त्वसति अपरोक्षज्ञानविषयत्वमित्यस्त्वित्यर्थः ।। तत्सत्वेति ।। स्मृत्यादिविषयत्वप्रतियोगित्वादि-धर्मजातं धर्मिसत्तासापेक्षं न भवतीत्यतोऽतीतादौ तदङ्गीक्रियते चेदित्यर्थः । इदमपि सत्वानपेक्षणात् विषयत्वमपि । तदेवोपपादयति ।। न हीति ।।

सत्वप्रकारकभ्रमरूपापरोक्षज्ञानं न रूप्यादिधर्मिसत्वसापेक्षमित्यर्थः ।। अन्यथेति ।। सत्त्वप्रकारकभ्रान्तेः रूप्यादिधर्मिसत्वसापेक्षत्वे । सद्विलक्षणत्वेऽपि सद्विलक्षणत्वमङ्गीकर्तु-स्तव मतेऽपि सा भान्तिर्न स्यात् । रूप्यादौ सत्वाभावसत्वादित्यर्थः । यदुक्तं रूप्यादेरसतः सता ज्ञानेनासम्बन्धात् भातीत्यादि भानकर्तृत्वाद्ययोग इति, तत् तव मतेऽपि समानम् । ननु मया रूप्यादेरसद्वैलक्षण्यङ्गीकारात् तस्य सता ज्ञानेन सम्बन्धे तन्त्रत्वात् युक्तं मन्मते रूप्यादेः भानकर्तृत्वादि इति चेत्, न सता ज्ञानेन सम्बन्धे असद्वैलक्षण्यादपि सत्त्वस्य तन्त्रत्वे लाघवात् रूप्यादेस्तदभावादुक्तदोष तदवस्थ एवेत्याह सम्बन्धादाविति ।। दुष्टा-दिति ।। स्वरूपयोग्यस्य सहकारिविशेषसमवधाने सति कार्यविशेषजनकत्वदर्शनादिति भावः । रूप्यादेरत्यन्तासत्त्वे रूप्यार्थिनस्तत्र प्रवृत्ययोगात् तदन्यथाऽनुपपत्त्याऽसद्वैलक्षण्य-मङ्गीकार्यमिति असद्वेैलक्षण्यसाधकार्थापत्त्यन्तरमप्यनेनैव निरस्तमित्याह ।। एतेनेति ।। एतेनेत्युक्तमेव विवृणोति ।। इदमंशस्येति ।। तदर्थीति ।। रूप्यार्थीत्यर्थः ।। प्रवृत्तीति ।। इष्टतावच्छेदकप्रकारकपुरोवृत्तिविशेष्यकज्ञानस्यैव प्रवर्तकत्वादिति भावः ।। उपपत्तेरिति ।। ततश्चार्थापत्तेरन्यथाऽप्युपपत्तिरिति भावः । अपरोक्षज्ञाने विषयस्य कारणत्वात् ‘अर्थादि-जन्यत्वादित्युक्तं वर्तमानार्थप्रमायामिति द्रष्टव्यम् ।। हेतुत्वेति ।। अपरोक्षज्ञानजनक-त्वेत्यर्थः । अर्थादीत्यादिपदेनेन्द्रियार्थसन्निकर्षग्रहणम् । अपरोक्षभ्रमस्तु नार्थेन्द्रियसन्निकर्षाभ्यां जन्य इति भावः । तथोक्तं गङ्गेशेन ‘असन्निकृष्टमपि दोषाद्भासत इत्युपेयम्’ इति । किञ्चेन्द्रियसन्निकर्षोऽप्यस्ति प्रकृत इत्याह ।। रूप्येति ।। अन्यथेति ।। अपरोक्षप्रमाया एवेन्द्रियसन्निकर्षादिजन्यत्वमनङ्गीकृत्यापरोक्षज्ञानमात्र सन्निकर्षस्य हेतुत्वाङ्गीकारे रूप्यस्य प्रातिभासिकत्वपक्षे प्रातिभासिकस्य रूप्यस्यापरोक्षधीर्न स्यादेव । कुत इति चेत् प्रतिभास-मात्रशरीरस्य रूप्यस्य स्वापरोक्षप्रतिभासात् पूर्वमभावेन सन्निकर्षासम्भवादित्यर्थः । असतः सत्त्वेनापरोक्षप्रतीत्युपपादनाय प्रवृत्तम् ‘अन्यथात्वमसत्’ इत्याद्यनुव्याख्यानं हृदि निधाय स्वयं तदर्थमाह ।। किञ्चेति ।। अन्यथात्वमित्यस्यार्थो अनिदंरूपे इत्यादि । अनिदंरूपे रूप्ये यदिदन्त्वं प्रतिभाति प्रातिभासिके च रूप्ये यद् व्यावहारिकत्वं भातीति सम्बन्धः  ।। न तावदिति ।। तथात्वे धर्मिणो रूप्यस्यापि सत्वप्रसङ्गादिति भावः । अनिर्वाच्यं सदसद्विलक्षणरूपं प्रातिभासिकम् । तथात्वे, अनिर्वाच्यत्वे ।। तस्येति ।। रूप्ये प्रतीतस्येतदन्त्वस्य व्यावहारिकत्वस्य च । सत्वप्रतीत्या भाव्यं कुतः? इत्यत उक्तम् ।। सदसद्वैलक्षण्यार्थमिति ।। रूप्यगतेदन्त्वादेरनिर्वाच्यत्वे असद्वैलक्षण्यात्, असद्वैलक्षण्यस्य चासत्वेन च न प्रतीतिरिति सत्वेन प्रतीतिरन्यथाऽनुपपत्यैव वक्तव्येति तयोः सत्त्वप्रतीत्या भाव्यमित्यर्थः । कुतस्तयोः सत्वप्रतीत्या भाव्यमित्यत्र युक्तिमाह ।। प्रातिभासिकसत्वाय चेति ।। इदन्त्वव्यावहारिकत्वयोरनिर्वाच्यत्वेन प्रातिभासिकत्वाङ्गीकारात् सत्वेन प्रतीतिं विना च प्रातिभासिकत्वासम्भवादित्यर्थः । ‘सत्वस्यासतः’ इत्यादेरर्थमाह ।। एवं तदपीति ।। रूप्ये प्रतीतेदन्त्वादौ यत् सत्वं प्रतीतं तस्य सत्वे रूप्यस्यापि सत्वापत्त्याऽनिर्वाच्यत्वं वाच्यम् । तस्याप्यनिर्वाच्यस्य प्रातिभासिकत्वाय सत्त्वान्तरवत्तया प्रतीतिर्वाच्येत्यनवस्था स्यादित्यर्थः । ‘अन्यथात्वमसत् तस्मात्’ इत्यस्याभिप्रायमाह ।। तस्मादिति ।। ते च सत्वे नापरोक्षे इति कथमसतः सत्वेनापरोक्षज्ञानाभाव इत्याशयः । अनिदंरूपे इदन्त्व-प्रकारकत्वेऽव्यावहारिके व्यावाहारिकत्वप्रकारकत्वे त्वन्यथात्वमित्युपपाद्यान्याकारत्व-मन्यथात्वमित्यर्थमभिप्रेत्योपपादयति ।। एवमिति ।। तयोरपीत्यादि ।। निषिध्यमान इदन्त्वपारमार्थिकत्वे पारमार्थिकसती वा असद्विलक्षणे वा असती वा । आद्ये स्वरूपेण निषेधायोगः । द्वितीयेऽसद्विलक्षणयोः स्वरूपेण निषेधायोगात् तयोरपि पारमार्थिकत्वाकारेणैव निषेधो वाच्यः । तद्गतपारमार्थिकत्वस्यापि असद्विलक्षणत्वे पुनः पारमार्थिकत्वाकारेणैव निषेधो वाच्यः इत्यनवस्थेत्यर्थः । तस्मात् तृतीयपक्ष एवाङ्गीकार्य इत्याह ।। तयोरसत्वं वाच्यमिति ।। ते चेति ।। रूप्ये निषिध्यमानेदन्त्वपारमार्थिकत्वे इत्यर्थः ।। अन्यथात्व-मिति ।।  अन्यप्रकारकत्वम् अन्याकारत्वं चान्यथात्वमित्यर्थः । तस्य प्रकारस्य आकारस्य च अत्रानिर्वचनीये रूप्ये प्रतीयमानयोरिदन्त्वव्यावहारिकत्वयोरसतोस्तत्र निषिध्यमानयोः पारमार्थिकत्वेदन्त्वाकारयोरसतोरेवापरोक्ष्यमानवस्थाभयात् परं प्रति स्वयमापादितम् । सुधायां तु प्रातिभासिके रूप्ये अन्यथात्वम् इदन्त्वं तावत् प्रतीयते । तत्रेदन्त्वेन प्रतीयमानस्य रूप्यस्य प्रातिभासिकस्य तथैव प्रतीतौ प्रवृत्त्ययोगात् व्यावहारिकतया प्रतीतिर्वाच्या । तद्व्यावहारिकतायाः सत्त्वे रूप्यस्य प्रातिभासिकत्वायोगात् असत्या एव तस्या आपरोक्ष्य-मायातम् । तस्या अप्यनिर्वाच्यत्वे तथैव तस्याः प्रतीतौ प्रवृत्त्ययोगात् अनिर्वाच्यायाः तस्या व्यावहारिकत्वेनापरोक्ष्यं वाच्यम् । अनिर्वचनीयव्यावहारिकतागतव्यावहारिकत्वस्य सत्त्वे तदाश्रयव्यावहारिकताया अनिर्वाच्यत्वायोगात् असदेव व्यावहारिकत्वमपरोक्षतया प्रतीयत इति वाच्यम् । तद्व्यावहारिकत्वस्याप्यनिर्वाच्यत्वे उक्तरीत्याऽनवस्थेत्येवं प्रातिभासिके रूप्ये यद्व्यावहारिकत्वं तस्यासत एव प्रतीत्यनङ्गीकारे सत्वपरम्परयाऽनवस्थेत्याह ।। टीकाया-न्त्विति ।। सत्वं व्यावहारिकत्वम् ।। सत्वायोगादिति ।। तथात्वे रूप्यस्यानिर्वाच्यत्व-विरोधात् । न हि यस्य सत्त्वं सत् तदनिर्वाच्यमिति सम्भवतीत्यर्थः ।। अनिर्वाच्यत्व इति ।। प्रातिभासिकत्व इत्यर्थः ।। प्रवृत्तीति ।। न हि प्रातिभासिकं क्वचिदर्थक्रिया-सूपयुज्यमानं दृष्टं येन तद्भावप्रतीत्यापि प्रवर्तेतेति भावः ।। सत्त्वेनेति ।। व्यावहारिकत्वे-नेत्यर्थः । तस्मिन्नपि सत्त्वे व्यावहारिकत्वे पक्षद्वयेऽपीदन्त्वव्यावहारिकत्वयोरेवासत्त्व-मभिप्रेतम् । तथाऽप्यनवस्थोपपादनभेदेन पक्षभेद इत्यवधेयम् । टीकाकाराणां व्याख्यानेऽनु-पपत्तिमाशङ्क्य परिहरति ।। न चेति ।। त्वत्पक्षेऽप्यनवस्थेति सम्बन्धः । मां प्रत्यापाद्यमानाऽनवस्था भवतामप्यायातीत्यर्थः । अनिर्वाच्यस्य रूप्यगतस्य प्रातिभासिक-सत्वस्य प्रातिभासिकत्वासिद्धिवदिति । सत्वस्य प्रतिभासमात्रशरीरत्वेन सत्वेन प्रतिभासं विना प्रातिभासिकत्वासम्भव इत्यर्थः ।। मम मत इति ।। तथा चासतः सत्वस्य मया प्रतीत्यनङ्गीकारात् न तत्प्रयुक्तानवस्था । त्वन्मते तु रूप्यसत्वस्य सत्वेनाभाने प्रातिभासिकत्वासिद्धेः, सत्त्वेन भानेऽङ्गीकार्ये तस्मिन्नपि सत्वे उक्तविकल्पप्रसरेणानवस्था स्यादेवेति भावः । न च सत्वाप्रतीतौ भवन्मते प्रवृत्त्ययोग इति वाच्यम् । इष्टतावच्छेदक-प्रकारकपुरोवृत्तिविशेष्यकज्ञानस्यैव प्रवर्तकत्वेनेदमंशस्यैव सद्रूप्यात्मना प्रतीतत्वमात्रेण तदर्थिप्रवृत्तिविषयत्वोपपत्तेरुक्तत्वादिति ध्येयम् । एवं ख्यातिबाधान्यथाऽनुपपत्तिर्दूषिता । अस्तु वा सा । तथाऽपि तदन्यथाऽनुपपत्त्या सदसद्वैलक्षण्यमेव कुतः? किं तु ख्यात्य-न्यथाऽनुपत्या सत्वमस्तु, बाधान्यथाऽनुपत्त्या चासत्वमस्तु । एवं सदसदात्मकत्वेनाप्यु-पपत्तेरित्याह ।। किं चेति ।। अनुपपत्ताविति ।। ख्यातिबाधाभ्यामिति शेषः ।

ननु सदसदात्मको विधिसमुच्चयो विरुद्ध इति चेत् सदसद्वैलक्षण्यरूपे निषेधसमुच्चयेऽपि विरोधसाम्यात् । निषेधसमुच्चयस्यातात्विकत्वात् न विरोध इति चेत् तर्हि विधिसमुच्चय-स्याप्यतात्विकत्वेनाविरोधसाम्यात् इत्याह ।। निषेधेति ।। सति चैवं मम मते लाघवमित्याह ।। एवं चेति ।। सदसद्वैलक्षण्यरूपचतुर्थप्रकारेत्यर्थः । ननु रूप्यस्य सदसदात्मकत्वे सद्रूप्यमिति ज्ञानस्य भ्रमत्वं न स्यात् । रूप्यस्य वस्तुतः सद्रूपत्वादित्यत आह ।। त्वत्पक्ष इति ।। तव मते रूप्यस्यासद्विलक्षणत्वेऽपि ‘असदेव रूप्यमभात्’ इति बाधकज्ञानस्य यथा भ्रमत्वं नायाति, तस्य तत्र विद्यमानसद्वैलक्षण्यविषयकत्वात्, एवं ‘सद्रूप्यम्’ इति भ्रमस्यापि अविद्यमानासद्वैलक्षण्यविषयकत्वेन भ्रमत्वमक्षतमेवेत्यर्थः । अनिर्वाच्यं सदसद्विलक्षणम् ।

ननु सदसदात्मकरूप्ये सदसदात्मकसत्वप्रतीतौ भ्रमत्वं कुतः? इति चेत् । त्वत्पक्षेऽपि सदसद्विलक्षणे रूप्ये सदसद्विलक्षणसत्वप्रतीतौ कथं भ्रान्तित्वम् । ननु सदसद्विलक्षणे रूप्ये सदसद्विलक्षणसत्वावगाहित्वमेव भ्रान्तित्वे मन्मते प्रयोजकमिति चेत् । तर्हि ममापि सद-सदात्मके रूप्ये सदसदात्मकसत्त्वावगाहित्वमेव भ्रमत्वे प्रयोजकमस्त्वित्याह ।। भ्रान्तित्वे चेति ।। यदि ख्यातिबाधाभ्यां प्रत्येकं सत्वासत्त्वयोरनुपपत्त्या सदसदात्मकत्वमनङ्गीकृत्य सदसद्वैलक्षण्याङ्गीकारेऽतिप्रसङ्गमाह ।। अन्यथेति ।। मीमांसकैः यावज्जीवमग्निहोत्रं जुहुयात् स्वर्गकामः इति वाक्योक्तमग्निहोत्राख्यं कर्म यावज्जीवं सन्ध्यावन्दनादिवत् विहितत्वात् नित्यम्, कामाधिकरणे विहितत्वात् काम्यं चाङ्गीकृतम् । एवं च केवलकाम्यत्वे नित्यत्वं विरुद्धम् । कामनाया असार्वकालिकत्वात् तदभावदशायामननुष्ठानापत्त्या यावज्जीवमित्युक्त-नित्यत्वायोगात् । केवलनित्यत्वे च काम्यत्वं विरुद्धम् । प्रत्यवायमात्रपरिहारार्थत्व-रूपनित्यत्वाङ्गीकारे स्वर्गकाम इत्युक्तकामनया क्रियमाणत्वरूपकाम्यत्वायोगात् । अतो नित्यकाम्यमित्यङ्गीकृतम् । तदपि न स्यात् । विरोधात् । नित्यकाम्यविलक्षणमेव तैरङ्गीकार्यं स्यात् । तथा तैरेव मीमांसकैः गुणगुण्यादौ भेदाभेदोऽङ्गीकृतः । तत्र केवलभेदाङ्गी-कारेऽङ्गुलिद्वयवत् भेदेनानुपलम्भविरोधः । केवलाभेदाङ्गीकारे चापर्यायशब्दव्यवहारानुपपत्तिः । त्वगिन्द्रियेण घटोपलम्भेऽपि तद्गतरूपाद्यनुपलम्भरूपभेदकार्यविरोधश्च । अतः केवलभेदा-भेदार्देरनुपपत्त्या भेदाभेदावङ्गीकृतौ । तदपि न स्यात्, विरोधात् । अतो भेदाभेदवैलक्षण्यमेव गुणगुण्यादीनामङ्गीकार्यं स्यात् । न त्वेवमङ्गीकृतम् । अतः परीक्षकेण त्वयाऽपि सद-सदात्मकत्वमेवाङ्गीकार्यम् । न तु सदसद्वैलक्षण्यमित्यर्थः ।। अनिर्वाच्यत्वाभाव एवेति ।। यथा विपर्ययपर्यसानोपेतख्यातिबाधान्यथाऽनुपपत्त्या सदसद्वैलक्षण्यमङ्गीक्रियते, एवं ख्याति-बाधान्यथाऽनुपपत्त्यैव सदसद्वैलक्षण्याभाव एवाङ्गीकार्यः स्यात् ‘असद्विलक्षणं चेत् न बाध्येत, सद्विलक्षणं चेत् न प्रतीयेत’ इति तर्काभ्यां विपर्ययपर्यवसानसहिताभ्यां सदसद्वै-लक्षण्याभावरूपानिर्वाच्यत्वाभावलाभादिति भावः । एवं च त्वदीयार्थापत्योः प्रत्यर्थापत्तिबाध इति हृदयम् ।। गौरवादिति ।। तथा च सत् चेत् न बाध्येतासत् चेत् न प्रतीयेतेत्येव तर्को वाच्यः । अतो भवदीयतर्केऽप्रयोजकतेति भावः । ‘अबाधाप्रतीत्योः प्रतियोगिभूतयो-र्बाधप्रतीत्योर्यत् प्रयोजकं क्रियते तदभावस्यैव, अबाधाप्रतीती प्रत्यपि प्रयोजकत्वं वाच्य-मित्याशयेनाह ।। अबाधेति ।। अबाधाप्रतीति प्रति प्रतियोगिभूतयोर्बाधप्रतीत्योः प्रयोजकं कस्मात् प्रथमं चिन्त्यमित्यत्र हेतुत्रयमाह ।। प्रथमेति ।। अभावापेक्षया भावस्य प्रति-योगित्वेन प्रथमं बुद्धिस्थत्वादित्यर्थः ।। कल्पकत्वाच्चेति ।। भावप्रयोजककल्पनानन्तरम् अभावे तज्जिज्ञासा भवतीति भावप्रयोजककल्पनाऽभावप्रयोजकस्य कल्पिका भवतीत्यर्थः । एतत् सत्यम् प्रकृते किमायातमित्यत आह ।। बाधेति ।। न त्विति ।। तथा च ‘सच्चेत् न बाध्येतासच्चेत् न प्रतीयेत’ इति तर्को न युक्त इति भावः ।। तथा चेति ।। एवं च प्रयोजकाभावात् ‘असद्विलक्षणं चेत् न बाध्येत सद्विलक्षणं चेत् न प्रतीयेत’ इति तर्को युक्त एवेति भावः । तर्कफलमाह ।। एवं चेति ।। बाध्यते, तस्मात् असद्विलक्षणं न भवतीत्येवमसत्वेन बाधोपपत्तिरस्तु । प्रतीयते तस्मात् सद्विलक्षणं न भवतीत्येवं सत्त्वेन प्रतीत्युपपत्तिरस्तु । तस्मात् सदसदात्मकत्वरूपो विधिरूपो विधिसमुच्चय एव स्यादित्यर्थः । एवं विरोधात् विधिसमुच्चयो युक्त इत्यत उक्तम् ।। उक्तरीत्येति ।। निषेधसमुच्चयवत् विधिसमुच्चस्याप्यतात्विकत्वेन विरोधासम्भवादित्युक्तरीत्येत्यर्थः । नन्वसत्त्वं न बाधे प्रयोजकं नृशृङ्गादावसत्त्वासद्भावेऽपि बाधादर्शनादित्यत आह ।। नृशृङ्गादाविति ।। यथा तव मते बाधप्रयोजकत्वेन त्वदभिमतस्य सद्वैलक्षण्यस्य सत्वेऽपि नृशृङ्गादौ न बाध्यत्वम् । तस्य प्रतिपन्नोपाध्यभावेन प्रतियोग्यधिकरणसंसर्गज्ञानरूपप्रसक्त्यभावेन त्रैकालिकनिषेधरूपबाधा-भावात् । एवं मन्मतेऽपि बाधप्रयोजकीभूतस्यासत्वस्य नृशृङ्गादौ सत्वेऽपि प्रसक्त्यभावेन बाधाभावेऽपि न तस्य बाधप्रयोजकत्वक्षतिरिति भावः । किं चासद्विलक्षणं चेत् न बाध्येत इत्यादिनोक्तं दूषणं सङ्गृह्णाति ।। एवं चेति ।। सद्विलक्षणं चेत् न भायात् न प्रतीयेतेत्यर्थः ।। इतीति ।। इत्येवं सदसद्विलक्षणरूपानिर्वाच्यात् विलक्षणं सदसदात्मकमेव रूप्यं भवत्वित्यर्थः । नन्वेवं रूप्यस्य सदसदात्मकत्वे ‘सच्चासच्च रूप्यम्’ इत्याकारा प्रतीतिः स्यादिति चेन्न । वस्तुतो रजतस्य तथात्वेऽपि प्रतितेस्तदाकारत्वाभावात् । अन्यथा त्वन्मतेऽपि ‘रूप्यं सदसद्विलक्षणम्’ इत्याकारा प्रतीतिः स्यादित्यर्थः ।

न्यायकल्पलता

।। व्यवहारदशायामिति ।। नेह नानेति श्रुत्या व्यवहारदशायां प्रपञ्चबाधाभावा-दापाद्यस्य विपर्ययेऽपर्यवसानमित्यर्थः ।। व्यवहारेति ।। तथा च व्यभिचार इत्यर्थः ।। शेषेति ।। ख्यात्यनुपपत्त्याऽसद्व्यावृत्तिसाधनवैयर्थ्यमित्यर्थः ।। अत एवेति ।। शेष-वैयर्थ्यादेव ।। मानान्तरेति ।। ननु निर्विशेषत्वादिधर्मप्रतिपादकं न प्रमाणम् । किं तु लक्षणया शुद्धब्रह्मबोधकमेवेति चेन्न । निर्विशेषत्वातिरिक्तस्य शुद्धत्वस्य दुर्वचत्वात् । निर्विशेषस्याप्रामाणिकत्वे सविशेषत्वस्य प्रामाणिकत्वापाताच्च । न चोभयोरप्रामाणिकत्वम् । विरोधात् ।। अबाध्य इति ।। न च ब्रह्मणः स्वप्रकाशत्वेऽपि व्यवहारे प्रतिबन्धका-ज्ञाननिवृत्त्यर्थं प्रमाणापेक्षास्तीति युक्तम् । एतादृशाप्रामाणिकत्वस्य जगति इष्टत्वात् ।। रूप्यादीति ।। तथा च बाध्यत्वाप्रामाणिकत्वयोर्व्याप्त्यग्रहान्न बाध्यत्वेन प्रपञ्चेऽप्रामाणिकत्वं सिद्ध्यतीत्यर्थः । रूप्यादेस्तत्वावेदकबाध्यत्वेनाद्वैताद्वैषम्यमाशङ्क्य निराकरोति न चास्येति ।। तस्या इति ।। औतश्रुतेर्भिन्नविषयत्वेन न रूप्यादिबाधकत्वमित्यर्थः ।। प्रतियोगीति ।। तत्प्रसिद्धिसाधकानुमानस्य प्रागेव निरस्तत्वात् ।। बाधेनैवेति ।। न चार्थापत्त्यन्तरे तात्पर्यम् । एकत्वोक्तिविरोधात् । न च प्रयोजनैक्यात्तथोक्तिः । तेनासद्वैलक्षण्यमात्रसाधनात् ।। इष्टापत्तेरिति ।। रूप्ये न ज्ञाननिवर्त्यत्वम् । किं तु शुक्त्यज्ञानादावेवेत्यर्थः ।। द्वितीय इति ।। बाध्यत्वेन सद्वैलक्षण्यं यस्य रूप्यादेः सिषाधयिषितं तस्यासद्वैलक्षण्यपक्षेऽ-सद्विलक्षणत्वाङ्गीकारे रूप्यादौ त्रैकालिकनिषेधप्रति योगित्वरूपं बाध्यत्वं न स्यात् । उक्त-रूपबाध्यत्वेऽसत्त्वस्यैव प्रयोजकत्वादित्यर्थः ।। रूप्यादाविति ।। रूप्यादेः सत्ताहीन-रूपसत्त्ववत्त्वादित्यर्थः ।। अत एवेति ।। रूप्यादेर्बाध्यरूपासद्रूपत्वेन विपर्ययापर्यवसानात् ।। तस्येति ।। निरुपाख्यत्वावच्छेदकस्य ।। असन्नेति ।। रूप्यस्यापि स्वरूपेण निषेधपक्षे निःस्वरूपत्वादित्यर्थः । यत्तु अप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेधप्रतियोगित्वं निःस्वरूपत्वम् ।। न चैतद्रूप्यादाविति ।। तन्न । असतोऽपि प्रतिपन्नोपाधेरुक्तत्वात् । न विपर्ययपर्यवसानमिति ।। रूप्यादेः सत्त्वाभावात् । शशशृृङ्गमस्तीति वाक्येऽपि शाब्द-बोधसामग्रीं व्युत्पादयति ।। विपरीतेति ।। अन्यथेति ।। ज्ञानानुत्पादे । योग्यताहीना-दिति । आहार्ययोग्यताज्ञानसत्वादिति भावः । प्रतिवादिवाक्येऽपि योग्यतासंशयोऽस्तीति कश्चित् । तन्न । विशेषादर्शनाभावात् ।। कथेति ।। बधिराणां कलहेन तुल्या कथा स्यात् । परस्परवाक्यार्थस्य परस्पराज्ञानादित्यर्थः । यद्यपि वादिवाक्यं नागमतया बोधकम् । तथापि पराभिमतव्याप्त्यादिस्मारकत्वेनोपयोगोऽस्त्येव ।। अनुभवविरोधादिति ।। शशविषाण-मस्तीति शब्दाच्छशविषाणं जानामीत्यनुभवादित्यर्थः । न चानुभवामीति न प्रत्यय इति वाच्यम् । शब्दात्स्वर्गमनुभवामीत्यनेन तुल्ययोगक्षेमत्वादिति भावः ।। अन्यथेति ।। तथा च प्रतीत्या रूप्यादेरसद्वैलक्षण्यं न सिद्ध्येदिति भावः  ।। निस्वरूपस्येति ।। अनिर्वाच्य-त्वेनेष्टस्य रूप्यादेरनिर्वाच्यान्निःस्वरूपाद्भेदानुपपत्तेरन्यस्य च भेदप्रतियोगिनोऽभावात् रूप्या-दीनां कस्माद्वैलक्षण्यमिष्यते । तथा च रूप्यादेरपि निःस्वरूपत्वमेव प्राप्तमित्यर्थः ।। तस्येति ।। निःस्वरूपभिन्नस्य निरूपाख्यस्याभावादिति मिथ्यात्वभङ्गे उक्तमित्यर्थः । एतेन सोपाख्यधर्मानुल्लेखित्वं वस्तुशून्यत्वमित्यपास्तम् ।

नन्वपरोक्षज्ञानाविषयादखण्डाच्छशशृृङ्गाद्वैलक्षण्यं रूप्यादेराशास्यत इत्यत आह ।। तादृशादिति ।। तावतापि रूप्यादेरसद्विशेषविलक्षणत्वे प्यसद्वैलक्षण्यं न सिद्ध्यतीत्यर्थः ।। अत्यन्तासत्यपीति ।। नन्वस्तित्वस्यानिर्वाच्यत्वेन शशशृृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम् । अत्यन्तासच्च नाधिष्ठानमिति न शशशृृङ्गपदाभ्यां तदुपस्थितिः । दृष्टान्तीकृतवाक्ये तु नानिर्वाच्यं किञ्चिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यम् । अत्यन्तासत्यपि ज्ञानमित्यादित्वस्त्यादि पदसमभिव्याहृतशशशृृङ्गमसदिति वाक्यपरम् । तस्माच्छशशृृङ्ग-मस्तीत्यत्र शशे शृृङ्गारोपः शृङ्गे च शशीयत्वस्यारोप इत्यनिर्वाच्यमेव शृङ्गमिति । मैवम् । अश्वादावत्र गोशृङ्गमस्तीति विशिष्टस्येव शशशृृङ्गस्य विशिष्टस्यैवानुभूयमानत्वात् । समस्तपद-प्रतिपाद्यस्यैवा परपदार्थेऽन्वयस्यौचित्याच्च । असच्छशशृृङ्गं प्रत्याश्रयत्वेन प्रतीतस्याश्वादे-रिदम्पदार्थस्यैवाधिष्ठानत्वसम्भवेन सर्वथा निरधिष्ठानत्वायोगाद स्तित्वस्यासदधिष्ठानत्वेऽपि न दोषः ।। शशशृृङ्गमस्तीति ।। अत्रेति शेषः ।। एतेनेति ।। अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजनकत्वेनेत्यर्थः ।। शशशृृङ्गशब्द इति ।। व्योमकमलशब्देन शशशृृङ्गशब्दस्य समान-त्वादस्योदाहरणम् ।। यौगिकेति ।। न च यौगिकशब्दानामवयवशक्तिप्राधान्येन बोधकत्वाद-खण्डासद्बोधनमशक्यमिति युक्तम् । अवयवानां स्वशक्त्यसंसृष्टरूपस्य पदार्थान्तरान्वयाभि-मुखस्य सतः पाचकादेरिवाखण्डस्या सतोऽपि बोधनसम्भवात् ।। वार्तिकेति ।। खपुष्प-वार्तिके तत्सिद्ध्यधिकरणे उक्तम् । कथं तर्हि खपुष्पं भवत्सिद्धान्त इत्यत्राभावावगतिः मरुभूमिवदत्र जलमित्यादिवदित्यवेहि । न ह्यत्राप्यभावः शब्द शक्य इति ।। पौन-रुक्त्येति ।। एतेन बोधकतानशशशृृङ्गपदमात्रे । किन्तु नास्तीति पदसमभिव्याहृते । अतो न पुनरुक्तिरिति निरस्तम् । पदान्तरसमभिव्याहारस्यान्वयविशेषावगमार्थत्वात् ।। प्रत्यक्षतेति ।। व्याप्तिज्ञानस्य सद्विषयत्वनियमादिति भावः । प्रत्यक्षो न स्यादिति भावः ।। शशशृृङ्गा-दीति ।। प्रतियोगिनमनन्तर्भाव्याभावप्रत्यक्षस्यादर्शनादित्यर्थः ।

ननु साक्षादित्यनिषेध्यतयेति वापरोक्षप्रतीतिविषयविशेषणान्नोक्तदोष इति । मैवम् । चतुर्थपक्षनिरासेन निरसिष्यमाणत्वात् ।। सन्मात्रेति ।। अधिष्ठानज्ञानाबाध्यमत्र सद्विव-क्षितम् । तेन प्रातिभासिकस्यापि परमते सद्विशेषतयाश्रयासिद्धिरित्यपास्तम् । भ्रममात्र-स्यैवोक्तसद्रूपाधिष्ठानविषयतयाश्रयासिद्धिर्मा भूदिति मात्रपदम् । न च शाब्दत्वमुपाधिः । भ्रमानुमितौ साध्याव्याप्तेः ।। संस्कारेति ।। संस्कारस्तावत्तात्विकरजतादिगोचर एव प्राथमिकरजतादिभ्रमप्रयोजकः सर्वमते । तथा च  शब्दाभासादिजन्यस्य ज्ञानस्य न संस्कार-जनकत्वम् । ननु संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोगः । स्मृतित्वापत्तेः । किन्त्वर्थो-त्पत्तिद्वारा । तथा च संस्कारनियामकताप्यनिर्वाच्यता पक्ष एव न तु असद्विषयतापक्ष इति चेन्न । अर्थस्य स्मृतित्वापत्त्या तुल्ययोगक्षेमत्वात् ।। शशशृृङ्गादिशब्दैरेवेति ।। शब्दशक्ति-भ्रमविरहकाल इति शेषः । तेन शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशब्देनेव शशशृङ्गशब्देनापि नृशृङ्गस्य प्रतीयमानत्वेन नृशृङ्गशब्देनैव प्रतीयमानत्वं न तस्य विशेष इति निरस्तम् ।। अन्यथेति ।। सत्त्वप्रकारकभ्रान्तेः सत्त्वापेक्षत्वे तव मतेऽपि रूप्यस्य सद्विलक्षणत्वात् सत्त्वप्रकारकभ्रान्तिर्नस्यादित्यर्थः ।। सम्बन्धादाविति ।। तथा च तव मतेऽपि रजतस्य ज्ञानेन सम्बन्धः भातीत्यादौ कर्तृत्वादिकं च न स्यात् ।। दुष्टादिति ।। स्वरूपयोग्यस्य सहकारिविशेषसमवधाने सति कार्यविशेषजनकत्वदर्शनादि न्द्रियस्याप्यसन्निहिततत्तादिज्ञान-जनकत्वेन योग्यत्वादित्यर्थः ।। प्रमाया एवेति ।। न च सन्निकर्षोऽपि सामान्यसामग््रयैवेति वाच्यम् । सन्निकर्षे सति क्वाप्यप्रमाया अदर्शनेन  प्रमाया एव दर्शनेनेन्द्रियवदुभयानुगत्यभावेन सन्निकर्षस्य सामान्यसामग्रीत्वाभावात् । अत एवोक्तं मणिकृता । असन्निकृष्टमपि दोषा-द्भासत इत्युपेयमिति ।। अन्यथेति ।। अपरोक्षज्ञानमात्रे सन्निकर्षस्य हेतुत्वे । अनिर्वाच्यस्यापरोक्षज्ञानं ह्यविद्यावृत्तिर्वा तत्प्रतिबिम्बितः साक्षी वा । नोभयमपि सन्निकर्षजन्यमिति भावेनोक्तम् ।। आपरोक्ष्येति ।। अत्यन्तासतः सत्वेनापरोक्षाप्रतीति-विषयत्वमभ्युच्चिनोति ।। किञ्चेति ।। तथात्वे । अनिर्वाच्यत्वे ।। तस्येति ।। रूप्ये प्रतीतस्येदन्त्वस्य व्यावहारिकत्वस्य च सत्त्वेन प्रतीतिं विना प्रातिभासिकत्वासम्भवादित्यर्थः ।। तदपीति ।। रूप्ये प्रतीतेदन्त्वादौ यत्सत्यं प्रतीतं तस्याप्यनिर्वाच्यस्य प्रातिभासिक-त्वाय सत्त्वान्तरवत्तया प्रतीतिर्वाच्या । एवं सत्त्वे प्रतीतसत्त्वस्यापि प्रातिभासिकत्वाय सत्त्वान्तरवत्तयेत्यनवस्था ।। तयोरपीति ।। रूप्ये निषेध्यमाने इदन्त्वपारमार्थिकत्वे सती वाऽसद्विलक्षणे । असती वा । आद्ये निषेधायोगः । द्वितीयेऽनवस्था । असद्विलक्षणयोः स्वरूपेण निषेधायोगात्तयोरपि पारमार्थिकत्वान्तरेण निषेधोे वाच्यः । तद्गतपारमार्थिक-स्याप्यसद्विलक्षणत्वे पारमार्थिकत्वान्तरेणेत्यनवस्था । तृतीये असतः सत्त्वेनापरोक्षप्रतीति-र्दुर्वारेत्याह ।। ते चेति ।। रूप्ये निषेध्यमाने इदन्त्वपारमार्थिकत्वे ।। सत्त्वेनापरोक्षे इति ।। सत्त्वनिषेधस्य सत्त्वप्रसक्तिपूर्वकत्वात्प्रकृते च परिशेषात्प्रत्यक्षरूपैव प्रसक्तिरिति भावः । अनुव्याख्यानं सम्मतयति ।। तदुक्तमिति ।। अन्यथात्वमिति ।। अन्यप्रकारत्वमन्य-रूपत्वमिति यावत् । अनिदंरूपे इदन्त्वमव्यावहारिके व्यावहारिकत्वम् । तस्य अपारमार्थिके निषिध्यमानस्य पारमार्थिकत्वादेः । सुधायां तु शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्य चेदन्ता संसर्गोऽन्यथात्वशब्दार्थः । सत्त्वशब्देन रजते शुक्तिकासत्त्वसंसर्ग इति व्याख्यातम् । अत्र तु अनिर्वचनीये रूप्ये प्रतीयमानयोरिदंत्वव्यावहारिकत्वयोः तत्र निषिध्यमानपारमार्थि-कत्वस्यासत एवापरोक्ष्यमनवस्थाभयात्परं प्रति स्वयमापादितम् । सुधायां तु इदंतारजत-त्वयोरितरेतरसंसर्गस्य रजते शुक्तिकासत्त्वसंसर्गस्य चानिर्वचनीयस्य तथैव प्रतीतौ प्रवृत्त्य-योगाद्व्यावहारिकतया प्रतीतिर्वाच्या । तद्व्यावहारिकतायाः सत्त्वे उक्तसंसर्गद्वयस्य प्रातिभासि-कत्वानुपपत्तेरसत्या एव तस्या आपरोक्ष्यमायातम् । तस्या अप्यनिर्वाच्यत्वे तथैव तस्याः प्रतीतौ प्रवृत्त्ययोगादनिर्वाच्यायास्तस्याः व्यावहारिकत्वेनापरोक्ष्यं वाच्यम् । अनिर्वचनीय-व्यावहारिकतागतव्यावहारिकत्वस्य सत्त्वे तदाश्रयव्यावहारिकताया अनिर्वाच्यत्वानुपपत्तेर-सदेव व्यावहारिकत्वमपरोक्षतया प्रतीयत इति वाच्यम् । तद्व्यावहारिकत्वस्याप्यनिर्वाच्यत्वे उक्तरीत्यानवस्थेत्युक्तमित्याह ।। टीकायान्त्विति ।। इदन्त्वमिदन्त्वसंसर्गः । सत्वं सत्वसंसर्गः ।। सत्त्वायोगादिति ।। इदन्त्वादिसंसर्गद्वयस्यानिर्वाच्यत्वविरोधात् । न हि यस्य सत्त्वं सत्तदनिर्वाच्यमिति सम्भवतीत्यर्थः ।। प्रवृत्तीति ।। न ह्यनेनानिर्वाच्यं क्वचिदर्थक्रियासूपयुज्यमानं दृष्टम् । येन तद्भावं प्रतीत्यापि प्रवर्तेत ।। सत्त्वेनेति ।। व्यावहारिकत्वेनेत्यर्थः ।। सत्व इति ।। व्यावहारिकत्वे । अत्र पक्षद्वयेऽपीदन्त्वादेरेवा-सत्त्वमुक्तम् । अनवस्थोपपादनभेदेन तु पक्षभेद इति ध्येयम् ।। अनिर्वाच्यस्येति ।। सद्विलक्षणस्येत्यर्थः । एतेन सत्त्वस्य सत्त्वप्रतीतावतिरिक्तसत्त्वानपेक्षेति निरस्तम् । सत्त्वप्रतीतिं विना सत्त्वस्वरूपासिद्धेः ।। असतःसत्त्वस्येति ।। ननु तत्सत्वं स्वरूपतो न सत् । विज्ञानतोऽपि न सत् । सत्त्वेनाप्रतीतेः । तथा च सति कथं तन्निबन्धनो व्यवहार इति । मैवम् । सत्त्वेनाप्रतीतस्यासतोऽपि सत्त्वस्य प्रतीतिमात्रादेव व्यवहाराद्युपपत्तेः । न हि मम मतेऽप्यर्थो हेतुः । येनासतोऽर्थस्य स्वरूपसिध्द्यर्थं सत्त्वेन तज्ज्ञानमपेक्षेत ।

ननु रूप्यस्य सदसदात्मकत्वे सद्रूप्यमिति ज्ञानस्य भ्रमत्वं न स्यात् । रूप्यस्य सद्रूप-त्वादित्यत आह ।। असदेवेति ।। त्वन्मते रूप्यस्यासद्विलक्षणत्वेऽप्यसदेव रजतमिति बाधस्य यथा भ्रमत्वं  नायाति तस्य तत्र विद्यमानसद्वैलक्षण्यविषयत्वात् । एवं सद्रूप्यमिति भ्रमस्याविद्यमानासद्वैलक्षण्यविषयत्वेन भ्रमत्वमक्षतमेव । तथा च तत्र प्रातीतिकमपि सत्त्वं माभूत् बाधोऽसत्त्वविषयकोऽस्तु ।। सदसदात्मकत्वमिति ।। सदसदात्मकत्वं यत्सत्वं तद्भ्रान्तौ विषयोऽस्तु । न चैवं सच्चासच्चरजतमित्याकारा प्रतीतिः स्यादिति वाच्यम् । वस्तुतो रजतस्य तथात्वेऽपि प्रतीतेस्तदाकारत्वाभावात् । अन्यथा त्वन्मतेऽपि सदस-द्विलक्षणमित्याकारा प्रतीतिः स्यात् । बाधकाले त्विष्टापत्तिरित्याह ।। अन्यथेति ।। उभय-बहिर्भाव इति ।। काम्याकाम्यविलक्षणाभिन्नाभिन्नविलक्षणं च स्यादित्यर्थः ।। प्रथमोप-स्थितत्वादिति ।। अभावापेक्षया भावस्य प्रथमं बुद्धिस्थत्वादित्यर्थः ।। कल्पकत्वादिति ।। भावप्रयोजककल्पनानन्तराभावेन जिज्ञासा भवतीति भावप्रयोजककल्पनाभावे प्रयोजकस्य कल्पिता भवतीत्यर्थः ।। बाधप्रतीत्योरिति ।। न च प्रतीतौ न सत्त्वं तन्त्रम् । उभय-मतेऽपि रूप्येऽभावादिति युक्तम् । प्रतीत्या रूप्य एव सत्त्वस्यापाद्यमानत्वात् । तदिदमुक्तम् ।। सत्त्वात्प्रतीतिरिति ।। नन्वसत्त्वं न बाधे प्रयोजकम् । असत्त्वेऽपि नृशृङ्गादौ बाधादर्शनादित्यत आह ।। नृशृृङ्गादाविति ।। यथा तव मते नृशृङ्गादावबाध्ये बाधप्रयोज-कत्वेनाभिमतस्य सद्वैलक्षण्यस्य सत्त्वेऽपि तस्य बाधं प्रति प्रयोजकत्वाक्षतिः तथाऽसत्त्वस्य नृशृङ्गादौ सत्त्वेऽपि न क्षतिरित्यर्थः । सङ्गृह्णाति ।। एवं चेति ।।

।। इति अनिर्वाच्यसाधकख्यातिबाधान्यथानुपपत्तिभङ्गः ।।