किञ्चेदं कर्तृत्वं किं परिभाषया शुक्त्यादिवदधिष्ठानत्वमात्रम्..
९. ब्रह्मणो निमित्तत्वभङ्गः
न्यायामृतम्
किञ्चेदं कर्तृत्वं किं परिभाषया शुक्त्यादिवदधिष्ठानत्वमात्रम्, भ्रान्तवदध्यासद्रष्टृत्त्वं वा, मायाविवद् व्यामोहकत्वं वा, कुलालादिवदुपादानादिगोचरप्रयत्नादिमत्त्वं वा । नाद्यः । त्वन्मतेऽधिष्ठानत्वातिरिक्तोपादान त्वाभावेन कर्तृत्वोपादानत्वयोः सामानाधि-करण्योक्त्ययोगात् । ‘तदैक्षत नामरूपे व्याकरोत्’ इत्यादि श्रुत्यनुपपत्तेश्च । न हि चेतनोऽचेतनो वा स्वस्मिन्नारोपितं सङ्कल्प्य करोति । अत एव न द्वितीयः । भ्रान्तस्य प्रेक्षापूर्वकारोपितकर्तृत्वाभावात् । ब्रह्मणोऽभ्रान्तत्वेनाकर्तृत्वस्य जीवस्य भ्रान्तत्वेन जगत्कर्तृत्वस्य चापातात् । न चेष्टापत्तिः । श्रुत्यादिविरोधात् । जगत ईश्वरं मुक्त्वा संसारिण उत्पत्त्यादिसम्भावयितुमपि न शक्यमित्यादित्वद्भाष्यविरोधाच्च । ननु शुद्धस्या-भ्रान्तत्वेऽपि मायाशबलितः कर्तेश्वरो भ्रान्त इति चेन्न, ईश्वरस्य भ्रान्तत्वे जीववत्संसाराद्यापातेन बहुश्रुत्यादिविरोधात् ।
किञ्च पक्षद्वयेऽपि ‘वैषम्यनैर्घृण्येन सापेक्षत्वात्’ इत्यादिसूत्रेषु कर्मसापेक्षत्वेन वैषम्यादिपरिहारो न युक्तः स्यात् । अधिष्ठानत्वेन तदप्रसक्तेः । न तृतीयः । व्यामोहनीयजीवादर्शने व्यामोहकत्वायोगात् । दर्शने च भ्रान्तत्वापत्तेः । व्यामोहकत्व-स्याप्यारोपितत्वेनान्योन्याश्रयाच्च । ‘नामरूपे व्याकरवाणि’ इत्यादिश्रुत्यनुपपत्तेश्च । न हि मायावी गजादिकं करवाणीति सङ्कल्प्य करोति, किन्तु दर्शयामीति सङ्कल्प्य दर्शयति । किञ्च पक्षत्रयेऽपि जन्मादिसूत्रेऽर्थलब्धसार्वज्ञ्यादिस्फोरणार्थं शास्त्रयोनिसूत्रमिति यत्परमतं तद्भङ्गः स्यात् । भ्रमाधिष्ठानत्वादिना सार्वज्ञ्यालाभात् । न चतुर्थः । कल्पितत्वे तस्यायोगात् । न हि घटादिकं कुलालेनेव कल्पितं रूप्यादि भ्रान्तेन वाऽन्येन वा क्रियते । विस्तृतं चैतत्पुरस्तात् । तस्मात्–
‘अधिष्ठाने तथा भ्रान्ते भ्रामके च न कर्तृता ।
लौकिकी कृतिमत्ता तु न दृष्टारोपितं प्रति’ ।।
।। इति परमते ब्रह्मणो निमित्तत्त्वभङ्गः ।। ९ ।।
अद्वैतसिद्धि:
नन्वेवं कुलालादिवदुपादानगोचरप्रयत्नादिमत्त्वं कर्तृत्वमुक्तं स्यात् । तच्च कार्यस्य कल्पितत्वे न घटते । कुलालादेरकल्पितं प्रत्येव कर्तृत्वदर्शनात् । कल्पितं च रूप्यादिकं प्रति भ्रान्तस्यान्यस्य वा कर्तृत्वादर्शनाच्चेति चेन्न । कुलालकार्यघटादावप्यकल्पितत्वस्यासम्प्रतिपत्तेः । रूप्यादेरप्य-कर्तृत्वासिद्धेश्च । तत्रापि साक्षिण एव कर्तृत्वात् । न ह्यदर्शनमात्रेण कर्त्रपलापः । त्वन्मतेऽपि सर्वज्ञकर्तुरसिद्ध्यापत्तेः । एतेनाधिष्ठानत्वं न कर्तृत्वम् । एवं सत्यतिरिक्तोपादान त्वाभावेन कर्तृत्वो-पादानत्वयोः सामानाधिकरण्योक्त्ययोगात् । नापि भ्रान्तवदध्यासद्रष्टृत्वम् । भ्रान्तस्य प्रेक्षापूर्वकम् आरोपितकर्तृत्वस्याभावात् । नापि मायाविवद्व्यामोहकत्वमेव कर्तृत्वम् । व्यामोहनीयजीवादर्शने व्यामोहकत्वाभावात्, । तद्दर्शने भ्रान्त्यापत्तेः । व्यामोहकत्वस्याप्यारोपितत्वेनान्योन्याश्रयाच्च । ‘नामरूपे व्याकरवाणि’ इति श्रुत्यनुपपत्तेश्च । न हि मायावी जगदादिकं करवाणीति सङ्कल्प्य करोति, किन्तु दर्शयामीति सङ्कल्प्य दर्शयति । पक्षत्रयेऽपि जन्मादिसूत्रेऽर्थलब्धसार्वज्ञ्यादिस्फुरणार्थं ‘शास्त्रयोनित्वात्’ इति सूत्रमिति यत् परमतं, तद्भङ्गः स्यात् । भ्रमाधिष्ठानत्वादिना सार्वज्ञ्यालाभात् । नाप्युपादान-गोचरप्रयत्नादिमत्त्वम् । कल्पितं प्रति तदयोगात् । तस्मात्–
अधिष्ठाने तथा भ्रान्ते भ्रामके च न कर्तृता ।
लौकिकी कृतिमत्ता तु न दृष्टा(ष्ट्रा) कल्पितं प्रति ।।
इति निरस्तम् । अभिमतचतुर्थपक्षस्य समर्थितत्वात् । यत्तूक्तं तृतीयपक्षे व्यामुग्धजीवद्रष्टृत्वे भ्रान्तत्वापत्तिरिति, तद् भूषणमेव । भ्रान्तिज्ञस्याभ्रान्तत्वात् । यदपि मायाविनः सङ्कल्पपूर्वक-कर्तृत्वादर्शनेन व्याकरवाणीति श्रुत्यनुपपत्तिरिति, तन्न, तादृशसङ्कल्पादर्शनस्य मायाविन्यसम्प्रतिपत्तेः । यदप्युक्तं जन्मादिसूत्रार्थसिद्धसार्वज्ञ्यस्फोरकं ‘शास्त्रयोनित्वा त्’ इति सूत्रमिति परमतभङ्गः स्यादिति, तन्न । मायावित्वेऽपि स्रक्ष्यमाणमायिकविश्वाकारमायासत्त्वांशपरिणामाधारतया सार्वज्ञ्यलाभात् । तस्माद् ब्रह्मणो निमित्तत्वमुपादानत्वं च । इत्यद्वैतसिद्धौ ब्रह्मणो विश्वकर्तृतोपपत्तिः ।। ९ ।।
न्यायामृततरङ्गिणी
अधिष्ठानत्वातिरिक्तेति ।। उपादानत्वाभिन्नेनाधिष्ठानत्वेनाभिन्नस्य कर्तृत्वस्योपादानत्व-रूपत्वान्नोपादानत्व कर्तृत्वयोः सामानाधिकरण्योक्तिः सम्भवति ।। तदैक्षतेति ।। भ्रमा-धिष्ठानरूपस्य पारिभाषिककर्तुरीक्षणायोगादित्यर्थः ।। अत एवेति ।। ईक्षणायोगादेव ।। भ्रान्तस्येति ।। रूप्याद्यध्यासद्रष्टुः भ्रान्तस्य रूप्यं प्रति प्रेक्षापूर्वककर्तृत्वं न दृष्टम् । ननु रूप्यादौ भ्रान्तस्य कर्तुरदर्शनेऽपि जगति भ्रान्तः कर्ताऽस्त्वित्यत आह– ब्रह्मण इति ।। जगत्प्रति भ्रान्तः कर्ताऽन्विष्यमाणो ब्रह्मभिन्नो जीव एव स्यादित्यर्थः ।। अधिष्ठानत्वेति ।। अध्यासाधिष्ठाने तद्द्रष्टरि च वैषम्यादिप्रसक्तेरदर्शनात्तत्परिहारो न युक्तः ।। व्यामोहकत्व-स्येति ।। व्यामोहनीयस्य सिद्धौ तेनारोपितस्य व्यामोहकत्वस्य ब्रह्मणि सिद्धिः । तत्सिद्धौ च व्यामोहनीयसिद्धिरित्यन्योन्याश्रयः । प्रसिद्धमायाविन्यौषधादिमत्त्वरूपं व्यामोहकत्वं व्यामोहनीयैर्नारोपितमतो नान्योन्याश्रयः ।। इत्यादीति ।। आदिपदेन ‘नामरूपे व्याकरोत्’ इति करणश्रुतिः ।। भ्रमेति ।। भ्रमाधिष्ठाने तद्द्रष्टरि मायाविनि च न सार्वज्ञम् ।। कल्पितत्व इति ।। कल्पित उपादानगोचरप्रयत्नाद्यदर्शनादकल्पित एव च तद्दर्शनात् ।। इति परमते ब्रह्मणो निमित्तत्वभङ्गः ।। ९ ।।
न्यायामृतकण्टकोद्धारः
एवमुपादानत्वं दूषयित्वा परेण यदुपादानस्यैव कर्तृत्वमित्यभिन्नोपादानकत्वमङ्गीक्रियते तद्दूषयितुं विकल्पेन पृच्छति– किञ्चेति ।। अत्राद्यपक्षत्रये स्वासाधारणपरिभाषा । चतुर्थे तु सर्वसाधारणपरिभाषेति द्रष्टव्यम् । नन्वस्मिन् पक्षे परिणामित्वमेवोपादानत्वम् । तथा च कथं सामानाधिकरण्याभावः । न च ब्रह्मणो निर्विकारत्वात्तदभाव इति वाच्यम् । मायाविशिष्टस्य परिणामोपपत्तेरिति चेन्न । विशिष्टेऽधिष्ठानत्वाभावेन सामानाधिकरण्यायोगात् । न चाभेदेऽपि सामानाधिकरण्याविरोध इति वाच्यम् । मुख्यतस्तदभावात् । भावे वैकस्यैव नामद्वयकरणेन विवक्षितार्थासिद्धेः । अत एवेति परामृष्टं हेतुमाह– भ्रान्तेति ।। ब्रह्मण इति ।। शुद्धस्येति शेषः ।। श्रुत्यादीति ।। श्रुत्यादौ ब्रह्मण एव जगत्कर्तृत्वाभिधानादिति भावः ।। भ्रान्तत्व इति ।। भ्रान्तेरेव रागद्वेषादिमूलत्वेन संसारकारणत्वात् । अन्यथा जीवस्यापि तदनुपपत्तेरिति भावः । ननु संसारस्य मिथ्यात्वान्न श्रुत्यादिविरोधः । श्रुत्यादेः परमार्थतस्तदभाव विषयत्वोपपत्तेः । शुद्धविषयत्वोपपत्तेश्चेत्यत आह– किञ्चेति ।। अधिष्ठानत्वादिनेति ।। उपलक्षणमेतत् । संसारस्य मिथ्यात्वे ईश्वरस्य कर्मापेक्षया तत्कारित्वं न स्यादित्यपि द्रष्टव्यम् ।। दर्शने चेति ।। ननु सत्वेन दर्शने भ्रान्तत्वम् । अन्यथा नेदमिति दर्शिनोऽपि भ्रान्तत्वापत्तेः । न चेश्वरस्य सत्वेन दर्शनम् । अतः कथं भ्रान्तत्वापादनमिति वाच्यम् । सत्त्वेनादर्शने तद्व्यामोहनायोगात् । न हि मायावी ज्ञात्वा व्यामोहयतीति ।। व्यामोहकत्वस्येति ।। तथा च व्यामोहकत्वारोपे सति कर्तृत्वं, कर्तृत्वे च सति तदारोप इत्यन्योन्याश्रय इत्यर्थः ।। नामरूप इति ।। तत्र व्यामोह-कस्यानुक्तत्वादित्यर्थः । एतदेव विशदयति ।। न हीति ।। विवृतं चेति ।। भाविबाधकशङ्काभङ्ग इत्यर्थः । उक्तमर्थं सङ्गृह्याह– तस्मादिति ।। इति परमते ब्रह्मणो निमित्तत्वभङ्गः ।। ९ ।।
न्यायकल्पलता
अधिष्ठानत्वातिरिक्तेति ।। उपादानत्वाभिन्नेनाधिष्ठानत्वेनाभिन्नस्य कर्तृत्वस्योपादानत्वरूप-त्वान्नोपादानत्व कर्तृत्वयोः सामानाधिकरण्योक्तिः सम्भवति ।। तदैक्षतेति ।। भ्रमाधिष्ठानरूपस्य पारिभाषिककर्तुरीक्षणायोगादित्यर्थः ।। अत एवेति ।। ईक्षणानुपपत्तेरेव ।। भ्रान्तस्येति ।। अध्यस्त-रूप्यादिद्रष्टुः भ्रान्तस्य रूप्यं प्रति प्रेक्षापूर्वककर्तृत्वं न दृष्टम् । ननु रूप्यादौ भ्रान्तस्य कर्तुरदर्शनेऽपि जगति भ्रान्तः कर्ताऽस्त्वित्यत आह– ब्रह्मण इति ।। जगत्प्रति भ्रान्तः कर्ताऽन्विष्यमाणो ब्रह्मभिन्नो जीव एव स्यादित्यर्थः ।। अधिष्ठानत्वेति ।। अध्यस्ताधिष्ठाने तद्द्रष्टरि च वैषम्यादि प्रसक्तेरदर्शना-त्तत्परिहारो न युक्तः ।। व्यामोहकत्वस्येति ।। व्यामोहनीयस्य सिद्धौ तेनारोपितस्य व्यामोहकत्वस्य ब्रह्मणि सिद्धिः । तत्सिद्धौ च व्यामोहनीयसिद्धिरित्यन्योन्याश्रयः । प्रसिद्धमायाविन्यौषधादिमत्त्वरूपं व्यामोहकत्वं व्यामोहनीयैर्नरैर्नारोपितमतो नान्योन्याश्रयः ।। इत्यादीति ।। आदिपदेन ‘नामरूपे व्याकरोत्’ इति श्रुतिः ।। भ्रमेति ।। भ्रमाधिष्ठाने तद्द्रष्टरि मायाविनि च न सार्वज्ञम् ।। कल्पितत्व इति ।। कल्पिते उपादानगोचरप्रयत्नाद्यदर्शनाद् अकल्पित एव च तद्दर्शनात् ।
।। इति परमते ब्रह्मणो निमित्तत्वभङ्गः ।। ९ ।।