एतेन ब्रह्मणो निराकारत्वमपि निरस्तम्
६. ब्रह्मणो निराकारत्वसिद्धिः
न्यायामृतम्
एतेन ब्रह्मणो निराकारत्वमपि निरस्तम् । ‘आदित्यवर्णं तमसः परस्तात्’ ‘यदा पश्यः पश्यते रुग्मवर्णम्’ ‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्’ ‘विश्वतश्चक्षुः’ ‘सहस्रशीर्षा पुरुषः’ ‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । यदेकमव्यक्तमनन्तरूपम्’ इत्यादिश्रुतिभिः । ‘पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च । सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्’ ।। इत्यादि-स्मृतिभिः । तदनुगृहीतैः ‘ब्रह्म सविग्रहं स्रष्टत्वात् पालयितृत्वाद्वेदोपदेष्टृत्वात्’ इत्याद्यनुमानैश्चाकारसिद्धेः । विग्रहं विनापि नित्यज्ञानेनैव कर्तृत्वे ज्ञानेच्छे अपि विना नित्यप्रयत्नेनैव तत् स्यात् । किञ्च कुलालादौ न शरीरं ज्ञानाद्युपक्षीणं किन्तु ज्ञानादिक-मेव शरीरचेष्टोपक्षीणम् । अत एव ‘विकरणत्वान्नेति चेत्तदुक्तम्’ इति सूत्रे ईश्वरस्य कर्तृत्वार्थं ‘बुद्धिमान् मनोवान् अङ्गप्रत्यङ्गवान्’ इति श्रुत्या सकरणत्वमुक्तम् ।
किञ्च ‘तदेवानुप्राविशत्’‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुतिसिद्धं सर्वगतस्य ब्रह्मणः प्रवेष्टृत्वं गम्यत्व मित्यादि न विग्रहविशेषं विना युक्तम् । न च श्रुतिरवान्तरब्रह्मपरा वा रूपोपासनापरा वा आरोपितरूपपरा वेति युक्तम् । ‘आदित्यवर्णम्’ इत्यत्र प्रकृत्याख्यतमःपरत्वोक्तेः । ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ इत्यत्र च वर्तमानत्वेनापरोक्षज्ञानविषयत्वोक्तेश्च । न हि योषित्यग्नित्वं दृश्यत इत्युच्यते । ‘सहस्रशीर्षा’ इत्यत्र ‘तमेवं विद्वानमृत इह भवति’ इति ‘यदा पश्य’ इत्यत्र च ‘तदा विद्वान्पुण्यपापे विधूय’ इति ‘न संदृशे तिष्ठति रूपमस्य’ इत्यत्र च ‘य एनं विदुरमृतास्ते भवन्ति’ इति तज्ज्ञानस्य मोचकत्वोक्तेश्च । ‘देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः’ इत्युक्तरूपस्य ‘ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप’ इति स्मृतौ मुक्तगम्यत्वाद्युक्तेश्च ।
अत एवेदं रूपं न भौतिकं प्राकृतम् अनित्यं वा । ‘नाभ्या आसीदन्तरिक्षम्’ इत्यादौ भूतकारणत्वस्य, तमसः परस्तादिति श्रुतौ ‘तमसः परत्वस्य, ‘सर्वतः पाणि-पादन्तत्’ इति स्मृतौ च ‘न सत्तन्नासदुच्यते’ इति पूर्वत्राभौतिकत्वस्य, तमसः परमुच्यत इति परत्राप्राकृतत्वस्य चोक्तेः । ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ इत्यादिषु महाप्रलये स्थित्युक्तेश्च । प्रलये विग्रहरहितचेतनमात्रसत्त्वस्य सर्वसाधारण्यात् । विग्रहानित्यत्वे ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ इति विशेषोक्त्ययोगात् । पुराकल्पा-पाये स्वकृतमुदरीकृत्य विकृतमित्यादौ साक्षान् महाप्रलये स्थित्युक्तेश्च । पश्यन्त्युक्तेश्च । ‘पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम्’ इत्यारभ्य ‘एतन्नानावताराणां निधानं बीजमव्ययम् (भा.१.३.५) इत्यत्र ।
सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः ।
परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वशः ।।
इत्यादौ च साक्षान्नित्यत्वाद्युक्तेश्च । अत एव न जडं नापि ततो भिन्नम् । आनन्दरूपममृतं यद्विभाति आप्रणखात्सर्व एवानन्दः मोदो दक्षिणः पक्षः यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः’ इत्यादिश्रुतेः । भेदाभावेऽप्यहिंकुंडलाधिकरणन्यायेन विशेषबलाद्विग्रहवत्त्वोपपत्तेश्च । ‘आत्मनि चैवं विचित्राश्च हि’ इति सूत्रे ‘विचित्रशक्तिः पुरुषः पुराण’ इत्यादिश्रुतिभि-र्विचित्रशक्तेरुक्तत्वेन आनन्दस्य नित्यत्ववदपराधीनत्ववच्च विग्रहवत्त्वस्यापि सम्भवाच्च । ‘नैषा तर्केण मतिरापनेया’ इत्यादिश्रुतिभिस्तर्कागम्यत्वोक्तेश्च । पिशाचादिवदन्तर्धान-शक्त्यानुपलम्भसम्भवाच्च ।
न चाऽपाणिपाद इत्यादिविरोधः अदुःखमसुखं समं, न प्रज्ञानघनमिति सुखज्ञान-निषेधकवाक्यवत् प्राकृतावयवादिनिषेधपरत्वाद्, अन्यथोक्तश्रुतिस्मृतिभिः, पश्यति शृणोतीत्यादिवाक्यशेषेण च विरोधात् । ‘अरूपोऽप्राकृतत्वाच्च’ इत्यादिस्मृत्यैवारूप-श्रुतिगत्युक्तेश्च । विग्रहवत्त्वेन दुःखं चेत्, स्रष्टृत्वादिनापि तत्स्यात् । स्वतन्त्रत्वादिना समाधिरपि समः । अप्राकृतानन्दमयविग्रहस्य दुःखाभावादिनैव व्याप्तेश्च । सर्वैरपीश्वरे लीलाविग्रहाङ्गीकाराच्च । न च भगवद्विग्रहस्य महत्त्वविशिष्टरूपवत्त्वसावयत्वादिनाऽ-नित्यत्वं शङ्क्यम्, उक्तश्रुत्यादिविरोधात् । प्राकृतत्वस्योपाधित्वाच्च निरवयवविशेषस्येव ज्ञानानन्दादिविशेषस्येव च सावयवविशेषस्यापि श्रुत्यादिबलान्नित्यत्वोपपत्तेश्च ।
किञ्चावयवशब्देनोपादानोक्तावसिद्धिः, एकदेशोक्तौ गगनात्मादौ व्यभिचारः । न चोपादानातिरिक्त एकदेश एव नास्ति, पटादावुपादानतन्त्वन्यस्य हस्तवितस्त्यादि परिमाणस्यैकदेशस्यानुभवात् । विस्तृतं चैतदन्यत्र । नित्यस्य गगनादेरपि संयोगित्वेनैक-देशसाधनाच्च । अन्यथाकाशे पक्षिसंयोगतदत्यन्ताभावयोः, आलोके त्रसरेणुसंयोग-तदत्यन्ताभावयोः, आत्मनि च सुखदुःखयोर्देशभेदेन प्रतीतिर्न स्यात् । एतेनैकदेशा-भावेऽपि संयोगादेः स्वात्यन्ताभावसामानाधिकरण्यात्तथाधीरिति निरस्तम् । यत्र देशे संयोगस्तत्रैव तदभावप्रतीत्यापत्तेः । ‘गौरनाद्यन्तवती’ इत्यादिश्रुत्या अनादिनित्याया अपि प्रकृतेः सत्त्वरजस्तमोरूपैकदेशदर्शनाच्च । त्वन्मतेऽप्यनाद्यविद्याया उपादानत्वाय अनणुत्वे सति परिच्छिन्नत्वाय त्रिगुणत्वाय जीवन्मुक्तौ लेशानुवृत्त्यर्थं चैकदेशस्य वक्तव्यत्वाच्च । जीवानामपि ‘द्रोणं बृहस्पतेर्भागं द्रौणिं रुद्रांशसम्भवम् । दुर्वासाः शङ्करस्यांशः’ इत्यादिनांशोक्तेश्च ।
यस्यायुतायुतांशेऽपि विश्वशक्तिरवस्थिता ।
परब्रह्मस्वरूपस्य प्रणमामि तमव्ययम् ।।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।
इत्यादावीश्वरस्याप्यंशोक्तेश्च । न चायमौपाधिकोंऽशः । न चेदुपाधीतिन्यायेन स्वाभाविकांशाभावे तदयोगात् । एतेन सावयवत्वादिना भगवल्लोकादेरनित्यत्व-साधनमप्यपास्तम् ।
अतो हि वैष्णवा लोका नित्यास्ते चेतनात्मकाः ।
मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ।।
इत्याद्यागमविरोधात् । तस्मात्सगुणं साकारं च ब्रह्मेति । ब्रह्मणो निराकारत्वभङ्गः ।।
अद्वैतसिद्धि:
एवं निराकारमपि । ननु ‘आदित्यवर्णं तमसः परस्तात्’ ‘यदा पश्यः पश्यते रुक्मवर्णम्, ‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्’ ‘विश्वतश्चक्षुः’‘सहस्रशीर्षा’ इत्यादिश्रुतिभिः ‘पश्य मे पार्थ रूपाणि’ ‘सर्वतः पाणिपादं तद्– इत्यादिस्मृतिभिः ‘ब्रह्म सविग्रहम् स्रष्टृत्वात्, पालयितृत्वाद्, उपदेष्टृत्वात्’ इत्याद्यनुमानैश्च विग्रहसिद्धिरिति चेन्न, ‘आदित्यवर्णम्’ इत्यस्याविद्याविलक्षण-स्वप्रकाशस्वरूपप्रतिपादनपरतया उपास्यपरतया चोपपत्तेः । न च तमसः परत्वोक्त्योपासनापरत्वानु-पपत्तिः । उपास्यविग्रहोपलक्षितस्य तमसः परत्वोक्तेः न तु रूपविशिष्टस्य । न च ‘एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ इत्यत्र वर्तमानत्वेनापरोक्षज्ञानविषयत्वोक्तेरनारोप्यत्वम् । न हि योषितोऽग्नित्वं दृश्यत इत्युच्यत इति वाच्यम् । प्रतीकोपासने उपास्यसाक्षात्कारनियमाभावेऽपि सगुणोपासने उपा-स्यसाक्षात्कारस्य तस्य स्यादद्धेति श्रुतिसिद्धस्य नियतत्वेन तस्यैव दर्शनशब्देनाभिधानात् । ‘विश्वतश्चक्षुः’ इत्यादिश्रुतिस्मृतीनां सर्वात्मकतया सर्वान्तर्यामितया च नियम्यजीवशरीरचक्षुः पाणिशिरःप्रभृत्यनुवादित्वोपपत्तेः । सर्वतः पाणिपादत्वादेस्तु असम्भवात् । त्वयाप्येवमेव वक्तव्यत्वात् । अन्यथा देशविशेषावच्छेदेन परममुक्तिप्रतिपादनं गम्यत्वप्रवेष्टृत्वाद्युपपादनं च त्वदीयमसङ्गतं स्यात् । अनुमानेऽप्येवमेव सिद्धसाधनम् । ‘विकरणत्वान्नेति चेत्तदुक्तम्’ इति सूत्रे अविद्यापरिणामस्य करण-स्थानीयस्याङ्गीकारादविरोधात् ।
यत्तु– ‘तदेवानुप्राविशद्, ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुतिसिद्धं सर्वगतस्य ब्रह्मणः प्रवेष्टृत्वं गम्यत्वं च विग्रहं विना न युज्यते इति, तन्न । स्वसृष्टकार्याभिव्यक्तत्वस्यैवानुप्रवेशशब्दार्थतया व्यापकस्य मुख्यप्रवेशासम्भवात्, । स्वतः प्राप्तस्यापि अविद्यातिरोधाननिवृत्त्यपेक्षया प्राप्यत्वोपचारेण विग्रहानाक्षेपकत्वात् । यत्तु ‘तमेवं विद्वानमृत इह भवति, ‘यदा पश्यः’ इत्यादिश्रुतौ सर्वनाम्ना सविग्रहस्यैव परामर्शात् तज्ज्ञानस्यैव मोचकत्वे सविग्रहत्वमिति, तन्न । सगुणविद्यायाः क्रममुक्त्यर्थ-त्वेनान्यथासिद्धेः । साक्षान्मुक्तिजनकत्वपक्षे तदुपलक्षितात्मज्ञानस्यैव मोचकत्वात् । अत एव ‘देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः’ इत्यादिस्मृतिरपि व्याख्याता । किञ्च विग्रहः किं भौतिकः अभौतिको वा । अभौतिकोऽपि मायिकः अमायिको वा । अमायिकोऽपि ब्रह्मभिन्न अभिन्नो वा । भौतिकमायिकावपि कर्मार्जितौ परकर्मर्जितौ वा । आद्ये संसारित्वापत्तिः । द्वितीये इष्टापत्तिः । ब्रह्मभिन्नत्वे तवापसिद्धान्तः । ‘नेति नेति’ इति श्रुतिविरोधः । ‘अपाणिपाद’ इत्यादिश्रुतिविरोधश्च । अभौतिकामायिकब्रह्माभिन्नदेहाङ्गीकारे उक्तश्रुतिविरोधः, चार्वाकमतप्रवेशश्च १प्रमाणाभावश्च ।
न च ‘नाभ्या आसीदन्तरिक्षम्’ इति भूतकारणत्वोक्त्या अभौतिकत्वासिद्धिः । ‘अग्निर्मूद्ध•’ इत्यादिश्रुतिपर्यालोचनयाऽन्तरिक्षादीनां नाभित्वादिपरिकल्पनया विराड्देहप्रतिपादकतया शरीरस्य भूतकारणत्वाप्रतिपादकत्वात् । ‘तमसः परस्तात्’ इत्यादेश्च विराड्देहोपलक्षितब्रह्मपरतया विग्रहस्य तमसः परत्वाप्रतिपादकत्वात् । न च ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ इति श्रुत्या महाप्रलये नारायणस्थित्युक्त्या नित्यविग्रहसिद्धिः । नारायणशब्दस्य ‘सदेव सोम्येदमग्र आसीत्’ इति श्रुत्यनुसारेण मायोपहितब्रह्मपरत्वेन विग्रहपरत्वाभावात् । न चैतावता चेतनान्तर साधारण्यम् । अखण्डमायोपहितत्वस्यैव व्यावर्तकत्वात् । न च ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ इति विग्रह-नित्यत्वाभावे विशेषोक्तिविरोधः । विग्रहानङ्गीकारेऽपि स्वरूपचैतन्यमादायोपपत्तेः । नापि ‘पुराकल्पा-पाये स्वकृतमुदरीकृत्य विकृतम्’ इत्यादौ महाप्रलये देहस्य साक्षात्स्थित्युक्त्या नित्यविग्रहसिद्धिः । सर्वविकारमूलकारणाविद्यायाः संस्कारात्मनाऽवस्थानस्य उदरीकरणशब्दार्थत्वात् । न च मुख्यार्थ-त्यागः । त्वयाप्यस्यार्थस्यैव वक्तव्यत्वात् । अन्यथा सकलस्य ब्रह्माण्डस्य तदनुप्रवेशमात्रेण प्रलयासिद्धेः ।
यत्तु–
‘सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः ।
परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वदा ।।’
इत्यादौ साक्षान्नित्यत्वोक्तिविरोध इति, तन्न । प्रलयपर्यन्तस्थायिदुःखभोगानायतनज्ञानमात्र-प्रधानदेहपरतया त्वद्विवक्षित परत्वाभावात् । अत एव जडस्ततो भिन्नश्च । न च ‘आनन्दरूपममृतं यद्विभाति’ ‘आप्रणखात् सर्व एवानन्दः’, ‘मोदो दक्षिणः पक्षः’ ‘तदात्मको भगवान् यदात्मिका व्यक्तिः, किमात्मको भगवान्, ज्ञानात्मक ऐश्वर्यात्मकः’ इत्यादिश्रुतेर्भेदाभावेऽपि अहिकुण्डलन्यायेन विशेषबलाद्विग्रहवत्त्वोपपत्तिरिति वाच्यम् । आत्मनो ज्ञानानन्दरूपत्वप्रतिपादन परत्वेन विग्रहाप्रतिपाद-कत्वात् । ‘विचित्रशक्तिः पुरुषः पुराणः’ इत्यादिवाक्यस्य ‘आत्मनि चैवं विचित्रा हि’ इति सूत्रस्य च मायाशक्तिवैचित्र्यप्रतिपादकत्वेनात्मशक्त्यप्रतिपादकत्वात् । आप्रणखादित्यादेश्च लीलाविग्रहावच्छेदेन दुःखाद्यभोक्तृतयोपपत्तेः । ‘मोदो दक्षिणः’ इत्यादेरानन्दमयकोशप्रतिपादकतया ब्रह्मपरत्वाभावात् । न हि श्रुत्युक्तत्वमात्रेण ब्रह्मणो विग्रहरूपता । ‘ब्रह्मैवेदं सर्वं पुरुष एवेदं सर्वम्’ इत्यादिश्रुत्या प्रपञ्चरूपतापि ब्रह्मण्यापद्येत । स्वरूपानन्द एव नित्यत्ववदपराधीनत्ववच्च विग्रहत्वकल्पनस्य परिभाषामात्रत्वात् । मन्मतेऽपि ब्रह्मातिरिक्तस्य ब्रह्मसत्तासमानसत्ताकत्वाभि मतस्य ब्रह्मणि निषेधाङ्गी-कारात् । न च ‘नैषा तर्केण मतिरापनेया’ इति तर्कागम्यत्वोक्त्या आत्मन एव विग्रहवत्त्वमिति वाच्यम् । निर्विशेषात्मन एव तर्कागम्यत्वोक्त्या आत्मनो विग्रहवत्त्वस्य तर्कागम्यत्वानुक्तेररूपत्वेन चाक्षुषत्वाप्रसक्त्या पिशाचादिवदन्तर्धानशक्त्यानुपलम्भसमर्थनस्याप्रसक्तसमर्थनत्वात् । विग्रहपक्षे ‘अपाणिपाद’ इत्यादिश्रुतिविरोधस्योक्तत्वाच्च ।
न च ‘अदुःखमसुखम्’ इत्यादौ प्राकृतसुखनिषेधवदत्रापि प्राकृतावयवनिषेधपरता । अन्यथा ‘शृृणोति पश्यति’ इति वाक्यशेषविरोधः स्यादिति वाच्यम् । आनन्दादिरूपताप्रतिपादकश्रुतिविरोधेन तत्र सङ्कोचवदत्र सङ्कोचकारणाभावात् । श्रवणदर्शनयोः शब्दरूपसाक्षित्वमात्रेणोपपत्तेर्न तद्विरोधः । अन्यथा त्वन्मतेऽपि ब्रह्मणि चक्षुरादिसाध्यज्ञानानङ्गीकारेण तद्विरोधो दुष्परिहरः स्यात् । अत एव ‘अरूपोऽप्राकृतश्च’ इति स्मृत्यैवारूपश्रुतिगत्युक्तेः नारूपमित्यनेन रूपमात्रनिषेध इति निरस्तम् । स्मृतेरुपास्यपरत्वेन ज्ञेयब्रह्मप्रतिपादिकायाः श्रुतेः सङ्कोचे कारणाभावात् । श्रुतिस्मृत्योरतुल्यबलत्वाच्च । प्रत्युत ‘यत्तदद्रेश्यम्’ इत्यादिना परविद्याविषयस्य विग्रहवत्त्वप्रतिपादनविरोधाच्च । किञ्च भगवद्विग्रहो न नित्यः । महत्त्वे सति रूपवत्त्वाद्, विग्रहत्वाद्वा, नित्यताबोधकत्वाभिमतश्रुतेरन्यथासिद्धेरुक्तत्वाच्च । न च प्राकृतत्वमुपाधिः । साधनव्यापकत्वात् । सावयवत्वादपि न नित्यत्वम् । न च श्रुतिबलात् क्वचित् सावयवोऽपि नित्यः । श्रुत्यन्यथासिद्धेरुक्तत्वात् । ननु अवयव उपादानं चेत्, ब्रह्मविग्रहे नास्त्येव । एकदेशमात्रं चेद्, गगनात्मादौ व्यभिचारः । तयोरप्येकदेशसत्त्वात् । न चोपादानाति-रिक्तस्यैकदेशस्यैवाभावः । उपादान-तन्त्वन्य-हस्तवितस्त्यादिपरिमाणस्यैकदेशस्य पटादावनुभवादिति चेन्न । उपादानतन्तूनामेव हस्तवितस्त्यादिपरिमाणवतामनुभवात् । गगनादौ संयोगित्वादिना यदेकदेश-साधनं तदिष्टमेव । अस्माभिस्तत्र सावयवत्वानित्यत्वयोरङ्गीकारात् ।
यत्तु आत्मनि सुखदुःखयोर्देशभेदेन प्रतीतेरेकदेशसाधनम्, तन्न । सुखदुःखयोरन्तःकरणगततया तद्गतत्वाभावात् । न च ‘गौरनाद्यन्तवती’ इत्यादिश्रुत्या अनादिनित्या अपि प्रकृतेः सत्त्वरजस्तमो-रूपैकदेशदर्शनाद् व्यभिचार इति वाच्यम् । प्रकृतौ नित्यत्वाभावादविद्यातिरिक्तप्रकृतेरभावाच्च । न चाविद्यायामेव व्यभिचारः । तस्या अप्यनित्यत्वेन व्यभिचाराभावात् । न च जीवानामपि ‘द्रोणं बृहस्पतेर्भागं द्रौणिं रुद्रांशसम्भवम् । दुर्वासाः शङ्करस्यांशः’ इत्यादिनांशोक्तेः ।
यस्यायुतायुतांशेऽपि विश्वशक्तिरवस्थिता ।
परब्रह्मस्वरूपस्य प्रणमामि तमव्ययम् ।।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।
इत्यादिना ईश्वरस्याप्यंशोक्तेर्जीवेशयोर्व्यभिचार इति वाच्यम् । आत्मनोंऽशस्यौपाधिकतया स्वाभाविकत्वाभावात् । त्वन्मते जीवानामणुरूपतया स्वाभाविकांशाभावेन काल्पनिकांशस्यैव वक्तव्यत्वात् । एतेन भगवल्लोकादेरपि नित्यत्वम् अपास्तम् ।
न च– ‘अतो हि वैष्णवा लोका नित्यास्ते चेतनात्मकाः ।
मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ।।
इत्याद्यागमविरोधः । तस्यावान्तरप्रलयस्थत्वपरत्वात् । तस्मान्निर्गुणं निराकारं ब्रह्मेति सिद्धम् ।।
।। इत्यद्वैतसिद्धौ ब्रह्मणो निराकारत्वसिद्धिः ।। ६ ।।
न्यायामृततरङ्गिणी
एतेनेति ।। सगुणत्वेन हेत्वंतरं चाह– आदित्येति ।। इत्यादिश्रुतिस्मृत्यनुमानै-राकारसिद्धेश्च निराकारत्वं निरस्तमित्यन्वयः । तैत्तिरीयारण्यके सहस्रशीर्षेत्यनुवाके ‘वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे’ इति पाठः । तत्रैव ‘अद्भ्यः सम्भूतः’ इत्यनुवाके ‘आदित्यवर्णं तमसः परस्तात्’ इति पाठः । मन्त्रद्रष्टा स्वानुभवं प्रकटयति । य आदित्यवर्णः प्रकृतेः परस्तमेतं पुरुषमहं वेदेत्यर्थः ।। यदा पश्य इति ।। मुण्डके ।। ऋतं सत्यमिति ।। तैत्तिरीयारण्यके ‘ऋतं सत्यम्’ इत्याद्युक्त्वा ‘ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः’ इत्युक्तम् । ‘सहस्रशीर्षं देवम्’ इत्याद्युक्त्वा ‘विश्वं नारायणं देवमक्षरं परमं प्रभुम्’ इत्युक्तम् ।। यदेक-मिति ।। ‘यदेकमव्यक्तमनन्तरूपमादित्यवर्णं तमसः परस्तात् । तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति श्रुतिशेषः । श्रुतेरवान्तरब्रह्मपरत्वं निराकरोति–आदित्यवर्ण-मित्यत्रेति ।।
उपासनापरत्वं निराकरोति– य एष इति ।। ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इति छान्दोग्यवाक्ये वर्तमानार्थकलडन्तदृशिधातुना यग्विकरणकेन हिरण्मयपुरुषस्यापरोक्षज्ञान-विषयतया वर्तमानत्वप्रतीतेरित्यर्थः । क्रियायामेव वर्तमानत्वान्वयो न तु कर्मणीति चेन्न । क्रियाद्वारा कर्मण्यन्वयात् । यद्यपि धातुमात्रे वा दृशिधातौ वा नोक्तनियमः । पूरेण वृष्टिरनुमीयते शुक्तौ रूप्यं दृश्यत इत्यादौ तदभावात् । तथापि प्रमाणवाक्यस्थलेऽननुवादके दृशौ तथा नियमः । अयमत्र प्रयोगः । आदित्यवर्णमिति वाक्योक्तमादित्यवर्णत्वं नोपास्यमात्रं वर्तमानत्वेनापरोक्षज्ञानविषयहिरण्मयत्वादितुल्यत्वात् । अत्र व्यतिरेकव्याप्तिमाह– न हीति ।। ननु प्रतीकोपासने उपास्यसाक्षात्कारनियमाभावेऽपि सगुणोपासने सोऽस्तीति चेत्तत्किमुपासनं सत्युपास्यसाक्षात्कार उच्यतेऽसति वा । आद्ये इष्टापत्तिः । द्वितीये तस्य भ्रान्तित्वापत्तिः । ‘एतमितः प्रेत्याभिसम्भविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह शाण्डिल्य’ इत्यादिश्रुतिविरोधश्च । यद्रूपस्योपासकोऽहं तद्रूपमभिसम्भविता याता । इति यस्य निश्चयः स्यात्स तद्रूपं प्राप्नोत्येव न संशय इत्यर्थः । उपास्यरूपाभावे तत्प्राप्तिरयुक्तेति श्रुतिविरोधः । आरोपितरूपपरत्वं निराकरोति– सहस्रशीर्षेति ।। उपलक्षणमेतत् । सहस्रशीर्षेत्यत्र वेदाहमेतमित्याद्युक्त्वा ‘आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन्यदास्ते’ इति नामरूपस्रष्टृत्वमुक्तम् । धीरः पुरुषः सर्वाणि रूपाणि विचित्य निर्माय तेषां रूपाणां नामनि कृत्वा तैर्नामभिरभिवदन् व्यवहरन् वर्तत इत्यर्थः । तथा ‘धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः’ इति ब्रह्मादिभिरुपदेश्यत्वमुक्तम् । धाता ब्रह्मा पूर्वमनादिकाले यं पुरुषं स्वशिष्यान् प्रत्युदाहृतवान् सर्वज्ञ इन्द्रोऽपि चतुर्दिग्वर्तिशिष्यान् प्रति यमुपदिष्टवान् तमेतमेवं सहस्रशीर्षत्वादिना जानन्नमृतो भवतीति श्रुत्यर्थः ।। न सन्दृश इति ।। काठके श्वेताश्वतरे च–
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिकप्तो य एतद्विदुरमृतास्ते भवन्ति ।। इत्युक्तम् ।
तैत्तिरीयाणां तु ‘य एनं विदुः’ इति पाठः । ‘ऋतं सत्यं परम्’ इत्यत्र सत्यज्ञानादि-वाक्योक्तपरब्रह्मस्वरूपलक्षणान्यपि पिङ्गलरूपाण्यभिहितानि । ‘विश्वतश्चक्षुः’ इत्यत्र ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिवाक्योक्ततटस्थलक्षणानि, ‘एकमेवाद्वितीयम्’ इति वाक्योक्तैकत्वादीनि चोक्तानि । ‘सहस्रशीर्षम्’ इत्यत्राक्षरत्वं ‘नारायणं परं ब्रह्म’ इति परब्रह्मत्वं, ‘अनन्तमव्ययम्’ इत्यनन्तत्वं चोक्तम् । ‘यदेकमव्यक्तम्’ इत्यतः पूर्वम् ‘अतः परं नान्यदणीयसं हि परात् परं यन्महतो महान्तम्’ इति परात्परत्वादिकम्, उत्तरत्र ‘तदेव ब्रह्म’ इति ब्रह्मत्वं ‘तदेवाग्निस्तद्वायुः’ इति सर्वात्मकत्वं चोक्तम् । तस्मादादित्यवर्ण-मित्यादिषूक्तं परं ब्रह्मैव ।। अस्येति ।। विश्वरूपाख्यस्य ।। अत एवेति ।। मुक्तगम्यत्वादेः ।। सर्वत इति ।।
‘ज्ञेयं तच्च प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते’ इति प्रतिज्ञाय
अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।।
इत्युक्त्वा ‘ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते’ इति तमः परत्वोक्त्याऽप्राकृतत्व-सिद्धिः । अनित्यत्वं निराकरोति– एक इति ।। ‘एको नारायणः’ इति श्रुतिश्चेतनस्य प्रलयेऽवस्थानमाह न तु तच्छरीरस्यापीत्यत आह– प्रलय इति ।। विशिष्य नारायणाव-स्थानोक्तिर्न स्यादित्यर्थः । व्यक्तिः शरीरम् । ननु विग्रहस्य भगवदात्मकत्वे तस्य विग्रहित्वं न स्यादत आह– भेदाभावेऽपीति ।। नन्वानन्दस्य मूर्तस्य कथं हस्तपादाद्यात्मकविग्रहवत्व-मत आह– आत्मनीति ।। परमात्मनि विचित्राः शक्तयो वर्तन्त इति सूत्रार्थः । परमात्मा-भिन्नस्यानन्दस्यापि विचित्रशक्तित्वोपपत्तिः । ननु गुणि शक्तिः, कथं गुणे स्यात् । जलाहरण-शक्तेर्घटाभिन्नेऽपि रूपेऽदर्शनादत आह– नैषेति ।। ‘अपाणिपादः’ इति वाक्ये ‘जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग््रयं पुरुषं महान्तम्’ इति श्वेताश्वतरे श्रवणाद्युक्तेस्तद्विरोध इत्याह– अन्यथेति ।। प्राकृतावयवाद्यनिषेधे विग्रहवत्त्वेन दुःखित्वानुमाने व्यापकानुपलब्धिबाधमाह– अप्राकृतेति ।। एतच्च प्राकृतविग्रहा-भावोपलक्षणम् । अप्राकृतानन्दमयविग्रहवत्त्वादीश्वरस्य प्राकृतविग्रहवत्त्वं नास्तीत्यर्थः । तथा च प्राकृतविग्रहाभावदुःखाभावयोर्व्याप्यव्यापकभावात्तत्प्रतियोगिनोर्व्यापकव्याप्यभावोऽवधारित इति प्राकृतविग्रहवत्त्वस्य भगवत्यभावात्तद्व्याप्यदुःखस्याप्यभाव इति भावः ।
उक्तानुमानेऽदृष्टवत्त्वमुपाधिमभिसन्धाय तस्यासाधनाव्यापकत्वशङ्कां परिहरति– सर्वैरिति ।। तथा च विग्रहवतीश्वरेऽदृष्टाभावान्नोपाधिः साधनाव्यापक इत्यर्थः ।। निरवयवेति ।। गुणादौ व्यभिचारान्निरवयवमात्रे नित्यत्वाभावेऽपि तद्विशेषे नित्यत्वं न त्यज्यते । यथा वाऽज्ञाना-नन्दादिमात्रे नित्यत्वाभावेऽपि तद्विशेषे तदस्ति । यथा सावयवविशेषेऽपि नित्यत्वं युज्यते । उपादानाभावेऽपि गगनादेरेकदेशोऽस्तीत्याह– गगनादेरपीति ।। अन्यथेति ।। वृक्षे शाखाद्यवयवस्येव गगने संयोगतदत्यन्ताभावयोराधारतावच्छेदकस्यावयवस्याभावे न तदवच्छेद-कांशसिद्धिः । नन्वाकाशे पक्षिसंयोगाद्याधारतायां पक्ष्यवयवसंयोगोऽवच्छेदको भविष्यतीत्यत आलोके इत्युक्तम् । उक्तरीत्याऽऽलोकत्रसरेणुसंयोगाद्याधारता गगने त्रसरेण्ववयवद्व्यणुक-संयोगेनावच्छिद्यत इति वाच्यम् । तच्चायुक्तम् । अवच्छेदकस्य द्व्यणुकसंयोगस्यातीन्द्रियतया त्रसरेणुसंयोग आकाशे प्रत्यक्षो न स्यादित्यर्थः ।। न चेदुपाधीति ।। औपाधिकमंशं सम्पादयितुमाकाशे सम्बध्यमान उपाधिः सर्वस्मिन्नाकाशे वा सम्बध्यते तदेकदेशे वा । आद्ये सर्वोऽपि घटाकाशः स्यात् । द्वितीये सोंऽशः किमाकाशे स्वाभाविको वौपाधिको वा । नाद्यः । प्रथमस्यैव तथौचित्यात् । द्वितीयेऽपि प्रकृतोपाधिकृतो वोपाध्यन्तरकृतो वा । आद्येऽ-न्योन्याश्रयः । एतदुपाधिसम्बन्धे सत्याकाशेंऽशसिद्धिरंशसिद्धौ च तत्रैतदुपाधिसम्बन्ध इति । उपाध्यन्तरकृतत्वपक्षेऽप्येवं दोषः । तस्मान्नौपाधिका अंशाः ।। इत्याद्यागमेति ।। आदिपदेन ‘अमृते लोके अक्षिते आरोहसूर्ये अमृतस्य लोकम्’ इत्यादिश्रुतिः ।। ब्रह्मणो निराकारत्वभङ्गः
।। ६ ।।
न्यायामृतकण्टकोद्धारः
ननु तथाप्यनन्तगुणत्वमनुपपन्नम् । सुन्दराकारवत्त्वगुणाभावात् । तदभावे च ज्ञानाद्यनु-पपत्तिः । ज्ञानादेस्तन्नियतत्वात् । न च विग्रहादिकमप्यङ्गीक्रियत एवेति वाच्यम् । तत्र प्रमाणा-भावात् । अनित्यत्वाद्यापत्तिरूपबाधकसद्भावाच्चेत्यत आह– एतेनेति ।। प्रमाणसद्भावेन बाधकाभावेन चेत्यर्थः । तत्र प्रमाणसद्भावं दर्शयति– आदित्येत्यादिना सिद्धेरित्यन्तेन ।। उपलक्षणमेतत् । ज्ञानिप्रत्यक्षसूत्रे अपि ग्राह्ये । अत एव ‘पश्यन्त्यदो रूपं’ विकरणत्वादिना तथैव दर्शयिष्यति । ननु कर्तृत्वानुपपत्त्या विग्रहः स्वीकर्तव्यः । कर्तृत्वं च १त्वात्तदङ्गीकारस्तदा विग्रहोऽपि तत एव स्वीकर्तव्य इति तुल्यमिति भावः । ननु विग्रहो ज्ञानादावुपक्षीणः । ज्ञानादिकं तु न कुत्राप्युपक्षीणमित्यत आह– किञ्चेति ।। न हि ज्ञानादिकं दण्डादिवत्साक्षात् कारणं किन्तु शरीरचेष्टाद्वारा । तथा चेश्वरे शरीरचेष्टां नित्यां स्वीकृत्य ज्ञानादिकमेव न स्वीकर्तव्यम् । न च शरीरचेष्टाज्ञानादेर्व्यापार इति ज्ञानादिकं कार्यं प्रति कारणमिति तदङ्गीक्रियते । तर्हि शरीरमपि तथेति तथाप्यङ्गीकर्तव्यमेवेति भावः ।। अत एवेति ।। यतः शरीरकर्तृत्वोपयोगि न कुत्राप्युपक्षीण-मत एवेत्यर्थः ।
श्रौतार्थापत्त्यापीश्वरस्य शरीरं साधयति– किञ्चेति ।। न च कल्पितविग्रहेण लीलाविग्रहेण वा तदुपपत्तिरिति वाच्यम् । श्रुतत्यागाश्रुतकल्पने स्याताम् । भगवत्प्राप्तिरूपफलस्यापि कल्पितत्वप्राप्तेश्च । नन्विदं साकारत्वं परब्रह्मणस्साध्यते उतापरब्रह्मणः । नाद्यः । तत्र प्रमाणा-भवात् । द्वितीये त्विष्टापत्तिरित्याशङ्क्य निषेधति– न चेति ।। प्रकृतस्येति तथा च नापर-ब्रह्मविषयत्वं । न चारोपितरूपविषयत्वं, तयोस्तमः परत्वायोगादिति भावः । य एष इति उपासनामात्रविषयस्य वर्तमानत्वेन दर्शनोक्तेरदृष्टत्वादिति भावः ।। सहस्रेति ।। रूपवतोऽपरब्रह्मत्वे रूपादेरारोपितत्वे च तज्ज्ञानान्मुक्तिर्न स्यात् । न ह्यन्यज्ञानान्मिथ्याज्ञानान्मुक्तिरिति भावः । न चेयं न परममुक्तिरिति वाच्यम् । तदतिरिक्तमुक्तौ मानाभावात् । न च परम्परयाऽ-परब्रह्मज्ञानस्यापि मुक्तिसाधनत्वं साक्षात्साधनस्य बाधकाभावात्प्रतीतेः ।। मुक्तेति ।। मुक्तज्ञेयं च नाविद्यकम् । मुक्तानामविद्याभावादिति भावः ।
ननु तर्ह्यस्तु प्राकृतं वा भौतिकं वेत्यत आह– अत एवेति ।। परामृष्टं हेतुं दर्शयति– नाभ्या इति ।। महाप्रलये एकस्य नारायणस्यैव स्थित्युक्त्यन्यथानुपपत्त्या शरीरनित्यत्वसिद्धिरित्याह– एक इति ।। ननु स्थित्युक्तिः स्वरूपस्थित्यैव किं न स्यादित्यत आह– प्रलय इति ।। विग्रहेति ।। न च ज्ञानादिनित्यत्वे विशेषोक्तिरिति वाच्यम् । मुक्तानामपि ज्ञाननित्यत्वस्य वक्ष्यमाणत्वात् । सर्वेषामपि स्वरूपज्ञानस्य नित्यत्वात् ।। साक्षादिति ।। शरीरस्येति शेषः । अत्र हरिविग्रहस्य प्रस्तुतिप्रदर्शनार्थं पश्यन्तीति पूर्ववाक्योदाहरणम् । नन्वस्तु शरीरं नित्यं जडं तेन भिन्नमेवेति किं न स्यादित्यत आह– अत एवेति ।। ननु भेदाभावे शरीरिभावः कथमित्यत आह– भेदा भावेऽपीति ।। यथा अहिकुण्डलयोर्भेदाभावेऽपि अहिः कुण्डलीति व्यपदेशो विशेषबलेन तथेत्यर्थः । ननु विग्रहित्वे कथं विग्रहत्वं, विरुद्धत्वादित्यत आह– आत्मनीति ।। विचित्रशक्तित्वाद् यथाऽऽनन्दित्वेऽप्यानन्दत्वं तथा विग्रहित्वेऽपि विग्रहत्वमुपपद्यत इति भावः । ननु विमतो न विग्रही विग्रहत्वादिति युक्तिविरुद्धत्वात्कथं विग्रहित्वमङ्गीक्रियते इत्यत आह– नैषेति ।।
ननु परमात्मा विग्रहवांश्चेत्प्रत्यक्षेणोपलभ्येत । न चोपलभ्यते । तस्मान्न विग्रहवानित्यत आह– पिशाचादि वदिति ।। अन्यथेति ।। विग्रहत्वावच्छिन्ननिषेध इत्यर्थः । एवं साधकाभावं परिहृत्य बाधकमपि परिहरति– विग्रहवत्त्वेनेति ।। विग्रहवत्त्वमात्रस्य दुःखव्याप्तत्वे भवद्भिरपि लीलाविग्रहाङ्गीकाराद् भवतामपीदं दूषणं तुल्यमित्याह– सर्वैरपीति ।। ननु तथापि विग्रहस्य नित्यत्वं नोपपद्यते । ‘विमतो विग्रहोऽनित्यो महत्त्वविशिष्टरूपवत्त्वाच्च साव यवत्वाच्च घटादिवत्’ इत्यनुमानविरोधादित्याशङ्क्य निषेधति– न चेति ।। निरवयवेति ।। तथा चान्यथासिद्धिरपीति भावः ।। असिद्धिरिति ।। उपादानरूपावयवानङ्गीकारादिति भावः । ननु कथं गगने व्यभिचारः । तत्रैकदेशानङ्गी कारादित्यत आह– नित्यस्येति ।। ननु संयोगित्वेप्येकदेशानङ्गीकारे किं बाधक-मित्यत आह– अन्यथेति ।। एतेनेति परामृष्टं हेतुमाह– यत्रेति ।। उपलक्षणमेतत् । भावा-भावयोरेकत्र विरोधात् । अवश्यमवच्छेदभेदार्थं प्रदेशः स्वीकार्य इत्यपि द्रष्टव्यम् ।
नन्वनादिनित्यस्य सांशत्वं क्वापि न दृष्टम् । तत्कथं स्वीक्रियत इत्यत आह– गौरिति ।। अनादिनित्यस्य मयैव सांशत्वं स्वीकर्तव्यमित्येव न किन्तु त्वयापि स्वीकर्तव्यमित्याह– त्वन्मतेऽपीति ।। जीवपरमेश्वरयोरंशो क्तेश्चोपादानातिरिक्ता अंशाः स्वीकर्तव्या इत्याह– जीवानामपीत्यादिना ।। न चेदिति ।। उपाधिसम्बन्ध एकदेशे सर्वत्र वा ? आद्येऽनवस्था । द्वितीये भेदकत्वानुपपत्तिरिति न्यायेनेत्यर्थः ।। एतेनेति ।। उपादानतयैक देशानङ्गीकारेणेत्यर्थः । तस्माद् भगवतो विग्रहवत्त्वे साधकसद्भावाद्बाधकाभावाच्च भगवतः सुन्दरविग्रहवत्त्व सम्भवाद् अनन्तकल्याणगुणकत्वं सिद्धमित्युपसंहरति– तस्मादिति ।। ब्रह्मणो निराकारत्वभङ्गः ।। ६ ।।
न्यायकल्पलता
१ऋतं सत्यमिति ।। तैत्तिरीयोपनिषदि । ‘ऋतं सत्यम्’ इत्याद्युक्त्वा ‘ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः’ इत्युक्तम् । विश्वतः इति परमार्थे तसिः । अलुक् समासः । विश्वं व्याप्तं शक्तिव्यक्त्यात्मना स्थितं चक्षुरस्येत्यर्थः । इत्यादि ज्ञेयम् । ‘सहस्रशीर्षं देवम्’ इत्याद्युक्त्वा ‘विश्वं नारायणं देवमक्षरं परमं प्रभुम्’ इत्युक्तम् ।। विश्वशम्भुवमिति ।। परिपूर्णाश्रयम् इत्यर्थः ।। यदेकमिति ।। ‘यदेकमव्यक्तमनन्तरूपमादित्यवर्णं तमसः परस्तात् । तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति श्रुतिशेषः ।। सर्वत इति ।। सर्वतो व्याप्ताः पाणिपादाः यस्येति विग्रहः ।
‘पश्यन्त्यदो रूपमदभ्रचक्षुषः सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ।
इति भागवत(२.३.४)वाक्यं सङ्गृहीतम् । श्रुतेरवान्तरब्रह्मपरत्वं निराचष्टे–आदित्यवर्णमित्य-त्रेति ।। उपासनापरत्वं निराकरोति– य एष इति ।। ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इति छन्दोगोपनिषदिे वर्तमानार्थकलडन्तदृशिधातुना यग्विकरणकेन हिरण्मयपुरुषस्यापरोक्षज्ञानविषयतया वर्तमानत्वप्रतीतेरित्यर्थः । यत्तु क्रियायामेव वर्तमानत्वान्वयो न तु कर्मणीति, तदसारम्, क्रियाद्वारा कर्मण्यन्वयात् । अर्थस्य वर्तमानत्यैव क्रियाप्रयोगाच्च । यद्यपि धातुमात्रे वा दृशिधातौ वा नोक्तनियमः । ‘पूरेण वृष्टिरनुमीयते, शुक्तौ रूप्यं दृश्यते’ इत्यादौ तदभावात् । तथापि प्रमाणवाक्यस्थलेऽननुवादके दृशौ तथा नियमः । अयमत्र प्रयोगः । आदित्यवर्णमिति वाक्योक्तमादित्यवर्णत्वं नोपास्यमात्रं वर्तमान-त्वेनापरोक्षज्ञानविषयहिरण्मयत्वादिरूपत्वात् । अत्र व्यतिरेकव्याप्तिमाह– न हीति ।।
ननु प्रतीकोपासने उपास्यसाक्षात्कारनियमाभावेऽपि सगुणोपासने सोऽस्तीति चेत्तत्किमुपास्ये सत्युपास्यसाक्षात्कार उच्यतेऽसति वा । आद्ये इष्टापत्तिः । द्वितीये तस्य भ्रान्तित्वापत्तिः । ‘एतमितः प्रेत्याभिसम्भविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्य’ इत्यादि-श्रुतिविरोधश्च । यद्रूपस्योपासकोऽहं तद्रूपमभिसम्भविता याताऽस्मि इति यस्य निश्चयः स तद्रूपं प्राप्नोत्येव न संशय इत्यर्थः । उपास्यरूपाभावे तत्प्राप्तिरयुक्तेति श्रुतिविरोधः । आरोपितरूपपरत्वं निराकरोति– सहस्रशीर्षेति ।। उपलक्षणमेतत् । सहस्रशीर्षेत्यत्र वेदाहमेतमित्याद्युक्त्वा ‘आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन्यदास्ते’ इति नामरूपस्रष्टृत्व-मुक्तम् । धीरः परमपुरुषः सर्वाणि रूपाणि हिरण्यगर्भादिशरीराणि विचित्य निर्माय तेषां रूपाणां नामनि कृत्वा तैर्नामभिस्तानाहूय अभिवदन् उपदिशन् वर्तत इत्यर्थः । ‘यो ब्रह्माणं विदधाति धाता पूर्वं यो वेदांश्च प्राहिणोति तस्मै’ इति हि श्वेताश्वतरोपनिषदि । तथा ‘धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः’ इति ब्रह्मादिभिरुपदेश्यत्वमुक्तम् । धाता ब्रह्मा, पूर्वम् अनादिकाले यं परमपुरुषं स्वशिष्यान् रुद्रादीन् प्रति (उदाजहार)उदाहृतवान् उपदिष्टवान् । सर्वज्ञ इन्द्रोऽपि चतुर्दिग्वर्तिस्वशिष्यान् प्रति यमुपदिष्टवान् तमेतं, सहस्रशीर्षत्वादिना जानन्नमृतो भवतीति श्रुत्यर्थः ।। न सन्दृश इति ।। काठके श्वेताश्वतरे च–
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
१हृदा मनीषा मनसाऽभिकप्तो य एतद्विदुरमृतास्ते भवन्ति ।। इत्युक्तम् ।
तैत्तिरीयाणां तु ‘य एनं विदुः’ इति पाठः । ‘ऋतं सत्यं परम्’ इत्यत्र सत्यज्ञानादिवाक्योक्त-परब्रह्मस्वरूपलक्षणान्यपि पिङ्गलरूपाण्यभिहितानि । ‘विश्वतश्चक्षुः’ इत्यत्र ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिवाक्योक्ततटस्थलक्षणानि, ‘एकमेवाद्वितीयम्’ इति वाक्योक्तैकत्वादीनि चोक्तानि । ‘सहस्रशीर्षम्’ इत्यत्राक्षरत्वं ‘नारायणं परं ब्रह्म’ इति परब्रह्मत्वं, ‘अनन्तमव्ययम्’ इत्यनन्तत्वं चोक्तम् । ‘यदेकमव्यक्तम्’ इत्यतः पूर्वम् ‘अतः परं नान्यदणीयसं हि परात् परं यन्महतो महान्तम्’ इति परात्परत्वादिकम्, उत्तरत्र ‘तदेव ब्रह्म’ इति ब्रह्मत्वं ‘तदेवाग्निस्तद्वायुः’ इति सर्वात्मकत्वं चोक्तम् । तस्मादादित्यवर्णमित्यादिषूक्तं परं ब्रह्मैव ।। अस्येति ।। विश्वरूपाख्यस्य ।। अत एवेति ।। मुक्तगम्यत्वादेः ।। सर्वत इति ।।
‘ज्ञेयं तच्च प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते’ इति प्रतिज्ञाय
अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।।
इत्युक्त्वा ‘ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते’ इति तमः परत्वोक्त्याऽप्राकृतत्वसिद्धिः । अनित्यत्वं निराकरोति– एक इति ।। ‘एको नारायणः’ इति श्रुतिश्चेतनस्य प्रलयेऽवस्थानमाह न तु तच्छरीरस्यापीत्यत आह– प्रलय इति ।। विशिष्य नारायणावस्थानोक्तिर्न १स्यादित्यर्थः । व्यक्तिः देहः । ननु विग्रहस्य भगवदात्मकत्वे तस्य विग्रहित्वं न स्यादत आह– भेदाभावेऽपीति ।। नन्वानन्दस्य मूर्तस्य कथं हस्तपादाद्यात्मकविग्रहवत्वमत आह– आत्मनीति ।। परमात्मनि विचित्राः शक्तयो वर्तन्त इति सूत्रार्थः । अतः परमात्माभिन्नस्यानन्दस्यापि विचित्रशक्तित्वोपपत्तिः । ननु गुणि शक्तिः, कथं गुणे स्यात् । जलाहरणशक्तेर्घटाभिन्नेऽपि रूपेऽदर्शनादत आह– नैषेति ।। एषा परमात्मविषया मतिः, श्रुत्यननुगृहीततर्केण नेया उत्पाद्या, अपनेया निराकार्या च न भवति । किं नाम, अन्येन जीवब्रह्मभेदज्ञानिना वेदप्रवचनेन । उत्पादिता मुक्तिसाधनज्ञानाय कल्पते इत्यर्थः । तथा च सूत्रम् ‘ओम् पृथगुपदेशात्’ इति । ‘पृथगात्मानं प्रेरितारं च मत्वा’ इत्यादिश्रुतिश्च प्रागे-वोदाहृता । ननु ‘अपाणिपादः’ इत्यादिश्रुतिविरोधः इत्यत आह– न चेति ।। प्राकृतायवयाद्यनिषेधे बाधकमाह– अन्यथेति ।। ‘अपाणिपादः’ इति वाक्ये ‘जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग््रयं पुरुषं महान्तम्’ इति श्वेताश्वतरोपनिषदि श्रवणा-द्युक्तेस्तद्विरोध इत्यर्थः । विग्रहवत्वेन दुःखित्वानुमाने व्यापकानुपलब्धिबाधमाह– अप्राकृतेति ।। एतच्च प्राकृतविग्रहाभावोपलक्षणम् । अप्राकृतानन्दमयविग्रहवत्त्वादीश्वरस्य प्राकृतविग्रहवत्त्वं नास्ती-त्यर्थः । तथा च प्राकृतविग्रहाभावदुःखाभावयोर्व्याप्यव्यापकभावात्तत्प्रतियोगिनोर्व्यापक व्याप्यभावोऽ-वधारित इति प्राकृतविग्रहवत्त्वस्य भगवत्यभावात्तद्व्याप्यदुःखस्याप्यभाव इति भावः ।
उक्तानुमानेऽदृष्टवत्त्वमुपाधिमभिसन्धाय तस्यासाधनाव्यापकत्वशङ्कां परिहरति– सर्वैरपीति ।। तथा च विग्रहवतीश्वरेऽदृष्टाभावान्नोपाधिरसाधनाव्यापक इत्यर्थः ।। निरवयवेति ।। गुणादौ व्यभिचारा-न्निरवयवमात्रे नित्यत्वाभावेऽपि तद्विशेषे नित्यत्वं न त्यज्यते । यथा वा ज्ञानानन्दादिमात्रे नित्यत्वा-भावेऽपि तद्विशेषे तदस्ति । तथा सावयवविशेषेऽपि नित्यत्वं युज्यते । उपादानाभावेऽपि गगनादेरेक-देशोऽस्तीत्याह– गगनादेरपीति ।। अपृथक्सिद्धस्वाभाविकावयववाभावे बाधकमाह– अन्यथेति ।। वृक्षे शाखाद्यवयवस्येव गगने संयोगतदत्यन्ताभावयोराधारतावच्छेदकस्यावयवस्याभावे न तदवच्छेदकांश-सिद्धिः । नन्वाकाशे पक्षिसंयोगाद्याधारतायां पक्ष्यवयवसंयोगोऽवच्छेदको भविष्यतीत्यत आलोके इत्युक्तम् । उक्तरीत्याऽऽलोकत्रसरेणुसंयोगाद्याधारता गगने त्रसरेण्ववयवद्व्यणुकसंयोगेनावच्छिद्यत इति वाच्यम् । तच्चायुक्तम् । अवच्छेदकस्य द्व्यणुकसंयोगस्यातीन्द्रियतया त्रसरेणुसंयोग आकाशे प्रत्यक्षो न स्यादित्यर्थः ।। न चेदिति ।। ‘न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात्सर्वगश्चेन्न भेदकः’ ।। इति भगवत्पादोक्तन्यायेनेत्यर्थः । तथा हि– औपाधिकम् अंशं सम्पादयितु-माकाशे सम्बध्यमान उपाधिः किं सर्वस्मिन्नाकाशे सम्बध्यते तदेकदेशे वा । आद्ये सर्वोऽपि घटाकाशः स्यात् । द्वितीये सोंऽशः किमाकाशे स्वाभाविको वौपाधिको वा । नाद्यः । प्रथमस्यैव तथात्वम्-(औचित्यम्)औचितीम् आवहति । अन्त्येऽपि प्रकृतोपाधिकृतो वोपाध्यन्तरकृतो वा । प्रथमेऽ-न्योन्याश्रयः । एतदुपाधिसम्बन्धे सत्याकाशेंऽशसिद्धिरंशसिद्धौ च तत्रैतदुपाधिसम्बन्ध इति । उपाध्यन्तरकृतत्वपक्षेऽप्येवं दोषः । तस्मान्नौपाधिका अंशाः ।। इत्याद्यागमेति ।। आदिपदेन ‘अमृते लोके अक्षिते आरोहसूर्ये अमृतस्य लोकम्’ इत्याद्या श्रुतिरादिपदेन सङ्गृह्यते ।।
।। ब्रह्मणो निराकारत्वभङ्गः ।। ६ ।।