नापि ज्ञानत्वेन ज्ञाननिवर्त्यत्वमिति तृतीयः

९. तृतीयामिथ्यात्वभङ्गः

न्यायामृतम्

नापि ज्ञानत्वेन ज्ञाननिवर्त्यत्वमिति तृतीयः । अतीतघटादावव्याप्तेः । शुक्ति-ज्ञानेन रूप्यं नष्टमिति कदा(चिदनुभवाभावेन)प्यननुभवेन तत्राप्यव्याप्तेश्च । एतावन्तं कालं शुक्त्यज्ञानमासीद्, भ्रम आसीदित्यनुभवेन शुक्तिवत्सत्ये अज्ञान-भ्रमादौ शुक्तिज्ञानेन तदज्ञानं नष्टमित्यनुभवेन ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्य सत्त्वेनातिव्याप्तेश्च । अपरोक्षाध्यासं प्रति ज्ञानस्यापरोक्षतया निवर्तकत्वेन ज्ञानत्वेनानिवर्तकत्वाच्च ।

ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वस्य चेच्छाद्यानिवर्त्ये स्मृतित्वेन स्मृतिनिवर्त्ये संस्कारादावतिव्याप्तेः । अनुभवत्वव्याप्यधर्मेण तन्निवर्त्यत्वस्य च यथार्थस्मृति-निवर्त्यायथार्थस्मृतिविषयेऽव्याप्तेः । भ्रमोत्तरप्रमानिवर्त्यत्वस्य च तत्त्वज्ञानसंस्कार-निवर्त्याज्ञानसंस्कारे अव्याप्तेः । स्वोपादानाज्ञाननिर्वतकज्ञाननिवर्त्यत्वस्य चानाद्य-ध्यासेऽभावात् । लाघवेनाज्ञानोपादानकत्वस्यैव लक्षणत्वापाताच्च । तथा च–

विज्ञाननाश्यता मिथ्यारूप्यादौ नानुभूयते ।

किं त्वधिष्ठानवत् सत्ये तदज्ञानेऽनुभूयते ।।

अद्वैतसिद्धिः

ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम् । ननु– उत्तरज्ञाननिवर्त्ये पूर्वज्ञाने अतिव्याप्तिः, मुद्गर-पातादिनिवर्त्ये च घटादावव्याप्तिः, ज्ञानत्वेन ज्ञाननिवर्त्यत्वविवक्षायामप्ययं दोषः, अधिष्ठान-साक्षात्कारत्वेन निवर्त्ये शुक्तिरजतादौ च ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यविकलता । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वविवक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिरिति चेन्न, ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा स्वरूपेण कारणात्मना च, सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावाद्, ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एवोत्तरज्ञाननिवर्त्ये पूर्वज्ञाने न सिद्धसाधनम्; न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिद्ध्याऽर्थान्तरम्; उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकाले अवस्थित्यङ्गीकारान्न बाधकज्ञानं विना तद्विरह इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैःअज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाध’ इति । वार्तिककृद्भिश्चोक्तम्–

तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः ।

 अविद्या सह कार्येण नासीदस्ति भविष्यति’ ।। इति ।

सह कार्येण नासी’दिति लीनेन कार्येण सह निवृत्त्यभिप्रायम्, ‘सह कार्येण न भविष्यती’ति तु भाविकार्यनिवृत्त्यभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते । तत्तद्भ्रमोपादानानाम् अज्ञानानां भेदाभ्युपगमादिति न दृष्टान्ते साध्यवैकल्यम्, मुद्गरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतरूप्यं च नास्तीति प्रतीतेः सर्वसंमतत्वात् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण? किंत्विच्छादिसाधारणेनोदीच्यात्मविशेषगुणत्वेन उदीच्यत्वेन वेति न सिद्धसाधनादि । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः, स्मृतित्वेन स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनु-भवसिद्धम् तेषां दृढत्वं च समानविषयकसंस्कारानेकत्वादित्यदोषः । वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम्; अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशये अतिव्याप्तिरिति सर्वमवदातम् ।

न्यायामृततरङ्गिणी

।। अतीतेति ।। अतीतस्य ज्ञानेन विनैव निवृत्तत्वादित्यर्थः ।। शुक्तिज्ञानेनेति ।। तथाच दृष्टान्तः साध्यविकल इत्यर्थः ।। एतावन्तमिति ।। ज्ञानत्वेन ज्ञाननिवर्त्यत्वं भ्रमाज्ञानादिवत् सत्यत्वेऽपि प्रपञ्चस्योपपन्नम्, अतोऽर्थान्तरमिति भावः ।। अपरोक्षेति ।। तथाचासम्भव इत्यर्थः ।। ज्ञानत्वव्याप्येति ।। तथाचापरोक्षत्वेन ज्ञाननिवर्त्यत्वेऽप्युक्तमिथ्यात्वमस्त्येवेत्यर्थः ।। इच्छाद्यनिवर्त्य इति ।। तथाच संस्कारादेरिव प्रपञ्चस्य सत्यत्वेऽप्युपपत्तिरित्यर्थः ।। अनुभवत्वेति ।। स्मृतावनुभवत्वव्याप्यधर्मस्याभावादित्यर्थः ।। भ्रमोत्तरप्रमेति ।। अत्र प्रमात्वं यथार्थज्ञानत्वमात्रम्, नत्वनुभवत्वगर्भम् । तेन यथार्थस्मृतिनिवर्त्येऽयथार्थस्मृतिविषये नाव्याप्तिः ।। अज्ञानसंस्कार इति ।। सर्वपदार्थानां संस्काररूपेण विद्यमानत्वस्य परैरङ्गीकृत-त्वादज्ञानस्यापि संस्कारोऽस्ति । स चाज्ञाने निवृत्तेऽपि जीवन्मुक्त्यवस्थायां भिक्षाटनादिप्रवृत्ति-हेतुरनुवर्तमानस्तत्त्वज्ञानसंस्कारेण निवर्तते । अतस्तत्राव्याप्तिरित्यर्थः । स्वोपादानेति ।। अज्ञानादेरनादेर्योऽध्यासः, तत्राप्युपादानासम्भवादित्यर्थः ।। लाघवेनेति ।। अज्ञानस्य स्वं प्रत्युपादानत्वे स्वस्याज्ञानोपादानकत्वं फलितम्, तदेव लक्षणमस्त्वित्यर्थः । संगृह्णाति– विज्ञानेति ।। मिथ्यारूप्यादौ मिथ्यात्वेनोभयसंमते रूप्यादौ विज्ञाननाश्यता नानुभूयते । अधिष्ठानवत् सत्ये रूप्याज्ञाने विज्ञाननाश्यताऽनुभूयते । तथाच रूप्यादावव्याप्तिः, रूप्याज्ञाने चातिव्याप्तिरित्यर्थः ।

ननु ज्ञाननिवर्त्यत्वं नाम ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वम्, । अवस्थितिर्द्वेधा स्वरूपेण कारणात्मना च; सत्कार्यवादाभ्युपगमात् । तथाच मुद्गरपातेन घटस्य स्वरूपेणाव-स्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावाद् ब्रह्मज्ञानप्रयुक्त एव सः, इति नातीत-घटादावव्याप्तिः । अत एव न पूर्वज्ञाने सिद्धसाधनम् । उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनाऽवस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्य-विरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावात् नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकालेऽवस्थित्यङ्गीकारात् न बाधकज्ञानं विना तद्विरहः, इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैः– ‘अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाधः’ इति । वार्तिककृद्भिश्चोक्तम् –

तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः ।

 अविद्या सह कार्येण नासीदस्ति भविष्यति ।।’ इति ।

सह कार्येण नासीदि’ति लीनेन कार्येण सह निवृत्त्यभिप्रायम् । ‘सह कार्येण न भविष्यती’ति भाविकार्याभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारात् निवर्तते । तत्तद्भ्रमोपादानानामज्ञानानां भेदाभ्युपगमात्, इति न दृष्टान्ते साध्यवैकल्यम् । ‘मुद्गरपातानन्तरं घटो नास्तीति’ प्रतीतिवद‘धिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतं रूप्यं च नास्ती’ति प्रतीतेः सर्वसम्मतत्वात् ।

ज्ञानत्वव्याप्यधर्मेण ज्ञानविवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं न ज्ञानत्वव्याप्यधर्मेण, किंत्विच्छादिसाधारणेनोत्तरात्मविशेषगुणत्वेन, इति न सिद्धसाधनादीति । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन स्मृतिनिवर्त्ये संस्कारेऽतिव्याप्तिः । स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् । दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः ।

वस्तुतस्तु – साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम्, अतो न पूर्वोक्तदोषः, नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशयेऽतिव्याप्तिः – इति ।।

अत्रोच्यते । यदुक्तं ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति, तत्रावस्थित्या सामान्यं वा विशेष्यते? विरहो वा? आद्येऽवस्थितिसामान्यं कारणात्म-नाऽवस्थितिः, कारणमिति यावत् । ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिकारणकत्वमित्यर्थः स्यात् । तत्र चोत्तरज्ञानप्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्यसंस्कारादौ सिद्धसाधनम् । अनाद्यविद्यादौ च बाधः, कारणशब्देनाविद्योक्तौ चाविद्याकारणकत्वमेवास्तु । शेषवैयर्थ्यात् । अनाद्यविद्यादौ बाधश्च । न द्वितीयः । घटाद्यवस्थितिसामान्यविरहस्य ज्ञानप्रयुक्तत्वं न सम्भवति; विनष्टघटा-द्यवस्थितिविशेषद्वयविरहद्वयस्य ज्ञानप्रयुक्तत्वाभावात् । स्वरूपेणावस्थितिविरहस्य ज्ञान-प्रयुक्तत्वाभावात् । विशेषाभावातिरिक्तसामान्याभावस्य त्वयैवाविद्यावादे निरसिष्यमाणत्वात् । ज्ञानप्रयुक्तविरहप्रतियोग्यवस्थायामवस्थात्वस्यातिप्रसंगेन प्रतियोगितानवच्छेदकत्वाच्च । शुक्ति-रजतादेरवस्थित्यङ्गीकारे स्वरूपेण निषेधोक्त्ययोगाच्च । ‘रूप्यादेः स्वरूपेणैव निषेधः’ इति त्वदभ्युपगतपक्षे रूप्यादेरत्यन्तासत्त्वस्यापादितत्वेन रूप्याद्यभावोऽपि शशविषाणाद्यभाव इव ज्ञानाप्रयुक्तः इति दृष्टान्तस्य साध्यवैकल्यमेव । पक्षे बाधश्च ।।

यच्चोक्तम् – ज्ञानत्वव्याप्येत्यादि, तदपि न । तव मते मननत्वादिना ज्ञानत्वव्याप्यधर्मेण मनननिवर्त्येऽर्थगतसंशयविशेषेऽतिव्याप्तेः । तादृशसंशयनिवर्तकत्वेनैव मननस्य सप्रयोजन-त्वोक्तेश्च । ‘उत्तरात्मविशेषगुणत्वेने’त्याद्यपि न युक्तम् । धर्माधर्मादावतिप्रसङ्गात् ।। यच्चोक्तम् – स्मृतेः संस्कारनिवर्तकत्वं नेति, तन्न । सुखादेर्धर्मादेरिव स्मृतेरपि स्वकारणसंस्कारस्य निवर्तकत्वात् । दृढसंस्कारस्तु स्मृतिजन्योऽन्य एव ।। यच्चोक्तम् ‘वस्तुतस्त्वि’त्यादि, तदपि न । त्वया प्रत्यक्षस्य शब्दबाध्यत्वमङ्गीकुर्वता ‘नायं सर्पः’ इत्याप्तोपदेशस्यापि सर्पादिभ्रम-बाधकताया उक्तत्वेन साक्षात्कारत्वस्य बाधकतानवच्छेदकत्वादिति ।।

न्यायामृतकण्टकोद्धारः

तृतीयपक्षं निराकरोति – नापीति ।। अतीतेति ।। अत्र कश्चित् – ज्ञानत्वप्रयुक्ताव-स्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा – स्वरूपेण, कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणाव-स्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावाद् ब्रह्मज्ञानप्रयुक्त एव सः इति नातीत-घटादावव्याप्तिः – इत्याह, तन्न । एतावता कारणात्मनाऽवस्थितिविशेषविरहस्य ज्ञानत्व-प्रयोज्यत्वेऽपि कार्यात्मना अवस्थितिविशेषविरहस्य ज्ञानत्वप्रयोज्यत्वाभावेनावस्थितिसामान्य-विरहस्य ज्ञानत्वप्रयोज्यत्वाभावेन घटादावव्याप्तितादवस्थ्यात् । किं चात्र विरहशब्देन न प्रागभावात्यन्ताभावौ विवक्षितौ । प्रागभावस्यानादित्वेन प्रतियोग्युत्पादकनाश्यत्वेन चात्यान्ता-भावस्य चानादिनित्यत्वेन तयोः ज्ञानत्वप्रयोज्यत्वाभावात् । नापि ध्वंसः । तस्यावस्थिति-सामान्यविरहत्वासम्भवात् । सम्भवे वा ज्ञानत्वप्रयोज्यावस्थितिध्वंसप्रतियोगित्वमित्युक्तं भवति । तथा च शुक्तिरूप्येऽव्याप्तिः । अज्ञानभ्रमादौ चातिव्याप्तिः । न हि शुक्तिरूप्यं तत्त्वज्ञानेन नष्टमिति कस्यचिदनुभवः । अस्ति चाज्ञानं भ्रमश्च तत्त्वज्ञानेन नष्ट इत्यनुभवः । किं च शुक्तिरूप्यस्य अवस्थित्याभावेन तद्विरहस्य ज्ञानत्वप्रयोज्यता न सम्भवति । न चापरोक्ष-प्रतीत्यन्यथाऽनुपपत्त्या शुक्तिरूप्यादेरवस्थितिसामान्यमङ्गीकरणीयमिति वाच्यम् । शशविषाणा-देरपि परोक्षप्रतीतिविषयत्वान्यथानुपपत्तेर्वक्तुं शक्यत्वेन तत्रातिव्याप्तेः । किं च ज्ञानत्वस्य भ्रमादिसाधारणत्वेन निवृत्तिप्रयोजकता न सम्भवति । अन्यथा वस्तुत्वस्यापि तत्प्रयोजकता-पत्तेः । तथा चासम्भवीदं लक्षणम् ।

ज्ञानत्वव्याप्यधर्मेणेति ।। न च स्मृतित्वस्य संस्कारनिवर्तकतावच्छेदकत्वमसिद्धम् । स्मृत्या संस्कारदार्ढ्यस्यैव जायमानत्वादिति वाच्यम् । स्मृतेः संस्कारनाशकत्वाभावे नाश-कान्तराभावेन संस्कारनाशानापत्तेः । संस्कारदार्ढ्यस्य समानविषयकसंस्कारान्तरेणाप्युपपत्तेः । विपरीतोत्तरज्ञाननिवर्त्ये पूर्वविपरीतज्ञानेऽतिव्याप्तेश्च ।

एतेन वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितमिति निरस्तम् । साक्षात्कारत्वस्य भ्रमादिसाधारणत्वेन निवर्तकतानवच्छेदकत्वात् । ‘साक्षात्कारेण शुक्तिरूप्यं नष्टमि’त्यननुभवेन ‘अज्ञानभ्रमौ नष्टावि’त्यनुभवेनाव्याप्त्यतिव्याप्त्यापत्तेश्च । भ्रमोत्तरेति ।। न च भ्रमपूर्व-प्रमानिवर्त्येऽव्याप्तिरिति वाच्यम् । भ्रमसमानाधिकरणविपरीतप्रमानिवर्त्यत्वस्य विवक्षितत्वात् । लाघवेनेति ।। न च अज्ञानोपादानकत्वमेव विवक्षितमिति वाच्यम् । अज्ञान एवाव्याप्तेः । तस्याप्यज्ञानान्तरोपादानकत्वेऽनवस्था, स्वोपादानकत्वे त्वात्माश्रयः । उक्तमर्थं कारिकया सङ्गृह्णाति– तथा चेति ।।

न्यायामृतप्रकाशः

अतीतेति ।। ज्ञानेन विना स्वत एव निवृत्तत्वादिति भावः ।। अव्याप्तेश्चेति ।। तथाचानुमाने साध्यवैकल्यमिति भावः । लक्षणोपपादनाय शुक्तिज्ञानेन तदज्ञानमित्यादि । इदमुपलक्षणम् । भ्रमश्च नष्ट इत्यनुभवेनेत्यपि द्रष्टव्यम् । नन्वज्ञानभ्रमयोर्मिथ्यात्वेन लक्ष्यत्वान्नातिव्याप्तिरित्यत उक्तम् ।। एतावन्तमिति ।। भ्रमरूपज्ञानस्वरूपस्य सत्यत्वेऽपि विषयस्य बाध्यत्वं तु परमते ब्रह्मस्वरूपत्वेन सत्यभूतसाक्षिविषयस्य दुःखादेरिवोपपन्नमिति भावः । लक्षणस्यासम्भवं चाह– अपरोक्षेति ।। अपरोक्षाध्यास(स्य)निवर्तकतावच्छेदकं ज्ञानेन ज्ञानत्वं शङ्खः श्वेतः शङ्खत्वादित्यानुमानिकविशेष-दर्शनरूपज्ञाने सत्यपि पीतः शङ्ख इत्यपरोक्षभ्रमानिवृत्तेरतिप्रसक्तत्वात् । अतोऽपरोक्षज्ञानत्वमेव वाच्यम् । तथाच मिथ्याभूते अपरोक्षजगदध्यासे केवलज्ञानत्वावच्छिन्ननिवर्तकताकज्ञाननिवर्त्यत्वा-भावादसम्भव इति भावः ।। ज्ञानत्वव्याप्यधर्मेणेति ।। तथाचापरोक्षज्ञानत्वस्यापि ज्ञानत्वव्याप्य-धर्मत्वेन ब्रह्मापरोक्षज्ञाननिवर्त्ये जगदपरोक्षाध्यासे नासम्भव इति भावः ।। स्मृतित्वेनेति ।। स्मृतित्वस्य ज्ञानत्वव्याप्यधर्मत्वादिति भावः ।

ननु स्मृतौ संस्कारनिवर्तकतावच्छेदकं न स्मृतित्वम् । येन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्व-सत्त्वादतिव्याप्तिः स्यात् । किंतूत्तरात्मविशेषगुणत्वमेव । नचेदं ज्ञानत्वव्याप्यधर्मः । अतो लक्षणाभावान्नातिव्याप्तिरिति चेन्न । संस्कारनिवर्तकतावच्छेदकं स्मृतित्वमेव वाच्यम् । नोत्तरात्म-विशेषगुणत्वम् । यद्युत्तरात्मविशेषगुणत्वं संस्कारनिवर्तकतावच्छेदकं स्यात्तर्हि घटानुभवेन संस्कारोत्पत्त्यनन्तरं घटो मे भूयादितीच्छाऽपि कदाचिद्भवति । तथापि संस्कारनिवृत्तिः स्यान्निवर्तक-तावच्छेदकस्योत्तरात्मविशेषगुणत्वस्य तत्रापि सत्त्वात् । नचेष्टापत्तिरिति वाच्यम् । कुत इत्यत उक्तम्– इच्छाद्यनिवर्त्य इति ।। न च लक्ष्यत्वान्नातिव्याप्तिरिति वाच्यम् । तत्प्रयुक्तो मिथ्यात्व-व्यवहारः स्यादित्यत्र तात्पर्यात् ।। अनुभवत्वव्याप्यधर्मेणेति ।। स्मृतित्वस्यानुभवत्वव्याप्यधर्मत्वा-भावान्न संस्कारेऽतिव्याप्तिरिति भावः ।। यथार्थस्मृतिनिवर्त्येति ।। यथार्थस्मृतित्वेन यथार्थस्मृति-निवर्त्येत्यर्थः ।। अव्याप्तेरिति ।। अयथार्थस्मृतिविषयनिवर्तिकायां यथार्थस्मृतौ अनुभवत्वव्याप्य-धर्माभावादिति भावः ।।

भ्रमोत्तरप्रमेति ।। अत्र प्रमाशब्दो न यथार्थानुभवपरः । तथात्वे अयथार्थस्मृतिविषये व्याप्त्य-निवारणात् । अतो यथार्थज्ञानमात्रपरः । अत्र यथार्थपदाभावे धारावाहिकभ्रमस्थले पूर्वभ्रमविषये भ्रमोत्तरभ्रमरूपज्ञाननिवर्त्यत्वाभावादव्याप्तिः स्यात् । अतो यथार्थपदं । भ्रमोत्तरपदाभावे इयं शुक्तिरिति यथार्थज्ञानानन्तरं तत्रैव पुनर्दोषवशादिदं रजतमिति भ्रमरूपं ज्ञानं जायते । तथाच तद्विषये रजते पूर्वतनयथार्थज्ञाननिवर्त्यत्वाभावादव्याप्तिः स्यात् । अतो भ्रमोत्तरपदमिति द्रष्टव्यम् । तथाचायथार्थस्मृत्यनन्तरभाविन्याः यथार्थस्मृतेरपि भ्रमोत्तरयथार्थज्ञान(त्वेनत)त्वात्तन्निवर्त्यत्व-मयाथार्थस्मृतिविषयेऽस्तीति नाव्याप्तिरिति भावः ।। अज्ञानसंस्कार इति ।। तत्त्वज्ञानेनाज्ञान-निवृत्त्यनन्तरमपि जीवन्मुक्त्यवस्थायामज्ञानसंस्कारोऽस्तीत्यङ्गीकार्यम् । अन्यथा भिक्षाटनादौ प्रवृत्तिर्न स्यात् । सचाज्ञानसंस्कारः तत्वज्ञानसंस्कारेण निवर्तत इत्यङ्गीकृतम् । तथाच तस्य भ्रमोत्तर-भावितत्त्वज्ञानसंस्कारनिवर्त्यत्वेन प्रमानिवर्त्यत्वाभावादव्याप्तिरित्यर्थः ।।

स्वेति ।। स्वशब्देनाज्ञानकार्यप्रपञ्चो ग्राह्यः । तदुपादानभूतं यदज्ञानं तन्निवर्तकं यज्ज्ञानं तन्निवर्त्यत्वमित्यर्थः । ‘‘यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तक’’मित्यङ्गीकारात् । अस्यापि लक्षणस्य स्वशब्देनाज्ञानसंस्कारः तदुपादानभूतं यदज्ञानं तस्य जगदुपादानत्वात् । तन्निवर्तकं यत्तत्त्वज्ञानं तन्निवर्त्यत्वं नास्ति । तत्संस्कारनिवर्त्यत्वात् । अतोऽज्ञानसंस्कारेऽव्याप्तिः स्पष्टेति तामनुक्त्वा दूषणान्तरमाह– अनादीति ।। जीव ईशो विशुद्धा चिद्भेदः तस्यास्तयोर्द्वयोरित्यादि- वचनेनानादिषु अध्यस्तेष्वविद्यादिषु लक्षणाभावादव्याप्तिः । स्वशब्देनाविद्यादयो ग्राह्याः । तेषां चानादित्वेनोपादानाभावेन तद्धटितलक्षणस्याप्यभावादिति भावः ।। लाघवेनेति ।। स्वोपादानेत्यादि लक्षणापेक्षयाऽस्य लघुत्वादनादिपदार्थाव्याप्तेरुभयत्रापि तुल्यत्वादिति भावः । अस्त्विति चेन्न । अज्ञाननिराकरणेन दूष्यत्वात् । सिद्धान्ते अज्ञानशब्दवाच्यप्रकृत्याद्युपादानकत्वाङ्गीकारेण एतादृश-मिथ्यात्वसाधने सिद्धसाधनतेति बोध्यम् । तृतीयलक्षणनिराकरणमुपसंहरति– तथाचेति ।। नानुभूयते । तथाचाव्याप्तिरिति भावः । अनुभूयते । तथाचातिव्याप्तिरिति भावः ।

न्यायकल्पलता

तृतीयं पक्षं पराकरोति– नापीति । निवृत्तिरत्यन्ताभावो वा ध्वंसो वा । नाद्यः । अत्यन्ता-भावस्यानादित्वेन ज्ञानसाध्यत्वानुपपत्तेः । द्वितीयाभावे हेतुमाह अतीतेति । अतीतस्य घटादेर्वेदान्त-महावाक्यजन्यज्ञानेन विनैव मुद्गरादिना निवृत्तत्वादित्यर्थः । शुक्तिज्ञानेनेति ।। तथा च दृष्टान्तः साध्यविकलः इत्यर्थः । एतावन्तमिति ।। ब्रह्मज्ञानेतरनिवर्त्येऽपि लक्षणस्य सत्त्वादिव्यर्थः । तथा च भ्रमाज्ञानादिवत् प्रपञ्चस्य सत्त्वेऽपि ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्योपपन्नत्वादर्थान्तरमिति भावः । अपरोक्षेति । अन्यथा श्वैत्यानुमित्या शङ्खे पीतभ्रमनिवृत्यापत्तेः । एवं चासम्भव इत्यर्थः । ज्ञानत्वव्याप्येति । तथा चापरोक्षत्वेन ज्ञाननिवर्त्येऽप्युक्तलक्षणमस्त्येवेति भावः । इच्छाद्यनिवर्त्ये इति ।। तथा  च संस्कारादेरिव प्रपञ्चस्य सत्यत्त्वेऽप्युपपत्तिरित्यर्थः । अनुभवत्वेति ।। स्मृतावनुभवत्वव्याप्यधर्मस्याभावादित्यर्थः । भ्रमोत्तरप्रमेति ।। अत्र प्रमात्वं यथार्थज्ञानत्वमात्रं नत्वनुभवत्वगर्भं, तेन यथार्थस्मृतिनिवर्त्येऽ-यथार्थस्मृतिविषये नाव्याप्तिः । अज्ञानसंस्कार इति । सर्वपदार्थानां वासनारूपेण सत्त्वस्य परैरङ्गी-कृतत्वादज्ञानस्यापि संस्कारोऽस्ति । स चाज्ञाने निवृत्तेऽपि जीवन्मुक्त्यवस्थायां (शुकवामदेवादीनां) भिक्षाटनादिप्रवृत्तिहेतुरनुवर्तमानस्तत्त्वज्ञानसंस्कारेण निवर्तते । अतस्तत्राव्याप्तिरित्यर्थः । स्वोपादानेति । अनादेरज्ञानादेर्योऽध्यासस्तत्रोपादानासम्भवादित्यर्थः । लाघवेनेति । अव्याप्तिवारणार्थमज्ञानस्य स्वं प्रत्युपादानत्वे स्वस्याप्यज्ञानोपादानकत्वं फलितमतस्तदेव लक्षणं स्यादित्यर्थः । कारिकया संगृह्णाति । विज्ञानेति । मिथ्यारूप्यादौ मिथ्यात्वेनोभयसम्मते रूप्यादौ । विज्ञाननाश्यता नानुभूयते । अधिष्ठान-समसत्ताके ब्रह्मज्ञानेतरनिवर्त्ये अधिष्ठानाज्ञाने विज्ञाननाश्यता निष्प्रकारकज्ञानेतरज्ञाननिवर्त्यताऽनुभूयते । तथा च रूप्यादौ अव्याप्तिः । सप्रकारकताज्ञाननिवर्त्ये तदधिष्ठानाज्ञाने चातिव्याप्तिरित्यर्थः । न च वेदान्तमहावाक्यजन्यनिष्प्रकारकज्ञाननिवर्त्यत्वमेव तदितिदेश्यम् । अप्रसिद्धविशेषणत्वापातादिति ।

अत्राभिनवाद्वैतवादिनो वदन्ति । ज्ञाननिवर्त्यत्वं नाम ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगि-त्वम् । अवस्थितिश्च द्वेधा । स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथा  च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मनावस्थितिविरहाभावाद्ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एव नोत्तरज्ञाननिवर्त्ये पूर्वज्ञाने सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिध्याप्यर्थान्तरम् । उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थानादवस्थितिसामान्य-विरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्थानुपपत्त्या प्रतिभास-कालेऽवस्थित्यङ्गीकारात् न बाधकज्ञानं विना तद्विरहः, इति न साध्यविकलता । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते । तद्भ्रमोपादानाज्ञानानां भेदाभ्युपगमा-दिति न दृष्टान्ते साध्यवैकल्यम् । मुद्गरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं रूप्यं च नास्तीति प्रतीतेः सर्वसम्मतत्वात्् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य निवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण किन्त्विच्छादिसाधारणेनोत्तरात्मविशेषगुणत्वेनेति न सिद्धसाधनादि । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारेऽतिव्याप्तिः । स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवति इत्यनुभवसिद्धम् । दृढत्वं समान-विषयानेकत्वमित्यदोषः ।

वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितमतो न पूर्वोक्तदोषः । नापि निश्चितत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशयेऽतिव्याप्तिरिति ।  एवं प्राप्ते समाधीयते । यत्तावदुक्तं ज्ञान-प्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति । तदसत् । अवच्छेदकरूपापरिचये अवच्छेद्यप्रतियोगिताया एव परिचेतुमशक्यत्वात् । तथा हि । अवच्छेदकं तत्प्रतियोगिताया न तावदविद्यातत्कार्ययोरन्यतरत्वम् । अनादिजीवब्रह्मविभागादावभावेनावच्छेद्यन्यूनवृत्तित्वात् । अवच्छेद्या-न्यूनानतिरिक्तवृत्तिर्हि धर्मोऽवच्छेदकः । अन्यथा चैत्रीयत्वस्यापि गोवृत्तिलक्ष्यतावच्छेदकत्वापत्तेः ।

नापि तुच्छब्रह्मान्यत्वम् । वाक्याभासादिना शशविषाणादेः स्वरूपेणावस्थितौ प्रतीतायां, शशविषाणं नास्तीत्याप्तवाक्यजज्ञानेन यस्तदवस्थितिविरहस्तत्प्रतियोगिनि शशविषाणे त्वदुक्ता-वच्छेदकधर्माभावात् । न च वाक्याभासात्प्रतीतमनिर्वाच्यमेव तदिति देश्यम् । अधिष्ठानाद्यभावे-नाधस्तादेव व्युदस्तत्वात् । ‘‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दं करोति ही’’ति स्ववाक्यविरोधाच्च । ज्ञानप्रयुक्तविरहप्रतियोग्यवस्थायामवस्थात्वस्यातिप्रसङ्गेन प्रतियोगितानवच्छेदकत्वात् ।

किञ्च । अवस्थित्या सामान्यं विशेष्यते विरहो वा । आद्येऽवस्थितिसामान्यं सत्वसामान्यम् । यावद्विशेषानालिङ्गितसामान्याभावात् । कारणात्मना सत्वरूपावस्थितिः कारणमिति यावत् । ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिकारणत्वमित्यर्थः स्यात् । तत्र चोत्तरज्ञानप्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्ये संस्कारादौ सिद्धसाधनम् । अनाद्यविद्यादौ च बाधः । कारणशब्देनाविद्योक्तौ चाविद्याकारणकत्वमेवास्तु शेषवैय्यर्थ्यात् । अनाद्यविद्यादौ बाधश्च । न द्वितीयः । घटाद्यवस्थितिसामान्यविरहस्य ज्ञानप्रयुक्तत्वं न सम्भवति । विनष्टघटाद्यवस्थितिविशेषद्वयविरहद्वयस्य ज्ञानप्रयुक्तत्वायोगात् (भावात्) । विशेषाभावाति-रिक्तसामान्याभावस्य त्वयैवाविद्यावादे निरशिष्यमाणत्वात् । ज्ञानप्रयुक्तविरहप्रतियोग्यवस्थायामवस्थात्व-स्यातिप्रसङ्गेन प्रतियोगितानवच्छेदकत्वाच्च । शुक्तिरजतादेरवस्थित्यङ्गीकारे स्वरूपेण निषेधोक्त्ययोगश्च । रूप्यादेः स्वरूपेणैव निषेध इति त्वत्कल्पितपक्षे रूप्यादेरत्यन्तासत्वस्यापादितत्वेन रूप्याद्यभावोऽपि शशविषाणाद्यभाव इव ज्ञानाप्रयुक्त इति दृष्टान्तस्य साध्यवैकल्यमेव । पक्षे बाधश्च ।

यदप्युक्तमवस्थितिश्च द्वेधा स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमादिति । तदपि न । विवर्तवादविरोधात् । ब्रह्मोपादानकत्वे तु निर्विकारत्वविरोधः । ब्रह्मात्मना सत्त्वापाताच्च । अविद्यो-पादानकत्वे तु तस्याः सद्रूपत्वाभावेन तदुपादेयस्य प्रपञ्चस्य सद्रूपत्वानुपपत्तेः । सदधिष्ठानभ्रमरूपत्वस्य च मिथ्यात्वसिध्यधीनत्वेनान्योन्याश्रयात् । यदपि मुद्गरपातानन्तरमित्याद्युक्तं तदपि मन्दम् । घटो ध्वस्त इत्यादिप्रतीतिवच्छुक्तिरूप्यं ध्वस्तमिति लौकिकपरीक्षकप्रत्ययाभावात् ।

यच्चोक्तं ज्ञानत्वव्याप्येत्यादि । तदप्यलेशम् । तव मते मननत्वादिना ज्ञानत्वव्याप्यधर्मेण मनननिवर्त्येेऽर्थगतसंशयविशेषेऽतिव्याप्तिः । तादृशसंशयनिवर्तकत्वेनैव मननस्य सप्रयोजनत्वोक्तेश्च  । उत्तरात्मविशेषगुणत्वेनेत्याद्यपि न साधीयः । वेदान्तिब्रुवनये निवर्तकस्य ज्ञानस्येच्छादेश्चान्तःकरण-वृत्तित्वेनात्मविशेषगुणत्वासम्मतेः । धर्माधर्मादावतिप्रसङ्गश्च । यच्चोक्तम् । स्मृतेः संस्कारनिवर्तकत्वं नेति । तदपि न भोगस्य धर्मादेरिव स्मृतेरपि स्वकारणसंस्कारनिवर्तकत्वात् । दृढसंस्कारस्तु तत्स्मृति-जन्यस्तत्समानविषयकप्रमाणान्तरजन्यो वाऽन्य एव । तस्य दृढत्वं तद्विषयशङ्काशून्यत्वं प्रमाणान्तर-संवादहेतुकदार्ढ्यवदित्यवधेयम् ।

यदप्युक्तम् । वस्तुतस्तु इत्यादि । तदप्यसमञ्जसम्् । प्रत्यक्षस्य शब्दबाध्यत्वमभ्युगच्छता त्वया नायं सर्प इत्याद्याप्तोपदेशस्यापि सर्पादिभ्रमबाधकताया उक्तत्वेन साक्षात्कारत्वस्य बाधकतानवच्छेदकत्वात् । निवर्तकत्वाभिमतस्य शाब्दज्ञानस्य साक्षात्कारत्वानुपपत्तेश्च  । शब्दस्य साक्षात्कारत्वस्य बाधकता-नवच्छेदकत्वात् । निवर्तकत्वाभिमतस्य शाब्दज्ञानस्य साक्षात्कारत्वानुपपत्तेश्च । शब्दस्य साक्षात्कारा-हेतुत्वात् । अपरोक्षविषयशब्दस्यापरोक्षधीजनकत्वमिति चेत् । न । अदृष्टकल्पनाप्रसङ्गात् । दशमस्त्वमसीति शब्दवत्तत्वमसीति शब्दस्यापरोक्षज्ञानहेतुत्वमस्त्विति चेत्  । न । परेण प्रयुक्तस्य युष्मच्छब्दस्यास्मदर्थधीजनकत्वस्य सङ्गतिग्रहणासिद्धत्वेनापरोक्षसमानाकारपरोक्षप्रतीतिजनकतया दृष्टान्ता-सङ्गतेः । अन्यथा घटोऽयमस्तीतिप्रयुक्तस्य वाक्यस्य तथात्वापातात् । किञ्च आत्मनः अपरोक्षत्वं किमपरोक्षप्रतीतिविषयत्वमुतापरोक्षचिद्रूपत्वम् । नाद्यः । चैत्रो गामानयतीत्यादिवाक्यस्यापि साक्षात्कार-जनकत्वापातात् । न द्वितीयः । तादृग्रूपस्यात्मन औपनिषदत्वात् । अपि च नेह नानास्ति किञ्चनेति वाक्यजन्यं हि ज्ञानं प्रपञ्चनिवर्तकम् । न च तद्वाक्यप्रतिपाद्योऽर्थोऽपरोक्षः । इहेति पदार्थस्य ब्रह्मण औपनिषदत्वात् । जीवात्मनो वियदादिप्रपञ्चारोपाधिष्ठानत्वायोगात् । ब्रह्मणः सर्ववित्तिविषयत्वाभ्युपगमे पराप्रकाश्यत्वरूपस्वप्रकाशत्वविरोधश्च । विप्रकृष्टातीन्द्रियप्रपञ्चस्याप्रत्यक्षत्वेन योग्यानुपलब्धेरभाव-ग्राहिकाया असत्वात्तत्प्रतियोगिकाभावस्यापरोक्षत्वासम्भवात् । अथ योगिप्रत्यक्षवेद्यतया सर्वमप्यपरोक्ष-मिति ब्रूषे तर्हि अपरोक्षविशेषणवैय्यर्थ्यम् । ननु तत्त्वमसीति वाक्यमेव द्वैतभ्रमनिवृत्तिहेत्वज्ञान-निवृत्तिजनकाधिष्ठानसाक्षात्कारकारणं, नेह नानास्तिकिञ्चिनेति वाक्यं निर्विशेषचिद्रूपत्वप्रतिपादनद्वारा तत्पदार्थशोधकं अवान्तरवाक्यं परोक्षज्ञानजनकमेवेति चेत् न  । शब्दस्यापरोक्षधीजनकत्वस्य निरस्तत्वात्  । यः सर्वज्ञ इत्यादिश्रुतिविरोधेन नेह नानेति श्रुतेस्तदनिषेधकत्वात् । श्रुतिविहितस्य श्रुत्या निषेधायोगात् ।

किञ्चैवं प्रपञ्चस्यानित्यत्वसिध्या सिद्धसाधनम् । न च ब्रह्मेतरसर्वानित्यत्वमेेव मिथ्यात्वमिति देश्यम् । विकल्पानुपपत्तेः । तथा हि अनित्यत्वं ध्वंसप्रतियोगित्वं न तु नित्यत्वाभावः । श्रौतज्ञाना-हेतुकत्वप्रसङ्गात् । तत्र ध्वंस आत्मस्वरूपं तदितरो वा । नाद्यः तत्त्वज्ञानासाध्यत्वापातात् । द्वितीयोऽपि सत्यो मिथ्या वा । आद्ये सदद्वैतमतहानिः । अभावद्वैताभ्युपगमे भावद्वैतेन किमपराद्धम् । प्रमितत्वा-विशेषात् । अखण्डार्थत्त्वभङ्गापत्तिसाम्याच्च । न तृतीयः । औतश्रुतेरतत्वावेदकत्वप्रसङ्गात् । प्रपञ्चोन्मज्जनापाताच्च । तस्मात् त्वदभिमतप्रपञ्चनिवर्तकज्ञानस्य शाब्दतया साक्षात्कारत्वानुपपत्तेर्न तत्र निवर्तकतावच्छेदकसाक्षात्कारत्वमिति उक्तदोषानतिवृत्तिरिति अलं क्षोदीयस्यातिपीडया ।

न्यायामृतसौगन्ध्यम्

नापि ज्ञाननिवर्त्यत्वं मिथ्यात्वम् । उत्तरज्ञाननिवर्त्ये पूर्वज्ञानेऽतिव्याप्तेः । मुद्गरपातादिनिवर्त्य-घटादावव्याप्तेश्च । न च ज्ञानत्वेन ज्ञाननिवर्त्यं तत् । अधिष्ठानसाक्षात्कारत्वेन निवर्त्ये शुक्तिरजतादौ ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यवैकल्यम् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वविवक्षायां ज्ञानत्वव्याप्येन स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारेऽतिव्याप्तेः ।

ननु ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा । स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथाच मुद्गरपातेन घटस्य  स्वरूपेणावस्थितिविरहेऽपि कारणात्मनाऽवस्थितिविरहाभावात् ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एवोत्तर-ज्ञाननिवर्त्ये पूर्वज्ञाने न सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वा-सिद्ध्याऽर्थान्तरम् । उत्तरज्ञानेन विनष्टस्य (लीनस्य) पूर्वज्ञानस्य स्वकारणात्मनाऽवस्थानादवस्थिति-सामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावाद् नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकालेऽवस्थित्यङ्गीकारात् न बाधकज्ञानं विना तद्विरहः इति न साध्यविकलतेति चेन्न । घटादेरेकावस्थितिविशेषविरहस्य ज्ञानाप्रयुक्तत्वेन घटावस्थितिसामान्य-विरहस्य ज्ञानाप्रयुक्तत्वात् । विशेषाभावातिरिक्तसामान्याभावस्य त्वया निरशिष्यमाणत्वात् ।

न च अवस्थितिसामान्यं कारणात्मनाऽवस्थितिस्तद्विरहश्च ज्ञानप्रयुक्त एवेति वाच्यम् । एवं ज्ञानप्रयुक्तविरहप्रतियोगिकारणकत्वमिति हि लक्षणं स्यात् । तच्चानाद्यविद्यादावव्याप्तम् ।

यत्तु (यद्ज्ञानप्रयुक्तो) ज्ञानप्रयुक्तोऽधिष्ठानतत्त्वज्ञानव्यापको योऽवस्थितिसामान्यस्य स्वस्वीय-संस्कारान्यतरस्य अभावः तत्प्रतियोगित्वमित्यर्थ इति । तन्न । एवं दण्डादिनिवर्त्यस्य घटाद्यवस्थाविशेषस्य ज्ञानानिवर्त्यत्वेऽपि ज्ञानप्रयुक्तावस्थाविशेषविरहमादायान्यतरत्वेन लक्षणसमन्वयेऽर्थान्तरत्वापत्तेः ।

एतेन या याऽप्रामाण्यज्ञानादिशून्यसाक्षात्कारप्रमा सा सा स्वसमानविषयका ज्ञानलक्षणा वृत्तिः । या या स्वजन्यपटुतमसंस्कारसहितोक्तप्रमा सा सोक्ताज्ञानतत्संस्कारलक्षणा वृत्तिः । सहितान्तोपादानादुक्त-सहितान्यशुक्त्यादिप्रमाया उक्तसंस्कारक्षणवृत्तित्वेऽपि न व्यभिचारः । अत एव जीवन्मुक्तनिष्ठब्रह्मप्रमाऽपि तादृशक्षणवृत्तिः । एवं, या या उक्तप्रमा सा स्वसमानविषयकाज्ञानप्रयुक्ततत्संस्कारवत्कालपूर्वभिन्ना । तथा च तादात्म्येनोक्तप्रमां प्रति स्वाधिकरणक्षणवृत्तित्वसम्बन्धेनोक्ताज्ञानतत्संस्कारान्यतरस्याभावः, उक्ताज्ञान-प्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वक्षणवृत्तित्वसम्बन्धेनाभावश्च व्यापकः । तादृशाभावप्रतियोगि-त्वस्याज्ञानतत्प्रयुक्ततत्संस्कारेषु सत्त्वात् लक्षणसमन्वयः । तादात्म्येन तादृशप्रमां प्रति स्वसमानविषयकत्वं कालिकत्वं चेति सम्बन्धद्वयेेन अज्ञानतत्संस्कारान्यतरस्याभावः, स्वप्रयोजकाज्ञानसमानविषयकत्वं स्वाश्रय-कालपूर्वत्वं चेति सम्बन्धद्वयेनाज्ञानप्रयुक्ततत्संस्कारान्यतरस्याभावश्च व्यापक इति प्रलापोऽपि अपास्तः । ‘सन् घटः’ इति प्रमाया आपातवेदान्तजन्यप्रमायाश्च त्वन्मते ब्रह्मप्रमात्वेन स्वीकृतायाः स्वसमानविषयका-ज्ञानकालवृत्तित्वेन व्यभिचारात् । विशेष्यताख्यां विषयतामादायैव ज्ञानाज्ञानयोस्समानविषयकत्वं हि त्वया वाच्यम् । न तु समानप्रकारकत्वमादाय । अखण्डार्थकवेदान्तजन्यब्रह्मज्ञानाज्ञानयोस्तदसम्भवात् । तच्चोक्तप्रमयोरप्यस्ति ।

यत्तु घटादिस्वरूपप्रतियोगिकविरहस्य ब्रह्मज्ञानान्यप्रयुक्तत्वेऽपि घटादिसंस्कारप्रतियोगिकोक्ताव-स्थितिसामान्याभावस्योक्तब्रह्मज्ञानान्याप्रयुक्तत्वेन ब्रह्मज्ञानप्रयुक्तत्वं तस्याक्षतमिति । तन्न । तथाहि ज्ञानप्रयुक्तविरहप्रतियोगिकारणकत्वमिति सिद्धम् । तत्र चोत्तरज्ञानप्रयुक्तनाश(व्यतिरेक)प्रतियोगि-पूर्वज्ञानजन्यसंस्कारे सिद्धसाधनम् ।

यत्तु यदि च चरमक्षणे स्वेतरस्येव स्वस्यापि ध्वंसत्वं स्वीक्रियते । एकत्रापि तत्र रूपभेदेन ध्वंस-प्रतियोगित्वानुयोगित्वयोस्सम्भावात् । सकलदृश्यत्वेन हि तत्र प्रतियोगित्वम् । चरमतत्त्वज्ञाना-श्रयतत्क्षणव्यक्तित्वेनानुयोगित्वम् । ‘घटाभावे स नास्ती’त्यादिप्रत्ययबलेन (आश्रमस्वामिनां मते) घटाभावादिप्रतियोग्यनुयोगिकस्यात्यन्ताभावत्वस्येव ‘ज्ञानात् सर्वं दृश्यं नष्टमि’त्यादिप्रत्ययबलेन सर्वदृश्य-प्रतियोगिकस्य चरमक्षणानुयोगिकस्य ध्वंसत्वस्य सम्भवात् । तदा ‘ज्ञानप्रयुक्तावस्थिती’त्यादेः ज्ञानाधीनो यः स्वस्वीयसंस्कारोभयस्य नाशः तत्प्रतियोगित्वमर्थः तन्न । ध्वंसस्य प्रतियोगिकालावृत्तित्वनियमात् । प्रतियोगिप्रागभावयोरिव प्रतियोगिध्वंसयोरभेदोक्तेः मूकोऽहमितिवद् व्याहतत्वात् । चरमक्षणस्य ध्वंसः इतिवत् ‘चरमक्षणः स्वध्वंसः’ इति व्यवहारापत्तेश्च । इष्टापत्तौ जगति व्यवस्थामात्रस्योच्छेदः स्यात् । ‘घटाभावे स नास्ति’ इत्यादि तु सम्यगेव तद्व्याघाताद्यभावात् ।

यत्तु दृश्याधिकरणक्षणव्यापकीभूतात्यन्ताभावप्रतियोगिपूर्वकत्वं, पूर्वत्वं च प्रागभावावच्छिन्नसमयः, दृश्याधिकरणे क्षणे दृश्याधिकरणक्षणपूर्वत्वाभावो दृश्योच्छेद इति । तन्न । दृश्याधिकरणक्षण-वृत्तिध्वंसप्रतियोगित्वरूपपूर्वत्वस्यात्यन्ताभावध्वंसयोर्दृश्ययोर्ध्वंसाद्यभावे हि तेनैव दृश्येन त्वदुक्तं व्याहतं स्यात् । भावे च तेनैव दृश्येनोक्तदूषणं स्यात् । प्रतियोग्युन्मज्जनापत्तेश्च । न च दृश्यमात्रस्य ध्वंसश्चर-मवृत्यात्मकः । वृत्तेरपि ध्वंसत्वेन स्वात्मकध्वंसप्रतियोगित्वमिति वाच्यम् । एकस्य हि पूर्वत्वादिघटित-जन्यजनकत्वे आत्माश्रयादिदोषेण व्याहतेः । न च चरमवृत्तित्वेन जनकत्वम् । दृश्यध्वंसत्वेन जन्यत्वमिति रूपभेदेन नोक्तदोष इति वाच्यम् । रूपभेदेऽप्येकस्यैवोत्तरपूर्वादिवृत्तित्वासम्भवात् । अन्यथा एकस्यैव घटस्य घटत्वेन कार्यत्वं, द्रव्यत्वादिना कारणत्वमिति जगति कार्यकारणभावादिव्यवस्थोच्छिद्येत ।

किञ्चैवं ब्रह्माधिकरणक्षणे ब्रह्माधिकरणक्षणपूर्वत्वाभाव इत्यपि सम्भवेन ब्रह्मणोऽप्युच्छेदापत्तिः । तस्य कालासम्बन्धित्वे तुच्छत्वम् । ‘‘सदेव सोम्येदमग्र आसीत्’’ इत्यादिवाक्याप्रामाण्यं च स्यात् । किञ्च दृश्याधिकरणक्षणे दृश्याधिकरणक्षणवृत्तिध्वंसप्रतियोगित्वाभावः तत्क्षणस्य नित्यत्वेन तद्ध्वंसस्य तत्क्षणासम्बन्धित्वेन वा स्यात् । तदुभयमप्यसम्भवि ।

एतेन उच्छेदमात्रस्योच्छिद्यमानधर्मत्वात् षट्सु हि जायतेऽस्तीत्यादिभावविकारेषु यास्केन परिगणितेषु चरमस्य तस्य जन्मसामानाधिकरण्यमुचितम् । तथैवानुभवात् । अत एव चिरविनष्टे घटे प्रागेव घटो नष्टो नेदानीमिति प्रत्ययः । ये तु ध्वंसमनुच्छेदस्वभावमभावमिच्छन्ति तेषामुक्तप्रतीतिविरोधो विपरीतप्रत्यया-पत्तिः । ‘णश अदर्शने’ इत्यादिधात्वर्थानुगमः नाश उच्छेद इति भावार्थकघञाद्यनुुपपत्तिश्च स्यात् । भावविकाराणां च न पृथग्भावविकाराः यथा गुणानां गुणाः स्वाश्रयात् पृथगसत्त्वात् अनवस्थापत्तेश्च । एवं च दृश्याधिकरणक्षणे दृश्याधिकरणक्षणपूर्वत्वाभाव एवाधिकरणात्मा चरमदृश्यस्य ब्रह्मसाक्षात्काररूपस्य चरमो विकारो दृश्योच्छेदः । तन्तुदाहस्तदवयवतद्विकाराणामिवाविद्याविश्वचरमवृत्तीनामेक एवाभ्युपगम्यत इति मन्दप्रलपितं निरस्तम् । सान्वयोच्छेदवादिनां षट्स्वित्यादि त्वदुक्तार्थसम्भवेऽपि निरन्वयोच्छेदवादिनस्तव तदसम्भवात् ।

अत एवे’ति सम्यगेव । ‘प्रागेव नष्टो घटः’ इत्यादेः प्राक्कालोत्पन्ननाशप्रतियोगी घटः नेदानी-मुत्पन्ननाशप्रतियोगीत्यर्थात् । उच्छेदो भावोऽभावो वेति । उभयथाऽपि पूर्वावस्थाऽदर्शनं तुल्यमेव ।

किञ्च धातूनां ह्यनेकार्थत्वम् । न हि ओष्ठौ भिन्नौ देशान्तरे स्थितस्य घटस्यात्रादर्शनमित्यादावोष्ठौ विदीर्णौ अत्र तद्घटस्य नाशः इति व्यवहारोऽस्ति । घञाद्यनुपपत्तिर्नास्त्येव (बाधानुपपत्तिर्वा अस्त्येव) घटस्य नाशः पटस्य ध्वंस इत्यादौ । धात्वर्थतुल्यत्वात् ।

एवं चेत्याद्ययुक्तम् । दृश्यस्य ब्रह्मसाक्षात्कारस्योच्छेदस्य हि किमधिकरणं दृश्यान्तरं वा ? ब्रह्म वा ? आद्ये तस्याप्युच्छेदेन भाव्यमित्यनवस्था । द्वितीये साध्यासाध्ययोस्सापेक्षनिरपेक्षयोरभेदस्यासम्भवात् । स्वप्रकाशरूपस्य तस्य सर्वदैव स्फुरणेन दृश्यस्याधिष्ठानं कदापि न स्यात् । न हि त्वत्प्रलपितषड्-विकाराणामेकस्मिन् काले स्थितिर्दृष्टा । युक्ता वा । ब्रह्मसाक्षात्काररूपदृश्यस्यातिरिक्तोच्छेदका-भावेनोच्छेदोऽपि दुर्लभः । स्वस्य स्वोच्छेदकत्वं चात्माश्रयादिना पराहतम् ।

अत एव अथवा सप्रपञ्चाविद्यायाश्चरमवृत्यात्मक एव चरमो विकारः । तस्य च न विकारापेक्षा इत्यधिष्ठानमात्रपरिशेष इति निरस्तम् । तस्य चरमविकारस्य नित्यत्वापत्तेः । तस्य ज्ञाननिवर्त्यत्वाभावेन त्वदभिमतमिथ्यात्वासिद्धेश्च । तस्य ब्रह्मात्मकत्वे च दोषस्योक्तत्वात् । किञ्च दृश्यमात्रविरोधिचरम-विकारात्मकब्रह्मणा सदैव सत्त्वेन दृश्यस्य सदैवोच्छेदस्स्यात् ।

यत्त्वेवम् परोद्भावितव्याघातानवकाशः । किञ्च सोऽयं व्याघातश्चरमक्षणे ? मुक्तौ वा ? आद्ये त्वदुक्तद्वितीयानभ्युपगमात् । द्वितीये उभयानभ्युपगमाच्च । व्याघातकाप्रसिद्धिः । द्वितीये व्याघात-स्योभयशून्यतापादकस्याद्वैतानुकूल्यं च ।

यदपि प्रतियोग्युन्मज्जनप्रसञ्जनम् । तदपि तुच्छम् । व्याप्तेरप्रसिद्ध्याऽऽपादनासम्भवात् । घटस्य ध्वंसेऽपि तत्प्रागभावानुन्मज्जनेन व्यभिचाराच्चेति । तन्न । त्वद्वाक्याभासस्य दूषितत्वेन व्याघातस्य दृढत्वात् ।

अत एव किञ्चेत्याद्युक्तो विकल्पप्रलापोऽप्यशुद्ध एव । उक्तव्याघातस्याद्वैतानुकूल्ये मूकोऽह-मित्यादिव्याघातस्यापि तदापत्तेः ।

यदपीत्यशुद्धम् । कालत्वस्य हि प्रागभावप्रतियोगिध्वंसान्यतमव्याप्यत्वेन प्रतियोग्युन्मज्जन-स्यावश्यकत्वात् । ‘घटस्य ध्वंसेऽपीत्यशुद्धम् । घटध्वंसोऽपि हि प्रागभावस्य ध्वंसः ।

यत्तु ब्रह्माधिकरणक्षणे इति तदयुक्तम् । निर्विशेषस्याधिकरणाप्रसिद्धेः । यदि च ‘स्वे महिमि्न’ इति श्रुत्या तस्य कालेत्ययुक्तम् । न हि क्षणसम्बन्धाधीनं कस्यचित् सत्त्वम् । प्रतिक्षणं पूर्वपूर्वक्षणध्वंसे जगतः क्षणिकत्वापत्तेः । आकाशेश्वरादीनामनित्यत्वानेकत्वाद्यापत्तेश्च । न्यायनयेऽपि नित्यानां महाकाल-वृत्तित्वानभ्युपगमेनासत्त्वापत्तेः । आत्माश्रयदोषेण महाकालस्यैवासत्त्वापत्तौ तत्सम्बन्धाधीनं जगतः सत्त्वमित्युक्तेः शून्यवादपर्यवसानाच्च । 

दृश्याधिकरण इत्याद्ययुक्तम् । इयमुक्तिर्यदि सामान्यतस्तदधिकरणक्षणे तदधिकरणक्षण-वृत्तिध्वंसप्रतियोगित्वाभावस्तन्नित्यत्वक्षणसम्बन्धिध्वंसप्रतियोगित्वान्यतरमात्रोपपाद्य इति नियमपरा तर्हि स्वाप्नव्याघ्रशुक्तिरजतादिषु व्यभिचारः । तेषां बाधातिरेकेण नाशाप्रसिद्धेरिति । तन्न । तस्य हि कालसम्बन्ध उक्तश्रुत्या बोधितः ।

किञ्च त्वदुक्तो निर्विशेषः प्रमाणगम्यः ? न वा ? नाद्यः (आद्ये) प्रमाणेन सत्यत्वेनैव बोधनात् । द्वितीये तस्यासिद्धिरेव । न हि प्रमाणं विनाऽर्थस्सिद्ध्यति । अन्यथा शशशृृंगादीनामपि सिद्धिः स्यात् । ‘यदिवे’ति श्रुत्या चाधेयान्तरवत् तस्याधाराधीनत्वनिरासात् ।

न हीत्ययुक्तम् । सत्त्वस्य क्षणसम्बन्धाधीनत्वं ह्यस्माभिर्नोक्तम् । किन्त्ववर्जनीयं सम्बन्धमात्रम् । आकाशेश्वरादीत्ययुक्तम्    तेषां महाकालसम्बन्धित्वात् ।

न्यायनये इत्ययुक्तम् । तैर्नित्यानामपि महाकालवृत्तित्वस्वीकारात् । अत एव दीधितिकृता नित्यानां कालासम्बन्धित्वाङ्गीकारेऽस्वरसमुद्भाव्य तेषां कालवृत्तित्वपक्षे प्रतियोग्यनधिकरणहेत्वधिकरणवृत्त्यभाव-प्रतियोगितासामान्ये यद्धर्मावच्छिन्नत्वयत्सम्बन्धावच्छिन्नत्वोभयाभावः तद्धर्मावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति (लक्षणान्तरमुक्तम्) मतान्तरमुक्तम् । अन्यथा तेषां पूर्वकालवृत्तित्वघटितकारणत्वं न स्यात् ।

आत्माश्रयेत्यशुद्धम् । ‘प्रमेयत्वं प्रमेयम्’ ‘घटाभावो घटो नास्ति’ इत्यादिवत् कालस्सदाऽस्तीति प्रतीत्या कालस्यापि कालसम्बन्धित्वसम्भवात् ।

इयमुक्तिरित्याद्यशुद्धम् (इयं शुक्तिरित्याद्यशुद्धम्) । प्रातिभासिकाधिकरणक्षणेे हि दृश्याधिकरण-क्षणवृत्तिध्वंसप्रतियोगित्वाभावस्तस्य नित्यत्वेन ध्वंसस्य क्षणासम्बन्धित्वेन वोपपाद्य इत्यस्मदुक्तौ त्वत्प्रलापानवकाशात् । किञ्च प्रातिभासिकस्य नाशाप्रतियोगित्वे ज्ञाननिवर्त्यत्वरूपमिथ्यात्वं न स्यात् ।

यच्च अथवा ज्ञानप्रयुक्तो ज्ञानाधीनो योऽवस्थितिसामान्यस्य स्वात्मकसामान्यस्याभावः, तत्प्रति-योगित्वं ज्ञाननिवर्त्यत्वम् । स्वात्मकं च स्वसमानसत्ताकम् । तच्च स्वस्वीयसंस्काररूपस्वीय-परिणामादिरूपमेव । ज्ञानेन हि अज्ञानतत्परिणामादिदृश्यसामान्यस्यात्यन्ताभावः स्वोत्पत्तिद्वितीय-क्षणावच्छिन्ने साध्यते । साध्यता चात्र क्षेमसाधारणी । सत्वाभावः । स्वान्यसर्वदृश्यविरोधी क्षणिक इति । तन्न । अत्यन्ताभावस्य हि स्वप्रतियोग्यादिना दैशिक एव विरोधः । न तु कालिकः । तस्य (त्रैकालिकस्य) साध्यत्वं, क्षणिकत्वं तु त्वत्कपोलकल्पितमेव । किञ्च क्षणिकत्वं स्वोत्पत्तिद्वितीयादिक्षणवृत्तिध्वंस-प्रतियोगित्वम् । तथा च ध्वंसानामेवाधारापत्त्या त्वदभिमतदृश्यमात्रोच्छेदोऽसिद्धः ।

ननु ज्ञानत्वव्याप्यधर्मेणेति असाधु । स्मृतेस्संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् । दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः । वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम् । अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यसंशयेऽतिव्याप्तिरिति चेत् । न । विलक्षणस्मृत्या विलक्षण एव संस्कारोऽनुमीयते । वैलक्षण्यं जातौ । तथा च स्मृत्या पूर्वसंस्कारो नश्यत्येव ।

यत्तु समानविषयकत्वसामानाधिकरण्योभयसम्बन्धेन संस्कारविशिष्टसंस्कारत्वेन तत्समनियतजाति-विशेषेण वा विलक्षणस्मृतिहेतुत्वेऽपि स्मृतेः संस्कारं प्रति नाशकता न कल्प्यते गौरवादिति । तन्न । स्मृतीनां धारापत्तेः । न चोद्बोधकासत्त्वादुच्छेदः । एवं हि अन्वयव्यतिरेकाभ्यां उद्बोधकैरेव स्मृतिसम्भवे संस्कारानु-भवयोस्स्मृतिकारणत्वविलोपापत्तेः । संस्कारस्य सविषयकत्वोपपादकत्वेन तार्किकैः स्मृतिनाश्यत्वाभ्युप-गमात् । तथाहि अथ भावनाया अदृष्टवत् निर्विषयकत्वमेव युक्तम् । तत्तद्विशेष्यकतत्तत्प्रकारकस्मृतिं प्रति तत्तद्विशेष्यकतत्तत्प्रकारकनिश्चयस्य स्वजन्यभावनासम्बन्धेन हेतुत्वात् नातिप्रसङ्गः ।

यत्तु एवं सति घटांश उपेक्षात्मकाद् भूतलं घटवत् पटवच्च इति निश्चयाद् घटांशेऽपि स्मृतिप्रसङ्गः । स्वजन्यभावनायाश्च पटांशे स्मृत्यनुरोधेन स्वीकारात् । न चोेपेक्षान्यत्वस्य स्मृतिहेतुतावच्छेदकत्वनिवेशान्नायं दोषः । सर्वांशोपेक्षाजन्यानन्तभावनाभयेनोपेक्षान्यत्वेन भावनां प्रत्येव हेतुत्वादिति । तत्तुच्छम् । आंशिकोपेक्षाभेदानां स्मृतिहेतुतावच्छेदके प्रवेशेनैव सामञ्जस्यादिति ।

अत्र नव्याः समानाकारकफलस्य भावनानाशकत्वाद् भावनायास्सविषयकत्वसिद्धिः । न च स्मृतिक्षणोत्पन्नसंस्कारस्य क्षणिकत्ववारणाय फलं स्वस्य वाच्यम् । तथा च तत्तद्व्यक्तित्वेनैव नाशकत्वं युक्तमिति तद्भावनाजन्यचरमफलस्यैव तद्भावनानाशकत्वमस्त्विति वाच्यम् । जनकतया तत्तद्विशेष्यक-तत्तत्प्रकारकस्मृतेः प्रतियोगितया तादृशभावनानाशहेतुत्वस्यानुगतत्वात् । न च तत्पुरुषीयभावनासामान्यनाशं प्रति भावनासामान्यनाशं प्रत्येव वा तत्पुरुषीयचरमस्मृतिव्यक्तेस्तत्त्वेन चरमस्मृतिमात्रस्य वैजात्येन हेतुत्वमिति वाच्यम् । एवं सत्यजनितोपान्त्यात्मकस्मृतिकानां भावनानां सत्त्वोपगमे ताभ्यः स्मृत्युत्पत्तिप्रसङ्गात् । न चोद्धोधकाभावाद् न तथा । सदृशसम्बन्ध्याद्यात्मकयद्यद्व्यक्तिज्ञानादेव यद्यत्पुरुषीयस्य सति संस्कारे यद्यदर्थस्मृतिस्तत्तत्पुरुषीयतत्तदर्थस्मृतौ तत्तद्व्यक्तौ ज्ञानत्वेनैवोद्बोधकत्वेन तस्य तत्र सत्त्वात् । अन्यथोद्बोधकस्यैव विशिष्य स्मृतिहेतुत्वेनानतिप्रसङ्गेऽनुभवस्यापि तद्धेतुत्वं न स्यात् । प्रतिपुरुषं जगति चैक एव नित्यः संस्कारस्स्यात् । नैव वा स्यादतिप्रसङ्गस्योद्बोधकेनैव वारणादित्याहुः ।

ननु स्मरणोत्तरमपि स्मरणोदयेन पूर्वसंस्कारसत्त्वेऽपि न क्षतिरिति चेत् । न । अनुभवानन्तरं यत्रोपेक्षात्मकं स्मरणम्, तदनन्तरं स्मरणवारणाय तन्नाशकत्वावश्यकत्वादित्यन्य इति । वस्तुतस्त्वित्य-युक्तम् । परोक्षप्रमानिवर्त्यपरोक्षभ्रमविषयेऽव्याप्तेः । प्रवृत्तिप्रागभावेऽतिव्याप्तेश्च । उपादानप्रत्यक्षस्य साक्षात्कारत्वेन प्रवृत्तिरूपं तन्नाशं प्रति प्रयोजकत्वात् ।

न च प्रागभावो नाङ्गीक्रियते । तन्नाशत्वेनात्यन्ताभावत्वेन वा प्रयोज्यत्वं निवेश्यत इति वाच्यम् । प्रतियोगिजनकनाश्यप्रागभावस्थानीयावस्थाविशेषस्यावश्यकत्वात् । उक्तरूपेण प्रयोज्यत्वस्यापि सम्भवाच्च ।

किञ्च स्पार्शनादिरूपे शुक्तिसाक्षात्कारे सत्यपि चाक्षुषादिरूपस्य रजतादिभ्रमस्योत्पत्त्या तदिन्द्रियप्रयोज्यरजतादिभ्रमहेत्वज्ञाने तदिन्द्रियप्रयोज्यशुक्त्यादिधीत्वेन शुक्त्याद्यधीनत्वेन निवर्तकत्व-मावश्यकम् । तथा च साक्षात्कारत्वेन न तत् । न च तथा सति वह्न्यादेः स्पार्शनाद्युत्तरं तत्र तदन्यत्व-चाक्षुषाद्यापत्तिः । तत्सामग्य्रां सत्यामिष्टत्वात् । न च ‘यद्विशेषयोः’ इति न्यायेन साक्षात्कारत्वेनापि निवर्तकत्वमावश्यकम् । विशेषकार्यकारणाभावेनैव निर्वाहे सामान्यकार्यकारणभावस्याकल्पनात् । व्याप्यधर्मे व्यापकधर्मस्यान्यथासिद्धत्वाच्च ।

किञ्च सेतुदर्शनादिना सत्यस्यैव दुरितस्य निवृत्तिवद् ज्ञानेन सत्यस्यैव निवृत्तिः स्यात् । न च ‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’ इत्यादिस्मृत्या सेतुचाक्षुषत्वेनैव तत्र निवर्तकत्वम् । न तु ज्ञानत्वेनेति वाच्यम् । दृशेः साक्षात्कारमात्रवाचकत्वात् । अन्यथा ‘दृष्ट्वैव तं मुच्यते’ इत्यादावपि तथात्वापत्तेः ।

न्यायामृतमाधुरी

अतीतेत्यादि । तस्य ज्ञानाघटितया मुद्गरपातादिघटितसामग्य्रा निवृत्ततया तत्र सामानाधिकरण्येन बाधादित्यर्थः । अव्याप्तेश्चेति । साध्यवैकल्यादित्यर्थः । ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्य ज्ञानत्वा-वच्छिन्नजनकतानिरूपितजन्यताशालिध्वंसप्रतियोगित्वस्य । अतिव्याप्तेश्चेति । अर्थान्तरत्वादित्यर्थः । अनिवर्तकत्वाच्चेति । अवच्छेदकावच्छेदेन बाधादित्यर्थः । ज्ञानत्वव्याप्येत्यादि । तथा च ज्ञानत्वव्याप्यस्मृतित्वावच्छिन्नजनकतानिरूपितजन्यताशालिध्वंसप्रतियोगिनः संस्कारस्येव जगत-स्तथात्वं सत्वेऽप्युपपत्स्यत इत्यर्थान्तरत्वादित्यर्थः ।

अत्र गदाधरः– ‘‘समानाकारस्यैव फलस्य नाशकत्वात्समूहालम्बनादितो नैकैकगोचरक्रमिक-स्मरणानुपपत्तिः’’ इति दीधितिग्रन्थं– ‘‘ननु स्वजन्यस्मरणस्य संस्कारनाशकत्वे स्मृतिसाधारणेन ज्ञानत्वेन स्मृतिहेतुत्वेऽपि घटपटादिरूपनानाविषयावगाहिनाऽनुभवेन जनितस्य तावद्विषयकसंस्कारस्य घटाद्येकैकगोचरस्मरणेनापि विनाशात्तदुत्तरं पटादिस्मरणानुपपत्तिस्तद्विषयकसंस्काराभावात् । स्मृतिजन्यघटादिगोचरसंस्कारस्य च भिन्नविषयतया पटादिस्मारकत्वायोगादित्याशङ्कां निरस्यति समानेति’’ इत्यवतार्य समानाकारस्य अन्यूनाकारस्य, अतः प्रत्येकगोचरनानासंस्कारजनितसमूहा-लम्बनस्मरणेन स्वजनकसकलसंस्कारनाशनिर्वाह इति व्याकृत्य, अथात्र नाशकता यदि स्वजन्यस्वान्यूनविषयकस्मृतित्वेन तदा स्वपदस्य तत्तत्संस्कारव्यक्तिपरतायाः अवश्यकत्वात्तत्त-व्द्यक्तिभेदेन कारणताबाहुल्यम् । तदुपगमेन तद्व्यक्तित्वेनैव नाशकतायाः युक्तत्वात् । यदि च प्रतियोगितासम्बन्धेन संस्कारनाशं प्रति जनकत्वानतिरिक्तविषयकत्वोभयसम्बन्धेन स्मृतित्वेन हेतुताजनकतानिवेशात् स्वजन्यसंस्कारस्य स्मृत्या विनाशः । जनकत्वस्थाने तद्घटकपूर्ववृत्तित्वमेव वा निवेश्यम् । न च व्यधिकरणस्मृतेरपि नाशकतापत्तिः । व्यधिकरणस्मृतिं प्रत्यपि संस्कार-स्वरूपयोग्यतया सामानाधिकरण्यनिवेशस्योभयमते आवश्यकत्वान्नियमान्यथासिद्धत्वप्रवेशवैफल्यात् ।

वस्तुतः सामानाधिकरण्यसहितमनतिरिक्तविषयकत्वमेव सम्बन्धः न तु जनकत्वस्य पूर्वकालीन-त्वस्य चानिवेशः । ज्ञानादीनां क्षणिकतावारणाय प्रतियोगितासम्बन्धेन तादृशं प्रति पूर्वत्वसम्बन्धेन नाशस्य सामान्यकारणताया आवश्यकत्वात् तत एव स्वजनकस्मरणेन संस्कारस्य स्वोत्पत्तिद्वितीयक्षणे नाशापत्यनवकाशात्तदानीं च स्मृतेर्विनाशेन ततस्तदुत्तरक्षणेऽपि नाशापत्यसम्भवात् । अनतिरिक्त-विषयकत्वं च स्वावृत्तिविषयिताशून्यत्वं न तु स्वाविषयाविषयकत्वं, प्रमेयत्वादिना सकलप्रमेय-विषयकस्मरणस्याविषयाप्रसिद्धेः संस्कारनाशकतानुपपत्तेः । भावत्वादिना सकलभावविषयकस्मरणाद्घट इत्यादिज्ञानजन्यसंस्कारनाशापत्तेश्चेत्युच्यते । तथापि सम्बन्धमध्ये तत्तत्स्मरणव्यक्तिरूपस्य पदार्थमनन्तर्भाव्यानतिरिक्तविषयकत्वस्यावृत्तिविषयताया अप्रसिध्या दुर्निर्वचत्वेन तत्तद्व्यक्ति-विश्रामस्यावश्यकत्वात् । स्वनिष्ठभेदप्रतियागितावच्छेदकविषयताशून्यत्वरूपानतिरिक्तवृत्तित्वेऽपि भेदे तत्तत्स्मृतिव्यक्तिनिष्ठत्वमावश्यकम् । अन्यथाऽवच्छेदकत्वान्तस्य विषयतायामव्यावर्तकतापत्तिरिति चेत्सत्यम् । तत्प्रकारकतद्विशेष्यकसंस्कारनाशं प्रति तत्प्रकारकतद्विशेष्यकस्मृतित्वेन कारणता कार्यस्य सम्बन्धः, प्रतियोगिता कारणस्य पूर्ववृत्तित्वसहितं तदसहितं वा सामानाधिकरण्यं तद्विषयकान्यनाशं प्रति तद्विषयकसंस्कारभेदेऽपि प्रतियोगिप्रत्यासन्नो हेतुः । अतो घटत्वप्रकारकघटविशेष्यक-समूहालम्बनात्मकस्मृत्या यथा समूहालम्बनात्मकस्तत्प्रकारकस्तद्विशेष्यकसंस्कारो नाश्यते तथा समूहालम्बनात्मकसंस्कारोऽपि नाश्यतां, अन्यविषयकस्मृतिविरहस्यैतद्विषयकस्मृतिघटितसामग्रीविरहा-प्रयोजकत्वादिति दूषणस्य नावकाशः । समूहालम्बनानात्मकतद्विषयकसंस्कारनाशप्रयोजकसामाग्य्राः अन्यविषयकसंस्कारभेदरूपकारणकूटघटितत्वात् । समूहालम्बनात्मकसंस्कारनाशप्रयोजकसामग्य्रा अन्यविषयकस्मृतिघटितत्वात्समूहालम्बनसंस्कारे च तादृश्याः अपि कस्या अपि सामग्य्रा उक्त-स्थलेऽसत्त्वात् । न चैवमपि गोत्वाभाववान् गोत्वाभाव इत्यादिज्ञानजन्यसंस्कारस्य गोत्वाभाव इत्याकारकस्मरणाद्विनाशापत्तिः । तादृशसंस्कारनाशे तादृशस्मृतिसहकारिणां यावत्तदविषयकसंस्कार-भेदस्य च तदसहकारित्वात् । गोत्वाभावादिनिष्ठतत्सम्बन्धस्यापि तत्स्वरूपतया तादृशस्मृतिनाश्य-संस्कारविषयत्वेन तद्विषयकसंस्कारभेदस्यापि तादृशस्मृत्यसहकारित्वादिति वाच्यम् । तत्प्रकारकान्य-संस्कारनाशे तत्प्रकारकभेदत्वेन हेतुताया उपगम्यतया गोत्वाभाव इत्यादिस्मृतिनाश्यसंस्कारसाधारणस्य गोत्वाभावादिप्रकारकसंस्कारभेदस्य तादृशस्मृतिसहकारितया गोत्वाभाववान् गोत्वाभाव इत्यादिधीजन्यसंस्कारे तादृशभेदासत्वेनापत्त्यभावात् । द्रव्यत्वादिना घटादिविषयकसंस्कारस्य तेन रूपेण घटादिमात्रविषयकस्मृतितो विनाशवारणाय तत्तद्विशेष्यकसंस्कारनाशे तत्तद्विशेष्यक-संस्कारभेदस्य हेतुत्वमपि वाच्यम् । एवं समानप्रकारकसमानविशेष्यकनानासंसर्गावगाहिसंस्कारस्यैक-मात्रतत्संसर्गकस्मृतितो विनाशवारणाय तत्तत्संसर्गकसंस्कारनाशे तत्संसर्गकसंस्कारभेदस्यापि हेतुता बोध्या । संस्कारनाशं प्रति तादात्म्यसम्बन्धेन संस्कारहेतुत्वेनाप्येकहेतुता कल्पनीया । अतः संस्कारनाशकसामग्य्रा नादृष्टादिसाधारण्यम् । केचित्तु समूहालम्बनजन्यघटपटादिसंस्काराः भिन्नभिन्ना एव । संस्कारयौगपद्ये क्षतिविरहात् । तथा च स्ववृत्तिविषयतावत्वस्यापि स्मृतिनिष्ठनाशजनक-तावच्छेदकप्रत्यासत्तिघटकत्वोपगमात् घटादिस्मृत्या न पटादिसंस्कारविनाशनम् । तस्य तत्स्मृति-वृत्तिघटादिविषयितावत्वाभावादित्युत्तरकाले पटादिस्मरणनिर्वाहः ।

एवं घटवद्भूतलमित्यादिविशिष्टज्ञानात् घट इत्यादिस्मृतिनिष्ठप्रत्येकपदार्थविषयिताशून्या एव विशिष्टगोचरसंस्कारा उपगम्यन्ते । तेन च तादृशस्मृतितो विनश्यन्ति । तत्र तादृशस्मृतिनिष्ठ-विषयितावत्वविरहात् । अत उत्तरकालं विशिष्टस्मृतिनिर्वाहः । घट इत्यादिस्मृतेरपि घटादिविषयक-संस्कारत्वावच्छिन्नविशिष्टसंस्कारफलतया तद्व्यावर्तनाय फलस्य समानाकारताकथनसङ्गतिरित्याहु-रित्यादिना संस्कारस्मरणयोर्निवर्त्यनिवर्तकभावं व्यचीचरदित्यलं प्रपञ्चेन ।

यथार्थस्मृतिनिवर्त्येति । परदिशैवेदम् । स्वमते तस्यालीकत्वेन निवृत्यनुपगतेः । भ्रमोत्तर-प्रमेति । प्रमात्वमत्रानुभवत्वाघटितं सामानाधिकरण्यप्रत्यासत्या तत्तद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्व- विशेषितज्ञानत्वरूपमेव । तेन नोत्पत्यनन्तरोक्ताव्याप्तिप्रसङ्गः । अज्ञानसंस्कार इति । पररीत्येदम् । उक्तार्थं विनेयान् ग्राहयितुं सङ्गृह्णाति– विज्ञानेति । तथा च दृष्टान्ते साध्यवैकल्यं पक्षे अर्थान्तरत्वं चेत्याशयः ।

अत्राद्वैतसिद्धिकारः । ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा । स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मना अवस्थितिविरहाभावाद्ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्तिः । अत एव नोत्तरज्ञाननिवर्त्ये पूर्वज्ञानेऽपि सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिध्या अर्थान्तरता । उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्या प्रतिभासकालेऽव-स्थित्यङ्गीकारान्न बाधकज्ञानं विना तद्विरह इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैः ‘‘अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाध’’ इति । वार्तिक-कृद्भिश्चोक्तम् । ‘‘तत्त्वमस्यादिवाक्योत्थसम्यक्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति’’ इति । सहकार्येण नासीदिति लीनेन कार्येण सह निवृत्त्यभिप्रायम् । सहकार्येण न भविष्यतीति तु भाविकार्यनिवृत्यभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते । तत्तद्भ्रमोपादानानामज्ञानानां भेदाभ्युपगमादिति न दृष्टान्ते साध्यवैकल्यम् । मुद्गरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतरूप्यं च नास्तीति प्रतीतेः सर्वसम्मतत्वात् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण किन्त्विच्छादिसाधारणेनोदीच्यात्मविशेषगुणत्वेनोदीच्यत्वेन वेति न सिद्धासाधनादि । नापीच्छाद्यनिवर्त्ये स्मृतित्वेन ज्ञाननिवर्त्ये संस्कारेऽतिव्याप्तिः । स्मृतित्वेन स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् । तेषां दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः । वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितं अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशयेऽतिव्याप्तिरिति सर्वमवदातमिति बभाषे ।

ज्ञानप्रयुक्तेत्यादि ज्ञानप्रयुक्तोऽधिष्ठानतत्त्वज्ञानव्यापको योऽवस्थितिसामान्यस्य स्वस्वीयसंस्कारा-न्यतरस्याभावस्तत्प्रतियोगित्वमित्यर्थः । या या अप्रामाण्यज्ञानादिशून्यसाक्षात्कारप्रमा सा स्वसमान-विषयकाज्ञानक्षणावृत्तिर्या या स्वजन्यपटुतमसंस्कारसहितोक्तप्रमा सोक्ताज्ञानतत्संस्कारक्षणावृत्तिः । सहितान्तोपादानादुक्तसहितान्यशुक्त्यादिप्रमाया उक्तसंस्कारक्षणवृत्तित्वेऽपि न व्यभिचारः । अत एव जीवन्मुक्तनिष्ठब्रह्मप्रमाऽपि तादृशक्षणवृत्तिः । या योक्तप्रमा सा स्वसमानविषयकाज्ञानप्रयुक्त-तत्संस्कारवत्कालपूर्वभिन्ना । तथा च तादात्म्येनोक्तप्रमां प्रति स्वाधिकरणक्षणवृत्तित्वसम्बन्धेनोक्ता-ज्ञानतत्संस्कारान्यतरस्याभावः । उक्ताज्ञानप्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वक्षणवृत्तित्व-सम्बन्धेनाभावश्च व्यापकः । तादृशाभावप्रतियोगित्वस्याज्ञानतत्प्रयुक्ततत्संस्कारेषु सत्त्वाल्लक्षण-समन्वयः । तादात्म्येन तादृशप्रमां प्रति स्वसमानविषयकत्वं कालिकत्वं चेति सम्बन्धद्वयेनाज्ञान-तत्संस्कारान्यतरस्याभावः स्वप्रयोजनकाज्ञानसमानविषयकत्वं स्वाश्रयकालपूर्वत्वं चेति सम्बन्धद्वयेना-ज्ञानप्रयुक्ततत्संस्कारान्यतरस्याभावश्च व्यापक इति तु निष्कर्षः । तथा च घटादिस्वरूपप्रतियोगिक-विरहस्य ब्रह्मज्ञानान्यप्रयुक्तत्वेऽपि घटादिसंस्कारप्रतियोगिकस्योक्तावस्थितिसामान्याभावस्य ब्रह्म-ज्ञानान्याप्रयुक्तत्वेन ब्रह्मज्ञानप्रयुक्तत्वं तस्याक्षतमिति भावः । यदि च चरमक्षणे स्वेतरस्येव स्वस्यापि ध्वंसवत्वं स्वीक्रियते । एकत्र तत्र रूपभेदेन ध्वंसत्वं प्रति प्रतियोगित्वानुयोगित्वयोः सम्भवात् । सकलदृश्यत्वेन हि तत्र प्रतियोगित्वं चरमतत्वज्ञानाश्रयतत्क्षणव्यक्तित्वेनानुयोगित्वं घटाभावे स नास्तीत्यादि प्रत्ययबलेनाश्रमस्वामिनां मते घटाभावादिप्रतियोग्यनुयोगिकस्यात्यन्ताभावत्वस्येव ज्ञानात्सर्वं दृश्यं नष्टमित्यादिप्रत्ययबलेन सर्वदृश्यप्रतियोगिकस्य चरमक्षणानुयोगिकस्य ध्वंसस्य सम्भवात् । तदा ज्ञानप्रयुक्तावस्थितीत्यादेर्ज्ञानाधीनो यः स्वस्वीयसंस्कारोभयस्य नाशस्तत्प्रति-योगित्वमर्थः ।

अथवा ज्ञानप्रयुक्तावस्थितीत्यादेरयमर्थः । अज्ञानप्रयुक्ततत्संस्कारान्यतरस्य पूर्वोक्तसम्बन्धद्वयेन योऽत्यन्ताभावा(वोऽज्ञाना)धीनस्तत्प्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति । पूर्वमते नाशस्येवै-तन्मतेऽत्यन्ताभावस्य ज्ञानसमानकालीनस्यापि ज्ञानाधीनत्वं, तत्त्वज्ञानादज्ञानप्रयुक्तमुच्छिद्यते । सर्वदृश्यमुच्छिद्यत इति प्रत्ययात् ।

अथवा ज्ञानप्रयुक्तो ज्ञानाधीनो योऽवस्थितिसामान्यस्य स्वात्मकसामान्यस्याभावस्तत्प्रतियोगित्वं, स्वात्मकं च स्वसमसत्ताकं ग्राह्यम् । तच्च स्वस्वीयसंस्काररूपस्वीयपरिणामादिरूपमेव । ज्ञानेन हि अज्ञानतत्परिणामादिदृश्यसामान्यस्यात्यन्ताभावः स्वोत्पत्तिद्वितीयक्षणावच्छिन्नः साध्यते । साध्यता च तत्र क्षेपसाधारणी । स चाभावः स्वान्यसर्वविरोधी क्षणिक इति व्याख्या, तदेतद्व्याख्याचतुष्टयं दर्शितमित्यन्तेन ब्रह्मानन्दस्तद्ग्रन्थं चतुर्धा व्याचकार, तत्राद्या व्याख्या तावन्न साधीयसी । वादिप्रतिवाद्युभयदिशा साध्यवत्वेन सम्प्रतिपद्यमानं हि निदर्शनम् । प्रकृते शुक्तिरूप्येऽद्वैतिदिशा कथञ्चित्साध्यवत्तासङ्गमनेऽपि जगत्सत्यमाचक्षाणस्यालीकख्यातिवादिनोऽन्याथाख्यातिवादिनश्च प्रतिवादिनो मते तस्याज्ञानतत्प्रयुक्ततत्संस्कारान्यतमरूपतानुपगत्या तद्दिशा तत्र साध्यस्य दुःसङ्गमत्वात् । महानसे काञ्चनमयवह्नित्वावच्छिन्नभ्रान्तिमतः पर्वते धूमेन तदवच्छिन्नसाधनदशायां वह्नौ काञ्चनमयत्वाभावस्याधिगन्ता साध्ये साध्यतावच्छेदकाभावरूपसाध्याप्रसिध्युद्भावनेन तं न गृह्णीयात् । वनमालिमिश्रीये तु दण्डादिनिवर्त्यस्य घटाद्यवस्थाविशेषस्य ज्ञानानिवर्त्यत्वेऽपि ज्ञानप्रयुक्तावस्थाविशेषविरहमादायान्यतरत्वेन लक्षणसमन्वयेऽर्थान्तरत्वापत्तेः । सन् घट इति प्रमायाः आपातवेदान्तजन्यप्रमायां च त्वन्मते ब्रह्मप्रमात्वेन स्वीकृतायाः स्वसमानविषयकाज्ञानकालवृत्तित्वेन व्यभिचारात् । विशेष्यताख्यविषयतामादायैव ज्ञानाज्ञानयोः समानविषयत्वं हि त्वया वाच्यं न तु समानप्रकारकत्वमादाय । अखण्डार्थकवेदान्तजन्यब्रह्मज्ञानाज्ञानयोस्तदसम्भवात् । तच्चोक्तप्रमयो-रप्यस्तीति स्थितम् । ज्ञानप्रयुक्तव्यतिरेकप्रतियोगिकारणकत्वमर्थः स्यात् । तत्र चोत्तरज्ञान-प्रयुक्तव्यतिरेकप्रतियोगिपूर्वज्ञानजन्ये संस्कारादौ सिद्धसाधनम् । अनाद्यविद्यादौ च बाध इति तु तरङ्गिण्याम् । द्वितीयव्याख्याऽपि तादृश्येव । न हि सन्तं प्रपञ्चमभिदधानावलीकख्यातेरन्यथा-ख्यातेश्चोपगन्तारौ प्रतिवादिनौ शुक्तिप्रमयाऽध्यस्तस्य ध्वंसमङ्गीकुर्वाते । येन तद्दिशा साध्यसङ्गमनमिह निदर्शने स्यात् । एतेन तृतीयतुरीये अपि व्याख्ये दर्शिताशेषक्षतितादवस्थ्येन प्रत्याख्यातप्राये । शिष्टांशदूषणानि निबन्धान्तरे प्रपञ्चितानीतीहोपरम्यते ।

ज्ञानत्वव्याप्येत्याद्यपि न साधीयः तादृशमननत्वस्य संशयविशेषनिवर्तकतावच्छेदकताया-स्तदाकरनिरूढत्वात् । उदीच्यात्मविशेषगुणत्वेनोदीच्यत्वेन वेति तु न्यायनयानाकलननिबन्धनम् । धर्माधर्मादेर्नाशकतावारणाय शब्दसङ्ग्रहाय च योग्यविभुविशेषगुणत्वस्यैव निवर्तकतावच्छेदकतायास्तत्र समर्थनात् । स्मृतेः संस्कारनिवर्तकत्वे मानाभावादिति तु वैय्यात्यमात्रविलसितम् । धर्माधर्मादेः फलनाशतेव संस्कारस्यापि फलनाश्यतायाः प्राक् सप्रपञ्चं दीधितिकाराद्युक्तदिशा समर्थितत्वात् । दृढत्वं च समानविषयकसंस्कारानेकत्वमित्यदोष इति त्वनाकरमेव । जायते च पुनः पुनः स्मरणात् दृढतरः संस्कार इति दीधितिकारादिभिः पूर्वसंस्कारनाशस्य विलक्षणसंस्कारोत्पादस्य चोपगत्या समानविषयकसंस्कारयौगपद्यस्य निष्प्रमाणत्वात् । तथा च समानविषयकत्वसामानाधिकरण्योभय-सम्बन्धेन संस्कारविशिष्टसंस्कारत्वेन तत्समनियतजातिविशेषेण वा विलक्षणस्मृतिहेतुत्वे स्वीकृतेऽपि स्मृतेः संस्कारनाशकता न कल्प्यते गौरवादिति भाव इति ब्रह्मानन्दीयं तदाशयोपवर्णनमुदाहृताकारा-नवमर्शनियन्त्रितम् । स्वसमयपरिपालनाभिनिवेशवशमनादरणीयमेव । संस्कारस्य फलीभूत-स्मृत्यनाश्यत्वे ‘‘न च स्मृतिधारापत्तिरित्याशङ्क्योद्बोधकविच्छेदादिति’’ ब्रह्मनन्दीया समाहितिर-न्योन्याश्रयस्य नव्यनैय्यायिकमतस्य चानुसन्धाननिबन्धना । संस्कारस्य फलानाश्यत्वे सिद्धे स्मृतिधारानुत्पादो ह्यननुगतोद्बोधकासमवधाननिबन्धः सिध्यति सिद्धे तदनुत्पादनस्य तन्निबन्धनत्वे तत्सिद्धिरित्यन्योन्याश्रयात् । नव्यनैय्यायिकमतं तु प्राक्  दर्शितमेव । वस्तुतस्त्वित्यप्यपेशलम् । साक्षात्कारत्वस्य निवर्तकत्वावच्छेदकत्वोपगतिर्नायं भुजङ्ग इत्याद्याप्तवाक्याधीनान्वयबुद्धेरपि रज्जुखण्डधर्मिकचाक्षुषभुजङ्गभ्रमबाधकतामुपगच्छतां चिरन्तनानां सिद्धान्तविस्मृतिनिबन्धनत्वात् ।

अत्र ब्रह्मानन्दः । न च तथापि प्रवृत्तिप्रागभावेऽतिव्याप्तिः । उपादानप्रत्यक्षस्य साक्षात्कारत्वेन प्रवृत्तिरूपतन्नाशं प्रति प्रयोजकत्वादिति वाच्यमित्याशङ्क्य प्रागभावस्यानङ्गीकारात्, नाशत्वे-नात्यन्ताभावत्वेन प्रयोज्यतानिवेशाद्वेति समादधे च । स स्थूलदृश्वा । उपादानप्रत्यक्षस्य प्रवृत्तिं प्रतीष्टसाधनताज्ञानविधया स्मृत्यनुमित्यन्वयधीसाधारणसमीहितसाधनताज्ञानत्वेनैव हेतुतया साक्षात्कारत्वस्य तत्तज्जनकतानवच्छेदकतया तच्छङ्कानवकाशात् । प्रागभावस्यानङ्गीकरादित्युक्ते-श्चतुर्थकल्पीयस्य प्रागभावसत्वेनोपादानत्वाविरोधाच्चेति ग्रन्थस्याननुसन्धाननिबन्धनत्वात् । न हि स्वरीत्या उपादानत्वानुपपत्तिनिरासतात्पर्यकस्य तादृशग्रन्थस्य मतान्तराभिप्रायकता युज्यते । वनमालिमिश्रस्तु प्रतियोगिजनकनाश्यप्रागभावस्थानीयावस्थाविशेषस्यावश्यकत्वात् उक्तरूपेण प्रयोज्यत्वस्यापि सम्भवाच्चेत्याह ।

ननु स्पार्शनादिरूपे शुक्त्यादिसाक्षात्कारे सत्यपि चाक्षुषादिरूपस्य रजतादिभ्रमस्योत्पत्या तदिन्द्रियप्रयोज्यरजतादिभ्रमहेत्वज्ञाने तदिन्द्रियप्रयोज्यशुक्त्यादिधीत्वेन  निवर्तकत्वमावश्यम् । तथा च साक्षाकारत्वेन न तदिति चेदित्याशङ्कमानो व्याकुर्वाणस्तथासति वह्न्यादेः स्पार्शनाद्युत्तरं तत्र तदन्यत्वचाक्षुषाद्यापत्तेः । तस्या इष्टत्वे अनुभवविरोधात् । क्वचिद्भिन्नेन्द्रियजन्यज्ञानस्यानिवर्तकत्वं तु तत्राप्रामाण्यज्ञानात्समानेन्द्रियत्वान्तर्भावेन निवर्तकत्वस्वीकारेऽपि यद्विशेषयोरिति न्यायेन साक्षात्कार-त्वेनापि निवर्तकत्वस्वीकाराच्चेति समाहितवान् । तदाकरविरुद्धम् । न च भ्रमसंशयोत्तरप्रत्यक्षं प्रति विशेषदर्शनस्य हेतुतामते तत्रातिव्याप्तिरिति दीधित्यवतरणिकायां प्रत्यक्षे समानेन्द्रियजन्यदोषविशेषा-जन्योपनीत भानभिन्नविपरीतनिश्चयस्य प्रतिबन्धकत्वम् । चक्षुषा वंशे उरगभ्रमेऽपि त्वचा तत्र तदभावग्रहात् । समानेन्द्रियजन्यत्वानिवेशनमिति गदाधरेण समर्थितत्वात् । यद्विशेषयोरित्यादि त्वसङ्गतमेव । व्याप्यधर्मावच्छिन्नयोरेव हेतुत्वे हेतुमद्भावोपगत्या निर्वाहे व्यापकधर्मावच्छिन्नयो-रन्यथासिद्धिप्रसङ्गेन कार्यकारणत्वयोरधिकदेशवृत्तित्वकल्पनाप्रसङ्गेन च बाधसमवधानेन च परीक्षकै-स्तदनादरणात् । न हि गन्धवत्वपृथिवीत्वावच्छिन्नयोः कार्यकारणभावोऽस्तीत्येतावता गुणत्व-द्रव्यत्वावच्छिन्नयोरपि तमुपगच्छन्ति । तादृङ्न्यायसंचारस्थलं तु सति प्रयोजने असति बाधके तांत्रिकोपगतम् । प्रकृते तु चाक्षुषो रागभ्रमदशायां त्वचा तदभावग्रहोत्पाद एव साक्षात्कारत्वेनापि निवर्तकत्वस्वीकारे बाधक इत्यलं निर्दलपक्षप्रतीकाराभियोगेन ।

न च सेतुदर्शननाश्यपापेऽतिव्याप्तिरित्याशङ्क्य ‘‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’’ इत्यादिस्मृत्या सेतुचाक्षुषत्वेनैव तत्र निवर्तकत्वबोधनादिति भाव इत्याशयोपवर्णनं आत्मीय-व्याख्यानकौशलीप्रदर्शकमेव । गङ्गाया दर्शनं पुंसामशेषाघविनाशकम्’’ इति स्मृतेर्दर्शनत्वावच्छिन्नस्यैव तन्निवर्तकतां प्रतिपन्नो गङ्गामद्राक्षीदेव न तु कदाप्यद्राक्षीत्तत्स्पार्शनस्याकिञ्चित्करत्वात् इति जानीमः । ‘‘रामेण या कृता रेखा धनुषा क्षीरसागरे । मुक्तिस्तद्दर्शनादेव न जाने स्नानजं फलम्’’ इत्याद्यनुरोधेन सेतुं दृष्ट्वा इत्यादौ दृशेः साक्षात्कारमात्रार्थकतायाः स्थितत्वादित्यलं प्रपञ्चेन ।