यच्चाज्ञाने प्रत्यक्षं मानमित्युक्तम् । तन्न

५५. भावरूपाज्ञानप्रत्यक्षभङ्गः

न्यायामृतम्

यच्चाज्ञाने प्रत्यक्षं मानमित्युक्तम् । तन्न । त्वन्मतेऽप्यहमर्थस्य भाव-रूपाज्ञानानाश्रयत्वेनाहमज्ञोऽहं न जानामीत्यादेः प्रामाण्याय ज्ञानाभाव-विषयत्वावश्यम्भावात् । साक्षिवेद्यसुखदुःखाज्ञानादौ, प्रातिभासिके च भाव-रूपाज्ञानाभावेन सुखं न जानामि, शुक्तिरूप्यं न जानामीत्यादेः ज्ञानाभाव-विषयत्वे वक्तव्ये त्वदुक्तमर्थं न जानामीत्यादेरपि तथात्वाच्च । त्वन्मते परोक्षवृत्तेर्विषयावरकाज्ञानानिवर्तकत्वेन परोक्षतो ज्ञातेऽपि न जानामीत्यनु-भवापाताच्च । त्वन्मते जडावरकाज्ञानाभावेन त्वदुक्तमर्थं न जानामीत्यादेरपि प्रामाण्याय ज्ञानाभावविषयत्वाच्च । न च जडे आवरणरूपातिशयाभावेऽपि विक्षेपरूपातिशयस्य सत्त्वादज्ञानविषयताऽस्तीति न जानामीत्यनुभव इति वाच्यम् । अपरोक्षतो घटत्वेन ज्ञातेऽपि घटेऽयं पट इति वाक्याभासा-द्विक्षेपसद्भावेऽपि घटं न जानामीत्यनुभवाभावात् ।

ननु जडे न जानामीत्यनुभवस्य जडावच्छिन्नं चैतन्यं विषय इति चेन्न । निरसिष्यमाणत्वाद् । वृत्तिः चिदुपरागार्थेति मते जडावच्छिन्नचैतन्यावरका-ज्ञानस्याप्यभावाच्च । भावरूपाज्ञानविषयत्वेनाभिमतस्याहमज्ञ इति ज्ञानस्य ज्ञानाभावविषयत्वेनाभिमतात् मयि ज्ञानं नास्तीति ज्ञानादघटं भूतलमिति ज्ञानस्य भूतले घटो नास्तीति ज्ञानादिवद्विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वेषाभावज्ञानयोरिव विषयभेदाप्रतीतेश्च । प्रतियोगिज्ञानाज्ञानाभ्यां ज्ञाना-भावज्ञानदूषणं तु स्वव्याहतम् । भावरूपाज्ञानवादेऽपि इदानीं वेदान्तश्रवणादि-साध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानस्य त्वयाऽपि वक्तव्यत्वात् । न च भावरूपाज्ञानेन लिङ्गेन ज्ञानाभावानुमेति वाच्यम् । वृत्तिज्ञानस्य साक्षिवेद्यत्वेन तदभावस्यापि दुःखाद्यभाववत् साक्षिणा अनुपलब्ध्या वा झटिति प्रतीतेः । त्वन्मते जडे भावरूपाज्ञानरूपलिङ्गाभावाच्च । अपरोक्षतो ज्ञाते भावरूपाज्ञानाभावेन तत्र परोक्षज्ञानाभावासिद्ध्यापाताच्च । दुःखादौ प्रातिभासिके च भावरूपाज्ञानाभावेन दुःखादिज्ञानाभावप्रतीत्ययोगाच्च । प्रतियोग्यादिज्ञानाज्ञानाभ्यामनुमित्याऽपि ज्ञानाभावस्य दुर्ग्रहत्वाच्च ।

अपि च भावरूपाज्ञानमपि न जानामीति ज्ञानविरोधित्वेनैव भाति । मुग्धोऽस्मीत्यादौ तु प्रलयादिशब्देष्विव नञनुल्लेखमात्रम् । अत एव ज्ञाना-भावाभिप्रायेणापि मुग्धोऽस्मीत्युच्यते । उक्तं च विवरणे– ‘‘अज्ञानमिति द्वयसापेक्षज्ञानपर्युदासेनाभिधानाद्’’ इति । अन्यथा ह्यज्ञानस्य ज्ञानविरोधोऽ-प्रामाणिकः स्यात् । तथा च विरोधनिरूपकभूतज्ञानस्य ज्ञानाज्ञानाभ्या-मज्ञानस्यापि ज्ञानं दुर्घटं स्यात् । ज्ञानाभावोऽपि हि प्रमेयत्वादिना ज्ञाने प्रतियोग्यादिज्ञानानपेक्षः । एतेन निपुणे कुशलादिशब्दवद् भावरूपाज्ञाने अज्ञानशब्दो रूढ इति निरस्तम् । वृत्तिज्ञाननिवर्त्यस्याज्ञानस्य तद्विरुद्वत्वेन क्लृप्तावयवशक्त्यैवोपपत्तौ समुदायशक्तिकल्पकाभावात् । शब्दाप्रयोगेऽपि न जानामीति प्रत्यक्षेण ज्ञानविरोधप्रतीतेश्च । एवं च–

अभाव इव भावेऽपि ज्ञानाज्ञानविरोधिता ।

न जानामीत्यतश्चोद्यपरिहारौ समौ तयोः ।।

अपि च भावरूपाज्ञानावच्छेदकविषयस्याज्ञाने अज्ञानज्ञानायोगात् ज्ञाने चाज्ञानस्यैवाभावात् कथं भावरूपाज्ञानज्ञानम् ? ननु विरोधनिरूपक-ज्ञानावच्छेदकस्य च विषयस्य ज्ञानं साक्षिरूपमिति न तद्भावरूपाज्ञानविरोधि, वृत्तेरेव तद्विरोधित्वादिति चेत् । सममभावपक्षेऽपि । अवच्छेदकस्य विषयस्य ज्ञानं साक्षिरूपम् । न जानामीति धीस्तु वृत्तिज्ञानाभावविषयेति सुवचत्वात् । तस्मात् त्वयाऽप्यवच्छेदकस्य विषयस्य सामान्यतो ज्ञानेऽपि विशेषे भाव-रूपाज्ञानमिति वाच्यम् । तत्समं ज्ञानाभावेऽपि तद्विशेषज्ञानाभावज्ञानं प्रति च तत्सामान्यज्ञानमेवान्वयव्यतिरेकाभ्यां हेतुः, न तु तद्विशेषज्ञानमित्यविद्या-विषयभङ्गे वक्ष्यते ।

अपरे तु विशेषस्य स्वरूपेण ज्ञानेऽपि विशेषप्रकारकज्ञानं निषिध्यते । तस्यैव संशयादिविरोधित्वात् । सम्भवति हि सर्वत्र प्रमेयत्वाद्याकारेण विशेष-ज्ञानमित्याहुः । केचित्तु करतलामलकादिज्ञाने स्वविषयेतरप्रतियोगिक-व्यावृत्त्यधिकरणतावच्छेदकधर्मविषयत्वादिकं प्रसिद्धमिह ज्ञाने निषिध्यत इत्याहुः । अन्ये तु साक्षात् त्वदुक्तार्थविषयकं प्रमाणज्ञानं मयि नास्तीत्यर्थः । न चास्यैव विशिष्टविषयज्ञानस्य प्रमाणत्वात् तद्विशेषणतयाऽर्थस्यापि प्रमाणे-नाधिगमात् स्ववचनव्याघात इति वाच्यम् । अस्य साक्षात्तद्विषयत्वाभावात् । साक्षात्प्रमाणविषयत्वस्यैव च सत्त्वप्रयोजकत्वादित्याहुः ।

किं चाज्ञानं वृत्त्यग्राह्यं चेत्, तत्रानुमानाद्युक्तिरयुक्ता स्यात् । रहस्यं न जानासीत्यादिपरवाक्यात् स्वनिष्ठाज्ञानधीश्च न स्यात् । वृत्तिग्राह्यं चेत्, तदव-च्छेदको विषयोऽपि तयैव गृह्यते न वा ? आद्ये कथं तत्राज्ञानम् ? त्वन्मतेऽपि वृत्तेरज्ञानविरोधित्वात् । न च परोक्षवृत्तिरज्ञानविरोधिनी नेति युक्तम् । परोक्षतोऽपि ज्ञाते कदाऽपि न जानामीत्यननुभवात् । अज्ञानानिवृत्तौ परोक्षे व्यवहाराद्ययोगाच्च । यदि च तत्राज्ञाननिवृत्तिं विना वृत्त्यैव व्यवहार-संस्कारादि, तस्यापरोक्षेऽपि तां विना वृत्त्यैव तत्स्यात् । विषयस्यापरोक्ष्यं त्वावश्यकाद् वृत्तिगतविशेषादेवेत्युक्तम् । परोक्षवृत्त्या परोक्षभ्रमानिवृत्ति-प्रसङ्गाच्च । अनुमित्या वह्न्यज्ञानं शास्त्रश्रवणेन च धर्माद्यज्ञानं निवृत्तमित्यनु-भवाच्च । तस्य ज्ञानाभावविषयत्वे च भावरूपाज्ञानं न सिद्ध्येत् । परोक्षतो ज्ञातेऽप्यपरोक्षभ्रमोऽस्मन्मते उपाध्यादिदोषाद् युक्तः । त्वन्मते तु भ्रमस्या-ज्ञानोपादानकत्वात् स न स्यादेव । अन्त्ये तद्वदेव विषयाग्रहणेऽपि ज्ञाना-भावावच्छेदकस्य ज्ञानस्य ग्रहणसिद्धिः । न किञ्चिदहमवेदिषमिति परामर्शोऽपि एतावन्तं कालं दुःखं नावेदिषं, शुक्तिरूप्यं नावेदिषमित्यादिवत् ज्ञाना-भावविषयः । न च तदा धर्म्यादिज्ञानाभावादभावज्ञानायोगः । भावरूपा-ज्ञानस्याप्यज्ञानत्वेन प्रतीतौ तदपेक्षणात् । यदि च विषयसामान्यविशेषितमेव ज्ञानं सुषुप्तावज्ञाननिरूपकं तर्हि तदेव तदा ज्ञानाभावनिरूपकमस्तु ।

ननु तदा स्वरूपेणानुभूतमज्ञानमिदानीं प्रतियोगिविशेषावच्छेदेनानुभूयत इति चेत्, समं ज्ञानाभावेऽपि । अभावस्यापि प्रमेयत्वादिना ज्ञाने तदन-पेक्षणात् । यद्वा, नायं परामर्शः । किन्त्वानुमानिको ज्ञानाभावानुभवः । अवस्थाविशेषस्य वा, इन्द्रियसम्प्रसादेन तदुपरमानुमाने सामग्रभावस्य वा, प्रातर्गजाद्यभाव इव तत्तुल्ययोगक्षेमे आत्मादौ स्मर्यमाणेऽपि नियमेनास्मर्य-माणत्वस्य लिङ्गत्वात् । त्वन्मतेऽप्यहमर्थांशे परामर्शत्वाभावात् । सुषुप्तावह-मर्थाभावेनान्यानुभूते अज्ञानांशेऽप्यहमर्थस्य परामष्टृत्वायोगाच्च । सुषुप्ताव-ज्ञानस्याविद्यावृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वे जागरणादावपि तद्वेद्यत्वापातेन वृत्त्यभावदशायामज्ञाने सन्देहाद्यापत्त्या केवलसाक्षिवेद्यत्वे वक्तव्ये त्वन्मते नित्यज्ञानस्य संस्काराजनकत्वेनाज्ञानपरामर्शायोगाच्च । अन्यथा तवापि सुषुप्तौ ज्ञानाभावो न सिद्ध्येत् । भावरूपाज्ञानेन लिङ्गेन सोऽनुमीयत इति चेन्न । त्वन्मते जडे भावरूपाज्ञानाभावादित्युक्तत्वात् । साक्षिवेद्य इच्छादौ तदा ज्ञानाभावासिद्ध्यापाताच्च । किं चैवं सुषुप्तिकालीनो रागाद्यभावो न सिद्ध्येत् । न हि तदा रागादिविरोधी द्वेषोऽस्ति, येनाज्ञानेन ज्ञानाभाव इव द्वेषेण रागा-भावोऽनुमीयेत । न च ज्ञानाभावादेव रागाद्यभावसिद्धिः । प्रकाशमान आत्मादौ तदभावासिद्धेः । तस्मान्न प्रत्यक्षं भावरूपाज्ञाने मानम् ।

अद्वैतसिद्धिः

तत्र चाज्ञाने सामन्यतः ‘अहमज्ञो मामन्यं च न जानाति’ इति प्रत्यक्षं, ‘त्वदुक्तमर्थं न जानामि’ इति विशेषतः प्रत्यक्षम्, ‘एतावन्तं कालं सुखमहमस्वाप्सं न किञ्चिदवेदिषम्’ इति परमर्शसिद्धं सौषुप्तप्रत्यक्षं च प्रमाणम् । न च– अहमर्थस्याज्ञानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाज्ञानपक्षे उपपद्यत इति– वाच्यम् । अज्ञानाश्रयीभूतचैतन्ये अन्तःकरण-तादात्म्याध्यासेन एकाश्रयत्वसम्बन्धेनोपपत्तेः । अत एव– जडे आवरणकृत्याभावात् ‘घटं न जानामि’ इत्यादिप्रतीतेर्ज्ञानाभावविषयत्वे प्रकृतेऽपि तथाऽस्त्विति– निरस्तम् । तत्तदवच्छिन्नचैतन्यस्यैवाज्ञानाश्रयत्वेन तत्रापि तद्व्यवहारोपपत्तेः । न च– साक्षिवेद्ये सुखदुःखाज्ञानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जानामीति प्रतीतिः कथमुपपद्यत इति– वाच्यम् । स्वस्मिन्विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च ‘न जानामि’ इति व्यवहारासम्भवात्, परसुखादौ ‘न जानामि’ इति व्यवहारस्य परोक्ष-ज्ञाननिवर्त्येन प्रमातृगताज्ञानेनैवोपपत्तेः । अत एव परोक्षज्ञानेन प्रमातृगताज्ञाने नाशितेऽपि विषयगताज्ञानसत्त्वेन ‘न जानामि’ इति व्यवहारापत्तिरिति– निरस्तम् । प्रमातृगता-ज्ञानकार्यस्य ‘न जानामि’ इति व्यवहारस्य विषयगताज्ञानेनापादयितुमशक्यत्वात् ।

ननु– भावरूपाज्ञानविषयत्वेनाभिमतस्य ‘अहमज्ञः’ इति प्रत्ययस्य ‘मयि ज्ञानं नास्ति’ इति ज्ञानाभावविषयात् प्रत्ययात् ‘अघटं भूतलम्’ इति प्रत्ययस्य ‘घटो नास्ति’ इति प्रत्ययादिव विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वेषाभावज्ञानयोरिव विषयभेदाप्रतीति-रिति– चेत्, सत्यम् । धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां ज्ञानसामान्याभावज्ञानस्य व्याहतत्वेन ‘मयि ज्ञानं नास्ति’ इत्यस्यापि भावरूपाज्ञानविषयत्वेन विषयभेदाप्रतीतेर्युक्तत्वात् । तथा हि– ‘मयि ज्ञानं नास्ति’ इति प्रतीतिः ‘वायौ रूपं नास्ति’ इति प्रतीतिवद्यावद्विशेषा-भावान्यसामान्याभावविषया, सामान्यावच्छिन्नप्रतियोगिताकयावद्विशेषाभावविषया वा अभ्युपेया । तथा च तत्कारणीभूतधर्मिप्रतियोगिज्ञानाज्ञानाभ्यां कथं न व्याघातः ? यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात् । अभावज्ञाने प्रतियोग्यंशे प्रकारीभूतधर्मस्यैव प्रतियोगितावच्छेदकत्वात् । अन्यथा सामान्याभावसिद्धिर्न स्यात् । यावद्विशेषाभावान्यसामान्याभावानभ्युपगमेऽप्ययं दोषः । यत्किञ्चिद्विशेषाभावस्य सामान्या-वच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले ‘निर्घटं भूतलम्’ इति प्रतीतिः स्यात् । ‘वायौ रूपं नास्ति’ ‘पुरोदेशे रजतं नास्ति’ इत्याद्याप्तवाक्यजन्यप्रतीत्यनन्तरमपि तत्तत्संशय-निवृत्तिर्न स्यात् । एकविशेषाभावबोधनेऽपि विशेषान्तरमादाय संशयोपपत्तेः ।

अथ – अभावबोधे प्रकारीभूतधर्मस्यावच्छेदकत्वं पूर्वानुपस्थितमपि संसर्गमर्यादया शाब्दबोधे अन्यत्र च भासते । न ह्यवच्छेदकत्वस्य स्वरूपसम्बन्धविशेषस्य ग्रहे अन्या सामग्री क्लृप्ता । तथा च तत्तद्विशेषाभावानां तत्तद्विशेषावच्छिन्नप्रतियोगिताकत्वात्, सामान्यावच्छिन्नप्रतियोगिताकत्वं यावद्विशेषाभावकूटे वा व्यासज्यवृत्तितदतिरिक्तसामान्याभावे वा प्रत्येकविश्रान्तमिति तादृगभावप्रतीतेर्यावद्विशेषप्रतीतिविरोधित्वात् कुतो विशेष-संशयादिरिति चेत्, सत्यम् । प्रकृतेऽपि ज्ञानत्वसामान्यावच्छिन्नप्रतियोगिताकाभाव-प्रतीतिर्यावज्ज्ञानविशेषविरोधिनीति कथं तत्तत्कारणत्वाभिमतज्ञानविशेषे सति सा न व्याहन्यते ? तथा च क्लृप्ताभावप्रतीतिवैलक्षण्येऽवश्यकल्प्ये लाघवाद्विषयस्यैवाभाववैलक्षण्यं कल्पयितुमुचितम् । विषयावैलक्षण्ये प्रतीतिवैलक्षण्यायोगात् । विषयाज्ञानमनुभूय च पुरुषस्तन्निवृत्त्यर्थं विचारे प्रवर्तत इति सर्वानुभवसिद्धम् । तद्यदि ज्ञानविशेषाभावो ‘न जानामी’ति प्रतीतेर्विषयः, तदा ज्ञातेऽपि तथा प्रतीत्यापातः । तद्विचारार्थं च प्रवृत्तिः स्यात् । सामान्याभावे च बाधकमुक्तमेव । तस्मादभावविलक्षणमेवाज्ञानं ‘मयि ज्ञानं नास्त्यहमज्ञः’ इत्यादिधीविषय इति सिद्धम् ।

ननु अभावविलक्षणमप्यज्ञानं ‘न जानामि’ इति ज्ञानविरोधित्वेनैव भासते । मोहादि-पदेऽपि प्रलयादिपदवत्तदनुल्लेखमात्रम् । उक्तं च विवरणे– ‘अज्ञानमिति द्वयसापेक्षज्ञान-पर्युदासेनाभिधानात्’ इति । अन्यथा ज्ञानस्याज्ञानविरोधित्वमप्रामाणिकं स्यात् । तथा च विरोधनिरूपकज्ञानस्य ज्ञानाज्ञानाभ्यां तवापि कथं न व्याघातः ? एवं निर्विषयाज्ञाना-प्रतीतेर्विषयज्ञानाज्ञानयोरपि व्याघात आपदनीयः । तथा च

यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।

नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ।।

इति न्यायेन उभयपरिहरणीयस्य व्याघातस्य ज्ञानाभावपक्ष एवापादनमनुचितमिति– चेन्न । प्रमाणवृत्तिनिवर्त्यस्यापि भावरूपाज्ञानस्य साक्षिवेद्यस्य विरोधनिरूपकज्ञान-तद्व्यावर्तकविषयग्राहकेण साक्षिणा तत्साधकेन तदनाशाद्व्याहत्यनुपपत्तेः । अज्ञानग्रहे विषयगोचरप्रमापेक्षायां व्याहतिः स्यादेव, सा च नास्ति । तदुक्तं विवरणे– ‘सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव’ इति । न चैवं ज्ञानाभावपक्षेऽपि विषयादिज्ञानं साक्षिरूपम् । ‘न जानामि’ इति धीस्तु प्रमाणवृत्त्यभावविषयेति न व्याहतिरिति– वाच्यम् । भावरूपाज्ञानस्य साक्षात् साक्षिवेद्यत्वेन तदवच्छेदकविषयादेस्तद्द्वारा साक्षिवेद्यत्वसम्भवेऽपि अभावस्यानुपलब्धिगम्यत्वेन साक्षात् साक्षिवेद्यत्वाभावात् न तद्द्वारा तदवच्छेदकविषयादेः साक्षिवेद्यत्वमिति वैषम्यात् । यद्यपि ज्ञानं साक्षिवेद्यं, तद्द्वारा तदवच्छेदको विषयश्च साक्षिवेद्यः, तथापि ज्ञानाभावो न साक्षिवेद्यः, तस्यानुपलब्धत्वात् । उत्पन्नं च ज्ञानं साक्षात् साक्षिवेद्यम् । तस्मिंश्चोत्पन्ने तद्विषयोऽपि स्फुरतीति कुतो ज्ञानाभावोऽपि ? अज्ञानविशेषणतया तु अनुत्पन्नमपि ज्ञानं साक्षिवेद्यमिति न दोषसाम्यम् । न च– अवच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्विशिष्टाज्ञानज्ञानम् ? विशेषण-ज्ञानाधीनत्वाद्विशिष्टज्ञानस्येति– वाच्यम् । विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वे मानाभावात् । प्रतियोगित्वाभावत्वयोः पूर्वानुपस्थितयोरपि तार्किकैरभावबोधे प्रकारीभूय भानाभ्युपगमात् । तथापि– विशेषणतावच्छेदकप्रकारकज्ञानं विना कथं विशिष्टवैशिष्ट्यबुद्धिरिति– चेन्न । विशिष्टवैशिष्ट्यबुद्धित्वेन विशेषणतावच्छेदकप्रकारकज्ञानत्वेन च कार्यकारणभावे मानाभावात् । प्रत्यक्षत्वादिरूपेण पृथक् पृथक् क्लृप्तकार्यकारणभावेनैवोपपत्तेः विशिष्टवैशिष्ट्यबुद्धित्वस्यार्थ-समाजसिद्धत्वात् । इह च सामग्रीतुल्यत्वेन ‘विशेष्ये विशेषणं तत्र च विशेषणान्तरम्’ इति न्यायेन विशिष्टवैशिष्ट्यज्ञानसम्भवात् । अन्यथा तार्किकाणामपीश्वरस्य भ्रान्तिज्ञत्वं न स्यात् । भ्रमविषयस्य स्वातन्त्र्येण ग्रहे भ्रान्तत्वापत्त्या भ्रमावच्छेदकतयैव तद्ग्रहणं वाच्यम् । तथा च क्व प्राक्तदवच्छेदकग्रहनियमः ? ग्रहणसामग्रीतुल्यत्वं च प्रकृतेऽपि समम् ।

ननु– श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानं त्वयापि वाच्यम् । तथा च तत्रापि व्याहतिस्तुल्येति– चेन्न । श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानरूपस्य प्रतियोगिनो ज्ञानाज्ञानाभ्यां व्याहत्यभावात् । न हि श्रवणादिसाध्यत्वमोक्षहेतुत्वादिप्रकारकं ब्रह्मज्ञानज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यम्, मोक्षहेतुर्वा । येन तस्मिन् सति तादृग्ज्ञानप्रागभावो व्याहन्येत ।

नन्वेवं– ‘न जानामि’ इति धियो ज्ञानाभावविषयत्वेऽपि न प्रतियोगिज्ञानादिना व्याहतिः । सामान्यतो विषयप्रतियोगिज्ञानेऽपि विशेषतस्तदभावसम्भवात् । अन्यथा प्रागभावधीर्न स्यात् । तत्प्रतियोगिविशेषस्य सामान्यधर्मं विना विशेषतो ज्ञातुमशक्य-त्वादिति– चेन्न । विशेषज्ञानाभावे हि विशेषज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोऽपि ज्ञात एवेति विशेषज्ञानाभावव्याघातात् । यत्किञ्चिद्विशेषाभावश्च न सामान्या-वच्छिन्नप्रतियोगिताक इत्युक्तम् । प्रतियोगितावच्छेदकप्रकारकज्ञानाभावेन प्रागभावप्रतीतिर-सिद्धैव । ननु– प्रतियोगितावच्छेदकप्रकारकज्ञानं नाभावज्ञाने कारणम् । किन्त्वभावज्ञाने भासमानप्रतियोगिवृत्तिधर्मप्रकारकं ज्ञानम् । सामान्यलक्षणप्रत्यासत्त्यभ्युपगमे  तु प्रतियोगि-विषयत्वमपि तस्याधिकम् । इतरथा तु तदेव इष्टवृत्तिसामान्यधर्मप्रकारकज्ञानमिवासिद्ध-व्यक्तिविषयेच्छाकृत्योः । न च– प्रतियोगितानवच्छेदकधर्मेण कथं प्रतियोगिता गृह्यतामिति– वाच्यम् । विशेषावच्छिन्नाया व्याप्तेरिव सामान्येन ग्रहणसम्भवात् । तथा हि– ‘इदमभिधेय-वत्, प्रमेयात्’ इत्यनुमाने ‘यत्र प्रमेयं तत्रभिधेयम्’ इति व्याप्तिग्रहणसमये वृत्तिमत्प्रमेयत्वा-वच्छेदेनैव सामानाधिकरण्यरूपव्याप्तिसत्त्वेऽपि तस्याः प्रमेयत्वरूपेणैव ग्रहणं, न तु वृत्ति-मत्प्रमेयत्वेन, गौरवात् । वृत्तिमत्त्वविशेषणस्य व्यभिचारावारकत्वेन वैयर्थ्याच्च । अवृत्तिषु साध्यसामानाधिकरण्यरूपव्याप्त्यभाववत् साध्याभावसामानाधिकरण्यरूपव्यभिचारस्याप्यभावात् । व्यर्थविशेषणत्वरहितत्वे सति व्यभिचारिव्यावृत्तत्वमात्रेणैव व्याप्यतावच्छेदकत्वसम्भवाच्च । तथा च यथा वृत्तिमत्प्रमेयगतापि व्याप्तिः प्रमेयत्वेनैव गृह्यते, तथा तत्तन्नीलादिव्यक्तिगता प्रतियोगिता नीलत्वादिरूपेण गृह्यत इति न काचिदनुपपत्तिः । एवं च ‘इहेदानीं घटो नास्ति’ इति प्रतीतिरिव घटोपादानगततत्प्रागभावविषया ‘मयि ज्ञानं नास्ति’ इति प्रतीति-रपि प्रमातृगततत्प्रागभावविषयेति न काप्यनुपपत्तिरिति– चेन्न । अभावज्ञाने प्रतियोग्यंशे भासमानस्य धर्मस्यैव प्रतियोगितावच्छेदकतया यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्न-प्रतियोगिताकत्वे घटवत्यपि भूतले ‘निर्घटं भूतलम्’ इति, घटज्ञानवत्यपि स्वस्मिन् ‘मयि घटज्ञानं नास्ति’ इति च प्रतीतेरापत्तेः पूर्वोक्तदोषात् । यत्किञ्चिद्घटज्ञानं घटाभावज्ञाने प्रतिबन्धकमिति तु ज्ञानज्ञानेऽपि तुल्यम् । उदाहृतव्याप्तिग्रहणे तु बाधकाभावात् सामान्यावच्छेदेऽपि न दोषः ।

अथैवं प्रागभावप्रतीतिरेव न स्यात् । न स्यादेव । ‘घटो भविष्यति’ इति प्रतीतेः धात्वर्थभविष्यत्ताविषयत्वेन प्रागभावाविषयत्वात् । अन्यथा दिनान्तरोत्पत्स्यमानघटे एतद्दिनवृत्तिप्रागभावप्रतियोगित्वेन ‘अद्य घटो भविष्यति’ इति धीप्रसङ्गः । भविष्यत्त्वं च प्रतियोगितद्ध्वंसानाधारकालसम्बन्धित्वम् । ध्वंसत्वं च प्रागभावानङ्गीकर्तृमते कादाचित्का-भावत्वमेव । तदङ्गीकर्तृमतेऽपि प्रतियोग्यजनककादाचित्काभावत्वम् । जनकत्वं च स्वरूपसम्बन्धविशेषो न प्रागभावघटितः । प्रागभावस्याजनकत्वापत्तेः । अन्यथाऽत्माश्रयात् । अतः प्रागभावमङ्गीकुर्वतोऽपि तत्प्रत्यक्षत्वं दुर्लभम् । तमनङ्गीकुर्वतस्तु न काऽपि हानिः । ‘इहेदानीं घटो नास्ति’ इति प्रतीतिस्तु सामान्यधर्मावच्छिन्नप्रतियोगिताकतत्कालावच्छिन्नया-वद्विशेषाभावविषया, समयविशेषस्याप्यभावावच्छेदकत्वात् । अन्यथा ‘आद्यक्षणे घटो नीरूपः’ इत्यादिप्रतीतिर्न स्यात् ।

अथ– अस्मिन्पक्षे सामान्याभावो न सिद्ध्येदिति– चेत्, प्रागभावाभ्युपगमेऽपि तुल्य-मेतत् । सामान्याभावप्रागभावयोः सुन्दोपसुन्दयोरिव परस्परपराहतत्वात् । तथा हि– प्रागभावसिद्धौ विशेषाभावस्यापि सामान्यावच्छिन्नप्रतियोगिताकत्वात् न तावन्मात्रप्रमाणक-सामान्याभावसिद्धिः । सामान्याभावसिद्धौ च विशेषाभावस्य सामान्यावच्छिन्नप्रतियागिता-कत्वाभावात् कादाचित्काभावस्य च सामान्याभावत्वायोगात् न सामान्यधर्मावच्छिन्न-प्रतियोगिताकविशेषप्रतीतिमात्रशरणप्रागभावसिद्धिरिति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति । ननु– यावद्विशेषाभावनिश्चयेऽपि ‘रूपं वायुवृत्ति न वा’, ‘वायू रूपवान्न वा’ इति रूपाभावसन्देहात् निश्चिते च संशयायोगाद्यावद्विशेषाभावान्यसामान्या-भावसिद्धिः । अत एतावन्त्येव रूपाणीति निश्चयदशायामेतादृशसंशयस्याननुभूयमानत्वेन तदनिश्चयदशायामेवैतादृशः संशयो वाच्यः । तथा च ‘रूपत्वं पार्थिवाप्यतैजसरूप-त्रितयातिरिक्तवृत्ति भविष्यति’ इत्यधिकसम्भावनया अनिश्चितेष्वेव संशयः । उक्तसम्भावना-विरहसहकृतनिश्चयस्यैव प्रतिबन्धकत्वादिति– चेन्न । एवं प्रतिबन्धककल्पने मानाभावात्, उक्तसम्भावनाविरहदशायामप्येतादृशसंशयदर्शनाच्च ।

ननु– यथा यावद्विशेषाभावेभ्योऽतिरिक्तः सामान्याभावो रूपस्य संशयकोटिः, तथा रूपसामान्यमपि यावद्विशेषेभ्योऽतिरिक्तं संशयकोटिर्नाभ्युपगन्तुं शक्यते । तथा च कथं रूपस्य संशयकोटित्वम् ? सर्वरूपाभावनिश्चयात् । यदि तु नीलपीताद्यभावत्वेन निश्चयेऽपि रूपाभावत्वेनानिश्चयाद्रूपसंशय इति ब्रूषे, तदा किं सामान्याभावेन ? रूपत्वावच्छिन्न-प्रतियोगिताकाभावत्वेन संशयसम्भवात् । धर्मिकल्पनातो धर्मकल्पनाया लघुत्वेन याव-द्विशेषाभावानामेव रूपत्वावच्छिन्नप्रतियोगिताकत्वकल्पनात् । अतो न यत्किञ्चिदभावमादाय ‘घटो नीरूपः’ इति प्रतीतिप्रसङ्ग इति– चेन्न । यावद्विशेषाभावेषु यद्रूपत्वावच्छिन्न-प्रतियोगिताकत्वं, तत् प्रत्येकविश्रान्तं, व्यासज्यवृत्ति वा ? आद्ये यत्किञ्चिदभावमादाय ‘घटो नीरूपः’ इति प्रतीतिप्रसङ्गः । द्वितीये, तत्तद्रूपत्वावच्छिन्नप्रतियोगिताकत्वस्या-व्यासज्यवृत्तिस्वभावत्वेन तद्व्यतिरिक्तं रूपत्वावच्छिन्नप्रतियोगिताकत्वं व्यासज्यवृत्ति कल्पनीयम् । तद्वरं रूपत्वावच्छिन्नप्रतियोगिताक एक एवाभावः कल्प्यते । ममैकोऽभावः रूपत्वावच्छिन्नप्रतियोगिताकत्वं चेति वस्तुद्वयं कल्प्यम् । तव तु रूपत्वावच्छिन्न-प्रतियोगिताकत्वं तस्य च व्यासज्यवृत्तित्वेन बहुष्वभावेषु प्रत्येकं सम्बन्धा इति बहु कल्प्यम् । ‘धर्मिकल्पनातो धर्मकल्पनाया लघुत्वम्’ इति न्यायस्तु कल्पनीयाधिक्यापेक्षः । किं च घटद्वये यावद्विशेषाभावसत्त्वेऽपि रूपसामान्याभावबुद्ध्यनुदयाद् ऐकाधिकरण्या-वच्छेदेनाप्यभावा विशेषणीयाः । तथा चातिगौरवम् । अपि च व्यासज्यवृत्तिधर्मग्रहे यावदाश्रयग्रहस्तद्भेदग्रहश्च हेतुः । अगृहीतेष्वभिन्नतया वा गृहीतेषु वस्त्रादिषु द्वित्वादि-बुद्ध्यनुदयात् । तथा च यावदभावतद्भेदाग्रहे प्रथमत एव नीरूप इति धीर्न स्यात् । व्यासज्यवृत्तिसामान्यप्रति योगिताकत्वस्याग्रहणात् । अतः सामान्याभावस्य प्रामाणिकत्वात् कथं तत्पराहतिरिति– चेत्,

अत्र ब्रूमः– एवं तर्हि सामान्यप्रकारेण विशेषाभावाप्रतीतेर्ज्ञानविशेषप्रागभावो न जानामीति धियो ज्ञानत्वावच्छिन्नप्रतियोगिताको न विषय इति सिद्धं नः समीहितम् । न हि प्रागाभावोऽपि कश्चित्सामान्याभावोऽस्ति । येन तत्प्रतियोगिता सामान्यधर्मेणावच्छिद्येत, विशेषाभावप्रतियोगिता तु तत्तद्घटत्वादिना विशेषेणावच्छिद्यते । न च तेन तेन रूपेण भविष्यद्घटादि ज्ञातुं शक्यम् । तज्जन्मानन्तरं तु तत्तद्रूपेण तज्ज्ञानसम्भवेऽपि न प्रागभावधीः प्रत्यक्षा स्यात् । तदानीं प्रागभावासत्त्वात् । प्रत्यक्षस्य विषयजन्यत्वात् । सामान्यप्रकारकज्ञानं च न विशेषाभावज्ञाने हेतुरित्युक्तम् । प्रतियोगितावच्छेदकप्रकारक-प्रतियोगिज्ञानस्याभावत्वप्रकारकाभावज्ञाने हेतुत्वात् । तस्यानुमानगम्यत्वेऽपि ‘न जानामि’ इति धियोऽपरोक्षायास्तद्विषयत्वायोगात् । अवभिचारिलिङ्गाद्यभावात्तदनुमानमपि दूरनिरस्त-मेव । ननु– ‘इदं मा भूत्’ इतीच्छाविषयतया तत्सिद्धिः । न, प्रागभावस्य स्वरूपतोऽ-साध्यत्वेन प्रतियोगिजनकविघटनेन तत्सम्बन्धस्येवात्यन्ताभावसम्बन्धस्यापि साध्यत्वा-त्तेनैवान्यथासिद्धेः ।

अथ– उत्पन्नस्य द्वितीयक्षणे पुनरुत्पत्त्यभावात्तत्पूर्वक्षणे सामग््रयभावो वाच्यः । स च प्रागभावाभावादेव । अन्यहेतूनां सत्त्वादिति– चेन्न । सामयिकात्यन्ताभावेनैवान्यथासिद्धेः । उत्पन्नस्यैव स्वोत्पत्तिविरोधित्वाच्च । अपि च सामग्री कार्यसत्त्वे प्रयोजिका, न तु तस्याद्यकालसम्बन्धरूपोत्पत्तावपि । आद्यकालसम्बन्धो हि स्वसमानकालीनपदार्थध्वंसा-नाधारकालाधारत्वम् । तत्र सामग्री कार्यस्य कालाधारत्वांशमात्रे प्रयोजिका, न तु विशेष-णांशेऽपि । तस्य तादृक्पदार्थध्वंससामग्रीविरहादेव सिद्धेः । पाकजरूपादिभेदोऽप्यग्नि-संयोगभेदात् पूर्वरूपादिध्वंसभेदाद्वा, न तु प्रागभावभेदात् । प्रतियोगिभेदं विना प्रागभाव-भेदायोगाच्च । नाप्युपादानत्वव्यवस्था तत्र मानम् । तन्तुत्वादिनैव तत्सिद्धेः । अन्यथा प्रागभावस्य सम्बन्धिविशेषोऽपि कुतः सिद्ध्येत् ? न च तदत्यन्ताभाववतः कथं तदुपादा-नत्वम् ? सम्बन्धान्तरेण त्वयाऽप्यभ्युपगमात्समयावच्छेदतदनवच्छेदाभ्यां वैलक्षण्याभ्युपग-माच्चेत्यलमतिविस्तरेण ।

एवं सामान्याभावोऽपि गौरवपराहत एव । तथा हि– सामान्यावच्छिन्नप्रतियोगिताकत्वं, अभावः, तस्य च तत्तदधिकरणसम्बन्धा इति त्रयं वा कल्प्यताम् ? क्लृप्ततत्तदधिकरण-सम्बन्धानामेकाधिकरणवृत्तित्वावच्छेदेन सिद्धानामभावानां सामान्यावच्छिन्नप्रतियोगिताकत्वं, तस्य च व्यासज्यवृत्तित्वमिति द्वयं वा कल्प्यताम् । तत्रोत्तरः पक्ष एव प्रेक्षावद्भ्यो रोचते । आद्यक्षणे ‘घटो नीरूपः’ इति प्रतीतेः सर्वसिद्धत्वात् । यावदाश्रयतद्भेदग्रहस्य दित्वादिग्रहे हेतुत्वेऽपि उक्तप्रतियोगिताग्रहे हेतुत्वानभ्युपगमात् । कार्योन्नेयधर्माणां यथा-कार्यमुन्नयनात् । न चैवं– अतिलाघवात् क्लृप्तानामधिकरणानामेवाभावधीहेतुत्वमस्तु, किं विशेषाभावैरपीति– वाच्यम् । अस्माकमिष्टापत्तेः । घटाभावो नेत्यादावतिरिक्ताभावस्य त्वयाऽप्यनभ्युपगमेन भावस्याप्यभावत्वप्रकारकप्रमाहेतुत्वस्योभयवादिसिद्धत्वात् ।

यदपि कश्चिदाह– प्रतियोगितावच्छेदकभेदस्याभावभेदनियामकत्वाद्विशेषाभावान्य-सामान्याभावसिद्धिः । अन्यथा अभावभेदासिद्धेः । प्रतियोगिभेदस्याभावभेदकत्वे एकघट-प्रतियोगिकस्य प्रागभावादिचतुष्टयस्याभेदप्रसङ्गाद् । अवच्छेदकभेदात्तु तद्भेदे न कोऽपि दोषः । क्वचित्तादात्म्यस्य, क्वचित्संसर्गस्य, क्वचित् पूर्वापरकालीनतत्तद्घटत्वादेश्च भेदात्– इति ।

तन्न । संसर्गप्रतियोगिविशेषणसाधारणस्यैकस्यावच्छेदकत्वस्य दुर्वचत्वात् । तादात्म्यादेश्च प्रतियोगितावच्छेदकत्वे मानाभावात् । भेदसिद्धिस्तु भाववदभावस्यापि विरुद्धधर्माध्यासादेव । अवच्छेदकभेदस्याभावभेदनियामकत्वं लिङ्गविधया तज्ज्ञापकत्वमेव वाच्यम्, न तु तज्जनकत्वम् । तच्च न । विपक्षबाधकतर्काभावेन सामानाधिकरण्याभावेन च व्याप्तेरेवासिद्धेः । अत एव– तदितरधर्मावच्छिन्नप्रतियोगिताकत्वं तदवच्छिन्नप्रतियोगिता-कान्यत्वव्याप्यमित्यपि– निरस्तम् । एवं चावृत्तीनां गगनादीनां समनियतानां चान्येषां धर्माणामेक एवात्यन्ताभावः, युगपद्विनष्टानामुत्पन्नानां वा समानदेशानामसति बाधके एक एव ध्वंसः प्रागभावो वा, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽपि चेदभावः प्रामाणिकः, तदा तस्यैकस्यैव प्रतियोगिताः सर्वैरेव व्यधिकरणैः सर्वैश्च समानाधिकरणैः सम्बन्धैरेवा-वच्छिद्यन्ताम् । आकाशाभाव एव वा तथाऽऽस्ताम् । एकेनैवोपपत्तावभावभेदकल्पने माना-भावात् । न च– एवमेक एव जगतीतले भवत्वभावः । स एव तत्तदवच्छेदकदेशकालादि-भेदेन तत्तद्व्यवहारभेदं जनयिष्यतीति किमधिककल्पनयेति– वाच्यम् । उपपद्यते चेदस्तु । प्रकृते तु न बाधकं किञ्चित् । अत एव वैशेषिकाणां स्वाभ्युपगतकालपदार्थस्यैव सर्व-व्यवहारहेतुत्वोपपत्तौ न पदार्थान्तरसिद्धिरित्यद्वैतवादिनो वदन्ति । तदेवं ‘अहमज्ञः’ इति ज्ञानस्याभावज्ञानसामग्रीविलक्षणसामग्रीजन्यत्वादभावविलक्षणविषयत्वं सिद्धम् ।

एवं ‘त्वदुक्तमर्थं न जानामि’ इति प्रत्यक्षस्यापि । ननु– ‘साक्षात्त्वदुक्तार्थविषयं प्रमाणज्ञानं मयि नास्ति’ इत्येतद्विषयकमुदाहृतज्ञानम् । तच्च न साक्षादर्थविषयम् । प्रमाण-ज्ञानावच्छेदकतयाऽर्थस्य भानाद्, अतो न व्याघात इति– चेन्न । साक्षात्त्वदुक्तार्थमवेत्य हि तदभावो ग्राह्यः । तज्ज्ञानं च न साक्षिणा । स्वस्मिंस्तादृक्प्रमाणज्ञानाभावात् । अन्यनिष्ठं तु शब्दादिना ग्राह्यम् । शब्दादिश्च त्वदुक्तार्थं बोधयन्नेव तद्विषयत्वं ज्ञाने बोधयेत् । तथा च प्रथमतस्त्वदुक्तार्थविषयकं साक्षादेव ज्ञानमागतमिति तन्निषेधे न कुतो व्याघातः ? अत एव– विशेषस्य स्वरूपतो ज्ञानेऽपि विशेषप्रकारकज्ञानाभावो न व्याहत– इत्यपास्तम् । करतलामलकज्ञाने स्वविषयव्यावर्तकधर्मविषयत्वं प्रसिद्धमिह निषिध्यत इत्यपि न । त्वदुक्त-त्वस्यापि मदुक्ताद्व्यावर्तकत्वेन सामान्यतो व्यावर्तकधर्मविषयत्वस्य निषेद्धुमशक्यत्वात् ।

ननु– अवच्छेदकतया विशेषज्ञाने जातेऽपि न व्याहतिः । तथा हि– न हि विशेष-ज्ञानाभावस्त्वदुक्तार्थविषयकज्ञानाभावो वाऽत्र प्रतीयते । किं तु त्वदुक्तार्थविशेष्यकविशेष-प्रकारकज्ञानाभावः । तत्र च त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानत्वेन प्रतियोगिज्ञानेऽपि तादृक्प्रकारकतद्विशेष्यकज्ञानाभावसम्भवः । अस्य ज्ञानस्य ज्ञाने विशेष्ये विशेषप्रकारकत्व-प्रकारकत्वात् । यत्रापि ‘त्वदुक्तविशेषं न जानामि’ इत्यभिलापः, तत्राप्येवमेव व्याहत्य-भावः कथञ्चिदुन्नेयः । न च यत्रोक्तप्रतियोग्यप्रसिद्धिः तत्र कथमभावप्रतीतिरिति– वाच्यम् । समवेतवाच्यत्वं नास्तीत्यत्रेव विशेष्ये विशेषणाभावविषयत्वेन व्यधिकरणधर्मावच्छिन्न-प्रतियोगिताकाभावविषयत्वेन वोपपत्तेरिति– चेन्न । अनुभवविरोधात् । विशेषज्ञानाभावस्य त्वदुक्तार्थज्ञानाभावस्य वाऽनभ्युपगमे तद्विषयज्ञानसत्त्वेन तद्व्यवहारापत्तेश्च । न चैवं दृश्यते । स्वतःप्रामाण्यमते तु तत्प्रकारकत्वे तद्विशेष्यकत्वे च गृह्यमाणे तद्वत्त्वग्रहण-स्यावश्यकतया तदंशे तत्प्रकारकतद्विशेष्यकत्वस्य तादृशप्रतियोगिज्ञाने सम्भवात् स्पष्ट एव व्याघातः । भावरूपाज्ञानपक्षे तु सर्वस्यापि साक्षिवेद्यतया न व्याघात इत्युक्तम् । तदेवं ‘त्वदुक्तमर्थं न जानामि’ इति प्रत्यक्षं भावरूपाज्ञानविषयमिति सिद्धम् ।

एवमेतावन्तं कालं न किञ्चिन्दवेदिषम्’ इति परामर्शसिद्धं सौषुप्तं प्रत्यक्षमपि भावरूपाज्ञानविषयमेव । ननु– परामर्शः किमनुमानं, किं वा स्मरणम् ? आद्ये ज्ञानाभाव एवानुमीयताम्, किं भावरूपाज्ञानेन ? तथा हि– सम्प्रतिपन्नोदयास्तमयकालवद्विवादपदयो-रप्युदयास्तमययोरन्तरालकालमनुमाय तत्कालमहं ज्ञानाभाववान्, अवस्थाविशेषवत्त्वात्, ज्ञानसामग्रीविरहवत्त्वात्, तुल्ययोगक्षेम आत्मादौ स्मर्यमाणेऽपि तद्वत्तया नियमेनास्मर्य-माणत्वाद्वेति प्रयोगसम्भवात् । द्वितीये तु नास्त्युपपत्तिः । संस्कारासम्भवात् । विनश्यदेव हि ज्ञानं संस्कारं जनयति, विना व्यापारं व्यवहितकार्यजननाक्षमत्वात् । अविनश्यता तु तेन स्वयमेव तत्कार्यस्य जनयितुं शक्यत्वात् किमिति संस्कारो जन्येत ? न हि संस्कारोऽपि प्रत्यक्षः । येन कार्यान्यथानुपपत्तिमन्तरेणापि अभ्युपेयेत । सौषुप्तं चानाद्य-ज्ञानोपरक्तं साक्षिचैतन्यरूपं ज्ञानं स्वतो वा उपाधितो वा न विनश्यतीति संस्कारं कथं जनयेत् ? तदभावात् कथं स्मर्येत, अस्मर्यमाणं वा कथं प्रमाणत्वेनोदाह्रियेतेति– चेन्न । न तावदनुमानं तत्र सम्भवति । हेतोः पक्षविशेषणस्य चाज्ञानात् । न हि ज्ञानाभाव-मन्तरेणावस्थायां विशेषो वक्तुं शक्यः । ज्ञानसामग्रीविरहश्च ज्ञानाभावानुमेयत्वेनान्योन्याश्रय-ग्रस्तः । न चेदानीन्तनेनेन्द्रियप्रसादेन पूर्वकालीनं तदुपरममनुमाय सामग्रीविरहानुमानम् । इन्द्रियप्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वासिद्धेः । नियमेनास्मर्यमाणत्वं च यथा-श्रुतं वा सुषुप्तिकालावच्छेदेनेति वा ? आद्ये असिद्धिः । द्वितीये तूपेक्षणीयज्ञानाभावो न सिद्ध्येत् । तत्रैव व्यभिचारश्च ।

न च– तर्हि प्रातरनुभूतचत्वरे गजज्ञानाभावं कथमिति– वाच्यम् । ज्ञानानुपलब्ध्यै-वेत्यवेहि । अनुपलब्धिज्ञानं च भावरूपाज्ञानेन लिङ्गेन । तथा हि– पूर्वकालेऽहं, गजज्ञानाभाववान्, गजाज्ञानवत्त्वात्, यन्नैवं तन्नैवम्, यथा गजज्ञानवानहमिति । एवं सर्वत्राज्ञानस्य ज्ञानाभावव्याप्यत्वेन तदनुमापकत्वम् । न च– सुषुप्तिकाले ज्ञानाभावानु-मानार्थं भावरूपाज्ञानमिव रागाभावानुमार्थं द्वेषोऽपि स्वीकरणीयः, तद्विरोधिपदार्थानुभवं विना तदभावानुमानायोगादिति– वाच्यम् । भावरूपाज्ञानेन ज्ञानाभावेन वा रागाभावानुमान-सम्भवात् । तस्यापि तद्विरोधित्वात् । अथापरोक्षतो ज्ञाते त्वज्ञानाभावात् कथं परोक्ष-ज्ञानाभावानुमानम् ? सामग्रीविरहादिनेति गृहाण । न चात्राप्यन्योन्याश्रयः । शब्दादीनां योग्यानां योग्यानुपलब्ध्या अभावनिश्चयेन परोक्षज्ञानविरहज्ञानं विनैव सामग्रीविरहनिश्चयात् । सुषुप्तिकाले चेन्द्रियादिघटितसामग्रीविरहस्य फलाभावं विना ज्ञातुमशक्यत्वेनान्योन्या-श्रयोक्तेः । न च स्मरणपक्षे संस्कारानुपपत्तिः । अज्ञानस्याज्ञानवृत्तिप्रतिबिम्बितसाक्षि-भास्यत्वेन वृत्तिनाशादेव संस्कारोपपत्तेः । अज्ञानवृत्तिप्रतिबिम्बितचैतन्यस्यैव साक्षिपदार्थ-त्वात् । न च– जागरेऽप्यज्ञानस्य वृत्तिवेद्यत्वे वृत्त्यभावदशायां संशयाद्यापत्तिरिति– वाच्यम् । अज्ञानविषयाज्ञानाभावेन तदयोगात् । संशयादेस्तत्कारणीभूताज्ञानसमानविषयत्व-नियमात् । भावत्वादिना संशये त्विष्टापत्तिरेव । भावत्वादेः साक्षिवेद्यत्वाभावेनाज्ञानविषय-त्वात् । अज्ञानस्य स्वरूपेणैव साक्षिवेद्यत्वात् । ननु– तदा ज्ञानाभावोऽपि स्वरूपेणैव भासताम् । सप्रतियोगिकत्वेनाभावज्ञान एव प्रतियोगिज्ञानस्य हेतुत्वात् । अन्यथा ‘प्रमेयम्’ इति ज्ञानेऽप्यभावो न भासेतेति– चेन्न । साक्षिणा तावन्न स्वरूपेणाभावावगाहनम् । तस्य साक्षात्साक्ष्यवेद्यत्वात् । नापि शब्दादिना । तदानीं तेषामभावात् । नाप्यनुपलब्ध्या । तस्याः प्रतियोगिज्ञाननिरपेक्षाया अजनकत्वात् । न च– दृष्टाभावान्तरविलक्षणस्वभाव एवायमभाव इति स्वरूपेण साक्षिवेद्योऽस्त्विति– वाच्यम् । निर्विकल्पकबुद्धिवेद्यत्वे भावत्व-स्यैवौचित्यात् । अन्यथा परिभाषामात्रापत्तेः । ननु ज्ञानविरोधित्वादेस्तदाऽननुभवेन ‘नावेदिषम्’ इति तेनाकारेण कथं परामर्शः ? न । द्रष्टर्यन्तःकरणतादात्म्येनाहमुल्लेखस्येव ज्ञानविरोधित्वादेरपि तदैवानुभूयमानत्वेन तदंशे परामर्शत्वानभ्युपगमात् । सुषुप्तिकालीनस्य द्रष्टुरेव परामृष्टत्वात् ।

नन्वज्ञानवृत्तिप्रतिबिम्बितचैतन्यरूपस्याज्ञानानुभवस्य जाग्रत्यपि विद्यमानत्वात् कथम-ज्ञानस्मरणम् ? न हि धारावाहिकेषु अनुभवेषु तुल्यसामग्रीकेषु स्मरणव्यवहारः । तथा च धारावाहिकोऽज्ञानानुभव इति वक्तव्यम्, न तु परामर्श इति । सत्यम् । सुषुप्त्याख्या-यास्तामस्या अज्ञानवृत्तेर्नाशेन जाग्रति तद्विशिष्टाज्ञानस्य साक्षिणाऽनुभूयमानत्वाभावेन संस्कारजन्याविद्यावृत्त्यैव सुषुप्तिविशिष्टाज्ञानभानात् परामर्शत्वोपपत्तेः । केवलाज्ञानांशे तु तुल्यसामग्रीकत्वाद्धारावाहिकत्वमेव । अत एव कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रलयोपमं सुषुप्तिरित्यभिप्रेत्य वार्तिककारपादैः सौषुप्ताज्ञानस्मरणमपाकृतम् । तथा चोक्तम्–

न सुषुप्तिगविज्ञानं नाज्ञासिषमिति स्मृतिः ।

कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक् ।।

न भूतकालस्पृक्प्रत्यङ् न चागामिस्पृगीक्ष्यते ।

स्वार्थदेशः परार्थोऽर्थो विकल्पस्तेन स स्मृतः ।।

इत्याद्यव्याकृतप्रक्रियायाम् । विवरणकारैस्तु– ‘अभावप्रत्ययालम्बना वृत्तिर्निद्रा’ इति योगसूत्रानुसारेण तमोगुणात्मकावरणमात्रालम्बना काचिद्वृत्तिः सुषुप्तिरित्यभिप्रेत्य तदुपरक्त-चैतन्यस्य तन्नाशेनैव नाशात्तत्कालीनाज्ञानानुभवजनितसंस्कारवशेन ‘न किञ्चिदवेदिषम्’ इति ‘स्मरणमभ्युपेतम्’ इति वार्तिकविवरणयोरप्यविरोधः । अत एवोक्तं वार्तिककारैरुषस्ति-ब्राह्मणे–

न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते ।

नावेदिषं सुषुप्तोऽहमिति धीः किम्बलाद्भवेत् ।। इत्यादि ।

अभिप्रायस्तु वर्णित एव । साक्ष्यज्ञानसुखाकारास्तिस्रोऽविद्यावृत्तयः सुषुप्त्याख्यैकैव वा वृत्तिरित्यन्यदेतत् । निर्विकल्पकस्यापि स्मरणजनकत्वम्, अहङ्कारोपरागकालीनत्वाभावेन तत्तानुल्लेख इत्यादि सर्वमुपपादितमस्माभिः सिद्धान्तबिन्दौ । तस्मात् सौषुप्तानुभवोऽपि भावरूपाज्ञानविषय इति सिद्धम् । इत्यद्वैतसिद्धौ अज्ञानप्रत्यक्षत्वोपपत्तिः ।

न्यायामृततरङ्गिणी

त्वन्मत इति ।। अहमज्ञ इति प्रतीतेर्ज्ञानाभावविषयत्वं त्वयाऽपि वाच्यम् । अन्यथा तस्याः प्रामाण्यं न स्यादित्यर्थः । नन्वहमर्थस्याज्ञानानाश्रयत्वेऽपि तदाश्रयीभूतचैतन्येऽन्तःकरणतदात्म्याध्यासेनैकाश्रयसम्बन्धेन स्थूलो गच्छतीतिवदह-मज्ञ इति प्रतीतिर्भावरूपाज्ञानविषयैवेति चेन्न । शुद्धचैतन्यस्याज्ञानाश्रयतया विशिष्य प्रतीत्यसम्भवेनान्यस्य मुख्यतत्प्रत्ययस्याभावेनाहमज्ञ इत्यस्यैव मुख्यप्रत्ययत्वे वाच्ये अहमर्थस्याज्ञानाश्रयतया तस्य ज्ञानाभावविषयत्वं त्वयाऽपि वाच्यमित्यर्थात् । स्पष्टयिष्यते चैतदविद्याश्रयभङ्गे ।। साक्षीति ।। न च स्वस्मिन्विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च न जानामीति न व्यवहारः । परसुखादौ तथा व्यवहारस्तु परोक्षज्ञाननिवर्त्येन प्रमातृगताज्ञानेनैवोपपन्न इति वाच्यम् । अर्था-बोधात् । स्वसमवेते स्वभ्रान्तिसिद्धे चातीतसुखादौ रूप्यादौ च न जानामीति व्यवहारस्य सर्वसिद्धस्य सुखादावज्ञानमनिच्छता त्वयाऽपि ज्ञानाभावविषयत्वेन समर्थनीयत्वादित्यर्थात् । विषये प्रमातरि चाज्ञानस्यैकत्वाच्च । आवृतं विषय-मजानन् प्रमाताऽज्ञ इत्युच्यते । अत एव परोक्षज्ञानेन प्रमातृगताज्ञाने नाशितेऽपि विषयगताज्ञानसत्त्वेऽपि न न जानामीति व्यवहारापत्तिः । प्रमातृगताज्ञानकार्यस्य न जानामीति व्यवहारस्य विषयगताज्ञानेनापादयितुमशक्यत्वादिति निरस्तम् । तच्छक्तेरप्येकत्वाच्च ।। विक्षेप इति ।। विपर्यय इत्यर्थः ।। अपरोक्षत इति ।। विक्षेपरूपकार्यस्याज्ञानविषयत्वं प्रत्यप्रयोजकतया जडे न जानामीत्यस्य नाज्ञान-विषयत्वमित्यर्थः ।। निरसिष्यमाणत्वादिति ।। तस्याज्ञानकल्पितत्वेनान्योन्या-श्रयात् स्वयमेव प्रकाशहीने तत्कृत्याभावाच्चेत्यादिनाऽविद्याविषयभङ्ग इति शेषः ।। वृत्तिरिति ।। विषयप्रकाशकं सर्वगतजीवचैतन्यमविद्यानावृतमिति मते वृत्तेश्चिदुपरा-गार्थत्वादित्यर्थः ।

ननु मयि ज्ञानं नास्तीति प्रतीतिरपि न ज्ञानाभावविषया । तथाहि– अत्र हि ज्ञानाभावे ज्ञानत्वावच्छिन्नप्रतियोगिताकत्वमनुभूयते । तच्च तज्ज्ञानविशेषनिष्ठानां कथञ्चिदनुगतीकृतानां तत्तद्विशेषाभावकूटप्रतियोगिताकानां ज्ञानत्वस्यावच्छेदकत्वेन वा, विशेषाभावकूटातिरिक्तसामान्यधर्मावच्छिन्नप्रतियोगिताकाभावविषयत्वेन वा ? प्रकारान्तरासम्भवात् । तदुभयमपि न सम्भवति । अभावज्ञानकारणधर्म्यादिज्ञाने सति न तदुभयविधाभावज्ञानम् । प्रतियोगिभूतज्ञानज्ञानस्य तु स्वविषयीभूतज्ञान-विषयविषयकत्वेन तस्यैव तज्ज्ञानत्वात् । तयोर्यत्किञ्चित्प्रतियोगिव्यक्तिविरोधित्वेन तद्वति तयोरसम्भवात् । धर्म्यादिज्ञानाभावे तु कारणाभावादेव तयोर्न ज्ञानम् । अतो मयि ज्ञानं नास्तीत्यपि न ज्ञानाभावज्ञानम् । किन्तु भावरूपाज्ञानज्ञानमेवेति । मैवम् । यत्किञ्चिद्विशेषाभावस्यैव तथा प्रतीत्युपपत्तेः । न च तत्प्रतियोगिता न ज्ञानत्वावच्छिन्नेति वाच्यम् । अवच्छेदकत्वं हि नानतिरिक्तवृत्तित्वादिकम् । अवच्छेदकत्वाभिमतघटत्वादिसमनियतकम्बुग्रीवत्वाद्यतिप्रसक्तेः । किन्तु स्वरूप-सम्बन्धविशेष एव । तच्चास्ति सामान्यधर्मस्यापि विशेषप्रतियोगितया । नन्वेवं वायौ रूपं नास्ति, पुरोदेशे रजतं नास्तीत्याभासवाक्यजन्यप्रतीत्यनन्तरमपि तत्संशयादिनिवृत्तिर्न स्यात् । एकविशेषाभावबोधनेऽपि विशेषान्तरमादाय संशयोपपत्तेरिति चेत्, प्रथमं न कथञ्चित् । अपशवो वा अन्ये पशवो गोऽश्वेभ्य इत्यादाविव विशेषपरत्वशङ्कायाः सकलरूपाद्यभावतात्पर्यावगमान्निवृत्तौ उक्त-वाक्यात्संशयादिनिवृत्तेः । किं च वायौ रूपं नास्ति, मयि ज्ञानं नास्तीति समानाकारप्रतीत्योः कथं विषयवैजात्यम् । ननु प्रतियोगिज्ञानाज्ञानाभ्यामनु-पपत्त्याऽगत्या तत्कल्प्यत इति चेन्न । तर्हि तत एव यावदभावकिञ्चिदभाव-विषयत्वमेव कल्प्यताम् । एवं च प्रतीतिसारूप्यमपि समर्थितं स्यात् । त्वद्रीत्या एकस्या अभावविषयकत्वमन्यस्या अभावविलक्षणाज्ञानविषयत्वे सर्वथा तद्बाध एव भावरूपाज्ञानवादेऽपीति ।

ननु श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य ज्ञानेऽपि प्रतियोगिज्ञानाज्ञानाभ्यां न व्याहतिः । न हि श्रवणादिसाध्यत्वमोक्षहेतुत्वादिप्रकारकं ब्रह्मज्ञानज्ञानमपि सत् श्रवणादिसाध्यं मोक्षहेतुर्वा । येन तस्मिन् सति तादृक् ज्ञानप्रागभावो व्याहन्येतेति चेन्न । तद्विषयकज्ञाने सत्येव तद्विषयकज्ञानाभावस्य निरूपणं त्वयाऽपि वाच्य-मित्यत्र तात्पर्यात् । श्रवणादिसाध्यमोक्षहेतुज्ञानं निष्प्रपञ्चात्मविषयकमतस्तादृशात्म-ज्ञानस्य ज्ञानमपि निष्प्रपञ्चात्मज्ञानस्य ज्ञानमिति तस्मिन् सति कथं तादृशज्ञान-प्रागभावस्तिष्ठेत् । निष्प्रपञ्चात्मविषयतयाऽऽत्मसाक्षात्कारस्य तस्मिन् सति कथं प्रपञ्चनिवर्तकता । न तु श्रवणादिजन्यत्वेनाधिष्ठानतत्वसाक्षात्कारे सति । निरुपाधिभ्रमादर्शनादिति भावः । अत एव साक्षात्कारभिन्नं शङ्कते ।। न चेति ।। अनुपलब्ध्या वेति ।। वाशब्दोऽनास्थायाम् । अनुमित्यभावे तात्पर्यात् । ननु ज्ञानाभावस्य झटिति प्रतीतिः स्वकारणस्य झटिति समवधानमाक्षेप्स्यति न तु स्वस्वानुमितिभिन्नत्वमित्यत आह ।। त्वन्मत इति ।।

ननु जडे ज्ञानाभावो न प्रत्यक्षः । ज्ञानरूपप्रतियोगिग्राहकस्य मनसो बहिर-स्वातन्त्र्येण यावत्प्रतियोग्युपलम्भकसमवधानरूपयोग्यतायुक्तप्रतियोग्यनुपलब्धि-विरहात् । अतो जडे लिङ्गान्तरमेव ज्ञानाभावानुमापकमिति चेन्न । घटो यद्यव-च्छेदकविशेषेण ज्ञानाधारः स्यात् प्रत्यङ् स्यात् । तादृशज्ञानत्वेनोपलभ्यमानत्वस्य प्रत्यक्त्वादित्यनुपलम्भप्रतियोग्युपलम्भापादनसम्भवात् ।। अपरोक्षत इति ।। लिङ्गान्तरं तु नानुसंहितमिति भावः ।। दुःखादाविति ।। स्ववृत्त्यतीत-दुःखादिज्ञानाभावस्येत्यर्थः । भावरूपाज्ञानेन लिङ्गेन ज्ञानाभावोऽनुमीयत इत्यत्र दूषणान्तरमाह ।। प्रतियोगीति ।। विषयावच्छिन्नज्ञानरूपविशेषणज्ञानं विना विशिष्टज्ञानानुदयादित्यर्थः । भावरूपाज्ञानसमानविषयकज्ञानसदसद्भावाभ्यामज्ञानज्ञानं तवापि दुर्लभमित्याह ।। अपि चेति ।। अज्ञानस्य ज्ञानविरोधित्वेन प्रतीत्यनियमं परिहरति ।। मुग्ध इति ।। नञोऽप्रयोगेऽपि नञर्थानुभवोऽस्तीत्यर्थः ।। अत एवेति ।। मुग्धादिशब्देषु नञर्थप्रवेशसद्भावादेवेत्यर्थः ।। उक्तं चेति ।। अज्ञान-विषयाश्रययोरभेदेऽभिहितेऽस्यास्मिन्नज्ञानमित्याश्रयविषयभेदप्रतीत्या विरोध इति शङ्कायां तत्प्रतीतिमन्यथयितुमुक्तमित्यर्थः ।। अज्ञानमिति ।। ज्ञानस्य द्वय-सापेक्षत्वात् तत्प्रतियोग्यज्ञानस्यापि तत्सापेक्षत्वप्रथा घटत इत्यर्थः ।। अन्यथेति ।। अज्ञानस्य ज्ञानविरोधित्वेन प्रतीतिनियमाभाव इत्यर्थः ।

ननु ज्ञानाज्ञानं विरोधनिरूपकज्ञानज्ञाननियतज्ञानम् । तमोनीहारादिशब्दैस्तेन विनाऽपि तज्ज्ञानादित्यत आह ।। ज्ञानाभावोऽपि हीति ।। अज्ञानज्ञानवदेव ज्ञानाभावस्यापि सामान्येन ज्ञाने ज्ञानज्ञानमनपेक्षितमिति भावः ।

ननु न ज्ञानमज्ञानमित्यज्ञानशब्दो न यौगिकः येनावयवार्थज्ञानविरोधभान-मावश्यकमित्यत आह ।। एतेनेति ।। वृत्तिज्ञानेति ।। प्रोक्षण्यादिशब्दवद-लब्धात्मकरूढ्यपेक्षया योगस्यैव बलवत्त्वमित्यर्थः । अस्त्वज्ञानशब्दोऽज्ञाने यौगिको रूढो वा । प्रत्यक्षेण तु ज्ञानविरोधित्वेनैवाज्ञानं प्रतीयत इत्याह ।। शब्देति ।। अन्यथाऽज्ञानस्य ज्ञानविरोधो न सिद्ध्येदिति भावः । उभयत्र परिहारं शङ्कते ।। नन्विति ।।  साक्षिरूपमिति ।। ननु बाह्यो विषयः कथं साक्षिभास्योऽसम्बन्धा-दित्याशङ्कां परिहर्तुं ज्ञानावच्छेदकस्येत्याद्युक्तम् । तदुक्तं विवरणे– ‘‘सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव । तत्र ज्ञाततया विषयः प्रमाण-व्यवधानमपेक्षते । अन्यस्तु सामान्याकारेण विशेषाकारेण वाऽज्ञानव्यावर्तकतया सदाऽवभासते’’ इति ।। न तदिति ।। साक्षिणो ज्ञानसाधकत्वान्न तद्विरोधित्व-मित्यर्थः ।। वृत्तेरेवेति ।। प्रमाणवृत्तेरित्यर्थः ।। सममिति ।।

ननु भावरूपाज्ञानवत् ज्ञानाभावो न साक्षात्साक्षिवेद्यः । येन ज्ञाना-वच्छेदकविषयस्य ज्ञानद्वारा साक्षिवेद्यत्ववत् अभावप्रतियोगिज्ञानावच्छेदकविषयस्या-भावद्वारा साक्षिवेद्यत्वं स्यात् । ज्ञानवत् तदभावस्य साक्षिवेद्यत्वेऽपि न विषयः साक्षिवेद्योऽसम्बन्धात् । न च प्रतियोगिभूतं ज्ञानं साक्षात् साक्षिवेद्यमिति तद्द्वारा तदवच्छेदकविषयोऽपि साक्षिवेद्यः स्यादिति वाच्यम् । उत्पन्नं हि ज्ञानं साक्षिवेद्यम् । तस्मिंश्चोत्पन्ने तद्विषयोऽपि स्फुरतीति कुतस्तज्ज्ञानाभावः । अनुत्पन्नस्य ज्ञानस्य साक्ष्यसम्बन्धान्न तेन ज्ञानग्रहणम् । नतराम् तद्द्वारा तद्विषयग्रहणमिति चेत् । मैवम् । विरोधिनिरूपकाज्ञानोत्पत्त्यनुत्पत्तिभ्यां भावरूपाज्ञानसत्त्वस्य ज्ञानद्वारक-ज्ञानविषयविषयकसाक्षिज्ञानस्य वा सम्भवेन साम्यात् । नन्वज्ञानविशेषण-तयाऽनुत्पन्नमपि ज्ञानं तद्विषयश्च साक्षिवेद्य इति चेत् क्वेदमवगतं भवता । ननु घटं न जानामीत्यनुभवादिति चेन्न । एतस्य त्वदभिमताज्ञानविषयत्वेऽसंमतेः । तस्मान्न जानामीति ज्ञानविरोधि किञ्चित् साक्षिणाऽनुभूयते । तद्द्वारा विषयोऽपीत्येता-वत्सिद्धम् । तस्याभावविलक्षणत्वं प्रकल्प्य तद्द्वारा विषयानुभव इति कल्पनापेक्षया क्लृप्तेऽभावे विषयानुभावकताकल्पनैवोचिता । लाघवात् । भावविलक्षणस्य द्वारत्ववदभावस्यापि तत्सम्भवाच्च । बाह्यविषयस्य साक्षिणा ग्रहणेऽतिप्रसङ्गभङ्गाय स्वसम्बद्धाभावप्रतियोगिज्ञानविषयत्वस्य नियामकस्य सम्भवाच्च ।

नन्ववच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्विशिष्टाभावज्ञानमिति शङ्का तत्परि-हारश्च अभावबुद्धौ प्रतियोगित्वानुयोगित्वादिवत्पूर्वानुपस्थितस्यापि विशेषणस्य विशिष्टबुद्धौ भानसम्भवेन विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वे मानाभाव इत्येवं-रूपोऽपि समः । विशेषणतावच्छेदकप्रकारकज्ञानं विना कथं विशिष्टवैशिष्ट्य-ज्ञानमित्यपि न । प्रत्यक्षत्वादिरूपेण पृथक्क्लृप्तकार्यकारणभावेनैवोपपन्नस्यार्थ-समाजसिद्धस्य विशिष्टवैशिष्ट्यज्ञानत्वस्य कार्यतानवच्छेदकत्वेन तत्र कारणान्तरा-कल्पनात् । इह च विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति न्यायेन विशिष्ट-वैशिष्ट्यज्ञानसम्भवादिति । साक्षिणा विशेषतो ज्ञायमानेऽपि विषयेऽज्ञानमिति पक्षे ज्ञानाभावेनान्यथासिद्धिमुक्त्वा सामान्येन विषयज्ञाने विशेषतस्तज्ज्ञानमिति पक्षेऽपि ज्ञानाभावेनान्यथासिद्धिरित्याह ।। तस्मादिति ।। अवच्छेदकस्येति ।। विरोध-निरूपकज्ञानं प्रत्यज्ञानं च प्रत्यवच्छेदकस्येत्यर्थः । ननु विशेषज्ञानाभावे विशेष-ज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोऽपि ज्ञात एवेति विशेष-ज्ञानाभावव्याघात इत्यत आह ।। तद्विशेषेति ।। तत्सामान्येति ।। निरूपणीया-भावप्रतियोगिज्ञानविषयीभूतविशेषसमानाधिकरणसामान्यधर्मविषयकज्ञानमित्यर्थः । ननु विशेषज्ञानाभावं प्रति सामान्यज्ञानं तत्प्रतियोगिज्ञानं वाऽप्रतियोगीति कथं तस्य विशेषज्ञानाभावज्ञानं प्रति हेतुताऽप्रयोजकता वा स्यादित्यत आह ।। अन्वयेति ।। निरूपणीयाभावप्रतियोगिविज्ञानव्यक्तिज्ञानं विनाऽपि सामान्येन तज्ज्ञाने सत्येव विशेषज्ञानाभावज्ञानस्यानुभूयमानत्वादित्यर्थः ।। न त्विति ।। यस्याः ज्ञान-व्यक्तेरभावो निरूप्यते तज्ज्ञानव्यक्तिस्तत् ज्ञानं वा तदभावज्ञाने न हेतुरित्यर्थः ।। अपर इति ।। त्वदुक्तमर्थं न जानामीत्यादाविति शेषः । अत्र मते निरूपणीयाभावप्रतियोगिज्ञानापेक्षया अभावज्ञानहेतौ ज्ञाने व्यक्तिभेदे प्रकारभेदे सत्यपि समानविषयत्वं लभ्यत इत्यर्थः ।

।। केचित्त्विति ।। त्वदुक्तमर्थं न जानामीत्यादौ भासमानधर्मातिरिक्तो व्यावृत्त्यधिकरणतावच्छेदको धर्मो विवक्षितः । तेन त्वदुक्तत्वस्य मदुक्ताद्व्यावर्त-कत्वेन सामान्यतो व्यावर्तकधर्मविषयत्वं निषेद्धुमशक्यमिति निरस्तम् ।। तद्विशेषणतयेति ।। तत्र विशिष्टार्थविषयके ज्ञाने प्रमाणज्ञानविशेषणतयेत्यर्थः । ज्ञानावच्छेदकविषयाग्रहे ज्ञानग्रहसम्भवादभावग्रहो भविष्यतीत्याह ।। किं चेति ।। अनुमानादीति ।। विषयाभावेनानुमितिरूपवृत्त्यसम्भवादित्यर्थः ।। रहस्यमिति ।। शब्दवृत्तेरज्ञानविषयत्वस्यानुभूयमानत्वादित्यर्थः ।। आद्य इति ।। अज्ञान-विषयकानुमित्यादिवृत्त्याऽज्ञानावच्छेदकविषयस्य ग्रहणे तयैव वृत्त्या तदज्ञाननाशा-पत्तिरित्यर्थः ।। त्वन्मत इति ।। साक्षिणोऽज्ञानाविरोधित्वेऽपि वृत्तेस्तद्विरोधित्वस्य त्वयाऽपि स्वीकारादित्यर्थः ।। यदि चेति ।। परोक्षवृत्त्या अज्ञानाभिभवे वा, प्रमातृगताज्ञाननाशेऽपि वा विषयावरकाज्ञाननिवृत्त्यनङ्गीकार इत्यर्थः ।। तां विनेति ।। अज्ञाननिवृत्तिं विनेत्यर्थः ।। उक्तमिति ।। दृश्यत्वहेतुभङ्गे ।। परोक्षेति ।। गुञ्जापुञ्जे वह्निभ्रमानन्तरमुष्णस्पर्शानुमितेः कण्ठे धार्यमाणत्वादिलिङ्ग-जन्यानुमित्यादिनेत्यर्थः ।। भ्रमेति ।। भ्रमोपादानस्याज्ञानस्य सत्त्वादित्यर्थः ।। तस्येति ।। अज्ञानाकारप्रतीतेरुभयत्र समत्वादिति भावः । ननु परोक्षवृत्तेर-ज्ञाननिवर्तकत्वे उपादानाभावादपरोक्षभ्रमो न स्यादित्यत आह ।। परोक्षत इति ।। अस्मन्मते ह्यज्ञानस्य भ्रमानुपादानत्वादिति भावः । तव मते तस्यापि दोषस्य बोद्धव्यत्वादित्याह ।। त्वन्मत इति ।। अज्ञानविषयकानुमित्यादिवृत्त्या तदव-च्छेदको विषयो न गृह्यत इति पक्षे आह ।। अन्त्य इति ।। परामर्शः स्मरणम् । सुषुप्त्यवस्थायां ज्ञानाभावानुभवाभावान्न तस्य जागरे परामर्शः सम्भवतीत्याशङ्क्य परिहरति ।। न चेति ।। धर्म्यादिज्ञानाभावनिमित्तकः सुषुप्त्यवस्थायां विशेषरूपेण ज्ञानाभावाननुभव इत्युच्यते सामान्यरूपेण वा । आद्य आह ।। भावरूपेति ।। तथा च सुषुप्त्यवस्थायां तेन रूपेण ज्ञानस्याप्यननुभवात्तस्यापि परामर्शो न स्यादित्यर्थः ।। तदपेक्षणादिति ।। अज्ञानावच्छेदकविषयविषयकविरोधनिरूपक-ज्ञानस्यापेक्षणादित्यर्थः । द्वितीये त्वाह ।। सामान्येति ।। विरोधनिरूपकं ज्ञान-मज्ञानविषयं सामान्यरूपेणोल्लिखतीति न विशेषरूपेऽज्ञानविरोध इत्यर्थः ।। तर्हीति ।। अभावप्रतियोगिभूतं ज्ञानमपि स्वविषयं सामान्येनोल्लिखदभावनिरूपक-मस्त्वित्यर्थः । द्वितीयपक्षे ज्ञानेन साम्यं वक्तुं शङ्कते ।। नन्विति ।।  सममिति ।। अज्ञानज्ञानाभावयोः साक्षियोग्यत्वतदयोग्यत्वाभ्यां वैषम्यमिति शङ्कां परिहरत्यपि-शब्देन ।

नन्वभावस्य ससम्बन्धिकत्वात्स्वरूपेण ज्ञानमेव नास्तीत्यत आह ।। अभाव-स्यापीति ।। ज्ञानाभावस्य ज्ञानग्राहकग्राह्यत्वेऽपि सुषुप्तौ न तद्ग्रहः । तस्या एव प्रतिबन्धकत्वादित्यत आह ।। यद्वेति ।। किन्त्विति ।। सुषुप्तौ ज्ञानाभावः स्थित इति जाग्रत्यनुमीयत इत्यर्थः ।। अवस्थेति ।। सम्प्रतिपन्नोदयास्तमयकालवद्विवाद-पदयोरप्युदयास्तमययोरन्तरालकालमनुमाय तत्कालेऽहंज्ञानाभावात् अवस्थाविशेष-वत्त्वात् व्यतिरेकेण जाग्रदहमिवेत्यनुमानेनेत्यर्थः । न च ज्ञानाभावमन्तरेणा-वस्थाविशेषो वक्तुमशक्य इति वाच्यम् । श्रुतिसिद्धप्राज्ञपरिष्वङ्गविशेषकालस्य सुषुप्त्याख्यस्य ज्ञानाभावभिन्नस्य सुवचत्वात् ।। सामग््रयभावस्येति ।।

ननु ज्ञानसामग्रीविरहस्य ज्ञानरूपकार्यविरहानुमेयत्वेनान्योन्याश्रय इत्यत उक्तम् ।। इन्द्रियेति ।। इदानीन्तनेन्द्रियप्रसादेन सुषुप्तिकालीनेन्द्रियोपरमानुमान-मित्यर्थः । न चेन्द्रियप्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वमसिद्धमिति वाच्यम् । स्वरूपसुखानुभवस्येन्द्रियोपरमं प्रत्यप्रयोजकत्वात् । इन्द्रियविषयानु-भवजन्यसुखानुभवस्य तदानीमभावात् ।। तत् तुल्येति ।। तुल्यत्वं चानुपेक्षणीय-त्वम् । तेनोपेक्षणीये न व्यभिचारः । तदंशे संस्कारानुद्बोधेनास्मर्यमाणे व्यभिचार-वारणाय नियमेनेति ।। त्वन्मत इति ।। सुषुप्तावहमर्थाभावेन तदा तस्याननु-भूततया न किञ्चिदवेदिषमिति जाग्रत्कालीनज्ञानस्याहमर्थे परामर्शत्वं न सम्भव-तीत्यर्थः ।। अन्यानुभूत इति ।। अहमर्थानवच्छिन्नस्य सुषुप्तावज्ञानद्रष्टृत्वं, तदवच्छिन्नस्य जाग्रति तत्परामर्ष्टृत्वमित्यसम्भवेन अहमर्थानवच्छिन्नस्यैव जाग्रत्य-ज्ञानानुभव एवायमित्यस्यैव वक्तव्यत्वादित्यर्थः । संस्काराभावान्नाज्ञानांशे परामर्श इत्याह ।। सुषुप्तावित्यादिना ।। विनष्टस्य ज्ञानस्य स्मरणजननायोगेन तेन संस्कारो जननीयः । अविनश्यत्तु साक्षादेव स्मरणजननयोग्यमिति न तेन संस्कारो जन्यते । न हि संस्कारः प्रत्यक्षः । येन कार्यान्यथानुपपत्तिं विनापि स कल्प्येते-त्यभिप्रायेणोक्तं नित्यज्ञानस्येत्यादिना । अविद्यावृत्तेरनित्यत्वात् तदुपहितसाक्षि-रूपस्याज्ञानज्ञानस्याप्यनित्यत्वात् तस्य संस्कारजनकत्वं भविष्यतीति शङ्कापरिहारा-योक्तम् ।। अविद्यावृत्तीत्यादि ।। न चाज्ञानविषयकाज्ञानाभावेन न तत्र संशयादिरिति वाच्यम् । अज्ञानगोचरज्ञानाभावेन तत्राज्ञानस्याप्यापाद्यमानत्वादिति भावः ।

ननु प्रमाणस्यानाशेऽपि प्रमेयस्य नाशात् संस्कारोपपत्तिः । तथाहि – सुषुप्ति-विशिष्टाज्ञानभानात् परामर्शत्वोपपत्तिरिति चेन्न । सुषुप्त्यवस्थाया अविद्यावृत्तित्वे मानाभावात् । दोषाजन्यत्वात् व्यवहारदशायामबाध्यत्वाच्च सुषुप्तेर्नाविद्यावृत्तित्वम् । तथापि केवलाज्ञानांशे सुषुप्तिजागरयोः तुल्यसामग्रीकत्वात् धारावाहिकबुद्धित्वमेव न परामर्शत्वम् । अत एवाव्याकृतप्रक्रियायां वार्तिक उक्तं–

‘‘न सुषुप्तिगविज्ञानान्नाज्ञासिषमिति स्मृतिः ।

  कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक् ।

  न भूतकालस्पृक् प्रत्यङ् न चागामिस्पृगीक्षते ।

  स्वार्थदेशपरार्थोऽर्थोऽविकल्पस्तेन स स्मृतः ।।’’ इति ।

एतत् सर्वमभिसन्धायोक्तम् ।। जागरणादावपीति ।। यदि सुषुप्तौ सुषुप्त्यवस्था-विशिष्टमनुभूयेत तर्हि जागरेऽपि तथैवानुभूयेतेत्यर्थः । तत्तानुल्लेखाच्च नायं परामर्शः । किन्तु ज्ञानाभावानुभव एव । अत एव अभावप्रत्ययालम्बनावृत्तिस्सिद्धेति योग-सूत्रमिति । ज्ञानाभावानुमानानभ्युपगमे बाधकमाह ।। अन्यथेति ।।  इच्छादा-विति ।। इच्छादावज्ञानाभावादित्यर्थः । तदा सुषुप्तौ ।। न हीति ।। विरोधि-पदार्थानुभवेनैव तदभावानुमानस्य त्वयाऽङ्गीकारादित्यर्थः ।। ज्ञानाभावादेवेति ।। अज्ञानानुमितादिति शेषः ।। तदभावेति ।। प्रकाशमाने आत्मादौ ज्ञानाभावाभावेन तत्र रागाद्यभावो न सिद्ध्येदित्यर्थः ।।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यामज्ञानाक्षमभावगम् ।।

न्यायामृतकण्टकोद्धारः

प्रमाणज्येष्ठत्वात् निरपेक्षत्वेन प्रबलत्वाच्च प्रथमं प्रत्यक्षमज्ञाने प्रमाणत्वेनोक्तम् । अतस्तदेव दूषयति ।। यच्चेति ।। त्वन्मतेऽपीति ।। नन्वत्र नाहमर्थो ज्ञानाश्रयत्वेन प्रतीयते । किन्तु चैतन्यमेव तथा प्रतीतिस्त्वज्ञानाश्रयचैतन्येऽन्तःकरणतादात्म्या-ध्यासादिकार्थसम्बन्धेनैकं रूपमितिवदुपपद्यत इति चेन्न । किमियमेव प्रतीतिश्चिन्मात्रा-श्रयत्वे प्रमाणमन्या वा । नाद्यः । आहमज्ञो मय्यज्ञानमित्यहमर्थाश्रयत्वेनैवाज्ञान-विषयत्वात् । न द्वितीयः । तस्या असिद्धेः । न हि चिन्मात्रमज्ञमिति प्रतीतिः कस्याप्यस्ति । एवं चान्योन्याश्रयः । सिद्धे चिन्मात्राश्रयत्वे प्रतीतेरेकार्थसम्बन्धे-नोपपत्तिः । तदुपपत्तौ च चिन्मात्राश्रयत्वमिति ।

किं च चैतन्येऽन्तःकरणतादात्म्याध्यासोऽसिद्ध एव । तथा चासिद्धे न सिद्ध-साधनमिति । मिथ्यात्वप्रमाणस्य प्रागेव सम्यग् दूषितत्वात् ।। साक्षिवेद्य इति ।। न च स्वसाक्षिसिद्धे स्वभ्रमसिद्धे च न जानामीति व्यवहार एव नेति वाच्यम् । सुखमात्रं जानामिति तद्विशेषं तु न जानामीत्येवमनुभवस्य सर्वसिद्धत्वात् । एवं भ्रमसिद्धेऽपीति । परसुखादौ न जानामीत्याद्यनुभवस्य सर्वसिद्धत्वाच्च । न च सोऽनुभवः प्रमातृ-गताज्ञानेनैवोपपन्नो न विषयगताज्ञानमपेक्षत इति वाच्यम् । एवं हि सर्वत्र न जानामीति व्यवहारस्य प्रमातृगताज्ञानेनैवोपपत्त्या विषयगताज्ञानासिद्धिप्रसङ्गात् । अहमज्ञ इत्यादेरपि प्रमातृगताज्ञाने प्रमाणत्वेन विषयगताज्ञाने प्रमाणाभावप्रसङ्गाच्च । प्रमातृगतमप्यज्ञानं परकीयसुखादिविषयमेव वाच्यम् । अन्यविषयस्यान्यत्र न जानामीति व्यवहारा-नापादकत्वात् । तथा चापसिद्धान्तः । दुःखादिविषयस्याज्ञानस्यानङ्गीकारात् । अज्ञान-द्वैविध्यकल्पने गौरवाच्च । प्रमातृगताज्ञानस्य विषयगतार्थोपादानत्वायोगेन भ्रमोपादानत्व-लक्षणासम्भवाच्च ।

।। त्वन्मत इति ।। ननु परोक्षज्ञानेन प्रमातृगतमज्ञानं निवृत्तम् । तेन विषय-गताज्ञाने विद्यमानेऽपि प्रमातृगताज्ञानाभावान्न न जानामीति व्यवहारः । प्रमातृगता-ज्ञानकार्यस्य विषयगताज्ञानेनोपपादयितुमशक्यत्वात् इति चेन्न । उक्तप्रमाणानां प्रमातृ-गताज्ञान एव प्रमात्वेन विषयगताज्ञाने प्रमाणाभावात् । भ्रमान्यथानुपपत्त्या तत्कल्पन-मित्यपि न । तस्य प्रकारान्तरेणैवोपपाद्यमानत्वात् । न जानामीति व्यवहार-रूपकार्याक्षमस्याज्ञानत्वे प्रमाणाभावाच्च । अज्ञानद्वैविध्ये गौरवाच्चेति ।। त्वन्मत इति ।। न च त्वदुक्तमर्थमित्यत्र जडावच्छिन्नं चैतन्यमेव विषय इति न ज्ञानासम्भव इति वाच्यम् । विशिष्टस्यापि जडत्वेनाज्ञानविषयत्वासम्भवात् । न चैते प्रत्ययाः अप्रमाण-मेवेति वाच्यम् । अप्रमाणैः प्रमेयसाधनायोगात् । अन्यथा बाष्पारोपितधूमेनापि वह्णिः सिद्ध्येत् । तथा च तेनाप्यर्थक्रिया स्यात् । तथा च त्वदुक्तमर्थं न जानामीत्यादेः ज्ञानाभावविषयत्वे तद्वदेवास्यापि तद्विषयत्वसम्भवः । निरसिष्यमाणत्वादविद्याविषयभङ्गे इति शेषः ।

।। भावरूपाज्ञानविषयत्वेनेति ।। ननु धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां ज्ञान-सामान्याभावस्य व्याहतत्वेन मयि ज्ञानं नास्तीत्यस्यापि भावरूपाज्ञानविषयत्वात् विषयभेदाप्रतीतिर्युक्ता । तथा हि । मयि ज्ञानं नास्तीति प्रतीतिः वायौ रूपं नास्तीति प्रतीतिवत् सामान्याभावविषया वा यावद्विशेषाभावविषया वा वाच्या । न च तद्युक्तम् । धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां व्याहतत्वादिति चेन्न । मयि ज्ञानं नास्तीति प्रतीतेः विशेषाभावविषयत्वेनोक्तद्विविधपक्षानभ्युपगमात् । न च प्रतियोगितानवच्छेदकस्य प्रतियोग्यंशे प्रकारत्वात्प्रकृते च ज्ञानरूपप्रतियोग्यंशे प्रकारस्य ज्ञानत्वस्यैवावच्छेदकत्वम् । अन्यथा सामान्याभावसिद्धिर्न स्यादिति वाच्यम् । प्रतियोगिप्रकारत्वेन भावस्यैव प्रतियोगितावच्छेदकत्वमिति नियमासिद्धेः । अन्यथा प्रथमे क्षणे रूपं नास्तीति प्रतीतेरपि सामान्याभावविषयत्वापत्तिः । न चेष्टापत्तिः । कस्यचित्प्रागभावेन कस्य-चिदत्यन्ताभावेन सामान्याभावासम्भवात् । सामान्याभावे प्रतियोगिवत् तत्प्रागभाव-स्यापि प्रतियोगित्वेन तत्सत्वे तदसम्भवात् । सामान्याभावस्य यत्किञ्चित्प्रतियोगिसत्व-विरोधित्वात् । प्रमेयो घटो नास्तीत्यत्र प्रमेयघटत्वस्याप्यवच्छेदकत्वापत्तेश्च । अत एव गङ्गेशचरणेन सामान्याभावे रूपं नास्तीति प्रतीतिः प्रमाणत्वेन नोपन्यस्ता । न चैवं सामान्याभावसिद्धिर्न स्यादिति वाच्यम् । तस्य गङ्गेश्वराद्युक्तरीत्या सिद्ध्युपपत्तेः । न चैवं वायौ रूपं नास्तीति प्रतीतेः सामान्याभावविषयत्वं न स्यादिति वाच्यम् । सामान्यप्रतीतेः सामान्यविषयत्वस्य बाधकैकापोद्यत्वेन वायौ रूपं नास्तीति प्रतीतेः सामान्याभावविषयत्वे बाधकाभावेन तदविषयत्वोपपत्तेः । न च प्रकृतेऽपि तथा । धर्मिप्रतियोगिज्ञानाज्ञानव्याघातरूपस्य बाधकस्य सत्वात् । नन्वत एवाज्ञानविषयत्वं कल्प्यतामिति चेन्न । विशेषविषयत्वेन चोपपत्तावतिरिक्तधर्म्यन्तराकल्पनात् । अज्ञान-विषयत्वानुपपत्तेश्च । तथा हि अज्ञानमपि न जानामीति ज्ञानसामान्यविधिनोपेततया प्रतीयत इति वक्तव्यम् । तथा च विरोधनिरूपकज्ञानाज्ञानाभ्यां व्याघातस्तुल्य एव । तथा च सामग्रीवैचित्र्ये कल्प्यमानेऽभाव एव तत्कल्प्यताम् । क्लृप्तत्वेन लाघवात् । न त्वतिरिक्तमज्ञानं कल्पनीयम् । गौरवात् ।

किं चाज्ञानज्ञाने विद्यमाने कथं ज्ञानसामान्यविरोध्यज्ञानम् । न चाज्ञानं वृत्तिरूपविशेषज्ञानविरोधि न ज्ञानसामान्यविरोधीति वाच्यम् । न जानामीति सामान्य-विरोधित्वस्यैव प्रतीतेः । सामान्यविरोधित्वेन प्रतीयमानमपि बाधकात् विशेषविरोधीति कल्प्यते । तर्हि बाधकादेकसामान्यतोऽभावप्रतीतिरपि विशेषविषयेत्यस्तु ।

किञ्च वृत्तिरूपज्ञानस्य निरूपकत्वे तज्ज्ञानं वक्तव्यम् । तस्य च विषयनिरूप्यतया तद्विषयोऽपि ज्ञात इति कथं तत्राज्ञानम् ? न च निरूपकतद्विषयाज्ञानज्ञानं साक्षिरूप-मतस्तस्मिन्विद्यमानेऽपि वृत्तिरूपविरोधिज्ञानाभावात् ज्ञानं युक्तमिति वाच्यम् । तर्ह्य-ज्ञानज्ञानं तत्प्रतियोगितद्विषयज्ञानमपि साक्षिरूपमिति न काचिदनुपपत्तिः । न चायम-भाव अनुपलब्ध इति वाच्यम् । अभावस्याप्रत्यक्षत्वे साक्षात्करोमीत्यनुभवायोगात् । अभावस्य प्रतियोगिग्राहकग्राह्यत्वनियमाच्च । प्रतियोगिनोऽज्ञानस्य साक्षिवेद्यत्वे तदभावस्यापि तत्त्वमुचितमेव ।

ननु विषयाज्ञानम् अनुभूय पुरुषस्तन्निवृत्यर्थं तद्विचारे प्रवर्तते इति सर्वानुभव-सिद्धम् । तद्यदि ज्ञानाभावो न जानमीति प्रतीतेः विषयः स्यात्तदा ज्ञातेऽपि तथा प्रतीत्यापत्तिः । तद्विचारार्थं प्रवृत्यापत्तिरिति चेन्न । अज्ञानस्य ज्ञानविराधित्वेन प्रतीत्या निरूपकज्ञानावश्यकतया दूषणसाम्यात् । वक्ष्यमाणरीत्या सामान्यतो ज्ञाने विशेष-ज्ञानाभावसम्भवेन विशेषनिश्चयार्थं प्रवृत्याद्युपपत्तेश्च । तथा च मयि ज्ञानं नास्तीति प्रतीतौ नाज्ञानं विषयः । किन्तु ज्ञानाभावो विषय इति अहमज्ञ इत्यत्रापि ज्ञानाभाव एव विषय इति साधूक्तम् ।

एतेन भावरूपाज्ञानं च सर्ववृत्त्यधिष्ठानतया तत्र ज्ञानबुद्धिप्रयोजकज्ञानत्व-सामान्यभूतचैतन्यं निवर्त्यम् । चैतन्यं चैकमेवेति ज्ञानसामान्यविरोधीति निरस्तम् । चैतन्यरूपे ज्ञाने विद्यमानेऽप्यज्ञानानिवृत्तेस्तस्य ज्ञानसामान्यविरोधित्वाभावात् । चैतन्यरूपस्य साक्षिणो ज्ञानसाधकतया तद्विरोधित्वानुपपत्तेश्च । चैतन्यस्य ज्ञानत्वरूपत्वे प्रमाणाभावाच्च । वृत्तौ सत्यामेव घटं जानामीति प्रत्ययाद् वृत्तेरेव चैतन्ये ज्ञान-व्यवहारप्रयोजकत्वमिति वैपरीत्यापत्तेश्च ।। भावरूपाज्ञानवादेऽपीति ।।

ननु श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानरूपस्य प्रतियोगिनो ज्ञानाज्ञानाभ्यां नाऽत्र व्याहतिः । न हि श्रवणादिसाध्यमोक्षहेतुत्वप्रकारकं ज्ञानं ब्रह्मज्ञानम् । ब्रह्मज्ञानमपि वा तत्र मोक्षहेतुर्न वा श्रवणादिसाध्यमतः प्रतियोगिनोऽभावेन प्रागभावसम्भव इति चेन्न । प्रतियोगिज्ञानस्य ब्रह्मज्ञानत्वे मोक्षहेतुत्वस्याप्यावश्यकत्वात् । ‘‘ब्रह्मविदाप्नोति परम्’’ इति ब्रह्मज्ञानम् तस्य मोक्षहेतुत्वावगमात् । न च ब्रह्मसाक्षात्कारस्तद्धेतुरिति वाच्यम् । उक्तज्ञानज्ञानस्य साक्षिवेद्यत्वेन तज्ज्ञानविषयविषयस्यापि साक्षात्कारसम्भवात् । तज्ज्ञानस्य साक्षिवेद्यत्वानङ्गीकारे ज्ञानमप्रामाणिकमेव स्यात् । ज्ञानस्यापि अबुबुत्सित-तयाङ्गत्वेन सुखादिवत् ज्ञातैकसत्वाच्च । ब्रह्मज्ञानत्वेनैव श्रवणादिसाध्यत्वस्याप्यापादनात् । एवं च श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञाने कथं प्रागभाव इति व्याहतिरेवोत्पाद्या ।

यद्वा शाब्दादिसाधारणब्रह्मज्ञानप्रागभावस्य सत्वात् तज्ज्ञाने प्रतियोगिविशेषज्ञाना-ज्ञानाभ्यां व्याहतिरित्यनेन ग्रन्थेनोपलक्षणाददोषः । न च प्रागभावस्य सामान्या-भावाभावशाब्दज्ञानं नास्तीति प्रतीयमानाभावस्य शाब्दज्ञाने विद्यमाने सम्भवात् शाब्द-ज्ञानपदं शाब्दज्ञानविशेषपरम् । अतो न व्याघात इति वाच्यम् । तथा सति न हि ज्ञानं नास्तीति तथैवेति प्रतिबन्दिमात्रे तात्पर्यात् । घटज्ञानप्रागभावादेरप्युपलक्षणमेतत् । तत्रापि घटज्ञानज्ञाने घटज्ञानस्य वृत्तत्वात् प्रागभावासम्भवो ज्ञाने प्रतियोगिज्ञानाभावात् प्रागभावज्ञानासम्भव इति व्याहतेः साम्यात् । प्रागभाव एव नास्ति तज्ज्ञानं वा नास्तीति तु निरसिष्यते ।। वृत्तिज्ञानस्येति ।। उपलक्षणमेतत् । अज्ञानस्यापि विषय-निरूप्यतया तज्ज्ञानाज्ञानाभ्यां ज्ञानं दुष्करमिति न तेन प्रागभावानुमानम् । लिङ्गज्ञाना-भावेऽनुमानासम्भवादिति द्रष्टव्यम् ।। अनुपलब्ध्या वेति ।। पररीत्या स्वमतेऽनुप-लब्धेरप्रमाणत्वात् ।। झटितीति ।। तथा च यदाऽज्ञानं प्रतीतं तदैव प्रागभावोऽपि प्रतीत सति न तयोः लिङ्गलिङ्गिभाव इति भावः । तद्दूषणं तु स्वव्याहतत्वेन जात्युत्तरमित्याह ।। अपि चेति ।।

ननु यद्यज्ञानं ज्ञानविरोधित्वेन प्रतीयते तर्हि मुग्धोऽस्मीत्यादौ विरोधभावार्थं नञ् उल्लेखः स्यादित्यत आह ।। मुग्धोऽस्मीत्यादौ त्विति ।। नन्वज्ञानं प्रकारान्तरेण प्रतीयते यदा तदा ज्ञानविरोधित्वेन न प्रतीयत इति तत्प्रतीतौ न विरोधनिरूपक-ज्ञानाज्ञानाभ्यां व्याघातः । अभावस्तु यदा प्रतीयते तदा धर्मिप्रतियोगिसापेक्ष एव प्रतीयत इति तत्र व्याघात एवेत्यत आह ।। ज्ञानाभावोऽपि हीति ।। तथा चाज्ञान-प्रतीतिसाम्यमेवाभावप्रतीतेरिति भावः ।। क्लृप्तावयवशक्त्यैवेति ।। प्रोक्षण्यधिकरण-न्यायेनेति भावः ।

ननु बहुलप्रयोगादिना रूढिरवश्याभ्युपेया । अन्यथा पङ्कजादिशब्दानामपि रूढि-र्नाङ्गीकर्तव्या । योगस्यातिप्रसक्तत्वात् । तत्परिहारार्थं रूढिरभ्युपगम्यते चेत्तुल्यं प्रकृतेऽ-पीत्यत आह ।। शब्दाप्रयोगेऽपीति ।। तथा च शब्दजन्यप्रतीतौ विरोधाभावेऽपि प्रत्यक्षजन्यप्रतीतौ तद्भानमावश्यकमिति तत्र व्याघात एवेति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति ।। एवं चेति ।।

किञ्च मास्तु विरोधनिरूपकज्ञानाज्ञानाभ्यां व्याघातोऽज्ञानावच्छेदकज्ञानाज्ञानाभ्यां तु सत्वात् अवच्छिन्नज्ञानेऽवच्छेदकस्य ज्ञानस्य कारणत्वात् । अन्यथा प्रतियोगिज्ञानादिक-मप्यभावज्ञानकारणं न स्यात् । यद्यन्वयव्यतिरेकाभ्यां प्रतियोग्यादिज्ञानम् अभावज्ञान-कारणं तदा ससम्बन्धिकपदार्थज्ञाने सम्बन्धितावच्छेदकप्रकारकसम्बन्धिज्ञानस्य कारण-त्वात् तादृशज्ञाने कथमज्ञानम् ? न च सम्बन्धीति गौरवात्त्याज्यमिति वाच्यम् । सम्बन्धितावच्छेदकप्रकारकज्ञानस्यैव तद्विरोधित्वादित्याह ।। अपि चेति ।। सममिति ।। धर्मिप्रतियोग्यादिज्ञानस्यापि साक्षिरूपत्वादिति भावः ।

ननु तथाऽपि ज्ञानसामान्ये विद्यमाने कथं तदभावः ? सामान्याभावस्य यत्किञ्चि-त्प्रतियोगिसत्वविरोधित्वादित्यत आह ।। न जानामीति धीस्त्विति ।।

ननु सामान्याभावविषयतया प्रतीयमानस्य कथं विशेषाभाविषयेतेति चेत्तर्हि ज्ञानसामान्यविरोधितया प्रतीयमानस्य कथं वृत्तिरूपज्ञानविशेषविरोधित्वम् । ज्ञान-सामान्यविरोधित्वासम्भवादिति । यदि तदेतदत्रापि तुल्यम् । न चैवमुभयत्राप्यनु-पपत्तिसाम्येऽभावविषयत्वे किं बीजमिति चेदभावस्य क्लृप्तत्वेन तद्विषयत्वे लाघवम्, अज्ञानविषयत्वे गौरवमिति विभावय ।

एतेनैव त्वदुक्तमर्थं न जानामीत्यादिप्रतीतिरपि नाज्ञानविषयेति समाहितम् । तत्राप्यज्ञानावच्छेदकज्ञानाज्ञानाभ्यां अज्ञानज्ञानस्य व्याहतत्वात् । ननु सामान्यतोऽ-वच्छेदकज्ञानमेवावच्छिन्नज्ञाने कारणम् । तेन सामान्याकारेणावच्छेदके ज्ञातेऽपि विशेषा-ज्ञानं सम्भवति । न च येन रूपेणाज्ञानं तेन रूपेण ज्ञानं कारणमिति वाच्यम् । विशेषाज्ञानज्ञानेऽन्वयव्यतिरेकाभ्यां सामान्येनैवावच्छेदकज्ञानस्य हेतुत्वात् । अन्यथाऽ-सम्भवात् । तथा च न व्याघात इति चेत् तुल्यमेतत्सर्वमभावज्ञानेऽपीत्याह ।। तस्मादिति ।।

नन्वेतावता सामान्यतः प्रतियोगिज्ञाने अज्ञानविशेषावच्छिन्नप्रतियोगिकाभावज्ञान-मिति पर्यवसितम् । तच्चायुक्तम् । प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्याभावज्ञाने कारणत्वात् । अन्यथा प्रमेयत्वेन घटज्ञाने घटत्वेनाभावप्रतीतिः स्यादिति चेन्न । अज्ञानावच्छेदकस्याप्यज्ञानावच्छेदकतावच्छेदकप्रकारकज्ञानं कारणम् । अन्यथा प्रमेय-त्वेनावच्छेदकज्ञाने घटं न जानामीति प्रतीतिः स्यादिति तुल्यत्वात् । तत्र विशेषप्रकारकं ज्ञानं साक्षिरूपमिति यदि तदपि तुल्यमत एवाह ।। वृत्तिरूपविशेषज्ञानाभाव इति ।। यदि चान्यत्र तथाभावेऽपि अज्ञानावच्छेदकस्य सामान्यज्ञानमेव कारणं तर्हि अन्यत्र प्रतियोगितावच्छेदकप्रकारकज्ञानस्य कारणत्वेऽपि ज्ञानाभावज्ञाने सामान्येनैव प्रतियोगि-ज्ञानं कारणमिति तुल्यम् । वस्तुतस्तु अभावज्ञाने प्रतियोगिनि भासमानधर्मप्रकारकमेव ज्ञानं कारणम् । एवं च प्रमेयत्वेन ज्ञानमादाय नातिप्रसङ्गः । प्रमेयत्वमात्रस्याभावज्ञाने प्रतियोगिन्यभावात् । न चाभावज्ञाने प्रतियोग्यंशे प्रतियोगितावच्छेदकमेव भासते न तदतिरिक्तमिति वाच्यम् । अप्रयोजकत्वात् । प्रतियोगितानवच्छेदकस्यापि प्रमेयत्वस्य प्रमेयो घटो नास्तीति प्रतियोग्यंशे भानाच्च । प्रथमघटे घटे रूपं नास्तीति प्रतियोगिता-नवच्छेदकस्य रूपत्वस्य भावाच्च । अत एव घटानुत्पत्तिदशायां विशेषाभावरूपस्यापि घटप्रागभावस्य घटो नास्तीति ज्ञानं सम्भवति । प्रतियोगितावच्छेदकस्यैव प्रतियोगिनि भावनियमाभावात् । न च प्रतियोगितावच्छेदकधर्मेण कथं प्रतियोगिताया धीरिति वाच्यम् । वह्नौ वैजात्यस्य तृणजन्यताग्रहोत्तरकल्प्यत्वेन वह्नित्वेनोपस्थिते तृणाजन्यता-ग्रहवत् यागजन्यतावच्छेदकेन स्वर्गत्वेनोपस्थिते यागजन्यताग्रहवत् इदं अभिधेयवत् प्रमेयादित्यत्राभिधेयनिरूपितव्याप्त्यनवच्छेदेनापि प्रमेयत्वेन व्याप्यत्वग्रहवच्च प्रतियोगिता-नवच्छेदकधर्मपुरस्कारेणापि प्रतियोगिताग्रहोपपत्तेः । न चैवं घटवत्यपि घटो नास्तीति प्रत्ययापत्तिरिति वाच्यम् । किं घटसामान्याभिप्रायेण वा घटविशेषाभिप्रायेण वा । नाद्यः । घटसामान्यस्य तत्रोपलब्धत्वेन सामान्याभिप्रायेण तादृशप्रत्ययासम्भवात् । न द्वितीयः । इष्टापत्तेः । विशेषाभिप्रायेण सामान्यव्यवहारस्य सकलजनसिद्धत्वात् । अत एव विशेषाभिप्रायेण मम धनं नास्तीति व्यवहरन्ति । न चैवं सामान्याभावसिद्धिर्न स्यात् । तत्प्रतीतेः सामान्यरूपेण विशेषाभावविषयत्वसम्भवादिति वाच्यम् । प्रतियोगिनि भासमानस्य प्रतियोगितावच्छेदकत्वस्य बाधके सत्येव त्याज्यत्वेन यत्र बाधकाभावस्तत्र सामान्यस्य प्रतियोगितावच्छेदकत्वेन सामान्याभावप्रतीतिसम्भवात् । न हि विशेष्यवति विशिष्टाभावो विशेषणाभावपर्यवसायीति सर्वत्र तथात्वेन विशिष्टाभाव-सिद्धिः । उभयाभाववति तत्प्रतीतेरबाधात् । विशिष्टाभावतुल्ययोगक्षेमत्वात्सामान्या-भावस्य । न च यावद्विशेषाभाविषयत्वेन तत्प्रतीत्युपपत्तौ सामान्याभावः किमर्थ-मङ्गीकर्तव्य इति वाच्यम् । अस्य सामान्याभाववादत्वेनाज्ञानवादत्वाभावात् । न हि सामान्याभावसिद्धावज्ञानसिद्धिः । येन तवेष्टं स्यात् । सामान्याभावाङ्गीकर्त्रापि विशेषा-भावाङ्गीकारे यावद्विषयत्वेनाज्ञानप्रतीतेरुपपादयितुमशक्यत्वात् । किं वा प्रसिद्धरूपाभावे वायौ निश्चिते वायौ रूपं न वा वायू रूपवान्न वेति संशयस्यानुभवसिद्धत्वात् । तत्कोटित्वेन सामान्याभावसिद्धिः । न च यावद्विशेषाभावानामेव संशयकोटित्वमिति वाच्यम् । तेषां निश्चितत्वेन संशयकोटित्वासम्भवात् । न चैतावन्त्येव रूपाणीति निश्चयदशायां संशयाभाव आपाद्यते उत तदनिश्चयदशायाम् । नाद्यः । इष्टापत्तेः । न द्वितीयः । अतिरिक्तरूपसम्भावनया तादृशसंशयोपपत्तेः । उक्तसम्भावनाविरहसहकृतस्य यावद्विशेषाभावनिश्चयस्य प्रतिबन्धकत्वादिति वाच्यम् । उक्तरूपप्रतिबन्धकल्पने माना-भावात् । एतावन्त्येव रूपाणीति निश्चयदशायामपि अस्य संशयस्यानुभवसिद्धत्वाच्च ।

ननु यथा रूपं रूपत्वेन एककोटितया भासते तथा यावद्विशेषाभावोऽप्यनिश्चितेन रूपेण संशयकोटिरस्तु । अन्यथा रूपमप्यतिरिक्तं स्वीकर्तव्यमिति चेन्न । अनिश्चितं हि रूपं न रूपाभावत्वम् । विशेषाभावप्रतियोगिनि रूपत्वनिश्चयेन रूपत्वोपहिताभावत्वस्य निश्चितत्वात् । न च रूपत्वावच्छिन्नप्रतियोगिकाभावत्वमनिश्चितमेवेति वाच्यम् । तस्यानिश्चितत्वेऽपि विशेषाभावे रूपत्वावच्छिन्नाभावत्वाभावेन तेन रूपेण विशेषाभावस्य संशयविषयत्वासम्भवात् । विशेषाभावो हि तत्तद्रूपत्वावच्छिन्नप्रतियोगिकः न तु रूपत्वावच्छिन्नप्रतियोगिकः । न हि तत्तद्रूपत्वावच्छिन्नं तत्तद्रूपं रूपत्वावच्छिन्नं रूपं तु रूपत्वावच्छिन्नमिति न रूपप्रतिबन्धीगृहः । अतो विशेषाभावस्य संशयकोटित्वासम्भवात् संशयकोटित्वेन सामान्याभावः स्वीकर्तव्यः । अत एव गङ्गेश्वरेणापि तथैव विभावितम् । न चात्र संशये संशयकोटित्वेन भासमानाभावप्रतियोगिनि भासमानरूपत्वस्यावच्छेदकत्वं न भासत इति वाच्यम् । बाधकाभावे प्रतियोगिनि भासमानस्य स्वरूपसम्बन्धविशेष-रूपावच्छेदकत्त्वभासनियमात् । अत एव बाधकबलात् प्रतियोगिनि भासमानस्य नावच्छेदकत्वमित्युक्तम् ।

एवं हि ‘घटो भूतः’ इत्यत्रापि क्रियातीततैव भासते । अन्यथाऽनन्तध्वंसस्य तद्दिन-वर्त्तित्वेनाद्य ‘भूतः’ इति प्रतीतिप्रसङ्गात् । अतीतता च प्रतियोगितप्रागभावानाधार-समयसम्बन्धिता । प्रागभावत्वं च कादाचित्काभावत्वं प्रतियोगिजनकाभावत्वं वा । जनकत्वं चानन्यथासिद्धनियतपूर्ववृत्तित्वम् । पूर्ववृत्तित्वं च प्रागभावपरिमितसमय-वृत्तित्वम् । अतो न प्रागभावादावव्याप्तिः । सर्वथा निर्वचनासामर्थ्ये स्वरूपसम्बन्ध-विशेषपर्यन्तानुसरणात् । अन्यथा सर्वत्र तस्यैव लक्षणत्वापत्त्याऽविद्यालक्षणनिर्वचन-स्यायुक्तत्वप्रसङ्गाच्चेति । सर्वस्य वक्तुं शक्यत्वेन ध्वंसोऽपि न सिद्ध्येत् । ओति पदाप्रयोगश्च परदिनवर्त्तित्वव्यावृत्तिप्रतीतिर्मा भूदित्येतदर्थमिति वक्तुं शक्यत्वाच्च । यदि चैतादृशातीतताविषयत्वापेक्षया ध्वंसविषयत्वं सिद्ध्यति तर्हि तादृशभविष्यत्तापेक्षया प्रागभावविषयत्वं लघ्विति समम् ।

न च तत्त्वज्ञानव्यतिरेके ब्रह्ममात्राविद्यानिवृत्तिव्यतिरेक इति सम्भवति । ब्रह्मणोऽ-नित्यत्वप्रसङ्गात् । न च ‘घटो भूत’ इति प्रतीतिबलात् ध्वंसोऽङ्गीकार्य इति वाच्यम् । तर्हि घटो भविष्यतीति प्रतीतिबलात् प्रागभावोऽपि स्वीकर्तव्यः । ननु तत्र प्रागभावो न विषयः । किन्तु क्रिया भविष्यत्येव । अन्यथा दिनान्तरोत्पत्स्यमानघटे एव दिनवर्त्ति-प्रागभावप्रतियोगित्वेनाद्य घटो भविष्यतीति प्रतीतिप्रसङ्गः । न च भविष्यत्ता प्रागभाव-मन्तरेण दुर्निरूपेति वाच्यम् । प्रतियोगितद्ध्वंसानाधारकालसम्बन्धित्वस्य भविष्यत्त्वस्य निर्वक्तुं शक्यत्वात् । न च ध्वंसत्वं प्रागभावप्रतियोग्यभावत्वमेवेति प्रागभावाङ्गीकार एवेति वाच्यम् । ध्वंसत्वस्य प्रतियोग्यजनकाभावत्वेन कादाचित्काभावत्वेन वा निर्वक्तुं शक्यत्वात् । न च जनकत्वं प्रागभावगर्भमिति वाच्यम् । तस्य स्वरूपसम्बन्ध-विशेषत्वात् । अन्यथा प्रागभावादावव्याप्तेरिति चेत् । मैवम् । माऽस्तु वा सामान्या-भावः । तथाऽपि नास्माकं क्षतिः । प्रागभावादीनामेव विशेषाभावानां सामान्येन रूपेण ‘अहमज्ञ’ इत्यादौ प्रतीतिसम्भवादित्युक्तमेव । प्रतियोगिनि भासमानस्य प्रतियोगिता-वच्छेदकत्वनियमो नेत्यपि प्रतिपादितमेवेति ।

नन्वेवं ज्ञानप्रागभावविषयत्वेन ‘अहमज्ञः’ इत्यादीनाम् उपपत्तिरिति वाच्यम् । तन्न युज्यते । प्रागभावसत्त्वे प्रमाणाभावेन तस्याभावादिति चेत्, तर्हि ध्वंसोऽपि न स्यात् । न चेष्टापत्तिः । ध्वंसानङ्गीकारे अविद्यानिवृत्तिरूपमोक्षाभावे तदर्थं शास्त्रप्रणयनादौ न प्रवर्तेत । न चाज्ञानध्वंसो ब्रह्मस्वरूप एवेति वाच्यम् । तथात्वे मोक्षस्य नित्यसिद्धत्वेन संसारानुपलम्भप्रसङ्गात् । तत्त्वज्ञानसाध्यत्वानुपपत्तेश्च । न च योगक्षेमसाधारणं जन्यत्व-मिहाप्यस्तीति वाच्यम् । यस्मिन् सत्यग्रिमक्षणे यत्सत्त्वं, यदभावे चासत्त्वं, तत्तेन गग्यम् । विपक्षबाधकस्य उक्तत्वात् । अनेनैतदपि निरस्तम् । सामान्याभावस्वीकारे त्रयं कल्प्यम् । सामान्याभावस्तस्य सामान्यावच्छिन्नप्रतियोगिकत्वं, तत्तदधिकरणसम्बन्ध इति । तदनङ्गीकारे तत्प्रतीतेर्यावद्विशेषाभावानां सामान्यावच्छिन्नप्रतियोगिकत्वं तस्य व्यासज्यवृत्तित्वमिति द्वयमेव । तथा च लाघवादुत्तरपक्षः समीचीन इति न सामान्याभावसिद्धिरिति । प्रमतिसिद्धेऽर्थे गौरवस्यादोषत्वात् । अनेकेषां विषयत्वे कारणत्वे च गौरवमिति वैपरीत्याच्च । सामान्यावच्छिन्नप्रतियोगिकत्वस्य व्यासज्यवृत्तित्वे द्वित्वादिवदनेकप्रतीतावेव प्रतीतिप्रसङ्गाच्च । तादृशस्यापि व्यासज्यवृत्तित्वे घटत्वस्यापि तत्त्वप्रसङ्गाच्च । विशेषावच्छिन्नानां सामान्यावच्छिन्नत्वस्याप्रामाणिकत्वाच्च । तस्मात् सामान्याभावसिद्धिरप्रत्यूहैवेति । अत एवावृत्तिगगनादीनामेक एवाभाव इति परास्तम् । ‘‘गगनमिह नास्ति’’ इति प्रतीयमानस्यापराभावत्वसम्भवादित्यलमतिविस्तरेण ।

तादात्म्यस्यावच्छेदकत्वे मानाभाव इति वाच्यम् । घटः पटो नेति प्रतीतेरेव मानत्वात् । अन्यथा घटस्याभावप्रतियोगित्वेऽपि प्रमाणाभावः स्यात् । न त्वत्र घटत्वस्य प्रतियोगितावच्छेदकत्वे बाधकं पश्यामः । न चावच्छेदकभेदस्याभावभेदनिया-मकत्वं लिङ्गविधया तज्ज्ञापकत्वं, न तु तज्जनकत्वम् । तच्च न सम्भवति । विपक्षे बाधकतर्काभावेन सामानाधिकरण्याभावेन च व्याप्तेरसिद्धेरिति वाच्यम् । यदावच्छेदक-भेदस्तदा तदवच्छिन्नाभावभेद इति कालिकव्याप्तिसम्भवात् । मन्मते व्याप्तेरविनाभाव-रूपत्वेन सामानाधिकरण्याघटितत्वाच्च । भिन्नभिन्नाभावप्रतीतेरबाधितत्वेन विपक्ष-बाधकत्वसम्भवाच्च । यत्र तदितरधर्मावच्छिन्नप्रतियोगिताकत्वं तत्र तदवच्छिन्न-प्रतियोगिताकान्यत्वमिति दैशिकव्याप्तिरपि सम्भवति ।

किञ्चावच्छेदकभेदस्याभावभेदकत्वमवश्यं वाच्यम् । प्रतियोगिभेदस्य तत्त्वे प्रागभावादीनाञ्चतुर्णाम् ऐक्यं स्यात् । एवं च रूपत्वरूपप्रतियोगितावच्छेदकधर्मभान-नियमाभ्युपगमे सामान्याभावाद्यसिद्धिरूपबाधकाभावात् प्रतियोगितानवच्छेदकेनापि ज्ञान-त्वादिना रूपेण ज्ञानप्रागभावादिभानं युक्तमित्यहमज्ञ इत्यादिप्रतीतयो ज्ञानप्रागभाव-विषयत्वेन नाज्ञानविषया इति स्थितम् ।

नन्ववच्छेदकभेदेन कथमभावभेदः ? भिन्नानामवच्छेदकानां वक्तुमवशक्यत्वादिति चेन्न । क्वचित् तादात्म्यस्य क्वचित् संसर्गस्य क्वचित्पूर्वापरकालीनत्वादेश्चावच्छेदकभेदस्य सम्भवात् । न च संसर्गप्रतियोगिसाधारणमवच्छेदकत्वं दुर्वचमिति वाच्यम् । रूप-सम्बन्धविशेषत्वेन तस्य सुवचत्वात् । न च स्वरूपसम्बन्धत्वमपि दुर्वचमिति वाच्यम् । सम्बन्धान्तरमन्तराविशिष्टप्रत्ययजननयोग्यत्वस्य तत्त्वात् । न च नष्टो ध्वस्त इति प्रतीत्या ध्वंससिद्धिरिति वाच्यम् । तत्रापि क्रियाविशेषातीतताया एव विषयत्व-सम्भवात् । न च ध्वंसोऽप्रत्यक्षोऽपि तु अनुमीयत इति वाच्यम् । साक्षात्करो-मीत्यबाधितप्रत्ययात् । तत्प्रतिबद्धलिङ्गाभावाच्चेति । प्रागभावेऽपि तथा वक्तुं शक्यत्वाच्च । तस्माद्दुरुत्तराप्रतिबन्दितरङ्गिणीध्वंसो नाङ्गीक्रियत इति तु निराकृतमेव । किं वेदं मा भूत् इति इच्छाविषयतया प्रागभावसिद्धिः । न च प्रागभावस्यासाध्यतया इच्छाविषयत्वा-सम्भव इति वाच्यम् । योगक्षेमसाधारसाध्यत्वस्य तत्र सम्भवात् । प्रतियोगिजनक-विघटनेन तत्सम्बन्धस्यापि साध्यत्वाच्च । न चात्यन्ताभावविषयतयोपपत्तिरिति वाच्यम् । तस्य तत्सम्बन्धस्य चानादिनित्यत्वेनासाध्यत्वात् । अन्यथाऽत्यन्ताभावत्वस्य पारिभाषिकतापत्तेः । अपि चोत्पन्नस्य द्वितीयक्षणे पुनरुत्पत्यभावात्पूर्वक्षणे सामग््रयभावो वाच्यः । स च प्रागभावाभावादेव । अन्यहेतूनां सत्त्वादिति प्रागभावसिद्धिः । न च सामयिकात्यन्ताभावेनैवोपपत्तिरिति वाच्यम् । तस्य कादाचित्कत्वेऽत्यन्ताभावत्वस्य पारिभाषिकतापत्तेः । अनानि सान्तत्वे चेष्टस्यैव सिद्धेः । अनाद्यनन्तत्वे च पुनरुत्पत्ति-प्रसङ्गदोषातिवारणम् । न च घटस्यैव विरोधित्वात् नोत्पन्नस्य पुनरुत्पत्तिरिति वाच्यम् । विरोधिताया कारणविघटकत्वेनैव दृष्टत्वात् । तद्विघट्टकारणगवेषणायां प्रागभावे एव विश्रामात् । न च सामग्रीसत्त्वप्रयोजिका नोत्पत्ताविति वाच्यम् । सामग््रयभावेऽपि सत्त्वस्य दर्शनेनोत्पत्तावेव तस्याः प्रयोजकत्वात् । अन्यथा नित्येऽपि सामग्री-कल्पनापत्तेः । किञ्चोपादानत्वव्यवस्थार्थं प्रागभावस्य स्वीकरणमावश्यकम् । न च तन्तुत्वादिनैव तद्व्यवस्थेति वाच्यम् । तन्तुत्वादीनामनन्तत्वेन प्रागभावस्य कर्तृजन्यता-वच्छेदककार्यत्ववत् उपादानतावच्छेदकत्वात् तन्तुत्वादेश्च सर्वथा कार्याक्षमेऽपि सत्त्वे-नोपादानताव्यवस्थापकत्वाच्च । प्रागभावस्य च फलबलकल्प्यत्वेनानतिप्रसङ्गात् ।

किञ्च घटोत्पत्तावासन्नायामस्ति घटो नास्तीति प्रतीतिः । न च सा ध्वंस-विषयिणी । तदानीं तस्याभावात् । नाप्यत्यन्ताभावविषयिणी । तस्य सदा सत्वेन घटकालेऽपि प्रतीत्यापत्तेः । अभावभ्रमानुपपत्तेश्च । न च सा भ्रमः । बाधकाभावात् । तस्मात् प्रागभावविषयिण्येवेति सिद्धः प्रागभावः । न चोत्पत्तिक्षणावच्छिन्नघटात्यन्ता-भाव एव स इति वाच्यम् । दत्तोत्तरत्वात् । घटसत्त्वकालेऽपि तस्य सत्वेन तथाप्रतीत्यापत्तेश्च । प्रतियोगितावच्छेदकस्यैव प्रतियोगिनि भाननियमश्चोक्तप्रतीतिबलादेव त्याज्यः । उत्पादविनाशशीलात्यन्ताभावस्वीकरणं च गौरवादेव त्याज्यमिति संक्षेपः ।

एतेन सर्वे प्रागभावनिरसनप्रकाराः कण्ठकोलाहलरूपा इत्युपरम्यते । तथा च प्रागभावप्रतीतेरप्रत्यूहत्वात्तदविषयत्वेन अहमज्ञ इत्यादिप्रतीत्युपत्तेः साधूक्तं तस्मा-दित्यादिना ।। अपरे त्विति ।। न चैवं निर्विकल्पकविशेषज्ञानेऽपि तज्ज्ञानाभावप्रतीतिः स्यादिति वाच्यम् । निर्विकल्पकस्य खपुष्पतुल्यत्वात् । न चात्र प्रतियोगिज्ञानं न साक्षिणा । प्रतियोगिनोऽविद्यमानत्वात् । शाब्दं च तज्ज्ञानं विशेषप्रकारकमेवेति वाच्यम् । साक्षिणो विद्यमानमात्रस्यैव प्रतीयमानत्वादिति चिन्तनीयम् ।

किं च प्रागभावादिर्न कपाले घट इति विद्यमानताविरोधेन प्रतीयते । न तथाऽ-त्यन्ताभावः । तस्यान्यत्र विद्यमानताविरोधिविषयत्वानभ्युपगमेन तादृशप्रतियोगि-विषयत्वसम्भवात् । अन्यथा तस्य प्रामाण्यग्राहकत्वाभावे प्रामाण्यस्य परतस्त्वापत्तेः । प्रामाण्यस्याबाधितार्थकत्वरूपत्वेन अतीतादिघटितत्वात् । शाब्दज्ञानस्यापि विशेषप्रकार-त्वेऽपि येन रूपेण तदपेक्षितं तद्रूपेण प्रकारत्वाभावाच्च ।। प्रमेयत्वाद्याकारेणेति ।। अतद्गुणसंविज्ञानबहुव्रीहिणा प्रतियोगिनिरूपकेऽर्थे भासमानप्रकारकज्ञानसम्भवादिति द्रष्टव्यम् ।। केचित्त्विति ।। न च त्वदुक्तस्य मदुक्ताद्व्यावर्तकत्वेन सामान्यतो व्यावर्तकधर्मविषयत्वस्य निषेधोऽशक्य इति वाच्यम् । न मया सामान्यतो व्यावर्तकधर्मविषयत्वं निषिध्यते । किन्तु करतलामलेकेत्याद्युक्त्याऽसाधारणव्यावर्तक-धर्मविषयत्वस्य निषेधात् । यादृशधर्मविषयत्वे सति तदधिकरणे साधारणे व्यवहारः केनाप्यभेदारोपो वा न भवति । अत एवाह ।। करतलेति ।। अन्ये त्विति ।। न चात्रापि साक्षात् त्वदुक्तार्थविषयप्रमाणज्ञानं प्रतियोगितज्ज्ञानं च न साक्षिणा । तस्य विद्यमानार्थविषयत्वात् । शब्दश्चार्थं बोधयन्नेव ज्ञानं बोधयतीति साक्षात् प्रमाणज्ञानस्य वृत्तत्वात्कथं तदभाव इति वाच्यम् । साक्षिणो विद्यमानमात्रविषयत्वनियमस्य प्रागेव दूषितत्वात् ।

किं च प्रतियोगितावच्छेदकप्रकारकज्ञानत्वेनैव हेतुता । न तु प्रतियोगिज्ञानत्वेन गौरवात् । तथा च तादृशज्ञानमन्यस्मिन्विद्यमाने साक्षिणा भविष्यतीति किमनुपपन्नम् । शब्देनापि ज्ञानविषयत्वेनैवार्थस्य बोधनसम्भवाच्च । साक्षादित्यस्यान्याविषयेत्यर्थात् । त्वदुक्तार्थविषयप्रमाणज्ञानमित्यादिशब्दादेश्च ज्ञानविशेषणतयैव अर्थज्ञानजनकत्वाच्च ।

किं च यत्र यत्र विशेषाज्ञानं प्रतीयते तत्र सर्वत्रार्थविशेष्यकविशेषविषयप्रकारक-ज्ञानाभावो वा अर्थसत्ताविश्चयरूपज्ञानाभावो वा निष्कम्प्रप्रवृत्तिजनकज्ञानाभावो वा विषय इति न कश्चित् क्षुद्रोपद्रवः । प्रतियोगिज्ञानं साक्षिरूपमानुमानिकं शाब्दं वा । घटो भवत्येवेत्यादिवत् । नार्थसत्ताविश्चयरूपम् । न वा निष्कम्प्रवृत्तिहेतुः । न वा घटविशेष्यकं घटत्वप्रकारकमिति हि सर्वसिद्धम् । तादृशत्वे वा तत्राज्ञानप्रतीतेरसिद्धेः । अत एव वादिवाक्यात् विशेषज्ञाने जातेऽपि तस्योक्तरूपत्वाभावात् न जानामीति व्यवहरन्ति इति सर्वमनवद्यम् । अत एव तादृशज्ञानप्रामाण्यग्राहिणाऽर्थतथात्वं विषयी-कृतमिति तस्यार्थरूपत्वमिति परास्तम् । तादृशज्ञानेऽर्थांशे प्रामाण्यसंशयेनार्थांशे साक्षिण-स्तथात्वानिश्चायकत्वात् । निश्चायकत्वे वा तत्राज्ञानप्रतीतेरसिद्धेरिति ।। किं चेति ।। नन्वनुमानादिना ज्ञानव्यावृत्तिरेव क्रियते । तेन त्वज्ञानं बोध्यते इति चेन्न । तद्बोधं विना तद्व्यावृत्तेः कर्तुमशक्यत्वात् । अनुमितेः व्यापकतावच्छेदकप्रकारकत्वनैयत्येना-ज्ञानाव्यावृत्तिबोधकत्वासम्भवाच्च । तद्व्यावृत्तेस्तत्रैव पर्यवसानाच्च । प्रत्यक्षादावप्येवमेव वक्तुं शक्यत्वाच्च । जानामीति व्यवहारस्योभयत्र तुल्यत्वात् । समानन्यायेन शब्दस्यापि तदबोधकत्वेऽतीन्द्रियाद्यसिद्धिप्रसङ्गाच्च । अज्ञानाद्यनिवृत्तौ परोक्षज्ञानेनेति शेषः ।। यदि चेति ।। व्यवहाराद्यविरोधिनोऽज्ञानत्वस्य पारिभाषिकत्वादिति भावः ।

नन्वपरोक्षस्थलेऽज्ञाननिवृत्त्यनङ्गीकारे चैतन्याभिव्यक्त्यभावेऽपरोक्षैकरसचैतन्य-सम्बन्धाभावविषयापरोक्ष्यं न स्यात् । विषयापरोक्ष्येऽन्यस्य प्रयोजकस्याभवादित्यत आह ।। विषयापरोक्ष्यं त्विति ।। वृत्तिमात्रस्य चैतन्याभिव्यक्तिहेतुत्वे परोक्षस्थलेऽपि तत्प्रसङ्गः । तथा च वृत्तिविशेषः स्वीकरणीय इति वृत्तिविशेषसम्बन्धादेव तत्सम्भवे चैतन्याभिव्यक्तेरप्रयोजकत्वमिति भावः ।। परोक्षवृत्त्येति ।। भ्रमस्याज्ञानोपादानत्वेन तन्निवृत्तिद्वारैव भ्रमनिवर्तकत्वादिति भावः ।। तस्येति ।। धर्माद्यज्ञानं निवृत्तमित्यनु-भवस्येत्यर्थः । ननु यदि परोक्षज्ञानमज्ञाननिवर्तकं तर्हि सोपाधिभ्रमो न स्यात् । उपादानाभावात् । अज्ञानस्य च परोक्षज्ञानेन नाशितत्वादित्यत आह ।। परोक्षत इति ।। आत्मादिकमेवोपादानमिति भावः ।। त्वन्मत इति ।। त्वयाऽन्तःकरणादेरुपा-दानत्वास्वीकारात् । अज्ञानस्य च नष्टत्वादिति भावः ।। अन्त्य इति ।। अज्ञान-विषयोऽज्ञानवृत्त्या न गृह्यत इति पक्ष इत्यर्थः । ननु मास्तु अहमज्ञ इत्याद्यज्ञाने प्रमाणम् । न किञ्चिदहमवेदिषमित्यनुभवस्तु स्यात् । तस्यान्यथोपपादयितुमशक्य-त्वादित्यत आह ।। न किञ्चिदिति ।। नन्वेवं भवन्मतेऽप्यज्ञानं न सिद्ध्येत् । सर्व-स्याप्यनुभवस्योक्तरीत्या ज्ञानाभावविषयत्वादिति चेन्न । जीवस्वरूपावरणान्यथानुप-पत्त्यादिनाऽज्ञानसिद्धिसम्भवात् । परमते च चैतन्यस्य निर्विशेषत्वेन तदसम्भवस्य वक्ष्यमाणत्वात् । तथा च नास्मत्प्रतिबन्दी ग्रहः ।

किञ्च कथञ्चिज्ज्ञानविरोधिपदार्थमात्रसिद्धावपि उक्तविशेषणत्रयविशिष्टस्य न सिद्धिः । उक्तप्रत्यक्षेऽन्यतमस्यापि विशेषणस्यास्फुरणात् । तत्रैव विवादात् । न हि ज्ञानविरोधिनि पदार्थे कस्यापि विवादः । तथा चोक्तलक्षणविशिष्टे प्रमाणप्रश्ने ज्ञानविरोधिनि प्रमाणोप-दर्शनमर्थान्तरग्रस्तमित्यपि बोध्यम् ।। भावरूपेति ।। न च सुषुप्तावज्ञानं नाज्ञानत्वेना-भूयत इति वाच्यम् । एवं हि सुतरां ज्ञानाभावविषयत्वं उपपन्नम् । ज्ञानाभावोऽपि नाभावत्वेन भासत इति वक्तुं शक्यत्वात् ।

ननु यथाकथञ्चिदप्यभावज्ञानं प्रतियोगिज्ञानसापेक्षमित्यत आह ।। अभाव-स्यापीति ।। न हि प्रमेयमित्यादिज्ञाने प्रतियोग्यादिज्ञानापेक्षेति भावः । किञ्चायं परामर्शः अनुमानमुत स्मरणम् । आद्ये ज्ञानाभाव एवानुमीयत इत्याह ।। यद्वेति ।। न च पक्षासम्भवात्कथमनुमानमिति वाच्यम् । तत्कालीनाहंपदार्थस्य पक्षत्वात् । न च कालविशेषासिद्धेः पक्षासिद्धिरिति वाच्यम् । सम्प्रतिपन्नोदयास्तमयकालवत् विवाद-पदयोरप्युदयास्तमययोरन्तरा कालानुमानसम्भवात् । विप्रतिपन्नौ उदयास्तमयावन्तरा-कालयुक्तौ उदयास्तमयत्वात् सम्प्रतिपन्नोदयास्तमयवदित्यनुमानात् ।

यद्वा कालस्य तद्विशेषस्य वा केवलसाक्षिवेद्यत्वस्यान्यत्रोक्तत्वेन साक्षिणा काल-विशेषसिद्धिसम्भवात् । न च तथाऽत्र ज्ञाने विद्यमाने कथं ज्ञानाभावानुमेति वाच्यम् । विशेषज्ञानाभावानुमानसम्भवात् । ननु तथापि हेतोरभावात् कथमनुमानमत आह ।। अवस्थाविशेषत्वस्यापीति ।। अत्रैवं प्रयोगः । तत्कालीनोऽहं ज्ञानाभाववान् अवस्था-विशेषवत्वात् ज्ञानसामान्यविरहवत्वात् । तुल्ययोगक्षेम आत्मादौ स्मर्यमाणेऽपि तद्वत्तया नियमेनास्मर्यमाणत्वात् वेति ।

नन्ववस्थाविशेषवत्त्वं नाम ज्ञानाभावत्वम् । अन्यस्य दुर्निरूपत्वात् । तथा च हेतोः साध्याविशेष इति चेन्न । कालविशेषरूपस्त्रुट्यपरनामकावस्थाविशेषस्य निर्वक्तुं शक्य-त्वाच्च । कालविशेषश्च साक्षिसिद्ध इति पूर्वमेवोक्तम् । अत एव पक्षविशेषणासिद्धि-रप्यपास्ता । न च द्वितीयेऽसिद्धिः । ज्ञानाभावेन च सामग्रीविरहानुमाने चान्योन्याश्रय इति वाच्यम् । इदानीन्तनेनेन्द्रियसम्प्रसादेन पूर्वकालीनतदुपरममनुमाय तेन सामग्री-विरहानुमानसम्भवात् । न इन्द्रियसम्प्रसादः सुखानुभवहेतुको नोपरमहेतुक इति वाच्यम् । सुखानुभवहेतुकत्वेऽपि उपरमहेतुकत्वाविरोधात् । सुषुप्तौ सुखानुभवे विद्य-मानेऽपि इन्द्रियसम्प्रसादादर्शनाच्च ।

किञ्चेन्द्रियसम्प्रसादस्योन्मीलनादिव्यापाररूपतयोपरमस्य च तत्प्रागभावरूपतयाऽवश्यं सम्प्रसादस्योपरमहेतुत्वम् । तथा च तेन सामग्रीविरहानुमानसम्भवः । यद्वा इन्द्रियाणां स्वव्यापारत्वे तत्कार्यानुभवः स्यात् । तथा च तदन्यथानुपपत्त्या उपरमसिद्धौ सामग्रीविरहसिद्धिरिति ।

ननु तृतीये हेतौ नियमेनास्मर्यमाणत्वं किं यथाश्रुतम् । किं वा सुषुप्तिकाला-वच्छेदेन । नाद्योऽसिद्धेः । न द्वितीयः । अनुपेक्षणीयज्ञानाभावसिद्ध्यापत्तेस्तत्रैव व्यभिचाराच्चेति चेन्न । द्वितीयस्यैवाश्रयणीयत्वात् । यद्यदा यदवच्छेदेनैतत्तुल्ययोगक्षेमे स्मर्यमाणे नियमेन प्रतिबन्धाद्यभावेन स्मर्यते तत्तदा न ज्ञायत इति व्याप्तेरभिमतत्वात् । न ह्युपेक्षणीययोरेकं स्मर्यते नापरमिति सम्भवति । सत्यनुभवे उभयोरपि स्मरणात् । उपेक्षाज्ञानस्य संस्कारजनकत्वे तत्तुल्ययोगक्षेमस्य इति विशेषणाभावेन विशिष्टाभाव-सम्भवात् । न चैवं तदभावसिद्धिः कथम् । प्रकारान्तरेण तत्सिद्धिसम्भवात् । तद-सिद्धावनिष्टाभावाच्च । अत एव तत्र व्यभिचारोऽप्यपास्तः । विशेषणाभावेन तदविशिष्ट-हेत्वभावात् । अन्यथा प्रातरनुभूतचत्वरे गजाभावज्ञानं न स्यात् । न च तत्र ज्ञानानुप-लब्ध्याऽभावोऽनुमीयत इति वाच्यम् । अनुपलब्धिज्ञानोपायाभावात् । न च भावरूपा-ज्ञानमेव तत्र लिङ्गम् । तथा हि । अहं पूर्वकाले गजज्ञानाभाववान् गजाज्ञानवत्वात् यन्नैवं तन्नैवम् । यथा गजज्ञानवानहमिति वाच्यम् । भावरूपाज्ञानासिद्ध्या हेतोरसिद्धेः । जडे ज्ञानानङ्गीकाराच्च । अनुपलब्धे साक्षिवेद्यत्वेन तत्राज्ञानस्य लिङ्गत्वायुक्तेश्च । प्रकृतेऽपि ज्ञानुपलब्ध्या ज्ञानाभावानुमानसम्भवाच्चेति । नन्वयं परामर्शो नानुभवः अपि तु स्मरणमेवेति चेन्न । स्मरणस्य संस्कारजन्यत्वेन संस्काराभावे तदयोगात् । तदभावश्च जनकाभावात् । न च साक्षिरूपोऽनुभवः संस्कारजनक इति वाच्यम् । तस्य नित्यत्वेन तत्कार्यस्य कर्तुं शक्यतया तेन संस्काराजनकात् । न हि संस्कारः प्रत्यक्षसिद्धः । येन कार्याभावेऽपि कल्प्येत । तस्मान्नायं परामर्शः स्मरणम् ।

किञ्च सर्वांशे स्मरणं त्वन्मतेऽपि न सम्भवतीत्याह ।। त्वन्मत इति ।। सुप्तावह-मर्थस्य त्वया लयाङ्गीकारादिति भावः । सुषुप्ताविति विशिष्टस्य केवलादन्यभावादिति भावः । नन्वयं परामर्शः स्मरणमेव । न च साक्षिरूपज्ञानस्य नित्यत्वात् न संस्कार-जनकत्वम् । तथा च कथं स्मरणमिति वाच्यम् । अविद्याप्रतिबिम्बितचैतन्यस्य साक्षि-त्वाङ्गीकारादित्यत आह ।। सुषुप्ताविति ।। उपलक्षणमेतत् । वृत्तेरपि वृत्तिप्रतिबिम्बित-साक्षिवेद्यत्वेऽनवस्था चेत्यपि द्रष्टव्यम् ।। अन्यथेति ।। ज्ञानाभावाद्यनुमानाङ्गीकार इत्यर्थः ।। त्वन्मत इति ।। अज्ञानासिद्ध्याऽन्योन्याश्रयाच्चेत्यपि द्रष्टव्यम् । साक्षिवेद्य इति तत्राज्ञानानङ्गीकारादिति भावः ।। एवमिति ।। यद्यज्ञानेन लिङ्गेन ज्ञानाभावोऽनुमीयत इत्यर्थः ।

यद्वा ज्ञानविरोधिनाऽज्ञानेनैव ज्ञानाभावसिद्धिर्नान्येन तदेत्यर्थः ।। प्रकाशमानेनेति ।। तथा चात्मादिविषयकरागाभावो न सिद्ध्येदिति भावः । तत्र यदि प्रकारान्तरेण रागाभाव-सिद्धिस्तर्हि प्रकृतेऽपि ज्ञानाभावसिद्धिः प्रकारान्तरेणैवेति नाज्ञानं तत्र लिङ्गमिति भावः ।

न्यायामृतप्रकाशः

यच्चोक्तमहमज्ञ इति प्रत्यक्षं भावरूपाज्ञानसद्भावे मानमिति तदयुक्तम् । तस्य ज्ञाना-भावविषयकत्वस्य त्वयाप्यवश्यं वाच्यत्वादित्यभिप्रेत्याह ।। यच्चेत्यादिना ।।  अहमर्थ-स्येति ।। अहमज्ञ इति प्रतीतेः प्रामाण्याय ज्ञानाभावविषयकत्वं त्वयापि वाच्यम् । अन्यथा तस्याः प्रामाण्यमेव न स्यादिति भावः । अज्ञानानाश्रयेऽहमर्थेऽज्ञानाश्रयत्वाव-गाहित्वादिति भावः । किं च न जानामीति प्रतीतेर्ज्ञानाभाविविषयकत्वं कुत्रचित्त्वयापि वाच्यं तन्न्यायेन ज्ञानाभावविषयकत्वमेव सर्वत्रास्त्वित्याह ।। साक्षीति ।। साक्षिवेद्ये प्रातिभासिके अज्ञानसुखादौ शुक्तिरूप्यादौ च भावरूपाज्ञानं नाङ्गीकृतम् अज्ञानसुखा-द्यावरकाज्ञानांङ्गीकारे साक्षिरूपशुद्धचैतन्यस्याज्ञानानिवर्तकत्वादन्तःकरणवृत्तेरेव तन्निवर्त-कत्वात्तस्याश्च सुखादिविषयेऽभावात्तन्निवृत्तिरेव न स्यात् । ततश्च तज्ज्ञानमेव न स्यात् । अतस्तदभावे सुखं न जानामीत्यादेर्भावरूपाज्ञानविषयकत्वेऽप्रामाण्यप्राप्त्या तत्प्रामाण्याय ज्ञानाभावविषयकत्वमेवाङ्गीकार्यमिति भावः ।। तथात्वाच्चेति ।। ज्ञानाभावविषयकत्वस्यैव वक्तव्यत्वादित्यर्थः । किं च न जानामीति प्रत्यक्षस्य सर्वत्रापि भावरूपाज्ञानविषयकत्वे परोक्षतो ज्ञातेऽपि धर्मादौ न जानामीत्यनुभवः स्यात् भावरूपाज्ञानसद्भावात् । न च परोक्षज्ञानेनाज्ञानस्य निवृत्तत्वात्तथाऽनुभवाभाव इति वाच्यम् । त्वन्मते परोक्षवृत्तेर-ज्ञानानिवर्तकत्वात् । तथात्वेऽज्ञानस्य निवृत्तत्वेनापरोक्षचित्सम्बन्धाद्विषयस्याप्यापरोक्ष्यं स्यात् । अतो ज्ञानाभावविषयकत्वमेव वाच्यं परोक्षज्ञानेन तु ज्ञानाभावस्य निवृत्तत्वान्न जानामीति व्यवहाराभावो युक्तः । तथा च तन्न्यायेन सर्वत्रापि ज्ञानाभावविषयकत्व-मस्त्वित्याशयेनाह ।। त्वन्मत इति ।। किं च त्वदुक्तमर्थं न जानामीत्यादेः प्रत्यक्षस्य ज्ञानाभाववियकत्वमेव वाच्यं न भावरूपाज्ञानविषयकत्वं तथात्वेऽप्रामाण्यापत्तेः । त्वन्मते अज्ञानस्य विषयावरकतया विषयगतत्वाङ्गीकारात् जडे च प्रकाशप्रसक्तेरेवाभावेन प्राप्त-प्रकाशप्रतिबन्धरूपावरणकृत्यभावेन भावरूपाज्ञानायोगात् । अतो भावरूपाज्ञानाभाववत्यर्थे तदवगाहित्वे प्रत्यक्षस्याप्रामाण्यापत्त्या तत्प्रामाण्याय ज्ञानाभावविषयकत्वमेव वाच्यमित्याह ।। त्वन्मत इति ।। जडे विषये । अज्ञानस्येति शेषः । आवरणरूपो योऽतिशयः फलं-कृत्यमिति यावत् ।। विक्षेपेति ।। तदाकारप्रतिभासरूपेत्यर्थः ।। न जानामीति ।। तथा च भावरूपाज्ञानविषयकत्वेनैव प्रामाण्यमस्त्विति भावः ।

।। विक्षेपेति ।। घटाद्यतदाकारप्रतिभासरूपकार्यसद्भावेन तत्कारणतया भावरूपाज्ञान-सत्वमङ्गीकार्यं तथा च घटं न जानामीत्यनुभवः स्यादिति भावः । नन्विदमयुक्तम् अपरोक्षतो घटत्वेन ज्ञातत्वेन योग्यतानिश्चयात्तत्र प्रयुज्यमानं वाक्यम् अयोग्यतानिश्चयेन स्वार्थाबोधकमिति विक्षेपकारी नेति चेत् सत्यम् । एवं हीदं योज्यम् । अपरोक्षत एकेन घटो घटत्वेन ज्ञातः अयं घट इति वाक्याभासाच्च विक्षेपरूपं कार्यं येन घटोऽपरोक्षतो घटत्वेन ज्ञातस्तस्यायोग्यतानिश्चयाभावो न सम्भवत्येव ततश्च घटे विक्षेपरूपकृत्य-सद्भावेनाज्ञानस्थितिप्राप्त्या येन घटत्वेनापरोक्षतो घटो ज्ञातस्तस्यापि घटं न जानामीत्यनु-भवः स्याद्विषयेऽज्ञानस्य सत्वादित्यर्थः इत्याहुः । यस्य विक्षेपस्तस्य भवत्येवायमनुभवः यस्यापरोक्षतो निश्चयस्तस्य तु भवत्येवेति कथमेतदिति विचार्यमस्ति ।। जडे विषये न जानामीति ।। जडे आवरणरूपकृत्याभावेन तत्राज्ञानाभावेऽपि जडावच्छिन्नचैतन्ये एव मयाऽज्ञानाङ्गीकारात् तस्य स्वप्रकाशत्वेन प्रकाशप्रसक्तौ तत्प्रतिबन्धकतया आवरणकृत्य-सद्भावात् । तथा च त्वदुक्तमर्थं न जानामीत्यादेर्भावरूपाज्ञानाविषयकत्वमेव सम्भवतीति भावः ।। निरसिष्यमाणत्वादिति ।। अज्ञानसिद्धौ जडसिद्ध्या तदवच्छिन्नचैतन्यसिद्धिः तत्सिद्धौ च तद्विषयाज्ञानसिद्धिरित्यन्योन्याश्रयत्वेनेत्यर्थः ।। वृत्तिरिति ।। अज्ञानावृत-चैतन्यमेवाधिष्ठानं तस्य चासङ्गत्वेन विषयसम्बन्धाभावाद्वृत्तिश्चितोविषयोपरागमात्रमेव करोति नाज्ञानं नाशयतीति मते जडावच्छिन्नेऽनावृतचैतन्ये तदावरकाज्ञानाभावेन त्वदुक्तमर्थं न जानामीत्यादिप्रत्यक्षस्य ज्ञानाभावविषयकत्वमेवेति वाच्यम् । अन्यथाऽप्रामाण्यापत्तेरित्यर्थः ।। भावरूपेत्यादि ।। अहमज्ञ इति भावरूपाज्ञानविषयकतया त्वदभिमतस्य प्रत्यक्षस्य मयि ज्ञानं नास्तीति ज्ञानाभावविषयकप्रत्यक्षस्य च न विषयभेदः प्रतीयते किं तु अघटं भूतलं भूतले घटो नास्तीति प्रत्यक्षयोर्यथा एकत्र घटाभावो विशेषणं भूतलं विशेष्यम् अपरत्र तु भूतलं विशेषणं घटाभावो विशेष्यमिति विशेषणविशेष्यभावव्यत्यास एव प्रतीयते न विषयभेदः एवमिहापि एकत्राज्ञानं विशेषणम् आत्मा विशेष्यः अपरत्र तु आत्मा विशेषणं ज्ञानाभावो विशेष्य इति विशेषणविशेष्यभावव्यत्यास एव प्रतीयते न विषयभेदः तत्र व्यतिरेकेण दृष्टान्तः ।। इच्छेति ।। यथा इच्छाद्वेषाभावज्ञानयोरिच्छा द्वेषाभावरूपो विषयभेदः प्रतीयते तथा नेत्यर्थः । एवं चाहमज्ञ इति प्रतीतेर्मयि ज्ञानं नास्तीत्यत्र प्रतीयमानज्ञानाभावातिरिक्ताज्ञानविषयकत्वाङ्गीकारेऽघटं भूतलमिति प्रतीतेरपि भूतले घटो नास्तीत्यत्र प्रतीयमानात् घटाभावादतिरिक्त एवाघटो विषय इत्यङ्गीक्रियतामित्यतिप्रसङ्गः सूचितो भवतीति ध्येयम् ।। प्रतियोगीति ।। अहमज्ञ इति प्रतीतेर्ब्रह्मज्ञानाभावविषयकत्वे प्रतियोगिभूतज्ञानाज्ञाने ज्ञानाभावज्ञानानुपपत्त्या तज्ज्ञाने वाच्ये तस्य विषयनिरूप्यत्वेन विषयस्य ब्रह्मणोऽपि ज्ञातत्वात्तज्ज्ञानाभावज्ञानायोग इति दूषणमित्यर्थः । स्वव्याहति-मेवोपपादयति ।। भावरूपेति ।। इदानीमित्यादिविशेषणं ब्रह्मज्ञानप्रागभावसत्वावश्यकत्वो-पपादनायेति ज्ञातव्यम् । ब्रह्मज्ञानप्रागभावाभावे ब्रह्मज्ञानसद्भावप्राप्त्या इदानीं वेदान्त-श्रवणादेर्वैयर्थ्यापात इत्याशयः । तथा चेदानीं ब्रह्मज्ञानप्रागभावोऽस्तीति ज्ञात्वैव किल वेदान्तश्रवणाद्यनुष्ठीयते । तथा च प्रागभावस्य प्रतियोगिज्ञानाधीनज्ञानत्वेन प्रतियोगि-भूतब्रह्मज्ञानज्ञानाभावे प्रागभावस्य ज्ञातुमशक्यत्वात्तज्ज्ञाने वाच्ये तस्य विषयनिरूप्यत्वेन ब्रह्मणोऽपि ज्ञातत्वात्तज्ज्ञानाभावज्ञानं न प्रत्यक्षेण येन प्रतियोगिज्ञानापेक्षा स्यादिति स्वव्याहतमित्यर्थः । स्वव्याहतिमाशङ्क्य निराकरोति ।। न चेति ।।

अयमर्थः । ब्रह्मज्ञानाभावज्ञानं न प्रत्यक्षेण येन प्रतियोगिज्ञानापेक्षा स्यात् किन्त्वनु-मानेन । न च तत्र लिङ्गाभावः भावरूपाज्ञानस्यैव लिङ्गत्वात् । अभावप्रत्यक्षत्वावच्छेदेनैव प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्य हेतुत्वं नाभावानुमित्यवच्छेदेनापि । अनुमिते-र्व्यापकतावच्छेदकप्रकारकव्यापकज्ञानाधीनत्वेनाभाववानित्यनुमितिः प्रतियोगिज्ञानाभावेऽपि भवत्येव तथा शब्दस्यापि शक्यतावच्छेदकप्रकारकज्ञानजनकत्वेनाभाव इति पदाज्जायमाने प्रतियोगिज्ञानानपेक्षणात् अतोऽहं ब्रह्मज्ञानाभाववान् अज्ञानवत्त्वादित्यनुमानेन ज्ञानाभावानुमानाङ्गीकारात् तत्र च प्रतियोगिज्ञानानपेक्षणान्न व्याहतिरिति भावः । कुतो न वाच्यमिति चेदनुभवबाधादित्याह ।। वृत्तीति ।। प्रतियोगितदभावयोरेकेन्द्रियग्राह्यत्वादिति भावः ।। अनुपलब्ध्येति ।। करणेनेत्यर्थः । षष्ठप्रमाणवादिभाट्टरीत्योक्तमिति ध्येयम् ।। झडितीति ।। ‘‘झडित्येव परिज्ञानान्न लिङ्गोद्भवता मते’’ति वचनात् । अनुमाप-कत्वाङ्गीकारेऽनुभवविरोध इति भावः ।। त्वन्मत इति ।। ज्ञानाभावः सर्वत्रानुमानवेद्य इति वदता जडे तावज्ज्ञानाभावज्ञानम् अनुमानेनेति वक्तव्यम् । तच्चायुक्तम् । जडे आवरण-कृत्याभावेन भावरूपाज्ञानाख्यलिङ्गाभावादिति भावः ।

ननु तत्रापि विक्षेपाख्यकार्यसद्भावेन भावरूपाज्ञानसद्भावाज्ज्ञानाभावानुमानं सम्भव-त्येवेत्यस्वरसादाह ।। अपरोक्षत इति ।। भावरूपेति ।। अपरोक्षभावरूपाज्ञानस्य तन्निवर्त्यत्वेन लिङ्गाभावादिति भावः । अपरोक्षतो ज्ञाते ज्ञानाभाव एव नास्तीत्यतः परोक्षेत्युक्तम् । प्रातिभासिके रूप्यादौ प्रातिभासिकदुःखादिपदार्थस्य साक्षिवेद्यत्वात्तद्विषयका-ज्ञानाङ्गीकारे तन्निवर्तकान्तःकरणवृत्तेस्तत्राभावेन शुद्धचैतन्यस्यानिवर्तकतयाऽज्ञाननिवृत्त्य-योगेन प्रातिभासिकज्ञानाभावापत्तेः अतस्तत्र दुःखादिविषयकभावरूपाज्ञानवत्वादित्यनुमानेन दुःखादिज्ञानाभावप्रतिपत्त्ययोग इत्यर्थः । अतः साक्षिप्रत्यक्षेण दुःखाभावप्रतिपत्तिर्वाच्या तत्र स्वव्याहतिरेवेति भावः । अस्तु वाऽनुमित्यैव ज्ञानाभावज्ञानं तथापि स्वव्याहतिः स्यादेव । अहं ज्ञानाभाववानित्यत्राधिकरणीभूतात्मज्ञानाभावे पक्षज्ञानाभावेनानुमित्यभावापत्तेस्तज्ज्ञाने वाच्ये ज्ञानसामान्याभावानुमित्ययोगात् ।

ननु मास्तु धर्मिज्ञानं किं तेन ब्रह्मविषयकज्ञानाभावानुमितिस्तावद्युक्तैवेति चेत्तर्हि प्रतियोगिभूतब्रह्मज्ञानज्ञानाभावे तदभावानुमित्ययोगात् तज्ज्ञाने वाच्ये तस्य विषय-निरूपणत्वेन विषयस्य ब्रह्मणोऽपि ज्ञातत्वात्तद्विषयकज्ञानाभावानुमित्ययोग एव । न च प्रतियोगिज्ञानमभावप्रत्यक्षे हेतुर्नानुमित्यादावित्युक्तमिति वाच्यम् । तत्रापि प्रतियोगिविशेष-घटिताभावज्ञानमात्रे प्रतियोगिज्ञानस्य हेतुत्वमावश्यकमेवेति कृते चानुमितेर्ब्रह्मज्ञानाभाव-विषयकत्वेन प्रतियोगिविशेषघटिताभावविषयकत्वात्प्रतियोगिज्ञानस्यावरूपत्वेन प्रतियोगि-ज्ञानापेक्षाया अभावात्कथं दौर्घट्यमिति वाच्यम् । अज्ञानं तावज्ज्ञानविरोधित्वेनैव प्रतीयत इति तवापि संमतम् । एवं च प्रतियोगिज्ञानाज्ञानाभ्यां दौर्घट्याभावेऽपि विरोधनिरूपकी-भूतज्ञानस्य ज्ञानाज्ञानाभ्यामेव दौर्घट्यं विरोधनिरूपकीभूतस्य ज्ञानस्याज्ञाने तन्निरूपित-विरोधस्यैव ज्ञातुमशक्यत्वेन तद्विरोध्यज्ञानज्ञानायोगः तज्ज्ञाने तु विरोधनिरूपकीभूतज्ञान-विषयतया ब्रह्मणोऽपि ज्ञातत्वाद्ब्रह्मज्ञानविरोध्यज्ञानस्यैवाभावेनाज्ञानस्य ज्ञानायोग इति स्वव्याहतिः स्यादेव ।

ननु स्यादिदं यद्यज्ञानं ज्ञानविरोधित्वेन प्रतीयेत । न चैवम् । अतो न दोष इत्या-शङ्कायामज्ञानस्य ज्ञानविरोधित्वेनैव प्रतीतिं तावदुपपादयति ।। अपि चेत्यादिना ।।  ज्ञानविरोधित्वेनैवेति ।। नञो विरुद्धार्थत्वाज्ज्ञाधात्वर्थभूतज्ञानविरोधित्वं प्रतीयत इत्यर्थः । ननु यदाऽज्ञानं न जानामीति प्रतीयते तदा नञुल्लेखाज्ज्ञानविरोधित्वेन भानम् । यदा तु मुग्धोऽस्मीति प्रतीयते तदा कथं ज्ञानविरोधित्वेन भानं नञुल्लेखाभावादित्यत आह ।। मुग्धोऽस्मीत्यादावपीति ।। मोहोऽज्ञानं तद्वानस्मीत्यर्थः । यथा प्रलयादिशब्देषु नञोऽ-नुल्लेखेऽपि ध्वंसो गम्यते एवमत्रापि नञोऽनुल्लेखेऽपि ज्ञानविरोधित्वं प्रतीयत एवेत्यर्थः ।। अत एवेति ।। नञोऽनुल्लेखेऽपि तदर्थस्य प्रतीयमानत्वादेवेत्यर्थः ।। उक्तं चेति ।। अज्ञानस्य ज्ञानविरोधित्वेन प्रतीयमानत्वमित्यर्थः ।। द्वयेति ।। आश्रयविषयेत्यर्थः । ज्ञानपर्युदासेन ज्ञानविरोधेन । तथा चाश्रयविषयरूपद्वयसापेक्षं यज्ज्ञानं तद्विरोधेनैवाज्ञान-मुच्यत इत्यर्थः ।। अन्यथेति ।। अज्ञानस्य ज्ञानविरोधित्वेन प्रतीत्यनङ्गीकार इत्यर्थः । अज्ञानस्य ज्ञानविरोधः कुत इति शङ्कायां तथा प्रतीतिरेव तत्र प्रमाणत्वेन वक्तव्या तदनङ्गीकारे विरोधोऽप्रामाणिक एव स्यादित्यर्थः ।। तथा चेति ।। एवमज्ञानस्य ज्ञान-विरोधित्वेन प्रतीयमानत्वे सिद्धे सतीत्यर्थः । ननु नाज्ञानं विरोधनिरूपकज्ञानज्ञान-नियतज्ञानम् अज्ञानमित्यादिशब्दैस्तत्प्रतीतौ तन्नियमेऽपि तमोनीहारादिशब्दैः सामान्य-तस्तत्प्रतीतौ विरोधस्यैवाप्रतीयमानत्वेन तन्निरूपकज्ञानज्ञानापेक्षणादित्यतोऽत्रापि मुग्धोऽ-स्मीत्यादाविव नञोऽनुल्लेखमात्रमिति समाधाने सत्येव समाधानान्तरमाह ।। ज्ञानाभावोऽ-पीति ।। यदा ज्ञानाभावोऽपि ज्ञानाभावत्वेनैव प्रतीयते तदैव प्रतियोग्यादिज्ञानापेक्षा-नियमेऽपि प्रमेयत्वादिना रूपेण सामान्यतः प्रतीतौ तदपेक्षाभावान्न त्वद्दूषणावकाश इत्यपि वक्तुं सुशकत्वादिति भावः ।

ननु यथा निपुणे कुशलशब्दो रूढ एव न तु कुशं लातीति व्युत्पत्त्या यौगिकः एवं न ज्ञानमज्ञानमिति अज्ञानशब्दो न यौगिकः येनावयवार्थभूतज्ञानविरोधस्य भानमावश्यकं स्यात् । न चैवं किं तु रूढ एवेत्याशङ्काऽपि निरस्तेत्याह ।। एतेनेति ।। एतेनेत्युक्तं विशदयति ।। वृत्तीति ।। तद्विरुद्धत्वोपपादनायोक्तम् ।। वृत्तिज्ञाननिवर्त्यस्येति ।। क्लृप्तेति ।। कुशलादिशब्दे तु ‘‘निपुणः कुशलः कृती’’ इत्यभिधानेन समुदायशक्तिः क्लृप्ता योगस्तु कल्प्य इति तत्र रूढ्या योगबाधः इह तु योग एव क्लृप्तो रूढिस्तु कल्प्या । अतः प्रोक्षण्यधिकरणन्यायेन रूढ्यपेक्षया योग एव प्रबल इति विरोधभानमावश्यकमिति भावः । अस्त्वज्ञानशब्दो यौगिको रूढो वा । अयं च विचारः शब्द एव यदा तु प्रत्यक्षेण अज्ञानं प्रतीयते तदा कथमिति चेत्तदापि ज्ञानविरोधित्वेनैवाऽज्ञानं प्रतीयत इत्याह ।। शब्देति ।। अन्यथाऽज्ञानस्य ज्ञानविरोधो न सिद्ध्येदिति भावः । सङ्गृह्णाति ।। एवं चेति ।। भावे भावरूपाज्ञाने तयोः ज्ञानभावाभावयोरित्यर्थः । प्रतियोगिज्ञानभावाभावाभ्यां चोद्यपरिहारौ । किं च भावरूपाज्ञानस्य ब्रह्मविषयकमज्ञानमिति सविषयतानुभूयमानत्वाच्च तत्रापि विकल्प्य दूषणीयमित्याह ।। अपि चेति ।। अज्ञानज्ञानेति ।। विषयावच्छिन्ना-ज्ञानज्ञानायोगादित्यर्थः ।। ज्ञाने चेति ।। अवच्छेदकीभूतब्रह्मरूपविषयज्ञान इत्यर्थः ।। अज्ञानस्येति ।। ब्रह्मविषयकाज्ञानस्येत्यर्थः । उभयत्रापि परिहारमाशङ्कते ।। नन्विति ।।

यदुक्तं यौगिकत्वेन नञर्थविरोधनिरूपकीभूतज्ञानस्य ज्ञानाज्ञानाभ्याम् अज्ञानस्य ज्ञानं दुर्घटमिति तत्र वदामः । विरोधनिरूपकीभूतज्ञानज्ञानमस्तीति तत्र विरोधनिरूपकीभूत-ज्ञानविषयतया ब्रह्मणोऽपि ज्ञातत्वाद्ब्रह्मज्ञानविरोध्यज्ञानस्यैवाभावेनाज्ञानज्ञानायोग इति । तत्र वदामः विरोधनिरूपकीभूतज्ञानावच्छेदकस्य ब्रह्मणो ज्ञानं साक्षिरूपमस्त्येव । ननु तद्विरोध्यज्ञानायोग इति चेन्न साक्षिचैतन्यस्याज्ञानस्फोरकत्वेनाज्ञानाविरोधित्वात् प्रमाण-जन्यान्तःकरणवृत्तेरेव तद्विरोधित्वात् तस्याश्चाभावात् । एवं च ब्रह्मज्ञानस्य साक्षिरूपस्य सत्वेऽपि तदविरोध्यज्ञानसम्भवादज्ञानज्ञानं युक्तमेव तथा च न जानामीत्यस्य साक्षिणा ज्ञाते ब्रह्मणि भावरूपाज्ञानमस्तीत्यर्थः । तथाऽज्ञानशब्दरूढिपक्षे भावरूपाज्ञानावच्छेदकविषय-ज्ञानाज्ञानाभ्यां भावरूपाज्ञानज्ञानायोग इति यदुक्तं तत्रापि वदामः अज्ञानावच्छेदकस्य ब्रह्मरूपविषयस्य ज्ञानं साक्षिरूपमस्त्येव तच्चाज्ञानाविरोध्येव अतस्तदविरोध्यज्ञानज्ञानं युक्तमेव साक्षिविषयब्रह्मविषयकभावरूपमज्ञानमस्तीत्यर्थोपपत्तेरिति भावः ।। सममिति ।। प्रतियोगिभूतब्रह्मज्ञानज्ञानभावाभावाभ्यां न जानामीति ब्रह्मज्ञानाभावज्ञानं न सम्भवतीति यदुक्तं तत्र वयमपि वदामः । प्रतियोगिभूतब्रह्मज्ञानज्ञानं साक्षिरूपमिति ।

ननु तर्हि ब्रह्मज्ञानावच्छेदकीभूतस्य ब्रह्मरूपविषयस्यापि ज्ञातत्वात्तदज्ञानासम्भव इति चेन्न । न जानामीत्यस्य वृत्तिज्ञानाभावविषयकत्वात् । एवं च न जानामीत्यस्यास्मन्मतेऽपि साक्षिणा ज्ञाते ब्रह्मणि प्रमाणजन्यवृत्तिज्ञानं नास्तीत्यर्थोपपत्तेरित्यर्थः । एवं प्रतिबन्द्योत्तर-मभिधाय परमुखेनैव समाधानं कथयति ।। तस्मादिति ।। अवच्छेदकस्येति ।। विरोध-निरूपकीभूतज्ञानावच्छेदकस्य ब्रह्मरूपविषयस्येत्यर्थः । सामान्यतः सामान्याकारे विशेषतः विशेषाकारे एवं च न जानामीत्यस्य सामान्यतो ज्ञाते ब्रह्मणि विशेषाकारविषयकं भाव-रूपाज्ञानमस्तीत्यर्थो वक्तव्यः ।। तत्सममिति ।। एवमेव न जानामीत्यस्य सामान्यतो ज्ञाते ब्रह्मणि विशेषज्ञानं मम नास्तीत्यर्थोपपत्तेरित्यर्थः ।

ननु तर्ह्यत्रापि दूषणमुक्तं विशेषज्ञानाभावविषयकत्वे प्रतियोगिभूतस्य ज्ञानस्य ज्ञानमस्ति न वेति । नेति पक्षेऽभावज्ञानायोगः । आद्ये ज्ञानावच्छेदकतया विशेषस्यापि ज्ञातत्वेन तज्ज्ञानाभावस्यैवायोगेन तज्ज्ञानायोग इतीति चेन्न । यदुक्तं त्वया विशेषज्ञानज्ञानमस्ति न वेति तत्र नास्तीति ब्रूमः । तर्ह्यभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वेन विशेषज्ञानाभावज्ञाने विशेषज्ञानरूपप्रतियोगिज्ञानस्य कारणत्वात् । तदभावे प्रतियोगिज्ञानाभावे न तद्विशेष-ज्ञानाभावज्ञानायोग इति चेत्तत्राह ।। तद्विशेषज्ञानाभावज्ञानं प्रतीति ।। ब्रह्मगतविशेषा-कारेत्यर्थः ।। तत्सामान्येति ।। निरूपणीयाभावप्रतियोगिज्ञानविषयीभूतविशेषसमानाधि-करणसामान्यधर्मविषयकं ज्ञानमित्यर्थः । ननु विशेषज्ञानाभावं प्रति सामान्यज्ञानं न प्रतियोगिभूतमिति कथं तस्य विशेषज्ञानाभावज्ञानं प्रति हेतुत्वं स्यादित्यत आह ।। अन्वयेति ।। ज्ञायमानविशेषज्ञानाभावप्रतियोगिभूतविशेषज्ञानस्य ज्ञानाभावेऽपि सामान्येन

तज्ज्ञाने सत्येव विशेषज्ञानाभावज्ञानस्यानुभूयमानत्वादित्यर्थः ।। न त्विति ।। यस्य विशेष ज्ञानस्याभावो निरूप्यते तद्विशेषज्ञानमेव तदभावज्ञाने न हेतुर्येन तज्ज्ञानापेक्षा स्यादित्यर्थः ।

।। वक्ष्यत इति ।। गुहायां किञ्चिदस्तीति सामान्यतो निश्चये सत्येव तत्किमिति विशेषे सन्देहो भवति तत्र तद्विशेषसंशये तत्सामान्यनिश्चयस्यैव हेतुत्वं न तु विशेषनिश्चय-स्यापि तथात्वे संशयानुपपत्तेः । एवं तद्विशेषज्ञानाभावज्ञानं प्रति तत्सामान्यज्ञानमेव हेतुः न तु तद्विशेषज्ञानं तथात्वे तद्विशेषज्ञानस्यैव सत्वेन विशेषज्ञानाभावस्य विरुद्धत्वेना-योगादित्यादिकं वक्ष्यत इत्यर्थः । पूर्वं न जानामीत्यस्य तद्विशेषज्ञानाभावार्थत्वेऽस्माभि-रभिहिते विशेषज्ञानस्य ज्ञानमस्ति न वेति पृष्टे नेति पक्षमङ्गीकृत्य स्वेन समाहितम् । अपरे तु विशेषज्ञानज्ञानमस्त्येव तर्हि तदवच्छेदकतया विशेषस्यापि ज्ञातत्वात्तदभावज्ञानायोग इति चेन्न । विशेषज्ञानं नास्तीत्यस्य विशषप्रकारकज्ञानं नास्तीत्यर्थः विशेषज्ञानं तु संसर्ग-मर्यादयास्तीत्यङ्गीक्रियते । एवं च तार्किकमते दण्डीत्यत्र संसर्गमर्यादया संसर्गस्य प्रतीतत्वेऽपि दण्डीति ज्ञानं दण्डसम्बन्धप्रकारकं न भवति ततश्च सम्बन्धस्य स्वरूपेण ज्ञाने सत्यपि सम्बन्धप्रकारकज्ञाननिषेधे न दोषः । एवं विशेषस्य स्वरूपेण ज्ञानेऽपि विशेषप्रकारकज्ञाननिषेध एव क्रियते कुत इति चेत् । विशेषप्रकारकज्ञानस्यैव संशयादि-विरोधित्वात् । तदपि कुत इति चेत् विशेषप्रकारकसंशयादिविरोधित्वानङ्गीकारे सर्वत्र संशयादिस्थले प्रमेयत्वादिना सामान्याकारेण विशेषज्ञानसद्भावात्संशयादिकं न स्यात् अतः स्वरूपेण विशेषज्ञाने सत्यपि संशयादिविरोधिभूतं यद्विशेषप्रकारकं ज्ञानं तन्मम नास्तीति न जानामीत्यस्यार्थ इत्यङ्गीकारे न कोऽपि दोष इत्याहुरित्याह ।। अपरे त्विति ।।  स्वरूपेणैवेति ।। विशेषणतया विशेष्यतया च यन्न भासते तत्स्वरूपेण भासते संसर्ग-मर्यादया भासत इति यावदित्यर्थः । तस्यैव विशेषप्रकारकज्ञानस्यैव । तदनङ्गीकारे बाधक-माह ।। सम्भवतीति ।। केचित्त्विति ।। न जानामीत्यस्य ब्रह्मज्ञानं नास्तीति विशेष-विषयकज्ञाननिषेधो नार्थः येन पूर्वोक्तविकल्पदूषणावकाशः किं तु ब्रह्मज्ञाने विशेषविषयकत्वं नास्तीत्येवार्थः । अत्र चासाधारणधर्मो विशेषपदेन विवक्षितः । तथा च ज्ञानेऽसाधारण-धर्मविषयकत्वं नास्तीति निषध्यत इत्यर्थः । असाधारणधर्मत्वं नाम किमिति शङ्कायां शिष्यबुद्धिवैशद्याय तन्निर्वक्ति ।। स्वेति ।।

ननु कुत्राप्यप्रसिद्धस्य शशशृङ्गादेर्निषेधायोगादेतादृशासाधारणधर्मविषयकत्वं कुत्र प्रसिद्धं यदिह ज्ञाने निषिध्यत इत्यत उक्तम् ।। करतलामलकादिज्ञान इति ।। स्वेत्यादेरयमर्थः स्वशब्दः समभिव्याहृतपरः, तथा च स्वशब्देन करतलामलकादिज्ञानं तद्विषयः करतला-मलकादिः तदितरत् जगत् तत्प्रतियोगिकव्यावृत्त्यधिकरणं करतलामलकादिकं तत्राधिकरण-तास्ति तदवच्छेदकीभूतो धर्मः करतलामलकत्वादिरसाधारणो धर्म इति यावत् तद्विषयकत्वं करतलामलकादिज्ञानेऽस्ति । एवमिहापि स्वशब्दे ब्रह्मज्ञानं ग्राह्यं तद्विषयभूतं यत् ब्रह्म तदितरत् जगत् तत्प्रतियोगिकव्यावृत्त्यधिकरणं ब्रह्म तन्निष्ठाधिकरणतावच्छेदकीभूतो यो धर्मोऽसाधारणो ब्रह्मत्वादिः तद्विषयकत्वं निषिध्यत इत्यर्थः । अत्र स्वेत्यनुक्त्वा करतला-मलकादिज्ञानविषयेत्येवोक्तौ करतलामलकत्वविषयकत्वं ब्रह्मज्ञाने निषिध्यत इति स्यात् । तच्चासङ्गतम् । ब्रह्मज्ञानेत्येवोक्तौ ब्रह्मत्वादिविषयकत्वं ब्रह्मज्ञाने निषिध्यत इति स्यात् । इदं चान्यत्राप्रसिद्धम् । अतः स्वेत्युक्तमिति मन्तव्यम् । साक्षादित्युक्तस्य कृत्यं वक्तुमाह ।। न चेति ।। विशिष्टेति ।। अर्थविशिष्टप्रमाणज्ञानविषयकस्याभावज्ञानस्येत्यर्थः ।। तद्विशेषण-तयेति ।। तत्र विशिष्टार्थविषयेऽभावज्ञाने प्रमाणज्ञानविषयतयेत्यर्थः ।। स्ववचनेति ।। अर्थविषये प्रमाणज्ञानं नास्तीति यदा ब्रूते तदा पुनरेतज्ज्ञानरूपप्रमाणविषयत्वप्राप्त्या स्ववचनव्याघात इत्यर्थः ।। साक्षादिति ।। अस्मिन्नभावज्ञाने प्रमाणज्ञानस्यैव निषेध्यतया साक्षादविषयत्वावच्छेदकतयार्थस्याविषयीकृतत्वान्न साक्षात्प्रमाणज्ञानविषयत्वमित्यर्थः ।

ननु यथा कथञ्चिदेतत्प्रमाणज्ञानविषयतयार्थस्य सत्वप्राप्तेः पुनः प्रमाणज्ञाननिषेधे स्ववचनव्याहतिरेवेत्यत आह ।। साक्षादिति ।। अन्यथेदं रजतमिति ज्ञानवानहमिति ज्ञान-द्वाराऽनुव्यवसायरूपप्रमाणज्ञानविषयरूप्यस्यापि सत्वं सिद्ध्येदित्यर्थः । ज्ञानावच्छेदकस्य विषयस्याग्रहेऽपि ज्ञानसम्भवादभावग्रहो भविष्यतीति वक्तुमाह ।। किं चेति ।। अज्ञानम् अनुमित्यादिवृत्तिविषयो न वा न तावद्द्वितीय इत्याह ।। अज्ञानमिति ।। तत्र अज्ञान-सद्भावे आदिपदेन ‘‘तम आसीदि’’ति श्रुत्युक्तिर्ग्राह्या । स्वनिष्ठा परकीया ज्ञानधीः सेत्यर्थः । न स्यात् सर्वथा ज्ञानाविषयत्वे शब्दवृत्तिविषयत्वम् अनुभूयमानं न स्यादित्यर्थः । आद्ये त्वाह ।। वृत्तीति ।। तया स्वग्राहकवृत्त्या ।। त्वन्मत इति ।। विषयस्य वृत्तिज्ञानविषयत्वात् वृत्तेरेव चाज्ञानविरोधित्वात्तद्विषयकाज्ञानं न सम्भवतीत्यर्थः ।

नन्वर्थस्य वृत्तिग्राह्यत्वेऽपि तत्राज्ञानं युक्तम् । अज्ञानस्य प्रमाणजन्यपरोक्षवृत्तिविषय-त्वेन तदवच्छेदकविषयस्यापि परोक्षवृत्तिविषयत्वात् परोक्षवृत्तेश्चाऽज्ञानाविरोधित्वादित्याशङ्क्य निषेधति ।। न चेति ।। अननुभवादिति ।। तथा च परोक्षवृत्तिरप्यज्ञानविरोधिन्येवेति भावः । अपरोक्षवृत्तेरज्ञानविरोधित्वानङ्गीकारे दूषणान्तरमाह ।। अज्ञानानिवृत्ताविति ।। परोक्षवृत्तेरज्ञानाविरोधित्वेन परोक्षवृत्तेः सकाशात् अज्ञानानिवृत्तावित्यर्थः ।। व्यवहारा-दीति ।। आदिपदेन संस्कारग्रहणं व्यवहारादेरज्ञाननिवृत्तिकार्यत्वादिति भावः । तत्रापरोक्ष-वृत्त्यैव केवलवृत्तिमात्रेण । ताम् अज्ञाननिवृत्तिम् । ननु अपरोक्षस्थलेऽज्ञानानिवृत्त्यङ्गी-कारेऽभिव्यक्तापरोक्षचित्सम्बन्धाभावेन विषयस्यापरोक्ष्यं न सिद्ध्येदित्यत आह ।। विषय-स्येति ।। चैतन्यविषयस्यापरोक्ष्यं चैतन्याभिव्यञ्जकत्वार्थम् । आवश्यकेनेन्द्रियजन्यत्वप्रयुक्तेन वृत्तिगतेन साक्षात्कारत्वविशेषेणैवोपपन्नमित्युक्तं दृश्यत्वभङ्ग इत्यर्थः । परोक्षवृत्त्या-ज्ञानानिवृत्तौ बाधकान्तरमाह ।। परोक्षवृत्त्येति ।। भ्रमेति ।। अज्ञानस्यैवानिवृत्तत्वेन भ्रमोपादानाज्ञानस्य सत्वादिति भावः । परोक्षवृत्त्याप्यज्ञाननिवृत्तेरनुभूयमानत्वात्तद्विरोध-श्चेत्याह ।। अनुमित्येति ।। तस्येति ।। अनुभवस्येत्यर्थः ।। ज्ञानाभावेति ।। वह्नि-धर्मादिज्ञानाभावो निवृत्त इति वह्निधर्मादिज्ञानाभावविषयकत्व इत्यर्थः ।। भावरूपेति ।। भावरूपाज्ञानसाधको योऽनुभवः कथ्यते तस्यापि ज्ञानाभावविषयकत्वस्यैव वक्तुं शक्यत्वादिति भावः ।

ननु परोक्षवृत्तेरज्ञाननिवर्त्तकत्वाङ्गीकारे शङ्खः श्वेतः शङ्खत्वादित्यनुमितिरूपपरोक्षवृत्त्या भ्रमोपादानस्याज्ञानस्य नाशापत्त्याऽपरोक्षभ्रमानुवृत्तिर्न स्यादित्यत आह ।। परोक्षत इति ।। उपाधीति ।। अस्मन्मते भ्रमस्यान्तःकरणरूपोपाध्युपादानकत्वेनाज्ञानानुपादानकत्वादित्यर्थः । प्रत्युतायं दोषस्त्वन्मत एवेत्याह ।। त्वन्मते त्विति ।। स न स्यादिति ।। परोक्षवृत्तेर-ज्ञाननिवर्तकत्वस्योपपादितत्वाच्छङ्खत्वानुमित्या श्वैत्याज्ञानस्य नष्टत्वात्स भ्रमो न स्यादिति मयैव त्वां प्रत्यापाद्यते न तवापादनावकाश इत्याशयः । अज्ञानविषयकानुमितिशाब्दवृत्त्या तदवच्छेदको विषयो न गृह्यत इति पक्षे आह ।। अन्त्य इति ।। तद्वदेवेति ।। अवच्छेदकीभूतविषयाग्रहणेपि यथा भावरूपाज्ञानं गृहीतं तद्वदेवेत्यर्थः ।। अवच्छेदकेति ।। प्रतियोगितयाऽवच्छेदकेत्यर्थः ।

एतावन्तं कालं न किञ्चिदहमवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवोऽप्यत्र मानमित्युक्तं तद्दूषयति ।। न किञ्चिदिति ।। परामर्शः स्मरणं तत्र भावरूपाज्ञानाङ्गीकारे दुःखादेरान्तर-पदार्थत्वेन तन्निवर्तकान्तःकरणवृत्त्ययोगेन तदनिवृत्त्यापत्तेरुक्तत्वेन ज्ञानाभावविषयकत्वमेव तत्रेति भावः । तदा सुषुप्त्यवस्थायाम् ।। धर्म्यादीति ।। तदानीं सर्वज्ञानोपरमादिति भावः ।। अयोग इति ।। तथा च तदा ज्ञानाभावानुभवान्न परामर्शस्तद्विषयः किन्त्वनु-भूतभावरूपाज्ञानविषय एवेत्यर्थः । अज्ञानत्वेन प्रतीतौ ज्ञानविरोधित्वेन प्रतीतावित्यर्थः । तदपेक्षणात् धर्म्यादिज्ञानापेक्षणात् तस्याप्याश्रयविषयद्वयसापेक्षज्ञानपर्युदासत्वादिति भावः । तथा च तदा सर्वज्ञानोपरामाद्विरोधनिरूपकज्ञानविषयादेरप्रतीतेज्ञार्नविरोधित्वेन भावरूपा-ज्ञानविषयकत्वमपि सौषुप्तिकानुभवस्य न युक्तमित्यवधेयम् । अज्ञानविरोधनिरूपकं ज्ञान-विरोधित्वेनाज्ञानस्य प्रतीयमानत्वादज्ञाननिष्ठविरोधनिरूपकमित्यर्थः । तथा च विरोधनिरूपकं ज्ञानम् अज्ञानविषयं सामान्येनोल्लिखतीति न विशेषरूपेऽज्ञानविरोध इत्यर्थः ।। तर्हीति ।। अभावप्रतीयोगिभूतं ज्ञानमपि स्वविषयं सामान्येनोल्लिखदभावनिरूपकमित्यर्थः । तदा सुषु-प्त्यवस्थायां स्वरूपेण ज्ञानविरोधित्वप्रकारौदासीन्येनेत्यर्थः । इदानीं जाग्रदवस्थायाम् ।। प्रतियोगीति ।। न किञ्चिद्रूपेणेत्यर्थः ।। अनुभूयत इति ।। तथा चैतावन्तं काल-मित्यादिकं न स्मरणरूपं येन सुषुप्ताविषयादिघटिताज्ञानविरोधित्वेन भावरूपाज्ञानानुभवानु-पपत्तिः किं नाम तदा स्वरूपेणैवाज्ञानमनुभूतम् । इदानीं प्रतियोगिविषयावच्छेदयुक्त-तयाऽनुभूयते । अतो नोक्तदोष इत्यर्थः ।। सममिति ।। सुषुप्तौ ज्ञानाभावोऽपि स्वरूपे-णैवानुभूतः इदानीं प्रतियोगिविशेषावच्छेदयुक्ततयाऽनुभूयत इति सममित्यर्थः । नन्वभावस्य ससम्बन्धिकत्वात्स्वरूपेण ज्ञानमेव नास्तीत्यत आह ।। अभावस्यापीति ।। तदनपेक्षणात् प्रतियोग्याद्यनपेक्षणात् । तथा च तद्वत्सुषुप्तावपि प्रतीतिर्युक्तेति भावः । परामर्शः ज्ञानाभावस्मरणमित्यर्थः ।

ननु लिङ्गाभावान्नानुमानिकानुभव इत्यत आह ।। अवस्थेति ।। अवस्थाविशेषवत्त्व-स्येत्यर्थः । जाग्रत्स्वप्नान्तरकालिकोऽहं ज्ञानाभाववान् अवस्थाविशेषवत्त्वात् यथा जाग्रदह-मित्यवस्थाविशेषवत्त्वस्य लिङ्गत्वादित्यर्थः । लिङ्गातरमाह ।। सामग्रीति ।। तत्कालीनोऽहं ज्ञानाभाववान् इन्द्रियसन्निकर्षादिरूपतत्सामग्रीशून्यत्वादिति सामग््रयभावस्यैव लिङ्गत्वादित्यर्थः । स्वरूपासिद्धो हेतुरित्यत आह ।। इन्द्रियसम्प्रसादेनेति ।। सुषुप्तौ स्थितस्येन्द्रियाणि सम्यग्विकासविशेषरूपप्रमादवन्ति भवन्ति । तेन सुषुप्ताविन्द्रियोपरमरूपं कार्यं तथा च सामग््रयाभावः सिद्ध इत्यर्थः । लिङ्गान्तरमाह ।। प्रातरित्यादिना ।। तथा च सुप्तौ ज्ञानं नानुभूतं स्मरणार्हतया ज्ञानतुल्ययोगक्षेमे आत्मादौ स्मर्यमाणेऽपि नियमेनास्मर्यमाणा-त्मान्तर्गतत्वाभावादित्यनुमानेन ज्ञानाभावानुमामित्यर्थः । हस्तिहस्तिपयोरुभयोरनुभवेऽपि तत्रैकस्मिन्दृष्टेऽपि संस्कारानुद्बोधेनापरास्मरणदशायां तस्मिन् व्यभिचारवारणाय नियमे-नेत्युक्तम् । प्रातःकाले राजद्वारि गजाभावमनुभूयाऽन्यत्र गतः पुनः सायं दृष्ट्वा प्रातरत्र गजो नाभूदिति प्रत्येति तत्र गजाभावज्ञानं न प्रत्यक्षेण प्रतियोगिनः पुरतस्सत्वात् । अत उक्तलिङ्गेनैव तदभावानुमानं सिद्धमिति ज्ञेयम् ।। त्वन्मतेऽपीति ।। न किञ्चिदहमवेदिष-मित्यस्य न त्वन्मतेऽप्यहमर्थांशे स्मरणरूपत्वं युक्तं सुषुप्तौ तद्विलयाङ्गीकारेणाननुभूतत्वा-दित्यर्थः । किं च न किञ्चिदहमवेदिषमिति अज्ञानांशेऽहमर्थस्य परामर्शत्वं प्रतीयते । तन्न युक्तम् । सुषुप्तावहमर्थस्याभावेनाज्ञानस्याहमर्थेनाननुभूतत्वात् । शुद्धचैतन्यमात्रेणैव तस्यानु-भूतत्वादित्याह ।। सुषुप्ताविति ।। अन्येति ।। अन्येन शुद्धचैतन्येनेत्यर्थः । परामृष्टत्वं स्मृतत्वम् ।

किं च त्वन्मतेऽज्ञानस्मरणमेवायुक्तम् । तथाहि अज्ञानं किं वृत्तिप्रतिबिम्बितसाक्षिवेद्यं शुद्धसाक्षिवेद्यं वा । नाद्य इत्याह ।। सुषुप्ताविति ।। तद्वेद्यत्वापातेनेति ।। वृत्तिप्रति-बिम्बितसाक्षिवेद्यत्वापातेनेत्यर्थः । अस्त्विति चेत्तत्राह ।। वृत्त्यभावेति ।। वृत्तेः कादा-चित्कत्वादिति भावः ।। असन्देहेति ।। ज्ञातैकसत्वेन सन्देहादेस्तत्रायोगादिति भावः । न चाविद्यावृत्तेरनित्यत्वात्तदुपहितसाक्षिरूपस्याज्ञानज्ञानस्याप्यनित्यत्वात्तस्य संस्कारजनकत्वं भविष्यतीति शङ्कापरिहाराय वृत्त्यभावदशायामित्याद्युक्तमिति ज्ञातव्यम् । सुषुप्तौ ज्ञानं नास्तीति जाग्रदवस्थायामनुमीयत इत्येवम् आनुमानिको ज्ञानाभावानुभव इत्यनङ्गीकारे बाधकमाह ।। अन्यथेति ।। तवापीति ।। सुप्तौ भावरूपाज्ञानवत् ज्ञानाभावोऽप्यस्ति स न सिद्ध्येत् । प्रतियोग्यादिज्ञानाभावेन सुषुप्तौ प्रत्यक्षेण तदनुभवायोगादिति भावः । शङ्कते ।। भावरूपेति ।। त्वन्मते विषयसम्बन्ध्यावरणत्वेन विषयनिष्ठत्वेन तत्रैव जडेऽहमर्थे भाव-रूपाज्ञानलिङ्गेन ज्ञानाभावानुमानं कार्यं तन्न सम्भवतीत्याह ।। त्वन्मत इति ।। जडे विषये तदावरकतयेति यावत् आवरणकृत्याभावादिति भावः । तथा चाहं घटादिज्ञाना-भाववान् तद्विषयकभावरूपाज्ञानवत्त्वादित्यत्रासिद्धिः । विक्षेपसद्भावाद्युक्तमेवाज्ञानमित्य-स्वरसादाह ।। साक्षीति ।। इच्छादौ विषये । तदा सुषुप्तौ । इच्छादौ भावरूपाज्ञानं नास्ति तथात्वे चैतन्यस्याज्ञानानिवर्तकत्वात् अन्तःकरणवृत्तेश्चेच्छादावभावेनाज्ञानानिवृत्त्या कदा-पीच्छादिप्रकाशो न स्यात् । अत इच्छादौ भावरूपाज्ञानरूपलिङ्गाभावात् । अहम् इच्छाज्ञानाभाववान् तद्विषयकभावरूपाज्ञानवत्त्वादित्येवं तत्र ज्ञानाभवो न सिद्ध्येदित्यर्थः ।

भावरूपाज्ञानेन तद्विरोधिनो ज्ञानस्याभावोऽनुमीयत इत्युक्तम् । तथा चैकस्य विरोधिनः पदार्थस्यानुभवेन तद्विरोधिनोऽपरस्य पदार्थस्याभावेऽनुमानं वदता विरोधिपदार्थाभावे तद्विरोध्यपरपदार्थानुभवः प्रयोजक इत्युक्तं स्यात्, ॐमिति चेत्तत्राह ।। किं चेति ।। तस्मिन्सत्यभवतस्तदप्रयोजकत्वादिति भावेन तदुपपादयति ।। न हीति ।। रागादीति ।। तथा चाहं रागाद्यभाववान् रागादिज्ञानशून्यत्वादित्यनुमानेन रागाद्यभावसिद्धिर्न तु तद्विरोधि-द्वेषसद्भावेनेत्यर्थः । इच्छापरपर्यायरागादेर्ज्ञानसाध्यत्वाद्वस्तुसिद्धेर्ज्ञानाधीनत्वाच्चेति भावः । सुखादिवत् इच्छादावपि ज्ञातैकसत्वेन प्रकाशमानत्वादुत्पत्यनन्तरं ज्ञानाभावस्यैवाभावेन हेतोः स्वरूपासिद्धिरित्याह ।। प्रकाशमानेति ।। आत्मादावित्यत्रादिपदेनेच्छादेर्ग्रहणम् । तथा चोत्तरकालीनपरामर्शसिद्धसौषुप्तिकानुभवो न भावरूपाज्ञाने मानमित्याशयः । भङ्गार्थ-मुपसंहरति ।। तस्मादिति ।। उक्तप्रत्यक्षस्य भावरूपाज्ञानविषयत्वासमर्थनादित्यर्थः ।

न्यायकल्पलता

परमतेऽज्ञानासम्भवं वक्तुं लक्षणं निराकृत्य प्रमाणं निराचिकीर्षुस्तत्र प्रत्यक्षं निराकर्तुं तावदनुवदति ।। यच्चेति ।। त्वन्मत इति ।। अहमज्ञ इति प्रतीतेर्ज्ञानाभावविषयत्वं त्वयापि वाच्यम् । अन्यथा तस्या प्रामाण्यं न स्यादित्यर्थः । नन्वहमर्थस्याज्ञानानाश्रय-त्वेऽपि तदाश्रयीभूतचैतन्येऽन्तःकरणतादात्म्याध्यासेनैकाश्रयसम्बन्धेन स्थूलो गच्छतीति-वदहमज्ञ इति प्रतीतिर्भावरूपाज्ञानविषयैवेति चेन्न । शुद्धचैतन्यस्याज्ञानाश्रयतया विशिष्य प्रतीत्यसम्भवेनान्यस्य मुख्यतत्प्रत्ययस्याभावेनाहमज्ञ इत्यस्यैव मुख्यप्रत्ययत्वे वाच्येऽह-मर्थस्याज्ञानानाश्रयतया तस्य ज्ञानाभावविषयत्वं त्वयापि वाच्यम् । अन्यथा तस्य प्रामाण्यं न स्यादित्यर्थः । स्पष्टयिष्यते चैतदविद्याश्रयभङ्गे ।। साक्षीति ।। ननु स्वस्मिन्विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च न जानामीति व्यवहारो न । परसुखादौ न जानामीति व्यवहारस्तु परोक्षज्ञाननिवर्त्येन प्रमातृगताज्ञानेनैवोपपन्न इति चेत् । मैवम् । अर्थानवबोधात् । स्वसमवेते स्वभ्रान्तिसिद्धे चातीतसुखादौ रूप्यादौ च न जानामीति व्यवहारस्य सर्वसिद्धस्य च सुखादावज्ञानमनिच्छता त्वयापि ज्ञानाभावविषयत्वेन समर्थनीयत्वादित्यर्थात् । विषये प्रमातरि चाज्ञानस्यैकत्वाच्च । आवृतं विषयमजानन् प्रमाताऽज्ञ इत्युच्यते । अत एव परोक्षज्ञानेन प्रमातृगताज्ञाने नाशिते विषयगता-ज्ञानसत्वेऽपि न न जानामीति व्यवहारापत्तिः । प्रमातृगताज्ञानकार्यस्य न जानामीति व्यवहारस्य विषयगताज्ञानेनापादयितुमशक्यत्वादिति निरस्तम् । तच्छक्तेरप्येकत्वाच्च ।। आवरणेति ।। प्राप्तप्रकाशप्रतिबन्ध आवरणम् । अतदाकारप्रतिभासो विक्षेपः ।। अपरोक्षत इति ।। विक्षेपरूपकार्यस्याज्ञानविषयत्वं प्रत्यप्रयोजकतया जडे न जानामीति अनुभवायोग इत्यर्थः ।। निरसिष्यमाणत्वादिति ।। तस्याज्ञानकल्पितत्वेनान्योन्याश्रयात् । स्वयमेव प्रकाशहीने तत्कृत्याभावाच्चेत्यादिनाऽविषयभङ्ग इति शेषः ।। वृत्तिरिति ।। विषयप्रकाशकं सर्वगतं जीवचैतन्यमविद्यानावृतमिति मते वृत्तेश्चिदुपरागार्थत्वादित्यर्थः ।

।। विषयभेदाप्रतीतेरिति ।। अत्राहुः । मयि ज्ञानं नास्तीति प्रातीतिर्न ज्ञानाभाव-विषया । तथाहि अत्र हि ज्ञानाभावे ज्ञानत्वावच्छिन्नप्रतियोगिताकत्वमनुभूयते । तच्च तत्तज्ज्ञानविशेषगतानां कथंचिदनुगतीकृतानां तत्तद्विशेषाभावकूटप्रतियोगिकानां ज्ञानत्वस्या-वच्छेदकत्वेन वा, विशेषाभावकूटातिरिक्तसामान्यधर्मावच्छिन्नप्रतियोगिताकाभावविषयत्वेन वा ? प्रकारान्तरासम्भवात् । तदुभयमपि न सम्भवति । अभावज्ञानकारणधर्म्यादिज्ञाने सति न तदुभयविधाभावज्ञानम् । प्रतियोगिभूतज्ञानज्ञानस्य तु स्वविषयीभूतज्ञानविषयविषयकत्वेन तस्यैव तज्ज्ञानत्वात् । तयोर्यत्किञ्चित्प्रतियोगिव्यक्तिविरोधित्वेन तद्वति तयोरसम्भवात् । धर्म्यादिज्ञानाभावे तु कारणाभावादेव तयोर्न ज्ञानमतो मयि ज्ञानं नास्तीत्यपि न ज्ञानाभावज्ञानं किन्तु भावरूपाज्ञानज्ञानमेवेति ।

अत्रोच्यते । यत्किञ्चिद्विशेषाभावस्यैव तथा प्रतीतिविषयत्वोपपत्तेर्न भावरूपाज्ञान-सिद्धिः । न तत्प्रतियोगिता न ज्ञानत्वावच्छिन्नेति देश्यम् । अवच्छेदकत्वं हि नानति-रिक्तवृत्तित्वादिकम् । अवच्छेदकत्वाभिमतघटत्वादिसमनियतकम्बुग्रीवत्वादेरपि तथात्वा-पातात् । किं तु स्वरूपविशेष एव । तच्चास्ति सामान्यधर्मस्यापि विशेषप्रतियोगितया । नन्वेवं वायौ रूपं नास्ति पुरोदेशे रजतं नास्तीत्याद्याप्तवाक्यजन्यप्रतीत्यनन्तरमपि तत्संशयादिनिवृतिर्न स्यात् । एकविशेषाभावबोधनेऽपि विशेषान्तरमादाय संशयोपपत्तेरिति चेत् । न । प्रथमं न किञ्चित् । अपशवो वा अन्ये गोऽश्वेभ्य इत्यादाविव विशेषपरत्त्व-शङ्कायाः सकलरूपाद्यभावतात्पर्यावगमान्निवृत्तौ उक्तवाक्यात्संशयादिनिवृत्तेः । किञ्च वायौ रूपं नास्ति मयि ज्ञानं नास्तीति समानाकारप्रतीत्योः कथं विषयवैजात्यम् । नन्वियं प्रतीतिर्यावद्विशेषाभावान्यसामान्यभावविषया । सामान्यावच्छिन्नप्रतियोगिताकविशेषाभाव-विषया वाऽभ्युपेया । तथा च तत्कारणीभूतधर्मिप्रतियोगिज्ञानाज्ञानाभ्यामनुपपत्याऽगत्या तत्कल्प्यत इति चेन्न । तर्हि तत एव यावदभावकिञ्चिदभावविषयत्वमेव कल्प्यताम् । एवं च प्रतीतप्रतीतिसारूप्यमपि समर्थितं स्यात् । त्वद्रीत्यैकस्या अभावविषयकत्वमन्यस्या अभावविलक्षणाज्ञानविषयत्वे सर्वथा तद्बाध एव ।।

।। भावरूपाज्ञानवादेऽपीति ।। ननु श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य ज्ञानेऽपि प्रतियोगिज्ञानाज्ञानाभ्यां न व्याहतिः । न हि श्रवणादिसाध्यत्वमोक्षहेतुत्वादि-प्रकारकब्रह्मज्ञानज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यं मोक्षहेतुर्वा । येन तस्मिन् सति तादृग्ज्ञानप्रागभावो व्याहन्येतेति चेन्न । तद्विषयकज्ञाने सत्येव तद्विषयकज्ञानाभावस्य निरूपणं त्वयाऽपि वाच्यमित्यत्र तात्पर्यात् । श्रवणादिसाध्यमोक्षहेतुज्ञानं निष्प्रपञ्चात्म-विषयकमतस्तादृशात्मज्ञानस्य ज्ञानमपि निष्प्रपञ्चात्मज्ञानमपि तस्मिन्सति कथं तादृश-ज्ञानप्रागभावस्तिष्ठेत् । निष्प्रपञ्चात्मविषयतयाऽत्मसाक्षात्कारस्य प्रपञ्चनिवर्तकता । न तु श्रवणादिजन्यत्वेनाधिष्ठानतत्वसाक्षात्कारे सति । निरुपाधिकभ्रमादर्शनादिति भावः । अनुमेयत्वमाशङ्क्य निराकरोति ।। न चेति ।। साक्षिणेति ।। अमानानवसरादित्यर्थः ।। अनुपलब्ध्या वेति ।। वाशब्दोऽनास्थायाम् । अनुमित्यभावे तात्पर्यात् । ननु ज्ञानाभावस्य झटिति प्रतीतिः स्वकारणस्य झटिति समवधानमाक्षेप्स्यति । न तु स्वस्यानुमिति-भिन्नत्वमित्यत आह ।। त्वन्मत इति ।।

ननु जडे ज्ञानाभावो न प्रत्यक्षः । ज्ञानरूपप्रतियोगिग्राहकस्य मनसो बहिरस्वातन्त्र्येण यावत्प्रतियोग्युपलम्भकसमवधानरूपयोग्यतायुक्तप्रतियोग्यनुपलब्धिविरहात् । अतो जडे लिङ्गान्तरमेव ज्ञानाभावानुमापकमिति चेन्न । प्रसञ्जितप्रतियोगिसत्वविरोधित्वमनुपलब्धे-र्योग्यत्वम् । घटो यद्यवच्छेदकविशेषेण ज्ञानाश्रयः स्यात् । तथा चोपलभ्येत । तादृशज्ञानवत्वेनोपलभ्यमानत्वस्य प्रत्यक्त्वात् इत्यनुपलम्भविरोध्युपलम्भापादनसम्भवात् ।। अपरोक्षत इति ।। लिङ्गान्तरं तु नानुसंहितमिति भावः ।। दुःखादाविति ।। स्ववृत्यतीतदुःखादिज्ञानाभावो न प्रतीयेतेत्यर्थः । भावरूपाज्ञानेन लिङ्गेन ज्ञानाभावोऽनु-मीयत इत्यत्र दूषणान्तरमाह ।। प्रतीयोगीति ।। विषयावच्छिन्नज्ञानरूपविशेषणज्ञानं विना विशिष्टज्ञानानुदयादित्यर्थः । भावरूपाज्ञानसमानविषयकज्ञानसदसद्भावाभ्यामज्ञानज्ञानं तवापि दुर्लभमित्याह ।। अपि चेति ।। अज्ञानस्य ज्ञानविरोधित्वेन प्रतीत्यनियमं परिहरति ।। मुग्ध इति ।। नञोऽप्रयोगेऽपि नञर्थानुभवोऽस्तीत्यर्थः ।। अत एवेति ।। मुग्धादिशब्देषु नञर्थप्रवेशसद्भावादेवेत्यर्थः ।। उक्तं चेति ।। अज्ञानविषयाश्रययोरभेदेऽभिहितेऽस्यास्मिन्न-ज्ञानमित्याश्रयविषयभेदप्रतीत्या विरोध इति शङ्कायां तत्प्रतीतिमन्यथयितुमुक्तमित्यर्थः ।। अज्ञानमिति ।। ज्ञानस्य द्वयसापेक्षत्वात्तत्प्रतियोग्यज्ञानस्यापि तत्सापेक्षत्वप्रथा घटत इत्यर्थः ।। अन्यथेति ।। अज्ञानस्य ज्ञानविरोधित्वेन प्रतीतिनियमाभाव इत्यर्थः । ननु नाज्ञानं विरोधनिरूपकज्ञाननियतज्ञानम् । तमोनीहारादिशब्दैस्तेन विनापि तज्ज्ञानादित्यत आह ।। ज्ञानाभावोऽपीति ।। अज्ञानज्ञानवदेव ज्ञानाभावस्यापि सामान्येन ज्ञाने ज्ञानज्ञानमनपेक्षितमिति भावः ।

ननु न ज्ञानमज्ञानमित्यज्ञानशब्दो न यौगिकः । येनावयवार्थज्ञानविरोधभानमावश्यक-मित्याशङ्क्य निराकरोति ।। एतेनेति ।। वृत्तिज्ञानेति ।। प्रोक्षिण्यादिशब्दवदलब्धात्मक-रूढ्यपेक्षया योगस्यैव बलवत्वादित्यर्थः । अस्त्वज्ञानशब्दोऽज्ञाने यौगिको रूढो वा प्रत्यक्षेण तु ज्ञानविरोधित्वेनैवाज्ञानं प्रतीयत इत्याह ।। शब्देति ।। अन्यथाऽज्ञानस्य ज्ञान-विरोधो न सिद्ध्येदिति भावः । सङ्गृह्णाति ।। एवं चेति ।। विषयनिरूपणानिरूपणाभ्यां भावरूपाज्ञानमशक्यनिरूपणमित्याह ।। अपि चेति ।। उभयत्रापि समाधातुं शङ्कते ।। नन्विति ।। साक्षिरूपमिति ।। ननु बाह्यो विषयः कथं साक्षिभास्योऽसम्बन्धादित्याशङ्कां परिहर्तुं ज्ञानावच्छेदकस्येत्याद्युक्तम् । तदुक्तं विवरणे ‘‘सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव । तत्र ज्ञाततया विषयः प्रमाणव्यवधानमपेक्षते । अन्यस्तु सामान्याकारेण विशेषाकारेण वाऽज्ञानव्यावर्तकतया सदाऽवभासते’’ इति ।। न तदिति ।। साक्षिणो ज्ञानसाधकत्वान्न तद्विरोधित्वमित्यर्थः ।। वृत्तेरेवेति ।। प्रमाणवृत्तेरेवेत्यर्थः ।। सममिति ।। ननु भावरूपाज्ञानवत् ज्ञानाभावो न साक्षात्साक्षिवेद्यः । येन ज्ञानावच्छेदक-विषयस्य ज्ञानद्वारा साक्षिवेद्यत्ववत् अभावप्रतियोगिज्ञानावच्छेदकविषयस्याभावद्वारा साक्षि-वेद्यत्वं स्यात् । ज्ञानवत् तदभावस्य साक्षिवेद्यत्वेऽपि न विषयः साक्षिवेद्योऽसम्बन्धात् । न च प्रतियोगिभूतं ज्ञानं साक्षात्साक्षिवेद्यमिति तद्द्वारा तदवच्छेदकविषयोऽपि साक्षिवेद्यः स्यादिति वाच्यम् । उत्पन्नं हि ज्ञानं साक्षिवेद्यम् । तस्मिंश्चोत्पन्ने तद्विषयोऽपि स्फुरतीति कुतस्तज्ज्ञानाभावः । अनुत्पन्नज्ञानस्य साक्ष्यसम्बन्धान्न तेन ज्ञानग्रहणम् । नतरां तद्द्वारा तद्विषयग्रहणमिति । मैवम् । विरोधिनिरूपकाज्ञानोत्पत्यनुत्पत्तिभ्यां भावरूपाज्ञानसत्वस्य ज्ञानद्वारकज्ञानविषयविषयकसाक्षिज्ञानस्य चासम्भवेन साम्यात् ।

नन्वज्ञानविशेषणतयाऽनुत्पन्नमपि ज्ञानं तद्विषयश्च साक्षिवेद्य इति चेत् । क्वेदमवगत-मायुष्मता । न च घटं न जानामीत्यनुभवादिति युक्तम् । एतस्य त्वदभिमताज्ञान-विषयत्वेऽसंमतेः । तस्मात् न जानामीति ज्ञानविरोधि किञ्चित्साक्षिणाऽनुभूयते । तद्द्वारा विषयोऽपीत्येतावत्सिद्धम् । तस्याभावविलक्षणत्वं प्रकल्प्य तद्द्वारा विषयानुभव इति कल्पनापेक्षया क्लृप्तेऽभावे विषयानुभावकताकल्पनैवोचिता । लाघवात् । भावविलक्षणस्य द्वारत्ववदभावस्यापि तत्सम्भवाच्च । बाह्यविषयस्य साक्षिणा ग्रहणेऽतिप्रसङ्गभङ्गाय स्वसम्बद्धाभावप्रतियोगिज्ञानविषयत्वस्य नियामकस्य सम्भवाच्च ।

नन्ववच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्विशिष्टाभावज्ञानमिति शङ्का तत्परिहारश्च अभावबुद्धौ प्रतियोगित्वानुयोगित्वादिवत्पूर्वानुपस्थितस्यापि विशेषणस्य विशिष्टबुद्धौ भान-सम्भवेन विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वे मानाभाव इत्येवंरूपोऽपि समः । विशेषणता-वच्छेदकप्रकारकज्ञानं विना कथं विशिष्टवैशिष्ट्यज्ञानमित्यपि न । जन्यविशिष्टज्ञानत्वरूपेण प्रत्यक्षत्वादिरूपेण वा पृथक् पृथक् क्लृप्तकार्यकारणभावेनैवोपपन्नस्यार्थसमाजसिद्धस्य विशिष्ट-वैशिष्ट्यज्ञानत्वस्य कार्यतानवच्छेदकत्वेन तत्र कारणान्तराकल्पनात् । इह च विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति न्यायेन विशिष्टवैशिष्ट्यज्ञानसम्भवादिति । साक्षिणा विशेषतो ज्ञायमनेऽपि विषयेऽज्ञानमिति पक्षे ज्ञानाभावेनान्यथासिद्धिमुक्त्वा सामान्येन विषयज्ञाने विशेषतस्तज्ज्ञानमिति पक्षेऽपि ज्ञानाभावेनान्यथासिद्धिरित्याशयेनोपसंहरति ।। तस्मादिति ।। अवच्छेदकस्येति ।। विरोधिनिरूपकज्ञानं प्रति अज्ञानं च प्रति अवच्छेदक- स्येत्यर्थः । ननु विशेषज्ञानभावे विशेषज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने सति स विशेषोऽपि ज्ञात एवेति विशेषज्ञानाभावव्याघात इत्यत आह ।। तद्विशेषेति ।। तत्सामा-न्येति ।। निरूपणीयाभावप्रतियोगिज्ञानविषयीभूतविशेषसमानाधिकरणसामान्यधर्मविषयक-ज्ञानमित्यर्थः । ननु विशेषज्ञानाभावं प्रति सामान्यज्ञानं तत्प्रतियोगिज्ञानं वाऽप्रतियोगीति कथं तस्य विशेषज्ञानाभावज्ञानं प्रति हेतुताऽप्रयोजकता वा स्यादित्यत आह ।। अन्वयेति ।। निरूपणीयाभावप्रतियोगिज्ञानव्यक्तिज्ञानं विनाऽपि सामान्येन तज्ज्ञाने सत्येव विशेषज्ञानाभावज्ञानस्यानुभूयमानत्वादित्यर्थः ।। न त्विति ।। यस्याः ज्ञानव्यक्तेरभावो निरूप्यते तज्ज्ञानव्यक्तिस्तज्ज्ञानं वा तदभावज्ञाने न हेतुरित्यर्थः ।। अपरे त्विति ।। त्वदुक्तमर्थं न जानामीत्यादाविति शेषः । एतन्मते निरूपणीयाभावप्रतियोगिज्ञानापेक्षयाऽ- भावज्ञानहेतौ ज्ञाने व्यक्तिभेदे प्रकारभेदे सत्यपि समानविषयत्वं लभ्यत इत्यर्थः ।

।। केचित्त्विति ।। त्वदुक्तमर्थं न जानामीत्यस्मिन् ज्ञान इत्यर्थः ।। अन्ये त्विति ।। साक्षादिति ।। तथा च न व्याहतिरिति भावः । अज्ञानं वृत्तिवेद्यं न वा । द्वितीयं तावद्दूषयति ।। तत्रेति ।। आद्यमपि द्वेधा विकल्प्य प्रथमं तावद्दूषयति ।। आद्य इति ।। अज्ञानविषयकानुमित्यादिवृत्याऽज्ञानावच्छेदकविषयस्य ग्रहणे तयैव वृत्या तदज्ञाननाशापत्ति-रित्यर्थः ।। त्वन्मत इति ।। साक्षिणोऽज्ञानाविरोधित्वेऽपि वृतेस्तद्विरोधित्वस्य त्वयाऽपि स्वीकारादित्यर्थः । ननु परोक्षवृत्तिरज्ञानाविरोधिनी । तथाहि । द्विविधमावरणम् । एक-मसत्वापादकमन्तःकरणावच्छिन्नसाक्षिनिष्ठम् । अन्यदभानापादकं विषयावच्छिन्न ब्रह्मचैतन्य-निष्ठम् । घटमहं न जानामीत्युभयावच्छेदानुभवात् । तत्राद्यं परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्तते । अनुमितेऽपि वह्न्यादौ नास्तीति प्रतीत्यनुदयात् । द्वितीयं तु साक्षात्कारेणैव निवर्तते । यदाश्रयं यदाकारं ज्ञानं तदाश्रयं तदाकारमज्ञानं नाशयतीति नियमात् । परोक्षज्ञानस्य चेन्द्रियसन्निकर्षाभावेनान्तःकरणमात्राश्रयत्वादपरोक्षज्ञानस्यैव विषयव्यापार-जन्यत्वेन विषयान्तःकरणजन्यत्वेन तदुभयनिष्ठत्वात् । तदुक्तम् परोक्षज्ञानतो नश्येद-सत्वावृत्तिहेतुता । अपरोक्षधिया नश्येदभानावृत्तिहेतुतेति । तेनानुमानादावसत्वावरण-नाशाद्व्यवहारः अभानावरणानिवृत्या च सोपाधिकसाक्षात्कारिभ्रमानिवृत्तिवदज्ञानानिवृत्तिरित्ये-तन्निराकरोति ।। न चेति ।। परोक्षतोऽपीति ।। तथा च तत्राभानावरणाकल्पनम-प्रामाणिकमित्यर्थः ।। यदि चेति ।। परोक्षवृत्तेरज्ञानाभिभवे प्रमातृगताज्ञाननिवर्तनेऽपि वा विषयावरकाज्ञाननिवृत्यनङ्गीकार इत्यर्थः ।। तां विनेति ।। अज्ञाननिवृत्तिमन्तरेणेत्यर्थः ।। उक्तमिति ।। दृश्यत्वहेतुभङ्गे ।। परोक्षेति ।। गुञ्जापुञ्जे वह्निभ्रमानन्तरमुष्णस्पर्शानुमितेः कण्ठे धार्यमाणत्वादिलिङ्गजन्यानुमित्या शाब्दज्ञानेन वेत्यर्थः ।। भ्रमेति ।। भ्रमोपादानस्या-ज्ञानस्य सत्वादित्यर्थः ।। तस्येति ।। अज्ञानाकारप्रमितेरुभयत्र समत्वादिति भावः ।

ननु परोक्षवृतेरज्ञाननिवर्तकत्वे उपादानाभावादपरोक्षभ्रमो न स्यादित्यत आह ।। परोक्षत इति ।। अस्मन्मते ह्यज्ञानस्य भ्रमानुपादानत्वादिति भावः । तव मते तु तस्यापि दोषस्य बोद्धव्यत्वादित्याह ।। त्वन्मत इति ।। अज्ञानविषयकानुमित्यादिवृत्या तदव-च्छेदको विषयो न गृह्यत इति चरमं पक्षं दूषयति ।। अन्त्य इति ।। परामर्शोऽनुसन्धा-नम् । सुषुप्त्यवस्थायां ज्ञानाभावानुभवाभावान्न तस्य जागरे परामर्शः सम्भवतीत्याशङ्क्य परिहरति ।। न चेति ।। धर्म्यादिज्ञानाभावनिमित्तकः सुषुप्त्यवस्थायां विशेषरूपेण ज्ञाना-भावाननुभव इत्युच्यते  सामान्यरूपेण वा । नाद्य इति भावेनाह ।। भावरूपेति ।। तथा च सुषुप्त्यवस्थायां तेन रूपेण ज्ञानस्याप्यननुभवात्तस्यापि परामर्शो न स्यादित्यर्थः ।। तदपेक्षणादिति ।। अज्ञानावच्छेदकविषयकविरोधनिरूपकज्ञानस्यापेक्षणादित्यर्थः । द्वितीये त्वाह ।। सामान्येति ।। विरोधनिरूपकं ज्ञानमज्ञानविषयं सामान्यरूपेणोल्लिखतीति न विशेषरूपेऽज्ञानविरोध इत्यर्थः ।। तर्हीति ।। अभावप्रतियोगिभूतज्ञानमपि स्वविषयं सामान्येनोल्लिखदभावनिरूपकमस्त्वित्यर्थः । द्वितीयपक्षेऽप्यज्ञानेन समं समाधानमिति वक्तुं शङ्कते ।। नन्विति ।। सममिति ।। अज्ञानज्ञानाभावयोः साक्षियोग्यत्वतदयोग्यत्वाभ्यां वैषम्यमिति शङ्कां परिहरत्यपिशब्देन ।

नन्वभावस्य ससम्बन्धिकत्वात्स्वरूपेण ज्ञानमेवानुपपन्नमित्यत आह ।। अभाव-स्यापीति ।। ज्ञानाभावस्य ज्ञानग्राहकग्राह्यत्वेऽपि सुषुप्तौ न तद्ग्रहः । तस्या एव प्रतिबन्ध-कत्वादित्यत आह ।। यद्वेति ।। किन्त्विति ।। सुषुप्तौ ज्ञानाभावः स्थित इति जाग्रत्यनु-मीयत इत्यर्थः ।। अवस्थेति ।। सम्प्रतिपन्नोदयास्तमयकालवद्विवादपदयोरप्युदयास्तमययो-रन्तरालकालमनुमाय तत्कालेऽहंज्ञानाभावात् अवस्थाविशेषवत्वात् व्यतिरेकेण जाग्रदह-मिवेत्यनुमानेनेत्यर्थः ।

न च ज्ञानाभावमन्तरेणावस्थाविशेषो वक्तुमशक्य इति वाच्यम् । श्रुतिसिद्धप्राज्ञ-परिष्वङ्गविशेषकालस्य सुषुप्त्याख्यस्य ज्ञानाभावभिन्नस्य सुवचत्वात् ।। सामग्य्रभावस्य वेति ।। ननु ज्ञानसामग्रीविरहस्य ज्ञानरूपकार्यविरहानुमेयत्वेनान्योन्याश्रय इत्यत उक्तम् ।। इन्द्रियेति ।। इदानीन्तनेन्द्रियप्रसादेन सुषुप्तिकालीनेन्द्रियोपरमानुमानमित्यर्थः । न चेन्द्रिय-प्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वमसिद्धमिति वाच्यम् । स्वरूपसुखानुभव-स्येन्द्रियोपरमं प्रत्यप्रयोजकत्वात् । इन्द्रियजन्यविषयानुभवहेतुकसुखानुभवस्य तदानीमभावात् ।। तत्तुल्येति ।। तुल्यत्वं चानुपेक्षणीयत्वम् । तेनोपेक्षणीये न व्यभिचारः । तदंशे संस्कारानुद्बोधेनास्मर्यमाणे व्यभिचारवारणाय नियमेनेति ।। त्वन्मत इति ।। सुषुप्तावह-मर्थाभावेन तदा तस्याननुभूततया न किञ्चिदहमवेदिषमिति जाग्रत्कालीनज्ञानज्ञानस्याहमर्थे परामर्शत्वं न सम्भवतीत्यर्थः ।। अन्यानुभूत इति ।। अहमर्थानवच्छिन्नस्य सुषुप्ताव-ज्ञानद्रष्टृत्वम् । तदवच्छिन्नस्य जाग्रति तत्परामर्ष्टृत्वमित्यसम्भवेनाहमर्थावच्छिन्नस्यैव जाग्रत्यज्ञानानुभव एवायमित्यस्यैव वक्तव्यत्वादित्यर्थः । संस्काराभावान्नाज्ञानांशे परामर्श इत्याह ।। सुषुप्तावित्यादिना ।। विनष्टेन ज्ञानेन स्मरणजननायोगात्तेन संस्कारो जननीयः । अविनश्यत्तु साक्षादेव तत्परामर्शरूपमिति न तेन संस्कारो जन्यते । न हि संस्कारः प्रत्यक्षः । येन कार्यान्यथानुपपत्तिं विनापि स कल्प्येतेत्यभिप्रायेणोक्तं नित्य-ज्ञानस्येति । अविद्यावृत्तेरनित्यत्वात् तदुपहितसाक्षिरूपस्याज्ञानज्ञानस्याप्यनित्यत्वात्तस्य संस्कारजनकत्वं भविष्यतीति शङ्कापरिहारायोक्तम् ।। अविद्यावृत्तीत्यादि ।। न चाज्ञान-विषयकाज्ञानाभावेन तत्र न संशयादिरिति वाच्यम् । अज्ञानगोचरज्ञानाभावेन तत्राज्ञान-स्याप्यापाद्यमानत्वादिति भावः ।

ननु प्रमाणस्यानाशेऽपि प्रमेयस्य नाशात्संस्कारोपपत्तिः । तथाहि । सुषुप्त्याख्याया-स्तामस्या अज्ञानवृत्तेर्नाशेन जाग्रति तद्विशिष्टाज्ञानस्य साक्षिणानुभूयमानत्वाभावेन संस्कार-जन्याविद्यावृत्यैव सुषुप्तिविशिष्टाज्ञानभानात्परामर्शत्वोपपत्तिरिति । मैवम् । सुषुप्त्यवस्थाया अविद्यावृत्तित्वे मानाभावात् । दोषाजन्यत्वाद्व्यवहारदशायामबाध्यत्वाच्च सुषुप्तेर्नाविद्या-वृत्तित्वम् । तथापि केवलाज्ञानांशे सुषुप्तिजागरयोः तुल्यसामग्रीकत्वाद्धारावाहिकबुद्धित्वमेव । न परामर्शत्वम् । अत एवाव्याकृतप्रक्रियायां कार्योपाधिविनाशसंस्थितमज्ञानमात्रमेव प्रलये प्रलयोपमं सुषुप्तिरित्यभिप्रेत्य वार्तिके सौषुप्ताज्ञानस्मरणमपाकृतम् । उक्तं च न सुषुप्तिग-विज्ञानं नाज्ञासिषमिति स्मृतिः । कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक् । न भूतकाल-स्पृक् प्रत्यङ् न चागमिस्पृगीक्षते । स्वार्थदेशः परार्थोऽर्थो विकल्पस्तेन स स्मृतरिति । तथा । न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते । नावेदिषं सुषुप्तोऽहमिति धीः किं बला-द्भवेदिति । एतत्सर्वमभिसन्धायोक्तम् ।। जागरणादावपीति ।। यदि सुषुप्तौ सुषुप्त्यवस्था-विशिष्टमनुभूयेत तर्हि जागरेऽपि तथैवानुभूयेतेत्यर्थः । तत्तानुल्लेखाच्च नायं परामर्शः । किन्तु ज्ञानाभावानुभव एव । अत एव अभावप्रत्ययालम्बनावृत्तिर्निद्रेति योगसूत्रमिति । विवरणेऽपि तमोगुणात्मकावरणमात्रावलम्बना काचिद्वृत्तिः सुषुप्तिरिति । ज्ञानाभावानुमानानभ्युपगमे बाधकमाह ।। अन्यथेति ।। इच्छादाविति ।। इच्छादौ भावरूपाज्ञानाभावादित्यर्थः । तदा सुषुप्तौ ।। न हीति ।। विरोधिपदार्थानुभवेनैव तदभावानुमानस्य त्वयाऽङ्गीकारादित्यर्थः ।। ज्ञानाभावादेवेति ।। अज्ञानानुमितादिति शेषः ।। तदभावेति ।। प्रकाशमाने आत्मादौ ज्ञानाभावाभावेन तत्र रागाद्यभावो न सिद्ध्येदित्यर्थः । उपसंहरति ।। तस्मादिति ।।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायां हि त्वज्ञानाक्षमभावगम् ।।

न्यायामृतसौगन्ध्यम्

यदत्र अज्ञाने ‘अहमज्ञो मामन्यं च न जानामि’ इति प्रत्यक्षम् । ‘त्वदुक्तमर्थं न जानामि’ इति विशेषतः प्रत्यक्षं, ‘एतावन्तं कालं सुखमहमस्वाप्सं’ ‘न किञ्चिदवेदिषम्’ इति परामर्शसिद्धं सौषुप्तप्रत्यक्षं च प्रमाणमिति । तन्न । अज्ञानानाश्रयत्वेन त्वदभिमते अहमर्थे न जानामीति ज्ञानाभावस्यैव प्रतीयमानत्वात् । एवं घटं न जानामीति जडे प्रतीयमानो हि ज्ञानाभाव एव । ननु अज्ञानाश्रयीभूतचैतन्ये अन्तःकरणतादात्म्याध्या-सेनैकाश्रयत्वसम्बन्धेनोपपत्तिः । तत्तदवच्छिन्नचैतन्यस्यैवाज्ञानाश्रयत्वेन तत्रापि तद्व्यवहारो-पपत्तिरिति चेन्न । चिन्निष्ठतया मुख्याज्ञानाश्रयत्वविषयकज्ञानान्तरस्याभावेनैतस्यैव मुख्य-त्वौचित्यात् । अनादेरावरणस्वभावस्याज्ञानस्य सादिघटाद्यवच्छिन्नचिदाश्रयत्वासम्भवाच्च ।

एतेन पूर्वसिद्धतमसो हि पश्चिमो नाश्रय इति युक्तेर्न किञ्चिदवेदिषमिति सौषुप्तिकस्य प्रत्यक्षस्य च तत्र मुख्यत्वमिति निरस्तम् । अहमज्ञ इति प्रत्यक्षमज्ञाने मानमित्युक्ते तस्याज्ञानाश्रयाहमर्थविषयत्वेन च प्रत्युक्ते तत्र युक्त्युपन्यासस्याकाण्डताण्डवत्वात् । सुषुप्तावप्यहमर्थनिष्ठतयैवानुभवात् तथा परामर्शानुरोधात् साक्षिवेद्ये सुखाज्ञानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जानामीति प्रतीतेर्ज्ञानाभावविषयत्वात् ।

एतेन स्वस्मिन् विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धरूप्यादौ च न जानामीति व्यवहारासम्भवात् । परसुखादौ न जानामीति व्यवहारस्य परोक्षज्ञाननिवर्त्येन प्रमातृगता-ज्ञानेनैवोपपत्तेरिति निरस्तम् । स्वनिष्ठातीतसुखादौ स्वभ्रमसिद्धरूप्यादौ च न जानामीति व्यवहारसम्भवात् । न जानामीति प्रतीतिसिद्धप्रमातृगताज्ञानातिरिक्तविषयगताज्ञाने माना-भावाच्च ।

किञ्च भावरूपाज्ञानविषयत्वेनाभिमतस्याहमज्ञ इति प्रत्ययस्य मयि ज्ञानं नास्तीति ज्ञानाभावविषयात् प्रत्ययात् अघटं भूतलमिति प्रत्ययस्य घटो नास्तीति प्रत्ययादिव विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वेषाभावज्ञानयोरिव विषयभेदाप्रतीतिः । ननु धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां ज्ञानसामान्याभावज्ञानस्य व्याहतत्वेन मयि ज्ञानं नास्तीत्यस्यापि भावरूपाज्ञानविषयत्वेन विषयभेदाप्रतीतिर्युक्तेति चेन्न । त्वदभिमताभावविलक्षणस्याप्यज्ञानस्य न जानामीति ज्ञानसामान्यविरोधित्वेनैव प्रतीतेः । मोहादिपदेऽपि प्रलयादिपदवन्नञनुल्लेख-मात्रम् । अज्ञानमिति द्वयसापेक्षज्ञानपर्युदासेनाभिधानादिति विवरणोक्तेः । अन्यथा  ज्ञानविरोधित्वमज्ञानस्याप्रामाणिकं स्यात् ।

यत्तु मनइन्द्रियाणि विराजदेवताः कोशाश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वयमेवायमात्मेति तापनीये मायामयत्वेन तत्प्रविष्टस्याप्यात्मनः (तच्छन्य-त्वेन) अद्वयस्वभावत्वमुक्तमिति । तन्न । सर्वज्ञोऽपि मायया कृपया प्रपञ्चं सृष्ट्वा प्रविश्य च मूढो यो जीवस्तद्वद्व्यवहरन्नास्ते ‘माया कृपायां दम्भे चे’ति कोशात्, अयमात्मा परमात्माऽद्वयं समाभ्यधिकरहितं इत्यर्थात् ।

यत्तु ‘‘एवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवती’’ति श्रुत्या मायाविद्ययोरैक्यप्रतिपादनात् माया अज्ञानमेवेति । तन्न । एषा माया प्रकृतिः स्वाव्यतिरिक्तान्यभिन्नानि महत्तत्वानि परिपूर्णानि उत्तरकार्यजनने सर्मर्थानि क्षेत्राणि दर्शयित्वा अभिव्यक्तानि कृत्वा जीवेशौ अभासेन अन्यथाज्ञानेन सम्बद्धौ करोति, जीवस्याब्राह्मणोऽहं गौरोऽहमित्यादिकं अन्यथाज्ञानं हि अन्यसाधारणतया ईश्वरविषयकजीवनिष्ठं ज्ञानं करोतीत्यर्थात् । ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो (मम भूतमहेश्वरमिति) ममाव्ययमनुत्तममि’ति स्मृतेः ।

यत्तु ‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । भेदश्च तस्याज्ञानकृतमि’ति विष्णुपुराणे स्पष्टमज्ञानस्य भेदकत्वं १((देवादिभेदमध्यासद्यवरोहि स इति तन्नैवभेदनास्तित्वेन)) आवरकप्रयुक्तत्वं हेतूकृतमिति तत्प्रामाणिकमिति । तन्न । भेदजनके एकस्यापि जीवस्य देवमनुष्यादिभेदजनके तत्वज्ञाने २((ज्ञानविरोधिनिकमं विशेषे आत्यन्तिको नाशं प्रागभावाद्यसमानकालीन इत्यर्थः)) अत एव तादृश एव भेदो निषिध्यते । अन्यथा जीवानां सादित्वापत्तेः ।

मायां च प्रकृतिं विद्यान्मायिनं च महेश्वरमिति श्रुतिर्न त्वदभिमताज्ञाने मानम् । ईश्वरस्याज्ञानित्वापत्तेः । मायां प्रकृतिं विश्वोपादानं मायिनं सर्वज्ञमित्यर्थः । मि गतौ इत्यस्य ३((अधृशीयस्य)) मय गतौ इत्यस्य च णिजन्तस्याङ्प्रत्ययान्तस्य डाचन्तं मायेति रूपं, ये गत्यर्थास्ते ज्ञानार्था इत्यभियुक्तोक्तेः । माया वयुनं ज्ञानमिति च वेदनिघन्टूक्तेश्च । ४((तथा च सत्यभूतनानार्थको मायाशब्द इति न निवर्त्यत्वनियामकस्य तन्निरूपितत्वस्य  ज्ञानेऽवश्यं वाच्यत्वात् । तथा च न ज्ञानविरोधित्वं न जानामीति धीविषयः । किं त्वखण्डोऽज्ञानत्वाख्यो धर्म इति निरस्तम्)) तन्निरूपितत्वस्य सादृश्यादावतिप्रसक्तत्वेन तज्ज्ञाननिवृत्यर्थं तज्ञानविरोधित्वेन भानावश्यकत्वात् सुरविरोधित्वमेवासुरत्वं यथा तथा ज्ञानविरोधित्वमेव ह्यज्ञानत्वं सखण्डमखण्डं वेत्यन्यदेतत् । अन्यथा जानामि न जानामीति युगपत्प्रत्ययापत्तेः ।

ननु प्रमाणवृत्तिनिवर्त्यस्यापि भावरूपाज्ञानस्य साक्षिवेद्यस्य विरोधनिरूपकज्ञान-तद्व्यावर्तकविषयग्राहकेण साक्षिणा तत्साधकेन तदनाशात् व्याहत्यनुपपत्तिः । अज्ञानग्रहे विषयगोचरप्रमापेक्षायां व्याहतिः स्यादेव, सा च नास्ति । तदुक्तं विवरणे सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेतीति चेन्न । ज्ञानतद्विषयतदभावाः साक्षिग्राह्याः । न जानामीति धीस्तु प्रमाणवृत्यभावविषयेति ममापि व्याहत्यभावात् । न च भावरूपाज्ञानस्य साक्षात् साक्षिवद्यत्वेन तदवच्छेदकविषयादेस्तद्द्वारा साक्षिवेद्यत्वसम्भवेऽपि अभावस्यानुपलब्धिगम्यत्वेन साक्षात् साक्षिवेद्यत्वाभावान्न तद्द्वारा तदवच्छेदकविषयादेः साक्षिवेद्यत्वमिति वाच्यम् । अनुपलब्धेः प्रमाणसहकारिमात्रत्वेनाप्रामाणत्वात् । ज्ञानाभावस्य साक्षिवेद्यत्वे बाधकाभावाच्च । एतेन उत्पन्नं ज्ञानं साक्षात् साक्षिवेद्यम् । तस्मिंश्चोत्पन्ने तद्विषयोऽपि स्फुरतीति कुतो ज्ञानाभावोऽपि ? अज्ञानविशेषणतया त्वनुत्पन्नमपि ज्ञानं साक्षिवेद्यमिति निरस्तम् । अज्ञानविशेषणतयाऽनुत्पन्नमपि ज्ञानं साक्षी गृह्णाति न ज्ञानाभावविशेषणतयेत्यत्र तव दुराशाया एव तन्त्रत्वात् ।

अन्ये तु साक्षात्त्वदुक्तार्थविषयकप्रमाणज्ञानं मयि नास्तीत्येतद्विषयकं उदाहृतज्ञानम् । तच्च न साक्षादर्थविषयम् । प्रमाणज्ञानावच्छेदकतयाऽर्थस्य भानात् । अतो न व्याघातः । ननु साक्षात्त्वदुक्तार्थमवे(त्य)क्ष्य हि तदभावो ग्राह्यः । तज्ज्ञानं च न साक्षिणा । स्वस्मिं-स्तादृक्प्रमाणज्ञानाभावात् । अन्यनिष्ठं तु शब्दादिना ग्राह्यम् । शब्दादिश्च त्वदुक्तार्थं बोधयन्नेव तद्विषयत्वं ज्ञाने बोधयेदिति व्याहतिरेवेति चेन्न । ज्ञानतदभावतद्विषया हि साक्षिग्राह्याः स्वस्मिन्ननुत्पन्नमपि ज्ञानं अज्ञानविशेषणतयेव ज्ञानाभावविशेषणतयापि साक्षि-ग्राह्यत्वसम्भवात् ।

किञ्च न किञ्चिदवेदिषमिति परामर्शः अनुमानं स्मरणं वा । आद्ये ज्ञानाभाव एवानु-मीयताम्, किं भावरूपाज्ञानेन ? तथाहि सम्प्रतिपन्नोदयास्तमयकालवत् विवादपदयोरपि उदयास्तमययोरन्तरालकालमनुमाय तत्काले अहं ज्ञानाभाववान्, अवस्थाविशेषवत्वात्, ज्ञानसामग्रीविरहवत्वात्, तत्तुल्ययोगक्षेमे आत्मादौ नियमेन स्मर्यमाणेऽपि तद्वत्तया नियमेनास्मर्यमाणत्वाद्वेति प्रयोगसम्भवात् । द्वितीये तु नास्त्युपपत्तिः । संस्काराभावात् । विनश्यदेव हि ज्ञानं संस्कारं जनयति, विना व्यापारं व्यवहितकार्यजननाक्षमत्वात् । अविनाश्यता तु तेन स्वयमेव तत्कार्यस्य जनयितुं शक्यत्वात् किं संस्कारेण ? सौषुप्तिकं चानाद्यज्ञानोपरक्तं साक्षिरूपं ज्ञानं स्वतो वा उपाधितो वा न नश्यतीति कथं संस्कारः ? कथं वा तं विना स्मरणं ?

न च हेतोः पक्षविशेषणस्य च ज्ञानासम्भवः । ज्ञानाभावमन्तरेण अवस्थाविशेषस्य वक्तुमशक्यत्वात् । ज्ञानसामग्रीविरहश्च ज्ञानाभावानुमेय इति अन्योन्याश्रय इति वाच्यम् । प्राज्ञेनात्मना परिष्वक्तो न बाह्यं किञ्चन वेदेति श्रुत्या सुषुप्त्यवस्थायाः सिद्धत्वात् । इदानी-न्तनेन्द्रियप्रसादेन सुषुप्तौ इन्द्रियोपरममनुमाय सामग्रीविरहानुमानाच्च । न चेन्द्रियप्रसादस्य सुखानुभवहेतुकत्वं न तु इन्द्रियोपरमहेतुकत्वमिति वाच्यम् । वैषयिकसुखानुभवेन इन्द्रिय-क्षोभस्यैवानुभाविकत्वात् । न च सुषुप्तौ उपेक्षणीयज्ञानाभावो न सिद्ध्येदिति तत्रैव व्यभिचारः । अनुपेक्षणीयत्वेन योगक्षेमतुल्यत्वोक्त्या तत्र हेतोरेवाभावात् ।

किञ्च सुषुप्तिकाले ज्ञानाभावानुमानार्थं भावरूपाज्ञानमिव रागाभावानुमानार्थं द्वेषोऽपि स्वीकर्तव्यः । न च भावरूपाज्ञानेन ज्ञानाभावेन वा रागाभावानुमानसम्भवः । सुषुप्तौ भासमाने आत्मादौ अज्ञानस्य ज्ञानाभावस्य वा असम्भवः । न चाज्ञानस्याज्ञानवृत्ति-प्रतिबिम्बितस्य साक्षित्वे हि वृत्यभावकाले ज्ञातैकसतोऽज्ञानस्यासिद्ध्यापत्तिः, जागरादौ वृत्यभावदशायां संशयाद्यापत्तिश्च । सादिज्ञानविषयप्रमाणकस्य ज्ञातैकसतोऽनादित्वा-सिद्ध्यापाताच्च । न च जागरे अज्ञानविषयकाज्ञानाभावे तद्विषयकसंशयादिः ज्ञानाभावेना-ज्ञानस्याप्यापाद्यत्वात् । न च सुषुप्तौ अज्ञानं स्वरूपेणैव साक्षिवेद्यं न ज्ञानाभावः तस्य साक्ष्यवेद्यत्वात् । नापि शब्दादिना तदानीं तेषामभावात् इति वाच्यम् । ज्ञानाभावस्य साक्षिवेद्यतया त्वया दण्डेनानिवारणात् ।

किञ्च त्वदभिमताज्ञानस्य तदीनीं ज्ञानविरोधित्वादेरननुभवेन न किञ्चिदवेदिषमिति तद्विषयसंस्कारपरामर्शयोरनुपपत्तिः । ननु द्रष्टर्यन्तःकरणतादात्म्येनाहमुल्लेखस्येव ज्ञान-विरोधित्वादेरपि तदैवानुभूयमानत्वेन तदंशे न परामर्शः किं तु सुषुप्तिकालीनस्य द्रष्टुरेव परामर्शः । अहमर्थातिरिक्ते सुषुप्तिद्रष्टरि मानाभावेन दृष्टान्तासिद्धेः ।

किञ्चाज्ञानवृत्तिप्रतिबिम्बितचैतन्यरूपस्याज्ञानानुभवस्य  जाग्रत्यप्यज्ञानसिद्ध्यर्थमावश्य-कत्वेन कथमज्ञानस्मरणम् । न हि धारावाहिकेषु अनुभवेषु तुल्यसामग्रीकेषु स्मरणव्यवहारः । ननु सुषुप्त्याख्यायास्तामस्याः अज्ञानवृत्तेर्नाशेन जाग्रति तद्विशिष्टाज्ञानस्य साक्षिणाऽनुभूय-मानत्वाभावेन संस्कारजन्याविद्यावृत्यैव सुषुप्तिविशिष्टाज्ञानभानात् परामर्शत्वोपपत्तिः । केवलाज्ञानांशे तु तुल्यसामग्रीकत्वाद्धारावाहिकत्वमेवेति चेन्न । श्रुतिसिद्धसुषुप्तेरविद्यावृत्तित्वे मानाभावात् । अविद्यावृत्तेर्दोषजन्यत्वनियमेन संस्कारजन्यत्वात् सुषुप्तिविशिष्टाज्ञान-परामर्शानुपपत्तेः । न किञ्चिदवेदिषमित्यत्र केवलाज्ञानस्याननुभवाच्चेति ।

।। भावरूपाज्ञानप्रत्यक्षभङ्गविवरणम् ।।