किञ्चैतैरेव प्रयोगैः स्वप्रतिज्ञाहेतूदाहरणादिप्रापितानां ..
३१. असतः साधकत्वे बाधकविवरणम्
न्यायामृतम्
किञ्चैतैरेव प्रयोगैः स्वप्रतिज्ञाहेतूदाहरणादिप्रापितानां साध्यसाधनव्याप्त्यादीनां मिथ्यात्वं न बोध्यते चेत्, सर्वमिथ्यात्वासिद्धिः । बोध्यते चेत् परस्परव्याहतिः । बाध–स्वरूपासिद्धि–व्याप्यत्वासिद्ध्यादिकं च स्यात् । परमार्थसत्त्वस्यैव साधकत्वे तन्त्रत्वात् । तथा हि– न तावद्धीमात्रं तत्र तन्त्रम् । तुच्छस्यापि तत्प्रसङ्गात् । नाप्यपरोक्षधीः, अपरोक्षसत्त्वधीर्वा तन्त्रम् । नित्यातीन्द्रिये तदभावात् । ह्रदे प्रपञ्चे चापरोक्षभ्रान्तिसिद्धेन धूमेनात्यन्ताबाधेन च वह्नेः पारमार्थिकसत्त्वस्य चासिद्धेश्च । वह्नित्वेनाज्ञातस्यापि वह्नेर्दाहकत्वाच्च । अमृतत्वेन ज्ञातस्यापि विषस्यासञ्जीव-कत्वाच्च । अत एव न त्रिचतुरकक्ष्यास्वबाधिता सत्त्वधीस्तन्त्रम् । गौरोऽहं, नीलं नभ इत्यादि भ्रान्तिसिद्धेन गौरत्वनीलत्वादिना आत्माकाशादेरपि अनित्यत्वस्पर्श-वत्त्वाद्यापाताच्च । गौरोऽहमित्यादावपि तत्कक्ष्यासु प्रत्यक्षाबाधात् । यौक्तिकादि-बाधस्य च त्वन्मते प्रकृतेऽपि भावात् ।
एतेन लोकप्रसिद्धिस्तन्त्रमितीष्टसिद्ध्युक्तं निरस्तम् । एतेनैव त्रिचतुरकक्ष्या-स्वबाधिता वादिप्रतिवादिप्राश्निकानां सत्त्वधीस्तन्त्रमिति निरस्तम् । निपुणेन बौद्धेनोक्तधीविषयव्याप्त्यादिमत्त्वेन व्युत्पादितैः शून्याद्वैतादिहेतुभिस्तत्सिद्ध्या-पातात् । एतेनैव यादृश्या तव सत्त्वसिद्धिस्तादृशी धीर्मम तन्त्रमिति खण्डनोक्तं निरस्तम् । यादृश्या शब्दे क्लृप्तदोषहीनया तव ब्रह्मणि सत्त्वसिद्धिस्तादृश्या प्रत्यक्षे क्लृप्तदोषरहितया मम जगति सत्त्वसिद्धेः । अन्यथा शुक्तिरूप्यादिप्रत्यक्षदृष्टान्तेन जगत्प्रत्यक्ष इव पूर्वपक्षिप्रतिपन्नश्रुत्यर्थदृष्टान्तेन त्वत्प्रतिपन्नेऽपि श्रुत्यर्थे दोषान्तरशङ्का कालान्तरभाविबाधशङ्का च स्यात् ।
नापि परप्रसिद्धं सत्त्वं तन्त्रम् । तेन स्वार्थानुमानायोगात् । परार्थप्रयोगस्य च तत्पूर्वकत्वात् । परप्रसिद्धिमात्रेण हेतुना वास्तवसाध्यासिद्धेश्च । न च मिथ्यात्वमपि पररीत्यैव न तु वास्तवमिति वाच्यम् । बौद्धरीत्या मिथ्याभूतस्यात्मन इव जगतो वस्तुत- स्सत्त्वापातात् । मिथ्यात्वस्य तत्त्वावेदकश्रुतिवेद्यत्वाच्च । तदुक्तं वार्तिके बौद्धं प्रति–
योऽपि तावत्परासिद्धः स्वयं सिद्धोऽभिधीयते ।
भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ।। इति ।
नापि व्यावहारिकसत्त्वं तन्त्रम् । प्रपञ्चमिथ्यात्वसिद्धेः प्राक् तदसिद्ध्याऽ-न्योन्याश्रयापातात् । प्रातिभासिकेन हेतुव्याप्त्यादिना व्यावहारिकसाध्यसिद्ध्यदर्शनेन हेतुव्याप्त्यादेरनुमितिविषयसमसत्ताकत्वनियमेन व्यावहारिकेण पारमार्थिकासिद्धेश्च । किञ्च व्यावहारिकसत्त्वस्याबाध्यत्वरूपसत्त्वविशेषत्वेऽस्मदिष्टसिद्धिः । सत्त्वेन व्यवहार मात्रत्वे चोक्तदोषाः । भ्रान्तेर्बहुकालानुवृत्तिश्चाप्रयोजिका । तथा च–
व्यावहार्यं यदा सत्त्वमस्माकं तर्हि का क्षतिः ।
न चेदसत्साधकत्वं नास्तीत्यत्र किमागतम् ।।
तस्माद्यन्नास्ति नास्त्येव यच्चास्ति परमार्थतः ।
तत्सत्यमन्यन्मिथ्यैव न सत्यद्वयकल्पना ।।
तुल्यार्थत्वेऽपि तेनैव मिथ्यासंवृतिशब्दयोः ।
वञ्चनार्थमुपन्यासो लालावक्त्रासवादिवत् ।। इति ।
अज्ञानादेः सिद्धिपर्यन्तसाधके स्वरूपेण परमार्थसति साक्षिणि व्यावहारिक-सत्त्वाभावाच्च । न च साक्ष्यप्यविद्यावृत्तिप्रतिबिम्बित एवाज्ञानादिसाधकः । त्वयैव
‘‘चैत्ररागः स्वविषयानित्यज्ञानातिरेकिणा ।
तदध्यक्षेन संवेद्यः प्रत्यक्षत्वाद् घटादिवद् ।।’’
इति सुखादेर्नित्यधीवेद्यत्वोक्तेः । अज्ञानसुखादेर्ज्ञातैकसत्त्वाभावापाताच्च । अविद्यावृत्तिं प्रति तदप्रतिबिम्बितस्यैव साधकत्वाच्च । साक्षिगतसाधकताया अज्ञाना-धीनत्वेऽपारमार्थिकतया प्रातीतिकस्याज्ञानसत्त्वस्य साक्षिणा सिद्धिं विनाऽयोगे-नाऽन्योन्याश्रयाच्च । एतेन तवासत इव मम सतोऽपि साधकत्वे विमतिरित्यानन्द-बोधाद्युक्तं निरस्तम् । नापि सत्तात्रयं द्वयं वा तन्त्रम् । अननुगमात् । प्रयोज्य-वैजात्याभावेन तृणारणिमणिन्यायासम्भवाच्च । नापि सत्त्रयानुगतं सद्द्वयानुगतं वा सत्त्वसामान्यं तन्त्रम् । अपरमार्थसतोऽसत्वेन तत्र सत्त्वस्य विरुद्धत्वात् । तदुक्तं वार्तिके बौद्धं प्रति–
सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः ।
विरोधान्न हि सिंहत्वं सामान्यं वृषसिंहयोः ।।
अपरमार्थसतः अबाध्यत्वरूपसद्विशेषत्वे च शाबलेयस्य गोविशेषत्ववत् प्रपञ्च-स्यापि ब्रह्मवत् सद्विशेषत्वात् सद्वैलक्षण्यं न स्यात् । किञ्च यद्यारोपितानारोपितानु-गतं सामान्यं स्यात्तर्हि ब्राह्मणो यजेतेत्यादिसामान्यविधिं प्रति ब्राह्मण्यामब्राह्मणा-ज्जात आरोपितब्राह्मण्यादिरपि नियोज्यः स्यात् । निषेधस्य तु आरोपितेनापि ब्राह्मण्येन हीनो विषयः स्यात् । अस्तु वा तदनुगतं सामान्यं तथापि तस्य तन्त्रत्वे स्वाप्नेनाद्वैतसाक्षात्कारेणाश्वमेधादिना च तत्फलस्य द्वैतश्रुत्यादिना च द्वैतस्य धूमा-भासेन च वह्नेर्व्यावहारिकेण च विरुद्धधर्मेण पारमार्थिकस्य जीवेश्वरभेदस्य सिद्धिः स्यात् । अत एव धर्मितुल्यसत्त्वं वा असद्विलक्षणत्वं वा न तन्त्रम् । गौरवाच्च ।
ननु धूमाभासस्यासाधकत्वं नासत्त्वात्, किन्तु व्याप्त्यभावात् । बहुलोर्ध्वतादि-वदाभासविवेकस्यापि व्याप्त्यर्थत्वादिति चेन्न । अस्याः कल्पनाया असतः साधकत्वसिद्धिसापेक्षत्वेनान्योऽन्याश्रयात् । आभासेऽप्यारोपितव्याप्तेरारोपिताभास-विवेकस्य च सत्त्वाच्च । प्रकृतेऽपि दृश्यत्वस्यारोपितस्य ब्रह्मण्यपि सत्त्वेन व्याप्त्यर्थ-मेव हेत्वादिसत्त्वस्यापेक्षितत्वाच्च । हेत्वाद्यारोपस्य सर्वत्र सौलभ्येनासिद्ध्यादेर-दोषतापाताच्च । आश्रयादेस्सत्त्वनियमाभावेऽपि व्याप्त्यादेस्तन्नियमाच्च । नाप्य-प्रातिभासिकत्वं तन्त्रम् । तुच्छेऽतिप्रसक्तेः । नाप्यप्रातिभासिकसत्त्वं तन्त्रम् । गौरवात् । व्यावहारिकतात्त्विकानुगतसत्त्वसामान्यस्याभावाच्च । नाप्यसद्विलक्षणत्वे सति प्रातिभासिकवैलक्षण्यं तन्त्रम् । अतिगौरवात् । अन्यथा प्रवृत्तौ न संसर्गग्रहो हेतुः, किन्तूपस्थितासंसर्गाग्रह इति भ्रान्तिर्न सिद्ध्येत् । किञ्चासतः साधकत्वं विप्रतिपन्नत्वात्साध्यम् । तत्साधकं च न तावत् त्वन्मते सद्, अपसिद्धान्तात् । नाप्यसत्, प्रतिवादिनस्तत्साधकत्वे विप्रतिपत्त्याऽनवस्थानात्, । न च सतः साधकत्वेऽप्ययं दोषः । त्वन्मते सतः साक्षिणः साधकत्वात् । उक्तं हि–
‘‘साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।
स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः ।।’’
इति । औत्सर्गिकप्रामाण्येन सिद्धत्वाच्च । तवापि व्यवहारे उपायान्तराभावेन स्वच्छायावद् दुर्लङ्घ्यलोकमर्यादासिद्धत्वाच्च । न च सिद्धिरप्यसतीत्युक्तेऽनिस्तारः, अन्योऽन्याश्रयात् । अन्यथा प्रतीतिरप्यत्यन्तासतीति सुवचत्वेन प्रतीत्या असद्वै-लक्षण्यं न सिध्येत् । एतेन सल्लक्षणयोगित्वायोगित्वे एव साधकत्वासाधकत्व-योस्तन्त्रे, न तु सत्त्वासत्त्वे इति खण्डनोक्तं निरस्तम् । हेतुव्याप्त्यादेरसत्त्वेऽसिद्ध्य-व्याप्त्याद्यसल्लक्षणापाताच्च । एतेन मिथ्यात्वाविशेषेऽपि स्वप्नवद्धेतुतदाभासव्यवस्थेति निरस्तम् । तद्वदेव वास्तवसाध्यसिद्ध्यापातात् । तस्मान्नासत्यात्सत्यसिद्धिः । तदुक्तं वार्तिके बौद्धं प्रति–
साधकं चेदवश्यं च परमार्थास्तिता भवेत् ।
सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ।। इति ।
उक्तं च बौद्धधिक्कारे– ‘‘लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिकवाङ्मात्र-त्वापत्तेः’’ इति ।
अद्वैतसिद्धिः
ननु सत्त्वसाधकानां मिथ्यात्वसाधकानुमानेभ्यः प्राबल्यम् । मिथ्यात्व साधकप्रतिज्ञा-द्युपनीतपक्षादीनां मिथ्यात्वाबोधने सर्वमिथ्यात्वासिद्धिः, तद्बोधने परस्परव्याहतिराश्रया-सिद्ध्यादिकं चेति चेन्न । मिथ्यात्वसाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वबोधनेऽपि व्याहत्यभावात् । प्रतिज्ञादिभिस्तेषां त्रिकालाबाध्यत्वरूपसत्त्वाप्रतिपादनात् । ननु साधकत्वान्यथानुपपत्त्या परमार्थसत्त्वमायाति । परमार्थसत एव साधकत्वात् । साधकतायाः प्राक् सत्त्वघटितत्वात् । न तु धीमात्रविषयत्वम्, अपरोक्षधीविषयत्वम्, सत्त्वेन तादृशधी-विषयत्वं वा साधकताप्रयोजकम् । तुच्छे नित्यातीन्द्रिये चातिव्याप्त्यव्याप्तिभ्याम् । तत्त्वेन ज्ञानमपि न तत्र प्रयोजकम् । वह्नित्वेनाज्ञातेऽपि वह्नौ दाहकत्वदर्शनात् । वह्नित्वेन ज्ञातेऽपि गुञ्जापुञ्जे तददर्शनाच्च । नापि त्रिचतुरकक्ष्यास्वबाधितासत्त्वप्रतीतिस्तन्त्रम् । आत्मनो गौरत्वेनानित्यत्वस्य नभसो नैल्येन स्पर्शवत्त्वस्य चापत्तेः । गौरोऽहं; ‘नीलं नभः’ इत्यादि-प्रतीतावपि त्रिचतुरकक्ष्यास्वबाधात्, यौक्तिकबाधस्य त्वन्मते प्रकृतेऽपि भावादिति चेन्न । यादृश्या बुद्ध्या तव नभोनैल्यादिधीव्यावृत्तया घटादौ सत्त्वसिद्धिः तादृग्बुद्धिविषयत्वस्यैव साधकत्वे तन्त्रत्वात् । अत एव लोकप्रसिद्धिस्तन्त्रमितीष्टसिद्ध्युक्तमप्युक्ताभिप्रायेण सम्यगेव । एवं त्रिचतुरकक्ष्यास्वबाधिता वादिप्रतिवादिप्राश्निकादीनां सत्त्वबुद्धिस्तन्त्रमित्यु-पपन्नमेव । गुञ्जापुञ्जस्य वह्नित्वे, आत्मनो गौरत्वे, नभसो नीलत्वे च तादृग्बुद्धिविषयत्वस्य तवाप्यसम्प्रतिपत्तेः । अन्यथा तेषामपि तत्र सत्त्वसिद्धिप्रसङ्गात् ।
अथ यादृश्या शब्दे क्लृप्तदोषरहितया बुद्ध्या तव ब्रह्मणि सत्त्वसिद्धिः तादृश्या प्रत्यक्षे क्लृप्तदोषरहितया मम जगति सत्त्वसिद्धिरस्तु, साधकतुल्यत्वादिति चेन्न । ब्रह्मसत्त्वबुद्धिवद् जगत्सत्त्वबुद्धेरबाधितत्वाभावात् । त्रिकालाबाध्यत्वरूपस्य सत्त्वस्य प्रत्यक्षाविषयताया उक्त-त्वाच्च । न च बुद्धिविषयत्वस्य तन्त्रत्वे वह्नित्वेनाज्ञातस्य वह्नेरदाहकत्वप्रसङ्गः, अमृतत्वेन ज्ञातस्य च विषस्य सञ्जीवकत्वप्रसङ्ग इति वाच्यम् । वह्नौ तादृग्बुद्धिविषयत्वस्येश्वरादि-साधारणस्य सत्त्वात् । विषे सञ्जीवकत्वप्रसङ्गस्य नभोनैल्यादितुल्यत्वात् । वस्तुतस्तु ज्ञाता-ज्ञातसाधारणं व्यावहारिकं सत्त्वमेव साधकत्वे तन्त्रम् । तच्च ब्रह्मज्ञानेतराबाध्यत्वमेव । तच्च न मिथ्यात्वघटितम् । अत्यन्ताबाध्ये ब्रह्मज्ञानबाध्ये च तुल्यत्वात् । अत एव नेदं परमार्थ-सत्त्वव्याप्यम् । एवं च परमार्थसत्त्वस्य साधकतायामतन्त्रत्वेन तदभावेऽपि न साधकतानु-पपत्तिः ।
एतेन– व्यावहारिकत्वं ब्रह्मज्ञानबाध्यत्वं वा? व्यावहारिकविषयत्वे सति सत्त्वं वा? सत्त्वेन व्यवहारमात्रं वा? नाद्यः । मिथ्यात्वसिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयात् । नापि द्वितीयः । तस्यास्माकं मिथ्यात्वविरोधित्वेनेष्टत्वात् । न तृतीयः । सत्त्वाभावे साधकत्वानु-पपत्तेरिति – निरस्तम् । उक्तनिरुक्तेरदुष्टत्वात् । न च हेत्वादीनां व्यावहारिकसत्त्वे साध्य-स्यापि व्यावहारिकसत्त्वमेव स्यादनुमितिविषयसाध्यस्य परामर्शविषयहेतुना समानसत्ताकत्व-नियमादिति वाच्यम् । दृश्यत्ववन्मिथ्यात्वस्यापि व्यावहारिकत्वेन समानसत्ताकत्वस्येष्टत्वात् । समानसत्ताकत्वनियमासिद्धेश्च । धूलीपटले धूमभ्रमादपि वह्न्यनुमितिप्रमादर्शनात् । गन्ध-व्याप्यपृथिवीत्वप्रमातोऽपि गन्धप्रागभावावच्छिन्ने घटे पक्षे बाधास्फूर्तिदशायामनुमिति-भ्रमदर्शनाच्च । मिथ्यात्वस्य मिथ्यात्वेऽपि तत्त्वावेदकश्रुतिवेद्यत्वोपपत्तिः । सत्त्वेन सत इव मिथ्यात्वेन मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोधात् । एकांशे तत्त्वावेदकत्वाभावेऽपि अपरांशे तत्त्वावेदकत्वोपपत्तेः ।
ननु व्यावहारिकत्वं साधकतायामतन्त्रम् । अज्ञानादिसाधके परमार्थसति साक्षिणि तदभावादिति चेन्न । ब्रह्मज्ञानेतराबाध्यत्वस्यात्यन्ताबाध्येऽपि सत्त्वस्योक्तत्वात् । त्रैविध्य-विभागे पारमार्थिकव्यावृत्तव्यावहारिकत्वनिरुक्तावपि जनकतायां तत्साधारण्येऽप्यदोषात् । वस्तुतस्तु–साक्ष्यप्यज्ञानोपहित एवाज्ञानादिसाधकः । स च व्यावहारिक एव । अनुपहितेन परमार्थसदाकारेण तस्यासाधकत्वात् । एवं च व्यावहारिकसत्त्वमेव सर्वत्र साधकतायां प्रयोजकमिति स्थितम् । यथा चाज्ञानोपहितस्य साक्षित्वेऽपि नात्माश्रयादिदोषः तथोक्तं दृश्यत्वहेतूपपादने प्राक् । अग्रे च वक्ष्यते । यत्र च यत्साधकं व्यावहारिकम् तत्र तद् व्यावहारिकम् । यत्र तु साधकं प्रातीतिकं, तत्र फलमपि तथैव, न तु व्यावहारिकमिति सर्वविधिप्रतिषेधादिव्यवहारासङ्करः । अत एव लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिक-वाङ्मात्रतापत्तिरित्युदयनोक्तमपि निरस्तम्, व्यावहारिकसत्त्वेन लोकमर्यादानतिक्रमात् । भट्टाचार्यवचनानि विरुद्धत्वेन भासमानानि सत्त्वत्रैविध्यनिरूपणायामविरोधेन व्याख्यास्यन्ते । तस्मात् पक्षादिसर्वमिथ्यात्वसाधनेऽपि न व्याहतिः ।।
न्यायामृततरङ्गिणी
सत्वसाधकमानापेक्षया मिथ्यात्वसाधकानुमानानां व्याहत्यादिना दौर्बल्यमित्याह ।। किञ्चेति ।। एतैः दृश्यत्वजडत्वादिघटितैः । प्रतिज्ञारूपवाक्येन प्रापितस्य मिथ्यात्व-रूपसाध्यस्य, एवं हेतुरूपवाक्यदिभिः प्रापितानां दृश्यत्वादिलिङ्गादीनां मिथ्यात्वाबोधने सर्वमिथ्यात्वासिद्धिरित्यर्थः ।। व्याहतिरिति ।। विमतं मिथ्येति प्रतिज्ञारूपेण वाक्येन पक्षे मिथ्यात्वं विधीयते । अनुमानप्रयोगेण विश्वमिथ्यात्वं साधयता विश्वान्तर्गतस्य मिथ्यात्वरूपस्य प्रतिज्ञार्थस्य बाधितत्वरूपं मिथ्यात्वं साध्यत इति व्याहतिरित्यर्थः । बाधेति ।। अनुमानप्रयोगस्य व्याप्त्याद्युपेतत्वेन प्रतिज्ञामात्रापेक्षया बलवत्त्वेन प्रतिज्ञोपनीत साध्यापहारे च बाध इत्यर्थः ।। स्वरूपासिद्धिरिति ।। हेतुवाक्योपनीतस्य लिङ्गस्य अनुमानादपहारे स्वरूपासिद्धिः । एवमुदाहरणवाक्यार्थस्यापहारे व्याप्यत्वासिद्धिरित्यर्थः । ननु मिथ्यात्वसाधके प्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वसाधनेऽपि व्याहत्यभावः । प्रतिज्ञादिभिस्तेषां त्रिकालाबाध्यत्वरूपसत्त्वाप्रतिपादनादिति चेन्मैवम् । एककाले सत्त्वप्रतिपादकैः प्रतिज्ञादिभिः त्रिकालवृत्त्यभावप्रतियोगित्वरूपमिथ्यात्वानुमानस्य विरोध एव । एककाले सतोऽपि कालत्रयेऽसत्त्वाभावादित्युक्तत्वात् ।
नन्वनुमानप्रयोगेण दृश्यत्वादिहेतूनां मिथ्यात्वसाधनात्पारमार्थिकसत्वापहारेऽपि प्रकारान्तरेण साधकतोपयुक्तं सिद्ध्यादिकं भविष्यतीत्यत आह– ।। परमार्थेति ।। तथा च साधकत्वस्य प्राक् सत्वघटितत्वात् तदन्यथानुपपत्त्या परमार्थसत्वमायातीति मिथ्या-त्वानुमानस्य विरोध एवेति भावः ।। हृद इति ।। हृदे ह्यपरोक्षभ्रान्तिसिद्धेन धूमेन वह्नेः सिद्धिः । प्रपञ्चे चापरोक्षभ्रान्तिसिद्धेनात्यन्ताबाधेन पारमार्थिकत्वसिद्धिः स्यादित्यर्थः ।। वह्नित्वेनेति ।। तथा च तद्धीमात्रादीनां व्यतिरेकव्यभिचार इत्यर्थः । अमृतत्वेनेति । तथा च तेषामन्वयव्यभिचार इत्यर्थः ।। लोकप्रसिद्धिरिति ।। सत्त्वेन लोकप्रसिद्धि-रित्यर्थः ।। इष्टसिद्धीति । गौरोऽहं नीलं नभ इत्यादेरपि सत्त्वेन पामरलोकप्रसिद्धेः सत्त्वात् निरस्तमित्यर्थः ।। निपुणेनेति ।। कथायां कुशलेनेत्यर्थः । तादृशबौद्धोक्तानां शून्यमद्वितीयमित्यस्मिन्नर्थे हेतूनामपि प्राश्निकादिभिः त्रिचतुरकक्ष्यास्वबाधितत्वेन ज्ञातत्वात्तदुक्तैरपि हेतुभिः शून्याद्वैतस्यापि सिद्धिः स्यादित्यर्थः । यादृश्येति ।। यादृश्या बुद्ध्या तव नभोनैल्यादिधीव्यावृत्तया घटादौ सत्त्वसिद्धिः तादृग्बुद्धिविषयत्वमेव मम साधकत्वे तन्त्रमित्यर्थः । प्रत्यक्ष इति ।। तादृशनिर्दुष्टबुद्धिविषयत्वस्य ब्रह्मणि सत्त्वा-व्यभिचारित्वेन दृष्टतया लाघवेन च सत्त्वस्यैव साधकत्वे प्रयोजकत्वादित्यर्थः । सत्यत्वं यथा प्रत्यक्षविषयः तथोक्तं प्राक् ।। अन्यथेति ।। योग्यानुपलब्ध्यादिना दोषाभाव-निश्चयस्तु श्रुत्यर्थ इव प्रत्यक्षे सम इति भावः ।। तेनेति ।। स्वार्थानुमाने पराभावादिति भावः । ननु स्वार्थानुमानाभावेऽपि परार्थानुमानं भवतीत्यत आह– परार्थेति ।। परप्रसिद्धेति ।। एकतरसिद्धसाधनेन सर्वान्प्रति साध्यसिद्धिर्न सम्भवति । तदुपायाभावादित्यर्थः ।
ननु साध्यसिद्धिरपि न सर्वान्प्रति, किन्तु यं प्रति साधनं सिद्धमस्ति तं प्रत्येवेत्यत आह– ।। न च मिथ्यात्वमिति ।। बौद्धेति ।। परसिद्धसाधनेन परं प्रति साध्यसिद्धावपि तव मिथ्यात्वविषयतत्वज्ञानं न स्यात् । बौद्धोक्तसाधनेन बौद्धरीत्याऽऽत्मनो मिथ्यात्वेऽपि त्वां प्रत्यात्मनः सत्यत्ववत्प्रपञ्चस्य सत्यतैव स्यादित्यर्थः ।। मिथ्यात्वस्येति ।। मिथ्यात्वस्य मिथ्यात्वे तद्बोधकस्य नेहनानेति प्रमाणस्य त्वदभिमतं तत्वावेदकत्वं न स्यादित्यर्थः । ननु मिथ्यात्वस्य मिथ्यात्वेऽपि तत्वावेदकश्रुतिवेद्यत्वोपपत्तिः । सत्त्वेन सत इव मिथ्यात्वेन मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोध इति चेन्मैवम् । ब्रह्मबोधकवाक्येन ब्रह्मणस्तात्विकत्वसिद्धिरिव मिथ्यात्वबोधकवाक्येन मिथ्यात्वस्य तात्विकस्यैव सिद्धेरुचि-तत्वात् । मिथ्यात्वबोधकवाक्ये मिथ्यात्वस्य च मिथ्यात्वेन बोधने तादृशपदराहित्येन सामर्थ्याभावाच्च । अन्यथा यजमानः प्रस्तर इति वाक्यं यजमानस्य प्रस्तरत्वं प्रातिभासिकं प्रातिभासिकत्वेनैव बोधयतीति तत्सिद्धिरित्यादिना गौणार्थता नोच्येतेति भावः । योऽपीति ।। परान्प्रति असिद्धः कृतकत्वादिः स्वयं स्वमते सिद्धत्वेनाभिधीयते । तत्र परं हेतुसाधनादिप्रतीकारो भवति । स्वतोऽसिद्धे तु का क्रिया न प्रतीकार इत्यर्थः ।। अन्योन्याश्रयादिति ।। व्यावहारिकत्वस्य पारमार्थिकभिन्नत्वस्य प्रपञ्चे पारमार्थिकत्व-सन्देहदशायाम् असिद्धेरित्यर्थः ।
ननु ब्रह्मज्ञानेतराबाध्यत्वमेव व्यावहारिकत्वम् । तच्च न मिथ्यात्वघटितम् । अत्यन्ताबाध्ये ब्रह्मज्ञानबाधे च तुल्यत्वात् । अत एव नेदं परमार्थसत्त्वव्याप्यं परमार्थ-सत्त्वस्य साधकतायामतन्त्रत्वेन तदभावेऽपि न साधकत्वानुपपत्तिरिति चेन्मैवम् । एतदपेक्षयाऽबाध्यत्वस्यैव साधकत्वे प्रयोजकत्वौचित्यात् । ब्रह्मणो वृत्तिव्याप्यत्वाभावपक्षे जगतोऽपि ब्रह्मज्ञानेतरबाध्यत्वेन तदितराबाध्यत्वस्य त्वन्मते जगत्यसिद्धेश्च । शुक्तिज्ञान-स्यापि ब्रह्मज्ञानत्वेन तदितराबाध्यत्वस्य त्वन्मते शुक्तिरजते सत्त्वेन तस्यापि व्यावहारि-कत्वापाताच्च । सङ्गृह्णाति ।। तथा चेति ।। व्यावहार्यमबाध्यत्वादिरूपम् ।। न चेदिति ।। सत्त्वेन व्यवहारमात्रस्य व्यावहारिकत्वेऽसतः साधकत्वाङ्गीकारात् । तस्य च दूषितत्वा-दित्यर्थः ।। तस्मादिति ।। यन्नास्ति शशशृृङ्गादि तन्नास्त्येव । यत्तु वियदाद्यस्ति तत्परमार्थत एवास्ति । तस्मात्तत्सत्यमेव । अन्यत् शशशृृङ्गादिकं मिथ्यैव । एवं स्थिते सत्ये द्वैविध्यं पारमार्थिकत्वव्यावहारिकत्वरूपं न कल्पनीयम् । प्रमाणाभावात् । मिथ्या इत्यस्य सांवृतमित्यस्य च शब्दस्य तुल्यार्थत्वेऽपि द्वैविध्यकल्पनारूपोऽयमुपन्यासः केवलं स्वशिष्यवञ्चनार्थमेव । यथा लालावक्त्रासवादिना बाला वञ्च्यन्ते इत्यर्थः ।
व्यावहारिकसत्त्वस्य साधकतायां प्रयोजकत्वे साक्षिणि व्यतिरेकव्यभिचारमाह ।। अज्ञानादेरिति ।। सिद्धिपर्यन्तसाधक इत्यनेन रजतादिसाधकाभासाद्वैषम्यमाचष्टे । व्यभिचारमुद्धरति ।। न चेति ।। अविद्याकाराविद्यावृत्तिः जायते । तस्यां प्रतिबिम्बित एव साक्षी अविद्यादिकं साधयति । स च व्यावहारिक इति न व्यभिचार इति भावः ।। चैत्रराग इति ।। चैत्रेच्छा, स्वविषयकं यदनित्यज्ञानं तदतिरिक्तेन प्रत्यक्षेण संवेद्या । प्रत्यक्षत्वस्य ज्ञानत्वाघटितत्वान्न वैयर्थ्यम् । ईश्वरज्ञानवेद्यत्वेन सिद्धसाधनवारणाय तत्पदं चैत्रपरम् ।। अज्ञानेति ।। अज्ञानाद्याकारवृत्तिविलम्बेन तज्ज्ञानविलम्बादित्यर्थः ।। अविद्यावृत्तिमिति ।। अनवस्थाभयादिति भावः । साक्षिगतेति ।। अज्ञानस्वरूपसिद्धौ तदधीनं साक्षिणः साधकत्वं तस्य साधकत्वे चाज्ञानस्य प्रातीतिकं सत्वमिन्योन्याश्रय इत्यर्थः ।। एतेनेति ।। सतः साक्षिण एव साधकत्वेनेत्यर्थः ।। नापीति ।। क्वचित्पारमार्थिकसत्ता क्वचिद्व्यावहारिकी क्वचित्प्रातिभासिकीति सत्तात्रयमपि विकल्पेन कारणमित्यर्थः ।। अननुगमादिति ।। व्यभिचारादित्यर्थः ।। ननु तृणजन्यवह्नेः सकाशात् मणिजन्यवह्नेः वैजात्यवत् इहापि कार्यवैजात्यकल्पनान्न व्यभिचार इत्याशङ्क्य परिहरति ।। प्रयोज्येति ।। अपरमार्थेति ।। तथा च सत एव साधकत्वं न त्वसतोऽपीति भावः ।। विरोधादिति ।। अबाध्यत्वादिरूपस्य सत्त्वस्य बाध्यत्वादिरूपमिथ्यात्वाश्रये मृषार्थे वृत्तिर्न सम्भवति । स्वाभाववति स्ववृत्तेर्विरोधादित्यर्थः ।
ननु मृषार्थे न बाध्यत्वादिरूपं मिथ्यात्वं, किन्त्वन्यदेव । तथा च मृषार्थेऽप्य-बाध्यत्वादिरूपं सत्वसामान्यं भविष्यतीत्यत आह ।। अपरमार्थसत इति ।। अबाध्यत्वादि रूपसत्वाविरोधिनोऽपारमार्थिकत्वस्य पारिभाषिकत्वापत्त्या अपरमार्थसतोऽपि वस्तुतोऽ-परमार्थसद्विशेषत्वात् तत्र सद्वैलक्षण्यं न स्यादित्यर्थः । ब्राह्मण्यामिति ।। एतच्चा-त्यन्तापकर्षसूचनाय ।। निषेधस्य त्विति ।। प्रतिलोमजानां यज्ञादावनधिकारबोधक-स्येत्यर्थः ।। तत्फलस्येति ।। अद्वैतसाक्षात्कारफलस्य पारमार्थिकस्य सिद्धिः स्यादित्यर्थः । पारमार्थिकस्येति द्वैतादिषु सम्बन्धनीयम् । न च यत्र यत्साधकं व्यावहारिकं तत्र तत् व्यावहारिकम् । यत्र तु साधकं प्रातीतिकं तत्फलमपि तथैव न तु व्यावहारिक-मिति वाच्यम् । प्रातिभासिकेनापि सवितृसुषिरादिना स्वाप्नपदार्थेन च व्यावहारिकस्या-निष्टस्य शुभस्य च सिद्धेस्त्वदभिमतत्वात् ।। धर्मीति ।। यादृशसत्त्ववान् धर्मी तत्र तादृशसत्ववान् हेतुः साध्यसाधकः । अतो नासिध्यादिरित्यर्थः ।। गौरवादिति ।। सत्ये द्वैविध्याभावेन सत एव लाघवेन साधकत्वात् ।
धूमाभासेन पारमार्थिकवह्नेः सिद्धिः स्यादित्यत्र परिहारं शङ्कते ।। नन्विति ।। बहुलेति । यथा धूममात्रे न वह्निव्याप्तिः किन्तु बहुत्वोर्ध्वत्वादियुक्ते तथा आभासधूमेऽपि न व्याप्तिः, किन्तु आभासभिन्न इत्यर्थः ।। अस्या इति ।। असतः साधकतायां स्वरूप-योग्यत्वे असतः कार्यादर्शनात् व्याप्त्यादिसहकारिवैकल्यकल्पनाया इत्यर्थः ।। अन्योन्या-श्रयादिति ।। दृश्यत्वादेरसतः साधकतायां परेणोक्तायां च धूमाभासाद्वह्निसिद्धेरभावात् व्यभिचार इति प्रत्युक्तायां धूमाभासे व्याप्तिप्रयोजकस्याभासविवेकस्याभावात् न वह्निसाधकत्वम् । अतो न व्यभिचार इति कल्पनम् । अव्यभिचारे च क्लृप्ते आभास-विविक्तत्वं विशेषणमिति अन्योन्याश्रय इत्यर्थः ।। आभासेऽपीति ।। तथा च व्यर्थमाभासविविक्तत्वं विशेषणं धूमाभासे व्यभिचार तदवस्थ एवेति भावः ।। प्रकृतेऽ-पीति ।। यथा ह्रदादावारोपिते धूमे न व्याप्तिः किन्त्वाभासविविक्ते पर्वतवृत्तिधूमे व्याप्तिः । एवं दृश्यत्वेऽपि ब्रह्मण्यारोपिते न व्याप्तिरिति व्याप्तिसिध्द्यर्थमेव प्रपञ्चदृश्यत्वस्य सत्त्वं स्वीकर्तव्यमित्यर्थः । साधकत्वार्थं साधकत्वोपयुक्तव्याप्त्याद्यर्थं वा दृश्यत्वादेः सत्त्वमावश्यकमिति भावः ।। हेत्वादीति ।। तथा च सिद्ध्यसिद्ध्यादिविभागाय वास्तव-हेतुसत्त्वासत्त्वयोरेव वक्तव्यत्वादित्यर्थः । ननु वन्ध्यासुतो न वक्ता अत्यन्ताभाव-प्रतियोगित्वादित्यादौ असतोऽपि साध्यसाधनं प्रत्याश्रयत्वदर्शनान्मिथ्यात्वानुमानेन बाधितानामपि पक्षहेत्वादीनां साध्यव्याप्त्यादीन्प्रत्याश्रयत्वं भविष्यतीत्याशङ्क्य निरा-करोति ।। आश्रयादेरिति ।। आदिशब्देन पक्षसाध्यसंसर्गादेः यथोचितस्य ग्रहणम् ।। तुच्छ इति ।। असद्वैलक्षण्यघटितस्य प्रातिभासिकत्वस्य तुच्छे अभावादित्यर्थः ।। गौरवादिति ।। सत्त्वद्वैविध्यकल्पनमनादृत्य सत्त्वमात्रस्यैव साधकत्वप्रयोजकत्वे लाघवादिति भावः ।
नन्वस्तु तत्त्वमेव प्रयोजकं तत्राह ।। व्यावहारिकेति ।। सत्त्वानेकत्वमते सत्त्वस्य व्यक्तिरूपत्वेनाननुगमादित्यर्थः ।। अतिगौरवादिति ।। उक्तसत्त्वापेक्षयेत्यर्थः ।। अन्यथेति ।। लघुनि सम्भवेऽपि गुरुणोऽङ्गीकार इत्यर्थः ।। किञ्चेति ।। असतो ज्ञानजनकत्वरूपो योऽर्थः स सदेव साधकमिति ब्रुवाणं मां प्रति न सिद्ध इति त्वया साधनीय इत्यर्थः । नन्वसतो ज्ञानजनकत्वमसतैव साधनीयम् । न च प्रतिवादिनं प्रत्यसिद्धिः । असतो ज्ञानजनकत्वसाधनस्याप्यसदन्तरेण प्रतिवादिनं प्रति साधनादित्यत आह ।। अनवस्थानादिति ।। ननु सतः साधकत्वमपि विप्रतिपन्नत्वात्साधनीयम् । तत्साधनं च न सता, मां प्रत्यसिद्धेः । नाप्यसता तवासिद्धेरित्याशङ्क्य परिहरति ।। न चेति ।। तथा च सतः साधकत्वमुभयसम्मतमित्यर्थः ।। उक्तं हीति ।। साक्षिणा अज्ञानादिसिद्धिमिच्छता तेन मायावादिना, सतः साधकत्वं स्वीकृतमेव । तत्तु परं न सम्भवति । अविशेषस्य सर्वशक्तिरहितस्य, साध्यसाधकत्वायोगाच्छून्यवदित्यर्थः । औत्सर्गिकेति ।। धूमादिग्राहकज्ञानस्य उत्सर्गतः प्रमाणत्वात् । प्रामाण्यस्य च स्वार्थ-सत्त्वपर्यन्तत्वात् । प्रमाणसिद्धानां धूमादीनां साधकत्वस्य सत्साधकत्वे पर्यवसाना-दित्यर्थः ।। स्वच्छायेति ।। स्वकीया च्छाया यथा स्वेन उल्लङ्घितुं न शक्यते तथा धूमस्य साधकत्वं न तु बाष्पारोपितधूमस्येत्येवं लोकसिद्धं यत्सतः साधकत्वं असतश्चासाधकत्वं तदप्युल्लङ्घितुं न शक्यत इत्यर्थः ।। ननु लोकेऽसतः साधकत्वं नास्तीति प्रसिद्धिः सतीं सिद्धिमाश्रित्य । मया तु असती सिद्धिरुच्यत इति न मम लोकमर्यादोल्लङ्घनमित्यत आह । न चेति ।। अन्योन्याश्रयादिति ।। असतः साधकत्वे सिद्धे लोकप्रसिद्धेर्विषयान्तर-परत्वम् । लोकप्रसिद्धेर्विषयान्तरपरत्वे च तद्विरोधाभावात् असतोऽपि साधकत्वं सिध्यतीत्य न्योन्याश्रय इत्यर्थः ।। अन्यथेति ।। लोकमर्यादातिक्रम इत्यर्थः ।। प्रतीतिरिति ।। असच्चेन्न प्रतीयेतेति प्रतीत्या रजतस्य वियदादेश्चासद्वैलक्षण्यं साध्यते, तन्न स्यात् । रजतादिप्रतीतेः लोकमर्यादासिद्धाया अप्यत्यन्तासत्त्वस्य वक्तुं शक्यत्वादित्यर्थः ।। सल्लक्षणेति ।। सतो यल्लक्षणं पक्षवृत्तित्वं व्याप्तिमत्त्वमित्यादि, तच्च धूमेऽस्ति । न तु तदाभास इत्यर्थः ।। हेत्विति ।। हेतोरसत्त्वेऽसिध्यापातेनासल्लक्षणयोगित्वमेव स्यात् । एवं व्याप्त्यादावपि । असति हेत्वादौ विद्यमानस्य तस्य सल्लक्षणत्वायोगाच्चेत्यर्थः ।। तद्वदे-वेति ।। स्वप्नदृष्टधूमादिना वास्तववह्निसिद्धिविरहवदित्यर्थः ।। अपरमार्थेनेति । सवितृसुषिरादिष्वपि तज्ज्ञानस्य सत एव साधकत्वमिति अनुपदमेव वक्ष्यमाणत्वादित्यर्थः । लोकस्यापीति । सदसतोः साधकत्वासाधकत्वरूप लोकव्यवहारातिक्रमे विचारस्य दैववशसम्पन्नवनस्थवेणुनिस्सृतनिस्स्वनतुल्यत्वं स्यादित्यर्थः ।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।
न्यायामृततरङ्गिण्यां असत्साधकबाधनम् ।।
न्यायामृतकण्टकोद्धारः
हेतूदाहरणादीत्यादिशब्देनाबाधितविषयत्वादिप्रतिपादकवाक्योपादानम् । व्याप्त्यादीनामित्यत्र चादिपदेनाबाधितविषयत्वादिग्रहणम् । सर्वमिथ्यात्वासिद्धेरिति । ब्रह्मासत्प्रातिभासिकान्यसर्व-मिथ्यात्वासिद्धेरित्यर्थः । तथैव विप्रतिपत्तेः । साध्यादिसाधारणपक्षतावच्छेदक निर्वचनात् साध्यादिव्यतिरिक्तमिथ्यात्वसाधनस्यार्थान्तरग्रस्तत्वादिति भावः । परस्परव्याहतिरिति । लिङ्गेन हेतुवाक्यार्थेन साध्यादीनां मिथ्यात्वं बोध्यते, प्रतिज्ञादिभिश्च सत्यत्वमिति लिङ्गस्य प्रतिज्ञादिभिः परस्परं विरोध इत्यर्थः । ननु प्रतिज्ञादिभिः एककालसत्वमात्रं गृह्यते न तु त्रिकालाबाध्यत्वम् । अनुमानेन च त्रिकालबाध्यत्वमिति कथं विरोध इति चेन्न । त्रिकाल-बाध्यत्वस्य त्रिकालासत्वरूपतया तद्ग्राहिण एककालसत्वग्राहिणा विरोधात् । एककालसत्व-ग्राहिणापि त्रिकाले यदसत्वं तदभावसिध्यविरोधाच्च । न च प्रतिज्ञादिबोध्यं सत्वं व्यावहारिक-मिति वाच्यम् । तस्य मिथ्यात्वसिध्युत्तरकालीनत्वात् । व्यावहारिकशब्देनाबाध्यत्वविवक्षायां विरोधापरिहाराच्च । बाध्यत्वस्याद्याप्यसिद्धेः । बाधेति । प्रतिज्ञार्थस्य मिथ्यात्वे साध्याभावेन बाधः । हेतुवाक्यार्थस्य मिथ्यात्वे लिङ्गाभावेन स्वरूपासिद्धिः । उदाहरणार्थस्य मिथ्यात्वे व्याप्यत्वासिद्धिः । प्रतिज्ञादेर्मिथ्यात्वे तदभावेन परार्थानुमानप्रयोगः आदिशब्देन ग्राह्य इत्यर्थः । तस्मान्नैतैः प्रयोगैर्मिथ्यात्वसिद्धिः । असतः साधकत्वासम्भवात् इति भावः । किन्तर्हि साधकत्वे प्रयोजकम्? अत आह ।। परमार्थेति । ननु व्याप्त्यादीनामसत्वेऽपि तज्ज्ञानस्य सत्वात् साधकत्वं स्यादिति चेन्न । ज्ञानस्यापि ब्रह्मेतरत्वेन मिथ्यात्वात् । एतदेव परिशेषेण साधयितुमाह ।। तथा हीति । धीमात्रमित्यत्र मात्रपदेन सत्वासत्वपरोक्षत्वापरोक्ष-त्वौदासीनधीर्विवक्षिता । अत एवाह– तुच्छस्यापीति । तस्याप्यसत्वेन धीसत्वादिति भावः । नित्यातीन्द्रिय इति । तथा च धर्मादीनां स्वर्गादिसाधकत्वं न स्यादिति भावः । असतोऽपि सत्वेन वाऽसत्वेन वाऽपरोक्षधिय अग्रे उपपादयिष्यमाणत्वेन तत्राप्यतिप्रसङ्गस्तदवस्थो द्रष्टव्यः ।
ह्रद इति । न च तत्र बाधादेव वह्न्याद्यसिद्धिरिति वाच्यम् । प्रकृतेऽपि बाधस्योक्तत्वात् । बाधानवतारदशायां व्यावहारिक वह्न्यादिसिद्धिप्रसङ्गाच्च । वह्नित्वेनेति । वह्नित्वेन ज्ञातात् गुञ्जापुञ्जादपि दाहापत्तिरित्यपि द्रष्टव्यम् । अत एवेति । अत्राबाधितासत्वधीर्यस्य कस्यापीति विवक्षितम् । तेन गौरोऽहमित्यादौ गौरत्वादावस्माकं त्रिचतुरकक्ष्यास्वबाधितसत्वबुध्य-भावेऽप्यदोष इति द्रष्टव्यम् । गौरोऽहमित्यादाविति । यस्य कस्येत्यर्थः । तेनास्माकं तत्र बाधितसत्वबुद्धावपि न दोषः । ननु गौरोऽहमित्यादौ प्रत्यक्षबाधाभावेऽपि यौक्तिकबाधसत्वात् कथं गौरत्वादिनाऽऽत्माद्यनित्यत्वादिसाधनमित्यत आह ।। यौक्तिकेति । प्रकृते जगत्सत्व-बुद्धावित्यर्थः । एतेनेति । लोकप्रसिद्धिः किं यत्किञ्चिल्लोकप्रसिद्धिः सकललोक प्रसिद्धिर्वा, परीक्षकप्रसिद्धिर्वा ? नाद्यः । गौरत्वादावपि सत्वात् । न द्वितीयः । प्रपञ्चेऽप्यभावात् । न तृतीयः । दृश्यत्वादेर्मिथ्यात्वसाधकत्ववादिसङ्करादीनां परीक्षकत्वस्यैवासम्प्रतिपत्तेः । एतेनैवेति । तेन गौरत्वादि नानात्माद्यनित्यत्वादिसाधनम् । तत्र तत्ववादिनः सत्वबुद्धेरभावादिति भावः । निपुणेनेति । तत्काले शून्याद्वैतसाधकहेतुषु वादि प्रतिवादिप्राश्निकानां त्रिचतुरकक्ष्या-स्वबाधितत्वबुद्धिसत्वात् । बाधकास्फुरणादिति भावः । यादृश्येति । न च ब्रह्मसत्वबुद्धिवत् जगत्सत्वबुद्धेर्नाबाधितत्वम् । जगत्सत्वग्राहिप्रत्यक्षस्य त्रिकालाबाध्यत्वरूपसत्वाविषयत्वं चेति कथं तेन सत्वसिद्धिरिति वाच्यम् । ब्रह्मबुद्धिवत् जगत्सत्वबुद्धेरपि परीक्षितत्वेन बाधाभावस्यो-पपादितत्वात् । प्रत्यक्षस्यापि त्रिकालाबाध्यत्वरूपसत्वविषयत्वस्योपपादितत्वाच्च । तेन सत्वसिद्धिरुपपन्नेति । अन्यथेति । यदि दोषाजन्यत्वेन निश्चिते दोषशङ्का, अबाधितत्वेन निश्चितेऽपि बाधशङ्का तर्हीत्यर्थः । तुल्य न्यायत्वादिति भावः । नापीति । परप्रसिद्धं हेत्वादीनां सत्वं साध्यसाधकत्वे तन्त्रमिति नेत्यर्थः । ननु मास्तु स्वार्थानुमानम् । परार्थप्रयोगस्तु स्यादेवेत्यत आह ।। परार्थेति । किञ्च परप्रसिद्धं सत्वमवास्तवमिति स्वीकर्तव्यम् । तथा च कथं तेन मिथ्यात्वरूपस्य साध्यस्य वास्तवत्वसिद्धिः? अवास्तवेन गुञ्जापुञ्जसमारोपितेन वह्निना वास्तवदाहादर्शनादित्याह ।। परप्रसिद्धेति ।
किञ्च मिथ्यात्वस्यावास्तवत्वे तद्बोधकश्रुतीनां तत्वावेदकत्वं न स्यात् । तथा चापसिद्धान्त इत्याह ।। मिथ्यात्वस्येति । परसिद्धेन साध्यसाधनमयुक्तमित्यत्र भट्टवार्तिकसम्मतिमाह ।। तदुक्तमिति । योऽर्थः परासिद्धः पररीत्याऽसिद्धः । स्वयं सिद्धः स्वस्य सिद्धः । अभिधीयते साध्यत्वेन साधनत्वेन वा प्रयुज्यते । तत्र प्रतीकारः असाध्यत्वासाधनत्वापादकदूषणपरिहारो भवेत् कर्तुं शक्यते । स्वतोऽसिद्धे साधने साध्ये वा का क्रिया? न कोऽपि दूषणपरिहारोपाय इत्यर्थः । नापीति । साध्यसाधन इति शेषः । अत्र व्यावहारिकं सत्वमिति कोऽर्थः? किं बाध्यत्वं विवक्षितम्, अथवाऽबाध्यत्वं, यद्वा सत्वेन व्यवहारमात्रम्? नाद्य इत्याह । प्रपञ्चेति । प्रातिभासिकेनेति । ननु हेतुव्याप्त्यादेरनुमितिविषयसमसत्ताकत्वमसिद्धम् । धूलीपटले धूमविभ्रमानन्तरं वह्निमति वह्न्यनुमितेः प्रमात्वेन व्यभिचारात् । तत्र हेत्वादेः प्रातिभासि-कत्वात् । गन्धप्रागभावावच्छिन्नो घटो गन्धवान् इत्यत्र व्याप्त्यादेः सत्वेऽपि अनुमेयार्थस्य प्रातिभासिकत्वदर्शनादिति चेन्न । यादृच्छिकातिरिक्तपक्षतावच्छदकाविरुद्धसाध्यकानुमितित्वा-वच्छेदेनानुमेयार्थसमसत्ताकत्वं हेतुव्याप्त्यादेर्नियतमिति विवक्षितत्वात् । यद्वा हेतुव्याप्त्यादे-रित्यत्रातद्गुणसंविज्ञान बहुव्रीहिणाऽबाधितत्वानुमितिप्रामाण्ययोरनुमेयसमसत्ताकत्वमुक्तम् । एवं च यादृच्छिकस्थले न व्यभिचारः । तत्राप्यबाधितत्वानुमितिप्रामाण्ययोः सत्वात् । गन्ध-प्रागभावावच्छिन्नो घटो गन्धवानित्यादौ तदभावादनुमेयार्थस्य प्रातिभासिकत्वम् । मिथ्या-त्वानुमितिस्थले तु अबाधितत्वानुमितिप्रामाण्ययोर्व्यावहारिकत्वादनुमेयार्थस्यापि व्यावहारि-कत्वमेव स्यादिति । अबाध्यत्वं व्यावहारिकत्वमिति द्वितीयपक्षे इष्टापत्तिरित्याह ।। किञ्चेति । तृतीये आह ।। सत्वेनेति । उक्तदोषाः अमृतत्वेन ज्ञातस्य विषस्य सञ्जीवकत्वमित्याद्याः । ननु ब्रह्मज्ञानेतराबाध्यत्वं व्यावहारिकसत्वं विवक्षितम् । इदं च न मिथ्यात्वसिध्यधीनम् । मिथ्यात्वमनङ्गीकुर्वतस्तवापि सिद्धत्वात् । अत्यन्ताबाध्यसाधारणत्वाच्च । एवं च नान्योन्या-श्रयादिकमिति चेन्न । तथा सति तुच्छस्यापि साधकत्वप्रसङ्गात् । त्वन्मते तस्यापि ब्रह्म-ज्ञानेतराबाध्यत्वात् । असत्वेऽप्यनेनैवार्थक्रियाद्युपपत्त्या सद्वैलक्षण्याङ्गीकारवैयर्थ्याच्च । किञ्च ब्रह्मण्यारोपितजडत्वादेर्व्यावहारिकत्वेन तेन तस्य मिथ्यात्वाचेतनत्वादिकं स्यात् । एवं ब्रह्मण्यारोपितक्षणिकत्वादेरपि व्यावहारिकत्वेन शून्यपक्षोक्तसकलदोषस्य त्वन्मते प्रसङ्गाच्च । तस्मान्नेदं व्यावहारिकत्वम् । किन्तूक्तरूपमेव वाच्यमिति मूलोक्तदूषणं सुस्थमिति । ननु सत्वेन बहुकालीनभ्रान्तिविषयत्वं साधकत्वे प्रयोजकम् । अमृतत्वेन ज्ञातविषादौ च न बहुकालीन-भ्रान्तिरित्यत आह ।। भ्रान्तेर्बहुकालेति । नभोनैल्यादेरपि तादृशभ्रान्तिविषयत्वेनात्माद्य-नित्यत्वादिसाधनत्वं स्यादिति भावः । उक्तमर्थं सङ्गृह्णाति । तथा चेति । पारमार्थिकमेव सत्वं, न सत्यद्वयकल्पनेत्यत्र भट्टवार्तिकसम्मतिमाह– तदुक्तमिति । तस्माद् यन्नास्ति कुत्रापि तन्नास्त्येव । सर्वथा असदेवेत्यर्थः । यच्चास्ति परमार्थतः कुत्रापि तत् सत्यम् । अन्य-न्मिथ्यैवासदिति न सत्यद्वयकल्पना पारमार्थिक सांवृतरूपसत्यद्वयकल्पनेत्यर्थः । ननु मिथ्या-संवृतिशब्दयोस्तुल्यार्थत्वे मिथ्येत्यनुक्त्वा संवृतीति कथमुच्यत इत्यत उक्तम् ।। तुल्यार्थत्वेऽ-पीति । वञ्चनार्थं लोकानां मोहनार्थम् । अप्रसिद्धशब्दप्रयोग इति भावः ।
किञ्च व्यावहारिकसत्वं न साधकत्वप्रयोजकम् । अज्ञानसाधके साक्षिणि अभावा-दित्याह ।। अज्ञानादेरिति । ननु ब्रह्मज्ञानेतरज्ञानाबाध्यत्वरूपव्यावहारिकत्वस्य परमार्थसति साक्षिणि सम्भवात् साधकत्वं भविष्यतीति चेन्न । अस्य परमार्थसत्साधारणत्वेन जनकत्वा-प्रयोजकत्वात् । अतिप्रसङ्गादेः प्रागेवोक्तत्वाच्च । एतदपेक्षयाऽबाध्यत्वरूपपरमार्थत्वस्यैव प्रयोज-कत्वाच्चेत्यलं विस्तरेण । न चेति । तथा चाविद्यावृत्तिप्रतिबिम्बितस्यैव साक्षित्वात् तस्य च व्यावहारिकत्वात् व्यावहारिकसत्वस्य प्रयोजकत्वेन व्यभिचार इति भावः । त्वयैवेति । अविद्यावृत्तिप्रतिबिम्बितस्य साक्षित्वे तस्यानित्यत्वात् नित्यज्ञानवेद्यत्वं सुखादेस्त्वयोक्तं भज्येतेति भावः । न चाविद्यावृत्तेरुपलक्षणत्वमिति वाच्यम् । तर्हि तदुपलक्ष्यस्य चिन्मात्रत्वे व्यावहारिक सत्वस्याप्रयोजकत्वापातः । विशिष्टत्वे तस्यानित्यत्वादपसिद्धान्तः स्यादिति । अज्ञानसुखा-देरिति । यथाऽन्तःकरणवृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वेन घटादेर्ज्ञातैकसत्वाभावः तथा वृत्ति-प्रतिबिम्बितसाक्षिवेद्यत्वे सुखादेरपि ज्ञातैकसत्वाभावः स्यात् । न चान्तःकरणवृत्तेरिन्द्रिय-सन्निकर्षजन्यत्वात् इन्द्रियसन्निकर्षस्यार्थं विनाऽयोगेनान्तःकरणवृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वे न ज्ञातैकसत्वम् । अविद्यावृत्तेर्दोषमात्रजन्यतया सुखाद्यभावेऽपि तद्वृत्त्युपपत्तेः तद्वृत्तिप्रतिबिम्बित-साक्षिवेद्यत्वे कथं ज्ञातैकसत्वाभाव इति वाच्यम् । एवं ह्यविद्यावृत्तिस्थलेऽर्थाध्यासस्वीकारो न स्यात् । तेन विनाप्यविद्यावृत्त्युपपत्तेः । तथा चासत्ख्यातिवादिचरणानुप्रवेशः स्यात् । लाघवेन साक्ष्यभिव्यञ्जकवृत्तित्वावच्छेदेनैवार्थोपयोगस्याङ्गीकर्तव्यत्वाच्च । न चापरोक्षवृत्तेरर्थसाहित्य-नियमाद् अर्थाध्यासाङ्गीकारो, न तु वृत्तिजनकत्वेनेति वाच्यम् । एवं ह्यन्तःकरणवृत्तिस्थलेऽपि नियमादेवार्थसत्वाङ्गीकारो, न तु जनकत्वेनेति घटादेरपि ज्ञातैकसत्वं स्यात् । अविद्यावृत्तिस्थल इव तत्राप्यदृष्टविशेषसहकृतान्तःकरणमात्रेणैव वृत्त्युपपत्तेः । अर्थसाहित्यनियमस्याप्यन्तः करण-वृत्तिमात्रविषयत्वसम्भवाच्च । तस्मादपरोक्षवृत्तित्वावच्छेदेनार्थस्योपयोग इति अर्थाध्यासोऽङ्गीकार्य इति कथं न ज्ञातैकसत्वाभावः ।। अविद्यावृत्तिं प्रतीति । तत्प्रतिबिम्बितस्य अविद्यावृत्ति-साधकत्वे व्यक्तिपरम्परायामनवस्था । अन्यथा आत्माश्रयादिकमिति भावः । सुषुप्तौ दोषा-भावेनाविद्यावृत्तेरभावात् तद्वृत्तिप्रतिबिम्बितसाक्ष्यभावेऽज्ञानाद्यनुभवाभावे परामर्शविरोधश्चेत्यपि द्रष्टव्यम् ।
नन्वज्ञानोपहितं चैतन्यं साक्षीत्यङ्गीक्रियते । अतो न कश्चिद् विरोध इत्यत आह ।। साक्षिगतसाधकताया इति ।। एवं च साक्षिणि सिद्धे प्रातीतिकाज्ञानसिद्धिः । तत्सिद्धौ तदुपहितत्वेन साक्षिसिद्धिरित्यन्योन्याश्रयत्वमिति भावः । तथा च शुद्धचैतन्यस्यैव साक्षित्वस्य वक्तव्यत्वेन व्यावहारिकसत्वस्य प्रयोजकत्वे साक्षिणि तदभावेन व्यभिचारः सुस्थ इति । एतेनेति । शुद्धचैतन्यरूपसाक्षिणो ज्ञानादिसाधकत्वसमर्थनेनेत्यर्थः । नापीति । प्रातिभासिक-मपि कस्यचित् साधकमित्याशयेन प्रथमः कल्पः । तदसाधकमित्याशयेन द्वितीयः । ननु तृणारणिमणिन्यायेन अनेकेषां प्रयोजकत्वं किं न स्यादित्यत आह– प्रयोज्य इति । नापि सदिति । अत्रापि तदेव तात्पर्यम् । तथा च नाननुगम इति भावः । अपरमार्थेति । न चापरमार्थसत्वेऽपि असद्विलक्षणत्वात् कथमसत्वमिति वाच्यम् । अपरमार्थसत्वं बाध्यत्वं वा, अबाध्यत्वरूपसद्विशेषो वा? आद्ये कथमसत्वाभावः? प्रतिपन्नोपाधौ स्वरूपेण त्रैकालिक-निषेधप्रतियोगित्वस्यैवासत्त्वात् । मृषार्थपरमार्थानुगतं सत्वं नास्तीत्यत्र भट्टवार्तिकसम्मतिमाह ।। तदुक्तमिति । द्वितीय आह ।। अपरमार्थसत इति । आरोपितानारोपितसाधारण सत्व-साम्याङ्गीकारे बाधकान्तरमाह ।। किञ्चेति । आरोपितब्राह्मण्यादिकेऽपि ब्राह्मणत्वस्य सद्भावादिति भावः । निषेधस्येति । अब्राह्मणो याजनाध्यापने न कुर्यादित्यत्राब्राह्मण-शब्देनारोपितब्राह्मण्यहीनः कश्चन वर्णबाह्यो विषयः स्यादिति क्षत्रियादेर्याजनादौ निषेधो न स्यादित्यर्थः । अभ्युपेत्याह ।। अस्तु वेति । तदनुगतम् आरोपितानारोपितानुगतम् । तन्त्रत्व इति शेषः । तत्फलस्य तयोरद्वैतसाक्षात्काराश्वमेधयोः फलस्य अद्वैतभावापत्तेः, ब्रह्महत्यातरण-रूपस्य । द्वैतस्य पारमार्थिकस्येति शेषः । वह्नेः व्यावहारिकस्येति शेषः । अत एवेति । धर्मिसमसत्वस्य प्रयोजकत्वेऽद्वैतश्रुतिसाक्ष्यादेर्धर्मिसमसत्वाभावात् तेनाद्वैतादिसिध्यभावप्रसङ्गः । असद्विलक्षणत्वस्य प्रयोजकत्वे तूक्तातिप्रसङ्गः । गौरवाच्चेति । उक्तप्रयोजकद्वयापेक्षयाऽबाध्यत्व-रूपसत्वस्यैव तन्त्रत्वे लाघवमिति भावः । चशब्दस्त्वत एवेति परामृष्टहेतुसमुच्चयार्थः । धूमाभासेन व्यावहारिकवह्नेः सिद्धिः स्यादित्यतिप्रसङ्गं परिहर्तुं शङ्कते ।। नन्विति । ननु धूमाभासे व्याप्त्यभावः किं निमित्त इत्यत आह ।। बहुलोर्ध्वतादिवदिति । अस्या इति । धूमाभासस्यासाधकता व्याप्त्यभावादिति कल्पना, तदा स्यात् यद्यसतः साधकत्वं सिद्धं स्यात् । असतः साधकत्वसिद्धिश्चैवं कल्पनयेत्यन्योन्याश्रयः इत्यर्थः । नन्वाश्रयादेः सत्वनियमाभाववद् हेत्वादेस्तन्नियमाभावः किं न स्यादित्यत आह ।। आश्रयादेरिति । अत्रातिप्रसङ्गपरिहारादिकं पूर्वोक्तमेवानुसन्धातव्यम् । नापीति । अत्र सत्वमबाध्यत्वं वा, व्यावहारिकपारमार्थिकानुगतं सत्वसामान्यं वा? आद्य आह ।। गौरवादिति । अप्रातिभासिकेति विशेषणस्य व्यर्थत्वा-दित्यर्थः । द्वितीय आह ।। व्यावहारिकेति । अन्यथेति । गौरवानादर इत्यर्थः ।
किञ्चासतः साधकत्वं न सम्भवति । तत्साधकप्रमाणाभावात् । तत्साधकं च भवत् किं सत् उत असत्? नाद्यः । सतः प्रमाणस्यानङ्गीकारात् । द्वितीये विवादादित्याह ।। किञ्चेति । त्वन्मतेऽपीति । न चाविद्यावच्छिन्नस्य साक्षित्वेन तस्य च व्यावहारिकत्वात् कथं सतः साधकत्वमिति वाच्यम् । अत्र हि साधकता साक्षिणि अविद्यावच्छेदिका इति वाऽभिप्रायः, अथवा विशिष्टस्य साक्षितेति ? नाद्यः । दण्डनिष्ठसाधनताया दण्डत्वावच्छिन्नत्वेऽपि साधन-ताया दण्डमात्रनिष्ठत्वात् साक्षिगतसाधकताया अविद्यावच्छिन्नत्वेऽपि तस्याः सन्मात्रसाक्षि-गतत्वेन सतः साधकत्वात् । न द्वितीयः । विशिष्टस्य जडत्वेनास्वप्रकाशत्वेनाज्ञानादि-साधकतासम्भवात् । अन्योन्याश्रयादेरुक्तत्वाच्च । सतः साधकत्वं त्वन्मतमित्याचार्यैरप्युक्त-मित्याह ।। उक्तं हीति । अविशेषस्य निर्विशेषस्य । असत इति यावत् । ननु तथापि सतः साधकत्वे किं प्रमाणमित्यत आह ।। औत्सर्गिकेति । धूमज्ञानादिकं साधकमिति ज्ञानं जायत इत्यविवादम् । तच्च निरपवादेन साक्षिणा प्रमाणत्वेन सिद्धमिति सतः साधकत्वं प्रामाणिक-मिति भावः । लोकमर्यादयापि सतः साधकत्वं सिध्यतीत्याह ।। तवापीति । मर्यादोल्लङ्घने कापि व्यवस्था न सिध्यतीति भावः । अन्योन्याश्रयादिति । सिद्धेरवास्तवत्वे सिद्धे सतः साधकत्वाभावेऽसतोऽपि साधकत्वसम्भवेनानुमानेन मिथ्यात्वसिद्धिः । तत्सिद्धौ सिद्धेर-वास्तवत्वमित्यन्योन्याश्रय इत्यर्थः । अन्यथेति । यदि सतः साधकत्वसिद्धिरसतीत्यर्थः । असतः साधकत्वं नेत्यत्र भट्टवार्तिकसम्मतिमाह ।। तदुक्तमिति । तत्रोपपादकमाह ।। सिद्धिरिति ।। विचारस्येति । अर्थशून्यो विचारः स्यादित्यर्थः ।
न्यायामृतप्रकाशः
सत्त्वसाधकप्रमाणापेक्षया मिथ्यात्वसाधकानुमानानां व्याहत्यादिना दौर्बल्याच्च न तद्बाधकत्वमित्याह ।। किञ्चेति ।। एतैर्दृश्यत्वजडत्वपरिच्छिन्नत्वादिहेतुभिः । प्रतिज्ञावाक्येन प्रापितस्य मिथ्यात्वरूपसाध्यस्य, हेतुवाक्यप्रापितस्य साधनस्य, उदाहरणवाक्यप्रापिताया व्याप्तेरुपनयादिवाक्यप्रापितानां चार्थानां मिथ्यात्वं न बोध्यते बोध्यते वा । आद्य आह ।। न बोध्यत इति ।। द्वितीये त्वाह ।। बोध्यत इति ।। विमतं मिथ्येति प्रतिज्ञारूपेण वाक्येन पक्षे मिथ्यात्वं विधीयते । अनुमानप्रयोगेण तु विश्वमिथ्यात्वं साधयता विश्वान्तर्गतस्य मिथ्यात्वरूपप्रतिज्ञार्थस्यात्यन्ताभावरूपमिथ्यात्वं साध्यते इति व्याहतिरित्यर्थः ।। बाधेति ।। अनुमानेन विश्वान्तर्गतमिथ्यात्वस्यापि अत्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वबोधने पक्षेऽ-भावप्राप्त्या बाध इत्यर्थः ।। स्वरूपासिद्धीति ।। अनुमानेन विश्वान्तर्गतदृश्यत्वादिहेतूनां अत्यन्ताभावसाधने पक्षेऽसत्त्वप्राप्त्या स्वरूपासिद्धिरित्यर्थः ।। व्याप्यत्वेति ।। उदाहरण-वाक्यप्रापितस्य व्याप्यत्वस्य मिथ्यात्वबोधने व्याप्त्यभावप्राप्त्या व्याप्यत्वासिद्धिरित्यर्थः । नन्वनुमानप्रयोगेण दृश्यत्वादीनां मिथ्यात्वबोधनेऽपि साधकत्वमुपपद्यत एव । मिथ्याभूतस्यैव मया साधकत्वाङ्गीकारदित्यत आह ।। परमार्थेति ।। परमार्थसत्त्वस्य साधकत्वे तन्त्रत्वं परिशेषेणोपपादयति ।। तथा हीत्यादिना ।। तत्र साधकत्वे ।। तुच्छस्यापीति ।। शब्दा-भासादिना व्योमकमलादीनामपि ज्ञानसम्भवेन साधकत्वप्रसङ्ग इत्यर्थः ।। नापीति ।। तथा च तुच्छव्यावृत्तिरित्यर्थः । प्रपञ्चे त्वद्रीत्याऽपरोक्षभ्रान्तिसिद्धेनात्यन्ताबाधेन पारमार्थिकत्वस्य सिद्धिः स्यादित्यर्थः । धीमात्रादेः साधकत्वे व्यतिरेकव्यभिचारमाह ।। वह्नित्वेनेति ।। नारिकेलद्वीपवासिनो वह्नेर्वह्नित्वेन ज्ञानाभावेऽपि दाहरूपकार्यसिद्धेर्दर्शनादित्यर्थः । धीमात्रादेस्तन्त्रत्वेऽन्वयव्यभिचारमप्याह ।। अमृतत्वेनेति ।। विषस्यामृतत्वज्ञाने सत्यपि संजीवनरूपकार्यादर्शनादित्यर्थः ।। अबाधितेति ।। तथा च ह्रदेऽपरोक्षभ्रान्तिसिद्धेन धूमेन वह्न्यसिद्धिः । अमृतत्वेन ज्ञातेनापि विषेण सञ्जीवनासिद्धिः । तज्ज्ञाने त्रिचतुरकक्ष्यासु बाधसद्भावादिति भावः । इत्येतदप्यत एव निरस्तम् । प्रपञ्चेऽपरोक्षभ्रान्तिसिद्धात्यन्ता-बाधस्यापि ब्रह्मज्ञानपर्यन्तमपि बाधाभावेन त्रिचतुरकक्ष्यास्वबाधितसत्त्वप्रकारकधीविषयत्व-सत्त्वेन पारमार्थिकत्वसिद्धिः स्यादिति भावः । त्रिचतुरकक्ष्यास्वबाधितसत्त्वधियः साधकत्व-तन्त्रत्वे दूषणान्तरमाह ।। गौरोऽहमिति ।। तदेवोपपादयति ।। गौरोऽहमित्यादावपीति ।। गौरत्वादेरात्मादौ सत्त्वधियः त्रिचतुरकक्ष्यास्वबाधितत्वेन आत्माऽनित्यः रूपवत्त्वादित्येवं गौररूपेणात्मन्यनित्यत्वबु(सि)द्धिः स्यात् । भौतिकं त्वेव रूपादिव्याप्तं नाशेनेति वचनात् । तथा नभःस्पर्शवन्नीलरूपवत्त्वादित्येवं नीलरूपेणाकाशेऽपि स्पर्शसिद्धिः स्यादिति भावः ।
ननु त्रिचतुरकक्ष्यास्वबाधितत्वं नाम न प्रत्यक्षमात्रेण बाधाभावः किन्तु बाधसामान्या- भावः । तथा च न तत्र त्रिचतुरकक्ष्यास्वबाधः । आत्माकाशौ न रूपवन्तौ विभुत्वादित्यनु-मानबाधोऽस्तीति चेत्तत्राह ।। त्वन्मत इति ।। प्रपञ्चे सत्त्वधियोऽप्यनुमानबाधितायास्त्व-याङ्गीकृतत्वान्न त्रिचतुरकक्ष्यास्वबाधितासत्त्वधीस्त्वन्मतेऽस्तीति दृश्यत्वादीनां साधकत्वं न स्यादित्यर्थः ।। लोकप्रसिद्धिरिति ।। सत्त्वेन लोकप्रसिद्धिरित्यर्थः । इष्टसिद्धिर्मायावाद-ग्रन्थविशेषः । तदप्येतेनैव निरस्तम् । गौरोऽहं, नीलं नभ इत्यादेरपि सत्त्वेन परमलोक-प्रसिद्धेः सत्त्वादित्यर्थः । एतेनेत्युक्तं विशदयति ।। निपुणेनेति ।। कथायां कुशलेनेत्यर्थः ।। उक्तधीविषयेति ।। त्रिचतुरकक्ष्यास्वबाधितवादिप्रतिवादिप्राश्निकसत्त्वधीविषयेत्यर्थः । तथा च निपुणबौद्धोक्तानां शून्यमेवाद्वितीयं तत्त्वमित्येतदर्थप्रतिपादकहेतूनामपि प्राश्निकादिभिस्त्रि-चतुरकक्ष्यास्वबाधितत्वेन ज्ञातत्वात् त्वां प्रति तदुक्तैरपि हेतुभिस्तव शून्याद्वैतसिद्धिः स्यादिति भावः ।।
यादृश्येति ।। यादृश्या बुद्ध्या नभोनैल्यादिधीव्यावृत्तया घटादौ सत्त्वसिद्धिस्तादृश-बुद्धिविषयत्वमेव मम साधकत्वे तन्त्रमित्यर्थः । एतेनेत्युक्तं विशदयति ।। यादृश्येति ।। शब्दे क्लृप्ता दोषा अर्थबाधादयः । प्रत्यक्षे क्लृप्तदूरत्वादिदोषरहितेन प्रत्यक्षेण जगति सत्त्वस्य सिद्धत्वात्तादृशधियस्त्वया साधकत्वाङ्गीकारे पारमार्थिकसत्त्वधिय एव साधकत्वप्राप्तेरित्यर्थः । ननु प्रत्यक्षे क्लृप्तदोषराहित्यमसिद्धम् । शुक्तिरूप्यप्रत्यक्षदृष्टान्तेन जगत्प्रत्यक्षेऽपि प्रत्यक्षत्व-हेतुना दोषोऽनुमीयते । तेन न जगति सत्त्वसिद्धिरिति चेत् तत्राह ।। अन्यथेति ।। तर्हि तवापि शब्दे क्लृप्तदोषहीनवेदान्तजन्यया धिया ब्रह्मण्यपि सत्त्वं न सिद्ध्येत् । तत्कुत इत्यत उक्तम् ।। पूर्वपक्षीति ।। तेनेति ।। स्वार्थानुमाने पराभावादिति भावः । स्वार्थानुमाने परसिद्धसत्त्वानपेक्षायामपि परार्थानुमानं तदपेक्षमस्त्वित्यत आह ।। परार्थेति ।। प्रयोगस्य ज्ञानपूर्वकत्वेन स्वस्य ज्ञानाभावे परार्थप्रयोग एवायुक्त इति भावः ।। परेति ।। परप्रसिद्ध-सत्त्वोपेतेन दृश्यत्वादिहेतुनेत्यर्थः । वास्तवसाध्यं मिथ्यात्वम् । असिद्धेस्तवेति शेषः । तथात्वे बौद्धप्रसिद्धहेतुना त्वन्मते जगति वास्तवसप्तभङ्गित्वादिकमपि सिद्ध्येदिति भावः ।
पररीत्या बौद्धरीत्या । अतो बौद्धमतप्रसिद्धेनैव दृश्यत्वेन हेतुना मिथ्यात्वमपि त्वद्रीत्यैव साध्यं, तेन मन्मते तद्वास्तवमतो नोक्तदोष इति भावः ।। बौद्धरीत्येति ।। परसिद्धेन परं प्रति मिथ्यात्वसिद्धावपि तव प्रपञ्चमिथ्यात्वसिद्ध्यभावेन, वस्तुतस्त्वन्मते जगतस्सत्यत्वमेव स्यात् बौद्धोक्तसाधनेन बौद्धमत एवात्मनो मिथ्यात्वेऽपि त्वन्मते तस्य सत्यत्ववदित्यर्थः ।। मिथ्यात्वस्येति ।। मिथ्यात्वमपि पररीत्यैव न वास्तवमित्यङ्गीकारे तद्बोधकस्य नेहनानेति प्रमाणस्य त्वदभिमततत्वावेदकत्वं न स्यादिति भावः ।। योऽपीति ।। यः पदार्थः परमतेऽसिद्धः स्वमते सिद्धस्तत्र प्रतीकारो दूषणं स्यात् । स्वमतेऽसिद्धोऽयमिति वादिनं प्रति कः प्रतीकारः तेनैवासिद्धत्वाङ्गीकारात्तद्दूषणं व्यर्थमित्यर्थः । तथा च मिथ्यात्वं वास्तवं मया नाङ्गीक्रियत इत्युच्यते चेदस्मदिष्टसिद्ध्या न तद्दूषणेनास्माकं कृत्यमित्या-शयः ।। अन्योन्येति ।। सिद्धे प्रपञ्चमिथ्यात्वे व्यावहारिकसत्त्वसिद्धिस्तत्सिद्धौ च तस्य साधकत्वे तन्त्रत्वसिद्ध्या तादृशसत्त्ववता दृश्यत्वादिना मिथ्यात्वसिद्धिरित्यन्योन्याश्रया-दित्यर्थः । व्यावहारिकेण दृश्यत्वादिहेतुना । पारमार्थिकासिद्धेः पारमार्थिकस्य मिथ्या-त्वस्यासिद्धेरित्यर्थः । कुतोऽसिद्धिरिति चेत् हीनसत्ताकेनाधिकसत्ताकसाध्यसिद्धेरदर्शना-दित्याशयेनोक्तम् ।। प्रातिभासिकेनेति । नन्वेतदयुक्तम् । यादृच्छिकस्थले आरोपितेनापि धूमेन व्यावहारिकवह्निसिद्धेर्दर्शनादित्यस्वरसादाह ।। किञ्चेति ।। उक्तदोषा इति ।। सत्त्वेन व्यवहारमात्रं वस्तुतस्सत्त्वं नास्तीत्यङ्गीकारे हेत्वादिवाक्यप्रतिपाद्यस्य दृश्यत्वादेः सत्त्वा-भावप्राप्त्या स्वरूपासिद्धिव्याप्यत्वासिद्ध्यादयो दोषा उक्ता इत्यर्थः । बहुकालानुवृत्तभ्रान्ति-हेतुत्वेन नभोनैल्यभ्रमहेतोरिव व्यावहारिकसत्त्वविषयश्रुतीनामप्रामाण्यापातात् । अतो बहुकालानुवृत्तभ्रान्तेर्न साधकत्वप्रयोजकत्वम् । नभोनैल्यच्छत्राकारत्वादिप्रत्यक्षस्यापि साधकत्वापत्तेरित्यर्थः ।
सङ्गृह्णाति ।। तथा चेति ।। साधकत्वप्रयोजकभूतं सत्त्वं यदा यर्हि व्यवहारसिद्धं अबाध्यत्वादिरूपं विवक्षितं तर्हि अस्माकं का क्षतिः, इष्टापत्तिरिति भावः । न चेत्, सत्त्वेन व्यवहारमात्रं वस्तुतस्सत्त्वं नास्तीत्यङ्गीकृतं चेत् असतस्साधकत्वं नास्तीत्यत्र किमायातम् । हेत्वादिवाक्यप्रतिपाद्यस्य दृश्यत्वादेः सत्त्वाभावात्स्वरूपासिद्ध्यादिदोषः स्यादतः साधकत्वायोग इत्यभिहिते नासतः साधकत्वं मयोच्यते, दृश्यत्वादेर्व्यावहारिक-सत्त्वाङ्गीकारात्तस्यैव साधकत्वे तन्त्रत्वादिति त्वयेरितम् । तत्र व्यावहारिकसत्त्वरूपविचारे वस्तुतस्सत्त्वं नास्तीत्युक्तं स्यात् । तथा चासत एव पुनःसाधकत्वोक्तेरसतः साधकत्वं नास्तीत्यस्माभिरभिहितप्रमेये दूषणं किमायातमित्यर्थः । असतोऽपि साधकत्वमित्येतां तु दुराशां उत्तरत्रापाकरिष्याम इति भावः ।। तस्मादिति ।। यन्नास्ति शशशृङ्गादि तन्नास्त्येव यदस्ति तत्परमार्थत एवास्ति । तस्मात्तत्सत्यमेव । अन्यच्छशशृङ्गादिकं मिथ्यैवेति सत्यद्वय कल्पना सत्यद्वैविध्यकल्पना पारमार्थिकसांवृतरूपसत्त्वद्वैविध्यकल्पना न युक्ता । पारमार्थिकमिथ्याव्यतिरिक्तसांवृतसत्त्वोपेतवस्तुनोऽभावात् । सांवृतत्वोक्त्या शशशृङ्गव-न्मिथ्यात्वमेवोक्तं स्यात् । तथा च प्रत्यक्षादिबाधः । तेन कारणेन लालावक्त्रासवादिशब्दवत् मिथ्यासांवृतशब्दयोस्तुल्यार्थत्वे पर्यायत्वे सति शशशृङ्गं मिथ्या, जगत्सांवृतं सत्यमित्युप-न्यासः शिष्यवञ्चनार्थमेवेत्यर्थः । तथा चैवं भट्टाचार्यैः बौद्धं प्रत्युक्तत्वात्तवापि प्रच्छन्न-बौद्धत्वात्सांवृतसत्त्वस्थानाभिषिक्तव्यावहारिकसत्त्वस्यापि मिथ्याशब्दपर्यायत्वात्तदुपन्यासो वञ्चनार्थ एवेति भावः । तथा च व्यावहारिकसत्त्वं साधकत्वोपयोगि न भवतीति ध्येयम् । व्यावहारिकसत्त्वस्य साधकतायां प्रयोजकत्वे साक्षिणि व्यभिचार इत्याह ।। अज्ञानादेरिति ।। आदिपदेन सुखादि ।। सिद्धीति ।। स्वरूपसतःसत्त्वपर्यन्तेत्यर्थः । साक्षिणि शुद्धचैतन्ये । सिद्धिपर्यन्तसाधक इत्यनेन रूप्यादिसाधकाविद्यावच्छिन्नसाक्षिणो व्यावहारिकाद्वैलक्षण्यं सूचितमिति ज्ञेयम् ।। साक्ष्यपीति ।। अविद्याकाराऽविद्यावृत्तिर्जायते । तस्यां प्रतिबिम्बित एव साक्षी अविद्यादिकं साधयति । तस्य च व्यावहारिकत्वान्न व्यभिचार इति भावः । चैत्ररागः चैत्रगतः स्वशब्दःसमभिव्याहृतपरः । स्वशब्देन रागः तद्विषयकं यदनित्यज्ञानम् ‘‘अयमिच्छावान् प्रयत्नवत्त्वादि’’त्यनुमानजन्यं, तदतिरिक्तं यदध्यक्षं तद्वेद्य इत्यर्थः । घटादौ तु पटविषयकं यदनित्यज्ञानम् अस्मदादिज्ञानं वृत्तिरूपं तदतिरिक्तं यदध्यक्षं अधिष्ठान-चैतन्यरूपं तद्वेद्यत्वमस्तीति ज्ञेयम् । अविद्यावृत्तिप्रतिबिम्बितसाक्षिरूपाध्यक्षवेद्यत्वेन सिद्ध-साधनतावारणाय अनित्यज्ञानातिरेकिणेत्युक्तम् । अविद्यावृत्तिप्रतिबिम्बितं विशिष्टं साक्षि-चैतन्यं चानित्यमिति भावः । सुखादावपि रागवदिदमनुमेयमिति भावः ।। नित्यधीति ।। शुद्धसाक्षीत्यर्थः । तथा च तत्र व्यावहारिकसत्त्वाभावाद्व्यभिचार इति भावः । सुखेच्छा-ज्ञानादीनामप्यविद्यावृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वे सुखाद्युत्पत्त्यनन्तरं कदाचिदविद्यावृत्ति-विलम्बेन तज्ज्ञानविलम्बापत्त्या सुखादीनां ज्ञातैकसत्त्वं न स्यादित्याह ।। अज्ञानेति ।।
अस्तु वा यथाकथञ्चित्सुखादेरविद्यावृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वं तथाप्यविद्याया नाविद्यावृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वम् । आत्माश्रयानवस्थापत्तेः । अतः शुद्धसाक्षिवेद्यत्वमेव वाच्यम् । तथा चाविद्यासाधकशुद्धसाक्षिणि व्यभिचारः सुस्थ इत्याशयेनाह ।। अविद्यावृत्तिं प्रतीति ।। साधकताया अज्ञानसाधकतायाः । शुद्धसाक्षिणः साधकत्वाभाव इति यावत् ।। अन्योन्येति ।। अज्ञानस्वरूपसिद्धौ तदधीनस्य साक्षिणस्साधकत्वस्य सिद्धिः तत्साधकत्वे सिद्धेऽज्ञानस्य प्रातीतिकत्वसिद्धिः । अज्ञानस्य प्रातीतिकत्वेन साक्षिण एव तत्सत्त्व-साधकत्वादित्यन्योन्याश्रय इत्यर्थः ।। एतेनेति ।। मयोच्यमानमसतः साधकत्वं यथाऽत्वद-सम्मतं एवं भवदभिमतं सतस्साधकत्वं न ममापि सम्मतमित्येतदेतेनैव सत्यस्य साक्षिणो ह्यावयोर्मते साधकत्वाङ्गीकारेणैव निरस्तमित्यर्थः । विमतिर्विवादः । आनन्दबोधः चित्सुखः ।। नापीति ।। क्वचित्पारमार्थिकी सत्ता साधकत्वे तन्त्रं क्वचिद्व्यावहारिकी सत्ता क्वचित्प्रातिभासिकी सत्तेति सत्तात्रयमपि तन्त्रम् । अथवा द्वयं प्रातिभासिकसत्त्वातिरिक्तं सत्त्वद्वयमित्यर्थः ।। अननुगमादिति ।। पारमार्थिकसत्त्वाभावेऽपि व्यावहारिकसत्त्वोपेता-दप्यर्थसिद्धेर्दर्शनाद्व्यभिचार इत्यर्थः । ननु तृणाभावेऽपि पर्णादिना वह्नेर्जायमानत्वेन व्यभिचारान्न वह्नौ तृणादीनां कारणत्वं, एवमेव यागस्यापि न स्वर्गसाधनत्वमित्याशङ्कायां यथा तृणजन्यवह्नेः सकाशान्मणिजन्यवह्नौ, यथा वा यागजन्यस्वर्गात् दानादिजन्ये स्वर्गे वैजात्यमङ्गीकृत्य व्यभिचारः परिह्रियते एवमिहापि पारमार्थिकसत्त्वोपेतप्रमाणजन्यसिद्धितो व्यावहारिकादिसत्त्वोपेतप्रमाणजन्यसिद्धौ वैजात्यकल्पनान्न व्यभिचार इत्याशङ्कां परिहरति ।। प्रयोज्येति ।। तृणादिप्रयोज्यवह्नेस्तृणादिजन्यतावच्छेदकीभूतजातिविशेषस्यानुभवसिद्धत्वात् तृणे सति तादृशजात्युपेततार्णो वह्निविशेष इत्यस्य व्यभिचारो नास्तीति कल्प्यते तद्वदिह पारमार्थिकसत्त्वादिप्रयोज्यजातिविशेषाणामभावेन तृणारणिमणिन्यायासम्भवादिति भावः ।। अपरमार्थेति ।। पारमार्थिकसद्भिन्नव्यावहारिकादिसत इत्यर्थः ।। असत्त्वेनेति ।। सत्प्रभेदत्वाभावेन सत्त्वसामान्यं प्रति अव्यक्तित्वादित्यर्थः । तथा च शशविषाणगो-विषाणानुगतविषाणत्वसामान्यवत् सत्त्त्रयसद्द्वयानुगतसत्त्वसामान्यस्याप्यभावादित्यर्थः । तथा च परमार्थसत एव साधकत्वं सिद्ध्यतीति द्रष्टव्यम् ।। विरोधादिति ।। अबाध्यत्वादिरूप-सत्त्वस्य बाध्यत्वादिरूपमिथ्यात्वाश्रयमृषार्थे वृत्तिर्न सम्भवति । स्वाभाववति स्ववृत्तेर्विरुद्ध-त्वादित्यर्थः ।। वृषसिंहयोरिति ।। वृषस्य सिंहप्रभेदत्वाभावादिति भावः ।
नन्वपरमार्थसतोऽपि अबाध्यत्वरूपसद्विशेषत्वात्तत्र सत्त्वसामान्यं सम्भवतीत्यत आह ।। अपरमार्थसत इति ।। शाबलेयस्य शबलगोजन्यस्य गोरूपपदार्थस्य ।। सद्वैलक्षण्यमिति ।। अबाध्यत्वरूपसत्त्वाविरोधिनः अपारमार्थिकत्वस्य पारिभाषिकत्वापत्त्याऽपरमार्थसतोऽपि प्रपञ्चस्य वस्तुतः परमार्थसद्विशेषत्वात्तत्र सद्वैलक्षण्यं न स्यादित्यर्थः ।। सामान्यविधि-मिति ।। अनारोपितब्राह्मण्यवान्यजेतेति विशेषाश्रवणादित्यर्थः । ब्राह्मण्यां ब्राह्मणस्त्रियाम् । अब्राह्मणात् शूद्रान्त्यजादेर्जातश्चण्डालः । एतच्चात्यन्तनिषिद्धतासूचनाय । ननु प्रतिलोम-जानां यज्ञाधिकारे निषेधवचनविरोध इत्यत आह ।। निषेधस्य त्विति ।। तथा चारोपित-ब्राह्मण्यवान् निषेधाविषय इति तस्यापि विधिविषयत्वापत्तिरिति भावः । तदनुगतं आरोपितानारोपितानुगतं सत्त्वसामान्यम् । तस्य तन्त्रत्वे सत्त्वसामान्यस्य तन्त्रत्वे । स्वाप्नेन प्रातिभासिकत्वोपेतेन ।। तत्फलस्येति ।। ऐक्यापत्तिस्वर्गरूपफलस्येत्यर्थः । पारमार्थिक-स्येत्येतत् द्वैतस्य वह्नेरित्यत्राप्यनुषञ्जनीयम् ।। विरुद्धधर्मेणेति ।। सर्वज्ञत्वाल्पज्ञत्वादिरूप-विरुद्धधर्मेणेत्यर्थः । साधकत्वप्रयोजकीभूतस्य सत्त्वसामान्यस्य सत्त्वादिति भावः ।। धर्मीति ।। तादृशसत्त्ववान् धर्मी । तद्वान् हेतुः साधक इत्यर्थः । अत एव धर्मिभूतयो-र्विशिष्टयोर्जीवेशयोर्व्यावहारिकत्वेन तत्तुल्यसत्ताकेनासद्विलक्षणेन च विरुद्धधर्मरूपहेतुना पारमार्थिकजीवेश्वरभेदसिद्धिप्रसङ्गादेवेत्यर्थः । ननु व्यावहारिकेश्वरभेदसिद्धिर्भवत्येवेत्यस्वर-सादाह ।। गौरवाच्चेति ।। सत्त्वे द्वैविध्याभावेन धर्मितुल्यसत्त्वासद्विलक्षणत्वापेक्षया सत्त्व-मात्रस्य साधकत्वे तन्त्रत्वोक्तौ लाघवमित्यर्थः । धूमाभासेन पारमार्थिकवह्नेः सिद्धिः स्यादित्यत्र परिहारं शङ्कते ।। नन्विति ।। कुतो व्याप्त्यभाव इत्यत आह ।। बहुलेति ।। यथा धूममात्रे न वह्निव्याप्तिः किन्तु बहुलोर्ध्वत्वावच्छिन्नमूलत्वयुक्ते तथा आभासधूमेऽपि न वह्निव्याप्तिः किन्त्वाभासभिन्न एवेत्यर्थः । व्याप्त्यर्थत्वात् व्याप्त्युपयोगित्वात् ।। अस्या इति ।। असतः साधकत्वे सिद्धे धूमाभासस्यापि साधकत्वं स्यादित्यतिप्रसङ्गवारणाय बहुलोर्ध्वतादिवदाभासविविक्तत्वस्यापि व्याप्त्युपयोगित्वसिद्धिः । तत्सिद्धौ तदभावादेवा-साधकत्वं धूमाभासस्य नासत्त्वादिति कल्पनायाः सिद्ध्याऽतिप्रसङ्गाभावेनासतः साधकत्व-सिद्धिरित्यन्योश्रयादित्यर्थः । आरोपितेति आभासविवेकस्य विशेषणम् । तथा च व्यर्थ-माभासविविक्तत्वविशेषणम् । धूमाभासे व्यभिचारस्य तदवस्थत्वादिति भावः ।। प्रकृतेऽपीति ।। तथा च यथा ह्रदादावारोपिते धूमे न व्याप्तिः किन्त्वाभासविविक्ते पर्वत-वृत्तिधूम एव, एवं ब्रह्मण्यारोपिते दृश्यत्वेऽपि न व्याप्तिरस्तीति व्याप्तिसिद्धये प्रपञ्चे दृश्यत्वस्य सत्त्वं स्वीकार्यमित्यर्थः । साधकत्वार्थं वा साधकत्वोपयुक्तव्याप्त्याद्यर्थं वा दृश्यत्वादेस्सत्त्वमावश्यकमिति नासतः साधकत्वमिति भावः ।
किञ्च दृश्यत्वादिहेतोः सत्त्वमावश्यकं, अन्यथा हेत्वाद्यारोपस्य सर्वत्र सौलभ्येना-सिद्ध्यादिविभाग एव न स्यात् । अतस्तदर्थं वास्तवसत्त्वमेव वाच्यमित्याह ।। हेत्वादीति ।। ननु मिथ्यात्वानुमानेनासत्त्वेन बोधितानामपि पक्षहेत्वादीनां साध्यव्याप्त्यादीन्प्रत्याश्रयत्वं भविष्यति । वन्ध्यासुतो न वक्ता अत्यन्ताभावप्रतियोगित्वादित्यत्रासतोऽपि साधनं प्रत्या-श्रयत्वदर्शनादित्यत आह ।। आश्रयादेरिति ।। आदिपदेन साध्यसंसर्गग्रहणम् । आश्रय-साध्यव्यधिकरणासिद्धयो न दूषणमिति वचनेन आश्रयासिद्ध्यादेरदूषणत्वेन तस्य सत्त्व-नियमाभावेऽपि व्याप्तिरेव हि प्रयोजिकेत्युक्तत्वेन तस्याश्च सदाश्रयकत्वनियमेन हेत्वादेः सत्त्वमावश्यकमिति भावः ।। तुच्छ इति ।। असद्वैलक्षण्यघटितानिर्वाच्यत्वरूपप्रातिभासिक-त्वस्य तुच्छेऽभावेन तस्याप्रातिभासिकत्वेन साधकत्वं स्यादिति भावः ।। गौरवादिति ।। सत्त्वद्वैविध्यादिकल्पनमनादृत्य सत्त्वमात्रस्यैव साधकतायां प्रयोजकत्वे लाघवमिति भावः । नन्वस्तु सत्त्वमेव प्रयोजकं तत्राह ।। व्यावहारिकेति ।। पारमार्थिकसत्त्वातिरिक्तव्यावहारिक-सत्वरूपव्यक्त्यभावादिति भावः ।। अतीति ।। उक्तसत्त्वापेक्षयेत्यर्थः ।। अन्यथेति ।। लघुनि सम्भवे गुरुणोऽङ्गीकार इत्यर्थः ।। उपस्थितेति ।। उपस्थितं यद्रूप्यत्वादिकं तस्य पुरोवृत्तिनि योऽसंसर्गः तदग्रह एव प्रवृत्तौ हेतुः स्यात् । एवं च भ्रान्तिर्न सिद्ध्येत् । संसर्गग्रहे भ्रमरूपं विशिष्टज्ञानं सिद्ध्येत् । एवं च सम्प्रतिपन्नविशिष्टज्ञानेनैव प्रवृत्तिर्भवति तत्रासंसर्गस्याभावादेव तदग्रहोऽस्ति । तत्सादृश्यादसंसर्गाग्रहादिदं रजतमिति ज्ञानादपि प्रवृत्तिर्भविष्यति । विद्यमानस्याप्यसंसर्गस्याग्रहणसद्भावादिति प्राभाकरेणोक्ते त्वया वाच्यं निषेधद्वयगर्भत्वेन गौरवाल्लाघवात्संसर्गग्रह एव प्रवृत्तौ हेतुरिति । एवं सति भ्रमरूपविशिष्टज्ञानसिद्धिरिति । तथा च लाघवानादरेणैतदपि न स्यात् साध्यं न सिद्धमित्यर्थः ।। सदिति ।। सतः साधकत्वानङ्गीकारादिति भावः ।
नन्वसतः साधकत्वमपि असतैव साधकान्तरेण प्रतिवादिनं त्वां प्रति सिध्द्यतीति चेत्तत्राह ।। अनवस्थानादिति ।। ननु सतः साधकत्वमपि विप्रतिपन्नत्वात्साध्यं तत्साधकं च मानं तावन्मां प्रत्यसिद्धं । तथापि । न तावत्सतः साधकत्वं सता साध्यते । ममासिद्धः । नाप्यसता तवासिद्धेरित्याशङ्क्य निराकरोति ।। न चेति ।। न सतः साधकत्वं मया साधनीयं त्वन्मते सतःसाक्षिणोऽज्ञानादिसाधकत्वस्य सिद्धत्वादित्याह ।। त्वन्मतेऽपीति ।। तथा च सतः साधकत्वमुभयसम्मतमित्यर्थः । अत्रानुव्याख्यानसम्मतिमाह ।। उक्तं हीति ।। साक्षिणाऽज्ञानादिसिद्धिमिच्छता तेन मायावादिना सतस्साधकत्वं स्वीकृतमित्येव परन्तु तन्न सम्भवति । अविशेषस्य साधकता पुनःसाध्यैव न तु सिद्धा । सर्वशक्तिरहितस्य शून्य-वत्साधकताऽयोगादित्यर्थः ।। औत्सर्गिकेति ।। धूमादिग्राहकस्य ज्ञानस्योत्सर्गतः प्रमाणत्वात्प्रामाण्यस्य स्वार्थसत्त्वपर्यन्तत्वात्प्रमाणसिद्धानां सतां धूमादीनां साधकत्वस्य तत्साधकत्वे पर्यवसानादित्यर्थः ।। उपायान्तरेति ।। लोकमर्यादासिद्धोपायातिरिक्तोपाया-भावेनेत्यर्थः ।। स्वच्छायेति ।। यथा स्वकीया च्छाया स्वेनैवोल्लङ्घितुं न शक्यते एवं पर्वतवर्तिन एव साधकत्वं न तु बाष्पारोपितधूमस्येत्येवं लोकसिद्धं यत्सतः साधकत्वं तदप्युल्लङ्घितुं न शक्यत इत्यर्थः । नन्वसतः साधकत्वं नास्तीति वदतां लौकिकानामय-मभिप्रायः, असतो जायमाना सिद्धिः सती प्रमारूपा न भवतीति । मया त्वसतोऽस-त्सिद्धिरुच्यत इति न मम लोकमर्यादोल्लङ्घनमित्यत आह ।। न चेति ।। अन्योन्येति ।। असतः साधकत्वे सिद्धेऽसतः साधकत्वं नास्तीति लोकप्रसिद्धेर्विषयान्तरपरत्वं लोकप्रसिद्धे-र्विषयान्तरपरत्वे च तद्विरोधाभावादसतोऽपि साधकत्वं सिद्ध्यतीत्यन्योन्याश्रय इत्यर्थः ।। अन्यथेति ।। लोकमर्यादातिक्रम इत्यर्थः ।। प्रतीतिरिति ।। असच्चेन्न प्रतीयेतेति प्रतीत्य-न्यथानुपपत्तिरूपार्थापत्त्या प्रपञ्चेऽसद्वैलक्षण्यं साध्यते तन्न स्यात् । लोकमर्यादासिद्धाया रूप्यादिप्रतीतेरप्यत्यन्तासत्त्वस्य शून्यवादिना वक्तुं शक्यत्वादित्यर्थः ।। सल्लक्षणेति ।। सतस्साधकस्य यल्लक्षणं पक्षवृत्तित्वादिरूपं तद्योगित्वं साधकत्वे तन्त्रं सल्लक्षणायोगित्वम-साधकत्वे तन्त्रमित्यर्थः । तच्च पर्वतवृत्तिधूमेऽस्ति । अतस्तत्र साधकत्वं न तु तदाभास इति नातिप्रसङ्गः । प्रकृते दृश्यत्वादौ च सल्लक्षणयोगित्वमस्तीति साधकत्वं युक्तमिति भावः ।।
असत्त्व इति ।। दृश्यत्वादिभिरेव प्रयोगैः प्रपञ्चान्तर्गतस्य हेत्वादेरपि मिथ्यात्वबोधनेना-सत्त्वापत्त्या सतः साधकस्य यल्लक्षणं पक्षवृत्तित्वव्याप्तिमत्त्वादिरूपं तद्योगित्वाभावेन पक्षवृत्तित्वव्याप्त्यादिराहित्यरूपासत्साधकलक्षणयोगित्वप्राप्तेर्न साधकत्वं युक्तमित्यर्थः ।। स्वप्नवदिति ।। यथा स्वप्नप्रतीतयोर्धूमतदाभासयोरुभयोरपि मिथ्यात्वाविशेषेऽपि तत्र कश्चन सद्धेतुः साधकत्वेन व्यवह्रियते कश्चन तदाभासोऽसाधकत्वेन । एवमिहापि दृश्यत्वादेर्धूमा-भासादेश्च मिथ्यात्वाविशेषेऽपि हेतुतदाभासव्यवस्थया साधकत्वाद्युपपत्तेरित्यर्थः । एतेनेत्युक्तमेव विशदयति ।। तद्वदेवेति ।। स्वप्नदृष्टधूमादिना वास्तववह्निसिद्ध्यदर्शनादिहापि दृश्यत्वादिना वास्तवमिथ्यात्वरूपसाध्यसिद्धिर्न स्यादित्यर्थः । उपसंहरति ।। तस्मादिति ।। असत्यादिति ।। स्वबोधितमिथ्यात्वकविश्वान्तर्गतत्वेनासत्यदृश्यत्वादेस्सकाशान्न सत्यभूत-मिथ्यात्वादिसिद्धिरिति बाधादिकं दुर्वारमिति भावः ।। साधकञ्चेदिति ।। किञ्चिद्धेत्वादिकं चेद्यदि साधकं तर्हि तस्य परमार्थास्तिता पारमार्थिकसत्त्वं अवश्यमपेक्षितं भवेदेव । परमार्थ-सत्त्वस्यैव साधकत्वे तन्त्रत्वादिति भावः । नन्वपरमार्थसतोऽपि साधकत्वं किं न स्यादित्यत आह ।। सिद्धिर्नेति ।। सवितृसुषिरादावपि सत्यस्यैव साधकत्वमित्यनुपदमेव वक्ष्यत इति भावः ।। लोकस्यापीति ।। सदसतोः साधकत्वासाधकत्वातिक्रमे विचारस्य दैववशसम्पन्न-वनस्थवेणुनिस्सृतस्वनवद्यादृच्छिकवाङ्मात्रत्वापत्त्या प्रमाणसिद्धत्वाभावापातेनार्थनिश्चायकत्वा- भावापातात् । अतो लोकमर्यादानुसारेणैव सत एव साधकत्वं नासत इत्यङ्गीकार्यमिति भावः ।।
न्यायकल्पलता
विश्वसत्वसाधकापेक्षया तन्मिथ्यात्वसाधकानुमानानां व्याहत्यादिना दौर्बल्यमभ्युच्चिनोति– किञ्चेति । एतैर्दृश्यत्वजडत्वादिघटितैः । प्रतिज्ञारूपवाक्येन प्रापितस्य मिथ्यात्वरूपसाध्यस्य । एवं हेतुरूपवाक्यादिभिः प्रापितानां लिङ्गादीनां मिथ्यात्वाबोधनेऽनुमित्सितसर्वमिथ्यात्वासिद्धि-रित्यर्थः । व्याहतिरिति । विमतं मिथ्येति प्रतिज्ञारूपेण वाक्येन पक्षे मिथ्यात्वं विधीयते । अनुमानप्रयोगेण विश्वमिथ्यात्वं साधयता विश्वान्तर्गतस्य मिथ्यात्वरूपस्य प्रतिज्ञार्थस्य बाधितत्व-रूपं मिथ्यात्वं साध्यत इति व्याहतिरित्यर्थः । बाध इति । अनुमानप्रयोगस्य व्याप्त्याद्यङ्गोपेतत्वेन प्रतिज्ञामात्रापेक्षया बलवत्वात्प्रतिज्ञोपनीतसाध्यापहारे बाध इत्यर्थः । स्वरूपासिद्धिरिति । हेतुवाक्योपनीतस्य लिंगस्यानुमानप्रयोगेणापहारे स्वरूपासिद्धिः । एवमुदाहरणवाक्यार्थस्यापहारे व्याप्यत्वासिद्धिरित्यर्थः । एवं च मिथ्यात्वसाधनायोपन्यस्तमनुमानं यदि मिथ्या स्यात्तर्हि तदसाधकं प्रसज्येत वन्ध्यासुतवचनवदित्यन्तरंगप्रतिकूलतर्कपराहतिरिति भावः ।
मिथ्यात्वसाधकेन प्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वबोधनेऽपि व्याहत्यभावः । प्रतिज्ञादि-भिस्तेषां त्रिकालाबाध्यत्वरूपसत्वाप्रतिपादनादिति चेत् । न । मिथ्यात्वानुमानेन पक्षादीनां स्वकालसत्वाबाधने प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वासिद्धेः । एककाले सत्वग्राहकैः प्रतिज्ञादिभिस्त्रिकालवृत्यभावप्रतियोगित्वादिरूपमिथ्यात्वानुमानेन विरोधस्य कथमपि समाधातुमशक्यत्वाच्च । एककाले सतोऽपि कालत्रयेऽसत्वाभावादित्युक्तत्वात् । नन्वनुमान-प्रयोगेण दृश्यत्वादिहेतूनां मिथ्यात्वसाधनात् पारमार्थिकसत्वापहारेऽपि प्रकारान्तरेण साधकतोप-युक्तं सिध्यादिकं भविष्यतीत्यत आह– परमार्थेति । तथा च साधकत्वस्य प्राक्सत्वघटितत्वे तदन्यथानुपपत्या परमार्थसत्वमायातीति मिथ्यात्वानुमानस्य विरोध एवेति भावः । उक्तेऽर्थे परिशेषं दिदर्शयिषुराह– न तावदिति । ह्रद इति । हृदेऽपरोक्षभ्रान्तिसिद्धेन धूमेन व्यावहारिक-वह्नेः सिद्धिः । प्रपञ्चे चापरोक्षभ्रान्तिसिद्धेनात्यन्ताबाधेन पारमार्थिकसत्वस्य सिद्धिः स्यादित्यर्थः । वह्नित्वेनेति । तथाच तद्धीमात्रादीनां व्यतिरेकव्यभिचार इत्यर्थः । अमृतत्वेनेति । एवं च तेषामन्वयव्यभिचारोऽपीत्यर्थः । लोकप्रसिद्धिरिति । सत्वेनेति शेषः । इष्टसिद्धीति । गौरोऽहं नीलं नभ इत्यादेरपि सत्वेन पामरलोकप्रसिद्धेः सत्वान्निरस्तमित्यर्थः । निपुणेनेति । कथायां कुशलेनेत्यर्थः । तादृशबौद्धोक्तानां शून्यमद्वितीयमित्यस्मिन्नर्थे हेतूनामपि प्राश्निकादिभिस्त्रिचतुरकक्ष्यास्वबाधितत्वेन ज्ञातत्वात् तदुक्तैरपि हेतुभिः शून्याद्वैतस्य सिद्धिः स्यादिति भावः । यादृश्याबुध्या तव नभोनैल्यादिधीव्यावृत्तया घटादौ सत्वसिद्धिस्तादृग्बुद्धि-विषयत्वमेव असाधकत्वे तन्त्रमित्यर्थः । प्रत्यक्ष इति तादृशादुष्टबुद्धिविषयत्वस्य ब्रह्मणि सत्वाव्यभिचारित्वेन दृष्टतया लाघवेन सत्वस्यैव साधकत्वे प्रयोजकत्वादित्यर्थः । सत्यत्वं च यथा प्रत्यक्षविषयस्तथोक्तं प्राक् । अन्यथेति । योग्यानुपलब्ध्यादिना दोषाभावनिश्चयस्तु श्रुत्यर्थ इव प्रत्यक्षे सम इति भावः । तेनेति । स्वार्थानुमानस्य परानपेक्षत्वादित्यर्थः ।
ननु स्वार्थानुमानाभावेऽपि परार्थानुमानमस्त्वित्यत आह– परार्थेति । परप्रसिद्धेति । एकतरसिद्धार्थसाधनेन सर्वान् प्रति साध्यसिद्धिर्न सम्भवति । तदुपायाभावादित्यर्थः । ननु साध्यसिद्धिरपि न सर्वान् प्रति । किन्तु यं प्रति साधनं सिद्धमस्ति तं प्रत्येवेत्यत आह– न च मिथ्यात्वमिति । बौद्धेति । परसिद्धसाधनेन परं प्रति साध्यसिद्धावपि तव मिथ्यात्वविषय-तत्वज्ञानं न स्यात् । बौद्धोक्तसाधनेन बौद्धं प्रत्यात्मनो मिथ्यात्वेऽपि त्वां प्रति तत्सत्यत्ववत् प्रपञ्चस्य सत्यतैव स्यादित्यर्थः । मिथ्यात्वस्येति । मिथ्यात्वस्य मिथ्यात्वे तद्बोधकस्य नेह नानेति प्रमाणस्य त्वदभिमततत्वावदेकत्वं न स्यादित्यर्थः । ननु मिथ्यात्वेऽपि तत्वावेदक-श्रुतिवेद्यत्वोपपत्तिः । सत्वेन सत इव मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोधादिति चेन्न । यतो यथा ब्रह्मबोधकवाक्येन ब्रह्मणस्तात्विकत्वं सिद्धम् । प्रामाण्यस्य स्वतस्त्वात् तथा मिथ्यात्वा-वेदकवाक्येन मिथ्यात्वस्य त्वात्विकस्यैव सिद्धिमौचितिमावहति । मिथ्यात्वप्रतिपादके वाक्ये मिथ्यात्वस्य मिथ्यात्वेन बोधने तादृशपदाभावेन सामर्थ्याभावाच्च । अन्यथा यजमानः प्रस्तर इति वाक्यं यजमानस्य प्रस्तरत्वं प्रतिभासिकं प्रातिभासिकत्वेनैव प्रतिपादयतीति तत्सिद्धिजाती-त्यादिना यजमानादेर्गौणार्थत्वं न वर्णनीयं स्यादिति भावः । योऽपीति । परान्प्रत्यसिद्धः कृतकत्वादिः स्वयं स्वमते सिद्धत्वेन प्रयुज्यते । तत्र परं हेतुसाधनादिप्रतीकारो भवति । स्वतोऽ-सिद्धेतु न क्रिया न प्रतीकार इत्यर्थः । अन्योन्याश्रयादिति । व्यावहारिकत्वस्य पारमार्थिक-भिन्नत्वरूपस्य प्रपञ्चे पारमार्थिकसन्देहदशायामसिद्धेरित्यर्थः ।
ननु ज्ञाताज्ञातसाधारण्यं व्यावहारिसत्वमेव साधकत्वे तन्त्रम् । तच्च ब्रह्मज्ञानेतराबाध्यत्व-मेव । तन्न मिथ्यात्वघटितम् । अत्यन्ताबाध्ये ब्रह्मज्ञानबाध्ये च तुल्यत्वात् । अत एव नेदं परमार्थसत्वव्याप्यम् । परमार्थसत्वस्य साधकतायामतन्त्रत्वेन तदभावेऽपि न साधकतानु-पपत्तिरिति चेत् । मैवम्् । एतदपेक्षयाऽबाध्यत्वस्यैव साधकतायां प्रयोजकत्वस्योपपन्नत्वात् । सदेव सौम्येदमग्र आसीदित्यादौ ब्रह्मणो जगत्कारणत्वोपपत्तये सत्वोक्तेश्च । अन्यथा तद्धैक आहुरित्यादिना अतत्कारणत्ववादिमतमनूद्य कुतस्तु खलु सौम्यैवं स्यात्कथमसतः सज्जायेतेति तन्मतनिषेधायोगात् । अपिच ब्रह्मणो वृत्तिव्याप्यत्वाभावपक्षे जगतोऽपि ब्रह्मज्ञानेतरबाध्यत्वेन तदितराबाध्यत्वस्य त्वन्मते शुक्तिरूप्येऽप्यसत्वेन तस्य ब्रह्मज्ञानबाध्यतया शुक्तिरजते व्यावहारिकत्वापातः । हेतुव्याप्त्यादेरिति । अनुमितिविषयसाध्यस्य परामर्शविषयहेत्वादिना समसत्ताकत्वनियमादित्यर्थः । एतस्य प्रागेवोपादितत्वेन पुनराशंकानर्हतेति बोध्यम् । एतेन दृश्यत्ववन्मिथ्यात्वस्यापि व्यावहारिकत्वेन समसत्ताकत्वमिष्टमिति निरस्तम् । अद्वैतश्रुतेरतत्वा-वेदकत्वप्रसंगात् । संगृह्णाति– तथाचेति । व्यावहार्यम् अबाध्यत्वादिरूपम् । नचेदिति । सत्वेन व्यवहारमात्रस्य व्यावहारिकत्वे असतः साधकत्वाङ्गीकारात् तस्य च दूषितत्वादित्यर्थः ।
तस्मादिति । यन्नास्ति शशशृृङ्गादि तन्नास्त्येव । यद्वियदादि वेदादि चास्ति तत्परमार्थत एवाभूत् तस्मात् तत्सत्यमेव । अन्यत् शशश्रृङ्गादिकं मिथ्यैव । एवं स्थिते सत्ये द्वयं द्वैविध्यं पारमार्थिकत्वव्यावहारिकत्वरूपं न कल्पनीयम् । प्रमाणाभावात् । मिथ्येति सांवृतमिति यौ शब्दौ तयोस्तुल्यार्थत्वेऽपि एकार्थत्वेऽपि द्वैविध्यकल्पनारूपोऽयमुपन्यासः केवलं स्वशिष्य-वञ्चनार्थमेव । यथा लालावक्त्रासवादिना बालाः वञ्च्यन्ते इत्यर्थः । साधकतायाः व्यावहारिकत्व-व्यतिरेकप्रयुक्तव्यतिरेकाप्रतियोगित्वेन व्यावहारिकत्वं न साधकताप्रयोजकमिति भावेन साक्षिणि व्यतिरेकव्यभिचारं वक्ति । अज्ञानादेरिति । शुक्तिरूप्यादिसाधकादाभासाद्वैषम्यं दर्शयितुं सिद्धिपर्यन्तसाधक इति विशेषणमुक्तम् ।
नन्वविद्याकारा वृत्तिर्जायते तस्यां प्रतिबिम्बित एव साक्षी अविद्यादिकं गृह्णाति । स च व्यावहारिक इति व्यतिरेकव्यभिचार इत्याशंक्य निराचष्टे– नचेति । स्वव्याहतिं तावदाह ।। चैत्रराग इति । चैत्रेच्छा स्वविषयं यदनित्यज्ञानं तदतिरिक्तेन प्रत्यक्षेण संवेद्या । प्रत्यक्षत्वस्य ज्ञानत्वाघटितत्वान्न वैय्यर्थ्यम् । ईश्वरज्ञानवेद्यत्वेन सिद्धसाधनवारणाय साध्ये तत्पदं चैत्रपरम् । अज्ञानेति । अज्ञानाद्याकारवृत्तिप्रविलम्बेन तदनुभवविलम्बादनुभूयमानैकसत्वं न स्यादित्यर्थः । अविद्यावृत्तिमिति । अनवस्थाभयादित्यर्थः । साक्षिगतेति । अज्ञानस्वरूपसिद्धौ तदधीनं साक्षिणः साधकत्वम् । तस्याज्ञानस्वरूपाधीनत्वात् । साक्षिणः साधकत्वे त्वज्ञानस्य प्रातितिकं सत्वमित्यन्योन्याश्रय इत्यर्थः । एतेनेति । साक्षिणः परमार्थसत एव साधकत्वेनेत्यर्थः । नापीति । क्वचित्परमार्थिकी सत्ता, क्वचिद्व्यावहारिकी, क्वचित्प्रातिभासिकीति सत्तात्रयमपि विकल्पेन हेतुस्वरूपघटकतया प्रयोजकमित्यर्थः । अननुगमादिति । व्यतिरेकव्यभिचारादित्यर्थः ।
ननु तृणजन्यवह्नेः सकाशान्मणिजन्यवह्नौ वैजात्यवदिहापि कार्य्ये वैजात्यकल्पनान्न व्यभिचार इत्याशङ्का परिहरति । प्रयोज्य इति । अपरमार्थेति । एवं च सत एव साधकत्वं न त्वसतोऽपीति भावः । विरोधादिति । अबाध्यत्वादिरूपस्य सत्वस्य बाध्यत्वादिरूपमिथ्या-त्वाश्रये मृषार्थे वृत्तिर्न सम्भवति । स्वाभाववति स्ववृत्तेरर्विरोधादित्यर्थः । ननु मृषार्थे न बाध्यत्वादिरूपं मिथ्यात्वं किन्त्वन्यदेव । तथा च मृषार्थेऽप्यबाध्यत्वादिरूपं सत्वसामान्यं भविष्यतीत्यत आह– अपरमार्थसत इति । अबाध्यत्वरूपसत्वाविरोधिनो पारमार्थिकत्वस्य पारिभाषिकत्वापत्याऽपरमार्थसतोऽपि वस्तुतः परमार्थसद्विशेषत्वात् तत्र सद्वैलक्षण्यं न स्यादित्यर्थः । ब्राह्मण्यामिति । अत्यन्तापकृष्टत्वसूचनायेदमुक्तम् । निषेधस्यत्विति । प्रतिलोमजातीयस्य त्रिवर्षोत्तरस्याधिकारबोधकस्येत्यर्थः । तत्फलस्येति । अद्वैतसाक्षात्कार-फलस्य पारमार्थिकस्य सिद्धिः स्यादित्यर्थः । पारमार्थिकस्येति द्वैतस्येत्यादावप्यन्वेतव्यम् । एतेन यत्र यत् साधकं व्यावहारिकं तत्र तत्फलं व्यावहारिकं यत्र तु साधकं प्रातीतिकं तत्फलमपि तथैव न तु व्यावहारिकमिति निरस्तम् । प्रातिभासिकेनापि सवितृसुषिरादिना स्वाप्नपदार्थेन च व्यावहारिकस्यानिष्टस्य शुभस्य सिद्धेस्त्वदभिमतत्वात् ।
धर्मीति । यादृशं सत्ववान् धर्मी तत्र तादृशसत्ववान् हेतुसाध्यसाधकः अतो नासिध्यादि-रित्यर्थः । गौरवाच्चेति । सत्वे दैविध्याभावेन सत एव लाघवेन साधकतया सत्वस्यैव साधकत्वे तन्त्रता । किञ्च । आत्मा स्वप्रकाशः अनुभूतित्वात्, आत्मानः परमात्मनो न भिन्नाः चेतनत्वादित्यादौ अनुमानाङ्गानां हेत्वादीनां धर्मिसत्तासमानसत्ताकत्वाभावेन स्वप्रकाशत्वादि-साध्यसिद्धिर्न स्यात् । आत्मन्यनृतव्यावृत्तिं प्रति प्रयोजकतया परमार्थसत्वस्यैव क्लृप्तत्वस्यैव क्लृप्तत्वेन जगति तदभावेऽसद्वैलक्षण्यानुपपत्तेर्लाघवेन तस्यैव तन्त्रत्वादिति भावः । एतेन सत्वं न परजातिः सामान्यादावसत्वात् । मिथ्यात्वाविरोधित्वाच्च । किन्तु त्रिकालबाधविरहरूपं वाच्यम् । तस्य च न लघुत्वमिति निरस्तम् । आत्मनि क्लृप्तत्वेन तस्यागुरुत्वात् । त्वदभिमतव्यावहारिक-स्योभयासम्मतत्वात् । अतिगुरुत्वाच्च । गुरोर्बिभ्यतोऽतिगुरोः कथनं भीतिः ।
धूमाभासेन पारमार्थिकवह्नेः सिद्धिः स्यादित्यत्र परिहरति । नन्विति बहुलेति । यथा धूममात्रे न वह्निव्याप्तिः किन्तु बहुलत्वोर्ध्वत्वादियुक्ते तथा आभासधूमेऽपि न व्याप्तिः किन्तु आभासभिन्न इत्यर्थः । अस्या इति । असतः साधकतायां स्वरूपयोग्यत्वे सिद्धे ततः कार्यादर्शनात् सहकारिवैकल्यकल्पनाया इत्यर्थः । अन्योन्याश्रयादिति । दृश्यत्वादेरसतः साधकतायां परेणोक्तायां धूमाभासाद्वह्निसिद्धेरभावाद्व्यभिचार इति तत्वविदा प्रत्युक्तायां धूमाभासे व्याप्तिप्रयोजकस्याभासविवेकस्याभावान्न वह्निसाधकत्वमतो न व्यभिचार इति कल्पनम् । अव्यभिचारे च क्लृप्ते आभासविविक्तत्वं विशेषणमिति अन्योन्याश्रय इत्यर्थः । आभासेऽपीति । तथाच व्यर्थमाभासविविक्तत्वं विशेषणं यतो धूमाभासे व्यभिचारो दुरुद्धर एवेति भावः । प्रकृतेऽपीति । यथा हृदादावारोपिते धूमे न व्याप्तिः किन्त्वाभासविविक्ते पर्वतवृत्तिधूमे व्याप्तिः एवं दृश्यत्वेऽपि ब्रह्मण्यारोपिते न व्याप्तिः किन्त्वारोपितभिन्ने प्रपञ्चवृत्तिदृश्यत्वे व्याप्तिरिति व्याप्तिसिध्यर्थमेव च दृश्यत्वस्य सत्वं स्वीकरणीयमित्यर्थः । तथा साधकत्वार्थं साधकत्वोप-युक्तव्याप्त्याद्यर्थं वा दृश्यत्वादेः सत्वमावश्यकमिति भावः । हेत्वादेरिति । एवं च सिध्य-सिध्यादिविभागाय वास्तवहेतुसत्वासत्वयोरेव वक्तव्यत्वादित्यर्थः ।
ननु वन्ध्यासुतो न वक्ता अचेतनत्वात् पाषाणवदित्यादावसतोऽपि साध्यसाधनं प्रत्याश्रय-त्वोपालम्भान्मिथ्यात्वानुमानेन बाधितानामपि पक्षहेत्वादीनां साध्यव्याप्त्यादीन् प्रति आश्रयत्वं भविष्यतीत्याशंक्य निराकरोति । आश्रयादेरसत्वेति । आदिपदेन पक्षसाध्यसंसर्गादेर्यथोचितस्य ग्रहणम् । तुच्छ इति । असद्वैलक्षण्यघटितस्य प्रातिभासिकस्य तुच्छेऽभावादित्यर्थः । गौरवा-दिति । सत्त्वद्वैविध्यादिकल्पनामनादृत्य सत्वमात्रस्यैव साधकत्वप्रयोजके लाघवादिति भावः । नन्वस्तु सत्वमेव तत्र प्रयोजकं तत्राह । व्यावहारिकेति । चिरकालानुवृत्तभ्रान्तिविषयत्वस्यैव व्यावहारिकत्वरूपतयाऽरोपितानारोपितानुगतसामान्यासम्भवात् । सत्वानेकत्वमते सत्वस्य व्यक्तिस्थानीयत्वेनानुगमाच्चेत्यर्थः । अतिगौरवादिति । निरुक्तसत्वापेक्षयेत्यर्थः ।
अन्यथेति । लघोरुपायस्य सम्भवेऽपि गुरोरङ्गीकारे पुरावर्तिन्युपस्थितेष्टतावच्छेदकधर्म-संसर्गग्रहः इष्टाभेदग्रहोवा न प्रवृत्तौ हेतुः किन्तूपस्थितेष्टतावच्छेदकधर्मासंसर्गाग्रहः पुरोवर्त्य-गृहीतासंसर्गकभेदं प्रति प्रतियोगित्वेनानुपस्थितोपस्थितेष्टभेदाग्रहो वा हेतुर्भवेदित्यर्थः । किञ्चेति । असतो ज्ञानजनकत्वरूपो योऽर्थः स विप्रतिपन्नत्वात्सदेव साधकमिति ब्रुवाणं मां प्रति न सिद्ध इति त्वया साधनीय इत्यर्थः । नन्वसतो ज्ञानजनकत्वमसतैव साधनीयम् । न च प्रतिवादिनं प्रति असिद्धिः । असतो ज्ञानजनकत्वसाधनस्याप्यसदन्तरेण प्रतिवादिनं प्रति सुसाधत्वादित्यत आह– अनवस्थानादिति । ननु सतः साधकत्वमपि विप्रतिपन्नत्वात्साधनीयम् । तत्साधनं च न सता । मां प्रत्यसिद्धेः । नाप्यसता । तत्वसिद्धेरित्याशङ्क्य निराचष्टे । नचेति । तथा च सतः साधकत्वमुभयसंमतमित्यर्थः । उक्तेऽर्थेऽनुव्याख्यानसम्मतिमाह– उक्तं हीति । साक्षिणा अज्ञानादिसिद्धिमिच्छता । तेन मायावादिना । सतः साधकत्वं स्वीकृतमेव । तत्तु परं न सम्भवति । अविशेषस्य सर्वशक्तिरहितस्य साध्यसाधकत्वायोगाच्छून्यत्ववदित्यर्थः । अत एव साक्ष्यप्यज्ञानोपहित एवाज्ञानादिसाधकः स च व्यवहारिक एव । अनुपहितेन परमार्थसत्ताकारेण तस्यासाधकत्वादिति निरस्तम् । आत्माश्रयादिदोषाणामुक्तत्वात् । तेषां च दुरुद्धरत्वात् । औत्सर्गिकेति । साधकानां प्रत्यक्षादीनां प्रमाणानां स्वरूपग्राहिज्ञानस्योत्सर्गतः प्रमाणत्वा-त्प्रामाण्यस्य च विषयाबाधगर्भितत्वेन स्वार्थसत्वपर्यन्तत्वात् प्रमाणसिद्धानामर्थानां साधकत्वस्य सत्साधकत्वे पर्यवसानादित्यर्थः । स्वच्छायेति । स्वकीया च्छाया यथा स्वेन उल्लङ्घयितुं न शक्यते तथा धूमस्य साधकत्वं न तु बाष्पाद्यारोपितस्येत्येवं लोके सिद्धं प्रमितं यत्सतः साधकत्वं असतश्चासाधकत्वं तदपि उल्लघयितुं न शक्यत इत्यर्थः । नन्वसतः साधकत्वं नास्तीति लोके प्रसिद्धिः सतीं सिद्धिमाश्रित्य । मया तु असतोऽसती सिद्धिरुच्यत इति न मम लोके मर्यादोल्लङ्घनमिति वैय्यात्येन कृतामाशङ्कां निराकरोति । नचेति । अन्योन्याश्रयादिति । असतः साधकत्वे सिद्धे लोके प्रसिद्धेर्विषयान्तरपरत्वं लोकप्रसिद्धेर्विषयान्तरपरत्वे च सिद्धे तद्विरोधा-भावादसतोऽपि साधकत्वं सिध्यतीति । असतोऽर्थक्रियाकारित्वे सिद्धे कारणं स्वानुरूपं कार्यं साधयतीति सिद्धेरसत्वसिद्धिः । सिद्धेरसत्वे सिद्धे कार्यं स्वानुगुणं कारणं कल्पयतीति साधकस्यासत्वसिद्धिरिति वाऽन्योन्याश्रय इत्यर्थः । अन्यथेति । लोकमर्यादातिक्रम इत्यर्थः । प्रतीतिरिति । असच्चेन्न प्रतीयेतेति प्रतीत्यन्यथानुपपत्या रजतस्य वियदादेश्चासद्वैलक्षण्यं साध्येत तन्न स्यात् । रजतादिप्रतीतेर्लोकमर्यादासिद्धाया अप्यत्यन्तासत्वस्य दुर्वचत्वात् तथा चानिर्वचनीयवादभङ्गः स्यादित्यर्थः । सल्लक्षणेति । सतो यल्लक्षणं पक्षवृत्तित्वम् । व्याप्तिमत्व-मित्यादि तच्च धूमेऽस्ति नतु तदाभास इत्यर्थः । हेत्विति । हेतोरसत्वे असिध्यापातेनासल्लक्षण-योगित्वमेव स्यात् । एवं व्याप्त्यादेरसत्वेऽपि । असति हेत्वादौ विद्यमानस्य सल्लक्षणत्वा-योगादित्यर्थः । तद्वदेवेति । स्वप्नदृष्टधूमादिना वास्तववह्निसिद्धिविरहवत् तात्विकाद्वैतसिद्धिर्न स्यादित्यर्थः । अपरमार्थेति । सवितृसुषिरादिष्वपि तज्ज्ञानस्य सत एव साधकत्वमित्यनुपदमेव वक्ष्यमाणत्वादित्यर्थः । लोकस्यापीति । सदसतोः साधकत्वासाधकत्वरूपलोकव्यवहारातिक्रमे विचारस्य शास्त्रीयस्य दैववशसम्पन्नवनस्थवेणुनिसृतनिःस्वनतुल्यत्वं स्यादित्यर्थः।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां तु असद्धेतुत्वबाधनम् ।।
न्यायामृतसौगन्ध्यम्
किञ्च मिथ्यात्वसाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वाबोधने सर्वमिथ्यात्वासिद्धिः । तद्बोधने परस्परव्याहतिराश्रयासिद्ध्यादिकं च । यत्तु न व्याहतिस्तथा हि– अनुमित्या प्रतिज्ञादिजन्यबोधेन वा पक्षतावच्छेदकविशिष्टे मिथ्यात्वं बोध्यतेति । न च तावता आश्रयासिद्धिः । पक्षविशेषणतावच्छेदकरूपेण पक्षनिष्ठाभावप्रतियोगित्वनिश्चयस्य जातत्वा-देव न स्वरूपासिध्यादिकमपि । हेतुतावच्छेदकादिविशिष्टे पक्षादिनिष्ठाभावप्रतियोगित्व-निश्चयाभावात् । विशेषानुमाने उक्तरूपविशिष्टे स्वाश्रयनिष्ठाभावप्रतियोगितात्वविशिष्ट-प्रकारानिश्चयेऽपि नाश्रयासिद्ध्यादिशङ्कापि ।
किञ्चाश्रयासिद्ध्यादिलक्षणे प्रतियोगिव्यधिकरणाभावस्यावश्यं निवेश्यत्वात् मिथ्यात्व-घटकाभावस्य चा तथात्वान्न दोष इति । तन्न । पक्षविशेषणादीनामपि पक्षताक्रान्तत्वात् । तथा च येन रूपेण यद्यत्र प्रतिपन्नं तेन रूपेण तस्य तन्निष्ठाभावप्रतियोगित्वरूपमिथ्यात्वं विषयीकुर्वता अनुमितिप्रतिज्ञाजन्यबोधेन व्याहतेः ।
किञ्चेत्याद्यशुद्धं, प्रतियोगिवैय्यधिकरण्यापेक्षया निरवच्छिन्नवृत्तिकत्वस्यैवोचितत्वात् । उभयवादिसिद्धाभावे हि प्रतियोगिवैय्यधिकरण्यादिकं निवेश्यम् । मिथ्यात्वघटकाभावस्या-तथात्वात् ।
किञ्च साधकत्वान्यथानुपपत्या परमार्थसत्वमायाति । परमार्थसत एव साधकत्वात् साधकतायाः प्राक् सत्वघटितत्वात् । न तु धीमात्रविषयत्वं, अपरोक्षधीमात्रविषयत्वं, सत्वेन तादृशधीविषयत्वं वा साधकताप्रयोजकम् । तुच्छे नित्यातीन्द्रिये चातिव्याप्त्यव्याप्तिभ्याम् । तत्त्वेन ज्ञानमपि न तत्र प्रयोजकम् । वह्नित्वेनाज्ञातेऽपि वह्नौ दाहकत्वदर्शनात् । वह्नित्वेन ज्ञातेऽपि गुञ्जापुञ्जे तददर्शनाच्च । नापि त्रिचतुरकक्ष्यास्वबाधितासत्वधी (प्रतीति) स्तन्त्रम् । आत्मनो गौरत्वेनानित्यत्वस्य नभसो नैल्येन स्पर्शवत्वस्य चापत्तेः । गौरोऽहं, नीलं नभः’
इत्यादिप्रतीतावपि त्रिचतुरकक्ष्यास्वबाधात्, यौ(क्ति)गिकबाधस्य त्वन्मते प्रकृतेऽपि भावात् । निपुणेन बौद्धेन उक्तधीविषयव्याप्त्यादिमत्वेन व्युत्पादितैः शून्याद्वैतसिध्यापाताच्च । एतेन यादृश्या सत्वसिद्धिस्तादृशी धीर्मम तन्त्रमिति निरस्तम् । यादृश्या शब्दे क्लृप्तदोषरहितया बुद्ध्या तव ब्रह्मणि सत्वसिद्धिः तादृश्या प्रत्यक्षे क्लप्तदोषरहितया मम जगति सत्वसिद्धिः ।
न च त्रिकालाबाध्यत्वरूपसत्वं प्रत्यक्षायोग्यं विश्वं सत्यमित्यादिश्रुत्यैव तत्सिद्धेः । न च बुद्धिविषयत्वस्य तन्त्रत्वे वह्नित्वेनाज्ञातस्य वह्नेर्न दाहकत्वप्रसङ्गः । (ईश्वरादेरेव तादृशबुद्धेः सत्वात्) । अमृतत्वेन ज्ञातस्य विषस्य न सञ्जीवकत्वप्रसङ्गः । नभोनैल्यतुल्यत्वादिति वाच्यम् । विश्वस्यापि स्वरूपेण त्रैकालिकनिषेधरूपमिथ्यात्वस्यापि ईश्वरधीविषयत्वेनासाधकत्वापत्तेः ।
न च ज्ञाताज्ञातसाधारणं व्यावहारिकं सत्वमेव साधकत्वे तन्त्रम् । तच्च ब्रह्मज्ञानेतरा-बाध्यत्वमेव । तच्च अत्यन्ताबाध्ये ब्रह्मज्ञानबाध्ये चास्ति इति वाच्यम् । लाघवेनाबाध्यत्व-स्यैव साधकतायां तन्त्रत्वात् । स्वरूपेणैव कालत्रयनिषेधप्रतियोगिनः व्यावहारिकसंज्ञा-करणस्य साधकतायामतन्त्रत्वात् ।
किञ्च हेत्वादीनां व्यावहारिकत्वे साध्यस्यापि तथात्वं स्यात् । अनुमिति विषयसाध्यस्य परामर्शनिष्ठाबाधितार्थकत्वसमसत्ताकत्वात् । न च साध्ये व्यावहारिकत्वमिष्टमेव । विश्वस्य सत्यत्त्वापत्तेः, तद्बोधकश्रुतेरप्रामाण्यापत्तेश्च । न च मिथ्यात्वस्य मिथ्यात्वेऽपि तद्बोधक-श्रुतेर्नाप्रामाण्यं, सत्वेन सतः इव मिथ्याभूतस्यापि मिथ्यात्वेनैव बोधनादिति वाच्यम् । स्वविधेयस्य मिथ्यात्वबोधने व्याघातापत्तेः । स्वविधेयमिथ्यात्वबोधकपदाभावेन तद्बोधन-सामर्थ्याभावाच्च ।
किञ्च व्यावहारि(कत्वं)कं न साधकत्वे तन्त्रं क्लृप्तम् । क्लृप्तं तु पारमार्थिकं(त्वं) अज्ञानादिसाधके साक्षिणि तथा दर्शनात् । ननु साक्ष्यप्यज्ञानोपहित एवाज्ञानादिसाधकः । स च व्यावहारिक एव । अनुपहितेन परमार्थसत्ताकारेण तस्यासाधकत्वात् । व्यावहारिक-सत्त्वमेव सर्वत्र साधकत्वे तन्त्रमिति चेन्न । अज्ञानाद्यधिष्ठानं ह्यज्ञानादिसाधकम् । तच्च परमार्थसदेव । वृत्यादिप्रतिबिम्बितस्य तदवच्छिन्नस्य चैतन्यस्य वृत्याद्यधीनत्वेनान्योन्या-श्रयात् । न च यत्र यत्साधकं व्यावहारिकं तत्र फलमपि व्यावहारिकं, यत्र तु साधकं प्रातीतिकं तत्र फलमपि तथैव, न तु व्यावहारिकमिति सर्वविधिप्रतिषेधादिव्यवहारासङ्कर इति वाच्यम् । प्रातिभासिकानां स्वापि्नकानां सवितृसुषिरादेश्च दर्शनात् । शुभाशुभं व्यावहारिकं फलं वदतः तव हि इयमुक्तिर्व्याहता । उक्तं च बौद्धधिक्कारे– ‘लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिकवाङ्मात्रत्वापत्तिः’ इति । न च व्यावहारिकसत्वेन लोकमर्यादानतिक्रमः ।
व्यावहारिकमिति कालत्रये स्वरूपेणैव निषिद्धस्य नामान्तरत्वात् । उक्तं च वार्तिके बौद्धं प्रति–
‘साधनं चेदवश्यं हि परमार्थास्तिता भवेत् ।
सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ।।’ इति ।
न्यायामृतमाधुरी
सत्वानुमापकावधिकं जगन्मिथ्यात्वानुमापकानां व्याहृत्यादिना दौर्बल्यं सिषाधयिषु-राह ।। किं चेति ।। एतैः दृश्यत्वादिभिः । सर्वमिथ्यात्वासिद्धिः उद्देश्यायाः प्रकृतपक्षता-वच्छेदेकावच्छेनानुमितेरभावः । व्याहतिरित्यादि ।। मिथ्यात्वसाधकानां प्रतिज्ञाहेतूदाहरणा-नामनुमितेश्च मिथो व्याघात इत्यर्थः । प्रतिज्ञया मिथ्यात्वस्य हेतुवाक्याद्दृश्यत्वादेरुदाहर-णाच्च । व्याप्तेरबाध्यत्वलाभः प्रतिज्ञाद्यधीनया मिथ्यात्वानुमित्याच मिथ्यात्वहेतुव्याप्तीनां मिथ्यात्वरूपबाध्यत्वलाभ इति व्याघातादेव पक्षादौ तद्विशेषणीभूतसाध्यसाधनव्याप्तीनां पक्षतावच्छेदकाभिमतधर्माणां च भावस्य मिथ्यात्वानुमित्या विषयीकरणाद्बाधस्वरूपाश्रया-सिध्यादिकस्य प्रसङ्गेन मिथ्यात्वानुमापकं दुर्बलमिति भावः ।
अत्राद्वैतसिद्धिकृदाह– मिथ्यात्वबाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वबोधनेऽपि व्याहत्यभावात् । प्रतिज्ञादिभिस्तेषां त्रिकालाबाध्यत्वरूपसत्वाप्रतिपादनादिति । अत्र ब्रह्मानन्दः प्रतिज्ञादिना मिथ्यात्वादेरबाध्यत्वं लभ्यत इति यदुक्तं तत् प्रतिज्ञादेस्तद्बोध-कत्वाद्वा तद्बोधकत्वान्यथानुपपत्तेर्वा । नान्त्यः व्यवहारकालाबाध्यबोधकत्वेनैव तदुपपत्ते-रित्याह मिथ्यात्वेति । नाद्य इत्याह प्रतिज्ञेति । अप्रतिपादनादिति । तद्वाचकपदाभावादिति शेषः । नन्वेवमप्याश्रयासिध्यादिकं स्थिरमेव । न च मिथ्यात्वानुमितेः पूर्वमाश्रयासिध्याद्य-निश्चयात्तस्या उत्पत्तौ बाधकाभाव इति वाच्यम् । कार्येत्पत्तिकाले बाधबुध्यभावस्यापेक्षि-तत्वेन मिथ्यात्वानुमितेः दृश्यमात्रे तदाश्रयनिष्ठात्यन्ता-भावप्रतियोगित्वरूपमिथ्यात्वप्रकारि-कायां उत्पत्यसम्भवात्प्रतिज्ञादिजन्यबोधेन तस्याः पूर्वमप्याश्रयासिध्यादिबोधनादिति चेन्न । व्याहत्यभावादित्यनेनैवाश्रयासिध्यादिकृतव्याहत्यभावस्याप्युक्तत्वात् । तथाहि । अनुमित्या प्रतिज्ञादिजन्यबोधेन वा पक्षतावच्छेदकविशिष्टे मिथ्यात्वं बोध्यते । न च तावताऽऽश्रया-सिध्यादिधीः । पक्षविशेषणतावच्छेदकविशिष्टे पक्षादिनिष्ठात्यन्ताभावप्रतियोगित्वज्ञान-स्यैवाश्रयासिध्यादिनिश्चयत्वात् । यथाऽऽकाशीयकुसुमं नीलगन्धवत् शुक्लरसवत्वादित्यादौ कुसुमादिनिष्ठात्यन्ताभावप्रतियोगित्वस्याकाशीयत्वादौ ज्ञानस्य, पृथिवी मिथ्येत्यादि-विशेषानुमानेषु नाश्रयासिध्यादिशङ्कापि । किं च प्रतियोगिव्यधिकरणाभावस्याश्रयासिध्यादि- घटकत्वान्मिथ्यात्वे च तस्य अघटकत्वान्न कोपि दोषः इति तदाशयमुदबीभवत् ।
उभावपि स्थूलदृश्वानौ । कालसम्बन्धित्वस्यैव सत्यरूपतया घटो द्रव्यं रूपं गुण इत्यादि प्रतिज्ञावाक्यघटकनिखिलपदानां पदार्थेषु पदार्थतावच्छेदकवैशिष्ट्यबोधकानामेव तत्तदवच्छेदकसत्वप्रमापकतावत्प्रकृतप्रतिज्ञादिघटकपदैरेव तत्तदर्थतावच्छेदकीभूतसाध्यादीनां तत्तदर्थेषु तत्कालसम्बन्धित्वरूपसत्वप्रमापकतायास्तत्रान्तरनिरूढतया त्वद्वैय्यात्यमात्रेण दुरुपह्नवत्वात् । ब्रह्मज्ञानेतराबाध्यासद्विलक्षणब्रह्मान्यत्वरूपपक्षतावच्छेदकावच्छेदेन स्वस्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वरूपाश्रयासिध्यादिनिश्चयरूपतायाश्च निष्प्रत्यूहत्वात् । तादृशानुमितौ पक्षतावच्छेदकाश्रयसामान्यान्तर्गतस्य तादृशान्यत्वस्य जात्यखण्डोपाध्यति-रिक्तस्य स्वरूपतो भानस्य प्रत्याख्यानेन पक्षविशेषणतावच्छेदकीभूततादृशभेदत्वोपरागेणैव भानेन तस्यास्ताद्रूप्यस्य दुरपह्नवत्वात् । अव्याप्यवृत्तिसंयोगादिविशिष्टे पक्षीकृत्य क्रियाश्रय-त्वेन द्रव्यत्वसाधने तादृशसंयोगादेराश्रयासिद्धिव्युदसनाय तद्घटकाभावे प्रतियोगिवैय्यधि-करण्यस्येव तादृशसंयोगादावंशतः सिद्धसाधनवारणाय मिथ्यात्वघटकाभावेऽपि तद्विशेषणस्य त्वन्मूलकारेणैव निवेशितत्वात् । पृथिवी मिथ्येत्यादिविशेषानुमानेष्वपि व्याप्यत्वासिद्धि-र्व्याहतिश्च दुर्वारैव । तथाहि । यद्यद्दृश्यं तन्मिथ्येत्युदाहरणघटकं यत्तत्पदघटितभागद्वयं तत्र द्विरुक्तं यत्पदेन घटत्वतदन्यत्वादिनोद्देश्योपस्थापनात्तत्पदेनापि तत्तद्रूपावच्छिन्नपरामर्शाद्घटो दृश्यो मिथ्या घटान्यो दृश्यो मिथ्येति वाक्यार्थचतुष्टयविषयकसमूहालम्बनरोधो जन्यते । तथा च घटान्यदृश्यमात्रस्य मिथ्यात्वावगाहने तदन्तर्गतोदीच्यमानसबोधविषयीभूतव्याप्तेरपि तथात्वापत्या व्याप्यत्वासिद्धेर्व्याप्तिपारमार्थ्यावगाहिमानसोदीच्यबोधस्योदाहरणवाक्याधीन-दर्शितान्वयबोधस्य च मिथो व्याहतेश्च दुर्निवारत्वात् ।
अथोक्तानुमानैस्तत्तद्धेतूनामपि मिथ्यानुमित्या पारमार्थिकसत्वानधिगमेऽपि विधान्तरेण तेषां प्रकृतसाध्यानुमापकता सङ्गच्छत इत्याशङ्कायामाह । परमार्थेति । एवकारेण विधान्तरस्य तदौपयिकता नेति ध्वन्यते । परमार्थसत्वस्यैव कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्याधिकरणे कारणताघटकसम्बन्धेन सत्वस्यैव । साधकत्वे कारणत्वे । तन्त्रत्वात् घटकत्वात् । तथा च तदनुरोधेन पारमार्थ्यताऽस्तीति तत्वेन विश्वमिथ्यात्वानुमानं विरुध्यत इति भावः । न तावदिति । आप्रकृतभङ्गसमाप्तेः प्रत्याख्यास्यमाना धीमात्रमित्यादिका व्यवस्थेति निरस्तमित्यन्ताष्टादशकल्पी तत्र धीमात्रमिति कल्पस्य तादृशसप्तदशकल्पावधिक प्राथम्यद्योतनार्थस्तावच्छब्दः । स्वार्थानुमानेति । परस्य तत्राभावेन तत्सिद्धसत्वाभावेन स्वार्थानुमानस्यानुमितिहेतुत्वायोगादिति भावः । परार्थानुमानेनैव समीहितसिद्धेः । स्वार्थानु-मानाभावेऽपि न क्षतिरित्यत आह परार्थेति ।। तत्पूर्वकत्वात् स्वार्थानुमानपूर्वकत्वात् । परसिद्धमात्रेण परमात्रसिद्धेन । तथाचान्यतरासिद्धेन हेतुना साध्यप्रमित्युत्पादाभ्युपगमस्य परीक्षकसंप्रदायविरुद्धत्वादिति भावः ।
ननु तादृशहेतुना साध्यगोचरप्रमात्मकानुमित्यनभ्युपगमेऽपि व्यधिकरणप्रकारिकैवानुमिति- रुपेयत इत्याशङ्क्य निराकुरुते । न चेति बौद्धेति ।। तथा चात्मन इव जगतोऽपि सत्यतैव प्रासाङ्क्षीदिति भावः । योऽपीति ।। परस्य शब्दनित्यतामुपगच्छतः प्रतिवादिनो मते असिद्धः कृतकत्वादिः । स्वयं स्वेन तदनित्यतां सिषाधयिषुणा वादिना सिद्धस्तत्वेनाधिगतोऽतश्च परेण स्वदिशा तदसिध्याशङ्कने वादिना भेरीदण्डसंयोगान्वयव्यतिरेकादिना कृतकृत्वसमर्थनात्त-त्प्रतीकारो भवति । स्थापनायां वादिदिशैव हेत्वसिद्धौ प्रतिवादिनं प्रति तत्समर्थनोपायाभाव इत्यर्थः । अन्योन्येति । पारमार्थिकप्रातिभासिकान्यत्वरूपव्यावहारिकत्वतदभावकोटिक-सन्देहदशायामसिद्धिरित्यर्थः । अत्राद्वैतसिद्धिवादः । व्यावहारिकसत्वमेव साधकत्वे तन्त्रम् । तच्च ब्रह्मज्ञानेतराबाध्यत्वमेव । तच्च मिथ्यात्वघटितम् । अत्यन्ताबाध्ये ब्रह्मज्ञानबाध्ये च तुल्यत्वात् । अत एव नेदं परमार्थसत्वव्याप्यम् । परमार्थसत्वस्य साधकतायामन्त्रत्वेन तद-भावेऽपि न साधकतानुपपत्तिः । तदनालोचितमिति व्याकर्तारः । ब्रह्मज्ञानेतरांशे निवेशस्य मन्दप्रयोजनतया तदघटिताबाध्यत्वस्यैव लाघवेन साधकतायां तन्त्रतौचित्यात् । ब्रह्मणो वृत्तिव्याप्यत्वाभावपक्षे जगतोऽपि ब्रह्मज्ञानेतरबाध्यत्वेन तदितराबाध्यत्वस्य त्वन्मते जगत्य-सिद्धेश्च । शुक्तिज्ञानस्यापि ब्रह्मज्ञानत्वेन तदितरबाध्यत्वस्य त्वन्मते शुक्तिरजते असत्वेन तस्यापि व्यावहारिकत्वापातात् । स्वरूपेण त्रिकालवृत्तिनिषेधप्रतियोगित्वोपगमे व्यावहारिक-संज्ञाकरणस्य साधकतायामनौपयिकत्वादिति । व्यावहार्यं साधनबाधनरूपव्यवहारौपयिकम् । न चेत् तादृशसत्वमनुपेत्य तद्व्यवहारमात्रोपगमे । व्यवहारमात्रस्याकिञ्चित्करत्वादिति भावः । तस्मादित्यादि । यद्गगनकुसुमादिकं नास्ति तन्नास्त्येव । यदम्बराद्यस्ति तत्परमार्थत एवास्ति । एषः मिथ्यासांवृतशब्दयोस्तुल्यार्थत्वेऽपि द्वैविध्यकल्पनारूपः । वञ्चनार्थं लालावक्त्रास-वादिवदिति । तेन तुल्यमिति तृतीयान्ताद्वतिः । यथा बालास्तेन प्रतार्यन्त इत्यर्थः । व्यावहारिकसत्वस्य साधकतौपयिकतोपगमे व्यतिरेकव्यभिचारमाह । अज्ञानादेरिति ।। सिद्धिपर्यन्तोपादानं तु विपर्यस्तरजतसाधकाभासावधिकवैलक्षण्यं ध्वनयितुम् । व्यभिचार-मुद्दिधीर्षति । न चेति ।। अविद्याकारेण परिणताविद्यावृत्तिप्रतिबिम्बित एव तत्साधकः । स च तादृश इति न क्षतिरिति भावः । चैत्ररागः चैत्रेच्छा । स्वविषयकं यदनित्यज्ञानं तदतिरिक्तेन चैत्रप्रत्यक्षेण । इश्वरज्ञानेन विषयीक्रियमाणतामादाय सिद्धसाधनवारणाय तत्पदोपादानम् । अज्ञानेति ।। वृत्तेरविद्याकारपरिणामविलम्बेन तत्प्रतीतिविलम्बादित्यर्थः । अविद्येति ।। अन्यत्रानवस्थितेरिति भावः । अन्योन्येति ।। साक्षिनिष्टा साधकता अज्ञानस्वरूपसिध्यधीना तत्सिद्धिश्च तादृशसाधकताकसाक्ष्यधीनेत्यन्योन्याश्रय इत्यर्थः । एतेन सद्रूपस्यैव साक्षिणः साधकत्वसमर्थनेन ।
अननुगमादिति ।। जनकतावच्छेदकाभिमतप्रातिस्विकधर्माणां कार्यसामानाधिकरणा-भावप्रतियोगितावच्छेदकत्वादित्यर्थः । तृणोत्यादि । वह्नित्वव्याप्यधर्माणां तृणत्वादिधर्मा-वच्छिन्ननानाजनकतानिरूपितनानान्यतावच्छेदकत्वस्येव प्रकृते दुरुपगमत्वादिति भावः । तथाऽपीत्यादि । तत्फलस्य तयोः फलस्य । पारमार्थिकस्येति षष्ट्यन्तचतुष्टयेऽन्वेति । अत्राद्वैतसिद्धिकृदाह । यत्र यत्साधकं व्यावहारिकं तत्र तद्व्यावहारिकम् । यत्र तु साधकं प्रातीतिकं तत्फलमपि तथैव । न तु व्यावहारिकमिति । तत्स्वोपगतिविरुद्धम् । औतिनये प्रातिभासिकस्यापि सवितृसुषिरादेः स्वाप्नार्थस्य च व्यावहारिकफलसाधकताया उपेतत्वात् । धूमाभासाद्यापादकिकां पारमार्थिकवह्न्याद्यापाद्यकापत्तिं परिजिहीर्षति । नन्विति । अन्योन्याश्रयादिति । आभासविवेकांशस्य व्याप्त्यौपयिकतासिद्धेरसत्साधकतासिद्धिनिबन्धन-त्वात् तत्सिद्धेश्च तादृशांशस्य तदौपयिकतासिद्धिनियन्त्रितत्वादिति हृदयम् । ननु गगन-कुसुमं न सुरभि अलीकत्वादित्यादावलीकस्यापि साध्यसाधनं प्रत्याश्रयत्वदर्शनेन विश्व-मिथ्यात्वानुमाने बाधितानामपि हेत्वादीन्प्रत्याश्रयत्वं सेत्स्यतीत्याशङ्कां पराकुरुते । आश्रये-त्यादि ।। उक्तार्थेन व्याख्यां प्रमाणयति । उक्तं हीति ।। औत्सर्गिकेति । निसर्गतो घटाद्यवगाहिज्ञानानामेवार्थसत्वपर्यन्तं प्रामाण्यशालितयाऽर्थसत्वांशे मानान्तरस्यानन्वेषणीय-त्वादित्यर्थः । स्वच्छायावत् । स्थानिवदादेश इत्यादाविव प्रथमान्ताद्वतिः । स्वशरीरच्छाये-वेत्यर्थः । अन्योन्याश्रयादिति ।। लौकिकप्रसिद्धेर्विषयान्तरतात्पर्यकतया नयनस्यासतः साधकत्वसिध्यधीनतया तस्याश्चैतन्निबन्धनतया परस्य नाश्रयादित्यर्थः । अन्यथा मर्यादा-नादरे । तद्वदेव स्वाप्नधूमादिना वास्तववह्न्यभाववदेव । अपरमार्थेनेति ।। सवित्रसुषिरादि-भानस्यैवारिष्टसूचकत्वं न सुषिरादेरित्यनुपदमेव ग्रन्थकृताऽभिधास्यमानत्वादित्यर्थः । लोकस्येत्यादि ।। अलीकानलीकयोः साधकत्वासाधकत्वगोचरलौकिकव्यवहारातिक्रमे । यादृच्छिकेति ।। कारणमन्तरेण कार्योत्पादस्य परीक्षकानुपगतत्वादिति भावः ।।
साधकत्वमलीकस्याभांक्षीत्फलबलादिति ।
सुधानुव्याकृतिदिशा ग्रन्थकारो न्यबीभवत् ।।
।। इति असतस्साधकत्वे बाधकविवरणम् ।।