यच्चोच्यते (आत्मनि देहेन्द्रियाद्यैक्यं तद्धर्माश्चाध्यस्यन्ते)..

६८. देहात्मैक्याध्यासभङ्गः

न्यायामृतम्

यच्चोच्यते (आत्मनि देहेन्द्रियाद्यैक्यं तद्धर्माश्चाध्यस्यन्ते) देहेन्द्रियादे-रात्मन्यैक्यं तद्धर्माश्चाध्यस्यन्ते । तत्र चाहं ब्राह्मणोऽहं काण इत्यादिप्रत्यक्षं, ब्राह्मणो यजेतेत्यादिश्रुतिर्देहाद्यैक्याध्यासाभावे सुषुप्तौ प्रमातृत्वाद्यदर्शनात् तदन्यथानुपपत्तिश्च मानमिति, तन्न, त्वन्मतेऽहमर्थस्यानात्मत्वेनाहं ब्राह्मण इत्यादेर्देहात्मैक्याविषयत्वात् । देहात्मैक्यस्य प्रत्यक्षत्वे तद्विरोध्यनुमानाद्य-प्रामाण्यस्योक्तत्वेन तद्भेदासिद्ध्यापत्तेश्च । परस्परं भिन्नत्वेन निश्चितानां देहेन्द्रियादीनां युगपदेकात्मैक्याध्यासायोगाच्च । त्वन्मते देहात्मनोर्भेदस्या-ध्यस्तत्वेन जीवब्रह्मणोरिव तत्राभेदाध्यासायोगाच्च । मिथ्यात्वं हि अधिष्ठान-ज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं, तद्बाध्यात्यन्ताभावप्रतियोगित्वस्य सत्त्वेऽपि सम्भवात् । अभेदश्च भेदात्यन्ताभाव इति कथं भेदमिथ्यात्वे अभेदः सत्यो न स्यात् ? न च देहस्य स्वरूपेणैवाध्यस्तत्वाद् देहादात्मनो न भेदो नाप्यभेद इति वाच्यम्, अध्यस्तादपि रूप्याच्छुक्तेः स्वज्ञानाबाध्यस्य बाधगोचरस्य भेदस्य दर्शनात् । किञ्च–

अहं गेहीतिवच्चाहं देहीत्येव प्रतीयते ।

न तु देहोऽहमस्मीति कदाचित् कस्यचिन्मतिः ।। १ ।।

ब्राह्मणोऽहं मनुष्योऽहमित्यादिस्तु प्रमैव नः ।

देहभेदयुतो यस्माद् ब्राह्मणादिपदोदितः ।। २ ।।

कृशोऽहं कृष्ण इत्यादौ कार्श्यादिर्देहसंस्थितः ।

पुत्रादिस्थितकार्श्यादिवदात्मन्युपचर्यते ।। ३ ।।

प्रतीयते हि मम गृहं मम क्षेत्रमितिवन्मम देहः मम मनः मम चक्षुरिति भेदः । आत्मनि अहं ब्राह्मणोऽहं मनुष्य इत्यादिस्तु प्रमा । देहविशेषविशिष्ट एवं हि ब्राह्मणादिशब्दार्थः, न तु देहविशेषः, देहो ब्राह्मण इति कदाप्यप्रतीतेः । अन्धोऽहमित्यादिधीः प्रमैव, चक्षुश्श्रोत्रादिहीनस्यैवान्धबधिरादित्वात् । कृशोऽहमित्यादावपि कृशत्वादिकं रज्जौ सर्पस्थभीषणत्वादिकमिव धर्म्यैक्येन सहाध्यस्यते ? किं वा स्फटिके जपाकुसुमलौहित्यमिव तेन विनैव ? नाद्यः, धर्म्यैक्याध्यासाभावस्योक्तत्वात् । नान्त्यः, तद्वदेव कार्श्यादिद्वयप्रतीत्यापत्तेः । कृशोऽहं कृष्णोऽहमित्यादिस्तु पुत्रे कृशेऽहं कृश इतिवत् कर्दमलिप्तेऽहं कृष्ण इतिवच्च गौणः । न चायमप्यध्यासः, पुत्रात्कर्दमात्स्वस्य स्पष्टं भेदप्रतीतेः । अन्यथा मञ्चाः क्रोशन्तीत्यादिरप्यध्यासः स्यात् । पुत्रकार्श्येन दुःखं तु तस्यात्यन्तप्रेमास्पदत्वात् । न च कृशोऽहमित्यैक्यप्रतीत्या शिलापुत्रिकाया देह इतिवत् मम देह इत्ययमेव गौण इति वाच्यम्, मम देह इत्यस्य देहात्म-विवेकिनि मुख्यतायाः कृशोऽहमित्यस्य च पुत्रकार्श्ये गौणतायाश्च क्लृप्तत्वात् । तत्र भेदधीः स्पष्टेति चेदिहापि तथा । पश्वादीनामपि देहात्मभेदसाक्षात्कार-स्याङ्गीकार्यत्वात् । तदुक्तम्–

जातमात्रा मृगा गावो हस्तिनः पक्षिणो झषाः ।

भयाभयस्वभोगादौ कारणानि विजानते ।।

अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेदिति ।

तथा हि जातमात्रस्य पश्वादेः स्तन्यपानादौ प्रवृत्त्यादिहेतोरिष्ट साधनत्वा-द्यनुमितेर्हेतुः यत् स्तन्यपानं तदिष्टसाधनम्, यथेदम्, यन्नेत्रस्यान्तःशङ्कुकण्डूयनं तदनिष्टसाधनम् यथेदमित्यादिव्याप्तिस्मृतिस्तावन्न देहान्तरास्मृतौ युक्ता । न च मम प्राग्देहान्तरमभूदिति स्मरतः स्वस्यैतद्देहैक्यधीः, किं त्वनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहेष्वनुस्यूतमात्मानं पश्यतस्ततो भेदधीरेव ।

किं च योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थविरः नप्तॄन् पश्यामीति, योऽहं स्वप्ने व्याघ्रदेहः सोऽहमिदानीं मनुष्यदेह इति च देहभेदधीपूर्वकं स्वस्यैक्यमनुसन्दधानः कथं ततो भेदं न जानीयात् ? न चेयं विरुद्ध-धर्मरूपलिङ्गजन्या भेदधीः परोक्षेति नैक्यापरोक्षभ्रमविरोधिनीति वाच्यम्, प्रत्यक्षे धर्मिणि भेदकसाक्षात्कारस्य भेदसाक्षात्कारव्याप्तत्वात् । इह च व्यावृत्तत्वेन धीस्थदेहादिभेदकस्यानुवृत्तत्वस्यात्मनि प्रत्यभिज्ञाप्रत्यक्षसिद्ध-त्वात् । व्यावर्तकसाक्षात्कारस्यैवैक्यापरोक्षभ्रमेण भेदव्यवहारस्यौपचारिकत्वेन च सह विरोधाच्च । न चायं भ्रमः सोपाधिकः येनाधिष्ठानतत्त्वसाक्षात्कारेऽपि स्यात् ।

या तु श्रुतिरुक्ता, तत्र किं लक्षणया देहविशेषैक्याध्यासवान् ब्राह्मणशब्दार्थ इति भावः ? किं वा देहविशेषसम्बद्ध एव तदर्थः, सम्बन्धस्त्वन्यस्यासम्भवा दैक्याध्यासरूप इति ? यद्वा देहविशेष एव तदर्थः, आत्मा तु देहैक्या-ध्यासात्प्रवर्तत इति ? नाद्यः । विधौ लक्षणायोगात्, त्वया पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेत्यध्यस्यतीति भाषितत्वेन न्यायसाम्येन भृत्यमित्रादावपि तस्य सत्वेन शूद्रस्वामिनो ब्राह्मणादेर्यागाद्य-नधिकारापाताच्च, ब्राह्मणादिकमित्रस्य शूद्रस्याप्यधिकारापत्तेश्च । न च स्वकर्मार्जितेन देहविशेषेणैक्याध्यासवांस्तदर्थः, आवश्यकत्वेन स्वकर्मणा देहविशेषार्जनस्यैव तदर्थत्वोपपत्तेश्च । सुप्तस्य जीवन्मुक्तस्य च देहैक्या-ध्यासाभावेन ‘ब्राह्मणो न हन्तव्यः’ इत्यादेस्तदविषयकत्वापाताच्च । नापि कदाचिदध्यासवांस्तदर्थः, महापातकेन नष्टब्राह्मण्यस्याप्यधिकारापाताच्च । जन्मारभ्य जीवन्मुक्तस्योक्तनिषेधाविषयत्वापाताच्च । अत एव न द्वितीयः । संयोगस्यात्मविभुत्वपक्षे सर्वदेहेषु स्वस्वामिभावस्य च भृत्यदेहे सत्त्वेऽपि, इच्छानुविधायित्वस्य चात्यातुरादिदेहेष्वसत्त्वेऽपि साक्षात्स्वस्वामिभावस्य वा, तदिन्द्रियाश्रयत्वस्य वा, साक्षात्तत्प्रयत्नजन्यक्रियाश्रयत्वस्य वा, तद्भोगा-यतनत्वस्य वा, तत्कर्मार्जितत्वस्य वा सम्बन्धान्तरस्य सम्भवात् । न च प्रयत्नादावप्यात्मैक्यभ्रम एव सम्बन्धः, अहं कृतिरित्यप्रतीतेः । आत्म-समवायस्यात्मायुतसिद्धेर्वा सम्बन्धान्तरस्य सत्त्वाच्च । न चानतिप्रसङ्गाय स्वस्वामिभावादिरैक्याध्यासरूपमूलसम्बन्धाधीनः, वैपरीत्यस्यापि सुवचत्वात्, तत्कर्मार्जितत्वस्यैव मूलसम्बन्धत्वाच्च । कर्मणां तदीयत्वं चानादिपूर्व-पूर्वतदीयकर्माधीनं वा, तदाश्रितप्रयत्नजन्यत्वाधीनं वा । न तु तदीयशरीर-जन्यत्वाधीनमिति नान्योन्याश्रयः । पुत्रकामेष्टिकर्मापि न पुत्रशरीरार्जकम् । किं तु ग्रामकामेष्टिवत् पुत्रकर्मार्जितस्य तस्य स्वसम्बन्धमात्रार्जकम् । न तृतीयः । तस्य जडत्वादिना अनियोज्यत्वाद्, देहविशेषयुक्त एव ब्राह्मण-शब्दप्रयोगेण देहस्यातदर्थत्वाच्च । अनेन ‘सर्वाण्यपि विधिनिषेधशास्त्राण्य-ध्यासमूलानि’ इति निरस्तम् ।

नापि प्रमातृत्वाद्यन्यथानुपपत्त्याध्याससिद्धिः, तदभावेऽपि सुषुप्ता-वज्ञानादिज्ञातृत्वस्य दर्शनाद्, जागरणादावपि घटादिप्रमातृत्वदशायां तत्कर्मा-र्जितत्ववत् तदैक्याध्यासस्य तदाऽभावाच्च । एतेन प्रमातृत्वादिकमध्यास-मूलमिति परभाष्यं निरस्तम् । चार्वाकादेस्त्वनुमानाभा सादिजन्येऽपि देहात्मभ्रमे धर्माद्यभावभ्रम इव प्रत्यक्षत्वाभिमानः । संसारहेतुः देहानुकूलादौ रागादिरपि पुत्रानुकूलादाविव देहस्य प्रेमास्पदत्वात् । अङ्गुल्या देहं प्रदर्श्यायमहमित्युक्तिरपि अङ्गारं प्रदर्श्यायं वह्निरितिवत् पृथग्दर्शयितुमशक्य-त्वात् । श्रुतिषु देहात्मैक्यनिषेधोऽप्यसत्कारणत्वनिषेधवत् कुवादिप्राप्तत्वाद्, व्यवहारपर्यन्तं स्फुटतरभेदज्ञानाभावाच्च । दृश्यन्ते हि यमलयोर्व्यावर्तकं पश्यन्तोऽपि व्यवहर्तुमशक्ताः । उक्तम् च–

व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ।

भेदज्ञानेऽपि चाङ्गारवह्निवत् स्वाविविक्तवत् ।। १ ।।

भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ।

अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः ।। २ ।। इति

तस्माद् देहादेरात्मैक्येन स्वरूपेण चानध्यस्तत्वाज्जगत्सत्यमेव, न त्वनिर्वाच्यमिति ।

अद्वैतसिद्धि:

ननु ‘अहमर्थस्यानात्मत्वे ब्राह्मणोऽहं काण’ इत्यादिप्रत्यक्षं देहेन्द्रियादौ आत्मैक्याध्यासे प्रमाणं न स्याद्, ऐक्यबुद्धावात्मनोऽविषयत्वादिति चेन्न, अहमित्यस्य द्व्यंशत्वेन चिदंशे कर्तृत्वादिविशिष्टान्तःकरणैक्याध्यासवद् ब्राह्मणत्वकाणत्वादिविशिष्टदेहेन्द्रियाद्यैक्याध्यासेना-त्मैक्यविषयत्वसम्भवात् । तथा चात्मनि देहेन्द्रियाद्यैक्याध्यासो युज्यत एव । न च एवं देहात्मैक्यस्य प्रत्यक्षत्वे तद्विरोध्यनुमानागमयोरप्रामाण्यप्रसङ्गः, वह्निशैत्यानुमानवत्, श्रूय-माणार्थे ‘यजमानः प्रस्तर’ इत्यागमवच्च । तथा च न देहात्मनोर्भेदसिद्धिः स्यादिति वाच्यम्, चन्द्रपरिमाणप्रत्यक्षविरोध्यनुमानागमादिदृष्टान्तेन प्रत्यक्षविरोधिनः परीक्षितागमानुमानादेः प्रामाण्यस्य व्यवस्थापितत्वेन तथापि तयोर्भेदसिद्धिसम्भवात् । न च परस्परभिन्नत्वेन निश्चितानां देहेन्द्रियादीनां युगपदेकात्मैक्याध्यासायोगः, न हि भिन्नत्वेन निश्चितयो रजतरङ्गयोरेकदैकशुक्तिकायामैक्याध्यास इति वाच्यम्, ‘देहादिन्द्रियमन्यद्, इन्द्रियाद् देहोऽन्य’ इति भेदबुद्ध्या ‘देहोऽहमिन्द्रियमित्यैक्याध्यासासम्भवेऽपि ब्राह्मणादन्य काणः काणादन्यः ब्राह्मण इति भेदबुद्ध्यभावेन ब्राह्मणोऽहं काण इत्येकदा ऐक्याध्याससम्भवात्, समानप्रकारक-भेदधिय एव विरोधित्वात् ।

ननु भेदमात्रस्याप्यध्यस्तत्ववादिनस्तव देहात्मनोर्भेदस्याप्यध्यस्तत्वेन जीवब्रह्मणोरिव तदभेदस्तात्त्विकः स्यात् । मिथ्यात्वं हि अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वम् । तद्बाध्यात्यन्ताभावप्रतियोगत्वस्य सत्त्वेऽपि असम्भवात् । अभेदश्च भेदात्यन्ताभाव इति कथं भेदमिथ्यात्वे अभेदः सत्यो न स्यात् ? न च देहस्याप्यध्यस्तत्वेन तेन सहात्मनो न भेदो नाप्यभेद इति वाच्यम्, अध्यस्तादपि रूप्याच्छुक्तेः स्वज्ञानाबाध्यभेददर्शनादिति चेन्न, भेदस्य मिथ्यात्वेऽपि अभेदो न तात्त्विकः, भावाभावयोरुभयोरपि मिथ्यात्वस्य प्रागेवो-पपादितत्वात् । इयांस्तु विशेषः यदत्राभेदो व्यवहारकालीनेन परीक्षितप्रमाणभावेनानुमानादिना बाध्यते, भेदस्तु देहात्मनोर्न तेन, किन्तु चरमवृत्त्येति । न च एवं गेहीतिवद् ‘देही’ इति प्रतीतिः’ न स्यात्, किन्तु देहोऽहमिति वाच्यम्, देहत्वेन भेदग्रहाद् ब्राह्मणत्वादिना भेदाग्रहाच्च ब्राह्मणोऽहं देह्यहमित्युभयप्रतीत्युपपत्तेः । देवदत्ताद् यज्ञदत्तोऽन्य इति भेदबुद्धावपि तत्त्वेनोपस्थिताद् देवदत्ताद्यज्ञदत्ते ‘सोऽयम्’ इत्यभेदभ्रमदर्शनात् ।

ननु ब्राह्मणोऽहं मनुष्योऽहमिति कथमध्यासरूपम्?मनुष्यत्वब्राह्मणत्वादेः शरीर-विशिष्टात्मवृत्तित्वेन प्रमात्वस्यैव सम्भवात् । तदुक्तम्–

ब्राह्मणोऽहं मनुष्योऽहमित्यादिस्तु प्रमैव नः ।

देहभेदयुतो यस्माद् ब्राह्मणादिपदोदितः ।।

इति चेन्न, मनुष्यत्वादेर्देहविशिष्टात्मवृत्तित्वे चक्षुरादिगम्यत्वं न स्याद्, देहविशिष्टात्मन-श्चक्षुरगम्यत्वात् । न च एकदेशस्य चक्षुर्गम्यत्वाद् विशिष्टगतजातिः चक्षुषा गृह्यत इति वाच्यम्, व्यासज्यवृत्तेरुभययोग्यतायामेव योग्यत्वनियमात् । अन्यथा ऐन्द्रियकानैन्द्रियक-वृत्तिसंयोगद्वित्वादेः प्रत्यक्षता स्यात् । व्यासज्यवृत्तित्वस्य जातावदृष्टचरत्वात् पृथिवी-त्वादिना सङ्करापत्तेः, तव मते आत्मनोऽणुत्वेन तद्वृत्तित्वेऽतीन्द्रियत्वप्रसङ्गात् । न चैवं ‘देहो ब्राह्मणो मनुष्यः’ इत्यादिप्रतीत्यापत्तिः, अहन्त्वसामानाधिकरण्यभ्रमजनकदोषस्यैव तादृक्प्रतीतिप्रतिबन्धकत्वात् । उक्तबाधकैर्देहवृत्तित्वे अनन्यगतिकत्वेन तथा कल्पनात्, ‘कृशोऽहं स्थूलोऽहम्’ इत्यादौ कार्श्यादिविशिष्टैक्याध्यासस्यावश्यकत्वाच्च । न च अयमौपचारिकप्रयोगः पुत्रे कृशे अहं कृश इतिवत्, तदुक्तं–

कृशोऽहं कृष्ण इत्यादौ कार्श्यादिर्देहसंस्थितः ।

पुत्रादिस्थितकार्श्यादिवदात्मन्युपचर्यते ।।

इति वाच्यम्, एवं सति देहादिभिन्नात्मास्तित्वप्रतिपादिकाया ‘अस्तीत्येवोपलब्धव्यः’ इति श्रुतेरनुवादकतापत्तेः, मम देह इत्यनौपचारिकः, अहं गौर इत्याद्यौपचारिक इत्यत्र विनिगमकाभावाच्च ।

ननु इदं विनिगमकम्, जातमात्रस्य पश्वादेः प्रवृत्त्यादिहेतोरिष्टसाधन ताद्यनुमितेर्हेतुर्य-त्स्तन्यपानम्, तदिष्टसाधनम्, यथा पूर्वदेहीयं स्तन्यपानमित्यादि व्याप्तिस्मृतिस्तावन्न देहान्तरास्मृतौ युक्ता । न च ‘मम प्राक् देहान्तरमभूत्’ इति स्मरतस्तस्यैक्यधीः सम्भवति । किन्त्वनेकमण्यनुस्यूतसूत्रमिवानेकदेहेष्वनुस्यूतमात्मानं पश्यतः स्वतो भेदधीरत्रेति चेन्न । पूर्वदेहस्मृतिं विनापि अनुमितिहेतुव्याप्तिस्मृतेः सम्भवात् । न हि व्याप्त्यनुभव इति व्याप्ति-स्मरणसमयेऽपि दृष्टान्तज्ञानापेक्षा, येन तदर्थं तद्देहस्मृतिरपेक्ष्येत ।

न च तथापि ‘योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रणप्तॄननुभवामि, योऽहं स्वप्ने व्याघ्रदेहः, सोऽहमिदानीं मनुष्यदेह इति देहभेदधीपूर्वकं स्वस्यैक्यमनुसन्दधानः कथं ततो भेदं न जानीयादिति वाच्यम् । विरुद्धधर्मरूपलिङ्गधीजन्यभेदधीसम्भवेऽपि अपरोक्षाभेदभ्रमे अविरोधात् । न च प्रत्यक्षे धर्मिणि भेदकसाक्षात्कारो भेदसाक्षात्कारव्याप्तः, इह च व्यावृत्त-त्वेन बुद्धिस्थदेहादितो भेदकस्यानुवृत्तत्वस्यात्मनि प्रत्यभिज्ञाप्रत्यक्षसिद्धत्वाद् व्यावर्तक-साक्षात्कारस्यैवैक्यापरोक्षभ्रमविरोधित्वात् निरुपाधिकत्वेन विशेषदर्शनाप्रतिबध्यत्वस्य वक्तु-मशक्यत्वात् कथमैक्यभ्रम इति वाच्यम्, भेदकसाक्षात्कारस्य भेदसाक्षात्कारेण व्याप्तेरैक्यारोपेण सह विरोधस्य चासिद्धेः । नीला बलाकेत्यत्र नीलाद् भेदकस्य बलाकात्वस्य ग्रहेऽपि नीलभेद-साक्षात्काराभावस्य तदभेदसाक्षात्कारस्य च दर्शनात् । न च तत्र दोषप्राबल्यात् तथा, प्रकृतेऽपि दोषप्राबल्यान्नेति केन तुभ्यमभ्यधायि ?

एवं ‘ब्राह्मणो यजेत’ इत्यादिश्रुतिरपि ब्राह्मणत्वाश्रयशरीरस्य जडत्वेनानियोज्यतया तदैक्याध्यासापन्नमात्मानं नियुञ्जाना तत्र प्रमाणम् । न च ब्राह्मणत्वाश्रयदेहेन सम्बन्धान्तर-मादायैव नियोज्यत्वोपपत्तिः, तस्यानतिप्रसक्तस्य वक्तुमशक्यत्वात् । तथा हि न ताव-त्संयोगः, आत्मनो विभुत्वेन सर्वदेहसाधारण्यात् । नापि स्वस्वामिभावः सम्बन्धः, पश्वादिव्यावृत्तस्य देहादिगतस्वस्वामिभावे साक्षात्त्वस्य वक्तुमशक्यत्वात् । नापीच्छानु-विधायित्वम्, आमवातजडीकृते तदभावात् । नापि तदिन्द्रियाश्रयत्वम्, तद्धि तत्सम्बद्धे-न्द्रियाश्रयत्वं वा ? तज्ज्ञानजनकेन्द्रियाश्रयत्वं वा ? नाद्यः, अतिप्रसङ्गात् । न द्वितीयः, ज्ञानपदेन स्वरूपचैतन्योक्तावसम्भवः, अन्तःकरणवृत्त्युक्तौ तेनापि सम्बन्धार्थमध्यास-स्यावश्यकत्वात् । तद्वरं देहस्यैवाध्यासिकः सम्बन्धः इत्युच्यताम् । अत एव साक्षात् प्रयत्नजन्यक्रियाश्रयत्वं वा, तद्भोगायतनत्वं वा, तत्कर्मार्जितत्वं वा सम्बन्ध इति निरस्तम्, तत्कर्मार्जितत्वस्य पुत्रादिसाधारणत्वाच्च । न च तत्रादृष्टेन स्वत्वमेवोत्पाद्यते, न तु पुत्रादिरिति वाच्यम्, ग्रामादिवत् पुत्रस्य सिद्धत्वाभावेन स्वत्वोत्पादनार्थमपि तदुत्पादन-स्यावश्यकत्वात् । अन्यथा स्वदेहसुखादिष्वप्यस्यादृष्टेन स्वत्वमेवोत्पाद्यते, न तु स्वदेहादि-रित्यपि स्यात् । तथा च पूर्वानुत्पन्नमदृष्टेन स्वत्वसहितमेवोत्पाद्यते । पूर्वोत्पन्ने तु स्वत्वमात्रमिति विभागः ।

एतेन श्रुतिस्थं ब्राह्मणपदं किं लक्षणया देहविशेषैक्याध्यासवत्परम् ? देहविशेषसम्बन्धपरं वा ? सम्बन्धस्तु अन्यस्याभावादैक्याध्यास एव । यद्वा देहविशेषपरम् ? आत्मा तदैक्याध्यासात्प्रवर्तत इति । नाद्यः, विधौ लक्षणाया अयोगात्, पुत्रमित्रादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति अध्यासस्वीकारेण ब्राह्मणमित्रस्य शूद्रस्याधिकार-प्रसङ्गात्, शूद्रमित्रस्य ब्राह्मणस्यानधिकारप्रसङ्गाच्च । न द्वितीयः, तदिन्द्रियाश्रयत्वादेः सम्बन्धान्तरस्यैव सम्भवात् । न तृतीयः, तस्य जडत्वेन नियोज्यत्वासम्भवादिति निरस्तम्, चरमपक्षे दूषणमनुक्तोपालम्भनम्, प्रथमद्वितीयपक्षयोरेव क्षोदसहत्वेनाङ्गीकारविषयत्वाद्, विधौ लक्षणायाः ‘गोभिः श्रीणीत मत्सरम्’ इत्यादौ दर्शनात् स्वीयत्वाद्यप्रतिसन्धाननिबन्धनस्य पुत्रमित्रादिव्यावृत्तस्यैव सर्वानुभवसाक्षिकस्याध्यासस्य प्रयोजकतया नोक्तस्थले अतिप्रसङ्गा-प्रसङ्गौ । कादाचित्कस्य तादृशाध्यासस्यैव ब्राह्मणपदप्रयोगनिमित्तत्वेन ब्राह्मणो न हन्तव्य इत्यादेः सुषुप्तविषयत्वादिकमपि सङ्गच्छते । तथा जीवन्मुक्तविषयत्वमपि । तस्यावरणशक्ति-निबन्धनाध्यासाभावेऽपि विक्षेपशक्तिनिबन्धनाध्याससम्भवात् । न चैवं कदाचिदध्यासस्य प्रयोजकत्वे महापातकेन नष्टब्राह्मण्यस्याप्यधिकारप्रसङ्गः, तत्र महापातकस्यैवानधिकार-प्रयोजकत्वम्, न तु ब्राह्मण्याभावस्य, ‘पतितो ब्राह्मण’ इति व्यवहारेण तदभावस्यैवा-भावात् । तथा चोक्तं भाष्ये– ‘सर्वाणि विधिनिषेधशास्त्राण्यध्यासमूलानि’ इति ।

प्रमातृत्वाद्यन्यथानुपपत्तिरप्यध्यासे मानम् । कदाचिदध्यासस्यैव प्रयोजकत्वेन सुषुप्तौ तदभावेऽपि ज्ञातृत्वस्य घटादिप्रमाकाले तदभावेऽपि प्रमातृत्वस्य दर्शनात् कथमैक्याध्यासः तत्र प्रयोजक इति निरस्तम् । तदुक्तं भाष्ये प्रमार्तृत्वादिकमध्यासमूलमिति । अत एव चार्वाकादीनामनभिसंहितप्रबलागमानुमानादीनां देह एवात्मेति प्रवादः । अन्यथा प्रत्यक्ष-प्रामाण्यवादिनस्तस्य तादृशव्यवहारानुपपत्तेः । न च चार्वाकादेरनुमानाभासाज्जाते देहात्मैक्य-भ्रमे प्रत्यक्षत्वाभिमान इति वाच्यम्, प्रत्यक्षेण भेदे गृहीते अनुमानाभासादिनाऽभेदस्य बोधयितुमशक्यत्वात् । तथा च प्रत्यक्ष एवायमैक्यभ्रमः । अत एवाङ्गुल्या देहं प्रदर्श्य वदत्ययमहमिति । अत एव देहात्मैक्यनिषेधकश्रुतिरप्युपपद्यते, अन्यथा तस्याप्रसक्त-प्रतिषेधकतापत्तेः । न च कुसमयप्राप्तनिषेधिका सा, प्रत्यक्षविरुद्धकुसमयस्याप्यनवकाशात् । तस्मादाभीरसाधारणाद् ‘अहं गौर’ इत्यादिप्रत्ययादात्मन्यन्तःकरणैक्याध्यासाद् देहतद्धर्मा-ध्यासोऽपीति सिद्धम् ।

।। इत्यद्वैतसिद्धौ देहात्मैक्याध्यासोपपत्तिः ।।

न्यायामृततरङ्गिणी

अहमर्थस्यानात्मत्वे अहं काण इत्यादिप्रत्यक्षमात्मनीन्द्रियाद्यैक्याध्यासे प्रमाणमिति भवदुक्तमयुक्तं स्यादित्यभिसन्धायैक्याध्यासं प्रस्तौति ।। यच्चोच्यत इत्यादिना ।। ब्राह्मण इति ।। ब्राह्मण्याद्याश्रयशरीरस्य जडत्वेनानियोज्यतया तदैक्याध्यासवन्तमात्मानं नियुञ्जाना श्रुतिरित्यर्थः ।। त्वन्मत इति ।। नन्वहमर्थस्य द्व्यंशत्वेन कर्तृत्वविशिष्टान्तःकरणस्येव काणत्वविशिष्टेन्द्रियादेरप्यात्मन्यध्यासो भविष्यतीति चेन्न । चित्काणेति कदाप्य-प्रतीत्याऽहमर्थ एव तदारोपस्य वक्तव्यत्वात्तस्य चानात्मत्वात् ।। देहेति ।। ननु चन्द्रपरिमाणप्रत्यक्षस्येव देहात्मैक्यप्रत्यक्षस्यापि परीक्षितानुमानादिबाधकं स्यादिति शङ्कामपाकर्तुमुक्तमुक्तत्वेनेति । चन्द्रपरिमाणप्रत्यक्षस्य दूरादिदोषेण स्वार्थनिश्चयपराङ्मुखस्य युक्तोऽन्येन बाधः । इह तु न तथेति वैषम्यम् ।। परस्परमिति ।। भिन्नत्वेन निश्चितयोर्वङ्गरजतयोरेकदैकशुक्तिकायामारोपादर्शनादित्यर्थः । ननु देहादिन्द्रियमन्यदिन्द्रिया-द्देहोऽन्य इति भेदबुद्ध्या देहोऽहमिन्द्रियमित्यैक्याध्यासासम्भवेऽपि ब्राह्मणात्काणोऽन्यः काणाद्ब्रह्मणोऽन्य इति भेदबुद्ध्यभावेन ब्राह्मणोऽहं काण इत्येकदैक्याध्याससम्भव इति चेन्न । ब्राह्मणस्याक्षिकाणमिति काणब्राह्मणभेदस्यापि प्रत्यक्षत्वात् । येनाङ्गविकार इति सूत्रे तथोदाहृतत्वाच्च ।। त्वन्मत इति ।। भेदमात्रस्याध्यस्तत्ववादिन इत्यर्थः । ननु भेदस्याध्यस्तत्वेऽप्यभेदोऽप्यध्यस्तोऽस्तु । उभयोरपि दृश्यत्वेन मिथ्यात्वात् । इयांस्तु विशेषः । यदत्राभेदो व्यवहारकालीनेन परीक्षितप्रमाणभावेनानुमानादिना बाध्यते भेदस्तु देहात्मनोर्न तेन । किं तु चरमवृत्त्येतीत्यत आह ।। मिथ्यात्वं हीति ।।

ननु यथाकथञ्चिदत्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वमस्त्वित्यत आह ।। तद्बाध्येति ।। अधिष्ठानज्ञानबाध्येत्यर्थः । रूपवति घटे घटज्ञानबाध्यरूपात्यन्ता-भावसत्त्वेऽपि रूपस्य सत्यत्वादिति भावः । ननु भेदमिथ्यात्वसिद्ध्यर्थं भेदात्यन्ता-भावस्याधिष्ठान ज्ञानाबाध्यत्वेऽप्यभेदस्याध्यस्तत्वमस्त्वित्यत आह ।। अभेदश्चेति ।। अध्यस्तादपीति ।। अत्यन्ताभाववद्भेदेऽपि प्रतियोगिसत्त्वनियमाभावादिति भावः । देहेन्द्रियादीनां परस्परं भेदप्रत्ययान्न तदात्माभेदप्रत्यय इत्युक्तम् । सम्प्रति देहात्मनो-र्भेदावगमान्न तदैक्याध्यास इत्याह ।। किं चेति ।। ननु देहत्वेन देहात्मैक्यारोपो वा ब्राह्मणत्वादिना वा । आद्य आह ।। अहं गेहीति ।। द्वितीय आह ।। ब्राह्मण इति ।। प्रतीयते हीति ।। देहत्वेन देहभेदस्यात्मनि प्रतीतेर्न तेन रूपेण भेदारोप इत्यर्थः । अहं ब्राह्मण इति प्रमात्वान्नायमारोप इत्यर्थः ।

ननु देहब्राह्मणयोः सामान्यविशेषरूपत्वमेवास्त्वित्यत आह ।। नत्विति ।। देही ब्राह्मण इति सामान्यविशेषरूपत्वाभावे यथा प्रमाणं नास्ति तथा देहो ब्राह्मण इति सामान्यविशेषरूपत्वे प्रमाणं नास्तीत्यर्थः । ननु ब्राह्मणत्वादेर्देहविशेष विशिष्टात्मवृत्तित्वे तस्य चाक्षुषत्वं न स्यात् । देहविशिष्टात्मनोऽचाक्षुषत्वात् । न चैकदेशस्य चाक्षुषत्वा-द्विशिष्टगतधर्मस्य चाक्षुषत्वमिति वाच्यम् । विशिष्टवृत्तेरुभययोग्यतायामेव योग्यत्व-नियमादिति चेन्न । अतीन्द्रियनानापदार्थघटितव्याप्त्यादेरिव ब्राह्मणत्वादेरपि चाक्षुष-त्वोपपत्तेः । न चैतद्विद्मो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वेति श्रुत्या ब्राह्मणत्वस्य दुर्ज्ञानत्वोक्त्या सहकार्यन्तरसहकृतचक्षुर्ग्राह्यत्वोक्तेश्च । अत एव पुरुषे दृष्टे तद्ब्राह्मणत्वे सन्दिह्यते । मनुष्यत्वमपि आत्मनि गृहीत एव गृह्यते । चञ्चाद्याकारज्ञानेऽपि मनुष्यत्वादिसन्देहात् । तस्मादात्माद्युपनयध्रौव्याद्ब्राह्मण त्वादिकमपि चाक्षुषमेव । तदुक्तं वार्तिके । न हि यद्गिरिशिखरमारुह्यते तन्न गृह्यत एवेति ।। धर्मैक्येति ।। धर्मिभेदस्य प्रत्यक्षसिद्धत्वादित्यर्थः ।। तद्वदिति ।। रक्तः स्फटिको रक्तं कुसुममिति प्रतीतिवदित्यर्थः । एकत्र मुख्यत्वेन क्लृप्तस्यैव मुख्यत्वं, गौणत्वेन क्लृप्तस्य गौणत्वं कल्पयितुं न्याय्यमित्याह ।। मम देह इत्यादि ।। देहात्मभेदग्रहस्य पश्वादिसाधारणत्वान्न तस्य गौणत्वमित्याह ।। तथेति ।। तदुक्तमिति ।। तृतीयाध्यायेऽनुव्याख्यान इति शेषः । जातमात्राः न तु व्यापारान्तरं कृतवन्तः । अस्मिन् जन्मनि व्याप्त्यनुसन्धानरहिता इत्यर्थः ।। व्याप्ति-स्मृतिरिति ।।

ननु न व्याप्त्यनुभव इव तत्स्मृतावपि दृष्टान्तज्ञानापेक्षा । येनैतदर्थं तद्देह-स्मृतिरपेक्ष्येतेति चेन्न । न हि व्याप्तिस्मृतिं प्रति सहचारज्ञानकारणत्वानुरोधेनाधिकरण-ग्रहणापेक्षां ब्रूमः । किं तु सामानाधिकरण्यादिगर्भव्याप्तिज्ञानस्य साध्याधिकरणविषयत्व-नियमम् । तदिदमुक्तम् ।। इत्यादीति ।। उक्तसाध्यसाधनं सामानाधिकरण्यरूपव्याप्ते-रित्यर्थः ।। इह चेति ।। तथा चात्मनि देहभेदोऽपि प्रत्यक्षसिद्ध इत्यर्थः ।। व्यावर्त-केति ।। भेदसाक्षात्काराभावेऽपीत्यर्थः । ननु नीला बलाकेत्यत्र नीलाद्भेदकस्य बलाकात्वस्य ग्रहेऽपि नीलभेदसाक्षात्काराभावस्य तदैक्यारोपभ्रमस्य च दर्शनादुक्तनियमाद्य-सिद्धमिति चेत् केन कालिकव्याप्त्या प्रतारितो भवान् । बलाकायामपि नीलभेद-साक्षात्कारस्य सत्त्वान्न दैशिकनियमासिद्धिः । निशि दोषवशात्तु नीलाभेदप्रत्ययः । नन्विह सर्वदा दोषप्राबल्याद्देहात्मैक्यारोप इति चेन्न । भेदकधर्मसाक्षात्कारे सति प्रत्यक्षे च धर्मिणि दोषप्राबल्यात्सर्वदाऽभेदारोप इत्यस्यासिद्धेः ।

ननु सदातनोपाधिकेऽभेदभ्रमे तथापि व्यभिचार इत्यत आह ।। न चायमिति ।। उपाधिविरहे सतीत्यस्यापि विशेषणान्न व्यभिचार इति भावः । सदातनोपाधौ माना-भावोऽपि बोध्यः । क्षीरादेरपि नीरविवेकदर्शनात् ।। तत्र किमिति ।। लक्षणया ब्राह्मण-शब्दार्थ इति सम्बन्धः ।। विधाविति ।। मुख्यार्थेनैवोपपत्तेः । एतेन ‘गोभिः श्रीणीत मत्सरम्’ इति वेदान्तकौमुद्युक्तिप्रतिध्वनिर्निरस्तः । गोभिर्गोविकारैः पयोभिः मत्सरं सोमं श्रीणीत संस्कुरुतेति मन्त्रस्य पयसा श्रीणातीति विहितश्रयणानुवादित्वेन तदविधायकत्वाच्च ।। महापातकेनेति ।। न च तत्र महापातकस्यैवानधिकारप्रयोजकत्वमिति वाच्यम् । तस्यापि ब्राह्मण्याभावसम्पादनद्वारैव तथात्वात् । द्वयोरपि तथात्वे गौरवात् ।। तदिन्द्रि-येति ।। तज्ज्ञानजनकेन्द्रियेत्यर्थः । ननु पितृकृतपुत्रेष्टिजन्यपुत्रशरीरस्य पितृशरीरत्वा-पत्तिरित्यत आह ।। पुत्रकामेष्टीति ।। ननु ग्रामादेः स्वतःसिद्धत्वेन तत्स्वामित्वमात्र-मुत्पद्यताम् । पुत्रशरीरस्य स्वतोऽसिद्धत्वात्तत्स्वामित्वार्थमपि तदुत्पत्तेरावश्यकत्वम् । अन्यथा स्वदेहसुखादिष्वपि स्वादृष्टेन स्वत्वमेवोत्पद्येतेति चेन्मैवम् । पुत्रशरीरादेः पुत्रादृष्टासाधारणकार्यत्वेन तत्र पित्रदृष्टस्याहेतुत्वात् । स्वशरीरादेस्त्वदृष्टान्तरा साध्यत्वेन तत्र स्वादृष्टस्य हेतुत्वात् । स्वस्मिन्नसत्यपि पुत्रशरीरादिना पुत्रादेर्भोगदर्शनाच्च । स्वशरीरे तु न तथेति वैषम्यात् ।। देहविशेषेति ।। ब्राह्मणो यजेत इत्यादित एव देहविशेषविशिष्टो ब्राह्मणशब्दार्थ इत्यवगम्यत इत्यर्थः ।। एतेनेति ।। अध्यासं विनैवोपपत्त्या तदसम्भवेन चेत्यर्थः ।। जागरणेति ।। जागरेऽपि घटादिप्रमातृत्वदशायां देहात्मैक्याध्यासो नास्तीत्यर्थः ।

ननु देहात्मभेदस्य प्रत्यक्षत्वे चार्वाकादेस्तदैक्यसाक्षात्कारो न स्यादित्यत आह ।। चार्वाकादेस्त्विति ।। भ्रम इति ।। अनुमितिरूप इत्यर्थः । ननु देहात्मभेदसाक्षात्कारे सति कथं तस्य लैङ्गिकमपि तदभेदज्ञानमिति चेत् सन् घट इति सत्यत्वे प्रत्यक्षेऽपि यथा तव दृश्यत्वादिना मिथ्यात्वधीस्तथेति गृहाण । न च चार्वाकस्यानुमानममानमिति वाच्यम् । तन्मतेऽनादिसम्भावनाया एवानुमानस्थानापन्नत्वात् ।। संसारहेतुरिति ।। प्रेमास्पदत्वमपि स्वस्य भोगायतनत्वादिना । न तु प्रेमास्पदात्मैक्यारोपादिति भावः ।। अङ्गुल्येति ।। चित्रलिखितस्य प्रतिमादावयमहमितिवदुपचारादित्यर्थः । ननु देहात्मभेदस्य प्रत्यक्षत्वे तदभेदं व्युदस्य तद्भेदप्रतिपादिकाया अस्तीत्येवोपलब्धव्य इत्यादि श्रुतेरनु-वादकत्वप्रसङ्ग इत्यत आह ।। श्रुतिष्विति ।। विजातीयज्ञानहेतुत्वात् श्रुतिर्नानुवाद इत्याह ।। व्यवहारेति ।। उक्तञ्चेति ।। तृतीयाध्यायेऽनुव्याख्याने । ननु ज्ञानमेव व्यवहारकारणं चेदस्ति कथं तर्हि व्यावहारेष्वपाटवमत आह ।। न हीति ।। यथानुभवतः अनुभवानु-सारेण । यमलयोर्भेदं पश्यन्तोऽपि मात्रादयः कथमेतौ भिन्नाववगन्तव्याविति पृष्टा एवमिति स्वप्रत्यक्षानुसारेण न परान् प्रति प्रतिपादयितुं क्षमन्त इत्यनुभवसिद्धमित्यर्थः । क्वचित्तु अर्थाननुभवन्तोऽपीति पाठः । स सुधाविरुद्धः ।

 व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

 न्यायामृततरङ्गिण्यां देहात्मैक्याप्रमाक्षतिः ।।

न्यायामृतकण्टकोद्धारः

ननु यदि बुद्ध्यैक्यतद्धर्माध्यासौ आत्मनि नाङ्गीक्रियेते तर्हि देहैक्यतद्धर्माध्यासोऽपि न स्यात् समानन्यायत्वात् । तथा च प्रत्यक्षादिविरोधः स्यात् । तस्मात् अन्तःकरणैक्यतद्धर्मा ध्यासोऽप्यस्वीकर्तव्य इत्यतो दृष्टान्त एवासिद्ध इति वक्तुमनुवदति ।। यच्चोच्यत इति ।। अत्र चाहं ब्राह्मण इत्यादि सामानाधिकरण्यादैक्यसिद्धिः । सामानाधिकरण्यप्रत्ययस्य सोऽयमित्यादिवदैक्यविषयत्वादिति भावः ।। देहैक्याध्यासाभाव इति ।। यदभावे नियमेन यददर्शनं तत्तत्कारणकमिति व्याप्तिः । यथा दिवाऽभुञ्जानस्य पीनत्वं रात्रिभोजनेन विना न प्रतीयते इति रात्रिभोजनकारणकत्वं पीनत्वस्य तद्वदिति भावः ।। त्वन्मत इति ।। नन्वहमर्थस्यानात्मत्वेऽपि तस्य द्व्यंशत्वेन चिदंशे कर्तृत्वविशिष्टान्तःकरणैक्याध्यासवत् ब्राह्मणत्वकाणत्वविशिष्टदेहेन्द्रियाद्यैक्याध्यासेनात्मविषयत्वसम्भवादिति चेन्न । अहमर्थस्य द्व्यंशतायाः प्रागेव निरस्तत्वात् । दृष्टान्तस्यासिद्धेश्च । न ह्यसिद्धेनासिद्धसाधनं युज्यते । स्वरूपासिद्धताया अदोषत्वप्रसङ्गता ।। देहात्मैक्यस्येति ।। प्रत्यक्षविरुद्धेऽर्थेऽनुमानादिक मप्रमाणं वह्निशैत्यानुमानवदिति मिथ्यात्वानुमानस्य प्रत्यक्षबाधप्रतिपादनावसर उक्तत्वा-दित्यर्थः । न च चन्द्रमण्डलपरिमाणप्रत्यक्षविरोध्यनुमानादिदृष्टान्तेनानुमानादेः प्रामाण्यं प्रतिपादितमिति वाच्यम् । चन्द्रमण्डलपरिमाणादिविषयप्रत्यक्षस्य स्वयं बाधितप्रायस्यैव विपरीतसंस्कारादिनोत्पन्नत्वेन तत्प्रत्ययस्याकिञ्चित्करत्वादिति तत्रैवोक्तत्वात् । प्रकृतन्तु न तादृशमिति भावः ।। परस्परमिति ।। न हि भिन्नत्वेन निश्चितयो रङ्गरजतयोरेकदैव शुक्त्यैक्याध्यास इति भावः । न च येन रूपेण भेदनिश्चयस्तेन रूपेणैक्याध्यासो मास्तु । येन रूपेण तु न तन्निश्चयः तेन रूपेणैक्याध्यासो भविष्यति । तदिह देहादिन्द्रियमन्यदिति भेदनिश्चयात् देहोऽहमिन्द्रियमित्यध्यासाभावेऽपि ब्राह्मणात् काणोऽन्य इति भेदनिश्चयाभावेन ब्राह्मणोऽहं काण इत्यध्यासो भविष्यतीति वाच्यम् । देहत्वेन्द्रियत्वपुरस्कारेण भेदनिश्चये तद्विशेषब्राह्मणत्वपुरस्कारेणापि भेदस्यावश्यकत्वात् । अन्यथा घटत्वेन भेदनिश्चये नील-घटत्वेनैक्याध्यासापत्तेः । न च नीलघटत्वं घटत्वघटितम् । ब्राह्मणत्वं तु न देहत्वघटितमिति वाच्यम् । तथापि विशिष्टाविशिष्टयोर्भेदस्यावश्यकत्वेन नीलघटत्व-घटत्वयोर्भेदात् नीलघटत्वं घटत्वव्याप्यमिति तेन रूपेण भेदनिश्चये न नीलघटत्वे-नैक्याध्यास इति यदि तदेतत् प्रकृतेऽपि तुल्यम् । ब्राह्मणत्वस्यापि देहत्वव्याप्यत्वात् । ब्राह्मणस्येन्द्रियं काणं न ब्राह्मण इति तेनापि रूपेण भेदप्रत्ययाच्च ।। त्वन्मत इति ।। भेदमात्रस्याध्यस्तत्वाङ्गीकारादिति भावः ।

ननु भेदस्याध्यस्तत्वं कथम् । अभेदाध्यासविरोधियत्किञ्चिदध्यासस्य यत्किञ्चि-दध्यासविरोधादर्शनात् इत्यत आह ।। मिथ्यात्वं हीति ।। अभेदस्य भेदाभावरूपत्वेन तदध्यस्तत्वं तदध्यासविरोध्येवेति भावः । न च भावाभावयोरपि स्वप्नेऽध्यासो दृश्यते इति वाच्यम् । अभावपदेनात्यन्ताभावस्य विवक्षितत्वात् । स्वप्ने चात्यन्ताभावस्य सत्यत्वादिति सर्वं चैतत् पुरैवोपपादितमित्यलम् । अध्यस्तादपीत्युपलक्षणम् । देहस्य स्वरूपेणा-ध्यासासिद्धेरित्यपि द्रष्टव्यम् । किञ्चात्मनि देहैक्याध्यासः किं देहोऽहमिति प्रत्ययबलात् ब्राह्मणोऽहं मनुष्योऽहमिति प्रत्ययाद्वा कृशोऽहमिति प्रत्ययाद्वा ? नाद्यः । तादृशप्रत्यया-भावादित्याह ।। किञ्चेति ।। न द्वितीय इत्याह ।। ब्राह्मणोऽहमिति ।। न तृतीय इत्याह ।। कृशोऽहमिति ।। ब्राह्मणोऽहमित्यादेः प्रमात्वमुपपादयति ।। अहं ब्राह्मण इति ।।

नन्वेतावता ब्राह्मणत्वादिकं न देहमात्रवृत्ति । किन्तु देहविशिष्टात्मवृत्ति इत्युक्तं स्यात् । न च तद्युज्यते । किन्तु देहविशिष्टात्मवृत्ति इत्युक्तं स्यात् । न च तद्युज्यते । तथात्वे तस्य चाक्षुषत्वानुपपत्तेः । आत्मनोऽचाक्षुषत्वेन तद्वृत्तिजातेश्चाक्षुषत्वायोगात् । न चैकदेशचाक्षुषत्वेन विशिष्टवृत्तिधर्मस्य चाक्षुषत्वम् । द्वित्वसंयोगादेरपि तथात्वापत्तेः जातेर्व्यासज्यवृत्तित्वानभ्युपगमाच्चेति चेन्न । किमहं ब्राह्मण इति प्रत्यये ब्राह्मणत्वस्य चाक्षुषत्वाभाव आपाद्यते ? देहो ब्राह्मण इति प्रत्यये वा ? नाद्यः । अहं ब्राह्मण इति प्रत्ययस्य आत्मविशेष्यकस्य चाक्षुषत्वाभावात् साक्षिरूपत्वस्य मानसरूपत्वस्य वोचितत्वात् । अत एवान्धकारेऽपि अहं ब्राह्मणोऽहं मनुष्य इति प्रतीतिः । अन्यथा चाक्षुषप्रत्ययस्यालोकसापेक्षतयाऽन्धकारे तादृशप्रत्ययाभावप्रसङ्गात् । न द्वितीयः । तादृश-प्रत्ययस्यैवासिद्धेः । न हि कदापि देहो ब्राह्मण इति प्रतीतिः । न च देहे ब्राह्मण्यमस्तीति प्रतीतिरस्त्येवेति वाच्यम् । विशिष्टनिष्ठस्य विशेषणे परम्परासम्बन्धेनोपनयसम्भवात् । तस्मान्न ब्राह्मणत्वादि चाक्षुषम् । न चैवं शास्त्रदृष्टविरोधोदाहरणासङ्गतिः । तत्र ब्राह्मण-त्वस्य चाक्षुषत्वाभिधानादिति वाच्यम् । दृष्टपदेन प्रत्यक्षत्वस्य विवक्षितत्वादिति ।

ननु कृशोऽहमिति देहैक्याध्यासः किं न स्यादित्यतस्तस्य सोपाधिकनिरुपाधिकत्व-रूपविशेषबाधादध्यासत्वं बाधितमित्याह ।। कृशोऽहमित्यादावपीति ।। नान्त्य इति ।। मम देह इति भेदप्रत्ययादिति भावः । तर्हि कृशोऽहमिति व्यपदेशस्य का गतिरित्यतो भेदे भासमाने अभेदव्यपदेशस्यौपचारिकत्व मेवेष्टव्यमित्याह ।। कृशोऽहमिति ।। नन्वभेद-व्यपदेशस्य गौणत्वे भेदस्य प्रत्यक्षसिद्धत्वमावश्यकम् । सिंहो माणवक इत्यादौ तथा दर्शनात् । एवञ्च देहात्मभेदप्रतिपादिकाया अस्तीत्येवोपलब्धव्य इत्यादिश्रुतेरतत्वावेदकत्वं स्यात् । तथा च श्रुतेरप्रामाण्यमिति चेन्न । वादिविप्रतिपत्यादिनिरासकत्वेन दार्ढ्यार्थत्वेन वैयर्थ्याभावात् । तस्यास्फुटतरभेद्रप्रतिपादकत्वसम्भवाच्च । जीवात्मभेदप्रतिपादकत्वपरत्वेन देहात्मभेदप्रतिपादकत्वासम्भवाच्च ।। अन्यथेति ।। भेदे भासमानेऽपि यद्यध्यास इत्यर्थः । ननु पुत्रकार्श्येन कृशोऽहमित्यादेरध्यासाभावे कथं दुःखावाप्तिरित्यत आह ।। पुत्रकार्श्येनेति ।। न चेति ।। विनिगमकाभावादिति भावः ।। ममेति ।। तथा च मुख्यत्वेन विवेकिनि क्लृप्तत्वमेव विनिगमकमिति भावः । विनिगमकान्तरमाह ।। पश्वादीनामिति ।। एवञ्चात्मनि देहैक्यभ्रम इति श्रुतिस्मृतिलोकप्रवादस्य देहे स्वातन्त्र्यभ्रम इति तात्पर्यं द्रष्टव्यम् ।

ननु पश्वादीनां देहात्मभेदसाक्षात्काराङ्गी कारेऽपसिद्धान्त इत्यत आह ।। तदुक्तमिति ।। व्याप्तिस्मृतिरिति ।। ननु व्याप्तिस्मरणमनुमितिकारणम् । न च देहादिस्मृतिर्व्याप्ति-स्मृतिकारणम् । स्मृतौ संस्कारमात्रस्यैव कारणत्वसम्भवात् । तथा च कथं पूर्वदेह-स्मृतिरावश्यकीति चेन्न । व्याप्तेः पूर्वशरीर एव गृहीतत्वेन विशिष्टविनाभावरूपाया वा सामानाधिकरण्यरूपाया वा हेतुसाध्याधिकरणघटितत्वात् अधिकरणीभूतशरीरास्मरणे कथं व्याप्तिस्मरणम् । व्याप्तेश्चाधिकरणघटितत्वञ्च । न हि पीनत्वं रात्रिभोजनं विनानु-पपन्नमित्यनुपपत्तिज्ञानं प्रयोजकम् । किन्तु यस्य पीनत्वं तस्य रात्रिभोजनं विनेति । तथा च कथमेतादृशानुपपत्तिरूपव्याप्तिस्मरणमधिकरणं विनेति । अकामेनापि स्वीकर्तव्यम् । तथा च पूर्वदेहस्मरणमावश्यकमिति ।। प्रत्यक्ष इति ।। गन्धादिग्रहेऽपि तदधिकरणे भेदस्याप्रत्यक्षत्वात् प्रत्यक्ष इत्युक्तम् । उपलक्षणमेतत् । व्याप्तिज्ञानं विनापि जायमानत्वा-दित्यपि द्रष्टव्यम् । ननु प्रकृते भेदकसाक्षात्कारोऽसिद्ध इत्यत आह ।। इह चेति ।। तथा च व्यावृत्तत्वानुवृत्तत्वविरुद्धधर्मयोः साक्षात्कारो नासिद्ध इति भावः ।

नन्वस्य सोपाधिकत्वाद्विशेषदर्शनेऽपि स्यादित्यत आह  ।। न चेति ।। सोपाधिकत्वे पीतः शङ्ख इत्यादाविव प्रवृत्यप्रयोजकत्वं स्यादिति भावः । न च नीला बलाकेत्यादौ भेदकस्य बलाकात्वादेः साक्षात्कारेऽपि नीलभेदसाक्षात्कारादर्शनात् भेदकसाक्षात्कारो भेद-साक्षात्कारव्याप्त इत्यसिद्धमिति वाच्यम् । दोषप्राबल्येन भेदकसाक्षात्कारे भेदासाक्षात्कारो-पपत्तेः । दोषप्राबल्यादेव भेदकसाक्षात्कारस्याविरोधकत्वोपपत्तेश्च । न च प्रकृते तथा दोषाः । प्रत्युत मम देह इत्याद्यानुकूल्यात् दोषाभाव एवावसीयते । किञ्च दृष्टान्ते भ्रमस्य सोपाधिकत्वात् विशेषदर्शनाप्रतिबध्यत्वम् । न च प्रकृते सोपाधिकत्वमित्युक्तम् । नन्वस्तु तर्हि श्रुतिर्देहैक्याध्यासे प्रमाणमित्यत आह ।। यत्त्विति ।। विधाविति ।। न च ‘गोभिः श्रीणीत मत्सरं’ ‘सोमेन यजेत’ इत्यत्र विधावपि लक्षणा दृष्टैवेति वाच्यम् । तत्र मुख्यार्थ-ग्रहणे बाधकवत् प्रकृते तदभावात् । तत्र विरुद्धत्रिकद्वयापत्यादिरूपबाधकाल्लक्षणाकल्पनम् । न चेह तथा बाधकमस्ति । देहसम्बन्धविशेषवतो ब्राह्मणशब्दार्थत्वादित्युक्तत्वात् । न च सम्बन्धविशेषानिर्वचनम् अनिरुच्यमानत्वात् ।। त्वयेति ।। न च स्वीयत्वाद्य-प्रतिसन्धाननिबन्धनस्य पुत्रमित्रादिव्यावृत्तस्याध्यासविशेषस्य प्रयोजकत्वात् नायमतिप्रसङ्ग इति वाच्यम् । सम्बन्धविशेषेणैवोपपत्तौ तस्याध्यासरूपत्वानावश्यकत्वात् । अध्यास-रूपत्वेऽप्यनुभवसाक्षिको विशेष आदरणीयः । तथा च तेनैवोपपत्तावध्यासकल्पने गौरवं स्यात् । मम देह इति देहेऽपि स्वीयत्वप्रतिसन्धानस्यावश्यकत्वाच्च ।। आवश्यकत्वेनेति ।। एवञ्च यथा नातिप्रसङ्गस्तथा वक्ष्यते ।। सुषुप्तस्येति ।। न च मुक्तस्यावरणशक्तिनिबन्ध-नाध्यासाभावेऽपि विक्षेपशक्तिनिबन्धनाध्याससम्भवात् निषेधविषयत्वं स्यादिति वाच्यम् । विक्षेपशक्तिनिबन्धनाध्यासस्य विधिनिषेधविषयत्वाप्रयोजकत्वात् । अन्यथा ईश्वरस्यापि तदापत्तेस्तस्यापि विक्षेपशक्तिनिबन्धनाध्याससत्त्वात् ।। पातकेनेति ।। न च पतितेऽपि ब्राह्मण्यमस्त्येव । ब्राह्मण इति व्यवहारात् । अनधिकारश्च महापातकित्वादिति वाच्यम् । अधिकारप्रयोजकाभावस्यैवानधिकारप्रयोजकत्वे सम्भवति महापातकित्वस्यानधिकार प्रयोजकत्वे गौरवात् । तस्य ब्राह्मण्याभावसम्पादकत्वेनान्यथासिद्धेश्च । अत एव नष्टब्राह्मण इत्यादिव्यवहारः । ब्राह्मण इत्यादिव्यवहारस्तु अतीतब्राह्मण्यापेक्षया गतश्रीके सामन्तादौ राजत्वादिव्यवहारवत् । न च जातेर्नित्यत्वात् कथं नाश इति वाच्यम् । आवयोस्तद-सम्प्रतिपत्तेः । अत एवेति परामृष्टं हेतुमाह ।। संयोगस्येति ।। आतुरदेहेष्विति ।। आमवातजडीकृतदेहेष्वित्यर्थः ।। साक्षादिति ।। न च भृत्यादिव्यावृत्तं साक्षात्त्वं दुर्निरूप-मिति वाच्यम् । तस्यानुभवसाक्षिकस्य जातिरूपस्य वा शरीराद्यप्रयोज्यत्वरूपस्य वोपाधेर्वा निरूपयितुं शक्यत्वात् ।। तदिन्द्रियेति ।। न चात्र तदिन्द्रियत्वं तत्सम्बद्धेन्द्रियत्वं तज्ज्ञानजनकेन्द्रियत्वं वा । नाद्योऽतिप्रसङ्गात् । द्वितीये ज्ञानशब्देन चैतन्योक्तावसम्भवः । वृत्युक्तौ तथाऽध्यासिक एव सम्बन्धो वक्तव्य इति स एवास्त्विति वाच्यम् । वृत्या सह समवायस्य वाऽन्यस्य वा सम्बन्धस्य सत्यस्यैव सम्भवात् । यथा चैतत्तथाऽकर एव वक्ष्यते । तद्भोगेत्यत्रापि साक्षात्त्वं द्रष्टव्यम् । अन्यथाऽतिप्रसङ्गादिति ।। न चेति ।। तथा च लाघवाद्देहादावपि स एवास्तु न तद्बाधक इति वाच्यम् इति शेषः ।। अहमिति ।। तथा च न प्रयत्नादिना ऐक्यभ्रमरूपः सम्बन्ध इति क्व लाघवावतार इति भावः ।

ननु तर्हि प्रयत्नादिना आत्मनः सम्बन्धाभावात् प्रयत्नादेस्तदीयत्वं न स्यादित्यत आह ।। आत्मेति ।। प्रमाणसिद्धः सम्बन्धो बाधकाभावात् सत्य एवेति भावः ।। वैपरीत्य-स्यापीति ।। एैक्याध्यासस्यातिप्रसङ्गभङ्गाय स्वस्वामिभावसम्बन्ध एव मूलमिति भावः । नन्वेवं मूलसम्बन्धाभावेऽतिप्रसङ्गः कथं निरसनीय इत्यत आह ।। तत्कर्मेति ।। ननु कर्मणां तदीयत्वे ऐक्याध्यास एव प्रयोजक इत्यत आह ।। कर्मणामिति ।। नन्वेव-मन्योन्याश्रयः । शरीरस्य तदीयत्वं तत्कर्मार्जितत्वेन, कर्मणां च तदीयत्वं तदीयशरीर-जन्यत्वेनेत्यतो वाऽह ।। कर्मणामिति ।। न चैवमनवस्थेति वाच्यम् । प्रामाणिकत्वेना-दोषत्वादिति नानादित्वादिति सूत्रखण्डेन परिहृतत्वादिति भावः । प्रयत्नस्य च तदीयत्वे सम्बन्धविशेषः प्रागेवोक्त इति । ननु तत्कर्मार्जितत्वं न देहेन सम्बन्धः । तस्य पुत्रदेहेऽपि भावादित्यत आह ।। पुत्रकामेष्टिकर्मापीति ।।

ननु ग्रामस्य सिद्धत्वात् तत्र ग्रामकामेष्टेः स्वत्वसम्पादनार्थत्वमस्तु । प्रकृते पुत्रस्यासिद्धत्वात् तत्सम्पादनार्थत्वमपि पुत्रेष्टेर्वक्तव्यम् । अन्यथा यागजन्यादृष्टमपि सुखे स्वत्वसम्पादनार्थं न तु तदुत्पत्यर्थमित्यापत्तेरिति चेन्न । सुखस्य प्रकारान्तरेणासम्भवात् । तत्र इष्टेरुभयार्थत्वम् । पुत्रशरीरस्य च पुत्रादृष्टेनापि सम्भवात् पुत्रकामेष्टेः स्वत्व-सम्पादनार्थत्वमेवेति नातिप्रसङ्गः । यद्वा तन्मात्रकर्मार्जितत्वम् । पुत्रशरीरं तु उभय-कर्मार्जितमिति नातिप्रसङ्गः । न चैवमसम्भवः । स्वदेहस्यापि पत्न््नयादिभोजकादृष्टार्जित-त्वादिति वाच्यम् । असाधारण्येन वा साक्षात् स्वभोगसाधनत्वेन वा तन्मात्र-कर्मार्जितत्वस्यापि विवक्षितत्वान्न कोऽपि दोषः ।। तस्येति ।। न चास्मिन् पक्षे अनुक्तप्रतिषेध इति वाच्यम् । सम्भावितत्वेन प्रतिषेधोपपत्तेः । एतेन देहैक्याध्यास-निषेधेन । तथा च देहैक्याध्यासे न श्रुतिः प्रमाणमिति भावः । देहैक्याध्यासे परोक्तार्थापत्तिमपि दूषयति ।। नापीति ।। तदभावेऽपीति ।। देहैक्याध्यासाभावेऽ-पीत्यर्थः । न हि यद्विना यद्भवति तत्तेन विनानुपपन्नमिति युज्यते इति भावः । न च कादाचित्कदेहैक्याध्यासस्य प्रयोजकत्वान्नोक्तदोष इति वाच्यम् । तर्हि मुक्तावपि प्रमातृत्वं स्यात् । प्रयोजकसद्भावे प्रयोज्यस्य सद्भावावश्यम्भावात् ।

ननु देहैक्यभ्रमाभावे कथं चार्वाकादीनां देह एवात्मेति प्रवादः ? न चासावनुमाना-भासजन्योऽ नुमित्याभास एवेति वाच्यम् । चार्वाकादीनां प्रत्यक्षैकप्रमाणवादित्वादित्यत आह ।। चार्वाकादेस्त्विति ।। प्रत्यक्षत्वाभावेऽपि तदभिमानात् तथाभिलाप इति भावः । ननु देहैक्याध्यासाभावे कथं देहानुकूले रागादिरित्यत आह ।। देहादाविति ।। तदभि-मानात् तथाभिलाप इति भावः । ननु देहैक्याध्यासाभावे कथं देहानुकूले रागादिरित्यत आह ।। चार्वाकादेस्त्विति ।। प्रत्यक्षत्वाभावेऽपि तदभिमानात् तथाभिलाप इति भावः । ननु देहैक्याध्यासाभावे कथं देहानुकूले रागादिरित्यत आह ।। देहादाविति ।। प्रेमास्पदत्वं चासाधारणसुखहेतुत्वादिति भावः । नन्वेवमङ्गुल्या देहं प्रदर्श्यायमहमिति निर्देशो न स्यादित्यत आह ।। अङ्गुल्येति ।। नन्वेवं श्रुतिषु देहात्मैक्यनिषेधो न स्यादप्रसक्त-त्वादित्यत आह ।। श्रुतिष्विति ।। न हि प्रत्यक्षप्रसक्तिरेव प्रसक्तिरिति भावः । न च प्रत्यक्षविरुद्धे कुसमयस्यानवसर इति वाच्यम् । आग्रहेण प्रत्यक्षविरुद्धमिथ्यात्व इव कुसमयप्रवृत्त्युपपत्तेरिति भावः । वादार्थमुपसंहरन्ननिर्वचनीयत्वं निराकर्तुमुपोद्घातरूपेणाह ।। तस्मादिति ।।

।। इति देहात्मैक्याध्यासभङ्गः ।।

न्यायामृतप्रकाशः

आत्मानात्मनोरन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य सर्वे प्रमातृत्वादिव्यवहाराः प्रवर्तन्ते इति परभाषितमितरेतराध्यासं दूषयितुमनुवदति ।। यच्चोच्यत इति ।। तद्धर्माः देहधर्माः ब्राह्मण्यकाणत्वाद्याः । आत्मनि देहैक्यतद्धर्मयोरध्यासे प्रत्यक्षं प्रमाणयति ।। अहं ब्राह्मण इति ।। ब्राह्मण्यस्य देहधर्मत्वेनात्मनि तदध्यासो देहैक्याध्यासं विना न सम्भवतीति तदैक्याध्याससिद्धिरित्यर्थः । आत्मनीन्द्रियैक्यतद्धर्मयोरध्यासे प्रत्यक्षं प्रमाणयति ।। अहं काण इति ।। अस्त्यत्र सम्प्रदायः । अक्षिसम्बन्धी यः कृष्णताराद्यसम्बद्धत्वादिरूपो विकारविशेषः स काणशब्दार्थः । अयं च चक्षुर्धर्मः । अत एव ब्राह्मणस्याक्षिकाणमिति प्रयोगः । तथा ‘येनाङ्गविकारः’ इति सूत्रे अक्ष्णा काण इत्युदाहृत्य विकृताक्षिमानित्यर्थ इति काशिकायामुक्तत्वात् । एवं चात्राहं काण इत्यात्मनि इन्द्रियधर्मरूपकाणत्वाध्यासः इन्द्रियैक्याध्यासं विना न सम्भवतीति तदैक्याध्याससिद्धिरित्यर्थः ।। ब्राह्मणो यजेतेति ।। ब्राह्मण्याद्याश्रयस्य शरीरस्य जडत्वेनानियोज्यत्वात्तदैक्याध्यासवानात्मैव नियुज्यत इति । देहैक्याध्यासेऽर्थापत्तिं चाह ।। देहेति ।। अनात्मत्वेनेति ।। आत्मभिन्नत्वेनेत्यर्थः ।। देहात्मैक्यस्येति ।। किन्तु देहाहमर्थैक्यविषयत्वमेवेति आत्मनि देहैक्याध्यासे नेदं प्रत्यक्षं प्रमाणमित्यर्थः । चिदचित्संवलनस्य दूषितत्वादहमर्थे ब्राह्मण्यादिविशिष्टदेहैक्याध्यासे आत्मन्यपि स प्राप्त एवेति शङ्कानवकाश इति हृदयम् । अस्तु देहात्मैक्याध्यासः । तथापि न तत्र प्रत्यक्षं प्रमाणमिति त्वया वक्तुं शक्यमित्याह ।। देहेति ।। तद्विरोधीति ।। देहात्मैक्यावगाहिप्रत्यक्षविरोधीत्यर्थः ।

अयमभिसन्धिः । पूर्वं तावत्प्रत्यक्षस्य जात्या उपक्रमादिन्यायैश्च प्राबल्यं समर्थ्य तद्विरोध्यनुमानादेरेवाप्रामाण्यमित्युक्तम् । एवं चेह देहात्मैक्यस्य प्रत्यक्षसिद्धत्वे कदापि तद्भेदसिद्धिर्न स्यात् । तत्सिद्धिर्हि देहादीनां व्यावृत्तत्वात्सूत्रानुस्यूतमणिवदात्मनोऽनुवृत्तत्वात् व्यावृत्तत्वानुवृत्तत्वरूपविरुद्धधर्माधिकरणत्वरूपानुमानेन ‘अस्तीत्येवोपलब्धव्यः’ इत्यागमेन च वक्तव्या । देहात्मैक्यस्य प्रत्यक्षप्रमाणस्य पूर्वप्राबल्यस्य समर्थितत्वेन प्रबलतया तद्विरुद्धानुमानागमयोरेवाप्रामाण्यापत्त्या ब्रह्मज्ञानात्पूर्वं व्यवहारदशायामिदानीं तद्भेदसिद्धिरेव न स्यात् । ननु चन्द्रपरिमाणप्रत्यक्षस्येव देहात्मैक्यप्रत्यक्षस्यापि अपरीक्षितत्वेन परीक्षितानु-मानादिनैव बाधः किं न स्यादिति चेन्न । चन्द्रपरिमाणप्रत्यक्षस्य दूरादिदोषेण स्वार्थनिश्चय-पराङ्मुखस्य युक्तोऽन्येन बाधः । न चेह तथाऽस्ति । ब्रह्मज्ञानात्प्राक् व्यवहारदशायां त्वन्मते बाधाभावात् । तदङ्गीकारे ब्रह्मज्ञानेतरज्ञानबाध्यत्वेन प्रातिभासिकत्वापत्त्या स्वार्थसाधनाय प्रमाणत्वेन प्रत्यक्षोक्त्ययोगात् । न हि प्रातिभासिकरूप्यावगाहिप्रत्यक्षं केनचिद्रूप्यसिद्धये प्रमाणत्वेनोदाह्रियते । अतोऽनुमानागमाभ्यां इदानीं तद्भेदसिद्धिः सर्वसंमता न स्यात् । अतो न तत्र प्रत्यक्षं प्रमाणमिति ।। परस्परमिति ।। त्वया युगपदेवात्मनि देहाद्यैक्याध्यासाङ्गी-कारेण देहादिन्द्रियमन्यत् इन्द्रियाद्देहोऽन्य इति भेदस्यैव दर्शनात् देहोऽहमिन्द्रियमित्येकदैव देहाद्यैक्याध्यासायोगात् । न हि भिन्नत्वेन निश्चितयोर्वङ्गरजतयोरेकदैव शुक्तिकायामेवारोपो दृष्ट इत्यर्थः ।

ननु देहादिन्द्रियमन्यत् इन्द्रियाद्देहोऽन्य इति भेदबुध्द्या देहोऽहमिन्द्रियमित्यैक्याध्यासा-सम्भवेऽपि ब्राह्मणात्काणोऽन्यः काणाद्ब्राह्मणोऽन्य इति भेदबुद्ध्यभावेन ब्राह्मणोऽहं काण इत्येकदा ऐक्याध्यासः सम्भवतीति चेन्न । ब्राह्मणस्याक्षिकाणमिति काणब्राह्मणयोर्भेदस्यापि प्रत्यक्षत्वेन एवमप्यारोपस्यासम्भवात् । अत एव ‘येनाङ्गविकारः’ इत्यत्रायमक्ष्णा काण इति काशिकायामुदाहृतत्वेन ब्राह्मणकाणयोरपि भेदस्यैवावगमादित्यालोचनीयम् ।। त्वन्मत इति ।। भेदमात्रस्याध्यस्तत्ववादिनस्तव मत इत्यर्थः । जीवब्रह्मणोरिव देहात्मनोर्भेद-स्याप्यध्यस्तत्वेनेति पूर्वेणैव सम्बन्धः ।। अभेदाध्यासायोगादिति ।। अभेदस्य सत्यत्वं स्यादित्यर्थः । परस्परविरुद्धयोरिति न्यायादिति भावः । ननु भेदस्याध्यस्तत्वेऽप्यभेदोऽस्तु । उभयोरपि दृश्यत्वेन मिथ्यात्वात् । भेदाभेदयोर्मिथ्यात्वेऽप्येतावानेव विशेषोऽङ्गीक्रियते यदत्र देहात्मनोरभेदो व्यवहारकालीनेन परीक्षितप्रमाणभावेन व्यावृत्तत्वानुवृत्तत्वरूपानुमानादिना ब्रह्मज्ञानेतरेण बाध्यते । भेदस्तु ब्रह्मज्ञानरूपचरमवृत्येतीत्यत आह ।। मिथ्यात्वं हीत्याहुः ।। यद्वा तदेवोपपादयति ।। मिथ्यात्वं हीत्यादिना ।। शुक्तिज्ञानेन रूप्यमेव बाध्यते, न तु तदत्यन्ताभावः । एवं चाधिष्ठानभूतशुक्तिज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वं रूप्येऽ-स्तीत्यर्थः । नन्वत्यन्ताभावेऽधिष्ठानज्ञानाबाध्यत्वं कुतो विशेषणं दीयत इत्यत आह ।। तद्बाध्येति ।। अधिष्ठानज्ञानबाध्येत्यर्थः ।। सत्वेऽपीति ।। अत्यन्ताभावप्रतियोगिन इति शेषः । रूपवति घटे अधिष्ठानज्ञानबाध्यस्य रूपात्यन्ताभावस्य सत्वेऽपि प्रतियोगिनो रूपस्य सत्यत्वदर्शनेन जगतो ब्रह्मज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वं वाच्य-मित्यर्थः ।

ननु भेदमिथ्यात्वसिद्ध्यर्थं भेदात्यन्ताभावस्याधिष्ठानज्ञानाबाध्यत्वेऽपि अभेदस्याध्य-स्तत्वमस्तु । न ह्यभेदो भेदात्यन्ताभावः येनाधिष्ठानज्ञानाबाध्यतया सत्यः स्यादित्यतोऽभेदो भेदात्यन्ताभावो भवत्येवेत्याह ।। अभेदश्चेति ।। सत्यो न स्यादिति ।। परस्परविरुद्ध-योरिति न्यायादिति भावः । तथा च देहात्मभेदस्य मिथ्यात्वं वदताऽधिष्ठानभूतात्मज्ञाना-बाध्यात्यन्ताभावप्रतियोगित्वे वाच्येऽभेदस्य भेदात्यन्ताभावरूपत्वेनाधिष्ठानज्ञानाबाध्यत्व-प्राप्त्या देहात्माभेदस्य सत्यत्वमेव वाच्यमिति तस्याध्यस्तत्वोक्त्ययोग इति भावः । एतदुप-लक्षणम् । देहात्मनोरभेदस्याध्यस्तत्वं वदता अधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वे वाच्ये भेदस्याभेदात्यन्ताभावरूपत्वेनाधिष्ठान ज्ञानाबाध्यत्वप्राप्त्याऽभेदस्याध्यस्तत्वे कथं देहात्मनोर्भेदः सत्यो न स्यादिति भेदमात्रस्य मिथ्यात्वाङ्गीकारो न युक्त इत्यपि द्रष्टव्यम् ।

ननु भेदस्य मिथ्यात्वेऽपि अभेदस्य सत्यत्वं कुतः ? परस्परविरुद्धयोरिति न्यायादिति चेन्न । अयं न्यायो यत्र धर्मी सन् तत्रैव । न हि वन्ध्यासुतस्य श्यामत्वाभावे गौरत्वं सत्यम् एवं प्रकृते देहस्य रूप्यवत् स्वरूपेणैव बाध्यत्वात्तत्र भेदाभेदयोरुभयोरपि मिथ्यात्व-मेवेत्याशङ्क्य निराकरोति ।। न चेति ।।  स्वज्ञानेति ।। शुक्तिज्ञानाबाध्यस्येत्यर्थः । तत्र हेतुर्बाधगोचरस्येति । तथा च यथा रूप्यस्य स्वरूपेणैव शुक्तावध्यस्तत्वेऽपि तत्प्रतियोगिको भेदः शुक्तौ मिथ्याभूतो न दृष्टः अत्यन्ताभाववद्भेदेऽपि प्रतियोगिसत्वनियमाभावात् । एवं देहस्यापि स्वरूपेणाध्यासेऽपि आत्मनि तद्भेदोऽस्तु । तथा च देहस्य स्वरूपेणाध्य-स्तत्वात्तत्र भेदाभेदयोरुभयोरपि मिथ्यात्वमित्युक्तमसत् । एवं च तस्य मिथ्यात्वाङ्गीकारेऽ-भेदस्य सत्यत्वापादनं युक्तमेवेति भावः । कथं प्रमेत्यत आह ।। देहभेदयुत इति ।। तथा चाऽहं ब्राह्मण इत्यस्य ब्राह्मण्योपेतदेहवानित्यर्थो द्रष्टव्यः । आद्यश्लोकं व्याचष्टे ।। प्रतीयते हीति ।। श्लोके देहीत्येव प्रतीयत इत्युपलक्षणम् । इन्द्रियभेदोऽपि प्रतीयते । अतो नेन्द्रियैक्याध्यास इत्यपि द्रष्टव्यमित्याह ।। मम मन इत्यादि ।। द्वितीयकारिकां व्याचष्टे ।। आत्मनीति ।। देहभेदयुत इत्यस्यार्थमाह ।। देहविशेषेति ।। वेदाधिकारसम्पादकेत्यर्थः । भेदशब्दार्थो विशेषेति । युत इत्यस्यार्थो विशिष्ट इति । चेतन इत्यर्थः ।

नन्वन्ध इति चक्षूराहित्यरूपान्धत्वस्य देहधर्मत्वेन तस्यात्मन्यध्यासे देहैक्याध्यासोऽपि सिद्ध एवेत्यतः कारिकोक्तमुपलक्षणपरमित्याशयेनाह ।। अन्धोऽहमिति ।। कथं प्रमेत्यत आह ।। चक्षुःश्रोत्रादिहीनस्यैवेति ।। चक्षुःश्रोत्रादिरहितचेतनस्यैवेत्यर्थः । न तु देहस्ये-त्येवार्थः । शवदेहेऽन्धबधिरादिशब्दाप्रयोगादिति भावः । तृतीयकारिकां व्याचष्टे ।। कृशोऽह-मिति ।। सहेति ।। धर्मविशिष्टधर्मैक्यारोप इत्यर्थः ।। तेन विनैवेति ।। धर्मैक्याध्यासं विना धर्ममात्रारोप इत्यर्थः ।। उक्तत्वादिति ।। अहं गेहीतिवच्चाहं देहीत्येव प्रतीयत इति धर्मिभेदस्य प्रत्यक्षसिद्धत्वमुक्तमस्तीत्यर्थः ।। तद्वदेवेति ।। तत्र यथा रक्तः स्फटिकः कुसुमं रक्तमिति प्रतीतिद्वयमस्ति तथा देहः कृशः अहं कृश इति प्रतीतिद्वयाभावादित्यर्थः । ननु कृशोऽहं कृष्णोऽहमिति प्रतीतेः का गतिरित्यतो नात्र तथा प्रतीतिरस्ति किन्तु गौण-व्यवहारमात्रमित्याशयेनाह ।। कृशोऽहमिति ।। इत्यादिस्तु व्यवहार इति शेषः । कर्दमलिप्ते स्वस्मिन् ।

ननु पुत्रे कृशेऽहं कृश इति तथा कर्दमलिप्ते स्वस्मिन्नहं कृष्ण इत्येतन्न व्यवहारमात्रम् । किन्तु स्वस्मिन्कार्श्याद्यारोपरूपं ज्ञानमित्याशङ्क्य निराकरोति ।। न चायमिति ।। अन्यथेति ।। कृशोऽहमित्यादेर्गौणत्वमनङ्गीकृत्याध्यासत्वाङ्गीकारे मञ्चाः क्रोशन्ति मार्गा-श्चलन्ति चित्रभित्तिलिखिते सिंहेऽयं सिंह इत्यादिरपि लक्षणानामकवृत्त्यभावपक्षे व्यवहार-मात्रमेव न ज्ञानमित्यङ्गीकृतं, तदपि न स्यात् । तत्रापि मञ्चादौ क्रोशनाद्यध्यासस्य वक्तुं शक्यत्वादित्यर्थः । तत्र पुरुषभेदस्य मञ्चेषु स्पष्टत्वान्न तत्र क्रोशनाध्यास इति यदि तर्हि तत्प्रकृतेऽपि सममिति भावः । ननु पुत्रकार्श्यस्य स्वस्मिन्नध्यासाभावे कथं तेन दुःखं स्वस्य भवतीति चेत्तत्राह ।। पुत्रकार्श्येनेति ।। वैपरीत्यमाशङ्क्य निराकरोति ।। न चेति ।। शिलापुत्रिका पाषाणमयी प्रतिमा । तथा च पुत्रादिस्थितकार्श्यादिवत् अहं कृश इत्यादे-र्व्यवहारमात्रत्वाङ्गीकारे अयं शिलापुत्रिकाया देह इतिवत् मम देह इत्ययमपि गौणो व्यवहार एव स्यान्न प्रतीतिरित्यर्थः । एकत्र मुख्यत्वेन क्लृप्तस्यैवान्यत्राप्यसति बाधके मुख्यत्वमेव कल्प्यं, गौणत्वेनैकत्र क्लृप्तस्य चान्यत्राप्यसति बाधके गौणत्वमेवेत्याह ।। ममेति ।। इत्यस्य प्रयोगस्य मुख्यतायाः क्लृप्तत्वात् इतरजन्यव्यवहारेऽपि मुख्यत्वमित्यर्थः । पुत्रकार्श्ये पुत्रे कृशे सति क्रियमाणोऽहं कृश इत्यादिव्यवहार इत्यर्थः ।

ननु शिलापुत्रिकाया देह इत्यत्र गौणत्वदर्शनादत्रापि तथाऽस्त्विति चेत् भ्रान्तोऽसि । यदि तत्र शिलापुत्रिकाया मम देह इति प्रतीतिः स्यात् तदैव मम देह इति प्रतीतेरपि गौणत्वं कल्पयामः । न चैवम् । तस्य जडत्वेन मम देह इति तस्याः प्रतीत्यभावात् । अयं शिला-पुत्रिकाया देह इत्येव हि व्यवहार इति भावः ।। तत्रेति ।। विवेकिनां व्यवहारे पुत्रकार्श्येन क्रियमाणव्यवहारे चेत्यर्थः । अतस्तत्र मुख्यामुख्ये इति शेषः ।। तथेति ।। भेदधीः स्पष्टेत्यर्थः । तदेवोपपादयति ।। पश्वादीनामिति ।। जातमात्रा एव, न व्यापारान्तरं कृतवन्तः अस्मिन्जन्मनि व्याप्त्यनुसन्धानरहिता इत्यर्थः ।। यथेदमिति ।। प्राग्भवे मत्कृत-स्तनपानमित्यर्थः ।। यथेदमिति ।। प्राग्भवे मत्कृतनेत्रान्तःकण्डूयनमित्यर्थः ।। न देहान्त-रास्मृतौ युक्तेति ।। स्वीयदेहान्तरेत्यर्थः । तथा च यथेदमिति दृष्टान्तस्मरणस्य सामानाधि-करण्यरूपव्याप्तिस्मरणस्य च प्राचीनस्वीयशरीरान्तरस्मरणं विनाऽयोगेन स्वात्मनस्ततो भेदसिद्धिरिति भावः । ततो भेदधीरेव प्रत्यक्षेण भवतीति शेषः । नप्तॄन् पौत्रपुत्रान् । अनुसन्दधानः प्रत्यभिजानन् । ततो देहात् ।। विरुद्धधर्मेति ।। व्यावृत्तत्वानुवृत्तत्व-रूपविरुद्धधर्मेत्यर्थः ।

अयं भावः । यदुक्तमनेकमणिष्वनुस्यूतसूत्रमिवानेकदेहेष्वनुस्यूतमात्मानं पश्यतः योऽहं बाल्य इति प्रत्यभिज्ञावतश्च ततो भेदधीरेवेति तदयुक्तम् । मम देह इत्यस्या प्रतीते-र्व्यावृत्तत्वानुवृत्तत्वरूपविरुद्धधर्माधिकरणत्वरूपलिङ्गजत्वेन परोक्षतया कृशोऽहमित्यादि-देहात्मैक्यापरोक्षभ्रमनिवर्तकत्वं नास्ति । श्वेतत्वानुमितेः पैत्यापरोक्षभ्रमनिवर्तकत्वादर्शनादिति ।। प्रत्यक्षे धर्मिणीति ।। भेदकधर्मसाक्षात्कारोपपादनायेदम् । अयमत्र सम्प्रदायैकगम्यो विशेषः । प्रत्यक्षे धर्मिणि भेदकविरुद्धधर्मसाक्षात्कारो भेदसाक्षात्कारनियत एव कुत इति चेत् समाने विषयेऽनुमितिसामग्रीतः प्रत्यक्षसामग््रयाः प्रबलत्वात् । यथा हि प्रत्यक्षे धर्मिणि ऊर्ध्वपदार्थे पुरुषत्वव्याप्यकरादिमानयमिति परामर्शः पुरुषत्वानुमितिसामग्री तत्प्रत्यक्षसामग्री च भवति । तत्र किं पुरुषत्वानुमित्योत्पत्तव्यं उत पुरुषत्वप्रत्यक्षेणेति विचारे पुरुषत्व-रूपैकविषय एव प्रवृत्तयोरनुमितिप्रत्यक्षसामग््रयोर्मध्येऽनुमितिसामग्रीतः प्रत्यक्षसामग््रया बल-वत्त्वात् प्रत्यक्षमेवोत्पद्यते न त्वनुमितिः । वह्निव्याप्यधूमवानिति परामर्शः स्वानुव्यवसायरूप प्रत्यक्षसामग्री भवति वन्ह्यनुमितिसामग्री च । तत्र परामर्शवह्निरूपभिन्नविषये प्रवर्तमानयोः सामग््रयोर्मध्येऽनुमितिसामग््रया बलवत्त्वादनुमितिरेवोत्पद्यते न परामर्शप्रत्यक्षम् ।

नन्वेवं पुरुषत्वव्याप्यकरादिमानयमिति परामर्शः स्वप्रत्यक्षसामग्री अनुमितिसामग्री च भवतीति भिन्नविषयत्वसद्भावात्पुरुषत्वानुमितिरेव स्यादिति चेन्न । प्रत्यक्षसामग््रयाः प्रतिबन्धकत्वेनानुमित्यजननादित्याद्यालोचनीयम् । एवं च प्रत्यक्षे देहात्मरूपे धर्मिणि व्यावृत्तत्वानुवृत्तत्वरूपभेदकधर्मसाक्षात्कारस्य भेदप्रत्यक्षसामग्रीत्वाद्भेदसाक्षात्कार एव जायत इति अपरोक्षैक्यभ्रमविरोधित्वमेवेति भावः । ‘अज्ञता चाल्पशक्तिश्च दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगा’ इत्यत्र सार्वज्ञ्यादिगुणविरुद्धमज्ञत्वादिगुणजातं स्वात्म-न्यनुभवंस्ततो भेदं प्रत्येत्येव । तत्रापि प्रत्यक्षे धर्मिणि भेदकधर्मसाक्षात्कारस्य भेद-साक्षात्कारव्याप्यत्वादितीदमेवोपपादनं द्रष्टव्यम् ।। इह चेति ।। व्यावृत्तत्वेन धीस्थो यः स्वदेहादिः तद्भेदकस्येत्यर्थः । तथा च तद्व्याप्य आत्मनि देहभेदोऽपि प्रत्यक्षसिद्ध इति भावः । अस्तु वा भेदसाक्षात्काराभावः । तथापि केवलं व्यावर्तकधर्मसाक्षात्कार एव देहात्मैक्यापरोक्षभ्रमविरोधी भेदव्यवहारस्यौपचारिकत्वविरोधी च भविष्यतीत्याह ।। व्यावर्त-केति ।। यद्धीर्यत्र प्रतिबन्धिका तत्सामग््रयपि तत्र प्रतिबन्धिकेति न्यायादिति भावः । ननु न विरोधिधर्मसाक्षात्कारस्य भ्रमविरोधित्वम् । भ्रमविरोधिभूतोर्ध्वाग्रत्वादि रूपवृक्षत्व-साक्षात्कारेऽपि अधोऽग्रत्वादिभ्रमानुवृत्तिरेवास्ति । अतस्तद्वदस्यापि सोपाधिकभ्रमत्वा-द्व्यावर्तकधर्मसाक्षात्कारमात्रस्य नैक्यभ्रमविरोधित्वमित्याशङ्क्य निराकरोति ।। न चेति ।। अयं कृशोऽहं ब्राह्मणोऽहमित्यादिः प्रकृतः । प्रतीतिद्वयाभावादिति केचित् । सम्प्रदायस्तु ‘ब्राह्मणोऽहं मनुष्योऽहमित्यादिस्तु प्रमैव नः । देहभेदयुतो यस्माद्ब्राह्मणादि पदोदितः’ इत्युक्तरीत्याऽयं भ्रम एव न भवति । दूरे सोपाधिकत्वमिति भावः ।

ननु सोपाधिकत्वभ्रमस्थले विरोधिसाक्षात्कारेऽपि भ्रमानृवृत्तेस्तन्निवृत्तिः कदेति चेत् उपाधिनिवृत्तिसचिवाधिष्ठानसाक्षात्कार एवेति वदामः जलाद्युपाधिनाशे सति वृक्षाधोऽऽ-ग्रहत्वादिभ्रमनिवृत्तेरनुभवसिद्धत्वादित्यवधेयम् ।। श्रुतिरुक्तेति ।। देहैक्याध्याससद्भावे ‘ब्राह्मणो यजेत’ इति या श्रुतिरुक्तेत्यर्थः । लक्षणया ब्राह्मणशब्दार्थ इति सम्बन्धः । तदर्थः ब्राह्मणशब्दार्थः ।। लक्षणेति ।। लक्षणाया अयोगादित्यर्थः । ‘न विधौ परः शब्दार्थः’ इति वचनात् ‘ब्राह्मणो यजेत’ इत्यस्यापि विधिवाक्यत्वेन तत्र लक्षणया व्याख्यानायोगादिति भावः । ब्राह्मणदेहैक्याध्यासवतो यागाधिकारित्वस्यैतत् श्रुत्यर्थत्वे दूषणमाह ।। त्वयेति ।। विकलेषु व्यङ्गेषु सकलेषु दृढाङ्गेषु सत्सु ।। भाषितत्वेनेति ।। भाष्ये उक्तत्वेनेत्यर्थः ।। भृत्यमित्रादाविति ।। अत्याप्ते सकले विकले वाऽहमेव सकल इत्याद्यध्याससद्भावादित्यर्थः । मित्रग्रहणस्य उत्तरादिप्रसङ्गकथने उपयोगः ।। शूद्रस्वामिन इति ।। शूद्रं प्रति स्वामिनः, शूद्रभृत्यकस्येत्यर्थः । तथा च ब्राह्मणदेहैक्याध्यासवतो यागाधिकारित्वे शूद्रदेहैक्याध्यासवतो ब्राह्मणस्यानधिकारापाता च्चेत्यर्थः ।। ब्राह्मणादीति ।। ब्राह्मणादिवर्णत्रयं मित्रं यस्येत्यर्थः । तत्रापि ब्राह्मणादिदेहे व्यङ्गे साङ्गे वाऽहमेव व्यङ्ग इत्याद्यध्यासेन ब्राह्मणदेहैक्याध्याससद्भावा-द्ब्राह्मणमित्रस्य शूद्रस्याप्यधिकारापातादिति भावः । तदर्थः ब्राह्मणशब्दार्थः । भृत्यमित्रादि-देहानां स्वकर्मार्जितत्वाभावान्नोक्तातिप्रसङ्गं इति भावः ।। आवश्यकत्वेनेति ।। देहैक्या-ध्यासस्यैवाधिकारप्रयोजकत्वं वदतोऽपि कर्मण आवशक्यत्वादित्यर्थः ।। आर्जनस्यैवेति ।। तथा च स्वकर्मणा देहविशेषार्जनवानेव ब्राह्मणशब्दार्थो न त्वैक्याध्यासोऽपीत्यर्थः । ततश्च नेयं श्रुतिरध्यासे मानमिति भावः ।। देहैक्येति ।। सुप्तस्य ज्ञानमात्रविलोपेन ब्राह्मणादि-देहैक्याध्यासस्याभावात् तथा जीवन्मुक्तस्य देहात्मविवेकसद्भावेनारोपितब्राह्मण्यस्याभावेन सुप्तजीवन्मुक्तयोः शिरश्छेदे ब्रह्महत्यादिमहापातकाभावप्रसङ्ग इति भावः ।। कदाचिदिति ।। तथा च कदाचिदैक्याध्यासवत एव ब्राह्मणशब्दार्थत्वेन सुप्तजीवन्मुक्तयोरपि कदाचि-दैक्याध्याससद्भावेन ब्राह्मण्यसद्भावेन निषेधविषयत्वसम्भवान्नोक्तातिप्रसङ्ग इति भावः ।। नष्टेति ।। ‘मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् । तत्काल एव चण्डालो ब्राह्मणो ब्रह्महत्यया’ इति मनुस्मरणादित्यर्थः ।। आपातादिति ।। महापातकाभावदशायां अध्यास-सद्भावादित्यर्थः ।। जन्मारभ्येति ।। तस्य जन्मारभ्य देहात्मभेदज्ञानित्वेन अधिकारप्रयोज-कस्य कदाचिदध्यासस्याप्यभावेन तद्धनने प्रत्यवायाभावापातादिति भावः । अत एवेत्युक्तमेव विशदयति ।। संयोगस्येति ।। ब्राह्मणादिदेहविशेषसम्बन्धस्यान्यस्यासम्भवादध्यास रूप एव स इत्यधिकारप्रयोजकीभूतः सम्बन्धोऽध्यासरूप एव नान्य इत्युक्तम् । तत्राध्यासाति-रिक्तोऽन्य एव सम्बन्धः सम्भवतीत्याशयेन परिशेषं करोति ।। संयोगस्येति ।। सर्वेषु देहेषु शूद्रादिदेहेषु । ततश्च शूद्रादेरप्यधिकारापात इति भावः ।। स्वेति ।। तस्य द्विष्ठत्वेन भृत्यदेहेऽपि सत्वेन तस्याप्यधिकारापात इति भावः ।। इच्छेति ।। स्वेच्छानुसारित्व-रूपसम्बन्धस्येत्यर्थः ।। आतुरादिति ।। ब्राह्मणानामातुरतादशायां देहस्येच्छानुसारिता-भावेनानधिकारापातादिति भावः । न चातुराणां विधिनिषेधविषयत्वमेव नास्तीतीष्टापत्तिरिति वाच्यम् । तथात्वे तद्धनने प्रत्यवायाभावापातात् । तथा ‘स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुजित् । आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । गुणानां स्मरणाशक्तौ विष्णोर्ब्रह्मत्वमेव तु । स्मर्तव्यं सततं तत्तु न कदाचित्परित्यजेत्’ इत्यादि वचनेन तस्यापि विष्णुस्मरणादिविधिविषयत्वेन तत्राधिकारसद्भावात्तद्देहस्य चेच्छाननुसारित्वेनाधिकारप्रयोजक-सम्बन्धाभावादनधिकारापात इति विशेषो द्रष्टव्यः । साक्षादित्यादेः सम्भवादित्यनेनान्वयः । स्वस्वामिभावसम्बन्धस्य भृत्यदेहेऽपि सत्वेन साक्षादित्युक्तम् । देहान्तस्थ आत्मा स्वदेहं प्रत्येव साक्षात्स्वामी । भृत्यादिदेहं प्रति तु तस्य स्वदेहानुकूलतया स्वदेहद्वारैव सम्बन्धो न साक्षादिति भावः ।। तदिन्द्रियेति ।। तज्ज्ञानजनकेन्द्रियाश्रयत्वं देहस्यास्तीत्यर्थः । शरीर-द्वारा प्रयत्नजन्यचेष्टादिक्रियाश्रयत्वस्य घटादावपि सत्वात्साक्षादित्युक्तम् । स्वशरीरस्यैव साक्षात्प्रयत्नजन्यक्रियाश्रयत्वं नान्यस्येति भावः ।। सम्बन्धान्तरस्येति ।। इदं च साक्षात्स्वस्वामिभावादिसम्बन्धपञ्चकं न भृत्यदेहातिप्रसक्तम् । आतुरादिदेहसाधारण-सम्बन्धान्तरमेवाधिकारप्रयोजकमस्तीति नाध्यस्तत्वं देहात्मनोः सम्बन्ध इति भावः । सम्बन्धान्तरं वदद्भिरपि नाध्यासरूपः सम्बन्धः त्यक्तुं शक्यते । तथाहि साक्षात्प्रयत्नजन्य-क्रियाश्रयत्वं सम्बन्ध इत्युक्तम् । तत्र प्रयत्नस्य साक्षादेतदीयत्वमेव कुत इति शङ्कायां प्रयत्नात्मनोरैक्यभ्रम एव सम्बन्ध इति वक्तत्वमिति चेन्न । प्रयत्नात्मनोरैक्याध्यसाङ्गीकारेऽहं कृतिरिति प्रतीत्यापत्तेरित्याह ।। न चेति ।। किञ्च प्रयत्नादावपि नात्मैक्यभ्रम एव सम्बन्धः किन्त्वित्यत आह ।। आत्मेति ।। तार्किकादिरीत्येति शेषः । समवायानङ्गीकारिवादि-मतेनाह ।। अयुतसिद्धेर्वेति ।। अङ्गुलीद्वयवद्भेदेनानुपलभ्यमानत्वस्येत्यर्थः । तादात्म्यस्येति यावत् । अस्मदभिप्रेत एव तादृशसम्बन्धे तार्किकाणां समवायसंज्ञेति द्रष्टव्यम् । ननु साक्षात्स्वस्वामिभावादिपञ्चकेऽपि साक्षात्स्वस्वामिभावः तदिन्द्रियाश्रयत्वादिकं वाऽस्यैव देहस्य कुतः । भृत्यदेहादावपि किं न स्यादित्यतिप्रसङ्गशङ्कायां तत्र मूलसम्बन्धतया ऐक्याध्यास एव वाच्य इति चेन्न । देहैक्याध्यासेऽपि किं मूलमिति शङ्कायां स्वस्वामिभावादिसम्बन्धस्यैव मूलत्वोपपत्तेरिति वैपरीत्यस्यापि वक्तुं शक्यत्वात् इत्याह ।। न चेति ।। किञ्च स्वस्वामि-भावादिसम्बन्धचतुष्टये तत्कर्मार्जितत्वमेव मूलसम्बन्धोऽस्त्वित्याह ।। तत्कर्मेति ।। तदीय-कर्मेत्यर्थः ।

ननु देहस्य तदीयत्वे यदि तत्कर्मार्जितत्वं मूलसम्बन्धस्तदा कर्मणामेतदीयत्वं कुत इति पृष्टे तदीयशरीरजन्यत्वादिति वाच्यम् । एवं च शरीरस्यैतदीयत्वे सिद्धे कर्मणामेतदीयत्व-सिद्ध्या तत्कर्मार्जितत्वरूपमूलसम्बन्धसिद्धिस्तत्सिद्धौ च शरीरस्य तदीयत्वसिद्धिरित्य-न्योन्याश्रयः स्यादित्यत आह ।। कर्मणामिति ।। इदानीन्तनकर्मणां तदीयत्वस्य तदीय-पूर्वकर्माधीनत्वात् तदीयपूर्वप्रयत्नजन्यत्वादुपपत्तेः पूर्वकर्मपूर्वप्रयत्नयोरपि तदीयत्वं तत्पूर्व-कर्मतत्पूर्वप्रयत्नाधीनमित्यङ्गीकारात् । न चैवमनवस्था प्रामाणिकत्वादित्याशयेनोक्तमनादीति । यथोक्तं भगवता सूत्रकारेण ‘न कर्माविभागादिति चेन्नानादित्वात्’ इति ।

ननु तत्कर्मार्जितत्वं शरीरस्य तदीयत्वे मूलसम्बन्ध इत्युक्तमयुक्तम् । ‘पुत्रकामः पुत्र-कामेष्ट्या यजेत’ इति वचनात् पुत्रकामेष्टिरूपं यत्पितृकर्म तत् पुत्रशरीरार्जकं भवति । तत्र पुत्रशरीरे पितृकर्मार्जितत्वसद्भावेऽपि पुत्रशरीरस्य पुत्रीयत्वेन पित्रीयत्वाभावाद्व्यभिचार इत्यत आह ।। पुत्रकामेष्टीति ।। अयमर्थः । पुत्रकामेष्टिरूपं यत्पितृकर्म तदार्जितं पुत्रशरीरं न भवति । किन्तु स्वकीयकर्मार्जितमेव । अतो हेतोरेवाभावान्न व्यभिचारः । तर्हि पुत्रकामेष्टि-कर्मणो वैयर्थ्यमापन्नमिति चेन्न । पुत्रकर्मणा उत्पन्ने पुत्रे पित्रीयत्वरूपो यः पितृसम्बन्धस्तन्मात्रार्जकत्वाङ्गीकारात् । तत्र दृष्टान्तो ग्रामकामेष्टिवदिति । यथा ‘ग्रामकाम इष्टिं कुर्यात्’ इति श्रूयते तत्र ग्रामकामेष्टिफलं न ग्रामोत्पत्तिः । तस्य एतदीयेष्टितः पूर्वमेव सिद्धत्वात् किन्तु सिद्धे ग्रामे एतदीयत्वमात्रं इष्टिफलमिति मीमांसकैः सिद्धान्तितत्वेनेहापि स्वकर्मणैव सिद्धे पुत्रशरीरे एतदीयत्वमात्रस्यैव पुत्रकामेष्टिफलत्वोपपत्तेः । अन्यथा ग्रामो-त्पत्तेरेव ग्रामकामेष्टिफलत्वापत्तेरिति । अत्र यद्यपि ग्रामादेः स्वतःसिद्धत्वेन तत्स्वामित्वमेव तत्रेष्ट्या जायते इह तु पुत्रशरीरस्य पुत्रकामेष्टिं तदीयं कर्म च विनाऽनुपपत्त्या पुत्रशरीरस्य तदीयत्वस्य चेत्युभयस्यापि पुत्रकामेष्टिफलत्वादिति सुपरिहरमेव दूषणम् । तथापि प्रौढि-वादेनेदं दूषणमुक्तमिति ज्ञातव्यम् ।। तस्येति ।। देहविशेषस्यैव श्रौतब्राह्मणशब्दार्थत्वेन तस्यैव नियोज्यत्वप्राप्तेः । न चेष्टापत्तिः तस्य जडत्वेनानियोज्यत्वादिति भावः । किञ्च देहविशेषस्यैव ब्राह्मणशब्दार्थत्वे लौकिकप्रयोगविरोधश्चेत्याह ।। विशेषेति ।। युक्ते चेतन इति शेषः ।। प्रयोगेणेति ।। अयं देही ब्राह्मण इति प्रयोगादित्यर्थः ।। अतदर्थत्वादिति ।। ब्राह्मणशब्दार्थत्वाभावादिति भावः ।। एतेनेति ।। ब्राह्मणो यजेतेति विधिनिषेधात्मक-शास्त्रस्याध्यासमूलकत्वस्य दूषितत्वेनेत्यर्थः । देहात्मैक्याध्यासाभावे प्रमातृत्वाद्यदर्शनात् तदन्यथानुपपत्तिश्च देहात्मैक्याध्यासे मानमित्युक्तमाशङ्क्य निराकरोति ।। नापीति ।। कुतो नेत्यत आह ।। तदभावेऽपीति ।। प्रमातृत्वस्याध्यासमूलकत्वे सुषुप्तावध्यासाभावेन न किञ्चिदवेदिषमिति परामर्शसिद्धाज्ञानप्रमातृत्वमात्मनोऽनुपपन्नं स्यादित्यर्थः । किञ्च प्रमातृत्वादावपि पूर्वमस्मदुक्तं यत् तत्कर्मार्जितत्वं तदेव प्रयोजकम् जाग्रदादौ घटादि-प्रमातृत्वदशायां तस्य सत्वात् । न देहात्मैक्याध्यासः प्रमातृत्वापेक्षया नियतपूर्वक्षणे ब्राह्मणोऽहमित्याद्यैक्याध्यासनियमाननुभवादित्याह ।। जागरणादावपीति ।। अवस्थात्रयेऽ-पीत्यर्थः । त्वदुक्तं तु नावस्थात्रयगतं प्रमातृत्वं प्रति साधारण्येन प्रयोजकमिति भावः ।। एतेनेति ।। सुषुप्तौ देहैक्याध्यासाभावेऽपि अज्ञानप्रमातृत्वसद्भावे नाध्यासस्य प्रमातृत्व-प्रयोजकत्वाभावादिति भावः ।

नन्वेवं महता प्रबन्धेन देहात्मभेदस्य प्रत्यक्षत्वोपपादनमयुक्तम् । तथात्वे चार्वाकादे-र्देहैक्यसाक्षात्कारो न स्यात् । तथा च तन्मूलकः संसारस्तेषां न स्यादित्यत आह ।। चार्वाकादेस्त्विति ।। भ्रमेऽनुमितिरूप इत्यर्थः । तथा च तेषामपि देहात्मभेदसाक्षात्कार एवास्ति । देहात्मैक्यज्ञानं तु न प्रत्यक्षजन्यं किन्तु परिदृश्यमानो देह एवात्मा तद्व्यति-रेकेणादर्शनात् यन्नोपलभ्यते तन्नास्तीत्याद्यनुमानाभासजन्यमेव । तत्र च प्रत्यक्षत्वाभि-मानस्तेषाम् । यथाहि आनुमानिकार्थप्रतियोगिकतयाऽनुमानवेद्ये धर्माद्यभावे प्रत्यक्षत्वाभि-मानस्तेषामस्ति तद्वदित्यर्थः । ननु भवद्रीत्या तेषामपि देहात्मभेदसाक्षात्कारसत्वे लैङ्गिकमपि तदभेदज्ञानं चार्वाकस्य कथमुत्पद्यत इति चेत् सन् घट इत्यादिसत्यताग्राहिप्रत्यक्षसद्भावेऽपि यथा दृश्यत्वादिना तव मिथ्यात्वधीस्तथेति गृहाण । ननु चार्वाकस्यानुमानममानमिति कथ-मनुमानादिना तस्य देहात्मैक्यज्ञानं जायत इति चेन्न । तन्मतेऽनादिसम्भावनाया एवानु-मानस्थानीयत्वात् । यथाह ‘धूमादिज्ञानानन्तरं वह्न्यादौ प्रवृत्तिश्च सम्भावनामात्रात्’ इति ।

ननु प्रत्यक्षैकप्रामाण्यवादिना तेन सम्भवाना वा कथं प्रमाणतयाङ्गीकृतमिति चेन्न । सम्भावनापि न तन्मते प्रमाणम् । किंनामोत्कटकोटिकः संशय एव । संशयस्तु न प्रमाणमिति तदङ्गीकारादित्यालोचनीयम् । ननु देहात्मैक्याध्यासाभावे देहानुकूले रागस्तत्प्रतिकूले च द्वेषोऽनुभवसिद्धो न स्यात् । न चेष्टापत्तिरिति वाच्यं तथात्वे संसाराभावप्रसङ्गात् तस्यैव च संसारहेतुत्वादिति चेन्न । पुत्रानुकूलप्रतिकूलयोः पितूरागद्वेषवत्परमप्रेमास्पदत्वेनोपपत्तेः । न हि पितुः पुत्रशरीरस्वदेहैक्याध्यासोऽस्तीत्याशयेनाह ।। संसारहेतुरिति ।। ननु प्रेमा-स्पदात्मैक्यारोपादेव देहस्य प्रेमास्पदत्वमपीति चेन्न स्वस्वभोगायतनत्वादिनाऽ न्यथैवोपपत्ते-रिति ध्येयम् । ननु देहात्मैक्याध्यासाभावेऽङ्गुल्या स्वहृदयदेशं निर्दिश्यायमहमित्युक्तिर्न स्यात् । अस्ति चासौ । अतस्तदन्यथानुपपत्त्या देहात्मैक्याध्याससिद्धिरित्यतस्तदुक्तेरन्यथासिद्धिं दर्शयति ।। अङ्गुल्येति ।। अङ्गारमिति ।। यद्यप्यङ्गारो वह्निः ‘यथाऽङ्गारानपोह्य भस्मनि जुहुयात्’ इति प्रयोगात् । तथापि प्रकृते तदसम्भवात् अत्राऽङ्गारशब्देनाङ्गारव्याप्तं काष्ठं ग्राह्यम् ।। पृथगिति ।। यथा काष्ठव्याप्तो वह्निः काष्ठाद्भेदेन विविच्य प्रदर्शयितुं न शक्यते एवं देहाद्विविच्यात्मनः पृथग्दर्शयितुमशक्यत्वादेव तदुक्तिर्न तु देहात्मैक्याध्यासादित्यर्थः । ननु लोकानां देहात्मैक्याध्यासाभावे ‘तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण’ इति काठके तं जीवं स्वात् स्वकीयात् शरीरात् प्रवृहेत् विविच्य जानीयादिति देहात्मभेदो विधीयते । भेदस्य चैक्यनिषेधरूपत्वात् देहात्मैक्याध्यासाभावे श्रुतेरप्रसक्तप्रतिषेधकत्वापत्तिः । तथा ‘ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वशृृगाल भक्ष्य’ इत्यादिस्मृतीनामप्य प्रसक्तप्रतिषेधकत्वापत्तिः । ममाहमिति धीप्रसक्तेरेवाभावात् । अतो देहात्मैक्याध्यास एवास्ति न तद्भेदप्रत्यक्षमित्याशङ्क्याह ।। श्रुतिष्विति ।। बहुवचनमाद्यर्थे । श्रुतिस्मृत्यादि-ष्वित्यर्थः । देहात्मैक्यनिषेधोऽपि चार्वाकादिवादिप्राप्तत्वादुपपद्यते । तेषां तत्प्राप्तिश्चानुमाना भासादित्युक्तमेव ।

ननु वादिप्राप्तनिषेधकत्वं श्रुतेः कुत्र दृष्टमित्यत उक्तम् ।। असत्कारणत्वेति ।। ‘कुतस्तु खलु सोम्यैवं स्यात्कथमसतः सज्जायेत’ इति श्रुत्या श्रून्यवादिप्राप्तमसत्कारणत्वं निषिध्यते । तद्वदित्यर्थः । समयानामपि प्रवाहतोऽनादित्वान्नात्र कश्चित्क्षुद्रोपद्रवः । किञ्च ‘स्वाच्छरीरात्प्रवृहेत्’ इत्यस्य स्फुटतरं विविच्य जानीयादित्यर्थः । तथा स्मृतेरपि ‘एषां ममाहमिति धीर्नास्ति स्फुटतरविवेकाभावज्ञानं नास्ति किन्तु स्फुटतरविवेकज्ञानमेवास्तीति यावत् ते वै विदन्ति’ इत्येवार्थः । तथा च श्रुतिषु देहात्मैक्यनिषेधः स्फुटतरभेदाभावज्ञानस्य प्रसक्तत्वाद्युज्यत इत्याशयेनाह ।। व्यवहारपर्यन्तमिति ।। श्रुतिषु देहात्मैक्यनिषेध इत्यन्वयः । ननु प्रत्यक्षतो भेदज्ञानसद्भावे तत एव व्यवहारोऽपि किं न स्यादित्यत आह ।। दृश्यन्ते हीति ।। अङ्गारवह्निवत् काष्ठव्याप्तवह्निवत् । ननु ज्ञानमेव व्यवहारकारणं तच्चेदस्ति कथं तर्हि व्यवहारेष्वपाटवमित्यत आह ।। न हीति ।। यथाऽनुभवानुसारेण यमलयोर्भेदं पश्यन्तो मात्रादयः कथमेतौ भिन्नाववगन्तव्याविति पृष्टाः सन्त एवमिति स्वप्रत्यक्षानुसारेण न परान्प्रति प्रतिपादयितुं क्षमन्त इत्यनुभवसिद्धमित्यर्थः । उत्तरप्रबन्ध-मुपक्षिपन् देहात्मैक्याध्यासनिराकरणमुपसंहरति ।। तस्मादिति ।। देहादेः सर्वस्य जगतः ।

न्यायकल्पलता

अहमर्थस्यानात्मत्वे अहं काण इत्यादिप्रत्यक्षमात्मनीन्द्रियाद्यैक्याध्यासे प्रमाणमिति भवदुक्तमयुक्तं स्यादित्यभिसन्धायैक्याध्यासं प्रस्तौति ।। यच्चोच्यत इत्यादिना ।।   ब्राह्मणाद्याश्रयशरीरस्य जडत्वेनानियोज्यतया तदैक्याध्यासवन्तमात्मानं नियुञ्जाना श्रुतिश्च मानमित्यभिसन्धायोक्तं ब्राह्मण इति ।। प्रस्तावितं दूषयति ।। त्वन्मत इति ।। नन्वह-मर्थस्य द्व्यंशत्वेन कर्तृत्वविशिष्टान्तःकरणस्येव काणत्वादिविशिष्टेन्द्रिया देरप्यात्मन्यध्यास-स्सम्भविष्यतीति चेन्न । चित्काणेति कदाप्यप्रतीत्याऽहमर्थ एव तदारोपस्य वक्तव्यत्वात्तस्य चानात्मत्वात् ।। देहेति ।। ननु चन्द्रपरिमाणप्रत्यक्षस्येव देहात्मैक्यप्रत्यक्षस्यापि परीक्षितानुमानादिबाधकं स्यादिति शङ्कामपाकर्तुमुक्तं मुक्तत्वेनेति । चन्द्रपरिमाणग्राहि-प्रत्यक्षस्य दूरादिदोषेण स्वार्थनिश्चयपराङ्मुखस्य युक्तोऽन्येन बाधः । इह तु न तथेति वैषम्यमिति ।। परस्परमिति ।। भिन्नत्वेन निश्चितयोर्वङ्गरजतयोरेकदैकशुक्ति कायामारोपा-दर्शनादित्यर्थः ।

ननु देहादिन्द्रियमन्यदिन्द्रियाद्देहोऽन्य इति भेदबुद्ध्या देहोऽहमिन्द्रियमित्यैक्याध्यासा-सम्भवेऽपि ब्राह्मणात्काणोऽन्यः काणाद्ब्राह्मणोऽन्य इति भेदबुद्ध्यभावेन ब्राह्मणोऽहं काण इत्यैक्याध्याससम्भवति । समानप्रकारकभेदधिय एव विरोधित्वादिति मैवम् । ब्राह्मण-स्याक्षिकाणमिति काणब्राह्मणभेदस्यापि प्रत्यक्षत्वात् । येनाङ्गविकार इति सूत्रे तथोदाहृत-त्वाच्च ।। त्वन्मत इति ।। भेदमात्रस्याध्यस्तत्ववादिन इत्यर्थः । ननु भेदस्याध्य-स्तत्वेऽप्यभेदोऽप्यध्यस्तोऽस्तु । उभयोरपि दृश्यत्वेन मिथ्यात्वात् । इयांस्तु विशेषः । यदत्राभेदो व्यवहारकालीनेन परीक्षितप्रमाणभावेनानुमानादिना बाध्यते भेदस्तु देहात्मनोर्न तेन । किं तु चरमवृत्त्येतीत्यत आह ।। मिथ्यात्वं हीति ।। ननु यथाकथञ्चि-दत्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वमस्त्वित्यत आह ।। तद्बाध्येति ।। अधिष्ठानज्ञान-बाध्येत्यर्थः । रूपवति घटे घटज्ञानबाध्यरूपात्यन्ताभावसत्त्वेऽपि रूपस्य सत्यत्वादिति भावः । ननु भेदमिथ्यात्वसिद्ध्यर्थं भेदात्यन्ताभावस्याधिष्ठान ज्ञानाबाध्यत्वेऽप्यभेदस्याध्य-स्तत्वमस्त्वित्यत आह ।। अभेदश्चेति ।। अध्यस्तादपीति ।। अत्यन्ताभाववद्भेदेऽपि प्रतियोगिसत्त्वनियमाभावादिति भावः । देहेन्द्रियादीनां परस्परं भेदप्रत्ययान्न तदात्माभेदप्रत्यय इत्युक्तम् । सम्प्रति देहात्मनोर्भेदावगमान्न तदैक्याध्यास इत्याह ।। किं चेति ।। किं देहत्वेन देहात्मैक्यारोप उत ब्राह्मणत्वादिना । आद्ये दोषमाह ।। अहं गेहीवदिति ।। द्वितीयं प्रत्याह ।। ब्राह्मणोऽहमिति ।।  प्रमात्वान्नायमारोप इत्यर्थः ।

ननु देहब्राह्मणयोः सामान्यविशेषरूपत्वमेवास्त्वित्यत आह ।। न त्विति ।। सामान्यविशेषरूपत्वाभावे यथा देही ब्राह्मण  इति प्रमाणं नास्ति तथा देहो ब्राह्मण इति सामान्यविशेषरूपत्वे प्रमाणं नास्तीत्यर्थः ।। देहभेदेति ।। देहविशेषविशिष्टात्माब्राह्मण-पदार्थः । केचिन्मत्वर्थीयाच् प्रत्ययान्तत्वमाश्रित्य समादधुः । ननु ब्राह्मणत्वादेर्देहविशेष-विशिष्टात्मवृत्तित्वे तस्य चाक्षुषत्वं न स्यात् । देहविशिष्टात्मनोऽचाक्षुषत्वात् । न चैकदेशस्य चक्षुर्गम्यत्वाद्विशिष्टगतधर्मश्चक्षुषा गृह्यते इति वाच्यम् । विशिष्टवृत्तेरुभययोग्यतायामेव योग्यत्वनियमादिति मैवम् । अतीन्द्रियनानापदार्थघटितव्याप्त्यादेरिव ब्राह्मणत्वादेरपि चाक्षुष-त्वोपपत्तेः । ‘न चैतद्विद्मो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा’ इति श्रुत्या ब्राह्मणत्वस्य दुरवगमत्वोक्त्या सहकार्यन्तरसहकृतचक्षुर्ग्राह्यत्वोक्तेश्च । अत एव पुरुषे दृष्टे तद्ब्राह्मणत्वे सन्दिह्यते । मनुष्यत्वमपि आत्मनि गृहीत एव गृह्यते । चञ्च्वाद्याकारज्ञानेऽपि मनुष्यत्वादिसन्देहात् । तस्मादात्माद्युपनयध्रौव्याद्ब्राह्मणत्वादिकमपि चाक्षुषमेव । तदुक्तं वार्तिके– न हि यद्गिरिशिखरमारुह्य गृह्यते तन्न गृह्यत एवेति ।। धर्मैक्येति ।। धर्मिभेदस्य प्रत्यक्षसिद्धत्वादित्यर्थः ।। तद्वदिति ।। रक्तः स्फटिको रक्तं कुसुममिति प्रतीतिवदित्यर्थः । एकत्र मुख्यत्वेन क्लृप्तस्यैव मुख्यत्वं, गौणत्वेन क्लृप्तस्य गौणत्वं कल्पयितुं न्याय्यमित्याह ।। मम देह इत्यस्येति ।। देहात्मभेदग्रहस्य पश्वादिसाधारणत्वान्न तस्य गौणत्वमित्याह ।। तथेति ।। स्पष्टतया इत्यर्थः ।। तदुक्तमिति ।। तृतीयाध्यायेऽनुव्याख्यान इति शेषः । जातमात्राः न तु व्यापारान्तरं कृतवन्तः । अस्मिन् जन्मनि व्याप्तिग्रहणरहिता इत्यर्थः ।। व्याप्तिस्मृतिरिति ।। ननु पूर्वदेहस्मृतिं विनापि अनुमितिहेतुव्याप्तिस्मृतेस्सम्भवः । न हि व्याप्त्यनुभव इव व्याप्तिस्मरणसमयेऽपि दृष्टान्तज्ञानापेक्षा । येन तदर्थं तद्देहस्मृतिरपेक्ष्येतेति मैवम्् । न हि व्याप्तिस्मृतिं प्रति सहचारग्रहकारणत्वानुरोधेनाधिकरणग्रहणापेक्षां ब्रूमः । किन्नाम सामानाधिकरण्यादिगर्भ व्याप्तिज्ञानस्य साध्याधिकरणविषयत्वनियमम् । तदिदमुक्तम् ।। इत्यादीति ।। उक्तसाध्यसाधनसामानाधिकरण्यरूपव्याप्तेरित्यर्थः ।। इह चेति ।। तथा चात्मनि देहभेदोऽपि प्रत्यक्षसिद्ध इत्यर्थः ।। व्यावर्तकेति ।। भेदसाक्षात्कारा-भावेऽपीत्यर्थः ।

ननु भेदकसाक्षात्कारस्य भेदसाक्षात्कारेण व्याप्तिरेक्यारोपेण सह विरोधश्च नास्ति । नील बलाकेत्यत्र नीलाद्भेदकस्य बलाकात्वस्य ग्रहेऽपि नीलभेदसाक्षात्काराभावस्य तदैक्यारोपभ्रमस्य च दर्शनादिति मैवम् । केन कालिकव्याप्त्या प्रतारितो भवान् । बलाकायामपि नीलभेद-साक्षात्कारस्य सत्त्वान्न दैशिकनियमासिद्धिः । निशि दोषवशात्तु नीलाभेदप्रत्ययः । नन्विह सर्वदा दोषप्राबल्याद्देहात्मैक्यारोप इति चेन्न । भेदकधर्मसाक्षात्कारे सति प्रत्यक्षे च धर्मिणि दोषप्राबल्यात्सदाऽभेदारोप इत्यस्यासिद्धेः । ननु सदातनोपाधिकेऽभेदभ्रमे तथापि व्यभिचार इत्यत आह ।। न चायमिति ।। उपाधिविरहे सतीति विशेषणान्न व्यभिचार इति भावः । सदातनोपाधौ मानाभावोऽपि बोध्यः । क्षीरादेरपि नीरविवेकदर्शनात् ।। तत्र किमिति ।। लक्षणया ब्राह्मणशब्दार्थ इति सम्बन्धः ।। विधाविति ।। मुख्यार्थेनैवोपपत्तेरिति भावः । एतेन ‘गोभिः श्रीणीत मत्सरम्’ इति वेदान्तकौमुद्युक्तिप्रतिध्वनिर्निरस्तः । गोभिर्गोभुक्त-तृणादिविकारैः पयोभिः मत्सरं सोमं श्रीणीत संस्कुरुतेति मन्त्रस्य पयसा श्रीणातीति विहितश्रयणानुवादित्वेन तदविधायकत्वाच्च ।। महापातकेनेति ।। न च तत्र महापातक-स्यैवानधिकारप्रयोजकत्वमिति वाच्यम् । तस्यापि ब्राह्मण्याभावसम्पादनद्वारैव तथात्वात् । द्वयोरपि तथात्वे गौरवात् ।। तदिन्द्रियेति ।। तज्ज्ञानजनकेन्द्रियेत्यर्थः । ननु पितृकृत-पुत्रेष्टिजन्यपुत्रदेहस्यापि पितृशरीरत्वापत्तिरित्यत आह ।। पुत्रकामेष्टीति ।।

ननु ग्रामादेः स्वतःसिद्धत्वेन तत्स्वामिकत्वमात्रमुत्पद्यताम् । पुत्रदेहस्य सिद्धत्वाभावेन स्वत्वापादनार्थमपि तदुत्पादनार्थमावश्यकत्वम् । अन्यथा स्वदेहसुखादिष्वपि स्वादृष्टेन स्वत्वमेवोत्पद्यते न तु स्वदेहादिरित्यपि स्यात् । तथा च पूर्वानुत्पन्नादृष्टेन स्वत्वसहितमेवोत्पद्यते । पूर्वोत्पत्ते तु सत्वमात्रमिति । पुत्रदेहादेः पुत्रादृष्टासाधारण-कारणकार्यत्वेन तत्र पित्रदृष्टस्याहेतुत्वात् । देहादेस्त्वदृष्टान्तरासाध्यत्वेन तत्र स्वादृष्टस्य हेतुत्वात् । स्वस्मिन्नसत्यपि पुत्रशरीरादिना पुत्रादेर्भोगसाधनाच्च । स्वशरीरे तु न तथेति वैषम्यात् ।। देहविशेषेति ।। ब्राह्मणो यजेत इत्यादित एव देहविशेषविशिष्टो ब्राह्मणशब्दार्थ इत्यवगम्यत इत्यर्थः ।। एतेनेति ।। अध्यासं विनैवोपपत्त्या तदसम्भवेन चेत्यर्थः ।। जागरणेति ।। जागृद्दशायामपि घटादिप्रमातृत्वकाले देहात्मैक्याध्यासो नास्तीत्यर्थः । ननु देहात्मभेदस्य प्रत्यक्षत्वे चार्वाकादेस्तदभेदसाक्षात्कारो न स्यादित्यत आह ।। चार्वाकादे-स्त्विति ।। भ्रम इति ।। अनुमितिरूप इत्यर्थः । ननु देहात्मभेदसाक्षात्कारे सति कथं तस्य लैङ्गिकमपि तदभेदज्ञानमिति चेत् सन् घट इति सत्यत्वप्रत्यक्षे यथा बाह्यानां तव चादृश्यत्वादिना मिथ्यात्वधीस्तथा गृहाण । न च चार्वाकस्यानुमितिरपि कथमिति वाच्यम् । तन्मतेऽनादिसम्भावनाया एवानुमानस्थानीयत्वात् ।। संसारहेतुरिति ।। प्रेमास्पदत्वमपि स्वस्य भोगायतनत्वादिना । न तु देहात्मभेदस्य प्रत्यक्षत्वे तदभेदं व्युदस्य तद्भेद-प्रतिपादिकायाः ‘अजो नित्यश्शाश्वतोऽयं पुराणो’ इत्यादिश्रुतेरनुवादकत्वप्रसङ्ग इत्यत आह श्रुतिष्विति ।। अस्तीत्येवोपलब्धव्य इति श्रुतेः परमते आत्ममात्रपरतया व्याख्यातत्वेऽपि स्वमते परमात्ममात्रपरत्वं ज्ञेयोस्पष्टविजातीयज्ञानहेतुत्वात् । श्रुतिर्नानुवाद इत्याह व्यवहारेति ।। अनुव्याख्यानेनोक्तमर्थं सम्मतयति ।। उक्तं चेति ।। तृतीयाध्याये  । व्याप्तत्वात् । अंशादिनेति शेषः । ननु ज्ञानमेव व्यवहारहेतुः तच्चेदस्ति कथं तर्हि व्यावहारेष्वपाटवमत आह ।। न हीति ।। यथानुभवतः अनुभवानुसारेण । यमलयोर्भेदं पश्यन्तोऽपि मात्रादयो जनाः कथमेतौ भिन्नाववगन्तव्याविति पृष्टा स्वप्रत्यक्षानुसारेण इत्थमेवेति न परान् प्रति प्रतिपादयितुं क्षमन्त इत्यनुभवसिद्धमित्यर्थः । उपसंहरन्नुत्तरग्रन्थं प्रस्तावयति तस्मादिति ।।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।

न्यायकल्पलतायां हि देहात्मैक्यभ्रमो न तु ।।

।। इति देहात्मैक्याध्यासभङ्गः ।।