इदं रूप्यमिति प्रत्यक्षमपि नेदं रूप्यमिति सयुक्तिकबलवत्प्रत्यक्षेण बाध्यम्

२६. प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकोद्धारः

न्यायामृतम्

इदं रूप्यमिति प्रत्यक्षमपि नेदं रूप्यमिति सयुक्तिकबलवत्प्रत्यक्षेण बाध्यम् । न तु युक्त्यैव । गौरोऽहमित्याद्यपि मम शरीरमिति बलवत्प्रत्यक्षबाध्यं, कर्दमलिप्ते वस्त्रे कृष्णं वस्त्रमितिवद् गौणं वा, उष्णं जलमित्यपि गौणमेव न तु लिङ्गादिबाध्यम् । यद्वा निश्चितद्रव्यान्तरसमभिव्याहाररूपदोषेण शङ्किताप्रामाण्येन उष्णं जलमित्य-नेनावकाशे दत्ते लिङ्गादिकं प्रवर्तते न तु तल्लिङ्गादिबाध्यम् । ‘‘अहमिहैवास्मि सदने जानानः’’ इत्यादि तु प्रमाणमेव, जीवस्याणुत्वात्, न तु लिङ्गादिबाध्यम् । ज्वालैक्यप्रत्यक्षमपि निर्वापितारोपितदीपे चेद्भेदग्राहिप्रत्यक्षेण बाधितमेव जायते । अन्यत्रापि दीर्घोऽयं दीपो ह्रस्वो नेति प्रत्यक्षेण बाध्यते, न त्वनुमित्या । तादृश-प्रत्यक्षाभावे तु न दीपभे (दमनुपश्यामः) दः । दूरस्थस्यायं सर्प इत्याद्यपि प्रत्यक्षं न शब्दमात्रेण बाध्यम्, किंतु नायं सर्प इत्याप्तवाक्यमूलपरीक्षितप्रत्यक्षगौरवादेव । राजगौरवादिव राजभृत्येनामात्यः, श्रुतिगौरवादिव वा श्रुत्यनुसारिप्रकरणादिना लिङ्गादिकम् । उक्तं हि–

दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।

तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ।। इति ।

न हि प्रधानभूताचमनादिपदार्थविषयस्मृत्या पदार्थधर्मभूतक्रमविषया ‘‘वेदं कृत्वा वेदिं करोति’’ इति श्रुतिर्बाधितेत्यन्यत्रापि तया सा बाध्यते । अत एव ‘नायं सर्पः’ इत्युक्ते प्रतिवदन्ति– ‘‘किमेवं वदसि केवलम्, अपि पुनः परामृश्य पश्यसि’’ इति । ननु तथापि पीतः शङ्खः, नीलं नभ इत्यादिप्रत्यक्षम्, श्वैत्यनीरूपत्वाद्यनुमित्यैव, चन्द्रप्रादेशत्वप्रत्यक्षं चाप्रत्यक्षमूलशब्देनैव बाध्यं दृष्टमिति चेद् उच्यते । द्विविधं हि ज्ञानम्– सन्देहरूपमेकाका(रनियतं)रं चेति । द्वितीयमप्यप्रामाण्यधीकलङ्कितं तद-कलङ्कितं चेति द्वेधा । (अप्रामाण्यधी) कलङ्कितत्वमपि द्वेधा – बाधकाभिमत-ज्ञानोदयात् प्रागेव दोषज्ञानेन वा । अर्थाभावनिश्चयेन वा तत्राद्यं यथा चन्द्रप्रादेशत्व-ग्राहि, शैलाग्रस्थतरुपरिमाणादिज्ञाने दूरादेर्दोषत्वनिश्चयात् । द्वितीयं यथा सवितृ-शङ्खादौ सुषिरपीतत्वादिग्राहि । प्रागेव तत्र परीक्षितप्रत्यक्षेण सुषिराद्यभावनिश्चयात् । एवं च चन्द्रप्रादेशत्वादिप्रत्यक्षेण प्रागेव ज्ञातदूरादिदोषेण अप्रमाणत्वेन ज्ञातेन सन्देह-वत्स्वार्थपरिच्छेदपराङ्मुखेन निःशङ्कप्रवृत्यजनकेनावकाशे दत्ते पश्चाच्छब्दादिः प्रवर्तते, न तु तेन प्रत्यक्षबाधः । यथा प्रबलप्रत्यक्षबाधितस्याक्षस्यानन्तरं प्रवृत्तेन शब्दादिना न बाधस्तद्वत् । येन यस्य भ्रमत्वं ज्ञायते तत्तस्य बाधकम् । न च चन्द्रप्रादेशत्वादिप्रत्यक्षस्यागमादिना भ्रमत्वं ज्ञायते । अकलङ्कितं स्वार्थपरिच्छेदेऽभि-निविष्टं निःशङ्कप्रवृत्तिजननयोग्यम् । यथा अग्निरुष्ण एव, प्रस्तरो यजमानो नैव, घटस्सन्नेवेत्यादि । न ह्यत्र प्रागेव दूरादिदोषधीर्वाऽर्थाभावनिश्चयो वाऽस्ति । यदि च प्रत्यक्षे क्लृप्तदूरादिदोषाभावेऽप्यन्यः कल्प्यते तर्हि श्रुतावपि शब्दे क्लृप्तविप्रलम्भाद्य-भावेऽप्यन्यः कल्प्येत । न चाविद्यकतैव दोषः, मेयाविद्यकत्वस्याद्याप्यसिद्धेः । माना-विद्यकत्वस्य तु श्रुतावपि सत्त्वात् । नाप्यनादिभेदभ्रमवासना दोषः । श्रौतज्ञानस्यापि

प्रकृतिप्रत्ययादिभेदवासनाजन्यत्वात् । भेदधियोऽद्यापि भ्रान्तित्वासिद्धेश्च । इदं चा-कलङ्कितं प्रत्यक्षं साक्षिरूपं चेन्न केनापि बाध्यं न कस्याप्यवकाशदम् । बाह्यं तु प्रबल-प्रत्यक्षेण बाध्यम् । न त्वन्येन बाध्यमन्यस्यावकाशदं वा । एवं चाकाशे समीपे नीरूपत्व-निश्चयाद् दूरे तद्धीर्दूरदोषजन्येति प्रागेव निश्चिता, न तु नीरूपत्वानुमितिबाध्या ।

अद्वैतसिद्धिः

किं च परीक्षितत्वेनैव प्राबल्यं, नोपजीव्यत्वादिना । अनुमानशब्दबाध्यत्वस्य प्रत्यक्षेऽपि दर्शनात् । तथा हि – इदं रजतमिति प्रत्यक्षस्यानुमानाप्तवचनाभ्यां, नभोनैल्यप्रत्यक्षस्य नीरूपत्व-ग्राहकानुमानेन, ‘गौरोऽहं’ इत्यस्य, ‘अहमिहैवास्मि सदने जानानः’ इत्यस्य, चन्द्रप्रादेशिकत्व-प्रत्यक्षस्य चानुमानागमाभ्यां, ‘पीतः शङ्खस्तिक्तो गुडः’ इत्यादेश्चानुमानाप्तवचनाभ्यां बाधो दृश्यते । ननु साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यभ्युपेयम् । अन्यथा परोक्षप्रमाया अपरोक्ष-भ्रमनिवर्तकत्वोपपत्तौ वेदान्तवाक्यानामपरोक्षज्ञानजनकत्वव्युत्पादनप्रयासो व्यर्थः स्यादिति चेन्न । ‘नायं सर्पः’ इत्यादिवाक्यादिना सविलासाज्ञाननिवृत्त्यभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रम-प्रमाणत्वबुद्धेस्तद्विषयसत्यताबुद्धेश्च निवर्तनात् । तावता च भ्रमनिवर्तकत्वव्यपदेशात् । भ्रमे प्रामाण्य-विभ्रमस्य तद्विषये सत्यताविभ्रमस्य च परोक्षत्वेनापरोक्षबाधानपेक्षत्वात् । न हि दुष्टकरणाजन्यत्व-मबाधितविषयत्वं वा प्रामाण्यं कस्यचित् प्रत्यक्षम् । न वा सर्वदेशसर्वकालसर्वपुरुषाबाध्यत्वरूपं विषयसत्यत्वम् । अतस्तयोः परोक्षप्रमाबाध्यत्वमुचितमेव । तयोश्च बाधितयोः रजतादिभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वादसन्निवेति बाधित इत्युच्यत इत्यनवद्यम् ।

ननु – ‘इदं रजतम्’ इत्यत्र सयुक्तिकं प्रत्यक्षं बाधकं, न युक्तिमात्रम् । ‘गौरोऽहम्’ इत्यत्रापि ‘मम शरीरम्’ इति बलवत् प्रत्यक्षमेव बाधकम् । ‘अहमिहैवास्मि सदने जानान’ इति तु प्रमाण-मेव, जीवस्याणुत्वाद् इति चेन्न । रजताभेदशरीराभेदप्रत्यक्षयोर्जाग्रतोः युक्त्या प्रतिबन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्तेरेवानवकाशात् । न च तत्र परम्परासम्बन्धेन कर्दमलिप्ते वस्त्रे ‘नीलं वस्त्रम्’ इतिवद् ‘गौरोऽहम्’ इति गौणम्; कर्दमवस्त्रयोरिव शरीरात्मनोर्भेदानध्यवसायेन दृष्टान्तदार्ष्टान्तिकयो-र्वैषम्यात् । तथा चात्रैक्याध्यास एवोचितः । एवं च ‘उष्णं जलम्’ इत्यत्रापि यदि कर्दमवस्त्रयोरिव तोयतेजसोर्भेदग्रहः, तदा गौणतैव । यदि च शरीरात्मवद् भेदानध्यवसायस्तदाऽध्यास एव । तथा च युक्तिबाध्यमेवेति तदप्युदाहरणम् । यत्त्वहमिहैवेति प्रमाणमित्युक्तम्, तन्न । आत्मनः ‘आकाशवत् सर्वगतश्च’ इति सर्वगतत्वेन इहैवेति व्यवच्छेदस्याप्रमाणिकत्वात् । न च जीवोऽणुः, युगपदेव पादशिरोऽवच्छेदेन सुखदुःखानुभवात् । न ह्योकोऽणुरेकदा व्यवहितदेशद्वयावच्छिन्नो भवति । न च युगपत्प्रतीतिर्भ्रमः, उत्सर्गसिद्धप्रामाण्यपरित्यागे बीजाभावात् । विस्तरेण चैतदग्रे वक्ष्यामः ।

ननु – नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन न बाधः, लिङ्गाभावात् । न च परममहत्त्वद्रव्यानारम्भकत्वादेर्लिङ्गत्वम्, त्वन्मते असिद्धेः । निःस्पर्शत्वं तु तमसि व्यभिचारि । पृथिव्यादित्रयेतरभूतत्वादि चाप्रयोजकम् । तथा च नीरूपत्वग्राहकसाक्षिप्रत्यक्षमेव तद्बाधकं वाच्यम् । न च रूपग्रहणासमर्थस्य साक्षिणः कथं नीरूपत्वग्राहकत्वमिति वाच्यम् । पिशाचाग्राहकस्यापि चक्षुषस्तदभावग्राहकत्ववदुपपत्तेः । परेणापि साक्षिणोऽपि रूपवत्तमोग्राहकत्वाभ्युपगमाच्च । अचाक्षुषेऽपि नभसि वायाविव चक्षुषैव रूपाभावग्रहणसम्भवेन चाक्षुषप्रत्यक्षबाधाद् इति चेन्न । ‘नीलं नभः’ इति प्रत्यक्षे जाग्रति रूपाभावग्रहणस्य चक्षुषा साक्षिणा चासम्भवात् । तथा च बलवती युक्तिरेव तद्बाधिका । न च लिङ्गाभावः, चक्षुरन्वयव्यतिरेकानुविधायिरूपाविशेषित-प्रतीतिविषयत्वाद् रूपवदिति लिङ्गसम्भवात् । न चाप्रयोजकत्वम्, नभो यदि सरूपं स्यात्तदा चक्षुरन्वयव्यतिरेकानुविधायिप्रतीतौ रूपासम्बन्धितया विषयो न स्यादिति तर्कोपपत्तेः । न चेष्टापत्तिः, सविधे रूपासम्बन्धितया नभसः सिद्धेः सर्वजनसम्मतत्वात् । नभसः साक्षिवेद्यतायामपि चक्षुरन्वयव्यतिरेकानुविधानमवर्जनीयमेव । अन्यथाऽन्धस्यापि तद्ग्रहणं स्यात् । न च पञ्चीकरणा-द्रूपवदारब्धत्वेन नभसो नीरूपत्वं बाधितमिति वाच्यम् । त्रिवृत्करणपक्षेऽस्य दूषणस्यानवकाशात् । पञ्चीकरणपक्षेऽपि अपञ्चीकरणदशायां यस्मिन् भूते यो गुणः स पञ्चीकरणाद्व्यवहारयोग्यो भवतीत्येतावन्मात्राभ्युपगमान्नाकाशे रूपारम्भप्रसङ्गः । न च ‘नायं सर्पः’ इत्युक्तेऽपि, ‘किमेवं वदसि परम् ? अपि पुनः परामृश्य पश्यसि ?’ इति प्रतिवचनदर्शनान्न शब्दमात्रं रज्जुसर्पादि-भ्रमनिवर्तकम्, किं तु प्रत्यक्षमेवेति वाच्यम् । प्रतिवचनस्थले भ्रमप्रमादादिशङ्काक्रान्तत्वेन ‘नायं सर्पः’ इत्यादेर्दुर्बलतया न भ्रमनिवर्तकत्वम् । यत्र तु तादृशशङ्कानाक्रान्तत्वं तत्र भ्रमनिवर्तकतैव । अत एव तादृक्शङ्कानाक्रान्तपित्रादिवचसि नेदृक्प्रतिवचनं,किन्तु सिद्धवत्प्रवृत्त्यादिकमेव । ज्वालैक्य-प्रत्यक्षमप्येवमेव युक्तिबाध्यम् । न च निर्वापितारोपितस्थले स्पष्टतरभेदप्रत्यक्षबाधितं तदित्यन्यत्रापि दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षमेव तद्बाधकमिति वाच्यम् । निर्वापितारोपितातिरिक्तस्थले तावदयं विचारः । तत्र च दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षं वक्तुमशक्यम् । यैव ह्रस्वा सैवेदानीं दीर्घेति ह्रस्वत्वदीर्घत्वाभ्यामुपस्थितयोरभेदस्य साक्षात्क्रियमाणत्वात् । तथा च ज्वालाप्रत्यभिज्ञा युक्तिबाध्यैव । सर्वदा पित्तदूषितनेत्रस्य ‘पीतः शङ्खः’ इति प्रत्यक्षे चन्द्रप्रादेशत्वप्रत्यक्षे च परोक्षातिरिक्तस्य बाधकस्य शङ्कितुमप्यशक्यत्वाद् युक्त्यादिबाध्यतैव वक्तव्या ।

ननु सर्वत्रैवात्र प्रकारान्तरेणासत्कल्पे प्रत्यक्षे मानान्तरप्रवृत्तिः । तथा हि – द्विविधं ज्ञानम् । द्विकोटिकमेककोटिकं च । अन्त्यमपि द्विविधं अप्रामाण्यशङ्काकलङ्कितं तदकलङ्कितं च । तत्राद्यौ सर्वप्रमाणावकाशदौ । अर्थापरिच्छेदकत्वादप्रामाण्य शङ्काकलङ्कितत्वाच्च । अप्रामाण्यधीकलङ्कितत्वं च द्वेधा भवति । दुष्टकरणकत्व निश्चयादर्थाभावनिश्चयाच्च । तथा च शैलाग्रस्थितविटपिनां प्रादेशिकत्वप्रतीतिर्दूरदोषनिबन्धना दृष्टेति दूरतरस्थस्य चन्द्रमसः प्रादेशिकत्वप्रत्ययो दोषनिबन्धन एवेति निर्णीयते । एवमाकाशे समीपे नीरूपत्वनिश्चयाद् दूरे रूपवत्त्वधीर्दूरदोषजन्येति प्रागेव निश्चीयते । ‘पीतः शङ्खः’ इत्यादि प्रत्यक्षं तु प्राथमिकपरीक्षितप्रत्यक्षेण ‘शङ्खो न पीतः’ इत्यर्थाभावनिश्चयादप्रामाण्यज्ञानास्कन्दितमेवोत्पद्यते । एवं सवितृसुषिरादिप्रत्यक्षमपि । तथा च चन्द्रादिप्रादेशिकत्वप्रत्यक्षं दूरादिदोषनिश्चयात्, ‘पीतः शङ्खः’ इत्यदिप्रत्यक्षं प्राथमिकार्थाभाव-निश्चयादेव बाधितमिति पश्चादनुमानागमादिप्रसर इति न ताभ्यां तद्बाधः । येन हि यस्य भ्रमत्वं ज्ञायते तत्तस्य बाधकमित्युच्यते । न च चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्यागमादिना भ्रमत्वं ज्ञायते । भ्रमत्वज्ञानोत्तरकालमेव तत्प्रवृत्तेः । अप्रमाण्यज्ञानाकलङ्कितं तु स्वार्थपरिच्छेदकं निःशङ्कप्रवृत्ति-जननयोग्यम् । यथा ‘वह्निरुष्ण एव’, ‘प्रस्तरो यजमानभिन्न एव’, ‘घटः सन्नेव इत्यादि, तन्नान्यस्यावकाशदं नान्येन बाध्यम् । न ह्यत्र प्रागिव दूरादिदोषधीर्वा अर्थाभावनिश्चयो वा कोट्यन्तरालम्बित्वं वाऽस्ति । किं च क्वचित् प्रत्यक्षं प्रत्यक्षान्तरगौरवाद्युक्तिबाध्यं भवतु, क्वचिच्च लिङ्गादिकं श्रुतिगौरवात् श्रुत्यनुसारिप्रकरणादिबाध्यं भवतु, राजामात्य इव राजगौरवेण राजभृत्यबाध्यः, तथापि न युक्तिमात्रस्य प्रकरणमात्रस्य वा प्रत्यक्षलिङ्गादिबाधकत्वम् । प्रत्यक्षा-द्यनुसारित्वस्य सर्वत्राभावात् । न हि प्रधानभूताचमनादिपदार्थविषयया ‘आचामेदुपवीती दक्षिणा-चारः’ इत्यादिस्मृत्या पदार्थधर्मभूतक्रमादिविषया ‘वेदं कृत्वा वेदिं करोति’ इति श्रुतिर्वेदकरणानन्तरं क्षुतनिमित्तकाचमनोपनिपाते बाध्यत इत्यन्यत्रापि तथा भवितव्यमिति चेत्, मैवम् । यतो युक्तिरेवैषा । यद् यद्दूरस्थाल्पपरिमाणज्ञानं, तत् तद्दूरदोषनिबन्धनमप्रमा, शैलाग्रस्थविटप्यल्प-परिमाणज्ञानवत् इदमपि तथेति । तथा चैवंरूपया युक्त्यैव चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य बाधं वदन् युक्त्या न प्रत्यक्षस्य बाध इति वचनेनाजैषीः परं मन्दबुद्धे  मन्दाक्षम्, न तु परम् । एवं ‘पीतः शङ्खः’ इति प्रत्यक्षेऽपि प्राचीनार्थाभावप्रत्यक्षं न बाधकम्, तस्येदानीमभावात् । न च तत्स्मृति-र्बाधिका, तस्या अनुभवाद् दुर्बलत्वात् । केवलं युक्त्युत्पादन एव सोपयुज्यते । तेन युक्त्यागमाभ्या-मेवोदाहृतस्थलेषु बाधः ।

यत्तु क्वचिद्युक्त्यादेर्बाधकत्वदर्शनमात्रेण सर्वत्र न बाधकत्वं वक्तुं शक्यम्, युक्त्यादिबाधकताया अनुस्रियमाणप्रत्यक्षगौरवनिबन्धनत्वात् इत्युक्तम् । तदनुक्तोपालम्भनम् । न हि मया क्वचिद् दर्शन-मात्रेण युक्तेर्बाधकता सर्वत्रोच्यते, अपि तु चन्द्रप्रादेशिकत्वशङ्खपीतत्वप्रत्यक्षादौ यावदागमादे-र्बाधकताप्रयोजकं दृष्टं तावत्सत्त्वेन । न च तत्रानुस्रियमाणं प्रत्यक्षमस्ति, यद्गौरवेण बाधक-तायामन्यथासिद्धिं ब्रूयाः । तस्माच्चन्द्रप्रादेशिकत्वप्रत्यक्षस्य प्रपञ्चसत्त्वप्रत्यक्षस्य च तुल्यवदेव बाध्यता । युक्त्यागमयोश्च तुल्यवदेव बाधकतेति । न हि चन्द्रप्रादेशिकत्वप्रत्यक्षेऽपि प्रागेव दुष्ट-करणकत्वनिश्चयः । नैकट्यस्यापि क्वचिद् दोषत्वेन सर्वत्र परिमाणज्ञानाविश्वासप्रसङ्गात् । किंत्वागमादिना बाधानन्तरमेव । तद्वत् प्रकृतेऽपि मिथ्यात्वसिद्ध्यनन्तरमेवाविद्यारूपदोषनिश्चयः । तथा च सर्वात्मना साम्यम् । यत्तु दृष्टस्य वस्तुनो बलवद्दृष्टिं विना अन्यद्बाधकं नास्तीत्युक्तं तद् दुर्बलशब्दलिङ्गादिविषयम् । यदप्युक्तं विवरणे, ‘यत्राविचारपुरस्सरमेव प्रत्यक्षावभासमप्यनुमानादिना बाधितमुच्छिन्नव्यवहारं भवति तत्र तथा भवतु । यत्र पुनर्विचारपदवीमुपारूढयोर्ज्ञानयोर्बलाबल-

चिन्तया बाधनिश्चयस्तत्र नानुमानादिना प्रत्यक्षस्य मिथ्यात्वसिद्धिः’ इति, तदपि गृहीतप्रामाण्यक-शब्दतदुपजीव्यनुमानातिरिक्तयुक्तिविविषयम् । एकत्र प्रामाण्यनिश्चये बलाबलचिन्ताया एवानवकाशात् ।।

न्यायामृततरङ्गिणी

सयुक्तिकेत्यादि । ननु रजताभेदशरीराभेदप्रत्यययोर्जाग्रतोरङ्गीकृते युक्त्या प्रतिबन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्तेरेवानवकाश इति चेन्मैवम् । तर्हि सुतरां युक्तेरनवकाशः । तस्याः विरोधिनिश्चयमात्रप्रतिबध्यत्वात् । तस्माद्रजतादिप्रत्यक्षे विद्यमानेऽपि स्वभावत एव बलवद्विपरीत प्रत्यक्षमुपपद्यत इति स्वीकार्यम् । अन्यथा क्वचिदपि ज्ञाने अर्थासत्त्वपर्यवसाय्यप्रामाण्यशङ्का-द्यनुदयः स्यात् । तद्विरोधिनः प्रथमोत्पन्नस्य जागरूकत्वादिति । मम शरीरमिति सर्वसिद्ध-भेदप्रत्ययाच्च गौरोहमिति नैक्याध्यासः, किंतु गौण उपचार इत्याह– कर्दमलिप्त इति । उष्णमिति । तोयतेजसोर्भेदानुभवादित्यर्थः । जीवस्येति । न चाकाशवत्सर्वगतश्च नित्य इत्याद्यागमेन उत्सर्गसिद्धप्रामाण्येन युगपत्पादशिरोवच्छिन्नसुखदुःखानुभवेन जीवस्याणुत्व-मसिद्धमिति वाच्यम् । उत्क्रान्त्यादिना तदणुत्वस्य वक्ष्यमाणत्वात् । अन्यत्रापीति । न च य एव दीर्घः स एवेदानीं ह्रस्व इति दीर्घत्वह्रस्वत्वाभ्यामुपस्थितयोरभेदस्य साक्षात्क्रियमाण-त्वाद्दीर्घोऽयं दीपो ह्रस्वो नेति प्रत्यक्षमसिद्धमिति वाच्यम् । तथा प्रत्यभिज्ञाया असिद्धेः ।

शिष्टाकोपे यथोदितमिति । प्रथमस्य तृतीये स्थितं ‘‘शिष्टाकोपे विरुद्धमिति चेन्न शास्त्रपरिमाणत्वात्’’ । क्षुत आचामेदिति स्मरणानि, वेदं कृत्वा वेदिं करोतीति च श्रौतानि, उदाहरणम् । किमप्रमाणं प्रमाणं वेति विचारः । तदर्थं च प्रत्यक्षश्रुत्यादिभिर्विरुध्यते न वेति । तदर्थमप्येभिः क्रतुमध्येऽनुष्ठीयमानैः क्वचित् श्रुत्यर्थस्य क्रमादेर्भवति बाधो न वेति । अथवाऽभ्युपेत्यैव विरोधं स्मृतिरप्रमाणं प्रमाणं वेति विचार्यते । तदर्थं च प्रमाणप्रमेयबलाबल-विसंवादे किं ज्याय इति चिन्त्यते । श्रुतिस्मृत्योः प्रमाणयोः श्रुतिर्बलीयसीति स्थितम् । अतः श्रौतत्वात्क्रमादयः स्मार्तेभ्य आचमनादिभ्यो बलीयांसो विज्ञायन्ते । प्रमेयस्वरूपालोचने पदार्थ-गुणत्वात्क्रमादेराचमनादयः पदार्था बलीयांसो विज्ञायन्ते । बलाबलद्वयविसंवादात्कतरेण निर्णय इति सन्देहः । तत्र पूर्वः पक्षः–

श्रुत्युक्तानां क्रमादीनां स्मार्तैराचमनादिभिः ।

व्याकोपः स्यादतस्तावद्विस्पष्टैव विरुद्धता ।।

ततः श्रुतेर्बलीयस्त्वात्स्मृतेः स्यादप्रमाणता ।

पूर्वभाविप्रमाणस्थं प्रमेयस्थाद्बलाबलात् ।।

ज्यायस्तेनैव निर्णीते न पश्चादितरादरः ।

नैराकाङ्क्षयात्प्रमाणानामतः स्मृत्यर्थबाधनम् ।।

वेदं कृत्वा वेदिं करोतीति क्रमः, कालश्च यः प्रधानेनाङ्गानामविप्रकर्षः, प्रयोगे प्राशुभावश्च प्रयोगवचनावगतो यश्च पूर्वाह्णादिः, परिमाणं चाविस्मृतसमस्तपदार्थानुष्ठानसिध्द्यर्थं प्रयोगविधि-नैवाकाङ्क्षितम् । पदार्थविधिप्रचयावगतम् । तत्त्त्रयमपि क्रमकालपरिमाणात्मकमाचमनादिना बाधितं न भवति । न च श्रुत्यर्थत्वेऽपि पदार्थगुणत्वात्क्रमादेर्दौर्बल्यम् । आचमनादेः स्मृत्यर्थ-स्यापि पदार्थत्वाद्बलीयस्त्वमिति वाच्यम् । प्रमाणपूर्वको हि प्रमेयावगमः । तेन पूर्वभावि-प्रमाणस्थं बलाबलं पूर्वमवगम्यते । तेनाचमनादिभ्यः क्रमादीनां बलीयस्त्वे निर्णीते निराकाङ्क्ष-त्वान्न पश्चादवगतं प्रमेयबलाबलमादर्तव्यम् । तस्मादाचमनादिस्मृतीनामप्रामाण्यमिति ।

सिद्धान्तस्तु–

पदार्थप्राप्त्यपेक्षत्वात्क्रमादेरविरोधिता ।

विरोधेऽपि च दौर्बल्यं पदार्थेभ्यो गुणत्वतः ।।

सर्वेषु च हि पदार्थेषु प्राप्तेषु प्रयोगवेलायां तद्विशेषणतया क्रम आपतति । तेन पदार्थ-प्राप्त्यपेक्षत्वात्क्रमस्यात्यन्तजघन्यप्रमाणकोऽपि पदार्थः पूर्वं प्राप्नोति । पश्चात्क्रमः पूर्वपदार्थ-प्रयोगाङ्गतया चेतरत्रापि पदार्थैर्विरुध्यते । कालोऽप्येवमेव प्रयोगाङ्गत्वाद् यावन्तः पदार्था अवधारितास्तेषामेव पूर्वाह्णादिकालत्वं प्रधानसन्निकर्षः प्रयोगप्राशुभावश्च । परिमाणं तु न कस्यचिदपि शास्त्रस्यार्थः । प्रयोगविधिरपि न तदाक्षिपति । अन्यथाऽप्यविस्मरणसिद्धेः । अथापि शास्त्रार्थतयापि प्रयोगौपयिकत्वात्प्रयोगस्य च प्रयोज्यपदार्थसापेक्षत्वादविरोधित्वम् । यद्यपि क्रमादीनामाचमनादिभिर्विरोधस्तथापि पदार्थगुणत्वाद्दौर्बल्यम् । आचमनादयस्तु पदार्थत्वाद्बलवन्तः । न च प्रमाणबलाबलस्य पूर्वभावित्वम् । न हि प्रमाणयोः स्वरूपतो विरोधः । अपि तु प्रमेयविशेषनिमित्तः । प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति । तद्यदैव प्रमेययोर्विरोधोऽवगम्यते तदैव तयोर्बलाबलमपीति तत एव निर्णये कृते नैराकाङ्क्षया-त्प्रमाणबलमनादर्तव्यमिति न स्मृतेर्बाधः । यद्धि स्वभावत एवाप्रमाणं तत्सर्वदैवानादर्तव्यम् । यत्तु बलवद्विरोधापेक्षमप्रमाणं तत्तदभावापेक्षया प्रमाणमेवेत्यवगन्तव्यम् । न चात्र बाधकमस्ति । प्रमाणबलाबलस्य बाधकत्वात् । तस्मादाचमनादेर्बलीयस्त्वात्तदनुरोधेनैव श्रुत्युक्तक्रमादयो बाध्यन्त इत्याचमनादिस्मृतीनामबाधात्प्रामाण्यमिति ।

एतच्च भाष्यकारमतेनाधिकरणशरीरम् । भाष्यकारो हि ‘‘शिष्टाकोपे अविरुद्धमिति चेन्न शास्त्रपरिमाणत्वात्’’ इत्यनेन पूर्वपक्षयित्वा, ‘‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’’ इति सूत्रेण सिद्धान्तितवान् । शिष्टस्य श्रुत्युपदिष्टस्य वेदं कृत्वा वेदिं करोतीत्यादेः स्मार्ताचमनाद्यनुष्ठानात् अकोपे हान्यभावे सत्यविरुद्धमेवञ्जातीयकं स्मार्तमिति चेत् पश्य सिद्धान्तिन्नित्याद्यसूत्रार्थः । एवमाशङ्क्याह पूर्वपक्षी – न शास्त्रपरिमाणत्वादिति । नैतदेवं अविरुद्धमेवंजातीयकमिति । कुतः? शास्त्रपरिमाणत्वात्पदार्थानामिति । शास्त्रेण परिमाणं पदार्थानां त्रिधाऽवगतम् । इयंत इति श्रुतिलिङ्गादिषट्केन, एतत्क्रमका इति श्रुत्यर्थादिषट्केन, प्रधानप्रत्यासन्ना इति प्रयोगवचनेन । तत्र यदि वेदवेदिकरणयोरन्तः क्षुन्निमित्तमाचमनमनुष्ठीयेत तर्हि इयत्तादित्रयमपि बाध्येत । तस्मात् श्रुत्युक्तार्थविरुद्धान्येवंजातीयकानि स्मरणान्यप्रमाणा-न्येवेति द्वितीयसूत्रास्यार्थः । अपि वेति पूर्वपक्षव्यावृत्तिः । क्रतुमध्ये प्रयुक्तान्याचमनादीन्य-विरुद्धत्वेन प्रमाणत्वेन प्रतीयेरन् । कारणाग्रहणे लोभादिरूपमूलान्तराग्रहणे सतीति तृतीय-सूत्रार्थः । वेदो नाम सम्मार्जनसाधनं दर्भमुष्टिः । तस्य करणं सम्यग्बन्धनाग्रपरिवासनादि-संस्कारः । वेदिर्नाम गार्हपत्याहवनीययोर्मध्ये चतुरङ्गुलखाता भूमिः । तत्करणं नाम वेदेन सम्मार्जनमुद्धननादिसंस्कारः ।

वार्तिककारस्तु भाष्यकारोक्तपूर्वपक्षस्यातिमन्दत्वाच्छिष्टाकोपेत्यादिना पूर्वपक्षयित्वा न शास्त्रेत्यादिना सिद्धान्तितवान् । अपि वेत्यादि त्वधिकरणान्तरमित्याह । तथा हि – न तावदाचमनस्मृत्यादय उदाहरणम् । हस्ताववनिज्य त्रिराचामेत् द्विःपरिमृज्य, सकृदुपस्पृश्येति प्रत्यक्षवेदविहितत्वादाचमनं न स्मार्तम् । यत्किञ्च ब्राह्मणो यज्ञोपवीत्येवाधीयेत याजयेद्यजेत वा यज्ञस्य प्रसृत्या इत्ययज्ञोपवीते प्रत्यक्षो वैदिको विधिः । यथा वै दक्षिणः पाणिरेवं देवयजनमिति दक्षिणाचारस्य प्रत्यक्षो वेदपरामर्शः । अत आचमनादीनां प्रत्यक्षश्रुतिविहितत्वेन स्मार्ततया नोदाहरणं युक्तम् । नापि विरोधाशङ्का ।

अप्राप्तेषु पदार्थेषु न भवन्ति क्रमादयः ।

प्राप्तेषु तदधीनत्वान्न पदार्थविरोधिता ।।

नित्यं चाचमनं सर्वं पूर्वत्वान्न विरुध्यते ।

नैमित्तिकं तु नित्यस्य क्रमादेर्बाधकं भवेत् ।।

अथ प्रमाणप्रमेयबलाबलयोः किं ग्राह्यमिति चिन्त्यते । किं प्रमाणबलाबलवशात् श्रौतेन स्मार्तबाधो धर्मित्वेन वा पदार्थानां बलीयस्त्वाद्धर्मभूतक्रमादिबाध इति । तदप्ययुक्तम् । सिद्धान्तासम्भवात् । तथा हि–

इष्टे स्मृतिप्रमाणत्वे दौर्बल्यं किं निबन्धनम् ।

अनिष्टे तु प्रमेयत्वं पदार्थानां कुतो भवेत् ।।

विषयालोचनेनाथ स्मृतेरत्र प्रमाणता ।

नान्योन्याश्रयतापत्तेरेतदप्यवकल्प्यते ।।

प्रमेयत्वे हि धर्मत्वात्पदार्था बलवत्तराः ।

बलवद्विषयत्वेन स्मृतेः स्यात्तत्प्रमेयता ।।

धर्मित्वाच्च बलीयस्त्वं स्वधर्मान् प्रति सम्भवेत् ।

न चैषामप्रमेयत्वे तद्धर्मत्वं क्रमादिना ।।

किञ्च वैदिकपदार्थमात्रोपसंहारिक्रमादिर्बाध्यते स्मृत्याचारपर्यन्तसकलप्रमाणप्रापितपदार्थोप-संहारी वा । आद्ये कल्पे स्मार्तपदार्थानपेक्षत्वात्कथं तद्बाध्यत्वम् । द्वितीये त्वविरोधान्न बाधः । वैदिकपदार्थमात्रपर्यालोचनयोत्पन्नमपि तावन्मात्रोपसंहारिक्रमज्ञानं स्मार्तपदार्थज्ञानेन बलीयसा बाध्यत इति चेत् न । बलवत्प्रमाणावष्टम्भमन्तरेण तद्बलीयस्त्वासिद्धेः ।

अतः प्रमाणदौर्बल्ये प्रमेयबलवागियम् ।

व्योमचित्रायते तेन विचारोऽयं न युज्यते ।

अतः शाक्यादिशास्त्रस्थं वेदवाक्याविरोधि यत् ।

सत्योक्त्यादिवचस्तत्किं प्रमाणं नेति चिन्त्यते ।।

विरोधेनाप्रमाणत्वं पूर्वमेषां निरूपितम् ।

तदभावादतः पूर्वपक्षी प्रत्यवतिष्ठते ।।

विरोधे प्रामाण्यमनपेक्ष्यमिति वदताऽर्थादविरोधे प्रामाण्यमुक्तम् । तथा सति वेदाविरोधि-नामहिंसासत्योक्त्याद्यर्थानां शाक्यादिवचसां प्रामाण्यं प्राप्नोति ।

एवमाद्येन सूत्रेण पूर्वपक्षः कृतोऽधुना ।

न शास्त्रपरिमाणत्वादित्यनेन निराकृतः ।

चतुर्दशैव शास्त्राणि वेदाश्चत्वार एव च ।

धर्मशास्त्रपुराणाङ्गमीमांसान्यायमिश्रिताः ।।

शाक्यादिसंहितास्तत्र बाह्याः शिष्टाप्रयोगतः ।

न शास्त्रपदवाच्याः स्युरतो धर्माप्रमाणता ।।

वेदप्रमित एवार्थः श्रेयःसाधनमाश्रितः ।

स्वाध्यायविधिनाऽन्येषां तदधीना प्रमाणता ।।

अतो वेदाननुज्ञातशाक्यादिवचसामिह ।

अविरोधेऽपि नैवास्ति प्रामाण्यं मत्तवाक्यवत् ।।

अपि वा कारणेत्येतद्भिन्नाधिकरणं मतम् ।

शिष्टाचारः प्रमाणं किं न वेत्यत्र विचार्यते ।।

स्मृतिन्यायेन सिद्धाऽपि शिष्टाचारप्रमाणता ।

विरुद्धाचारसंसर्गात्पुनराक्षिप्य साध्यते ।।

इति । न हीति । आचमनादेः प्राधान्यमनुष्ठीयमानत्वं, स्मृत्या क्षुत आचामेदित्येवं रूपया ।

अत एवेति । न चैतत्पित्रादिवचसि नास्तीति तत्र शब्दस्यैवाक्षबाधकत्वमिति वाच्यम् । पितृवाक्यत्वेनैव दृष्टमूलत्वात्तेनैव बाधः । न च चन्द्रेति । चन्द्रप्रादेशिकत्वादि प्रत्यय-स्याऽगमादिना भ्रमत्वं न ज्ञायते । किंतु प्रागेव ज्ञातदूरादिदोषेणेत्यर्थः । ननु युक्तिरेवैषा । यद्यद्दूरस्थाल्पपरिमाणज्ञानं तद्दूरदोषनिबन्धनमप्रमा । शैलाग्रस्थविटपिदूर्वांकुरपरिमाणज्ञानवत् । इदमपि तथेति । तथा चैवं रूपया युक्त्यैव चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य बाधं वदन्युक्त्या न प्रत्यक्षस्य बाध इति वक्तुं कथमुत्सहेत । किञ्च येन यस्य भ्रमत्वं ज्ञायते तत्तस्य बाधकमिति यदि तदा भ्रमत्वस्यानुमेयत्वादनुमानमेव बाधकमित्यायाति । न हि प्रमात्ववत् भ्रमत्वस्यापि स्वतस्त्वं भवदभिमतमिति चेन्न । दूरस्थतरुचन्द्रपरिमाणादौ नोक्तप्रकारेण युक्त्या वा बाध इष्यते । अपि तु दूरादिदोषेण स्वरूपसता जायमानं ज्ञानमर्थनिश्चयपराङ्मुखं जायते । तस्मिंस्तु जाते दूरादिदोष-जन्यत्वज्ञानसहकृतेन साक्षिणैव तत्र भ्रमत्वनिश्चय इति न प्रथमं युक्त्या दूरस्थचन्द्रपरिमाणादि- प्रत्यक्षबाधः । विरोधिनिश्चयप्रत्यक्षे जाग्रति तद्विपरीतयुक्तेरनुत्थानादित्युक्तत्वात् । अत एव पीतः शङ्खः, तिक्तो गुड इत्यादौ नापीतानुमित्यादिना प्रत्यक्षबाधः । किं त्वपीतप्रत्यक्षेणेति सर्वतान्त्रिकसिद्धान्त इति । परैरपि साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीति स्वीकर्तव्यम् । अन्यथा परोक्षज्ञानस्यापरोक्षभ्रमनिवर्तकत्वोपपत्तौ वेदान्तानामपरोक्षज्ञानजनकत्व-साधनप्रयासो व्यर्थः स्यात् । किं च नायं सर्प इत्याप्तवाक्यादिना सविलासाज्ञाननिवृत्त्यभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रमप्रमाणत्वबुद्धेस्तद्विषयसत्यताबुद्धेश्च निवर्तनात् । तावता भ्रमनिवर्तकत्वव्यपदेशाद्भ्रमे प्रामाण्यविभ्रमस्य तद्विषयसत्यताविभ्रमस्य च परोक्षत्वेनापरोक्ष-बाधानपेक्षत्वात् । न हि दुष्टकारणाजन्यत्वमबाधितविषयत्वं वा प्रामाण्यं कस्यचित्प्रत्यक्षम् । न वा सर्वदेशसर्वकालसर्वपुरुषाबाध्यत्वरूपं विषयसत्यत्वम् । अतस्तयोः परोक्षप्रमाबाध्यत्व-मुचितमेव । तयोश्च बाधितयोः रजतादिभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वादसन्निवेति बाधित इत्युच्यत इति तत्र तत्र परैरुक्तत्वात्परोक्षज्ञानस्यापरोक्षज्ञानबाधकत्वमभिप्रेत्य युक्त्या प्रत्यक्षं बाध्यत इति वदतां वाङ्मनसविसंवाद एव ।

न्यायामृतकण्टकोद्धारः

ननु तथापि जगत्प्रत्यक्षं नानुमानागमाबाध्यम् । भूयसां प्रत्यक्षाणामनुमानागमबाध्यानामुप-लम्भात् । तथा हि– इदं रूप्यमिति प्रत्यक्षं नेदं रूप्यं कालपृष्टत्वात् इत्यनुमानेन, गौरोऽह-मित्यादि, आत्मा नीरूपः विभुत्वादाकाशवत् इत्यनुमानेन, उष्णं जलमित्यादि, जलमनुष्णं शीतस्पर्शाधिकरणत्वात् व्यतिरेकेण वह्निवत् इत्यनुमानेन, अहमिहैवास्मि सदने जानान इत्यादि, आत्मा विभुः सदा सर्वत्र कार्यजनकत्वात् इत्यनुमानेन, सेयं ज्वाला इत्यादि, उत्तरज्वाला पूर्वस्या भिन्ना दीर्घह्रस्वत्वादिविरुद्धधर्माधिकरणत्वात् इत्यनुमानेन, अयं सर्प इत्यादि नायं सर्प इत्याद्याप्तवचोमात्रेण बाध्यं दृष्टमिति चोद्यं निराचष्टे – इदं रूप्यमित्यारभ्य ननु नीलं नभ इत्यन्तेन ग्रन्थेन । तत्र तावत् आद्ये आह – इदं रूप्यमिति । एवं प्रकृत-प्रत्यक्षमपि ततोऽपि बलवत्प्रत्यक्षेणैव बाध्यं कथञ्चिद्भवेत् । न च तदस्ति । न त्वनुमाना-गमाभ्यामिति भावः । ननु परीक्षासहकृतप्रत्यक्षस्य बाधकत्वे सविशेषणे हीति न्यायेन परीक्षाया एव बाधकत्वमिति चेन्न । प्रत्यक्षबाधने केवलयुक्तेरप्रसरात् प्रत्यक्षसहकृतयुक्तेर्बाधकत्वे सविशेषणे हीति न्यायस्य वैपरीत्यापातात् । तथापि किं विनिगमकमिति चेत् वह्निशैत्यानुमाने प्रत्यक्षस्य बाधकतायाः क्लृप्तत्वात् प्रत्यक्षस्यैव बाधकत्वम् । युक्तेस्तूपसर्जनत्वमात्रमिति विदाङ्कुर्वन्तु ।

ननु तत्रापि इदं रजतमिति प्रत्यक्षे जाग्रति तस्य युक्त्या प्रतिबन्धाक्षमत्वेऽङ्गीकृते तद्विषयप्रत्यक्षोत्पत्तेरनवकाश इति चेन्न । विरोधिप्रत्यक्षे जाग्रति युक्तेरप्यप्रवर्तनात् । न च विशेषदर्शनजन्यत्वेन युक्तेः प्रबलत्वात् प्रवृत्तिरिति वाच्यम् । प्रत्यक्षेऽपि संशयोत्तरप्रत्यक्ष इव विशेषदर्शनजन्यत्वस्य वक्तुं शक्यत्वेन प्रबलत्वेन प्रत्यक्षप्रवृत्तेरपि सम्भवात् । अन्यथा कालात्ययापदिष्टदोषता न स्यादित्युक्तत्वात् । किञ्च साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीति वक्तव्यम् । अन्यथा परोक्षप्रमाया अपि अपरोक्षभ्रमनिवर्तकत्वोपपत्तौ वेदान्तवाक्या-नामपरोक्षज्ञानजनकत्वप्रदर्शनप्रयासो व्यर्थः स्यात् । साक्षात्कारहेतुश्रवणादेश्च वैयर्थ्यं स्यात् । न च नायं सर्पः इत्याप्तवाक्यादिना सविलासाज्ञाननिवृत्त्यभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रम-प्रमाणत्वबुद्धेः तद्विषयसत्यताबुद्धेश्च निवर्तनात् तावता भ्रमनिवर्तकत्वव्यपदेश इति सविलासा-विद्यानिवृत्यर्थं ब्रह्मसाक्षात्कारानुसरणमिति वाच्यम् । भ्रमगतप्रमाणत्वबुद्धेः तद्विषयसत्यताबुद्धेश्च प्रत्यक्षतया युक्त्या तन्निवर्तनासम्भवात् । न चाबाधितार्थविषयकत्वरूपं प्रामाण्यमबाध्यत्वरूपं सत्यत्वं च न प्रत्यक्षमिति वाच्यम् । तयोः साक्षिवेद्यत्वेन प्रत्यक्षत्वात् । इतरथा प्रामाण्यस्य स्वतस्त्वं न स्यात् । सत्यत्वस्य प्रत्यक्षाप्रत्यक्षत्वात् । न चाबाधितार्थकत्वरूपप्रामाण्यस्य साक्षि-वेद्यत्वाभावेऽपि यथार्थत्व रूपप्रामाण्यस्य स्वतस्त्वमिति वाच्यम् । यथार्थत्वस्याबाधितार्थ-कत्वाभिन्नत्वात् । अबाध्यत्वरूपसत्यत्वाबाधितार्थकत्वरूपप्रामाण्ययोः प्रत्यक्षविषयत्वस्योप-पादितत्वाच्च ।

द्वितीयं प्रत्याह– गौरोऽहमिति ।। यद्यपि ज्ञाने न गौणी वृत्तिः । तस्याः शब्दधर्मत्वात् । तथापि ज्ञानं परंपरासम्बन्धविषयकम् । तज्जन्याभिलापः गौण इत्यर्थः । गौरोहमित्याद्यपि गौणं गौणव्यवहारमात्रम् । न तु ज्ञानमिति वा अर्थः । कर्दमलिप्ते वस्त्रे इति । न च कर्दमवस्त्र-योरिव शरीरात्मनोर्भेदानध्यवसायात् वैषम्यमिति वाच्यम् । शरीरात्मनोरपि मम शरीरमिति भेदप्रत्यक्षसत्त्वात् । शरीरात्मभेदप्रत्यक्षस्य पश्वादिसर्वसाधारण्यस्योपपादयिष्यमाणत्वाच्च ।

तृतीयं प्रत्याह– उष्णं जलमिति ।। नन्वत्र लिङ्गादिप्रवृत्तिदर्शनात् तत् लिङ्गबाध्यमेवेत्यत आह– यद्वेति । येन हि यस्य भ्रमत्वनिश्चयः तत् तस्य बाधकम् । न च लिङ्गादिना भ्रमत्वनिश्चयः । पूर्वमेव निश्चितद्रव्यान्तरसमभिव्याहाररूपदोषजन्यत्वसन्देहेन भ्रमत्वसन्देहात् ।

चतुर्थं प्रत्याह– अहमिहैवेति । ननु आत्मनः आकाशवत् सर्वगतत्वेन इहैवेति व्यवच्छेदस्याप्रामाणिकत्वमिति चेन्न । तस्य परमात्मविषयत्वेन जीवविषयत्वाभावात् । त्वन्मते आकाशस्यापि परिच्छेदवत्त्वेन तद्दृष्टान्तेन व्यापकत्वासिद्धेश्च । न च जीवो नाणुः, युगपदेव पादशिरोऽवच्छेदेन सुखदुःखानुभवात् । न हि एकोऽणुरेकदा व्यवहितदेशद्वयावच्छिन्नो भवति । न च युगपत्प्रतीतिर्भ्रमः । उत्सर्गसिद्धप्रामाण्यपरित्यागे बीजाभावादिति वाच्यम् । अणोरपि जीवस्य प्रकाशगुणेन युगपदुभयावच्छेदसम्भवेन युगपत् सुखदुःखानुभवोपपत्तेः । अत एव ‘गुणाद्वाऽऽलोकवत्’ इत्यत्र जीवस्य प्रकाशव्याप्तिरुक्ता । विस्तरेण च जीवाणुत्वं वक्ष्यामः ।

पञ्चमेऽप्यनुमानागमबाध्यत्वं निराह– ज्वालैक्यप्रत्यक्षमपीति । ननु निर्वापिता-रोपितातिरिक्तस्थले तावदयं विचारः । तत्र च दीर्घेयं न ह्रस्वा इति भेदप्रत्यक्षं वक्तुमशक्यम् । या एव ह्रस्वा सैव इदानीं दीर्घा इति ह्रस्वत्वदीर्घत्वाभ्यां पुरःस्थितयोरभेदस्य साक्षात्क्रिय-माणत्वात् । तथा च ज्वालाप्रत्यभिज्ञापि युक्तिबाध्यैवेति चेन्न । दीर्घेयं न ह्रस्वेति प्रत्यक्ष-स्यानुभवसिद्धत्वेन यैव ह्रस्वेत्यस्य पूर्वेद्युर्ये शालयो भुक्ताः त एवाद्य भुज्यन्ते इत्यादिवत् व्यपदेशमात्रत्वात् । न च विपरीतं किं न स्यादिति वाच्यम् । सजातीयनिर्वापितारोपितस्थले तद्व्यपदेशस्य क्लृप्तत्वात् । दीर्घेयमित्यस्य परिमाणादिभेदादियुक्तिसाहित्येन परीक्षितत्वाच्च । परीक्षितमपरीक्षितस्य बाधकमिति सर्वसिद्धम् । तादृशप्रत्यक्षाभावे तत्र भेदस्यैवासिद्धेः । अत एवाह– तादृशेति ।

षष्ठेऽपि केवलाप्तवचोमात्रबाध्यत्वं प्रत्याह– दूरस्थस्यायं सर्प इत्याद्यपीति । ननु नायं सर्प इति वाक्यजन्यं ज्ञानं वा बाधकम्? उत तन्मूलं प्रत्यक्षं वा? नाद्यः । प्रत्यक्षस्य शब्द-बाध्यत्वानङ्गीकारात् । न द्वितीयः, व्यधिकरणत्वेन तस्याबाधकत्वादिति चेन्न । आद्यं तावदङ्गीकुर्मः । न चापसिद्धान्तः । केवलस्य बाधकत्वाभावेऽपि प्रत्यक्षमूलत्वेन बाधक-त्वाभ्युपगमात् । यथा केवलस्य भृत्यस्य प्रकरणस्य वा अमात्यलिङ्गबाधकत्वाभावेऽपि राजगौरवश्रुत्यनुसारित्वाभ्यां भृत्यादेरमात्यादिबाधकत्वम् । अत एवाह– राजगौरवादिव श्रुतिगौरवादिव वेति ।। अस्तु वा द्वितीयः । न चोक्तदोषः । बाधकत्वं हि नोत्पत्तिप्रति-बन्धः । नेदं रजतमित्यस्याबाधकत्वापत्तेः । किन्तु भ्रमत्वज्ञापनं तत्समानाधिकरणेनेव व्यधिकरणेनापि । अत एवेदानीन्तनज्ञानानां महत्प्रत्यक्षविरोधस्य बहुषु मूलकोशस्थलेषूक्तिरिति न कश्चिद्दोषः । दुर्बलेनापि प्रबलमूलेन स्वापेक्षया प्रबलस्य बाधो भवतीत्यत्र मीमांसक-सम्मतिमाह– उक्तं हीति ।। दुर्बलस्य प्रमाणस्य बलवानाश्रयः बलवत्प्रमाणं मूलं सहकारि वा तदापि विपरीतत्वं दुर्बलेन प्रबलस्य बाधरूपं भवति । यथा शिष्टाकोपाधिकरणे इत्यर्थः ।

ननु एकत्र शिष्टाकोपाधिकरणे आचान्तेन कर्तव्यमिति स्मृत्या बलवद्विषयया वेदं कृत्वे-त्यादि दुर्बलविषयश्रुतिबाधेऽपि अन्यत्र केवलयापि स्मृत्या श्रुतिबाधोऽस्तु । ततश्च प्रकृतेऽपि राजगौरवेण राजभृत्यस्यामात्यबाधकत्वेऽपि अयं सर्प इति प्रत्यक्षस्य शब्दमात्रेण बाधोऽस्तु इत्याशङ्कायामाह – न हीति । तथा च स्मृतिमात्रेण श्रुतिबाधस्य क्वाप्यदर्शनात् तद्दृष्टान्तेन प्रकृते बाधशङ्का नेत्याशयः । शिष्टाकोपाधिकरणं चेत्थम्–प्रमाणलक्षणे स्मृतिपादे चतुर्थाधिकरणे चिन्तितम् । ‘शिष्टाकोपे विरुद्धमिति चेन्न शास्त्रप्रमाणत्वात्’ इति सूत्रम् । क्षुत आचामेत् इति विहितं पुरुषार्थमाचमनम् । यदा क्रतुमध्ये क्षुदादिकं प्राप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते । आचान्तेन कर्तव्यम् । एवं दक्षिणाचारेणोत्पादितानि क्रत्वर्थाङ्गस्मरणानि उदाहरणम् । किं प्रमाणमप्रमाणं वेति विचारः । तदर्थं च तानि प्रत्यक्षश्रुत्या विरुद्ध्यन्ते उत नेति । तदर्थमपि एभिः क्रतुमध्येऽनुष्ठीयमानैः कस्यचित् श्रुत्यर्थक्रमादेः बाधो भवति उत नेति । अथवा अभ्युपेत्यैव विरोधं प्रमाणमप्रमाणं वेति विचारः । तदर्थं च प्रमाणप्रमेयबलाबलविसंवादे किं ज्याय इति चिन्त्यते । ननु कथमत्र सन्देहः । विरोधे स्मृतेरप्रामाण्यस्य श्रुतेः प्रामाण्यस्य च निर्णीतत्वादिति चेदित्थम् । श्रौतत्वात् क्रमादयः पदार्थाः स्मार्ताचमनादिभ्यो बलीयांसो विज्ञायन्ते । प्रमेयस्वरूपालोचने पदार्थगुणत्वात् क्रमादेराचमनादयः पदार्था बलीयांसो गम्यन्त इति बलाबलद्वयविसंवादात् कतरेण निर्णय इति सन्देहः ।

पूर्वपक्षस्तु – स्मृतिरप्रमाणमिति । कुतः? क्रमकालपरिमाणप्रतिपादकश्रुतिविरुद्धत्वात् । तथा हि– वेदं कृत्वा वेदिं करोतीति श्रुतौ पूर्वकालवाचिना क्त्वाप्रत्ययेन क्रमः प्रतीयते । वेदो नाम दर्भमयं सम्मार्जनसाधनम् । वेदिः आहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलपरिखाता भूमिः । तथा यः कालः प्रधानेन अङ्गानामविप्रकर्षः प्रयोगे प्राशुभावश्च प्रयोगवचनावगतः यश्च पूर्वाह्नादिः, परिमाणं वा विस्मृतसमस्तपदार्थानुष्ठानसिध्यर्थं प्रयोगविधिनैवाकाङ्क्षितं पदार्थविधि-प्रचयावगतं वा एतत्क्रमकालपरिमाणात्मकं मध्ये क्षुदादिनिमित्ताचमनादौ क्रियमाणे नैरन्तर्यादि-बाधेन विरुध्यते । विरोधे च श्रुतिबलीयस्त्वात् स्मृत्यर्थस्य बाधः । न च क्रमादीनां श्रुत्यर्थ-त्वेऽपि पदार्थगुणत्वात् दौर्बल्यम् । आचमनादेः स्मृत्यर्थस्यापि पदार्थत्वात् बलीयस्त्वमिति वाच्यम् । प्रमाणपूर्वको हि प्रमेयावगमः । तेन पूर्वभाविप्रमाणस्थं बलाबलं पूर्वमेव गम्यते । तेन प्रमाणबलाबलेन आचमनादिभ्यः क्रमादीनां पूर्वमुपस्थितत्वात् बलीयस्त्वे निर्णीते निराकाङ्क्षत्वात् न पश्चादवगतं प्रमेयबलाबलमादर्तव्यम् । तस्मादाचमनादिस्मृतिरप्रमाणमिति ।

सिद्धान्तस्तु – आचमनादिस्मृतिः प्रमाणमेवेति । न च श्रुतिविरोधे कथं स्मृतेः प्रामाण्यमिति वाच्यम् । न हि स्मृतिश्रुत्योः स्वरूपेण विरोधः । किन्तु अर्थद्वारा । तत्र क्रमः श्रुत्यर्थः सर्वेषु पदार्थेषु प्राप्तेषु प्रयोगवेलायां तद्विशेषणतया आश्रीयते । तेन पदार्थप्राप्त्यपेक्षत्वात् क्रमस्य अत्यन्तजघन्यप्रमाणकोऽपि पदार्थः पूर्वं प्राप्नोति । पश्चात् तदाश्रितः क्रमः पूर्वपदार्थप्रयोगाङ्गतया अवतरन्नपि न पदार्थैर्विरुध्यते । कालोऽप्येवमेव प्रयोगाङ्गत्वात् यावन्तः पदार्था अवधारितास्तेषां सर्वेषामेव पूर्वाह्नादिकालत्वं प्रधानसन्निकर्षः प्रयोगप्राशुभावः । परिमाणं तु न कस्यचित् शास्त्रस्यार्थः । प्रयोगविधिरपि न तदाक्षिपति । अन्यथाप्यविस्मरण-सिद्धेः । अथापि शास्त्रार्थः तथापि प्रयोगौपयिकत्वात् प्रयोगस्य च प्रयोज्यपदार्थप्राप्त्यपेक्षत्वात् अविरोधित्वम् । तस्मान्न विरोधः । विरोधाभावाच्च न स्मृतिरप्रमाणम् । यद्यपि क्रमादी-नामाचमनादिर्भिर्विरोधः स्यात् । तथापि सर्वपदार्थगुणत्वात् दौर्बल्यमेव । आचमनादयस्तु पदार्थत्वात् बलवन्तः । न च प्रमाणबलाबलस्य पूर्वभावित्वेन प्राबल्यम् । न हि प्रमाणयोः स्वरूपतोऽपि विरोधः । अपि तु प्रमेयविरोधनिमित्तकः । कथं? प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधे बुद्धिर्भवति । एवं सति यदैव प्रमेययोर्विरोधोऽवगम्यते तदैव तयोर्बलाबलमपीति तत एव निर्णये कृते नैराकाङ्क्षयात् प्रमाणबलाबलमनादर्तव्यमिति न स्मृतेर्बाधः । एवं हि न्यायः । यद्धि स्वभावत एव अप्रमाणं तत् सर्वदैव अनादर्तव्यम् । यत्तु बलवद्विरोधापेक्षमप्रमाणं तत्तदभावापेक्षया प्रमाणमेवेति । तथा च अत्र बाधकाभावात् प्रमाणबलाबलस्याबाधकत्वात् आचमनादेर्बलीयस्त्वात् तदनुरोधेनैव श्रुत्युक्ताः क्रमादयो बाध्यन्त इति नाचमनादिस्मृतीनाम-प्रामाण्यमिति भाष्यकाराभिप्रायेण शिष्टाकोपाधिकरणन्यायः ।

वार्तिककारस्तु इदमधिकरणं निराचक्रे । नन्विदमधिकरणमयुक्तम् । पूर्वपक्षस्य अति-मन्दत्वात् । कुतः? यदि यज्ञोपवीतादिकं स्मार्तमेव स्यात् तदा उक्तन्यायेन संदेहः स्यात् । न चैवम् । प्रत्यक्षश्रुत्या यज्ञोपवीतादेर्विहितत्वात् तस्मादिदमनुदाहरणम् । तस्मादित्थमधिकरणम् । ब्रह्मचर्यमहिंसा चापरिग्रहः सत्यं च यत्नेन रक्षेदिति श्रुतौ अहिंसादिकं विहितम् । तत् अहिंसादिकं शाक्यशास्त्रेण विहितम् । शाक्यशास्त्राभासानां च पूर्वमप्रामाण्यमुक्तम् । तथा च शाक्यशास्त्रस्याप्रामाण्येऽपि अहिंसादिविषये प्रमाणमप्रमाणं वेति संदेहः । पूर्वपक्षस्तु – शाक्य-शास्त्रमहिंसादिरूपे धर्मे प्रमाणम् । शिष्टाकोपे विरुद्धमिति चेदिति सूत्रखण्डेन यत् तेष्वहिंसादि-वचनं श्रुतिस्मृतिशिष्टं न कोपयति तत् प्रमाणमेवेति । राद्धान्तस्तु – न शास्त्रप्रमाणत्वादिति । अयमर्थः – शास्त्रेणैव प्रमितो धर्मः । नाशास्त्रेण । कुतः? न खलु येन केनचित् प्रमितो धर्मः फलं साधयति । स्वाध्यायोऽध्येतव्यः, वेदो धर्ममूलम्, तद्विदां स्मृतिशीले, धर्मज्ञसमयः प्रमाणम्, वेदाश्च पुराणन्यायमीमांसा, धर्मशास्त्राङ्गमिश्रिताः वेदाः स्थानानि विद्यानां, धर्मस्य च चतुर्दश इत्येवमादिभिरेव धर्मप्रमितेर्नियमात् अन्यशास्त्रतः प्रमितस्य फलसाधनत्वाभावात् धर्मत्वाभावः । तथाच स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसम्बन्धे सति न धर्मत्वं भवतीति न शाक्यशास्त्रं धर्मे प्रमाणमिति । अनेन हीदमुक्तं भवति । स्वतः प्रामाणिकस्या-प्रमाणसम्बन्धे अप्रामाणिकत्वम् । स्वतः प्रबलस्य दुर्बलसम्बन्धे दुर्बलत्वम् । स्वतो दुर्बलस्य प्रबलसम्बन्धे प्रबलत्वमिति । एवमेव प्रकृते नायं सर्प इत्याप्तवाक्यस्य प्रत्यक्षमूलत्वेन प्रबलत्वात् युक्तं तेन प्रत्यक्षबाधनमित्याशयः ।

अत एवेति । ननु प्रतिवचनस्थले भ्रमप्रमादादिशङ्काक्रान्तत्वेन नायं सर्प इत्यादेर्दुबलतया न भ्रमनिवर्तकत्वम् । यत्र तु तादृशशङ्कानाक्रान्तत्वं तत्र भ्रमनिवर्तकतैव । यथा पित्रादिवचसि नेदृक् प्रतिवचनम् । किन्तु सिद्धवत्प्रवृत्यादिकमेवेति चेन्न । वेदेऽपि भ्रमप्रमादादिशङ्कासम्भवेन तस्यापि प्रत्यक्षबाधकत्वासम्भवात् । न चापौरुषेयत्वेन तच्छङ्कानिरासः । मिथ्यात्ववादिना अपौरुषेयत्वस्य कल्पितत्वेन तेन शङ्कानिरासासम्भवात् । किञ्चापौरुषेयत्वनिश्चयोऽपि अनुमानादिनैव । तत्रापि बौद्धाद्यागमविरोधादिना प्रामाण्यनिश्चयासम्भवात् । अस्तु वा अपौरुषेयत्वनिश्चयः तथापि तस्यार्थान्तरे प्रामाण्यसम्भवात् प्रतीतेऽर्थे तात्पर्यभ्रममूलकत्वसंदेहेन औतागमस्यापि त्वदभिमतेऽर्थे प्रामाण्यसंशयेन दुर्बलत्वात् न प्रत्यक्षबाधकत्वम् । यत्र लौकिके नायं सर्प इत्यादिवचसि शङ्कानाक्रान्तत्वं तत्रापि प्रत्यक्षमूलकत्वनिश्चयादेवेत्यवैहि । अत एव यत्र पित्रादिवचसि न तन्मूलकत्वनिश्चयः तत्रापि प्रतिवचनं भवत्येव । यत्र न प्रतिवचनं तत्र पिता दृष्ट्वैव वदतीति निश्चयात् । तस्मात् प्रत्यक्षमूलत्वेनैव नायं सर्प इत्यादेः शब्दबाध्यत्वं न स्वत इति स्थितम् । ननूक्तस्थले मा भवत्वनुमानादेर्बाधकत्वम् । तथापि पीतः शङ्खः इत्यादि तु अनुमैकबाध्यमिति तद्दृष्टान्तेन प्रकृतप्रत्यक्षस्यानुमानादिबाध्यत्वं स्यादेवेति शङ्कते – नन्विति । इदमपि सर्वं प्रत्यक्षं नानुमानादिबाध्यमिति वक्तुं भूमिकामारचयति – उच्यते द्विविधं ज्ञानमिति ।। तत्राद्यं यथेति ।।

नन्वेषा युक्तिरेव कथम् । यद्यत् दूरस्थाल्पपरिमाणज्ञानं तत्तद्दूरदोषनिबन्धनमप्रमा । शैलाग्रस्थविटपपरिमाणज्ञानवत् । इदमपि तथा इति । तथा च युक्तिबाध्यतैवोक्ता इति चेन्मैवम् । अस्य साक्षिरूपत्वेन युक्तिरूपत्वाभावात् । साक्षी खलु उत्पन्नोत्पत्स्यमानवर्तमान-सकलज्ञानेषु दूरस्थाल्पपरिमाणविषयेषु दूरदोषनिबन्धनमप्रामाण्यं निश्चाययतीति । न हि यो यो धूमवान् सोऽग्निमान् यथा महानस इति न प्रत्यक्षम् । तथा च पूर्वमेव साक्षिरूपस्य ज्ञानस्य सत्वेन प्रत्यक्षबाध्यतैव । न च प्रत्यक्षस्य वर्तमानमात्रग्राहकस्य कथं भाविज्ञानेऽप्रामाण्य-निश्चायकत्वमिति वाच्यम् । तस्य भविष्यद्ग्रहणसामर्थ्यस्य त्वयाऽप्यङ्गीकार्यत्वात् । अन्यथा प्रामाण्यस्य स्वतस्त्वं न स्यादिति । अस्तु वा युक्तिरेव । तथाप्यस्याः प्रत्यक्षमूलत्वेन नायं सर्प इत्येतत्समानयोगक्षेमत्वम् । न च प्रकृतेऽपि युक्तिः प्रत्यक्षमूलेति वाच्यम् । त्वन्मते प्रत्यक्षस्या-प्रमाणत्वेन तन्मूलत्वेन प्राबल्योक्त्ययोगात् । त्वदुक्तयुक्तेश्चाप्रयोजकत्वेन व्याप्तिप्रत्यक्षमूलत्वा-भावाच्च ।। द्वितीयं यथा सवितृशङ्खादाविति ।। ननु पीतः शङ्ख इति ज्ञानस्य बाधकं प्रत्यक्षं किं अव्यवहितपूर्ववर्ति स्वीक्रियते उत दोषाभावदशायां यत् श्वैत्यप्रत्यक्षं तद्वा? नाद्यः । दोषा-भावदशायामव्यवहितपूर्ववर्तिनस्तस्याभावात् । न द्वितीयः । तदानीन्तनस्येदानीमसत्त्वेन बाधकत्वानुपपत्तेरिति चेन्मैवम् । इदानीं तत्प्रत्यक्षाभावेऽपि तज्जन्यस्मृत्या बाधोपपत्तेः । न चानुभवात् स्मृतिर्दुर्बलेति वाच्यम् । परीक्षितप्रत्यक्षमूलत्वेन प्रबलत्वात् । अस्तु वा दोषाभाव-दशायां जातस्य श्वैत्यप्रत्यक्षस्य बाधकता । न च तस्य तदानीमसतो न बाधकत्वमिति वाच्यम् । बाधकत्वं हि नोत्पत्तिप्रतिबन्धः । नेदं रजतमित्यस्य बाधकत्वानुपपत्तेः । किन्तु भ्रमत्व-ज्ञानजनकत्वम् । तच्च तेन तदानीमसतापि प्रत्यक्षेण सुसम्भवमिति न काचिदनुपपत्तिरिति ।

नन्वेतावता कथं चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य नागमादिबाध्यत्वम् । तदबाध्यत्वे कथं चागमादेर्बाधकत्वव्यवहारोऽपीत्यत आह– एवञ्चेति । तदुत्पत्यनन्तरं स्वार्थनिश्चायकत्वरूप-बाधकगुणयोगात् प्रवर्तमानस्यागमादेः बाधकत्वमुपचर्यते न तु वस्तुत इति भावः । ननु वस्तुत एव बाधकत्वं किं न स्यादित्यत आह– येन यस्येति । एवञ्च चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य प्राक्तनदोषजन्यत्वग्राहिप्रत्यक्षेणैव भ्रमत्वज्ञानमिति तस्यैव बाधकत्वं न त्वागमादेरिति भावः । अकलङ्कितमिति । अप्रामाण्यशङ्काकलङ्करहितमित्यर्थः । तस्य स्वरूपमाह– स्वार्थपरिच्छेद इति । तदपि कुत इत्यत आह– निःशङ्केति । ननु दूरादिदोषाभावेऽपि अतिरिक्त एव दोषः किं न स्यात् । न हि दूरादय एव दोषाः सन्ति इत्यत आह ।। यदि चेति । एवञ्च क्लृप्तदोषा-भावनिश्चयेन अक्लृप्तदोषाभावसाधनात् तत्कल्पनाऽसम्भव इति भावः । एवमपि परपक्ष-दूषणैकार्थेन दोषः कल्प्येत तदा स्वपक्ष एवोच्छिद्येतेत्याह– तर्हीति ।।

ननु क्लृप्तदोषाभावनिश्चयोऽसिद्धः । आविद्यकतारूपदोषाभावस्यानिश्चयात् इत्याशङ्क्य निषेधति – न चेति । प्रमातृप्रमेयप्रमाणदोषेभ्यो हि ज्ञानस्य दुष्टता भवति । आविद्यकता-रूपदोषः किं प्रमेयनिष्ठः उत प्रमाणनिष्ठः उत प्रमातृनिष्ठो वा? नाद्यः इत्याह– मेया-विद्यकत्वस्येति । अद्यापीति । मिथ्यात्वसिद्धेः प्रागित्यर्थः । न द्वितीय इत्याह– मानेति । श्रुतेरपौरुषेयत्वेऽपि आकाशादेरिव आविद्यकत्वस्य आवश्यकत्वादिति भावः । तृतीयस्तु, तथा सति अद्वैतज्ञानेऽपि प्रमात्वं न स्यात् तत्प्रमातुराविद्यकत्वदोषदुष्टत्वादित्युपर्येव परिहर्तव्यः । दोषान्तरमाशङ्क्य निषेधति – नापीति । नन्वकलङ्कितं सर्वथा अबाध्यं किमित्यतो व्यवस्था अस्तीत्याह– इदं चेति । नीलं नभ इति प्रत्यक्षमपि नानुमाबाध्यम् । किन्तु चन्द्रप्रादेशिकत्व-प्रत्यक्षतुल्यमित्याह– एवञ्चेति । चन्द्रप्रादेशिकत्वप्रत्यक्षं साक्षिरूपप्राग्दोषजन्यत्वज्ञानप्रयुक्ता-प्रामाण्यनिश्चयेन बाधितप्रायमप्रामाण्यशङ्काकलंकितमुत्पद्यत इति यथा नागमेन बाध्यते एवमेव नभोनैल्यप्रत्यक्षमपि साक्षिरूपप्राग्दोषजन्यत्वनिश्चयेनैव बाधितप्रायमप्रामाण्यशङ्काकलङ्कितमुत्पद्यते । न नीरूपत्वानुमितिबाध्यमित्यर्थः । ननु नभोनैल्यप्रत्यक्षस्य दूरादिदोषजन्यत्वनिश्चयः कुत इत्यत उक्तम् – आकाशे समीपे नीरूपत्वनिश्चयादिति । एवञ्च यत् समीपे नीरूपत्वेन निश्चितं तत्र रूपित्वेन ज्ञानं दोषजन्यमेवेत्यप्रमाणमिति साक्षिणा निश्चितत्वादिति । समीपे नीरूपत्वनिश्चयश्च वक्ष्यमाणप्रकारेण साक्षिणा चक्षुषा वेत्यवधेयम् । न च दूरे रूपित्वनिश्चयात् समीपे नीरूपित्वनिश्चयो दोषजन्य इति किं न स्यादिति वाच्यम् । यत्र हि दूरप्रदेशे रूपित्वनिश्चयः तत्रैव तत्रत्यस्याबाधितनीरूपत्वनिश्चयात् न वैपरीत्यावकाशः ।

न्यायामृतप्रकाशः

नन्विदं रूप्यमिति प्रत्यक्षं इदं रूप्यं न भवति दाहच्छेदादिमत्त्वादिति युक्तिबाध्यं दृष्टमिति चेत्तत्राह ।। इदं रूप्यमिति ।। ननु गौरोऽहमिति अहंत्वगौरत्वयोः सामानाधिकरण्यप्रतीतेरात्मनः शरीराभेदावगाहिप्रत्यक्षम्, आत्मा न शरीरं चेतनत्वादित्यादिभेदानुमानबाध्यं दृष्टमित्यत आह ।। गौरोऽहमिति ।। किञ्च मम शरीरमिति सर्वसिद्धभेदप्रत्ययाच्च गौरोऽहमिति नैक्याध्यासः किंतूपचार इत्याह ।। कर्दमेति ।। गौणं उपचारः । तथा च व्यवहारमात्रमेवेदं न ज्ञानमित्यर्थः । ‘‘उपचारश्च कृष्णोऽहमपि कर्दमलेपने । वस्त्रस्ये’’त्यनुव्याख्यानोक्तेः । ननूष्णं जलमिति प्रत्यक्षं नोष्णं जलं शीतत्वादित्याद्यनुमानबाध्यमिति चेत्तत्राह ।। उष्णमिति ।। गौणम् उपचारः । तथा च प्रत्यक्ष-स्यानुमानबाध्यत्वे गौरोऽहमुष्णं जलमिति उदाहरणद्वयमप्ययुक्तमित्याशयः । प्रौढिवादोऽयम् । संयुक्तसमवायेन उष्णं जलं, कृष्णं वस्त्रमित्यनयोः प्रत्यक्षयोः प्रमाणत्वादिति ध्येयम् । अत एवास्वरसाद्दूषणान्तरमाह ।। यद्वेति ।। जले औष्ण्याभावस्य स्पार्शनेन पूर्वमेव निश्चितत्वात् । निश्चितं यद्द्रव्यान्तरम् अनुद्भूतरूपोद्भूतस्पर्शवत्तेजोरूपं तत्समभिव्याहाररूपदोषेणोष्णं जलमिति ज्ञानं शङ्किताप्रामाण्योपेतमेव जायते । ततःपरं प्रवर्तमानं लिङ्गं बाधकमिवोच्यत इत्यर्थः । नन्वथापि अहमिहैवस्मि सदने जानान इत्यात्माणुत्वग्राहिप्रत्यक्षम् आत्मा विभुः सर्वत्र कार्योपलम्भा-दित्यनुमानबाध्यं दृष्टमित्यत आह ।। अहमिहैवेति ।। अणुत्वादिति । उत्क्रान्तिगत्यागतीनां हेतूनां सकाशादणुरेवेत्युक्तेरित्यर्थः ।

ननु दीपज्वालैक्यग्राहिप्रत्यक्षं हस्वत्वदीर्घत्वादिविरुद्धधर्माधिकरणत्वान्नैका पूर्वोत्तरदीपज्वाले-त्यनुमानबाध्यं दृष्टमिति चेत् तत्र विकल्पयामः । यत्रादौ दीपो निर्वापितः पश्चात्पुनरारोपितस्तत्र ज्वालैक्यग्राहिप्रत्यक्षमित्युच्यते । अथवा यत्र निर्वापितारोपितो न भवति किंतु यथास्थित एवास्ति तत्र ज्वालैक्यग्राहिप्रत्यक्षमित्युच्यते । आद्ये आह ।। निर्वापितेति ।। नाशितेत्यर्थः । भेदग्राहीति ।। पूर्वोत्तरज्वालयोरिति शेषः । द्वितीये त्वाह ।। अन्यत्रापीति ।। निर्वापितारोपितदीपे न भवति चेदित्यर्थः । प्रत्यक्षेण परिणामभेदग्राहिप्रत्यक्षेण । दीर्घोऽयमित्यादिपरिणामभेदग्राहिप्रत्यक्षाभावे कथमित्यत आह ।। तादृशेति ।। नेति ।। एकप्रकारेणैव दीपस्य सत्त्वात्तत्र भेदग्राहिलिङ्गस्यैवा-भावात् । तथा च तत्रैक्यग्राहिप्रत्यक्षं प्रमाणमेवेति भावः । नन्वयं सर्प इति प्रत्यक्षं नायं सर्प इत्याप्तवाक्येन बाध्यं दृष्टमित्यत आह ।। अयं सर्प इति ।। अयं सर्प इति प्रत्यक्षं पुनरुत्तरक्षणे नायं सर्प इति स्वप्रत्यक्षेणैव बाध्यं भविष्यतीत्यत उक्तम् ।। दूरस्थस्येति ।। स्वस्य दूरस्थत्वेन विशेष-दर्शनावकाशाभावेन भ्रम एव भविष्यति न बाधकप्रत्यक्षावकाश इति भावः । दृष्टान्तान्तरमाह ।। श्रुतीति ।। श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यस्य निर्णीतत्वात् । दुर्बलेनापि श्रुत्यनुसारिणा प्रकरणेन श्रुतिगौरवात् प्रबलमपि लिङ्गादिकं बाध्यं दृष्टम् । तथापि ‘‘य एषोन्तरक्षणी’’त्यत्रोक्तं चक्षुरन्तस्स्थत्वरूपलिङ्गं प्रबलमपि ‘‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे’’त्यादि-ब्रह्मश्रुत्युपेतप्रकरणेन दुर्बलेनापि श्रुतिगौरवाद्बाध्यं दृष्टमित्यवधेयम् ।।

शिष्टाकोपे यथोदितमिति ।। प्रमाणलक्षणे स्मृतिपादे चिन्तितम् । ‘‘शिष्टाकोपे विरुद्धमिति चेत् न शास्त्रपरिमाणत्वात्’’ इत्यत्र ‘‘वेदं कृत्वा वेदिं करोति’’ इति श्रूयते । वेदो नाम सम्मार्जन-साधनभूतदर्भमुष्टिः । तस्य करणं नाम दृढबन्धनादिरूपः संस्कारः । वेदिर्नाम गार्हपत्याहवनीय-योर्मध्ये चतुरङ्गुलखाता भूमिः । तत्करणं नाम वेदेन सम्मार्जनादिसंस्कारः । तथा चादौ वेदः कार्यः पश्चाद्वेदिः कार्येति श्रुतौ क्रमः प्रतिपाद्यते । अत्रैव ‘‘क्षुत आचामेत्’’ इति स्मरणमस्ति । तत्र यदि वेदकरणानन्तरं यदि क्षुतः स्यात्तर्ह्याचामेत् अनन्तरं वेदिः कार्येति स्मृत्यर्थः । तत्र तत् स्मरणं प्रमाणमप्रमाणं वेति संशये वेदवेदिक्रमवचनस्यैव प्रबलत्वात्तद्विरुद्धं स्मरणमेवाप्रमाणमिति पूर्वः पक्षः । सिद्धान्तस्तु क्षुत आचामेदिति स्मरणं प्रधानभूताचमनादिपदार्थप्रतिपादकतया प्रबलम् । श्रुतिस्तु वेदवेदिरूपपदार्थयोर्धर्मभूतक्रमप्रतिपादकतया दुर्बला । अतो निरन्तरानन्तर्यप्रतिपादिका श्रुतिरेव स्मृत्या बाध्यत इति । प्रबलाश्रयसद्भावदशायामेव नीचं प्रबलबाधकं नान्यदेत्येतदुपपाद-यति ।। न हीति ।। प्रधानभूतेति ।। पदार्थनिष्ठधर्मापेक्षया पदार्थानां प्रधानत्वादित्यर्थः । तथा च प्रधानभूताचमनादिविषयकत्वरूपबलवदाश्रयवती स्मृतिः श्रुतिबाधिकेति भावः ।। अन्यत्रापीति ।। औदुम्बरीं स्पृष्ट्वोद्गायेदित्यादावपीत्यर्थः ।। अत एवेति ।। अयं सर्प इति प्रत्यक्षं नायं सर्प इत्याप्तवाक्यं प्रति मूलभूतपरीक्षितप्रत्यक्षगौरवादेव शब्दबाध्यं यतोऽत एवेत्यर्थः । शब्देनैवेति ।।

‘‘अष्टाशीतिसहस्राणि विस्तीर्णं योजनानि तु ।

प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु’’ ।।

इति शब्देनैवेत्यर्थः । ननु तत्रापि तन्मूलभूतप्रत्यक्षेणैव बाध इति शङ्कावारणाय अप्रत्यक्ष-मूलेत्युक्तम् । चन्द्रप्रादेशत्वादिसर्वापटुप्रत्यक्षवैलक्षण्यं जगत्प्रत्यक्षस्योपपादयितुं चन्द्रप्रादेशत्वादि-प्रत्यक्षस्यापटुत्वेऽनुमानागमाबाध्यत्वं कथम् । प्रत्युतापटुत्वादेवानुमानागमबाध्यत्वमेव स्यादित्याशङ्कां परिहरन् ज्ञानभेदं तावदाह ।। द्विविधं हीत्यादिना ।। एकाकारनियतं एककोट्यवगाहीत्यर्थः ।। निश्चयादिति ।। यद्दूरस्थत्वादिदोषयुक्तं तत्परिमाणादावयथार्थमिति साक्षिणा निश्चितत्वादित्यर्थः । एवं ज्ञानप्रभेदमुक्त्वा इदानीं चन्द्रप्रादेशत्वादिप्रत्यक्षस्य एकाकारविषयत्वात् स्तम्भप्रत्यक्षवत्पटुत्वमेव । अपटुत्वेऽपि आगमादिबाध्यत्वमेवेति शङ्काया उत्तरमाह ।। एवं चेत्यादिना ।। आदिपदेन नभोनैल्यप्रत्यक्षग्रहः ।। ज्ञातेनेति ।। साक्षिणेति शेषः ।। परिच्छेदो निश्चयः ।। न तु तेनेति ।। शब्दादिना न बाधः किंतु प्रबलप्रत्यक्षेणैवेति भावः ।। न बाध इति ।। तत्र प्रवर्तमानं शब्दादि-बाधकमिवोच्यत इत्यर्थः ।। आगमादिनेति ।। येन तस्य बाधकत्वं स्यादित्यर्थः । किंनाम प्रबल-प्रत्यक्षेणैवातस्तस्यैव बाधकत्वमिति वाक्यशेषः । द्वितीये द्वितीयमुदाहरति ।। अकलङ्कितमिति ।। स्वार्थपरिच्छेदे स्वार्थनिश्चये ।। न ह्यत्रेति ।। घटस्सन्नेवेत्यादिजगत्प्रत्यक्ष इत्यर्थः । तथा च सर्वापटुप्रत्यक्षवैलक्षण्यमिति भावः ।। प्रत्यक्षे क्लृप्तेति ।। चन्द्रप्रादेशत्वादिप्रत्यक्षे क्लृप्तेत्यर्थः । कल्प्येत जगत्प्रत्यक्षेऽपीत्यर्थः ।। विप्रलम्भेति ।। विप्रलम्भादिदोषेत्यर्थः । अपौरुषेयत्वेन पुरुषदोष-निबन्धनदोषाभावादिति भावः ।

जगत्प्रत्यक्षेऽन्यत्र क्लृप्तदोषव्यतिरिक्तं दोषान्तरमाशङ्क्य निषेधति ।। न चेत्यादिना ।। जगत्प्रत्यक्षे दोषत्वेनोच्यमानमाविद्यकत्वं किं मेयस्य उत मानस्य नोभयमपीत्याह ।। मेयेत्यादिना ।। श्रौतेति ।। तथा च तस्याप्यप्रामाण्यं स्यादिति भावः ।। भेदवासनेति ।। तथा च भेदभ्रमवासनाया दोषत्वकथनमयुक्तमिति भावः ।। इदं चेति ।। अनुमानादिबाधकतयोच्यमानं सत्त्वग्राहिप्रत्यक्ष-मित्यर्थः ।। अवकाशदमिति ।। स्वबाधनायेति शेषः । बाह्यं साक्षिभूतस्वरूपेन्द्रियव्यतिरिक्तं चक्षुरादि । अन्येन अनुमानेनागमेनेत्यर्थः ।। अवकाशदमिति ।। स्वबाधनायेति शेषः । एवं चन्द्र-प्रादेशत्वादिप्रत्यक्षस्यागमाबाध्यत्वमुपपाद्य नभोनैल्यप्रत्यक्षस्याप्यनुमानाबाध्यत्वमुपपादयति ।। एवं चेति ।। दूरतः क्रोशादिपरिमितप्रदेशे नैल्यबुद्धौ सत्यां समीपे तावदाकाशे मम रूपं न प्रतीयत एव दूरे तज्ज्ञानं दोषजन्यमिति समीपगमनात्प्रागेव निश्चिततया पश्चात्पुनर्धावनेन यत्प्रदेशे रूपं प्रतीतं

तत्र गमने सति रूपं न प्रतीयत एव । तथा च नभोनैल्यप्रत्यक्षेण प्रागेव ज्ञातदूरादिदोषेणाप्रमात्वेन साक्षिणा ज्ञातेन संदेहवत्स्वार्थपरिच्छेदपराङ्मुखेन निश्शङ्कप्रवृत्त्यजनकेनावकाशे दत्ते पश्चात् नभो नीरूपं विभुत्वादिति प्रवर्तमानमनुमानं बाधकमिवोच्यते न तु तेन बाधः किंतु समबलप्रत्यक्षेणैवेति भावः ।

न्यायकल्पलता

ननु परीक्षितत्वेनैव प्राबल्यम् । नोपजीव्यत्वापरोक्षत्वादिना । अनुमानशब्दबाध्यत्वस्य प्रत्यक्ष-दर्शनात् । तथाहि । इदं रजतमिति प्रत्यक्षस्यानुमानाप्तवाक्याभ्याम् । नभोनैल्यप्रत्यक्षस्य नीरूपत्व-ग्राहकानुमानेन गौरोऽहमित्यस्याहमिहैवास्मिन् सदने जानान इत्यस्य च चन्द्रप्रादेशिकत्वप्रत्यक्षस्य चानुमानागमाभ्यां पीतःशङ्खस्तिक्तो गुड इत्यादेश्चानुमानाप्तवचनाभ्यां बाधो दृश्यत इत्यत आह । इदं रूप्यमितीति । सयुक्तिकेति । ननु रजताभेदशरीराभेदप्रत्यक्षयोर्जाग्रतोरकृते युक्त्या प्रतिबन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्तेरेव नावकाश इति चेत् । तर्हि सुतरां युक्तेरनवकाशः । तस्याविरोधिनिश्चयमात्र-प्रतिबध्यत्वात् । तस्माद्रजताद्यभेदप्रत्यक्षे विद्यमानेऽपि स्वभावत एव बलवद्विपरीतप्रत्यक्षमुत्पद्यते स्वसामग्रीमहिम्नेति स्वीकार्यम् । अन्यथा क्वचिदपि ज्ञानेऽर्थासत्वमपर्यवसाय्य प्रामाण्यशङ्काद्यनुदयः स्यात्् । तद्विरोधिनः प्रथमोत्पन्नप्रत्ययस्य जागरूकत्वात् । यक्तेस्तु दोषमात्रनिरासोपक्षीणत्वात् । त्वन्मते मननादिनाऽसम्भावनाविपरीतभावनानिरासे मनसा ब्रह्मापरोक्षज्ञानवदिति ।

ननु देहस्यात्मत्वं प्रत्यक्षप्राप्तमपि देहो नात्मा भूतत्वात्कार्यत्वाद्घटवदित्याद्यनुमानेन तं स्वशरी रात्प्रवृहेदित्यागमेन बाधितं दृष्टम् । अन्यथा बाधकान्तराभावाद्देहात्मत्वस्यावास्तवत्वापातादिति चेत् । मैवम् । नास्त्येव देहात्मत्वप्रतीतिर्याऽनुमानादिना बाध्यते । येषां वाऽस्ति नास्तिकादीनाम् । तेषामपि नेन्द्रियजा किन्तु अनुमानाभासजन्यैवेत्यतो नेदं प्रत्यक्षस्यानुमानबाध्यत्वे निदर्शनम् ।

ननु सर्वस्यापि विद्वदविद्वत्साधारणस्य जन्तोर्मम देह इत्येवाबाधितप्रतीतेः सदा सम्यगनुवर्तमान-त्वाद्देहोऽहमिति प्रतीत्यवकाशाभावेऽपि देहधर्माणां गौरत्वादीनामात्मनिष्ठत्वप्रतीतिस्तावदस्त्येव । गौरोऽहं कृष्णोऽहमित्यादिव्यवहारदर्शनात् । सा च लिङ्गाद्यनपेक्षयैव जायमाना प्रत्यक्षजन्यैव । बाध्यते चानुमानादिनेति सैवोदाहरणं भवत्वित्यत आह । गौरोऽहमित्याद्यपीति । मम शरीरमिति सर्वसिद्धा-बाधितप्रत्ययाच्च गौरोऽहमित्याद्यपि नैक्याध्यासः किन्तु ह्यभिलापरूपो व्यवहारो गौण उपचार एवेति । अथ यो व्यवहारबलेन तथाविधां प्रतीतिमप्यनुमिनोति । तस्यानैकान्तिकत्वं स्यादित्याशयवानुक्तार्थं निदर्शयितुमुक्तं कर्दमेति । योहि वस्त्रस्य शौक्ल्यं कर्दमलेपनं च सम्यवगच्छति न तस्य वस्त्रे कार्ष्ण्य-प्रतीतिरस्ति । व्यवहरति च कृष्णं वस्त्रामिति । अतो गौरोऽहमित्यादिव्यवहारात्तथाविधाज्ञानानुमानं तत्र व्यभिचरति । उपचारव्यवहारोऽसाविति चेत् । प्रकृतेऽपि तथा किं न स्यादिति ।

ननु कृष्णं वस्त्रमिति नोपचारः स्वतः शुक्लेऽपि वस्त्रे कर्दमौपाधिककार्ष्ण्यसद्भावेन प्रतीति-सम्भवादिति चेत् । किमिदमौपाधिकं नाम । साधनाभिमते व्याप्तिरिव कर्दमसन्निधानादारोप्यमाणमिति चेत् । न । आरोपासम्भवस्योक्तत्वात् । जपाकुसुमसन्निधानात्स्फटिके रक्ततेव प्रतिफलतीति चेत् । न । वस्त्रस्य स्फटिकवत्प्रतिफलनोपाधिताप्रयोजकातिस्वच्छत्वाभावात् । घृतादिना कुङ्कुमगन्धादिरिव कर्दमेनाभिव्यक्तमिति चेत् । न । प्राग्वस्त्रे कार्ष्ण्यसद्भावे मानाभावात् । अथाग्निसंयोगात्पार्थिवद्रव्ये रूपादिकमिव कर्दमोपाधिना कृतमिति मतम् । तत्र पृच्छामः । किं कर्दमः शौक्ल्यं निवर्त्य कार्ष्ण्यं वस्त्रे करोति । उतानिर्वर्त्यैव । नाद्यः । कर्दमापगमे शौक्ल्यानुपलब्धिप्रसङ्गात् । न च पुनः शौक्ल्यमुत्पन्नम् । कारणाभावात् । न द्वितीयः । युगपद्रूपद्वयाधिष्ठानविरोधात् । भवतु वा वस्त्रे कथञ्चित्कार्ष्ण्यमुपाधिकृतं किं तु तदुपन्यासेनाभ्यर्थ्यते । न चोक्तव्यभिचारपरिहारः । एकोदाहरणनिरासेऽप्यग्निर्माणवक इत्यादेरनेकस्य व्यभिचारोदाहरणस्य सम्भवात् । अथ वस्त्रे कर्दमेनेवात्मनि देहोपाधिना कृतं कार्ष्ण्य-मस्तीति प्रतीतिः सम्भावयितुमभिप्रेता तदा स्वतः शुक्लमेवेदं वस्त्रं न कृष्णम् । कार्ष्ण्यं तूपाधिकृतं तद्वदत्रापि स्वतो नीरूप एव अहं कार्ष्ण्यं न मम स्वभावः किन्तु देहोपाधिकृतमिति प्रतीयत इत्यङ्गीकार्यम् । तथा चौपाधिकस्यापि सत्यत्वेन स्वाभाविकाविशेषादस्याः प्रतीतेर्यथार्थत्वान्नानुमानादिना बाध इति । विस्तरेण चैतदग्रे वक्ष्यते ।

उष्णमिति । तोयतेजसोर्भेदाध्यवसायादिति भावः । ननु द्रव्यान्तरसंवलनरूपदोषेण यदा तोयतेजसोर्भेदाग्रहादुष्णं जलमित्यभेदप्रत्यक्षमनुमानादिबाध्यत्वेऽस्तु निदर्शनमित्यत आह । यद्वेति । पयसि तेजःसंवलनादेवोष्णत्वमिति प्रागेव निश्चितत्वात्साक्षिणा बाधितप्रायस्यैव प्रत्ययस्य दुष्टेन्द्रियादुत्पत्तेरिति भावः । जीवस्येति । ननु जीवो नाणुः युगपदेव पादशिरोवच्छेदेन सुखदुःखानु-भवात् । नह्येकोऽणुरेकदा व्यवहितानेकदेशावच्छिन्नो भवति । युगपत्प्रतीतिश्च न भ्रमः । उत्सर्गसिद्ध-प्रामाण्यपरित्यागे बीजाभावात् । ‘‘आकाशवत्सर्वगतश्च नित्य’’ इत्यागमेन च जीवस्य सर्वगतत्व-सिद्धेरिहैवेति व्यवच्छेदस्याप्रामाणिकत्वादिति चेत् । न । उत्क्रान्तिगत्यागतीनां, सोऽस्माच्छरीरादुक्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति स गर्भी भवति स प्रसूयते स कर्म कुरुते इत्यादिसूत्रानु-गृहीतश्रुत्युपात्तहेतुभ्यो जीवोऽणुरेव । न व्याप्तः । न हि व्याप्तद्रव्यस्य व्योमादेरुत्क्रान्त्याद्यस्ति । तथा च प्रयोगः । जीवो न व्याप्तः उत्क्रान्तिगत्यागतिमत्वात्पतत्रिशरीरवदिति । अतो निराकृतमध्यमपरिमाणस्य जीवस्य सर्वगत्वानुपपत्तेरपवादादणुत्वमेवेति भावः । एतच्चोपपादयिष्यते विस्तरेण । अन्यत्रापीति । निर्वापितारोपितातिरिक्तस्थले इत्यर्थः । न च तत्र दीर्घोऽयं दीपो ह्रस्वो नेति भेदप्रत्यक्षं वक्तुमशक्यं य एव दीर्घः स एवेदानीं ह्रस्व इति दीर्घत्वह्रस्वत्वाभ्यामुपस्थितयोरभेदस्य साक्षात्क्रियमाणत्वादिति वाच्यम् । तथा प्रत्यभिज्ञाया एव दुर्वचत्वात् । उदाहरणान्तरं निराह । दूरस्थस्येति ।

शिष्टाकोपे यथोदितमिति । प्रमाणलक्षणे प्रथमेऽध्याये तृतीये स्मृतिपादे चिन्तितम् । शिष्टाकोपे विरुद्धमिति चेन्न शास्त्रपरिमाणत्वात् । क्षुत आचामेदित्यादि स्मरणं वेदं कृत्वा वेदिं करोतीत्यादि-श्रुतिप्रतिपन्नदर्शपूर्णमासिकादिपदार्थधर्मक्रमविरुद्धमुदाहरणम् । सेयं स्मृतिः किमप्रमाणं प्रमाणं वेति चिन्ता । तदर्थं च प्रत्यक्षं श्रुत्या विरुध्यते नवेति । तदर्थमप्येभिः क्रतुमध्येऽनुष्ठीयमानैः कस्यचित् श्रुत्यर्थस्य क्रमादेर्भवति बाधो नवेति । अथवाऽभ्युपेत्यैव विरोधं स्मृतिरप्रमाणं प्रमाणं वेति विचार्यते । तदर्थं च प्रमाणप्रमेयबलाबलविसंवादे किं ज्याय इति चिन्त्यते । विरोधाधिकरणन्यायेन श्रुतिस्मृत्यो-र्विरोधे श्रुतिरेव बलीयसीति स्थितम् । अतः श्रौतत्वात्क्रमादयः स्मार्तेभ्य आचमनादिभ्यो बलीयांसो विज्ञायन्ते । प्रमेयस्वरूपालोचने तु पदार्थगुणत्वात्क्रमादेराचमनादयः पदार्था बलीयांसोऽवगम्यन्त इति बलाबलवद्वयविसंवादात् कतरेण निर्णय इति सन्देहः । तत्र पूर्वपक्षः ।

श्रुत्युक्तानां क्रमादीनां स्मार्तैराचमनादिभिः ।

व्याकोपः स्यादतस्तावद्विस्पष्टैव विरोधिता ।।

ततः श्रुतेर्बलीयस्त्वात्स्मृतेः स्यादप्रमाणता ।

पूर्वभाविप्रमाणस्थं प्रमेयस्थाद्बलाबलात् ।।

ज्यायस्तेनैव र्निर्णीते न पश्चादितरादरः ।

नैराकाङ्क्षयात्प्रमाणानामतः स्मृत्यर्थबाधनम् ।।

वेदं कृत्वा वेदिं करोतीति क्रमः कालश्च यः प्रधानेनाङ्गानामविप्रकर्षः प्रयोगप्राशुभावश्च प्रयोग-वचनावगतो यश्च पूर्वाह्णादिः, परिमाणं चाविस्मृतसमस्तपदार्थानुष्ठानसिध्यर्थं प्रयोगविधिनैवाकाङ्क्षितं पदार्थविधिप्रचयावगतम् । तत्त्रयमपि क्रमकालपरिमाणात्मकमाचमनादिना बाधितं भवति । न च श्रुत्यर्थत्वेऽपि पदार्थगुणत्वात्क्रमादेर्दौबल्यं स्मृत्यर्थस्याप्याचमनादेः पदार्थस्य पदार्थत्वाद्बलीयस्त्वमिति वाच्यम् । प्रमाणपूर्वको हि प्रमेयावगमस्तेन पूर्वभाविप्रमाणस्थं बलाबलं पूर्वमवगम्यते । तेन चाचमनादिभ्यः क्रमादीनां बलीयस्त्वे निर्णीते निराकाङ्क्षत्वान्न पश्चादवगतं प्रमेयबलाबलमादर्तव्यम् । तस्मादाचमनादिस्मृतिनामप्रामाण्यमिति ।

सिद्धान्तस्तु । यद्यपि क्रमादीनामाचमनादिभिर्विरोधस्तथापि पदार्थगुणत्वाद्दौर्बल्यम् । आचमनादयस्तु पदार्थत्वाद्बलवन्तः । न च प्रमाणबलाबलस्य पूर्वभावित्वम् । न हि प्रमाणयोः सतोर्विरोधः । अपि प्रमेयविरोधनिमित्तः । प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति । यदैव प्रमेययोर्विरोधोऽवगम्यते तदैव तयोर्बलाबलमपीति तत एव निर्णये कृते नैराकाङ्क्ष्यात्प्रमाणबल-मनादर्तव्यमिति न स्मृतेर्बाधः । यद्धि स्वभावत एवाप्रमाणं तत्सर्वदैवानादर्तव्यम् । यत्तु बलवद्विरोधा-पेक्षमप्रमाणं तत्तदभावापेक्षया प्रमाणमेवेत्यवगन्तव्यम् । न चात्र बाधकमस्ति । प्रमाणबलाबलस्या-बाधकत्वात् । तस्मादाचमानादेर्बलीयस्त्वात्तदनुरोधेनैव श्रुत्युक्तक्रमादयो बाध्यन्त इत्याचमनादिस्मृती-नामबाधात्प्रामाण्यमिति ।

एतच्च भाष्यकारमते नाधिकरणशरीरम् । भाष्यकारो हि शिष्टाकोपे अविरुद्धमिति चेन्न । शास्त्र-परिमाणत्वादित्यनेन पूर्वपक्षयित्वाऽपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्निति सूत्रेण सिद्धान्तितवान् । शिष्टस्य श्रुत्युपदिष्टस्य वेदं कृत्वा वेदिं करोतीत्यादेः स्मार्ताचमनाद्यनुष्ठानादकोपे हान्यभावे सत्य-विरुद्धमेवञ्जातीयकं स्मार्तमिति चेत्पश्य सिद्धान्तिन्नित्याद्यसूत्रार्थः । एवमाशङ्क्याह पूर्वपक्षी न शास्त्र-प्रमाणत्वादिति । नैतदेवम् । अविरुद्धमेवञ्जातीयकमिति । कुतः शास्त्रपरिमाणत्वात्पदार्थानामिति । शास्त्रेण परिमाणं पदार्थानां त्रिधाऽवगतम् । इयं त इति श्रुतिलिङ्गादिषट्केण, एतत्क्रमका इति श्रुत्यर्थादिषट्केण प्रधानप्रत्यासन्ना इति प्रयोगवचनेन । तत्र यदि वेदवेदिकरणयोरन्तः क्षुतनिमित्त-माचमनमनुष्ठीयेत । तर्हि इयत्तादित्रयमपि बाध्येत । तस्माच्छुत्यर्थाविरुद्धान्येवञ्जातीयकानि स्मरणान्य-प्रमाणानीति द्वितीयसूत्रार्थः । अपि वेति पूर्वपक्षव्यावृत्तिः । क्रतुमध्ये प्रयुक्तान्याचमनादीन्यविरुद्धत्वेन प्रमाणत्वेन प्रतीयेरन् । कारणाग्रहणे लोभादिरूपमूलान्तराग्रहणे सतीति तृतीयसूत्रार्थः । वेदो नाम संमार्जनसाधनं दर्भमुष्टिः । तस्य करणं सम्यग्बन्धनाग्रपरिवासनादिसंस्कारः । वेदिर्नाम गार्हपत्याहवनीय- योर्मध्ये चतुरङ्गुलखाता भूमिः । तत्करणं नाम वेदेन सम्मार्जनमुद्धननादिसंस्कारः । वार्तिककारस्तु भाष्यकारेणोक्तपूर्वपक्षस्यातिमन्दत्वाच्छिष्टाकोप इत्यादिना पूर्वपक्षयित्वा न शास्त्रेत्यादिना सिद्धान्तित-वान् । अपि वेत्यादि त्वधिकरणान्तरमित्याह । तथाहि– न तावद्विरोधाशङ्का ।

अप्राप्तेषु पदार्थेषु न भवन्ति क्रमादयः ।

प्राप्तेषु तदधीनत्वान्न पदार्थविरोधिता ।।

नित्यं त्वाचमनं सर्वपूर्वत्वान्न विरुध्यते ।

नैमित्तिकन्तु नित्यस्य क्रमादेर्बाधकं भवेत् ।।

अथ प्रमाणप्रमेयबलाबलयोः किं ग्राह्यमिति चिन्त्यते । किं प्रमाणबलाबलवशाच्छ्रौतेन स्मार्तबाधो धर्मित्वेन वा पदार्थानां बलीयस्त्वाद्धर्मभूतक्रमादिबाध इति । तदप्ययुक्तम् । सिद्धान्तासम्भवात् । तथाहि–

इष्टे स्मृतिप्रमाणत्वे दौर्बल्यं किं निबन्धनम् ।

अनिष्टत्वं प्रमेयत्वं पदार्थानां कुतो भवेत् ।।

विषयालोचनेनाथ स्मृतेरत्र प्रमाणता ।

नान्योन्याश्रयतापत्तेरेतदप्यवकल्प्यते ।।

प्रमेयत्वेऽपि धर्मत्वात् पदार्था बलवत्तराः ।

बलवद्विषयत्वेन स्मृतेः स्यात्तत्प्रमेयता ।।

धर्मित्वाच्च बलीयस्त्वं स्वधर्मान् प्रति सम्भवेत् ।

नचैषामप्रमेयत्वे तद्धर्मत्वं क्रमादितः ।।

किञ्च वैदिकपदार्थमात्रोपसंहारी वा क्रमादिर्बाध्यते । स्मृत्याचारपर्यन्तसकलप्रमाणप्रापितपदार्थोप- संहारी वा । आद्ये कल्पे स्मार्तपदार्थानपेक्षत्वात्कथं तद्बाध्यत्वम् । द्वितीये त्वविरोधान्न बाधः । वैदिकपदार्थमात्रपर्यालोचनयोत्पन्नमपि तावन्मात्रोपसंहारिक्रमज्ञानं स्मार्तपदार्थज्ञानेन बलीयसा बाध्यत इति चेन्न । बलवत्प्रमाणावष्टंभमन्तरेण तद्बलीयस्त्वासिद्धेः ।

अतः प्रमाणदौर्बल्ये प्रमेयबलवागियम् ।

व्योमचित्रायते तेन विचारोऽयं न युज्यते ।।

अतः शाक्यादिशास्त्रस्थं वेदवाक्याविरोधि यत् ।

सत्योक्त्यादिवचस्तत्किं प्रमाणं नेति चिन्त्यते ।।

विरोधेनाप्रमाणत्वं पूर्वमेषां निरूपितम् ।

तदभावादतः पूर्वपक्षी प्रत्यवतिष्ठते ।।

विरोधे प्रामाण्यमनपेक्षमिति वदताऽर्थादविरोधे प्रामाण्यमुक्तम् । तथासति वेदाविरोधिनाम-हिंसासत्योक्त्याद्यर्थानां शाक्यादिवचसां प्रामाण्यं प्राप्नोति ।।

एवमाद्येन सूत्रेण पूर्वपक्षः कृतोऽधुना ।

न शास्त्रपरिमाणत्वादित्यनेन निराकृतः ।

चतुर्दशैव शास्त्राणि वेदाश्चत्वार एव च ।

धर्मशास्त्रपुराणाङ्गमीमांसान्यायमिश्रिताः ।।

शाक्यादिसंहितास्तत्र बाह्याः शिष्टाप्रयोगतः ।

न शास्त्रपदवाच्याः स्युरतो धर्माप्रमाणता ।।

वेदप्रमित एवार्थः श्रेयःसाधनमाश्रितः ।

स्वाध्यायविधिनाऽन्येषां तदधीना प्रमाणता ।।

अतो वेदाननुज्ञातशाक्यादिवचसामिह ।

अविरोधेऽपि नैवास्ति प्रामाण्यं मत्तवाक्यवत् ।।

अपि वा कारणेत्येतद्भिन्नाधिकरणं मतम् ।

शिष्टाचारः प्रमाणं किं नवेत्यत्र विचार्यते ।।

स्मृतिन्यायेन सिद्धाऽपि शिष्टाचारप्रमाणता ।

विरुद्धाचारसंसर्गात्पुनराक्षिप्य साध्यते ।।

सङ्क्षेपस्तु ।

आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् ।

वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः ।।

आचान्त्यादिपदार्थोऽत्र क्रमो धर्मः पदार्थगः ।

धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता ।।

क्षुत आचमेदिति स्मृतिविहितमाचमनं यदा क्रतुमध्ये क्षुतादिनिमित्तं प्राप्नोति तद्यन्नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्यां विधीयते । आचान्तेन कर्तव्यमिति । सेयं स्मृतिर्न प्रमाणम् । वेदं कृत्वा वेदिं करोतीति श्रुतिविरुद्धत्वात् । यतोऽत्र श्रुतौ पूर्वकालवाचिना क्त्वाप्रत्ययेन क्रमः प्रतीयते । वेदो नाम दर्भमयं सम्मार्जनसाधनम् । वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः । वेदकरणवेदि-करणयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात्तदा श्रुत्युक्तं नैरन्तर्यं विरुध्येत । तस्माद्वेष्टनस्मृतिवद-प्रमाणमिति प्राप्ते ब्रूमः । वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमानादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः क्रमस्तु पदार्थनिष्ठो धर्मः स च पदार्थानुपजीवि । तत उपजीव्यविरोधात् क्रम एव बाध्यते । न तु क्रमेणाचमनस्य बाधः । तथाहि । पदार्थगुणभूतक्रमविषयायाः श्रुतेराचमनादिपदार्थविषयिणी स्मृतिरेव बलीयसी । प्रमाणबलात्प्रमेयबलस्य प्रबलत्वात् । प्रमाणयोः स्वरूपतो विरोधाभावेेन प्रमेयविरोधा-धीनतया तदवगत्यर्थप्रमेयविरोधालोचनाय प्रमेयस्वरूपे अवगम्यमाने तदैव तदीयबलाबलस्यापि स्फुरणेन तस्य प्रथममनुपस्थितत्वात् । तस्मादियं स्मृतिः प्रमाणमिति । स्वतो दुर्बलस्य बलवदाश्रयेण स्वतः प्रबलबाधकत्वमुक्तमुपपादयति । नहीति । यद्यप्याचमनादेर्यागाङ्गत्वं तथाप्यनुष्ठीयमानधर्मितया प्रधानत्वं बोध्यम् । स्मृत्या क्षुत आचमेदित्येवंरूपया । अत एवेति । न चैतत्पित्रादिवचसि नास्तीति तत्र शब्दस्यैवाक्षबाधकत्वमिति वाच्यम् । पितृवाक्यत्वेनैव दृढमूलत्वात्तेनैव बाधः ।

ननु सर्वदा पित्तदूषितनेत्रस्य पीतः शङ्ख इति प्रत्यक्षे नीलं नभ इति प्रत्यक्षे च प्रादेशिकत्वप्रत्यक्षे च परोक्षातिरिक्तस्य बाधकस्य शङ्कितुमशक्यत्वाद्युक्त्यादिबाध्यतैव वक्तव्या । तथाहि शङ्खे पीतिमप्रत्यक्षं श्वेतिमानुमित्या बाध्यते । न च पीतः शङ्ख इति प्रत्यक्षं प्राथमिकपरीक्षितप्रत्यक्षेण शङ्खो न पीत इत्यर्थाभावनिश्चयादप्रामाण्यज्ञानास्कन्दितमेवोत्पद्यते एवं सवितृसुषिरादिप्रत्यक्षमपीति वाच्यम् । पीतः शङ्खः इति प्रत्यक्षेऽपि प्राचीनार्थाभावप्रत्यक्षं न बाधकम् । तस्येदानीमभावात् । न च तत्स्मृतिर्बाधिका । तस्या अनुभवाद्दुर्बलत्वात् । केवलं युक्त्युत्थान एव सोपयुज्यते । तेन श्वैत्ययुक्त्यैव तत्र बाधः । एवं नीलं नभ इति प्रत्यक्षस्य विभुत्वाद्यनुमानेन । तथा प्रादेशपरिमितश्चन्द्रमा इति प्रत्यक्षस्य ‘‘अष्टाशीति सहस्राणि विस्तीर्णो योजनानितु’’ इत्याद्यागमेन । नहि गगनादेरनीलत्वादिकं प्रत्यक्षसिद्धम् । येन तत्रापि प्रत्यक्षमेव बाधकं स्यात् । अपौरुषेयवाक्येन बाधे मूलप्रत्यक्षस्याप्यभावादित्याशयेन शङ्कते । ननु तथापीति । समाधातुमाह । उच्यत इत्यादि । एकाकारं एकस्मिन् धर्मिणि विरुद्धानेकाकारावगाहि । अविरुद्धप्रकारकं वेत्यर्थः । अन्यथा घटः सन् द्रव्यं पृथिवीत्यादेरनेकाकारावगाहिनः सन्देहानन्तर्भूतस्य ज्ञानत्वाभावप्रसङ्गात् । द्वितीयं यथेत्यादि । स चायं भेदः क्वचित्सम्भावनाभावाभावाभ्यां भवति । क्वचित्परीक्षापेक्षायामपि तत्प्रवृत्यप्रवृत्तिभ्याम् । क्वचिच्च प्रागेव विपरीतसंस्कारभावतदभावाभ्याम् । चन्द्रप्रादेशिकत्वविषयं सवितृशङ्खादौ सुषिरपीतत्वादिग्राहि च प्रत्यक्षं यद्दूरस्थत्वादिदोषप्रयुक्तं तत्परिमाणादावयाथार्थमिति पदार्थव्यवस्थापकप्रमाणानुगृहीतसाक्षिणा निश्चितत्वादेकाकारविषयतया जायमानमपि अनिश्चाययदेव बाधितप्रायं जायते । ततः परं च प्रवर्तमानावनुमानागमौ प्रागेव तेन दत्तावकाशौ  नभोनैल्याभावादिकं निश्चिन्वानौ तद्बाधकाविवोच्येते इति भावः । न  च चन्द्रेति । चन्द्र-प्रादेशिकत्वादिग्राहिप्रत्यक्षस्यागमादिना न ह्यप्रामाण्यं किन्तु प्रागेव दूरादिदोषजन्यत्वज्ञानसहकृतेन साक्षिणेत्यर्थः ।

अत्र कश्चिदाह । युक्तिरेवैषा । यद्यद्दूरस्थाल्पपरिमाणज्ञानं तद्दूरदोषनिबन्धनमप्रमा । शैलाग्रस्थ-विटपिदूर्वाङ्कुरपरिमाणज्ञानवत् । इदमपि तथेति । तथाचैवरूपया युक्त्यैव चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य बाधं वदन् युक्त्या न प्रत्यक्षस्य बाध इति वक्तुं कथमुत्सहेत । किञ्च येन यस्य भ्रमत्वं ज्ञायते तत्तस्य बाधकमिति यदि तदा भ्रमत्वस्याप्यनुमेयत्वादनुमानमेव बाधकमित्यायाति । न हि प्रमात्ववद्भ्रमत्वस्यापि स्वतस्त्वं भवदभिमतमिति । तदपेशलम् । दूरस्थतरुचन्द्राल्पपरिमाणादिप्रत्यक्षेनोक्तप्रकारेण युक्त्या बाधः । अपि तु दूरस्थत्वादिदोषेण स्वरूपसता जायमानं ज्ञानं स्वार्थनिश्चयपराङ्मुखं जायते । जाते तु तस्मिन् दूरादिदोषजन्यत्वज्ञानसहकृतेन साक्षिणैव तत्र भ्रमत्वनिश्चय इति न प्रथमं युक्त्या दूरस्थतरुचन्द्रपरिमाणादिप्रत्यक्षबाधः । विरोधिप्रत्यक्षनिश्चये जाग्रति तद्विपरीतयुक्तेरनुत्थानादित्युक्तत्वात् । अत एव पीतः शङ्खस्तिक्तो गुड इत्यादौ नापीतानुमित्यादिना प्रत्यक्षबाधः । किं त्वपीतप्रत्यक्षेणेति सर्वतान्त्रिकसिद्धान्तः । सर्वदा पित्तदूषितनेत्रस्य तु यावद्दोषं न भ्रमनिवृत्तिः । त्वन्मते यावदविद्यं भेदभ्रमानिवृत्तिवत् । त्वयापि साक्षात्कारिभ्रमे साक्षात्कारिविपरीतदर्शनमेव विरोधीति स्वीकर्तव्यम् । अन्यथा परोक्षविपरीतप्रमाया अप्यपरोक्षभ्रमनिवर्तकत्वोपपत्तौ वेदान्तवाक्यस्यापरोक्षज्ञानजनकत्वसाधन-प्रयासो व्यर्थः स्यात् ।

किञ्च । नायं सर्प इत्याप्तवाक्यादिना सविलासाविद्यानिवृत्यभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रमगतप्रमाणत्वबुद्धेस्तद्विषयसत्यताबुद्धेश्च निवर्तनात् । तावता च भ्रमनिवर्तकत्वव्यपदेशात् भ्रमे प्रामाण्यविभ्रमस्य तद्विषयसत्यताविभ्रमस्य च परोक्षत्वेनापरोक्षबाधानपेक्षणात् । न हि दुष्टकरणाजन्यत्व-मबाधितविषयत्वं वा प्रामाण्यं कस्यचित्प्रत्यक्षम् । न वा सर्वदेशकालसर्वपुरुषाबाध्यत्वरूपं विषय-सत्यत्वम् । अतस्तयोः परोक्षप्रमाबाध्यत्वमुचितमेव । तयोश्च बाधितयोः रजतादिविभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वादसन्निवेति बाधित इत्युच्यते इति त्वया तत्र तत्र त्वदीयैरप्युक्तत्वात्परोक्ष-ज्ञानस्यापरोक्षज्ञानबाधकत्वमभिप्रेत्य युक्त्या प्रत्यक्षं बाध्यत इति वदतस्तव वाङ्मनसविसंवाद एव । तथा च युक्त्यागमाभ्यां प्रत्यक्षस्य बाध इति वचनेनाज्ञाशिषं परं मन्दबुद्धे मन्दाक्षं न तु परतत्वविदमिति ।

यदुक्तं भ्रमे प्रामाण्यविभ्रमस्य तद्विषयसत्यताबुद्धेश्च परोक्षत्वेनेति । तदप्यसत् । अविद्या-वृत्तिप्रतिबिम्बितो हि साक्षी भ्रमस्तेनाविद्यकरजताद्याभासत इति विवर्तवादिमतम् । तस्मात्तत्व-विदुक्तदूषणविस्मृतस्वसिद्धान्तस्य परस्यायं प्रलापः । तत्वविदां नये तु भ्रमे प्रामाण्यज्ञानं मानसा-परोक्षम् । ‘‘मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने । यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्’’ इति वचनात् । विसंवादादिप्रमाणानुगृहीतः साक्षी भ्रमत्वं गृह्णातीति नाप्रमात्वस्य स्वतस्त्वम् । प्रमाणत्वं तु संवादाद्यनपेक्ष इति तस्य स्वतस्त्वमित्यन्यत्र विस्तरः । किञ्चैवं सत्यद्वैतवाक्यजन्यज्ञान-प्रामाण्यादेरप्यसिद्धिः स्यादिति वृद्धिमिच्छतो मूलहान्यापत्तिरिति ।

ननु  चन्द्रप्रादेशिकत्वादिप्रत्यक्षवज्जगत्प्रत्यक्षस्यापि स्वार्थपरिच्छेदाक्षमत्वात्तेनाबाध्यौ । नापि तस्य बाधकौ । तथाप्यनुमानागमौ जगन्मिथ्यात्वं निश्चाययिष्यत इत्यत आह । अकलङ्कितमिति । किमस्य प्रतिभासनात्स्वार्थपरिच्छेदाक्षमत्वं कल्प्यते उत कारणसद्भावादनुमीयते । नाद्यः । अग्निरुष्ण एव प्रस्तरो यजमानभिन्न एव घटः सन्नेवेत्यादिस्वार्थनिश्चायकतयैव प्रतिभासनादित्यर्थः । द्वितीयेऽपि न तावद-सम्भावना परीक्षाभावो वा कारणम् । तदभावात् । अतः प्रागेव दूरादिदोषज्ञानमर्थाभावनिश्चयो वा वाच्यः । न च तदस्तीत्याह । नहीति ।

नन्वज्ञानजन्यस्यैन्द्रजालिकार्थस्य मरीचिकोदयस्य च प्रत्यक्षं यथा स्वार्थसत्तापराङ्मुखमुत्पद्यते । तथा वरादिकं दुःखादिकं चाज्ञानजन्यमिति तत्प्रत्यक्षेणापि तथाविधेन भवितव्यम् । यद्यप्यज्ञानमयत्वानु-सन्धानविधुराणां स्वार्थसत्तापरिच्छेदे अभिनिविष्ठं निःशङ्कप्रवृत्तिजननयोग्यमुत्पद्यते । तथापि तदनु-सन्धानवतां जायमाने कथं स्वार्थपरिच्छेदपराङ्मुखेन न भाव्यम् । तस्मिंश्चानुमानागमाभ्यामप-हस्तितेऽन्यदपि तत्स्वार्थप्रच्युतं भविष्यति । तत्कथं जगत्प्रत्यक्षे दोषाभाव इत्याशङ्कय निषेधति । नचेति । नामरूपे व्याकरोदिति श्रुत्युक्तेश्वरसृष्टस्य न तावदर्थात्मकप्रपञ्चस्याज्ञानजन्यत्वमित्याह । मेयेति । नामात्मकस्याविद्यकत्वं विपक्षबाधकेन दूषयति । मानेति । परपरिकल्पितं दोषान्तरमाशङ्क्य निराकरोति । नापीति । श्रौतेति । त्वद्रीत्याऽखण्डार्थपरश्रुतिजन्यस्यापीत्यर्थः ।

ननु चन्द्रभेदज्ञानवत्सर्वस्यापि भेदप्रत्ययस्य भ्रमत्वमित्यत आह । भेदधिय इति । उपलक्षणं चैतत् । भेदधीमात्रस्य प्रकृतिप्रत्यय•दिभेदवासनारूपदोषजस्य त्वदभिप्रेताद्वैतज्ञानस्यापि भ्रमत्वं स्यादित्यपि ज्ञेयम् । उक्तमर्थं विभागेनाह । इदञ्चेति । प्रपञ्चग्राहीत्यर्थः । ननु शुक्तिरजतादिकं साक्षिवेद्यं बाध्यत इति कथं तस्य यथार्थत्वनियम इति चेत् । न । इन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेन रजतादिज्ञानस्यैन्द्रियकत्वात् । अधिष्ठानग्रहण एवेन्द्रियस्य व्यापार इति चेत् । न । कल्पकाभावात् । प्रतीतिसमयमात्रपरिवर्तिना रजतेनेन्द्रियसन्निकर्षानुपपत्तेेरेवं कल्प्यत इति चेत् । न । अनिर्वचनीयख्यातेः निरशिष्यमाणत्वात् । अन्यथाख्यातिनये तु रजतसंस्कारदोषसहकृतेन शुक्तिकासन्निकृष्ठेनेन्द्रियेण शुक्तिकैवात्यन्तासद्रजताकारेण प्रतीयत इत्युपपादयिष्यते चेति ।

ननु नीलं नभ इति प्रत्यक्षे जाग्रति रूपाभावग्रहणं चक्षुषा साक्षिणा न सम्भवति । तथा च बलवती युक्तिरेव तद्बाधिकेत्यत आह । एवं चेति । सविधे रूपासम्बन्धितया नभःसिद्धेः सर्वजन-सिद्धतया दूरे रूपवत्वधीर्दूरदोषजन्येति प्रागेव निश्चयान्न नीरूपत्वानुमितिबाध्या किन्तु अचाक्षुषेऽपि नभसि वायाविव चक्षुषैव रूपाभावग्रहणसम्भवेन चाक्षुषप्रत्यक्षेण बाधः । अन्यथा तद्वदेव युक्ते-रप्यनुदयप्रसङ्गात् । स्वभावबलवत्वं चक्षुःसाक्षिणोरेव युक्तेरप्यतिशेते इत्यर्थः ।

न्यायामृतसौगन्ध्यम्

ननु परीक्षितत्वेनैव प्राबल्यं नोपजीव्यत्वाक्षत्वादिना अनुमानशब्दबाध्यत्वस्याक्षेपदर्शनात्् । तथा हि । इदं रजतमिति प्रत्यक्षस्यानुमानाप्तवाक्याभ्यां, नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन, गौरोऽहमित्यस्या‘‘हमिहैवास्मि सदने जानानः’’ इत्यस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्यनुमानागमाभ्यां चपीतः शङ्खः, तिक्तो गुड इत्यादेश्चानुमानाप्तवाक्याभ्यां बाधो दृश्यते इति चेन्न । विश्वप्रत्यक्षस्यापि सुपरीक्षितस्यानुमानादिना बाधासम्भवात् । किञ्च साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यभ्युपेयम् । अन्यथा परोक्षप्रमायाः अपि अपरोक्षभ्रमनिवर्तकत्वोपपत्तौ वेदान्तजन्यधियोऽ-परोक्षत्वव्यवस्थापनं व्यर्थं स्यात् । ननु नायं सर्प इत्यादिवाक्यादिना सविलासाज्ञाननिवृत्याभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रमप्रमाणत्वबुद्धेस्तद्विषयसत्यताबुद्धेश्च निवर्तनात् । तावता च भ्रम-निवर्तकत्वव्यपदेशः । भ्रमे प्रामाण्यभ्रमस्य तद्विषये सत्यताभ्रमस्य च परोक्षत्वेनापरोक्षबाधान-पेक्षणात् । न हि दुष्टकरणाजन्यत्वमबाधितविषयत्वं वा प्रामाण्यं कस्यचित्प्रत्यक्षं, न वा सर्वदेश–सर्वकाल–सर्वपुरुषाबाध्यत्वरूपं विषयसत्वम् । अतस्तयोः परोक्षप्रमाबाध्यत्वमुचितमेव । तयोश्च बाधितयो रजतादिभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वादसन्निवेति बाधित इत्युच्यते इति चेन्न । ज्ञाने भ्रमत्वज्ञापनं हि तत्करणे दोषोद्भावनेन तद्विषयापहारेण वा स्यात् । नाद्यः । नायं सर्प इत्यादेर्दोषानुद्भावकत्वात् । विश्वाक्षे क्लृप्तदोषाभावाच्च । नान्त्यः । परोक्षेण प्रत्यक्षविषयापहारा-सम्भवात् । परीक्षितप्रत्यक्षगृहीतसत्त्वस्य परोक्षेण बाधासम्भवेन तद्विषयकज्ञाने सत्यताविभ्रमत्व-स्यालीकत्वात् । सत्त्वस्य यथा प्रत्यक्षं तथोक्तमधस्तात् । तयोश्चेत्यशुद्धम् । त्वदभिमतजगन्मिथ्या-त्वानुमानादिप्रवृत्युत्तरं जगतः अर्थक्रियाकारित्वं न स्यात् । किञ्च इदं रजतमित्यत्र सयुक्तिकं प्रत्यक्षमेव हि बाधकं, न युक्तिमात्रम् । गौरोऽहमित्यत्रापि मदन्यत्वव्याप्यमदीयत्ववत् यथाश्रुते सम्बन्धमात्रस्य तादात्म्यव्यावर्तकधर्मत्वाभावेनासङ्गतेः मम शरीरमिति बलवत्प्रत्यक्षमेव बाधकम् । ‘‘अहमिहैवास्मि सदने जानानः’’ इति तु प्रमाणमेव जीवस्याणुत्वात् । ननु रजताभेदशरीरा-भेदप्रत्यक्षयोः जाग्रतोरकृते युक्त्या प्रतिबन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्तेरेववानकाश इति चेन्न । तर्हि सुतरां युक्तेरनवकाशः । तस्याविरोधिनिश्चयमात्रप्रतिबध्यत्वात् । अतो रजतादिप्रत्यक्षे विद्यमानेऽपि स्वभावत एव बलवद्विपरीताक्षं उत्पद्यते इति स्वीकार्यम् ।

यत्तु युक्तिर्न ग्राह्यस्याभावं अवगाहते किन्तु तद्व्याप्यत्वम् । तथा चेदं रजतत्वाभावव्याप्यवदिति ज्ञानरूपयुक्तेरिदं रजतमिति प्रत्यक्षाप्रतिबध्यत्वात् तदुत्तरोत्पत्तिसम्भवेन तया रजतत्वाभावव्याप्य-शुक्तित्वादिमति रजतत्वप्रकारकत्वहेतुना भ्रमत्वानुमितिरव्याहता । स्वभावत इत्याद्यप्ययुक्तम् । उक्तरीत्या भ्रमधीसम्भवेन स्वभावतो बलवत्वकल्पने मानाभावात् । प्रतिबध्यतावच्छेदके तत्तद्व्यक्ति-भेदकूटनिवेशे गौरवात् । अन्यथा विरोधिनिश्चयस्य क्वापि प्रतिबन्धकता न स्यात् इति । तन्न । तत्कालावच्छेदकावच्छेदेन तदवच्छेदेन च तदभाववति तत्प्रकारकत्वमेव हि भ्रमत्वम् । रजतत्व-ज्ञानकाल एव हि तदभाववत्ताज्ञाने सति भ्रमत्वानुमितिः । तच्च न सम्भवति । रूप्यधिया प्रतिबन्धात् । तदभावव्याप्यवति तत्प्रकारकत्वस्य तदभाववति तत्प्रकारकत्वव्याप्यत्वे मानाभावात् । सन् घट इत्यादिप्रत्यक्षकाले सत्त्वाभावव्याप्यवत्ताज्ञानसम्भवेऽपि सत्त्वाभावव्याप्यवति सत्त्वप्रकारकत्व रूपहेतोश्चासिद्धेः । अन्यथाऽनया रीत्या सर्वत्रैवाप्रामाण्यानुमितिसम्भवेन तेऽद्वैतबोधकेऽपि प्रामाण्यदुराशायाः निष्फलत्वापत्तेः । गौरवस्य फलमुखात् लौकिकसन्निकर्षाजन्यदोषविशेषाजन्य-तद्वत्ताज्ञानं प्रति तदभाववत्ताज्ञानस्य प्रतिबन्धकत्वात् ।

किञ्च कर्दमलिप्ते वस्त्रे कृष्णं वस्त्रमितिवदुपचार एव न त्वध्यासः । न च कर्दमवस्त्रयोरिव शरीरात्मनोर्भेदानध्यवसायेन दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति वाच्यम् । योऽहं बाल्ये पितॄनन्वभूवं सोऽहमिदानीं नप्तॄननुभवामीति भेदकप्रत्यक्षे विद्यमाने अभेदारोपासम्भवात् एवमुष्णं जलमित्यपि गौणमेव । जीवस्योत्क्रान्तिगत्यादिना यथाऽणुत्वं तथाग्रे वक्ष्यते ।

किञ्च नभोनैल्यप्रत्यक्षे नीरूपत्वग्राहकानुमानं न बाधकम् । न च परममहत्वे सति द्रव्या-नारम्भकत्वं लिङ्गम् । तवासिद्धेः । आकाशस्य जन्यत्वशरीरारम्भकत्ववादिनामद्वैदिनां मते परम-महत्वे सति द्रव्यानारम्भकत्वरूपलिङ्गासत्वादाकाशे पक्षेऽसिद्धेरित्यर्थः । निःस्पर्शत्वं तु तमसि व्यभिचारि । पृथिव्यादित्रयेतरभूतत्वादिकं चाप्रयोजकम् । तथा च सविधेनीरूपत्वग्राहक-चाक्षुषप्रत्यक्षमेव हि बाधकम् । दूरे तु विप्रकर्षादिदोषात् भासते ।

ननु नीलं नभ इति प्रत्यक्षे जाग्रति रूपाभावग्रहणस्य चक्षुरादिना असम्भवः । तथा च बलवती युक्तिरेव तद्बाधिका । न च लिङ्गाभावः, चक्षुरन्वयव्यतिरेकानुविधायिरूपाविशेषितप्रतीति-विषयत्वात् (नी) रूपवदिति लिङ्गसम्भवात्् इति चेन्न । हेत्वसिद्धेः । चक्षुषा दूरात् रूपस्योपलभ्य-मानत्वात् । न च दूरादिदोषवशात् आरोपोऽयम् । नैकस्य दोषत्वेन सविधे नीरूपप्रतीतेर्भ्रमत्वात् दूरे प्रतीयमाननभोरूपस्य युक्तिसहस्रेणापि बाधादर्शनात्् । किन्तु यस्य पुंसः यत्प्रदेशे नभसि रूपधीः, तत्प्रदेशं गतस्य पुंसश्चाक्षुषप्रत्यक्षेणैव रूपबाध इति सकलजनानुभवसिद्धत्वात् ।

किञ्च मण्डूकवसाञ्जननेत्रस्य वंशे वंशत्वाप्रतीतावपि वंशे वंशत्वस्य सत्त्ववत् सविधे सामीप्यदोषेण नभसः प्रतीतौ रूपाविषयकत्वेऽपि नभसि न रूपाभावसिद्धिः । किञ्च नायं सर्प इत्युक्तेऽपि किमेवं वदसि परं, अपि पुनः परामृश्य पश्यसीति प्रतिवचनदर्शनान्न शब्दमात्रं रज्जु-सर्पादिभ्रमनिवर्तकम् । किन्तु तत्प्रत्यक्षमेव । न च प्रतिवचनस्थले भ्रमप्रमादादिशङ्काक्रान्तत्वेन नायं सर्प इत्यादेर्दुर्बलतया न भ्रमनिवर्तकत्वम् । यत्र तु तादृक्् शङ्कानाक्रान्तत्वं तत्र भ्रमनिवर्तकतैव । अत एव तादृक्शङ्कानाक्रान्तपित्रादिवचसि नेदृक्प्रतिवचनं किन्तु सिद्धवत्प्रवृत्त्यादिकमेवेति वाच्यम् । अयं प्रत्यक्षेण सर्पाभावं प्रमिनोतीति निश्चयवत एव प्रवृत्तेरत एवान्धेनाप्तेन नायं सर्प इति सहस्रधोक्तेऽपि निश्शङ्कं न प्रवर्तत एव । अतः प्रत्यक्षस्यैव प्रत्यक्षभ्रमबाधकत्वं सिद्धम् ।

ज्वालैक्यप्रत्यक्षमपि निर्वापितारोपितस्थले स्फुट(स्पष्ट)तरभेदप्रत्यक्षेण बाधितं तदित्यन्यत्रापि दीर्घेयं न हृस्वेति भेदप्रत्यक्षमेव तद्बाधकम् । न च निर्वापितारोपितादतिरिक्तस्थले तावदयं विचारः । तत्र च दीर्घेयं न हृस्वेति भेदप्रत्यक्षं वक्तुमशक्यम् । यैव हृस्वा सैव दीर्घेति हृस्वत्वदीर्घत्वाभ्यां उपस्थितयोरभेदस्य साक्षात्क्रियमाणत्वादिति वाच्यम् । प्रत्यक्षाबाधितस्य केवलयुक्त्यैव बाधासम्भवात् । यत्र हि ज्वालायां परिमाणभेदः प्रत्यक्षः । तत्र ज्वालाभेदः प्रत्यक्षः । परिमाणभेदाभावे ज्वालाभेदे मानाभावात् ।

किञ्च सर्वत्रेवात्र प्रकारान्तरेण असत्कल्पे प्रत्यक्षे मानान्तरप्रवृत्तिः । तथा हि– द्विविधं ज्ञानं, द्विकोटिकमेककोटिकं च । अन्त्यमपि द्विविधं, अप्रामाण्यशङ्काकलङ्कितं तदकलङ्कितं च । तत्राद्यो सर्वप्रमाणावकाशादौ अर्थापरिच्छेदकत्वादप्रामाण्यशङ्कास्कन्दितत्वाच्च । अप्रामाण्यधीकलङ्कितत्वं च द्वेधा भवति दुष्टकरणकत्वनिश्चयादर्थाभावनिश्चयाच्च । तथा च शैलाग्रस्थविटपिनां प्रादेशिकत्व-प्रतीतिर्दूरदोषनिबन्धना दृष्टेति, दूरस्थस्य चन्द्रमसः प्रादेशिकत्वप्रत्ययो दोषनिबन्धन एवेति निर्णीयते । एवमाकाशे समीपे नीरूपत्वनिश्चयात् दूरे रूपवत्वधीर्दूरदोषजन्येति प्रागेव निश्चीयते । पीतः शङ्खः इत्यादिप्रत्यक्षं तु प्राथमिकपरीक्षिततत्प्रत्यक्षेण शङ्खो न पीतः इत्यर्थाभावनिश्चयात् अप्रमाण्यज्ञानास्कन्दितमेवोत्पद्यते । एवं सवितृसुषिरादिप्रत्यक्षमपि । तथा चन्द्रादिप्रादेशिकत्वप्रत्यक्षं दूरादिदोषनिश्चयात्, पीतः शङ्खः इत्यादिप्रत्यक्षं प्राथमिकार्थाभावनिश्चयादेव बाधितमिति पश्चा-दनुमानागमादिप्रसर इति न ताभ्यां तद्बाधः । येन हि यस्य भ्रमत्वं ज्ञायते तत्तस्य बाधकमित्युच्यते । न हि चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्यागमादिना भ्रमत्वं ज्ञायते भ्रमत्वज्ञानोत्तरकालमेव तत्प्रवृत्तेः । अप्रामाण्यज्ञानकलङ्कितं तु स्वार्थपरिच्छेदकं निश्शङ्कप्रवृत्तिजननयोग्यम् । यथा वह्निरुष्ण एव, प्रस्तरो यजमानभिन्न एव, घटः सन्नेवेत्यादि । तन्नान्यस्यावकाशदं नान्येन बाध्यम् । न ह्यत्र प्रागेव दूरादि-दोषधीर्वा अर्थाभावनिश्चयो वा कोट्यन्तरालम्बित्वं वाऽस्ति । किञ्च क्वचित्प्रत्यक्षं प्रत्यक्षान्तर-गौरवाद्युक्तिबाध्यं भवतु । क्वचिच्च लिङ्गादिकं श्रुतिगौरवात्् श्रुत्यनुसारिप्रकरणादिबाध्यं भवतु । राजामात्य इव राजगौरवेण राजभृत्यबाध्यः । तथापि न युक्तिमात्रस्य प्रकरणमात्रस्य वा प्रत्यक्ष-लिङ्गादिबाधकत्वं, प्रत्यक्षाद्यनुसारित्वस्य सर्वत्राभावात् । न हि प्रधानभूताचमनादिपदार्थविषयया ‘‘आचामेदुपवीती दक्षिणाचारः’’ इत्यादिस्मृत्या पदार्थधर्मभूतक्रमविषया ‘‘वेदं कृत्वा वेदिं करोती’’ति श्रुतिर्वेदकरणानन्तरं क्षुतनिमित्तकाचमनोपनिपाते बाध्यते इत्यन्यत्रापि तथा भवितव्यम् ।

ननु युक्तिरेवैषा । यद्यद्दूरस्थाल्पपरिमाणाज्ञानं तत् तद्दूरदोषनिबन्धनमप्रमा । शैलाग्रस्थ-विटप्यल्पपरिमाणज्ञानवदिदमपि तथेति चेन्न । दूरस्थे तरुपरिमाणादौ नोक्तप्रकारेण युक्त्या बाधो हीष्यते अपि तु दूरादिदोषेण । स्वरूपसत्ताजायमानं ज्ञानमर्थनिश्चयपराङ्मुखं जायते । तस्मिंस्तु जाते दूरादिदोषजन्यत्वज्ञानसहकृतेन साक्षिणैव हि तत्र भ्रमत्वनिश्चय इति न प्रथमं युक्त्या दूरस्थ-तरुचन्द्रपरिमाणादिप्रत्यक्षबाधः । विरोधिप्रत्यक्षनिश्चये जाग्रति तद्विपरीतयुक्तेरनुत्थानात् । अत एव पीतः शङ्खः, तिक्तो गुड इत्यादौ नानुमित्यादिना प्रत्यक्षबाधः । किन्तु पीतत्वादिप्रत्यक्षेणैव सर्वतान्त्रिकसिद्धत्वात् । यत्तु दृष्टस्य वस्तुनो बलवददृष्टबाधकं विना अन्यद्बाधकं नास्ति इति तु दुबर्लशब्दलिङ्गादिविषयमिति तन्न । परीक्षितप्रत्यक्षापेक्षया शब्दलिङ्गादिमात्रस्य दुर्बलत्वात् । उक्तं च विवरणे– यत्राविचारपुरःसरमेव प्रत्यक्षावभासमप्यनुमानादिना बाधितमुच्छिन्नव्यवहारं भवति तत्र तथा भवतु । यत्र पुनर्विचारपदवीमुपारूढयोर्ज्ञानयोर्बलाबलचिन्तया बाधनिश्चयस्तत्र नानुमानादिना प्रत्यक्षस्य मिथ्यात्वसिद्धिः । न च (तदपि) गृहीतप्रामाण्यशब्दतदुपजीव्यानुमानाति-रिक्तयुक्ति-विषयमिति वाच्यम् । निश्चितप्रामाण्यकप्रमाणानामेव हि बलाबलचिन्ता । तत्र च स्वभावतः प्रत्यक्षस्य प्राबल्यमिति ।।

न्यायामृतमाधुरी

सयुक्तिकेत्यादि । अत्राद्वैतसिद्धिकारः । परस्पररजताभेदशरीराभेदप्रत्यक्षयोर्जाग्रतोः युक्त्या प्रतिबन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्तेरेवानवकाशादित्याह । तदसत् । तथा सति अनाहार्या-प्रामाण्यज्ञानानास्कन्दितविपरीतनिश्चयसामान्यप्रतिबध्या अनुमानापरपर्याया युक्तिरपि न तत्रावतरेत् । अतः विपर्यासे सत्यपि नैसर्गिकबलवद्विरोधिप्रत्यक्षमुत्पद्यत इत्युपेयम् । एतदनादरे तु विरोधिभूत-प्रथमोप्तन्नविपर्यासस्य जागरूकतया विपर्यासधर्मिकविषयासत्वरूपा अप्रामाण्यशङ्काऽपि नोदियादेव कदापीति । गौर इत्यादि । साधनलक्षणे भक्तिचरणे सुधानुव्याख्ययोरेव कृतप्रपञ्चनमेतत् । जानान इति शानजन्तो जानातिनिर्देशः । जीवस्येति ।

अत्राद्वैतसिद्धिकारः । आत्मन आकाशवत्सर्वगतश्च इति सर्वगतत्वेनेहैवेति व्यवच्छेदस्या-प्रामाणिकत्वात् । न च जीवोऽणुर्युगपदेव पादशिरोऽवच्छेदेन सुखदुःखानुभवात् । न ह्येकोऽणुरेकदा व्यवहितदेशद्वयावच्छिन्नो भवति । न च युगपत्प्रतीतिभ्रमः, उत्सर्गसिद्धप्रामाण्यपरित्यागे बीजाभावा-दित्यवोचत् । तत्, तद्भाष्यकारस्य सूत्रकाराशयानवधाननिबन्धनम् । उत्क्रान्तिगत्यागतीनामित्यत्र तेनैव जीवाणुत्वस्य समर्थितत्वात् । अन्यत्रापीति । अत्राद्वैतसिद्धिकारः । दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षं वक्तुमशक्यम् । यैव हृस्वा सैवेदानीं दीर्घा इति हृस्वत्वदीर्घत्वाभ्यामुपस्थितयोरभेदस्य साक्षात्क्रियमाणत्वादित्याह । तदतिस्थवीयः । तादृशप्रत्यभिज्ञाया अननुभूयमानत्वात् ।

शिष्टाकोप इति । प्रमाणलक्षणे तृतीयचरणे चिन्तितम् । ‘शिष्टाकोपे विरुद्धमिति चेन्न शास्त्रपरिमाणत्वात्’ इत्यत्र वेदं कृत्वा वेदिः कार्येति श्रूयते । वेदकरणानन्तरं वेदिकरणं श्रुतौ प्रतीयते । क्षुत आचामेदिति स्मृतौ तु वेदकरणानन्तरं क्षुतश्चेदाचमनं विधाय तदुत्तरं वेदिः कार्येति प्रतीयते । यत्र स्मृतिः प्रमाणमप्रमाणं वेति संशये श्रुतितः स्मृतेर्दुबलत्वादप्रामाण्यमिति पूर्वपक्षप्राप्ते प्रधानभूताचमनादिपदार्थप्रतिपादकतया स्मृतेः प्राबल्येन तया पदार्थधर्मभूतक्रमप्रतिपादिका दुर्बला श्रुतिर्बाध्यत इति स्थितम् । न हीति । बाध्यत इत्यनेनान्वेति । बाधकत्वे हेतुमभिधत्ते । प्रधानेत्यादि ।। क्रमस्य पदार्थद्वयनिरूप्यत्वेन क्रमापेक्षया पदार्थस्य प्राधान्यम् । स्मृत्या क्षुत आचामेदुपवीती प्राचीमुख इत्यादिस्मृत्या । वेदम् सम्मार्जनसाधनदर्भमुष्ठिविशेषम् । तत्करणं दृढबन्धनादिसंस्कारविशेषरूपम् । वेदिं गार्हपत्याहवनीययोर्मध्ये चतुरङ्गुलपरिमितभूमिम् । तत्करणं वेदेन सम्मार्जनादिसंस्काररूपम् । न च चन्द्रेति । तिङन्तेनान्वेति नञ् । आगमादिप्रवृत्तेः प्रागेव ज्ञातदूरस्थत्वादिदोषेणैव भ्रमत्वं ज्ञायत इत्याशयः ।

अत्राद्वैतसिद्धिकारः । यतो युक्तिरेवैषा । यत् यद्दूरस्थस्वल्पपरिमाणज्ञानं तत् तद्दूरदोष-निबन्धनमप्रमा शैलाग्रस्थविटप्यल्पपरिमाणज्ञानवदिदमपि तथेति । तथा चैवंरूपया युक्त्यैव चन्द्र-प्रादेशत्वादिप्रत्यक्षस्य बाधं वदन् युक्त्या न प्रत्यक्षस्य बाध इति वचनेनाजैषीः । किञ्च येन यस्य भ्रमत्वं ज्ञायते तत् तस्य बाधकमिति यदि तदा भ्रमत्वस्यानुमेयत्वात् तदनुमानमेव बाधक-मित्यायाति । नहि प्रमात्ववद्भ्रमत्वस्यापि स्वतस्त्वं भवदभिमतमिति जगाद । तत्साहसिक्यात् । ग्रन्थकृतैव दूरादिदोषनिश्चयादित्यभिदधानेन तादृशदोषजन्यत्वज्ञानसहकृतसाक्ष्येव भ्रमत्वं निश्चिनोतीति भगवत्पदीयसिद्धान्तस्य प्रकाशितत्वात् । विरोधिनिर्णये जागरूके तद्विरुद्धानुमापकयुक्तेरेवानवतारात् । युक्तिबाध्यत्वस्य दुःसाधत्वात् । अद्वैतसिद्धिकृतैव साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यभ्युपेयम् । अन्यथा परोक्षप्रमाया अपि अपरोक्षभ्रमनिवर्तकत्वोपपत्तौ वेदान्तवाक्यानाम-परोक्षज्ञानजनकत्वप्रयासो व्यर्थः स्यादिति । नायं सर्प इत्याप्तवाक्यादिना सविलासाज्ञाननिवृत्य-भावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रमप्रमाणत्वबुद्धेस्तद्विषयसत्यताबुद्धेश्च निवर्तनात् तावता च तन्निवर्तकत्वव्यपदेशात् भ्रमे प्रामाण्यविभ्रमस्य तद्विषयसत्यताविभ्रमस्य च परोक्षत्वेनापरोक्षबाधा-

नपेक्षत्वात् । न हि दुष्टकरणाजन्यत्वमबाधितविषयत्वं वा प्रामाण्यं कस्यचित्प्रत्यक्षम् । न वा सर्वदेश-कालसर्वपुरुषाबाध्यत्वरूपं विषयसत्यत्वम् । अतस्तयोः परोक्षप्रमाबाध्यत्वमुचितमेव । तयोश्च बाधितयोः रजतादिभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वादसन्नेवेति बाधित इति चाभिहिततया परोक्षज्ञानस्यापरोक्ष-ज्ञानबाधकत्वाशयेन युक्त्या प्रत्यक्षं बाध्यत इति पुनस्तेनैवोक्ते कथं व्याहतिर्न स्यात् ।

Load More