जडत्वमप्यज्ञातृत्वं वा? अज्ञानत्वं वा? अस्वप्रकाशत्वं वा?..

१४. जडत्वहेतुभङ्गः

न्यायामृतम्

जडत्वमप्यज्ञातृत्वं वा? अज्ञानत्वं वा? अस्वप्रकाशत्वं वा? अनात्मत्वं वा? पराभिप्रेतं वा? नाद्यः । त्वन्मते पक्षनिक्षिप्तस्याहमर्थस्यैव ज्ञातृत्वात्, शुद्धात्मनोऽप्य ज्ञातृत्वाच्च । शुद्धेऽपि कल्पितं ज्ञातृत्वमस्तीति चेन्न । कल्पितेन हेत्वभावेन व्यभिचारा- परिहारात् । कल्पितस्य ज्ञातृत्वस्याभावो हेतुरिति चेन्न । गौरोऽहं जानामीति कल्पित-ज्ञातृत्ववति देहादौ तदभावासिद्धेः । धर्मिसमसत्त्वस्य ज्ञातृत्वस्या भावो हेतुरिति चेन्न । तादृशज्ञातृत्ववत्यन्तःकरणे तदभावासिद्धेः । शुद्धे तादृशज्ञातृत्वाभावाच्च ।

न द्वितीयः । वृत्तिज्ञाने भागासिद्धेः । यदि च साङ्ख्यवेदान्तिनां तु ‘करण-व्युत्पत्त्या बुद्धिवृत्तिर्ज्ञानम्’ इति विवरणोक्तेर्वृत्तिरज्ञप्तिः, तर्हि परोक्षवृत्त्या स्वविषये अज्ञाननिवृत्तिव्यवहारस्मृतयो न स्युः, तासां ज्ञप्तिकार्यत्वात् । धर्माधर्मादिकं च जानामीत्यनुभवश्च न स्यात् । किं चात्मनि व्यभिचारः । तथा हि– आत्मरूपं ज्ञानं सविषयं निर्विषयं वा? आद्येऽपि स्वविषयं परविषयं वा? नाद्यः । स्ववृत्तिविरोधेन परैरस्वीकारात् ।

ननु स्वकर्मकत्वाभावेऽपि स्वव्यवहारजननयोग्यत्वरूपं स्वविषयत्वमस्ति । ‘तत्स्वभावस्यापि स्फुरणस्य तद्व्यवहारजनकतया तद्विषयत्वमि’ति चित्सुखोक्तेरिति चेन्न । घटादावप्येतदन्यस्य ज्ञप्तिकर्मत्वस्याभावात् । न हि– घटादावपि तदाकार-वृत्तिः, तत्प्रतिबिम्बितचैतन्यं वा ज्ञप्तिः, तां च प्रति कर्मत्वं तत्कारकविशेषत्वं वा तज्जन्यावरणाभिभवरूपातिशययोगित्वं वेति युक्तम् । ज्ञातैकसति सुखादौ शुक्ति-रूप्यादौ चोक्तरूपज्ञप्तिकर्मत्वाभावापाताच्च । ब्रह्मणोऽपि चरमवृत्तिविषयस्य उक्तरूपां ज्ञप्तिं प्रति उक्तरूपकर्मत्वापाताच्च । किं तु वृत्त्यभिव्यक्तं घटाद्यधिष्ठानचैतन्यं तज्ज्ञप्तिः । न च तस्य घटादावपि व्यवहारादन्यत्कृत्यमस्ति । इयांस्तु भेदः–घटादिः स्वान्यज्ञप्तिकर्म, चैतन्यं तु स्वस्वरूपज्ञप्तिकर्मेति । न द्वितीयः, मोक्षे पराभावात् । त्वन्मते च वर्तमानस्यैव साक्षात्साक्षिविषयत्वात् । वह्निरासीदित्याद्यनुमिताविव साक्षिज्ञाने मोक्षसुषुप्त्योरतीतविषयोल्लेखरूपोपप्लवापाताच्च ।

निर्विषयत्वे तु ज्ञानत्वमेव न स्यात् । तद्धि विषयानुल्लेखित्वम्, न तूल्लिखितस्य विषयस्यावर्तमानत्वम्, अत्यन्तासत्त्वं वा । येनातीतादिज्ञाने तुच्छज्ञाने च व्यभिचारः स्यात् । न च कदाचित्सविषयत्वमात्रेण ज्ञानत्वम् । सप्रतियोगिके अभावादौ सप्रतियोगिकत्ववत् सविषयके इच्छादौ घटादिज्ञाने च सविषयकत्वादेः स्वभावत्वदर्शनात् । परमपुरुषार्थे मोक्षे आनन्दाप्रकाशापाताच्च । अर्थप्रकाशत्वरूप-ज्ञानस्वभावाभावेऽपि ज्ञानत्वे घटादेरपि ज्ञानत्वापाताच्च । अर्थाप्रकाशात्मकजड-व्यावृत्तेरपि अर्थप्रकाशात्मकत्वं विनाऽयोगाच्च ।

अद्वैतसिद्धिः

जडत्वमपि हेतुः । ननु– किमिदं जडत्वम्? अज्ञातृत्वं वा? अज्ञानत्वं वा? अनात्मत्वं वा? नाद्यः; त्वन्मते पक्षनिक्षिप्तस्यैवाहमर्थस्य ज्ञातृत्वात्तत्रासिद्धेषः, शुद्धात्मनोऽज्ञातृत्वेन तत्र व्यभिचाराच्च । नापि द्वितीयः, वृत्त्युपरक्तचैतन्यस्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैतन्यस्य चाज्ञानत्वेन वृत्तावसिद्धिपरिहारेऽपि चैतन्ये व्यभिचारतादवस्थ्यात् । नापि तृतीयः, आत्मत्वस्यैव निरूपयितुमशक्यत्वात् । तद्धि न जातिविशेषः, त्वयाऽऽत्मन एकात्वाभ्युपगमाद्, विशिष्टशत्मनां भेदेऽपि तेषां पक्षकुक्षिनिक्षिप्तत्वात् । नाप्यनन्दरूपत्वम्, वैषयिकानन्दे तद्व्यतिरेकस्य हेतोरसिद्धेः, तस्याप्यात्मत्वे अज्ञानपक्षोक्तदोः प्रसञ्जनीय इति चेत्, मैवम् द्वितीयतृतीयपक्षयोः दोषाभावात् । तथा हि ‘अज्ञानत्वं जडत्वमि’ति पक्षे नात्मनि व्यभिचारः, अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायात् । न च अभावे सप्रतियोगित्कदिवदिच्छाज्ञानादिष्वपि सविषयकत्वस्य स्वाभाविकत्वच्छायामिव ज्ञानेऽपि तस्य समानसत्ताकत्वमिति वाच्यम् । ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः, स च न तात्त्विकः, किंत्वाध्यासिकः, वक्ष्यमाणरीत्या तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । न हि शुक्तौ रूप्यं स्वाभाविकम् । एवं च ज्ञानोपाधिकस्यैव सविषयत्वस्य इच्छादिष्वभ्युपगमात् नितरां तत्र तस्य स्वाभाविकत्वम् ।

न चैवं ज्ञानवद् विषयसम्बन्धं विनाऽपि कदाचिदिच्छायाः सत्त्वापत्तिरिति वाच्यम्; सविषयत्वप्रयोजकोपाध्यपेक्षया अधिकसत्ताकत्वस्य तत्र प्रयोजकत्वाद्, इच्छायाश्च तत्समान-सत्ताकत्वात् । न च त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकाराद् आनन्दाप्रकाशे तदपुमर्थत्वं स्यादिति वाच्यम्; तदा ह्यानन्द एव प्रकाशो न त्वानन्दस्य प्रकाशत्वम्, अर्थोपलक्षितप्रकाशत्वं वा तदास्त्येवेति न ज्ञानत्वहानिरित्युक्तम् ।

न्यायामृततरङ्गिणी

त्वन्मत इति ।। तथाच तत्रासिद्धिरिति भावः ।। शुद्धात्मन इति ।। तथाच तत्र व्यभिचार इति भावः ।। शुद्धेऽपीति ।। तथाच शुद्धात्मनि हेतोरगमनाद् न व्यभिचार इत्यर्थः ।। कल्पितेनेति ।। अयोगोलकादौ कल्पितेन वन्ह्यभावेन वह्नेरपि धूमाव्यभिचारः स्यादित्यर्थः । अहमर्थे हेत्वसिद्धिर्नेति शङ्कते – कल्पितस्येति ।।

गौरोऽहमिति ।। अहमर्थनिष्ठस्य ज्ञातृत्वस्य गौरे देहे कल्पितत्वादित्यर्थः । देहादौ हेतुसिद्धिं शङ्कते – धर्मिसमसत्त्वस्येति ।। तादृशेति ।। व्यावहारिकेत्यर्थः ।। शुद्ध इति ।। शुद्धे तात्त्विकस्य धर्मिसमसत्ताकस्य ज्ञातृत्वस्याभावात् तत्र व्यभिचार इत्यर्थः ।। वृत्तिज्ञान इति ।। ज्ञाने ज्ञानत्वस्यावश्यकत्वादित्यर्थः । ननु हेतूकृतमज्ञानत्वमज्ञप्तित्वम् । तच्च वृत्तिरूपे ज्ञानेऽस्ति, इति नासिद्धिरिति शङ्कते – यदि चेति ।। साङ्ख्यरूपाः वेदान्तिनः साङ्ख्य-वेदान्तिनः । बुद्धिवृत्तेर्ज्ञानभिन्नत्वमुपपाद्य तत्र ज्ञानशब्दप्रवादसमर्थनपरो विवरणग्रन्थः । अज्ञप्तित्वमपि वृत्तिरूपे ज्ञाने नास्तीत्यसिद्धिरेवेत्याह – तर्हीति ।। अपरोक्षवृत्तौ चैतन्य-प्रतिबिम्बनियमात् तस्य च ज्ञप्तित्वादज्ञाननिवृत्त्यादि भविष्यति, इत्यत उक्तम् – परोक्ष-वृत्त्येति ।। परोक्षवृत्तौ चैतन्यप्रतिफलनादेस्तन्मतेऽप्यभावादज्ञाननिवृत्त्यादेर्ज्ञप्तिकार्यस्य ततो दर्शनात् परोक्षवृत्तेरपि ज्ञप्तित्वमवश्यमभ्युपेयम्, अतोऽसिद्धिरित्यर्थः ।। तासामिति ।। ज्ञप्तिकारणात् ज्ञप्तिकार्यं न दृष्टमिति भावः ।। धर्माधर्मादिकमिति ।। धर्मादिवृत्तौ परोक्ष-रूपायां ज्ञप्तित्वरहितायां ज्ञप्तित्वमवगाहमानोऽनुभवः प्रमा न स्यादिति शेषः ।। किञ्चात्म-नीति ।। त्वदभिप्रेते आत्मरूपे ज्ञाने ज्ञानत्वाभावस्यापाद्यमानत्वेन तत्राज्ञानत्वरूपहेतोः सत्त्वेन व्यभिचारः ।

आत्मनि ज्ञानत्वाभावं वक्तुं ज्ञानत्वव्यापकसविषयत्वाभावमाह– तथाहीत्यादिना ।। आत्मरूपं ज्ञानमिति ।। ज्ञप्तिरित्यर्थः ।। स्ववृत्तिविरोधेनेति ।। क्रिया हि स्वविषये कर्मणि कर्तरि वा केनचित् सम्बन्धविशेषेणेतरव्यावृत्तेन वर्तते । तत्र सकर्मकक्रियाकर्मणि । यथा छिदिक्रिया छेद्ये, गतिक्रियाऽपि गम्ये केनापि सम्बन्धेन वर्तत एव । अकर्मकक्रिया तु कर्तरि – यथा शयनासनादिक्रिया देवदत्ते । तदत्र स्वरूपभूतज्ञानक्रियां प्रति ब्रह्म यदि विषयः स्यात्, तदा कर्मसर्त्रोरन्यतरत् स्यात् । ततश्च स्वरूपभूतज्ञानं ब्रह्मस्वरूपभूते ज्ञाने वर्तेत, तच्च विरुद्धम् । नहि छिदा छिदायां वर्तते, शयनं वा शयने । एवं स्ववृत्तिविरोधेन ब्रह्मस्वरूपज्ञप्तेः स्वविषयत्वं परैर्नाङ्गीकृतमित्यर्थः ।

ननु ब्रह्मस्वरूपज्ञानं प्रति ब्रह्मणो विषयत्वेऽपि न ज्ञानं प्रति ब्रह्मणः कर्तृकर्मत्वा-न्यतरत्वापत्तिः । कर्तृकर्मत्वातिरिक्तस्य तज्जन्यव्यवहारयोग्यत्वरूपस्य विषयत्वस्य स्वरूपभूतज्ञानं प्रति ब्रह्मणः सत्त्वात् । तथा च न स्ववृत्तिविरोध इति शङ्कते– ननु स्वकर्मत्वभावेऽपीति ।। अत्र परः स्वाचार्यसम्मतिमाह– तत्स्वभावस्यापीति ।। तत्र ब्रह्मस्वरूपज्ञानस्य ज्ञप्तिकर्मत्वा-भावेऽपि ज्ञप्तिजन्यव्यवहारयोग्यत्वरूपं ज्ञप्तिविषयत्वमस्त्येव । तथाच ब्रह्मरूपं ज्ञानं स्वविषय-मेव, इति न ज्ञानत्वव्यापकसविषयत्वव्यावृत्तिर्ब्रह्मस्वरूपज्ञाने, इति न तत्र व्यभिचार इति भावः ।। घटादावपीति ।। घटादौ ज्ञप्तिकर्मत्वज्ञप्तिविषयत्वयोरेकत्वाद् ब्रह्मणो ज्ञप्तिकर्मत्व-मनभ्युपेत्य ज्ञप्तिविषयत्वाङ्गीकारो विरुद्ध इत्यर्थः ।

कर्मत्वविषयत्वयोर्भेदमाशङ्क्य निराकरोति – न हीति ।। घटाद्याकारवृत्तिं प्रति कर्त्रादि-भिन्नकारकविशेषत्वं वा, घटाद्याकारवृत्तिजन्यावरणाभिभवातिशययोगित्वं वा, घटाद्याकार-वृत्तिप्रतिबिम्बितचैतन्यं प्रति कारकविशेषत्वं वा, घटाद्याकारवृत्तिप्रतिबिम्बितचैतन्यजन्या-वरणाभिभवरूपातिशययोगित्वं वा घटादीनां कर्मत्वम् । विषयत्वं तु तज्जन्यव्यवहारयोग्यत्वरूपं निरुक्तकर्मत्वाद् भिन्नमेवेत्यर्थः । निराकरणहेतुमाह– ज्ञातैकसतीति ।। कर्मत्वेन संप्रतिपन्ने सुखादौ निरुक्तकर्मत्वमव्याप्तमित्यर्थः । प्रत्यक्षयोग्यत्वे सति स्वाधिकरणकालवृत्तिप्रागभाव-प्रतियोगिप्रत्यक्षविषयभिन्नत्वं ज्ञातैकसत्त्वम् । तथाच ज्ञप्त्यपेक्षया पूर्वभावित्वाभावात् सुखादेर्न ज्ञप्तिकारकत्वरूपं तत्कर्मत्वम् । ज्ञातैकसत्त्वात् स्वत एवावरणाभावेन ज्ञप्तिजन्यावरणाभि-भवरूपातिशययोगित्वरूपमिति कर्मत्वं सुखादेर्नास्तीत्यव्याप्तिरित्यर्थः । उक्तकर्मलक्षणयोरति-व्याप्तिमप्याह – ब्रह्मणोऽपीति ।। चरमवृत्तेर्ब्रह्माकारतया तां प्रति ब्रह्मणः कारकत्वात् तज्जन्यावरणाभिभवरूपातिशययोगित्वाच्च चरमवृत्तेर्घटाद्याकारवृत्तिवत् चित्प्रतिफलनयुक्तत्वेन ब्रह्माकारवृत्तिप्रतिफलितचैतन्यं प्रति ब्रह्मणोऽपि कारकत्वात् तादृशचैतन्यजन्यावरणाभिभव-रूपातिशययोगित्वाच्च ब्रह्मण्यतिव्याप्तिरित्यर्थः । विषयत्वातिरिक्तं कर्मत्वं निरस्य कर्मत्वरूपमेव विषयत्वं घटादावित्याह– किंत्विति ।। एवं घटचैतन्ययोर्ज्ञप्तिकर्मत्वेऽप्यान्तरालिकं भेदमाह– इयांस्त्विति ।। तथाच चैतन्यस्य स्वकर्मत्वमनङ्गीकुर्वद्भिः स्वविषयत्वमपि नाङ्गीकृत-मेवेत्यर्थः ।

ब्रह्मरूपं ज्ञानं परविषयमिति द्वितीयपक्षं निराकरोति – न द्वितीय इति ।। मोक्ष इति ।। तथाच मोक्षकाले साक्षिणो निर्विषयत्वं स्यादित्यर्थः । मोक्षकालेऽपि साक्षिणोऽतीतविषयत्वं भविष्यतीत्याशङ्क्य, तत् किमतीतं साक्षान्मोक्षकाले साक्षिणो विषयः? ज्ञानोपरागेण वा? इत्याशङ्ख्य, न द्वितीयः; असम्भवात्, इत्यभिप्रेत्य प्रथमपक्षं दूषयति – त्वन्मते चेति ।। वर्तमानस्येति ।। योग्यस्येति शेषः । अतीतसुखादेर्न साक्षात् साक्षिविषयत्वमिति भावः । साक्षिणोऽतीतविषयत्वे दूषणान्तरमाह – वह्निरासीदिति ।। मोक्षे सुषुप्तौ च विद्यमाने साक्षिज्ञानेऽतीतविषयोल्लेखरूपः संसारः स्यात् । तथाच मोक्षसुषुप्त्योर्निष्प्रपञ्चता न स्यात् ।

ननु न ज्ञानत्वस्य व्यापकं सविषयत्वं येन तद्व्यावृत्त्या ज्ञानत्वं व्यावर्तेत । किं तर्हि ? निर्विषयमप्यात्मस्वरूपं ज्ञानमस्ति, इति द्वितीयपक्षं दूषयति – निर्विषयत्व इति ।। अयमभिप्रायः – न ज्ञानत्वस्य व्यापकं सविषयत्वं नेति । ‘इदं जानामि’ इति ज्ञानानुभवेन विषयाङ्कितस्यैव ज्ञानस्य सिद्धेः सविषयत्वस्य ज्ञानत्वव्यापकत्वावधारणादात्मस्वरूपस्य निर्विषत्वे ज्ञानत्वमेव न स्यादिति । यद्यपि ज्ञानत्वव्यापकसविषयत्वाभावोपादानेनैवाज्ञानत्व-मात्मनः सिद्ध्यति; तथापि यदि ज्ञानत्वव्यापकं सविषयत्वं न भवतीति परो वैयात्याद् वदेत्, तदा तं प्रति सविषयत्वस्य ज्ञानत्वव्यापकत्वोपपादनाय द्वितीयविकल्पोपन्यास इत्याशयः ।

ननु आत्मा न ज्ञानम्, निर्विषयत्वात्, घटवत्, इत्यनुमाने त्वदभिप्रेते निर्विषयत्वं किमवर्तमानविषयत्वं वा ? अत्यन्तासद्विषयत्वं वा ? आद्येऽतीतज्ञाने व्यभिचारः । द्वितीये तुच्छज्ञाने व्यभिचारः, इत्याशङ्कां निराकुर्वन् हेतुस्वरूपमाह– तद्धीति ।। निर्विषयत्वहेतोः स्वरूपासिद्धिं शङ्कते – न चेति ।। अर्थोपलक्षितस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपाया-दित्यर्थः ।। सप्रतियोगिक इति ।। उक्तानुमाने हेतूकृतं निर्विषयत्वं सविषयत्वस्वभाव-शून्यत्वम् । तच्चात्मनि कदाचिद् विषयसम्बन्धेऽप्यस्ति, इति नासिद्धिरित्यभिप्रेत्य । ननु उक्तसाध्यहेत्वोर्व्यतिरेकसहचारग्रहस्थलाभावात् न व्याप्तिग्रहः, इत्याशङ्क्य व्यतिरेकसहचार-ग्रहस्थलमुक्तम् – घटादिज्ञान इति ।। ननु – तत्स्वरूपानन्तर्गतस्य विषयस्य कथं तत्स्व-भावनिरूपकत्वम्? इत्याशङ्क्योक्तम् – सप्रतियोगिकेऽभावादौ सविषयके इच्छादाविति ।। एवं च यथाऽभावादौ सप्रतियोगिकत्वं स्वाभाविकम्, इच्छादौ घटादिज्ञाने च सविषयकत्वं स्वाभाविकम्, तथा ब्रह्मरूपज्ञानेऽपि सविषयकत्वं स्वाभाविकं वाच्यम् । तच्च न सम्भवति । मोक्ष आत्मरूपज्ञानस्य सविषयकत्वाभावादित्यर्थः ।।

अत्र वदन्ति – ज्ञानस्य सविषयत्वं विषयसम्बन्धः । स च न तात्त्विकः, किं त्वाध्यासिकः । तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । नहि शुक्तौ रूप्यं तात्त्विकम् । एवं च ज्ञानोपाधिकस्यैव सविषयत्वस्येच्छादिष्वभ्युपगमात् नतरां तस्य स्वाभाविकत्वम् । न च ज्ञानवद् विषयसम्बन्धं विनाऽपि कदाचिदिच्छायाः सत्त्वापत्ति-रिति वाच्यम् । सविषयत्वप्रयोजकोपाध्यपेक्षयाऽधिकसत्ताकत्वस्य तत्र प्रयोजकत्वात् । इच्छायाश्च तत्समानसत्ताकत्वात् । एवं च सविषयकत्वस्वाभावत्वं न ज्ञानत्वव्यापकम् । अतस्त-न्निवृत्त्याऽऽत्मनि ज्ञानत्वनिवृत्तिर्न इति नाज्ञानत्वस्य हेतोरात्मनि व्यभिचारः इति ।

अत्र ब्रूमः; यदि ज्ञानस्य विषयेणाध्यासिक एव सम्बन्धः, तर्हि चरमवृत्तौ नात्मा विषयः स्यात् । न च वृत्तिप्रतिबिम्बितचैतन्यरूपज्ञानस्य विषयेणाध्यासिकः सम्बन्ध इति वाच्यम् । चरमवृत्तावपि शुद्धात्मगोचराज्ञाननिवृत्त्यर्थं चित्प्रतिफलनस्यावश्यकत्वात् घटादेर्वृत्तिव्याप्यत्वमेव स्यात्, न फलव्याप्यत्वम् । न चैवमात्मनोऽपि फलव्याप्यत्वापत्तौ मिथ्यात्वापत्तिरिति वाच्यम् । त्यज तर्हि मिथ्यात्वे फलव्याप्यत्वस्य हेतुत्वम् । परोक्षवृत्तेरतीन्द्रियार्थविषयकत्वं च न स्यात् । परोक्षवृत्तावतीन्द्रियस्याध्यासाभावात् । तस्मात् न ज्ञानस्याध्यासरूपः सम्बन्धः इति स्वाभाविकमेव ज्ञाने सविषयत्वम् । एवमिच्छायामपि स्वाभाविकमेव सविषयत्वम् । ‘घटं जानामि’ इतिवत् ‘घटमिच्छामि’ इत्यत्रोपाधिं विना सविषयत्वानुभवात् । तस्मात् साधूक्तम् – ‘ज्ञाने सविषयत्वादेः स्वभावत्वदर्शनात्’ इति ।।

मोक्षे विषयानुल्लेखे ब्रह्मस्वरूपज्ञानस्वभावहान्यापत्त्या ज्ञानत्वाभावमुक्त्वा दोषान्तरमाह – परमपुरुषार्थ इति ।। त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकारादानन्दाप्रकाशे तदपु-मर्थत्वं स्यादित्यर्थः । नच तदाऽप्यानन्द एव प्रकाशः, न त्वानन्दस्य प्रकाश इति वाच्यम् । सुखरूपताया अपुरुषार्थत्वात् । प्रकाशमानसुखवत्ताया एव पुरुषार्थत्वात् । ननु अर्थोपलक्षित-प्रकाशत्वं मोक्षेऽप्यस्त्येव, इति न ज्ञानत्वहानिरित्यत आह– अर्थप्रकाशत्वेति ।। मोक्षे ज्ञानोपलक्षणस्याप्यर्थस्य यदि प्रकाशोऽस्ति तदा तदुल्लेखरूपोपप्लवापत्तिः । यदि न प्रकाशः तदाऽर्थप्रकाशत्वरूपज्ञानस्वाभावाभावाद् घटादिवद् ज्ञानत्वं न स्यादित्यर्थः ।

ननु नार्थप्रकाशात्मकत्वं ज्ञानस्वभावः । किन्तु जडव्यावृत्तिरेव । सा चास्ति मोक्षेऽ-प्यात्मनि, नतु घटादावित्यत आह– अर्थाप्रकाशात्मकेति ।। अर्थाप्रकाशात्मकं यज्जडं तस्माद् व्यावृत्तिरपि ज्ञानस्यार्थप्रकाशात्मकत्वरूपजडवैधर्म्यादेवेत्यर्थः ।

न्यायामृतकण्टकोद्धारः

अथ जडत्वहेतुं खण्डयितुं विकल्पयति – जडत्वमिति ।। त्वन्मत इति ।। परेण कर्तृत्वादिधर्माणामहङ्कारनिष्ठानामात्मन्यध्यस्तत्वाङ्गीकारात् । यथा जपाकुसुमगतं लौहित्यं स्फटिके प्रतिभासते तद्वदिति भावः । शुद्ध इति ।। तथा च तत्र व्यभिचार इति भावः । व्यभिचारापरिहारादिति ।। पर्वतो वह्निमान् द्रव्यत्वादित्यत्रापि व्यभिचारपरिहारसम्भवदिति भावः । गौरोऽहमिति ।। तथा च भागासिद्धिरिति भावः । यदि चेति ।। साख्यानां करणव्युत्पत्त्या बुद्धिर्ज्ञानम्, वेदान्तिनां ज्ञायतेऽनेनेति व्युत्पत्त्या वृत्तिर्ज्ञानमित्यन्वयः । ननु आत्मनि कथं व्यभिचारः? तस्य ‘‘सत्यं ज्ञानमि’’ति श्रुत्या ज्ञानरूपत्वादित्यत आह – तथा हीति ।। स्ववृत्तीति ।। क्रियायाः स्वविषयत्वादर्शनेनात्मरूपज्ञानस्य स्वविषयत्वासम्भवाद-स्वीकार इत्यर्थः । घटादावपीति ।। घटादौ ज्ञप्तिकर्मत्वज्ञप्तिविषयत्वयोरेकत्वेन ब्रह्मणि ज्ञप्तिकर्मत्वमनभ्युपेत्य ज्ञप्तिविषयत्वाङ्गीकारो विरुद्ध इत्याशयः । कर्म–विषयत्वयोर्भेदमाशङ्क्य परिहरति – न हीत्यादि ।।

।। किन्त्विति ।। यद्यप्यत्र ‘ज्ञातैकसती’त्यादिनोक्तदोषतादवस्थ्यम्; तथापि प्रतिबिम्बित-चैतन्यस्य ज्ञप्तित्वे तस्याध्यासानधिष्ठानत्वेनाध्यासिकसम्बन्धस्यातन्त्रत्वापत्त्या तत्परिहारेण वृत्त्यभिव्यक्ताधिष्ठानचैतन्यमेव ज्ञप्तिरित्युक्तमिति मन्तव्यम् ।

यत्तु – पूर्वं स्वकर्मत्वाभावमङ्गीकृत्य व्यवहारजननयोग्यत्वरूपतदङ्गीकारे विरोध इत्यर्थः – इति, तन्न । कारकत्वरूपकर्मत्वाभावमङ्गीकृत्य व्यवहारजननयोग्यत्वरूपकर्मत्वाङ्गीकारेण विरोधाभावात् । कारकत्वरूपमेव यदि कर्मत्वं पुनरङ्गीक्रियेत, तदा हि विरोधावकाश इति । तां च प्रतीति ।। यद्यपि चैतन्यरूपज्ञप्तिं प्रति कारणत्वं न सम्भवति । तस्या नित्यत्वात् । नापि तज्जन्यावरणाभिभवातिशययोगित्वम् । तस्य वृत्तिसाध्यत्वात् । तथापि चैतन्यप्रतिफल-नोपाधौ वृत्तौ तदुभयसत्त्वेन तत्प्रतिफलितचैतन्ये तदुपचारेण तथोक्तमिति भावः ।। ब्रह्मणोऽ-पीति ।। न च इष्टापत्तिरिति वाच्यम् । त्वया चरमवृत्तेरकर्मत्वाङ्गीकारेणापसिद्धान्तात् । न च कारकत्वरूपकर्मत्वाभावेऽङ्गीकृत उक्तरूपकर्मत्वमङ्गीकृतमेवेति कथमपसिद्धान्तः इति वाच्यम् । तस्य निर्विशेषत्वेनावरणाभिभवरूपातिशयवत्त्वस्याङ्गीकर्तुमनुचितत्वेनापसिद्धान्तस्य वज्रलेप-त्वात् । मोक्षे पराभावादिति ।। आत्मातिरिक्तपराभावादित्यर्थः । पराभावेऽपि परविषयत्वं किं न स्यादित्यत आह – वह्निरासीदिति ।। अन्त्यपक्षं निराकरोति – निर्विषयत्व इति ।। एवं च ब्रह्म, न ज्ञानम्, निर्विषयत्वादिति फलितानुमानेऽतीतादिज्ञाने व्यभिचारं परिहरति– तद्धीति ।। सविषयकत्वादेरिति ।। अत्र कश्चित् । ज्ञानस्य सविषयत्वं हि विषयसम्बन्धः । स च न तात्त्विकः । किन्त्वाध्यासिकः । तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । न हि शुक्तौ रूप्यं स्वाभाविकम् । अत एव ज्ञानौपाधिकमेव सविषयत्वमिच्छादिष्विति तत्रापि न स्वाभाविकमित्याह । तन्न । सविषयत्वं हि विषयोल्लेखित्वम्, न तु विषयाध्यासाधिष्ठानत्वम् । तथात्वे चरमवृत्तेः सविषयत्वं न स्यात् । चरमवृत्तौ चैतन्यारोपाधिष्ठानत्वाभावात् । दृश्यत्वादीनामसिद्धिश्च स्यात् । अध्यासरूप-सविषयत्वासिद्धेः । तस्मादध्यासातिरिक्तं स्वभावविशेषरूपं सविषयत्वमङ्गीकर्तव्यमिति कथं न सविषयत्वं स्वाभाविकम्? एतेन – इच्छादिष्वपि स्वाभाविकमेव सविषयत्वम्, न ज्ञानो-पाधिकम् । उपाध्यननुसन्धाने ज्ञानवदेव सविषयत्वस्य प्रतीतेः । किचैवं वस्तुतो निर्विषयत्वेऽ-पीच्छायाः सविषयकज्ञानजन्यत्वेन सविषयत्वे ज्ञानस्यापि वस्तुतो निर्विषयकत्वेऽपि सविषयकेच्छाजन्यत्वेन सविषयत्वोपपत्तौ स्वाभाविकं तन्न स्यादिति ।

परमेति ।। तथा च मोक्षस्य पुरुषार्थत्वं न स्यादिति भावः । न च तदाऽऽनन्दस्य प्रकाशाभावेऽप्यानन्दस्य प्रकाशस्वरूपत्वाद् मोक्षस्य पुरुषार्थत्वमिति वाच्यम् । कामनया हि पुरुषार्थत्वम् । सा च सुखी स्यामिति, न तु सुखं स्यामिति । सुखित्वं च सुखानुभववत्त्वम् । तथा च मोक्षावस्थायामात्मरूपज्ञानस्य निर्विषयत्वे आनन्दाप्रकाशादपुरुषार्थत्वमिति । घटादे-रपीति ।। औपाधिकार्थप्रकाशत्वस्य घटादावपि वक्तुं शक्यत्वादिति भावः ।। अर्थप्रकाशेति । स्वाभाविकार्थप्रकाशात्मकत्वं विनेत्यर्थः ।

न्यायामृतप्रकाशः

परेति ।। मायावाद्यपेक्षया परेषां तत्त्ववादिनामस्माकं यदभिप्रेतं तद्वेत्यर्थः ।। अहमर्थस्यैवेति ।। तथाच भागासिद्धिरिति भावः ।। शुद्धेति ।। तथाचात्मनि व्यभिचार इति भावः ।। शुद्धेपीति ।। तथाच हेतोरेवाभावान्न व्यभिचार इति भावः ।। अपरिहारादिति ।। अज्ञातृत्वरूपो यो हेतुस्तद-भावस्य कल्पितत्वमुक्तं स्यात् । तथाच न व्यभिचारपरिहारः । अन्यथा पर्वतो धूमवान्वह्नेरित्यत्रापि अयोगोलके कल्पितस्य वह्न्यभावस्य सत्त्वाद्व्यभिचारित्वं न स्यादिति भावः । ननु कल्पितत्वं नाभावविशेषणं किंनामाभावप्रतियोगिनो ज्ञातृत्वस्यैव । एवंच ब्रह्मणि कल्पितज्ञातृत्वसद्भावेन तदभावाभावान्न व्यभिचार इति शङ्कते – कल्पितस्येति ।। गौरोहमिति ।। अहमर्थनिष्ठस्य ज्ञातृ-त्वस्य गौररूपवति देहे कल्पितत्वादिति भावः । नन्वत्राहमर्थ एव ज्ञातृत्वं प्रतीयते न देह इति चेन्न । गौरोहमिति गौरत्वाहन्त्वयोः सामानाधिकरण्यप्रतीत्या शरीराहमर्थयोरभेदप्रतीतेरिति भावः । देहादौ पक्षीभूते । तथाच भागासिद्धिरिति भावः ।। धर्मीति ।। तथाच नासिद्धिः । देहे प्रतीयमानस्य ज्ञातृत्वस्य कल्पिततया प्रातिभासिकत्वेन व्यावहारिकधर्मिभूतदेहसमसत्ताकत्वाभावादिति भावः ।। तादृशज्ञातृत्ववतीति ।। व्यावहारिकधर्मिभूतान्तःकरणसमसत्ताकज्ञातृत्ववतीत्यर्थः । एवंच भागासिद्धिरिति भावः ।। तादृशेति ।। पारमार्थिकधर्मिभूतशुद्धब्रह्मसमसत्ताकज्ञातृत्वाभावस्य शुद्धे सत्त्वाद्व्यभिचार इति भावः ।

ननु वृत्तिज्ञाने न भागासिद्धिः । अज्ञानत्वादित्यस्याज्ञप्तित्वादित्यर्थो विवक्षितः । वृत्तिरूपं ज्ञानं च न भावव्युत्पत्त्या ज्ञानशब्दवाच्यं किंतु ज्ञायतेऽनया चैतन्यमिति करणव्युत्पत्त्यैव । भावव्युत्पत्त्या तद्वाच्यंतु वृत्तिप्रतिबिम्बितचैतन्यमेवेत्यतो न दोष इत्याशङ्क्य दूषयति – यदिचेति ।। यदिच वृत्तिरज्ञप्तिरित्यन्वयः । तत्र विवरणसंमतिमाह– साङ्ख्येति ।। साङ्ख्या वेदान्तिनश्च साङ्ख्य-वेदान्तिनस्तेषाम् । साङ्ख्यरूपा वेदान्तिन इत्यर्थ इत्यप्याहुः । मत इति शेषः । बुद्धेरन्तःकरणस्य वृत्तिः करणव्युत्पत्त्या ज्ञानमित्यन्वयः । अज्ञप्तित्वमपि वृत्तिरूपे ज्ञाने नास्तीत्यसिद्धिरेवेत्याह ।। तर्हीति ।। अपरोक्षवृत्तौ चैतन्यप्रतिबिम्बितत्वनियमात्तस्य च ज्ञप्तित्वात्ततोऽज्ञाननिवृत्त्यादिकं भविष्यतीत्यत उक्तं– परोक्षवृत्त्येति । परोक्षवृत्तौ चैतन्यप्रतिफलननियमादेस्त्वन्मतेऽभावादज्ञान-निवृत्त्यादेर्ज्ञप्तिकार्यस्य ततोपि दर्शनात्परोक्षवृत्तेरपि ज्ञप्तित्वमवश्यमभ्युपेयमतोऽसिद्धिरित्यर्थः । कुत इत्यत आह– तासामिति ।। स्मृतेः संस्कारद्वारा ज्ञप्तिकार्यत्वं द्रष्टव्यम् । तथाच ज्ञप्तिभिन्नात् ज्ञप्तिकार्यं न दृष्टमिति भावः ।।

जानामीति ।। ज्ञा अवबोधन इति धातोः धर्मादिज्ञप्तिमानित्यनुव्यवसायरूपानुभव इत्यर्थः । ज्ञाधात्वर्थभूतज्ञप्तिविषयत्वं धर्मादौ प्रतीयते । तथाच ज्ञप्तित्वरहितायां परोक्षरूपायां धर्मादिवृत्तौ ज्ञप्तित्वमवगाहमानोऽनुभवः प्रमा न स्यादित्यर्थः । घटादिकं जानामीत्यनुभवः प्रमा न स्यादित्यापादनं तु न शक्यम् । ज्ञप्तित्वरहितायाम् अपरोक्षरूपायां घटादिवृत्तौ ज्ञप्तित्वमवगाहमानानुभवस्य प्रमात्वं भविष्यति अपरोक्षवृत्तेरज्ञप्तित्वेऽपि चैतन्यरूपज्ञप्तिप्रतिबिम्बनसद्भावादतो धर्मादिकमित्युक्तम् ।।

किञ्चात्मनीति ।। त्वदभिप्रेते आत्मरूपे ज्ञाने ज्ञानत्वाभावस्यापाद्यमानत्वेन तत्राज्ञानत्व-रूपहेतोः सत्त्वाद्व्यभिचार इत्यर्थः । ज्ञानत्वव्यापकानां सविषयत्वज्ञातृसाहित्यप्रमाऽप्रमान्यतर-त्वादीनाभावान्नात्मनो ज्ञानत्वमिति ज्ञानत्वाभावं वक्तुं ज्ञानत्वव्यापकसविषयत्वाभावं तावदुपपादयति – तथाहीति ।। आत्मरूपं ज्ञानं चैतन्यरूपा ज्ञप्तिरित्यर्थः ।। स्ववृत्तिविरोधेनेति ।। तथाहि । लोके क्रिया द्विविधा दृष्टा सकर्मका अकर्मका चेति । तत्राकर्मका क्रिया कर्त्राश्रितैव दृष्टा । यथा शयनासनादिक्रिया देवदत्ताश्रितैव । सकर्मका च क्रिया द्विविधा । काचन कर्त्राश्रिता यथा भोजन-गमनादिक्रिया देवदत्ताश्रिता । काचन कर्माश्रिता । यथा छिदा छेद्यरूपकर्माश्रिता । तदिह ज्ञानरूपाच क्रिया सकर्मकेति कर्माश्रिता कर्त्राश्रिता वा वाच्या । तदत्र चैतन्यस्वरूपभूतज्ञान-रूपक्रियां प्रति ब्रह्मण एव विषयत्वाङ्गीकारे तस्यैव कर्तृत्वात्तस्यैवच कर्मत्वात्कर्तृकर्मक्रियाणां सर्वासामप्येकत्वात्क्रियायाः कर्मीभूतायां स्वस्यामेव वृत्तिः प्राप्ता । इदं च विरुद्धम् । नहि छिदा छिदायां वर्तते । शयनं वा शयने । एवं च स्ववृत्तिविरोधेन ब्रह्मस्वरूपज्ञप्तेः स्वविषयत्वं परैर्नाङ्गीकृतमिति संप्रदायः । (ननु स्यादयं स्ववृत्तिविरोधः । यद्यात्मनः कर्मत्वं स्यात् । न चैतदस्ति येन कर्मीभूतायां स्वस्यामेव वृत्तिप्राप्त्या स्ववृत्तिविरोधःस्यात् ।)

ननु ब्रह्मणः स्वरूपज्ञानं प्रति कर्मत्वाभावेऽपि विषयत्वमस्त्येव । नच तदेव कर्मत्वमिति वाच्यम् । तयोर्भेदात् । तथा च न स्ववृत्तिविरोध इत्याशङ्कते – नन्विति ।। (तथा च ब्रह्म-स्वरूपभूतं ज्ञानं स्वविषयमेवेति न ज्ञानत्वव्यापकसविषयत्वव्यावृत्तिर्ब्रह्मस्वरूपज्ञाने इति न व्यभिचार इति शङ्कते – नन्विति ।। पाठान्तरम्) कर्मत्वातिरिक्तं ज्ञानजन्यव्यवहारयोग्यत्वमेव विषयत्वम् । ज्ञाने च स्वविषयविषयकव्यवहारजननयोग्यत्वं स्वविषयकत्वमित्यर्थः । यत्र ज्ञानानन्तरं व्यासङ्गादिना व्यवहारो न जातस्तत्र ज्ञाने स्वविषयविषयकव्यवहारजनकत्वाभावात् तद्विषये च ज्ञानजन्यव्यवहारा-स्पदत्वाभावादव्याप्तिवारणाय योग्यत्वमित्युक्तम् । योग्यत्वं च सहकारिविरहप्रयुक्तकार्याभावः । तदिह ज्ञानानन्तरं व्यवहारे जननीये व्यासङ्गाभावः सहकारी तदभावाद्व्यवहारो न भवति । तत्सद्भावेतु भवत्येवेत्येवं व्यासङ्गदशायामपि उक्तरूपयोग्यतासद्भावान्नाव्याप्तिरिति भावः । ब्रह्मज्ञानस्य स्वकर्म-कत्वाभावेऽपि स्वव्यवहारजननयोग्यत्वरूपं स्वविषयत्वमस्तीत्यत्र परः स्वाचार्यसंमतिमाह– तत्स्वभावस्यापीति ।। आत्मस्वभावस्यापीत्यर्थः । स्फुरणस्य ज्ञानस्य । तद्विषयत्वं तद्विषयकत्वम् । एतदन्यस्य ज्ञानजन्यव्यवहारयोग्यत्वभिन्नस्य । तथाच घटादौ ज्ञप्तिविषयत्वकर्मत्वयोरेकत्वदर्शनात् ब्रह्मणो ज्ञप्तिकर्मत्वमनङ्गीकृत्य तद्विषयत्वाङ्गीकारो विरुद्ध इत्यर्थः ।

ननु ज्ञानजन्यव्यवहारयोग्यत्वरूपविषयत्वातिरिक्तं ज्ञप्तिकर्मत्वं घटादावस्त्येवेति उक्तमसदित्या-शङ्क्य निराकरोति – नहीत्यादिना ।। एकदेशिमतेनाह– तदाकारवृत्तिरिति ।। घटाद्याकारान्तः-करणवृत्तिरित्यर्थः ।। तां च प्रतीति ।। तदाकारवृत्तिर्ज्ञप्तिरिति मते तां प्रति कर्मत्वं नाम तत्कारक-विशेषत्वम् । तत्प्रतिबिम्बितं चैतन्यं ज्ञप्तिरिति मते तां प्रति कर्मत्वं नाम तज्जन्येत्यादिरूपमिति विवेकः । घटादेश्चैतन्यकारकत्वाभावेन तत्कारकविशेषत्वरूपकर्मत्वस्य द्वितीयमतेऽयोगादिति ध्येयम् । कर्त्रादिकारकव्यावृत्त्यर्थं विशेषपदम् ।। तज्जन्येति ।। वृत्तिप्रतिबिम्बितचैतन्यजन्येत्यर्थः । अतिशय-विशेषणमेतत् । अतिशययोगित्वम् अतिशयजन्यव्यवहारयोगित्वमित्यर्थो द्रष्टव्यः । अन्यथा प्राप्तप्रकाशप्रतिबन्धरूपावरणस्य योऽभिभवो ध्वंसः तद्रूपातिशययोगित्वं तदभिव्यक्ताधिष्ठानचैतन्य एव स्यात् न घटादाविति ध्येयम् । यद्वा वृत्तिप्रतिबिम्बितचैतन्यजन्यो य आवरणाभिभवरूपोऽतिशयः भग्नावरणचित्सम्बन्ध इति यावत् । तद्रूपातिशययोगित्वमिति व्याख्येयम् । इदं च घटादावस्तीति ध्येयम् ।

ज्ञानकर्मत्वेन संप्रतिपन्ने दुःखादौ निरुक्तकर्मत्वमव्याप्तमित्याह– ज्ञातैकसतीति ।। दुःखादीनामविद्यावृत्तितत्प्रतिबिम्बितसाक्षिचैतन्यविषयत्वेनोक्तरूपज्ञप्तिद्वयं प्रति कारकविशेषत्वा-भावादित्यर्थः । एतदुपपादनाय ज्ञातैकसतीत्युक्तम् । दुःखादीनां शुक्तिरूप्यादीनांच प्रातिभासिकत्वेन प्रतीतिसमयमात्रवृत्तित्वेन ज्ञातैकसत्त्वात्तत्र चावरणाभावेन आवरणाभिभवरूपातिशययोगित्वाभावेन कर्मत्वाभावापातात् । तथा दुःखादेर्ज्ञातैकसत्त्वेन ज्ञप्त्यपेक्षया पूर्वभावित्वाभावेन वृत्तिरूपज्ञप्ति-कारकत्वरूपं कर्मत्वमपि नास्ति । कारकत्वस्य जनकत्वगर्भत्वेन तस्य पूर्ववृत्तित्वघटितत्वात् । अतोऽव्याप्तिरित्यर्थः । उक्तयोः कर्मत्वलक्षणयोरतिव्याप्तिंचाह– ब्रह्मणोऽपीति ।। चरमवृत्तेर्ब्रह्मा-कारतया तां प्रति ब्रह्मणः कारकत्वात् चरमवृत्तेश्चित्प्रतिफलनाभावे वृत्तेर्मूलाज्ञाननिवर्तकत्वायोगात् तदन्यथानुपपत्त्या घटाकारवृत्तिवत् चित्प्रतिफलनयुक्तताया अवश्यं वाच्यत्वेन ब्रह्माकारवृत्ति-प्रतिफलितचैतन्यं प्रति ब्रह्मणोऽपि कर्मत्वात् । सकलसामर्थ्यविधुरस्य कारकत्वं नास्तीत्येतच्च निराकरिष्यत इति हृदयम् । तादृशचैतन्यजन्यावरणाभिभवरूपातिशययोगित्वात् ब्रह्मण्यतिव्याप्ति-रित्यर्थः । विषयत्वातिरिक्तं कर्मत्वं निरस्य ज्ञानजन्यव्यवहारयोग्यत्वरूपं विषयत्वमेव कर्मत्वं घटादावित्याह– किंत्विति ।। तज्ज्ञप्तिः घटज्ञप्तिः । इत्येव त्वया वाच्यमिति शेषः । तस्य ज्ञप्ति-रूपघटाधिष्ठानचैतन्यस्य । एवं घटचैतन्ययोर्ज्ञप्तिकर्मत्वेऽपि आंतरालिकमेव भेदमाह– इयांस्त्विति ।। एवं सति कर्मत्वविषयत्वयोरैक्येन ब्रह्मणोऽपि कर्मत्वावश्यम्भावात्स्ववृत्तिविरोधादिति भावः ।।

मोक्ष इति ।। तथाच मोक्षकाले साक्षिणो निर्विषयत्वं स्यादिति भावः । मोक्षकालेऽपि साक्षिणो मया पूर्वं सुखादिकमनुभूतमित्येवंरूपेणातीतविषयकत्वं भविष्यतीत्याशङ्क्य तदतीतं किं साक्षान्मोक्षे साक्षिणो विषयः । ज्ञानादिद्वारा वा । न तावद्द्वितीयः । उपनायकस्य वृत्तिज्ञानस्य मोक्षेऽ-भावादित्यभिप्रेत्य प्रथमपक्षं निराचष्टे त्वन्मतेचेति ।। वर्तमानस्यैवेति ।। योग्यस्यैव सुखादेरित्यर्थः । तथाचातीतसुखादेः न साक्षात्साक्षिविषयत्वमिति भावः । साक्षिणोऽतीतविषयत्वे दूषणान्तरमाह– वह्निरिति ।। वह्निरत्र पर्वते पूर्वमासीदित्यनुमितौ यथाऽतीतवह्न्युल्लेखो भवत्येवं मोक्षे सुषुप्तौच अतीतविषयोल्लेखरूपसंसाराख्योपप्लवः स्यात् । तथाच मोक्षसुषुप्त्योर्निष्प्रपञ्चता न स्यादित्यर्थः । तथाच ज्ञानत्वव्यापकसविषयत्वरहितत्वान्न ज्ञानमात्मेति तत्राज्ञानत्वहेतोर्व्यभिचारः सुस्थ इति भावः। आत्मरूपं ज्ञानं निर्विषयमिति द्वितीयपक्षं दूषयति – निर्विषयत्व इति ।।

आत्मा न ज्ञानं निर्विषयत्वात् घटवदित्यत्र निर्विषयत्वं नाम अवर्तमानविषयत्वं वा अत्यन्ता-सद्विषयकत्वं वा । आद्येऽतीतज्ञाने व्यभिचारः । द्वितीये तुच्छज्ञाने व्यभिचार इति ध्येयम् । ननु निर्विषयत्वे ज्ञानमेव न स्यादित्युक्तमयुक्तं निर्विषयत्वेऽपि कदाचित्सविषयत्वमात्रेण ज्ञानत्वमस्तु । तथाच मोक्षकालीनात्मरूपज्ञानस्य संसारावस्थायां सविषयकत्वाज्ज्ञानत्वमुपपन्नमित्यप्रयोजकता-माशङ्क्य निराकरोति – नचेति ।। सप्रतियोगिक इति ।। तथाचाभावादौ सप्रतियोगिकत्वादीनां स्वभावत्वमिव ब्रह्मरूपज्ञानेऽपि सविषयत्वं स्वभाव एवेत्यङ्गीकर्तव्ये कदाचित्सविषयत्वस्या-प्रयोजकत्वात्, मोक्षे चात्मरूपज्ञानस्य सविषयकत्वाभावाज्ज्ञानत्वं न स्यादेवेत्यर्थः । मोक्षे विषयानु-ल्लेखे ब्रह्मरूपज्ञानस्य ज्ञानस्वभावहान्यापत्त्या ज्ञानत्वाभावमुक्त्वा दोषान्तरमाह– परमेति ।। मोक्षे आत्मरूपज्ञानस्य निर्विषयत्वांगीकारे आनन्दस्य आत्मरूपज्ञानाविषयत्वप्राप्त्या आनन्दाप्रकाश एव स्यात् । तथाच मोक्षस्य परमपुरुषार्थत्वं न स्यादित्यर्थः । नचानन्दरूपत्वाद्युक्तं परमपुरुषार्थत्वमिति वाच्यम् । द्रविणवत्त्वेहि पारिवृढ्यं नतु द्रविणत्वेऽतस्तन्न्यायेनानन्दप्रकाशोऽवश्यं वाच्य इति भावः ।

निर्विषयत्वे ज्ञानमेव न स्याद्धटवदिति भगवत्पादीयवाक्ये निर्विषयत्वाज्ज्ञानमेव न स्यादित्यंश-मुपपाद्य घटवदित्यंशमुपपादयति – अर्थेति ।। ज्ञानस्वभावेति ।। ज्ञानस्वरूपलक्षणेत्यर्थः । ‘‘बुद्धिरर्थप्रकाशन’’मिति वचनादिति भावः । नन्वर्थप्रकाशात्मकत्वरूपज्ञानस्वभावाभावेऽपि ज्ञानत्वमस्तु नच घटादेरपि ज्ञानत्वापत्तिः अर्थाप्रकाशकं यज्जडं तद्व्यावृत्तत्वमेव ज्ञानत्वमित्यङ्गी-कृतत्वात् घटादेस्त्वर्थाप्रकाशात्मकजडव्यावृत्तेरभावादिति चेन्न । ज्ञानस्यार्थप्रकाशात्मकत्वाभावेऽर्था-प्रकाशकजडव्यावृत्तेरेव वक्तुमशक्यत्वादित्याह– अर्थाप्रकाशेति ।।

न्यायकल्पलता

अथ जडत्वहेतुमपि  प्रत्याचिख्यासुस्तत्पञ्चधा विकल्पयति । जडत्वमपीति । कल्पितदूष्य-दूषणपरिहारायोक्तं पराभिप्रेतमिति । आद्याभावे हेतुमाह । त्वन्मत इति । तथाच हेतोर्भागासिद्धि-रिति भावः । शुद्धात्मन इति । एवं च तत्र व्यभिचार इति भावः । साध्यात्यन्ताभाववति तत्र हेतोरेवागमनान्न व्यभिचार इति शंकते । शुद्धेऽपीति । आरोपितेन हेत्वभावेन व्यभिचारो दुरुद्धर इत्याह कल्पितेनेति । अन्यथा तप्तायःपिण्डादावारोपितेन वह्न्यभावेन वह्नेरपि धूमाव्यभिचारः स्यादित्यर्थः । कल्पितत्वेन ज्ञातृत्वं विशिष्य तदभावस्य हेतूकरणान्नासिद्धिः । अहमर्थे स्वसम-सत्ताकस्य ज्ञातृत्वस्य सत्वात् । शुद्धात्मनि त्वारोपितस्य ज्ञातृत्वस्य सत्वान्न व्यभिचारोऽपीति शङ्कते । कल्पितस्येति । गौरोऽहमिति । अहमर्थनिष्ठस्य ज्ञातृत्वस्य गौरदेहेऽध्यस्तत्वादित्यर्थः । धर्मिसमसत्ताकत्वेन ज्ञातृत्वं विशिष्य तदभावो हेतूक्रियते अतो देहादौ नासिद्धिरिति शङ्कते । धर्मिसमसत्त्वस्येति । तादृशेति । धर्मिणोऽन्तःकरणस्य व्यावहारिकत्वात् त्वन्मते तत्समसत्ताकस्य ज्ञातृत्वस्यान्तःकरणे सत्वादित्यर्थः । शुद्ध इति । त्वन्मते शुद्धात्मनि तात्विकस्य धर्मिसत्तासमान-सत्ताकस्य ज्ञातृत्वस्याभावात् तत्र व्यभिचार इत्यर्थः । वृत्तिज्ञान इति । तस्याप्यर्थप्रकाशत्वेन ज्ञानत्वाज्ज्ञाने च ज्ञानत्वस्यावश्यकत्वादित्यर्थः ।

नन्वज्ञानत्वं ज्ञानभिन्नत्वं, ज्ञानं च ज्ञप्तिः । भावल्युडन्तत्वात् । तद्भिन्नत्वं च हेतूकृतं वृत्तिरूपे ज्ञानेऽस्तीति नासिद्धिरिति शङ्कते । यदिचेति । साङ्ख्यरूपा वेदान्तिनः साङ्ख्यवेदान्तिनः । मनोवृत्तेर्ज्ञानभिन्नत्वमुपपाद्य तत्र ज्ञानशब्दप्रवादसमर्थनपरो विवरणग्रन्थः । अज्ञप्तित्वमपि वृत्तिरूपे ज्ञाने नास्तीत्यसिद्धिरेवेति विपक्षबाधकोपदर्शनेनाह । तर्हीति । अपरोक्षवृत्तौ चैतन्यप्रतिफलननियमात् तस्य च ज्ञप्तित्वादज्ञाननिवृत्यादिर्भविष्यतीत्यत उक्तं परोक्षेति । परोक्षवृत्तौ चैतन्यप्रतिफल-नादेस्त्वन्मतेऽप्यभावादज्ञाननियमवृत्यादेर्ज्ञप्तिकार्यस्य ज्ञ्यप्त्यन्यतोऽदर्शनात्परोक्षवृत्तेरपि ज्ञप्तित्वमवश्य-मभ्युपेयमतोऽसिद्धिरित्यर्थः । तासामिति । तदकारणात्कार्यं न दृष्टमिति ज्ञप्त्यकारणाद् ज्ञप्तिकार्यं कथं स्यादिति भावः । परोक्षवृत्तेर्ज्ञप्तित्वसाधकमुपदर्शयन्विपक्षे दण्डमपि दर्शयति । धर्माधर्मादिक-मिति । परोक्षरूपायां धर्मादिवृत्तौ ज्ञप्तित्वाभावे ज्ञप्तित्वमवगाहमानः साक्ष्यनुभवः प्रमा न स्यादिति शेषः । यदि च वृत्युपरक्तचैतन्यस्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैतन्यस्याज्ञानत्वं तर्हि वृत्तावसिद्धिपरिहारेऽपि चैतन्ये व्यभिचारो दुरुद्धरः ।

प्रकारान्तरेणात्मनि व्यभिचारमुपपादयिषुराह । किञ्चेति । पराभिप्रेते आत्मरूपे ज्ञाने व्यापका-भावेन ज्ञानत्वाभावस्यापाद्यमानत्वेन तत्राज्ञानत्वरूपहेतोः सत्वाद्व्यभिचार इत्यर्थः । आत्मरूपतया पराभिमते ज्ञाने ज्ञानत्वाभावमापादयितुं तद्व्यापकसविषयत्वाभावं समर्थयते । तथाहीति । ज्ञप्ति-रूपमात्मरूपं ज्ञानमित्यर्थः । स्ववृत्तिविरोधेनेति । क्रिया हि स्वविषये कर्मणि कर्तरि वा केनचित्सम्बन्धविशेषेणेतरव्यावृत्तेन वर्तते । तत्र सकर्मकक्रियातु कर्मणि । यथा च्छिदिक्रिया छेद्ये दार्वादौ समैवेति । कर्त्रसमवेताऽपि गमनक्रिया गम्ये ग्रामादौ केनापि सम्बन्धेन वर्तते एव । अकर्मकक्रियास्तु कर्तर्येव । यथा शयनादिक्रिया देवदत्ते । तत्र ब्रह्म स्वरूपज्ञानक्रियां प्रति विषयः स्यात्, तदा कर्तृकर्मोभयरूपं स्यात् । ततश्चात्मस्वरूपभूतं ज्ञानमात्मस्वरूपे वर्तते । तच्च विरुद्धम् । नहि छिदा छिदायां वर्तते । शयनं वा शयने । एवं स्ववृत्तिविरोधेनात्मस्वरूपज्ञप्तेः स्वविषयत्वं परैर्नांगीकृतमित्यर्थः ।

ननु ब्रह्मस्वरूपज्ञानं प्रति ब्रह्मणो विषयत्वेऽपि न ज्ञानं प्रति ब्रह्मणः कर्तृकर्मत्वान्यतरापत्तिः । कर्मत्वातिरिक्तस्य तज्जन्यव्यवहारयोग्यत्वरूपस्य विषयत्वस्य स्वरूपज्ञानं प्रति ब्रह्मणः सत्वात् । तथा च न स्ववृत्तिविरोध इति शंकते । नन्विति । उक्तमर्थं परः स्वाचार्यसम्मत्या दृढयति । तत्स्व-भावस्यापीति । तथाच ब्रह्मस्वरूपज्ञानस्य स्वकर्मत्वाभावेऽपि स्वजन्यव्यवहारयोग्यत्वरूपं स्वज्ञप्ति-विषयत्वमस्त्येव । एवं च ब्रह्मरूपं ज्ञानं स्वविषयमेवेति न ज्ञानत्वव्यापकसविषयत्वव्यावृत्तिर्ब्रह्मरूपे ज्ञान इति न ज्ञानत्वव्यावृत्तिरतो न तत्र व्यभिचार इति भावः । निष्क्रियब्रह्मस्वरूपज्ञाने स्वव्यवहारजनकत्वानुपपत्या स्वजन्यव्यवहारयोग्यत्वरूपं स्वविषयत्वमसम्भवीति सविषयत्वव्यावृत्या तद्व्याप्यज्ञानत्वव्यावृत्तेरज्ञानत्वापत्या दुरुद्धरस्तत्र व्यभिचार इति दूषणे सत्येव दूषणान्तरमाह । घटादावपीति । ब्रह्म ज्ञातमितिवद्घटो मया ज्ञात इत्यनुभवेन  ज्ञप्तिकर्मत्वतद्विषयत्वयोरेकत्वेनाव-गाहनाद्ब्रह्मणि ज्ञप्तिकर्मत्वमनभ्युपेत्य ज्ञप्तिविषयत्वांगीकारो विरुद्ध इत्यर्थः । तथा च ज्ञानं प्रति कर्मत्वविषयत्वयोरभेदात्कर्मत्वाभावे विषयत्वमपि न स्यादित्युक्तो व्यभिचारस्तदवस्थ इति भावः । कर्मत्वविषयत्वयोर्भेदमाशंक्य निराकरोति । नहीति । युक्तमित्यनेनान्वयः । घटाद्याकारवृत्तिं प्रति कर्त्रादिकारकपञ्चकभिन्नकारकत्वं वा, घटाद्याकारवृत्तिजन्यावरणाभिभवरूपातिशययोगित्वं वा, घटाद्याकारवृत्तिप्रतिफलितचैतन्यं प्रति कारकविशेषत्वं वा घटाद्याकारवृत्तिप्रतिबिम्बितचैतन्य-जन्यावरणाभिभवरूपातिशययोगित्वं घटादीनां कर्मत्वम् । विषयत्वं तज्जन्यव्यवहारयोग्यत्वरूपं निरुक्तकर्मत्वादन्यदेवेत्यर्थः ।

कुतो न युक्तमित्यत आह । ज्ञातैकसतीति । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने कर्मणि क्तः । कर्मत्वेन सम्प्रतिपन्ने अनुभूयमानैकसत्स्वरूपे घटादौ निरुक्तं कर्मत्वमव्याप्तमित्यर्थः । प्रत्यक्षयोग्यत्वे स्वाधिकरणकालवृत्तिप्रागभावप्रतियोगिप्रत्यक्षविषयभिन्नत्वं स्वज्ञप्तेः पूर्वमसत्वे सति स्वज्ञप्तिकाल एव विद्यमानत्वं वा ज्ञातैकसत्वम् । तथाच स्वज्ञप्त्यपेक्षया पूर्वभावित्वाभावात् सुखादेर्न ज्ञप्तिकारकत्वरूपं तत्कर्मत्वं अनुभूतैकसत्वात् स्वत एवावरणाभावे ज्ञप्तिजन्यावरणाभिभवरूपातिशययोगित्वलक्षणमपि कर्मत्वं तु सुखादेर्नास्तीत्यव्याप्तिरित्यर्थः। उक्तकर्मत्वलक्षणयोरतिव्याप्तिमप्याह । ब्रह्मणोऽपीति । घटाकारवृत्तिवत् चरमवृत्तेः ब्रह्माकारतया तां प्रति ब्रह्मणः कारकत्वात् तज्जन्यावरणाभिभव-रूपातिशययोगित्वाच्च । चरमवृत्तेर्घटाकारवृत्तिवत् चित्प्रतिफलनयुक्तत्वेन ब्रह्माकारवृत्तिप्रतिफलित-चैतन्यं प्रति ब्रह्मणोऽपि कारकत्वात् । तादृशचैतन्यजन्यावरणाभिभवरूपातिशययोगित्वाच्च ब्रह्मण्यतिव्याप्तिरित्यर्थः ।

निरुक्तविषयत्वातिरिक्तं कर्मत्वमव्याप्त्यतिव्याप्तिभ्यां निराकृत्य सुहृद्भावेन पृच्छन्तं प्रति कर्मत्वरूपमेव विषयत्वं घटादावङ्गीकार्यमित्याह । किन्त्विति । तज्ज्ञप्तिर्घटादिज्ञप्तिः । परमते इति शेषः । एवं घटचैतन्यर्योज्ञप्तिकर्मत्वाविशेषेऽप्यान्तरालिकं वैलक्षण्यमस्तीत्याह । इयांस्त्विति । तथा च चैतन्यस्य स्वकर्मत्वमनङ्गीकुर्वाणैः परैः स्वविषयत्वमपि नाङ्गीकार्यमेवेत्यर्थः । ब्रह्मस्वरूपं ज्ञानं परविषयमिति द्वितीयपक्षं निराकरोति । न द्वितीय इति । मोक्ष इति । तथाच मुक्तिदशायां साक्षिणो निर्विषयत्वं स्यादित्यर्थः । ननु मुक्तिकालेऽपि साक्षिणोऽतीतविषयत्वं भविष्यतीत्याशंक्य तत्किमतीतं वस्तु साक्षात्साक्षिणो विषयः ज्ञानोपरागेण वेति विकल्पं हृदि निधाय न द्वितीयोऽसम्भवादित्यभिप्रेत्य प्रथमपक्षं दूषयति । त्वन्मते चेति । वर्तमानस्येति । योग्यस्येति शेषः । अतीतसुखादेर्न साक्षात्साक्षिविषयत्वमिति भावः । साक्षिणोऽतीतार्थविषयत्वे दूषणान्तरमाह । वह्निरासीदिति । मोक्षे सुषुप्तौ च विद्यमाने साक्षिज्ञाने अतीतविषयोल्लेखरूपः संसारः स्यात् । तथा च मोक्षसुषुप्त्योः निष्प्रपञ्चता न स्यादतो ज्ञानत्वव्यापकसविषयत्वरहितत्वान्न ज्ञानमात्मेति तत्राज्ञानत्वहेतोर्व्यभिचार इत्यर्थः ।

ननु सविषयत्वं न ज्ञानत्वव्यापकं येन ब्रह्मरूपे ज्ञाने तद्व्यावृत्या ज्ञानत्वं व्यावर्तेत तत् किं नाम निर्विषयमप्यात्मरूपं ज्ञानमस्तीति । द्वितीयपक्षमनूद्य दूषयति । निर्विषयत्व इति । अयमभिसन्धिः । यदुक्तं सविषयत्वं न  ज्ञानत्वव्यापकमिति । तन्न । इदमहं जानामीति ज्ञानानुभवेन विषयाङ्कितस्यैव ज्ञानस्य सिद्धेः सविषयत्वस्य ज्ञानत्वव्यापकत्वावधारणात् आत्मस्वरूपज्ञानस्य निर्विषयत्वे ज्ञानत्वमेव न स्यादिति । यद्यपि परमते ज्ञानत्वव्यापकसविषयत्वाभावोपपादनेनैवाज्ञानत्वमात्मनः सिध्यति तथापि ज्ञानत्वव्यापकं सविषयत्वं न भवतीति वेदान्तिब्रुवः परो वैय्यात्याद्वदेत्तदा तं प्रति सविषयत्वस्य ज्ञानत्वव्यापकत्वोपपादनाय तृतीयपक्षोपन्यास इति हृदयम् ।

नन्वात्मा न ज्ञानं निर्विषयत्वाद्घटवदिति भवदभिप्रेते अनुमाने निर्विषयत्वं वर्तमानाविषयकत्वं उतात्यन्तासद्विषयत्वम् । आद्ये अतीतानागतज्ञानयोर्व्यभिचारः । द्वितीये तुच्छज्ञाने व्यभिचार इत्याशंकां निराचकीर्षुर्हेतुं निर्वक्ति । तद्धीति । विषयानुल्लेखित्वं विषयोल्लेखित्वाभावः । विषयोल्लेखित्वं नाम विषयांकितत्वम् । ज्ञानग्राहकेण साक्षिणा विषयावच्छिन्नस्यैव ज्ञानस्य ग्रहणात् । ज्ञानस्य विषयित्वस्वाभाव्यात् । तदंकितमेव हि तद्धितार्थो न त्वस्तित्वम् । येनोक्तदोषः प्रादुष्यात् ।

ननु विषयानुल्लेखित्वं तदभिलपनरूपव्यवहारजननयोग्यत्वं तेन मौनिज्ञाने न व्यभिचारः । तस्यापि तद्व्यवहारजननयोग्यत्वात् ।

न सोऽस्तिप्रत्ययो लोके यः शब्दानुगमादृते ।

अनुविद्धमिव ज्ञानं सर्वशब्देन गृह्यते ।।

इति वचनात् सामान्यं वात्र विवक्षितम् । तेन पश्वादिज्ञाने नानैकान्त्यमिति चेत् । न । सविषयत्वस्य ज्ञानस्वाभाव्यापातात् । प्रमाणतो वाच्यार्थज्ञानेन तद्वाचकशब्दस्मृतौ भूतायां तदनुविद्धस्यार्थस्य व्यवह्रियमाणत्वात् । अवच्छेदकापरिचये तद्योग्यतायाः परिचेतुमशक्यत्वाच्चेति । नन्वर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मुक्तिदशायामपि तदनपायान्निर्विषयत्वहेतोः स्वरूपासिद्धि-रित्याशङ्क्य निराकरोति । नचेति । सप्रतियोगिक इति । उक्तानुमाने हेतूकृतं निर्विषयत्वं सविषयत्वस्वभावशून्यत्वं तच्चात्मनि कदाचिद्विषयसम्बन्धोऽप्यस्तीति नास्मद्विवक्षितहेतोरसिद्धिः । त्वयाऽऽत्मरूपे ज्ञाने सविषयत्वस्वाभाव्यस्यानभ्युपगमादिति भावः । ननूक्तहेतुसाध्ययोर्व्यतिरेक-सहचारग्रहस्थलाभावान्न व्याप्तिनिश्चय इत्यतो व्यतिरेकसहचारग्रहस्थलं दर्शयितुमुक्तं घटादिज्ञाने इति । ननु तत्स्वरूपानन्तर्गतस्य विषयस्य कथं तत्स्वभावनिरूपकत्वमित्यत उक्तं सप्रतियोगिके अभावादौ सविषयके इच्छादाविति । एवं चाभावसादृश्यादौ यथा सप्रतियोगिकत्वं स्वाभाविकं यथाचेच्छादौ घटादिज्ञाने च सविषयकत्वं स्वाभाविकं तथा ब्रह्मस्वरूपज्ञानेऽपि सविषयत्वं स्वाभाविकमावश्यकम् । ससम्बन्धिकपदार्थस्वरूपानन्तर्गतस्यैव सम्बन्धिनस्तत्स्वभावनिरूपकत्व-दर्शनात् । तच्च परमते न सम्भवति । मुक्तावात्मरूपज्ञानस्य सविषयकत्वाभावात् । अन्यथा निर्विशेषत्वभंगापातादित्यर्थः ।

अत्राहुरद्वैतवादिनः । यदुक्तमभावे सप्रतियोगिकत्ववदिच्छाज्ञानादिष्वपि सविषयकत्वस्य स्वाभाविकत्वादिच्छायामिव ज्ञानेऽपि तस्य समानसत्ताकत्वमिति । तदयुक्तम् । ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः । सच न तात्विकः । किन्त्वाध्यासिकः । तात्विकसम्बन्धस्य निरूप-यितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । न शुक्तौ रूप्यं स्वाभाविकम् । एवं च ज्ञानो-पाधिकस्यैव सविषयत्वस्येच्छादिष्वभ्युपगमान्नतरां तस्य स्वाभाविकत्वम् । नचैवं ज्ञानवद्विषयसम्बन्धं विनाऽपि कदाचिदिच्छायाः सत्वापत्तिरिति वाच्यम् । सविषयत्वप्रयोजकोपाध्यपेक्षया अधिक-सत्ताकत्वस्य तत्र प्रयोजकत्वात् । इच्छायाश्च तत्समानसत्ताकत्वात् । एवं च सविषयत्वस्वभाववत्वं न ज्ञानत्वव्यापकमतस्तन्निवृत्याऽऽत्मनि ज्ञानत्वनिवृत्तिर्नेति नाज्ञानत्वस्य हेतोरात्मनि व्यभिचार इति ।

अत्रोच्यते । यदि ज्ञानस्य विषयेणाध्यासिक एव सम्बन्धो न तात्विकस्तर्हि चरमवृत्तावात्मा विषयो न स्यात् । न च वृत्तिप्रतिबिम्बितचैतन्यरूपस्य ज्ञानस्य विषयेणाध्यासिक एव सम्बन्धो नतु वृत्तेरिति वाच्यम् । चरमवृत्तावपि शुद्धात्मगोचराज्ञाननिवृत्यर्थं चित्प्रतिफलनस्यावश्यकत्वात् । वृत्ति-मात्रस्य तत्राज्ञाननिवर्तकत्वे घटादावपि तथात्वापातेन तत्रापि चित्प्रतिफलनाभावापत्या घटादेर्वृत्ति-व्याप्यत्वमेव स्यान्न फलव्याप्यत्वम्  । नचैवमात्मनोऽपि फलव्याप्यत्वापत्तौ मिथ्यात्वं प्रसज्येेतेति वाच्यम् । त्यज तर्हि मिथ्यात्वे फलव्याप्यत्वस्य हेतुत्वम् । किञ्चैवं घटाद्याकारवृत्तिप्रतिबिम्बितस्य घटादिविषयत्वं न स्यात् । स्वाकारवृत्तिप्रतिफलितचैतन्ये घटादेरनध्यासात् । परोक्षवृत्तेरतीन्द्रियार्थ-विषयत्वं च न स्यात् । तत्रातीन्द्रियस्याध्यासाभावात् । तस्मान्न ज्ञानस्य विषयेणाध्यासरूपः सम्बन्ध इति स्वसमानसत्ताकत्वात्स्वाभाविकमेव ज्ञाने सविषयत्वम् । एवमिच्छायामपि स्वाभाविकं सविषयत्वम् । घटं जानामीतिवद्घटमिच्छामीति अन्योपाधिं विना सविषयत्वानुभावात् । कामस्तदग्रे समवर्तताधीत्यजन्यकामस्यापि श्रवणात् । तस्मात्साधूक्तं ‘‘ज्ञाने च सविषयकत्वादेः स्वभावत्व-दर्शनात्’’ इति ।

मोक्षे विषयानंकितत्वे ब्रह्मरूपज्ञानस्य ज्ञानस्वभावहान्यापत्या ज्ञानत्वाभावमुक्त्वा दोषान्तरमाह । परमपुरुषार्थ इति । त्वया मोक्षावस्थायामात्मनो निर्विषयत्वांगीकारादानन्दाप्रकाशे तदपुमर्थत्वं स्यादित्यर्थः । नच तदाप्यानन्द एव प्रकाशो नत्वानन्दस्य प्रकाश इति देश्यम् । अप्रकाशमान-सुखरूपतायाः संसारदशायामपि सत्वेनापुरुषार्थतयाऽनुभूयमानसुखरूपताया एव परमपुरुषार्थत्वात् । प्रकाशमानानन्दरूपता हि परमपुरुषार्थः । आनन्दप्रकाशलक्षणपुरुषार्थतायाः लौकिकालौकिक-पुरुषार्थसाधारणत्वात् । एतदभिसन्धायोक्तं परमपुरुषार्थे मोक्ष इति ।

नन्वर्थोपलक्षितप्रकाशत्वं तदाऽप्यस्त्येवेति न ज्ञानत्वहानिरित्यत आह -अर्थप्रकाशत्वेति । मोक्षदशायां ज्ञानोपलक्षणत्वं नानन्दरूपार्थस्य । यावद्वस्तुभावित्वात्तद्रूपत्वाच्च । अन्यस्य तदुपलक्षण-स्याप्यर्थस्य यदि मोक्षे प्रकाशोऽस्ति तर्हि तदुल्लेखरूपोपप्लवापत्तिः । यदि न प्रकाशस्तदाऽर्थ-प्रकाशत्वरूपज्ञानस्वभावाभावाद्घटादिवत् ज्ञानत्वं न स्यादित्यर्थः । ननु नार्थप्रकाशात्मकत्वं ज्ञान-स्वभावः किन्तु जडव्यावृत्तिरेव । साचास्ति मोक्षेऽप्यात्मनि । नतु घटादावित्यत आह । अर्थाप्रकाशात्मकेति । नच वृत्तिज्ञाने अव्याप्तिः । परमते मनोवृत्तेरज्ञप्तित्वात् । तत्वविन्मते तु अज्ञातृत्वं जडत्वमित्यदोषः । वृत्यजन्यजडस्य लिलक्षयिषतत्वाद्वा । अर्थाप्रकाशात्मकं यज्जडं तस्माद्व्यावृत्तिरपि ज्ञानस्यार्थप्रकाशात्मकत्वरूपजडवैधर्म्यादैवेत्यर्थः । विमतः आत्मा न प्रकाशः प्रकाश्यशून्यत्वादन्धकारवदित्यनुमानं प्रयोक्तव्यम् ।

न्यायामृतसौगन्ध्यम्

नन्वस्तु जडत्वं हेतुः । तच्च ज्ञानभिन्नत्वम् । न चात्मनि व्यभिचारः । अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायां तदनपायादिति चेन्न । मोक्षान्वयिशुद्धस्वरूपस्य कदाप्यर्थवैशिष्ट्याभावेनार्थोप-लक्षितत्वासम्भवात् ।

किञ्चाभावे सप्रतियोगिकत्ववद् ज्ञानेऽपि सविषयकत्वं स्वाभाविकं ज्ञानसमसत्ताकं च  वृत्यात्मके ज्ञाने तथैव दृष्टम् । एतेन ज्ञानस्य सविषयकत्वं विषयसम्बन्धः । स च न तात्त्विकः  किन्त्वाध्यासिकः । तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् । अतो न तस्य स्वाभाविकत्वमिति निरस्तम् । जगन्मिथ्यात्वसिद्धेः प्रागाध्यासिकसम्बन्धासिद्ध्या हेतोस्साध्यसमत्वात् ।

किञ्च त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकारात् आनन्दाप्रकाशे तदपुमर्थत्वं  स्यात् । एतेन ‘आनन्दस्य प्रकाशः’ इत्युक्ते आनन्दसम्बन्धिप्रकाशभावो मोक्षे ममेष्टः । पुमर्थत्वमपि पूर्णानन्दावरणविरोधिवृत्तिसम्भव इति निरस्तम् । वृत्तिविशिष्टरूपस्य मिथ्यात्वेन परमपुमर्थत्वाभावेन तदुद्देशेन श्रवणादिप्रवृत्त्यसम्भवात् । न च तदाऽनन्द एव प्रकाशः न त्वानन्दस्य प्रकाश इति वाच्यम् । प्रकाशस्य पुमर्थत्वे दुःखप्रकाशोऽपि हि पुमर्थस्स्यात् ।

न्यायामृतमाधुरी

कल्पितम् विपर्यस्तम् । कल्पितेनेत्यादि । वह्निना धूमसाधनेऽपि निर्धूमे अयोगोलकादौ विपर्यस्तस्य वह्न्यभावस्य सत्वादनैकान्त्यं न स्यादित्यर्थः । देहे प्रातिभासिकस्य ज्ञातृत्वस्य सत्वेऽपि व्यावहारिकस्याभावेन धर्मिसत्तासमसत्ताकस्य ज्ञातृत्वस्यभावोऽस्तीति शङ्कते धर्मीत्यादि । भागासिद्धेः अन्योन्याभावस्य नासिद्धिरिति प्रतियोगितावच्छेदकेन सह विरोधादिति भावः । करणे-त्यादि । ल्युटो भाव इव करणाधिकरणयोश्चेति करणेऽप्यनुशिष्टत्वादिति भावः । अनुभवः ज्ञप्तिगोचरप्रमारूपानुव्यवसायः । स्ववृत्तिविरोधेन स्वस्मिन् क्रियात्वकर्मत्वयोः वृत्तेः सहावस्थानस्य विरोधेन दौर्घट्येन । आत्मरूपज्ञानस्य स्वविषयतायां एकत्रैव क्रियात्वकर्मत्वसमावेशापत्या दुरुपगमत्वादिति भावः । ग्रामं गच्छति त्यजतीत्यादौ ग्रामादेः क्रियाजन्यसंयोगविभागरूप-फलाश्रयतया मुख्यकर्मत्वस्येवात्मनि तादृशफलाश्रयताविरहेण मुख्यकर्मत्वायोगेऽपि स्वगोचर-व्यवहारजनकतावच्छेदकधर्मावच्छिन्नत्वरूपतद्योग्यत्वात्मकस्वविषयत्वरूपगौणकर्मत्वोपगमे न क्षति-रित्याशङ्कते– नन्वित्यादि ।

घटं जानातीत्यादावपि धातूपात्तक्रियाजन्यफलाश्रयतायाः घटादौ प्रत्याख्यास्यमानतया स्वविषयकवस्त्वभिधायकधातूपात्तक्रियानिरूपितविषयताया एव तादृशधातुसमभिव्याहारस्थले कर्मतारूपतया तद्दिशैवात्मन्यपि सा सूपपादेत्याह– घटादावित्यादिकज्ञप्तिकर्मेत्यन्तेन । वृत्तिश्चैतन्यं वा ज्ञप्तिरिति मतद्वयीमभिप्रेत्य तथानिर्देशः । तत्कारकविशेषत्वम् जानात्यर्थनिरूपितकर्तृकरणाधि-करणभिन्नकारकत्वम् । तज्जन्येत्यादि वृत्तिरावरणाभिभवार्थेति मतमनुरुध्य । ज्ञातैकसति स्वविषयक-ज्ञानाधिकरणत्वव्याप्यस्वाधिकरणताकक्षणवर्तिनि । सुखादेर्ज्ञप्तिपूर्वकालवृत्तिताविरहेण तद्धेतुत्वरूप-कारकत्वस्य स्वत एव भग्नावरणकतया तादृशाभिभवस्य चाभावं ध्वनयितुमिदम् । ब्रह्मणोऽपीति । घटादेः स्वाकारवृत्या तत्प्रतिफलितचैतन्येन वा निरूपितकारकताविशेषिततया तज्जन्यतदभिभवाख्य-फलभागितया च तत्तत्कर्मतेव ब्रह्मण्यपि तुल्यदिशा स्वाकारचरमवृत्तिं तत्प्रतिबिम्बितचैतन्यं प्रति वा तथा कर्मतायाः सूपपादिततयाऽतिप्रसङ्ग इति भावः । मोक्ष इति । विषयिताप्रत्यासत्या विषया-विशेषितत्वेन ज्ञानत्वाभावसाधनादिति भावः । मोक्षदशायां साक्षिज्ञानस्यातीतविषयविशेषितत्वोपगमेन हेतोरसिद्धिशङ्कापरिजिहीर्षया तादृशज्ञानस्यातीतवृत्तिमुख्यविशेष्यतानिरूपकत्वमुपेयते । अतीतमहं जानामीति नैय्यायिकाभिमतानुव्यवसायस्थानाभिषिक्तसाक्षिनिरूपितात्मनिष्ठविशेष्यतानिरूपित-स्वामितासंसर्गावच्छिन्नज्ञाननिष्ठप्रकारत्वाभिन्नविषयितासम्बन्धावच्छिन्नविशेषितानिरूपितातीत-प्रकारतानिरूपकता वेति कल्पद्वयीमभिप्रेत्याद्यमपाकुरुते– त्वन्मत इति । साक्षात्साक्षिविषयत्वात् साक्षिनिरूपितमुख्यविशेष्यताशालित्वात् । एवकारेणातीतानागते व्यवच्छिद्येते । उपप्लवः संसारः ।

हेतूकृतनिर्विषयत्वस्य अविद्यमानविषयकत्वरूपस्यात्यन्तासद्विषयकत्वरूपस्य चानभिप्रेततया अतीताद्यर्थ विषयकसाम्प्रतिकज्ञानेऽलीकज्ञाने च तत्साधारण्येऽपि किञ्चिद्वृत्तिविषयतानिरूपक-भिन्नत्वरूपाभिप्रेतस्य तत्साधारण्यविरहेण क्षत्यभावादित्याह– तद्धीति । ननु सविषयकत्वस्य विषयितयाविषयविशेषितत्वरूपस्य कालिकाव्याप्यवृत्तितया तदवच्छिन्नप्रतियोगिताकभेदस्य च व्याप्यवृत्तितया साक्षिज्ञानस्य मोक्षदशायामर्थाविशेषितत्वेऽपि संसृतिदशायां तद्विशेषिततया अथापि लक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायेन तदवच्छिन्नप्रतियोगिताकभेदस्य तत्राप्य-योगेनासिद्धिरित्याशङ्कायां प्रतियोगितानिरूपकत्वकारणतानिरूपकत्वादेरिव तादृशधर्मस्य नैसर्गिकतया कालिकाव्याप्यवृत्तिताविरहेण मोक्षदशायां साक्षिज्ञाने तद्धर्मानुपगतौ कदाप्यनुपगतिप्रसङ्गेन तदवच्छिन्नप्रतियोगिताकभेदस्य तत्राव्याहततयाऽसिद्ध्यनवतारादित्याह– न चेत्यादिकायोगा-च्चेत्यन्तेन ।

अत्राद्वैतसिद्धिकारः– ज्ञानस्य हि सविषयकत्वं विषयसम्बन्धः । स च न तात्विकः किन्त्वा-ध्यासिकः अतो न तस्य स्वाभाविकत्वम् । वक्ष्यमाणरीत्या तात्विकसम्बन्धस्य निरूपयितुमशक्य-त्वात् । नहि शुक्तौ रूप्यं स्वाभाविकम् । एवं च ज्ञानोपाधिकस्यैव सविषयकत्वस्येच्छादिष्वभ्युप-गमान्न नितरां तस्य स्वाभाविकत्वम् । न चैवं ज्ञानवद्विषयसम्बन्धं विनापि कदाचिदिच्छायाः सत्वापत्तिरिति वाच्यम् । सविषयत्वप्रयोजकोपाध्यपेक्षयाऽधिकसत्ताकत्वस्य तत्र प्रयोजनत्वात् । इच्छायाश्च तत्समानसत्ताकत्वादिति प्रतिपपाद तद्रभसात् । विषयविषयिसम्बन्धाध्यासिकतायाः जगदलीकतासिध्यधीनतया अद्यापि गहननिविष्टत्वात् वक्ष्यमाणदिशा सम्बन्धाध्यासिकतायाः निरूपयितुमशक्यत्वात् । परमेति । मोक्षदशायामात्मनो निर्विषयत्वोपगत्या तदनवगाहितायाः पुरुषैरर्थ्यमानत्वाभावेन प्रवृत्युद्देश्यत्वरूपफलत्वानुपपत्तिरित्यर्थः । यदत्रानन्द एव प्रकाशो नत्वानन्दस्य प्रकाश इति निबन्धनं तदपि प्रकाशस्यानन्दकर्मकत्वाभावेन प्रवृत्युद्देश्यत्वरूपफलत्वा-भावेनैव निरस्तम् । अर्थेति । ब्रह्मरूपज्ञानेन दर्शितोपप्लवापत्योपलक्षणत्वेनोपगतमपि यदि नावगाढं तदाऽर्थावगाहिवत्वरूपस्वभावापाये ज्ञानत्वं न स्यादित्यर्थः । अर्थावगाहित्वरूपप्रवर्तकतावच्छेद-कानुपगमे तदनवगाहिजडव्यावृत्ययोगादित्याह– अर्थेति ।

Load More