नन्वेतदयुक्तम् । द्विविधं हि वेदान्तवाक्यम् ..

श्रीवेदव्यासाय नमः

श्रीकूर्मनरहरिआचार्यविरचिता

न्यायकल्पलता

पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्

द्वितीयः परिच्छेदः

१.     अखण्डार्थत्वलक्षणभङ्गः

न्यायामृतम्

नन्वेतदयुक्तम् । द्विविधं हि वेदान्तवाक्यम् । एकं पदार्थनिष्ठम् । यथा–‘सत्यं ज्ञानम्’ इत्यादि ‘तत्’पदार्थपरम् । ‘योऽयं विज्ञानमयः’ इत्यादि ‘त्वम्’ पदार्थपरं च । अपरम् ऐक्यरूपवाक्यार्थनिष्ठं, यथा ‘तत्त्वमसि’ इत्यादि । द्वयमप्यखण्डार्थनिष्ठम् । यद्यप्यखण्डार्थनिष्ठत्वं न तावन्निर्भेदार्थनिष्ठत्वं भेदाभाव विशिष्टत्वरूपस्य तदुपलक्षितत्व-रूपस्य वा निर्भेदत्वस्य शब्दबोध्यत्वेऽभिप्रेते निर्घटं भूतलमित्यादिवत् सखण्डार्थत्वापत्तेः । स्वरूपसत्वमात्रेऽभिप्रेते च सखण्डार्थानां सगुणवाक्यानामपि वस्तुगत्या निर्भेद-ब्रह्मनिष्ठत्वेनाखण्डार्थत्वापातात् । प्रकृष्टप्रकाशादिवाक्येष्वव्याप्तेश्च । अत एव न निर्विशेषार्थनिष्ठत्वं तत् । नाप्यपर्यायशब्दानां प्रातिपदिकार्थ मात्रपर्यवसायित्वम् । पयःपावकरूपानेकप्रातिपदिकार्थमात्रपर्यवसायिनि शीतोष्णस्पर्शवन्तौ पयःपावका-वित्यादावतिव्याप्तेः । नाप्येकविशेष्यपरत्वम् । ‘नीलम् उत्पलम्’ इत्यादावतिव्याप्ते-रिष्टापत्तेश्च । तथाप्यपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वं वा तेषामेकप्रातिपदिकार्थ-मात्रपर्यवसायित्वं वाऽखण्डार्थत्वम् । उक्तं हि–

संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।

 उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता’ ।। इति ।

तत्र पदार्थनिष्ठस्य वाक्यस्याखण्डार्थत्वे ‘‘सत्यादिवाक्यम् अखण्डार्थनिष्ठं ब्रह्म-प्रातिपदिकार्थमात्रनिष्ठं वा, लक्षणवाक्यत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा, ‘प्रकृष्टप्रकाशश्चन्द्रः’ इति वाक्यवत्’’ इत्यनुमानं मानम् । न च द्वितीयहेतोरसिद्धिः । ‘ब्रह्मविदाप्नोति परम्’ इत्युक्तब्रह्मप्रातिपदिकार्थमात्रे बुभुत्सितेऽस्य प्रवृत्तेः । न च हेतुद्वयेऽपि दृष्टान्तः साध्यविकलः । ‘प्रकृष्टादिवाक्यं चन्द्रप्रातिपदिकार्थमात्रनिष्ठम्, तन्मात्रप्रश्नोत्तरत्वात्, सम्मतवत्’ इति तत्सिद्धेः । न हि ‘कश्चन्द्रः’ इति चन्द्रप्रातिपदिकार्थमात्रे पृष्टेऽन्यद्वक्तु-मुचितम् । ‘सास्नादिमान् गौः’ इत्याद्यपि लक्षणवाक्यं, पृष्टगवादिप्रातिपदिकार्थमात्र-परमिति न व्यभिचारः । ऐक्यपरस्य वाक्यस्याखण्डार्थत्वे तु ‘तत्त्वमसीत्यादिवाक्यम् अखण्डार्थनिष्ठम् आत्मस्वरूपमात्रनिष्ठं वा, अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधि-करणत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा, सोऽयं देवदत्त इति वाक्यवत् । न चान्त्यहेतोर-सिद्धिः, कोऽहमित्यात्मस्वरूपमात्रे बुभुत्सितेऽस्य प्रवृत्तेः । न च हेतुद्वयेऽपि दृष्टान्तः साध्यविकलः, कोऽयमिति देवदत्तस्वरूपमात्रे पृष्टेऽस्य प्रवृत्तेः । विपक्षे प्रश्नोत्तरयो-र्वैय्यधिकरण्यप्रसङ्गो बाधक इति ।

अत्र ब्रूमः– आद्यलक्षणे संसर्गशब्देन संसर्गमात्रोक्तौ ‘अप्राप्तयोः प्राप्तिः संयोगः’ इत्यादिसंसर्गलक्षणवाक्येऽव्याप्तिः । पदस्मारितपदार्थसंसर्गोक्तौ तु ‘विषं भुंक्ष्व’ इत्यादावतिव्याप्तिः । तस्य पदस्मारितपदार्थसंसर्गाप्रमापकत्वात् । न चेदमपि ‘द्विषदन्नं न भोक्तव्यम्’ इति शास्त्रमूलकत्वाच्छास्त्रीयपदस्मारितपदार्थसंसर्गप्रमापकम् । अस्य युक्तिमूलत्वेनाशास्त्रमूलत्वात् । प्रतिपिपादयिषितपदार्थसंसर्गोक्तौ च चन्द्रब्रह्मादिशब्दार्थानां प्रश्नहेतुसंशय धर्मित्वेन प्रागेव सामान्यतो ज्ञाततया स्वरूपेणाप्रतिपिपादयिषितत्वात् । संसर्ग(विशेष)प्रतियोगित्वेन तु प्रतिपिपादयिषितत्वे विवक्षिते संसर्गाप्रमापकत्वा-सम्भवात् । किञ्च शीतोष्णस्पर्शवन्तौ पयःपावकावित्यादौ त्वद्रीत्या संसर्गाप्रतिपाद-केऽनेकप्रातिपदिकार्थमात्रपरेऽतिव्याप्तिः । न हि धर्मधर्मिभावासहम् अखण्डार्थत्वं धर्मिभेदसहम् । किञ्च यौगिकार्थौपगवादिप्रश्नोत्तरे ‘श्यामो दीर्घो लोहिताक्ष औपगवः’ इत्यादौ अनेकार्थात्मकवनसेनादिप्रश्नोत्तरे ‘एकदेशस्था वृक्षा वनम्’ इत्यादौ च सखण्डार्थे लक्षणवाक्येऽतिव्याप्तिः । प्रकृष्टादिवाक्येऽपि संसृष्टार्थत्वस्य वक्ष्यमाणत्वेनासम्भवश्च । अत एवान्त्यं लक्षणमप्ययुक्तम् । असम्भवात्, सखण्डार्थलक्षणवाक्येऽतिव्याप्तेश्च । किञ्च प्रवृत्तिनिमित्ताभेदश्चेन्नापर्यायत्वम् । तद्भेदस्त्विह नास्ति । अनन्तत्वादीनां शुद्धादन्यत्रासम्भवाद् अनन्तादिशब्दानां लक्षणयाऽखण्डार्थत्वे च शुद्धे तदसिद्धेः ।।

।। इति अखण्डार्थत्वलक्षणभङ्गः  ।। १ ।।

श्रीमधुसूदनसरस्वतीविरचिता

अद्वैतसिद्धि:

तत्राखण्डार्थत्वलक्षणोपपत्तिः–

हेयं निरूप्य बन्धाख्यं तन्निवृत्तेर्निबन्धनम् । यज्ज्ञानं तदखण्डार्थमादेयमधुनोच्यते’ ।।

तच्चाखण्डार्थं द्विविधम्– एकं पदार्थनिष्ठम्, अपरं वाक्यार्थनिष्ठम् । एकैकं च पुनर्वैदिकलौकिकभेदेन द्विविधम् । पदार्थनिष्ठं वैदिकमपि द्विविधम्– ‘तत्’ पदार्थनिष्ठं, ‘त्वम्’ पदार्थनिष्ठं च । तत्र ‘सत्यं ज्ञानमनन्तम्’ इत्यादि ‘तत्’पदार्थनिष्ठम् । ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इत्यादि ‘त्वम्’ पदार्थनिष्ठम् । ‘प्रकृष्टप्रकाशः’ इत्यादि तु लौकिकं पदार्थनिष्ठम् । वाक्यार्थनिष्ठमपि वैदिकं ‘तत्त्वमस्यादिवाक्यम्, ‘सोऽयं देवदत्त’इत्यादि तु लौकिकम् ।

अत्राहुः– किम् अखण्डार्थत्वम् ? न तावन्निर्भेदार्थत्वम् । यतो निर्भेदार्थत्वस्य शब्दबोध्यत्वे विशेषणतायामुपलक्षणतायां च ‘निर्घटं भूतलम्’ इतिवत्सखण्डार्थतैव स्यात् । शब्दाबोध्यत्वे तु वस्तुगत्या यन्निर्भेदं ब्रह्म तद्बोधकसगुणवाक्यानामप्यखण्डार्थत्वापत्तिः । अथ यन्निर्भेदं वस्तुगत्या तन्मात्रपरत्वम्, , प्रकृष्टप्रकाशादिवाक्येऽव्याप्तेः, तेषां धर्मिसमसत्ताकभेदवद्वस्तुपरत्वेन वस्तुगत्या निर्भेदार्थे निष्ठत्वाभावात् । अत एव निर्विशेषार्थत्वमपि न । नाप्यपर्यायशब्दानां प्रातिपदिकार्थ-मात्रपर्यवसायित्वम् । ‘शीतोष्णस्पर्शवन्तौ पयःपावकौ’ इत्यादावनेकप्रातिपदिकार्थपरेऽतिव्याप्तेः । न च सम्भूयार्थपरत्वमत्र नास्त्येव, प्रत्येकं त्वेकैकार्थपरत्वं लक्षणवाक्यत्वादिति नातिव्याप्तिरिति वाच्यम्, तथापि ब्रह्मण्यभावाद्, अभिधया लक्षणया वा वेदान्तवाक्यानां निस्सम्बन्धे ब्रह्मणि पर्यवसानानुपपत्तेः । अत एव नैकविशेष्यपरत्वमपि, तद्विशिष्टैकविशेष्यबोधकनीलोत्पलादिवाक्ये अतिव्याप्तेरिष्टापत्तेश्च । यत्तु– अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वं वा तेषामेकप्रातिपदिकार्थ-मात्रपर्यवसायित्वं वा अखण्डार्थत्वम् । तदुक्तं पञ्चपादिकाकृद्भिः– ‘पदानां परस्परानवच्छिन्नार्थानाम् अनन्याकाङ्क्षाणाम् अव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः’ इति । उक्तञ्च तत्त्वप्रदीपिकाकृद्भिः–

संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।

 उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता’ ।। इति ।

तन्न, आद्ये ‘अप्राप्तयोः प्राप्तिः संयोगः’ इत्यादौ संयोगलक्षणवाक्येऽव्याप्तेः । अथ पदस्मारितपदार्थसंसर्गाप्रमापकत्वं विवक्षितं, तत्रापि ‘द्विषदन्नं न भोक्तव्यम्’ इत्येतत्परे ‘विषं भुङ्ष्व’ इति वाक्येऽतिव्याप्तिः । न च– ‘द्विषदन्नं न भोक्तव्यम्’ इति शास्त्रमूलत्वेन शास्त्रीयपदस्मारित-पदार्थसंसर्गप्रमापकत्वादत्र नातिव्याप्तिरिति वाच्यम् । युक्तिमूलत्वेनास्य शास्त्रमूलत्वासिद्धेः । अथ प्रतिपिपादयिषितपदार्थ संसर्गाप्रमापकत्वमत्र विवक्षितम्, तत्राप्यसम्भवः, चन्द्रब्रह्मादिशब्दार्थानां स्वरूपतो ज्ञाततयाऽप्रतिपिपादयिषितत्वेन संसर्गविशेषप्रतियोगित्वेनैव प्रतिपिपादयिषितत्वात् । अत एव न द्वितीयलक्षणमपि, तथा च लक्षणासम्भवात् प्रमाणमप्यसम्भवि, अलक्षिते प्रमाणस्योपन्य-सितुमशक्यत्वाद् इति ।

अत्रोच्यते– पदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम् । तथा चापर्यायशब्दानां पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वम् आद्यलक्षणं पर्यवसितम् । तथा च न संयोगलक्षणेऽ-व्याप्तिः । तस्य पदवृत्तिस्मारितत्वात् । नापि द्विषदन्नभोजननिषेधकेऽतिव्याप्तिः । तत्रानिष्ट-साधनत्वसंसर्गस्य पदवृत्त्यस्मारितस्य प्रतिपाद्यत्वात् । ‘शीतोष्णस्पर्शवन्तौ पयःपावकौ’ इत्यत्र त्वखण्डार्थत्वमिष्टमेव । न च धर्मधर्मिभावासहमखण्डार्थत्वं कथं धर्मिभेदं सहतामिति वाच्यम् । एकत्रासहिष्णुतायाः सर्वत्रासहिष्णुतायामहेतुत्वात् । शीतस्पर्शवत् पयः, उष्णस्पर्शवान् पावक इति वाक्यार्थभेदाच्च । असम्भवस्तु तन्मात्रप्रश्नोत्तरत्वादिति हेत्वसिद्ध्युद्धारे निरसिष्यते ।

अत्र च ‘घटः कलशः’ इत्यादौ संसर्गाप्रमापके एकार्थपरेऽतिव्याप्तिवारणाय अपर्यायशब्दा-नामिति । तत्रापि बहुवचनेन सम्भूयैकार्थप्रतिपादकत्वस्य लाभान्न  ‘धवखदिरपलाशाः’ इत्यादावति-व्याप्तिः । पदज्ञाप्येत्युक्ते अर्थापत्त्या पदज्ञाप्यमनिष्टसाधनत्वमादाय ‘विषं भुङ्क्ष्व’ इति वाक्येऽतिव्याप्तिः स्यात्तद्वारणाय वृत्तीति । तथाप्यन्विताभिधानवादिमते शक्त्या, अभिहितान्वयवादिमते च लक्षणया वाक्यार्थभूतसंसर्गस्य वृत्तिज्ञाप्यत्वात् सर्वत्र प्रमाणवाक्येऽतिव्याप्तिः स्यात्तद्वारणाय उक्तं स्मारितेति । आद्यपक्षे कुब्जशक्त्यङ्गीकाराद्, द्वितीयपक्षे चाज्ञाताया एव पदार्थनिष्ठाया लक्षणाया वृत्तित्वाङ्गीकारान्न संसर्गस्य पदस्मारितत्वम्, किन्त्वनुभाव्यत्वमित्यतिव्याप्तिपरिहारः । एवं द्वितीयमपि लक्षणं सम्यगेव । तत्राप्येकत्वं प्रातिपदिकार्थस्यैकधर्मावच्छेदेन वृत्तिविषयत्वम्, न त्वेकमात्रव्यक्तित्वम् । अतो यौगिकार्थौपगवादि प्रश्नोत्तरे ‘श्यामो दीर्घः लोहिताक्ष औपगवः’ इत्यादौ अनेकार्थात्मके वनसेनादि-प्रश्नोत्तरे ‘एकदेशस्था वृक्षा वनम्’ इत्यादौ च नाव्याप्तिः । ‘शीतोष्णस्पर्शवन्तौ पयःपावकौ’ इति तु प्रत्येकमेकैकार्थपरत्वात् सङ्ग्राह्यमेव । तदुक्तं कल्पतरुकृद्भिः–

अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।

 एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे’ ।। इति 

ननु प्रवृत्तिनिमित्तभेदे अपर्यायत्वम् । स चानन्तादिपदेषु न सम्भवति । शुद्धब्रह्ममात्रनिष्ठत्वात् । अतो वेदान्तेषु लक्षणाऽव्याप्तिरिति चेन्न, प्रवृत्तिनिमित्तभेदं स्वीकृत्यैव लक्षणयाऽनन्तादिपदानां शुद्ध-ब्रह्मपरत्वस्य वक्ष्यमाणत्वात् । न च शुद्धे सम्बन्धाभावान्न लक्षणापीति वाच्यम् । अतात्विक-सम्बन्धेनैव लक्षणोपपत्तेः । भ्रमप्रतीतरजतत्वेन सम्बन्धेन शुक्तौ रजतपदलक्षणावत् । शुद्धस्यैव सर्वकल्पनास्पदत्वेन शुद्धे न कल्पितसम्बन्धानुपपत्तिः । यथा चानन्तादिपदानां लाक्षणिकत्वेऽपि ब्रह्मणि नान्तवत्त्वादिप्रसङ्गः तथा वक्ष्यते ।

श्रीव्यासरामाचार्यविरचिता

न्यायामृततरङ्गिणी

श्रीर्भूरितिव्यूह्य निदर्शयन्ती(न्तं) स्वात्मान्तरात्मानमपीन्दिरालयम् ।

अगूढगूढाङ्गवराः सुरास्तं मायामुरारिं नमयन्तु नम्याः ।। १ ।।

विहङ्गमानाञ्च भुजङ्गमानामिनौ श्रुतीशौ जहतो विरोधम् ।

यमेत्य कैमुत्यनया विरुद्धश्रुतिश्रितं स्वार्थतयाऽत्र सोऽर्थः  ।। २ ।।

विश्वनाथाख्यपितरं नारायणपदाग्रजम् ।

पित्राप्तविद्यं च गुरुं नौम्याचार्यकशालिनम् ।। ३ ।।

वेदान्तानाम् अखण्डार्थपरत्वान्न ते संसर्गस्य बोधकाः नतराङ्गुणानां नतमामनन्ता-नामित्याशङ्कते– नन्विति ।। एतदिति । प्रथमपरिच्छेदान्ते तस्मादित्यादिना यदुक्तं तदित्यर्थः ।। एकमिति ।। एकं पदार्थनिष्ठम्, अपरम् ऐक्यरूपवाक्यार्थनिष्ठम् इत्यन्वयः । पदार्थनिष्ठमपि द्विविधमित्याह– यथा सत्यमिति । जगत्कर्तृत्वादियुक्तस्य पुण्यपापादिविदूरस्य च ‘तत्’पदार्थस्य, अनेवंविध‘त्वं’पदार्थेनैक्यबोधनासम्भवपरिहाराय सत्यविज्ञानादिमात्र एवायं ‘तत्’पदार्थः । जगत्कर्तृत्वादिकं तु तस्य मायामयं मिथ्याभूतमित्येतदर्थप्रतिपादनपरम् । ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, ‘सोऽकामयत बहुस्यां, ‘तदात्मानं स्वयमकुरुत तस्मात्तत्सुकृतमुच्यत इति, यद्वै तत्सुकृतं रसो वै सः’ इत्यादिवाक्यैरेकवाक्यतापन्नं सत्यज्ञानादिवाक्यं ‘तत्’पदार्थं शोधयतीति कृत्वा ‘तत्’ पदार्थपरमित्युच्यते । तथा ‘त्वं’-पदार्थोऽपि ज्ञानादिमात्र एव । पुण्यपापादिकं तु तस्य मिथ्याभूतमित्येतदर्थप्रतिपादनपरं ‘स समानः सन्नुभौ लोकावनुसञ्चरति’ ‘अनन्वागतं पुण्येनानन्वागतं पापेन असङ्गो ह्ययं पुरुषः’ इत्यादि वाक्यैरेकवाक्यतापन्नं ‘योऽयं विज्ञानमयः पुरुषः’ इत्यादिवाक्यं ‘त्वं’पदार्थं शोधयतीति ‘त्वं’पदार्थपरमित्यर्थः ।

निर्भेदार्थनिष्ठत्वं किं भेदाभावप्रकारकधीजनकत्वं वा । वस्तुतो निर्भेदो योऽर्थः तद्बोधकत्वं वा । आद्ये दोषमाह– भेदाभावेति । स्वरूपेति । शुक्तिकामुद्दिश्य ‘इदं रजतं बहुमूल्यम्’ इत्यादिवाक्यस्य यथा रजतत्वाद्यपेतशुक्तिकापरत्वं तथा ‘एष सर्वेश्वर एष भूताधिपतिः’ इत्यादिवाक्यस्य वस्तुतो यदनेवंविधं ब्रह्म तत्परत्वमित्यर्थः । उभयत्र दोषमाह प्रकृष्टेति । तस्य भेदाभावप्रकारकज्ञानाजनकत्वात्तदर्थस्य चन्द्रादेर्भिन्नत्वाच्चेत्यर्थः । पयः पावकेति । अनेकप्रातिपदिकार्थपरत्वादस्यालक्ष्यत्वं, धर्मिभेदप्रतिपादकस्याखण्डार्थत्वायोगादित्यर्थः । तथापीति । घटः कलश इत्यादौ संसर्गाप्रतिपादके एकार्थपरेऽतिव्याप्तिवारणाय ‘अपर्याय’ इति । ‘अप्राप्तयोः प्राप्तिः संयोगः’ इत्यादि संयोगलक्षणेऽखण्डार्थकेऽव्याप्तिवारणाय । संसर्ग-पदस्य पदार्थसंसर्गपरतया पदार्थसंसर्गागोचरपदार्थस्मृतिहेतुपदसमुदायेऽतिव्याप्तिपरिहाराय ज्ञान-जनकत्वमित्यनुक्त्वा प्रमाजनकत्वमित्युक्तम् । तत्रापि न यथार्थत्वप्रवेशः । संसर्गागोचर-ज्ञानस्य यथार्थत्वनियमात् । निर्विकल्पकपक्षे इन्द्रिये तद्वारणाय ‘शब्दानाम्’ इति । यत्तु बहुवचनेन सम्भूयैकार्थप्रतिपादकत्वस्य लाभान्न धवखदिरपलाशा इत्यादावतिव्याप्तिरिति । तन्न । तत्र शक्त्या वा लक्षणया वोपस्थितसाहित्यसंसर्गस्यावश्यं प्रतीतेः । प्रकृतपदार्थप्रति-योगिकस्य पदार्थान्तर्भूतस्य संसर्गस्यानुभावके यौगिके पङ्कजादिपदेऽतिव्याप्तिवारणाय बहुवचनम् । एकेनापि पदेन प्रकृतिप्रत्ययार्थयोरन्विताभिधानमिति मते पर्यायपदेष्वतिव्याप्ति-वारणायापर्यायशब्दानामिति ।

तेषामिति । अखण्डार्थपदानामपि विशिष्टार्थकत्वात्तेषां प्रातिपदिकार्थमात्रवाचकत्वम-सम्भवीत्यतस्तत्पर्यवसायित्वमित्युक्तम् । सम्मतवदिति । को घट इति प्रश्नोत्तरभूतम् ‘अयं घटः’ इत्यादिवाक्यं सम्मतशब्दार्थः । ननु तत्रापि न मम साध्यसम्मतिरित्यत आह– न हीति । प्रश्नोत्तरयोर्वैय्यधिकरण्यप्रसङ्गेन त्वयापि तत्रावश्यं साध्यस्याङ्गीकर्तव्यत्वादित्यर्थः । अकार्यकारणेति । मृद्धटः, गुणगुणिनोरभेदपक्षे नीलो घटः, देवदत्तस्य घटः, इत्यादाव-व्यभिचाराय क्रमेण विशेषणानि ।। संसर्गेति ।। संयोगलक्षणेत्यर्थः ।। संसर्गप्रतियोगि-त्वेनेति ।। संसर्गस्य तात्पर्यविषयत्वेन तदप्रतिपादने वाक्यप्रामाण्यायोगादित्यर्थः । ननु पदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम् । तथा चापर्यायशब्दानां पदवृत्तिस्मारिताति-रिक्तागोचरप्रमाजनकत्वं लक्षणम् । तथा च न संयोगलक्षणेऽव्याप्तिः । तत्र संयोगस्य पदवृत्तिस्मारितत्वात् । संयोगसंसर्गस्य च तत्रापि मम मतेऽप्रतिपादनात् । अत्र पदज्ञाप्ये-त्युक्तेऽर्थापत्त्या पदज्ञाप्यमनिष्टसाधनत्वमादाय विषं भुंक्ष्वेति वाक्येऽतिव्याप्तिः स्यात्तद्वारणाय ‘वृत्तीति’ । तथाप्यन्विताभिधानवादिमते शक्त्या, अभिहितान्वयवादिमते च लक्षणया वाक्यार्थभूतसंसर्गस्य वृत्तिज्ञाप्यत्वात्सर्वत्र प्रमाणवाक्येऽतिव्याप्तिः स्यात्तद्वारणायोक्तं ‘स्मारितेति’ । आद्यपक्षे कुब्जशक्त्यङ्गीकारात् । द्वितीयपक्षे चाज्ञाताया एव पदार्थनिष्ठ-लक्षणाया वृत्तित्वाङ्गीकारान्न संसर्गस्य पदस्मारितत्वं किन्त्वनुभाव्यत्वमित्यतिव्याप्तिपरिहार इति ।

अत्र ब्रूमः । ज्ञेयत्वादिवत्पदवृत्तिस्मारितत्वस्याप्यभिधेयत्वपर्यवसन्नस्य केवलान्वयित्वेन तदतिरिक्ताप्रसिद्धिः । स्ववृत्तिस्मारितेति विवक्षायां स्मारितातिरिक्तागोचरप्रमाजनकत्वं किमतिरिक्तगोचरप्रमाजनकभिन्नत्वं वा स्मारितमात्रगोचरप्रमाजनकत्वं वा । नाद्यः । घटः कर्मत्वमित्यादावतिव्याप्तेः । स्वशब्देन गवादिपदं, तद्वृत्तिस्मारिता ये पदार्थास्तदतिरिक्तो यस्तत्संसर्गस्तद्गोचरप्रमाजनकं यद् ‘गामानय’ इत्यादिवाक्यं तद्भिन्नत्वाद्धटः कर्मत्वमित्यादि-वाक्यस्य । शब्दपदस्य प्रमाणशब्दपरत्वे त्वपर्यायेति व्यर्थम् । तव मते आकाङ्क्षादिराहित्येन पर्यायाणामप्रामाण्यात् । न द्वितीयः । सत्यादिवाक्यस्यानुवादक त्वापातेनासम्भवात् । तव मते सत्यादिवाक्यानां विशिष्टशक्तत्वेन तस्यैव पदस्मारिततयाऽखण्डस्य स्मारितभिन्नत्वाच्च । तदुक्तं कल्पतरौ–

अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एवं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ।।

इति वक्ष्यमाणरीत्या घटशब्दवाच्ये कलशशब्दवाच्यत्वसंसर्गपरत्वात्पर्यायशब्दानाम् अतोऽपर्यायशब्दानामिति व्यर्थमेव । ननु शीतोष्णेत्यादिप्रत्येकमेकैकार्थपरत्वात्सङ्ग्राह्यमेवेत्यत आह– न चेति । द्वन्द्वावगतभेदवतोऽखण्डत्वायोगात् । तथा चाहुः ‘एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे’ इति । एकं निर्भेदमित्यर्थः । न चात्र शीतस्पर्शं पयः उष्णस्पर्शः पावक इति वाक्यद्वयमेव । तत्र च न भेदावगम इति वाच्यम् ।

चन्द्रे कलङ्कः सुजने दरिद्रता विकासलक्ष्मीः कुमुदेषु चञ्चला ।

मुखप्रसादः सधनेषु नित्यं यशोविधातुः कथयन्ति खण्डितम् ।।

इत्येकस्मृत्युपारूढानां चन्द्रादीनां बहुत्वान्वयवदिहाप्यन्वयोपपत्तेः ।। यौगिकार्थेति ।। औपगवादिवनाद्यर्थानां विशिष्टरूपत्वान्नाखण्डत्वम् । अतः श्यामादिवाक्यं नाखण्डार्थमतो न लक्ष्यम् । लक्षणवाक्यत्वात्तु त्वद्रीत्या पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकं चेति तत्रातिव्याप्तिरित्यर्थः ।। प्रकृष्टादीति ।। प्रकृतपदार्थसंसर्गरूपयोग्यतादिमत एव वाक्यत्वा-द्वाक्यत्वाखण्डार्थत्वयो र्विरोधेनैकत्रासम्भव इत्यर्थः ।। असम्भवादिति ।। चन्द्रब्रह्मादि-शब्दानामज्ञातज्ञापकत्वाय संसर्गप्रतियोगित्वेनैव चन्द्रब्रह्मादिज्ञापकतया एकप्रातिपदिकार्थ-पर्यवसानाभावादित्यर्थः । ननु प्रातिपादिकार्थस्यैकत्वं नाम स्वान्तर्गणिकभेदशून्यत्वरूपमेक-मात्रव्यक्तिकत्वं न, किन्त्वेकधर्मावच्छेदेन वृत्तिविषयत्वम् । तच्च संसर्गप्रतियोगिन्यपि चन्द्रादावस्त्वेव । अत एवौपगवादिवाक्यमप्यखण्डार्थमेवेति न तत्रातिव्याप्तिः । मैवम् । विशिष्टस्याप्यखण्डत्वाङ्गीकारे ‘अविशिष्टम् अखण्डम्’ इति त्वन्मतहानिः । ब्रह्मतद्गुणानामभेदेन ब्रह्मत्वाद्येकधर्मावच्छेदेनोपस्थितैकप्रातिपदिकार्थे सगुणब्रह्मणि सत्यादिवाक्यपर्यवसान-रूपाखण्डार्थत्वस्य ममानिष्टत्वाभावाच्च । अनन्ताखण्डशुद्धादिशब्दानाम् अपर्यायत्वा-भावात्तेषूक्तलक्षणाव्याप्तिरित्यभिसन्धायाह–  प्रवृत्तीति ।। तद्भेद इति ।। इह अनन्तादि-शब्दे । सत्यादिशब्दप्रवृत्तिनिमित्तापेक्षया भिन्नं स्वतात्पर्यधर्मिसमसत्ताकं प्रवृत्तिनिमित्तं नास्तीत्यर्थः । अनन्तादिशब्दानां प्रवृत्तिनिमित्तमेवासम्भवि दूरे तद्भेद इत्याह– अनन्त-त्वादीनामिति । अन्यत्रेति ।। तत्रानन्तत्वस्य प्रातिभासिकत्वेनोक्तविधत्वाभावादित्यर्थः ।। अनन्तादीति ।। गङ्गापदलक्षितेऽगङ्गात्वसिद्धिवदनन्तादिपदलक्षिते शुद्धेऽनन्तत्वाद्यसिद्धिः । अनन्तादिशब्दानां शुद्धे लक्षणानङ्गीकारेऽनन्तत्वसंसर्गस्यानन्तादिशब्दैः शुद्धे बोधनेन तेषु सुतरामव्याप्तिरिति चकारार्थः ।

व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।

न्यायामृततरङ्गिण्यां नाखण्डार्थत्वलक्षणम् ।

पाण्डुरङ्गि आनन्दभट्टारकविरचितः

न्यायामृतकण्टकोद्धारः

सर्वाभीष्टप्रदं वीरं सर्वविघ्नौघनाशकम् । नरसिंहं सद्गुणाढ्यं प्रणमामि सुसंविदे  ।।

हयास्यं शशिबिम्बस्थं सर्ववेदप्रवर्तकम् । शङ्खादियुक्चतुर्बाहुं प्रणमामि महाप्रभुम् ।।

निरूप्य बन्धसत्यत्वं बन्धविध्वंसकारणम् । यज्ज्ञानं तद्विशिष्टार्थमादेयमधुनोच्यते ।।

ननु सत्यजगत्कर्तृत्वाद्यनन्तगुणविशिष्टे वेदान्ताः प्रमाणमिति यदुक्तं तदयुक्तम् । वेदान्ता-नामखण्डार्थनिष्ठत्वस्य प्रमितत्वादिति शङ्कते– नन्विति । वेदान्तेत्युपलक्षणम् । लौकिकेत्यपि बोध्यम् । यथेति । ‘प्रकृष्टप्रकाशश्चन्द्रः’ ‘सोऽयं देवदत्तः’ इत्यादिलौकिकवाक्योदाहरणमपि द्रष्टव्यम् । निर्भेदत्वं वेदान्तजन्यज्ञाने प्रकारो वा  स्वरूपसद्वा ? आद्य आह– भेदाभावेति । न चोपलक्षितस्वरूपत्वपक्षे कथमखण्डार्थत्वहानिः । स्वरूपमात्रस्य तत्र भानादिति वाच्यम् । उपलक्षणपक्षेऽप्युपलक्षणस्य तदुपस्थाप्यस्य वा काकोत्तृणत्वादिवच्छब्दजन्यज्ञाने प्रकारत्वनियमात् । द्वितीये आह– स्वरूपेति । ननु वस्तुगत्या यन्निर्भेदं तन्मात्रपरत्वमखण्डार्थत्वमतो न सगुणवाक्येऽतिव्याप्तिः । तस्य गुणपरत्वस्यापि भावादित्यत आह– प्रकृष्टेति । तेषां धर्मिसमसत्ताकभेदवद्वस्तुपरत्वेन वस्तुगत्या निर्भेदार्थमात्रपरत्वाभावादिति भावः ।। य इति ।। यद्यप्यत्र सम्भूयार्थपरत्वं नास्त्येव । प्रत्येकं त्वेकार्थमात्रपरत्वं लक्षणवाक्यत्वादतो न तत्रातिव्याप्तिस्तथापि ब्रह्मण्यसम्भव एव । शक्त्या लक्षणया वा वेदान्तानां निःसम्बन्धे ब्रह्मणि पर्यवसानानुपत्तेरिति द्रष्टव्यम् । इष्टापत्तेश्चेति । मयाप्यपर्यायशब्दानां तत्तद्विशेषणसमर्पणद्वारा एकविशेष्यपरत्वस्य स्वीकारादित्यर्थः ।

अपर्यायशब्दानामिति । न च सर्वथा संसग•गोचरप्रमाजनकत्वस्य लक्षणार्थत्वे अप्राप्तयोः प्राप्तिः संयोगः, ‘नित्यः सम्बन्धः समवायः’ इत्यादिलक्षणवाक्येष्वव्याप्तिः । तेषां लक्ष्यसंसर्ग-गोचरप्रमितिजनकत्वादिति वाच्यम् । अत्र हि संसर्गागोचरशब्देन स्वस्वपदस्मारितपदार्था-नामन्योन्यसंसर्गागोचरप्रमितिजनकत्वस्य विवक्षितत्वादिति नाव्याप्तिः । अत्र हि हस्तकरादि-पर्यायशब्दानामपि संसर्गागोचरप्रमाजनकत्वात् तत्रातिव्याप्तिनिवृत्यै अपर्यायग्रहणम् । इन्द्रियाणा-मपि निर्विकल्पकरूपसंसर्गागोचरप्रमितिजनकत्वात् तन्निवृत्तये शब्दग्रहणम् । गामानयेत्याद्यपर्याय-शब्दानामपि संसर्गगोचरप्रमाजनकत्वात्, तदर्थं संसर्गागोचरग्रहणम् । गौरश्वः पुरुषो हस्तीत्याद्य-पर्यायशब्दानामपि पदस्मारित पदार्थानामन्योन्यसंसर्गागोचरज्ञानजनकत्वात् तत्रातिप्रसङ्गनिवृत्तये प्रमितिग्रहणम् । गौरश्व इत्यादिशब्दानां च पदार्थमात्रस्मारकत्वेनानुभवत्वगर्भप्रमिति-जनकत्वाभावान्नातिप्रसङ्गः । प्रातिपदिकार्थेति । न च निःसम्बन्धे कथं पर्यवसानमिति वाच्यम् । आरोपितसम्बन्धेन तदुपपत्तेः । उक्तार्थे चित्सुखसम्मतिमाह– उक्तं हीति । गिरामपर्यायशब्दानां या संसर्गाविषयत्वे सति सम्यग्धीहेतुता इयमखण्डार्थता उक्ता । यद्वा तेषामेव शब्दानां तत्प्रातिपदिकार्थता । तदिति संसर्गराहित्येन लक्षितमेकत्वं परामृशति । एकप्रातिपदिकार्थतेत्यर्थः ।

एवम् अखण्डार्थत्वस्य लक्षणमुक्त्वा पदार्थपरस्याखण्डार्थत्वे प्रमाणमाह– तत्रेति । अत्र साध्यद्वये क्रमेण हेतुद्वयं द्रष्टव्यम् । अन्यथा द्वितीयसाध्ये प्रथमहेतोः प्रकृष्टप्रकाश इत्यादौ व्यभिचारप्रसङ्गात् । तस्य ब्रह्मप्रातिपदिकार्थमात्रनिष्ठत्वाभावात् । यद्वाऽस्तूभयत्रोभयं हेतुः । ब्रह्मपदस्य लक्ष्यमात्रपरत्वाङ्गीकारेणोक्तव्यभिचारासम्भवादिति । अत एवाह– प्रकृष्टादि-वाक्यमिति । अप्रयोजकत्वं परिहरति– न हीति । तथात्वे प्रश्नोत्तरयोर्वैयधिकरण्यप्रसङ्ग इति भावः । ननु सास्नादिमान् गौरित्यादिलक्षणवाक्येषु व्यभिचारः । तत्र प्रातिपदिकार्थमात्रनिष्ठत्वा-भावादित्यत आह– सास्नादिमान् गौरितीति । तथा च पक्षसमत्वान्न व्यभिचार इति भावः । न चैवं दृष्टान्ताभावात् कथं व्याप्तिग्रह इति वाच्यम् । व्यतिरेकव्याप्त्याऽन्वयव्याप्त्यनुमानस्य सम्भवात् । व्यतिरेकव्याप्तेरेव गमकत्वसम्भवाच्च । अकार्येति । अत्र समानाधिकरणत्वादित्युक्ते मृद्धट इत्यादौ व्यभिचारस्तदर्थम् अकार्येत्यादि । अकार्यकारणनिष्ठत्वादित्युक्ते देवदत्तस्य गौरित्यादौ । तदर्थं समानाधिकरणत्वादिति । न चात्र द्रव्यपदं व्यर्थमिति वाच्यम् । दण्डी देवदत्तो, गोमान् देवदत्त इत्यादौ व्यभिचारवारकत्वात् । न च विशिष्टहेतोस्तत्र सत्त्वात् कथं व्यभिचार-परिहार इति वाच्यम् । कार्यकारणनिष्ठान्यत्वे सति द्रव्यमात्रनिष्ठान्यत्वे इति विवक्षितत्वात् । उक्तवाक्यस्य द्रव्यमात्रनिष्ठत्वात् । न चैवं विशेष्यवैयर्थ्यं, नीलस्य गुणत्वमित्यादौ व्यभिचार-वारकत्वात् ।

न चैवमप्रसिद्धिः । सोऽयं देवदत्त इत्यादेरपि द्रव्यमात्रनिष्ठत्वादिति वाच्यम् । द्रव्यपदेन तत्संसर्गस्य विवक्षितत्वात् । न चैवं विशिष्टस्य हेतोः नीलो गुण इत्यादौ व्यभिचार इति वाच्यम् । गुणमात्रसंसर्गपरान्यत्वे सतीत्यस्यापि विवक्षितत्वात् । न चैवमकार्येत्यादि व्यर्थम् । तस्य नीलोत्पलमित्यादौ व्यभिचारवारकत्वादिति सर्वं समञ्जसम् । प्रधानसाध्यहेतुष्वप्रयोजकत्वं परिहरति– विपक्ष इति । आद्यलक्षण इति ।। अपर्यायशब्दानां किं संसर्गागोचरप्रमाजनकत्व-मित्यत्र संसर्गशब्देन किम् संसर्गसामान्यं प्रकृतपदार्थापदार्थरूपं विवक्षितम् ? अथवा प्रकृत-पदस्मारितपदार्थसंसर्गो विवक्षितः ? यद्वा प्रतिपिपादयिषितपदार्थसंसर्गः ? आद्य आह संसर्ग-शब्देनेति । तत्र लक्ष्यार्थक पदार्थीभूतसंसर्गप्रमापकत्वादव्याप्तिरित्यर्थः । द्वितीय आह– पदस्मारितेति । एवञ्च यद्यपि नाव्याप्तिः । पदार्थीभूतसंसर्गप्रतिपादकत्वेऽपि पदार्थसंसर्गस्या-प्रतिपादकत्वात् । तथाप्यतिव्याप्तिरेव । विषं भुंक्ष्वेत्यनेन हि द्विषदन्नं न भोक्तव्यमिति वाक्यार्थो बोध्यते । तस्य प्रकृतपदस्मारितपदार्थसंसर्गत्वाभावादिति भावः । तृतीय आह– प्रतिपिपाद-यिषितेति । एवं यद्यपि विषं भुंक्ष्वेत्यत्र नातिव्याप्तिः । अनेन द्विषदन्नादिपदार्थानां प्रतिपिपाद-यिषितत्वेन प्रतिपिपादयिषितसंसर्गाप्रमापकत्वाभावात् तथापि प्रकृष्टादिवाक्येऽव्याप्तिरेवेति भावः ।

ननु प्रकृतपदज्ञातपदार्थानामपदार्थीभूतसंसर्गागोचरप्रमाजनकत्वं विवक्षितम् । एवञ्च न प्रकृष्टादिवाक्येऽव्याप्तिः । तस्य तन्मात्रप्रश्नोत्तरत्वादिना संसर्गगोचरप्रमाजनकत्वाभावात् । नापि विषं भुंक्ष्वेत्यत्रातिव्याप्तिः । तस्य प्रकृतपदस्मारितसंसर्गागोचरप्रमाजनकत्वादित्यत आह– किञ्चेति । नन्वेतदपि अखण्डार्थमेवेति अत्राह– न चेति । तथा च धर्मिभेदप्रतिपादनान्ना-खण्डार्थत्वमिति भावः । ननु शीतोष्णस्पर्शवन्तौ पयः पावकौ इत्ययं समुदायो नैकवाक्यं सम्भूयार्थाप्रतिपादकत्वात् । न चात एवातिव्याप्तिः । तस्मिंस्त्वदीयलक्षणस्य गतत्वादिति वाच्यम् । अपर्यायशब्दानां संसर्गागोचरप्रमाजनकवाक्यत्वस्य विवक्षितत्वात् । समुदायस्य चैकार्थप्रतिपादकत्वाभावेन वाक्यत्वाभावात् । प्रत्येकं तु लक्ष्यत्वान्नातिव्याप्तिरित्यत आह– किञ्चेति । ननु संसर्गशब्देन पदवृत्तिस्मारितातिरिक्तं विवक्षितम् । एवञ्चापर्यायशब्दानां पदवृत्ति-स्मारितातिरिक्तागोचरप्रमाजनकत्वम् अखण्डार्थत्वम् । एवञ्चोक्तस्थलेषु नाव्याप्तिः । संयोगादि-पदार्थस्य पदस्मारितत्वेन पदवृत्तिस्मारितातिरिक्तत्वाभावात् । अन्विते शक्त्यङ्गीकारेऽपि कुब्जशक्तिवादत्वेनान्वयांशे स्मारितत्वाभावात् । भाट्टानामन्वयांशे लक्षणायामपि अन्वयांशे स्मारितत्वाभावात् न खण्डार्थवाक्यातिव्याप्तिरपीत्यत आह प्रकृष्टेत्यादि । अयमाशयः । एवं विवक्षायां लक्षणवाक्येष्वसम्भवः । न हि लक्षणवाक्येषु पदवृत्तिस्मारितस्यैवानुभव इत्यत्र नियामकमस्ति । पदार्थस्मरणाभावेऽपि पदश्रवणानन्तरमेव साकाङ्क्षस्वार्थानुभवसम्भवात् । न हि पदार्थस्मरणं पदार्थानुभवे कारणं, प्रमाणाभावात् । न्यायमते पदार्थस्मरणस्य विशेषण-ज्ञानत्वेनोपयोगात् । आवयोर्मते तदभावात् ।

किञ्चास्तु पदार्थस्मरणनियमः । तथापि स्मरणस्य निष्प्रकारकत्वाभावात् लक्षणयानुभाव्य-शुद्धस्य पदवृत्तिस्मारितविशिष्टादन्यत्वात् पदवृत्तिस्मारितविशिष्टान्य शुद्धप्रमाजनकत्वेन सत्यादि-वाक्येष्वव्याप्तिरेव । प्रकृष्टादिवाक्यस्य तु संसृष्टार्थत्वेन । असम्भवस्तु मूल एव स्फुट एवेति । अत एवेति परामृष्टं हेतुमाह– असम्भवादिति । सर्वेषां लक्षणवाक्यानां सखण्डार्थत्वस्य वक्ष्यमाणत्वादिति भावः । अतिव्याप्तेश्चेति । इदं चैकपदस्य प्रातिपदिकविशेषणत्वपक्षे द्रष्टव्यम् । प्रातिपदिकार्थविशेषणत्वे तु पूर्वोक्तदूषण एव तात्पर्यमिति भावः । एकपदस्य प्रातिपदिकार्थ-विशेषणत्वे तदेकत्वस्यैकधर्मावच्छिन्नत्वे वक्तव्ये विशिष्टार्थविषयत्वापत्या अखण्डार्थत्वाङ्गीकारविरोध इति ध्येयम् । इदानीम् अपर्यायत्वाभावप्रयुक्तमसम्भवमाह– किञ्चेति । प्रवृत्तिनिमित्तभेदः किं शुद्धातिरिक्ते वा शुद्धे वा ? नाद्य इत्याह । अनन्तत्वादीनामिति । न द्वितीयः । शुद्धे तद्भेदाङ्गीकारे च सखण्डार्थत्वापातः । ननु लक्षणयाऽखण्डार्थपरत्वम्, अतो नोक्तदोष इत्यत आह– अनन्तादिशब्दानामिति । शब्दप्रवृत्तिनिमित्तस्य लक्ष्ये क्वाप्यदृष्टत्वात् । गङ्गापदलक्ष्यस्य तीरस्यागङ्गात्वनियमादनन्तादिपदलक्ष्यस्य ब्रह्मणोऽनन्तत्वाद्यभावप्रसङ्गादिति भावः ।

श्रीनिवासतीर्थविरचितः

न्यायामृतप्रकाशः

समस्तवेदसंवेद्यं वेदव्यासं गुणार्णवम् । विवृणोमि प्रणम्याहं परिच्छेदं द्वितीयकम् ।। १ ।।

पूर्वपरिच्छेदान्ते यदुक्तम् अनन्तगुणे ब्रह्मणि वेदान्ताः प्रमाणमिति तदाक्षिपति– नन्वेतदिति । एकं पदार्थनिष्ठम्, अपरं वाक्यार्थनिष्ठमित्यन्वयः । पदार्थनिष्ठमपि द्विविधमित्याह– यथेति । ‘यः सर्वज्ञः’ इत्यादिवाक्यानां सार्वज्ञादि प्रतिपादनपराणामपि सार्वज्ञादीनां मायामयत्वेन मिथ्यात्वात् सत्यज्ञानादिरूपे ब्रह्मण्येव तात्पर्यमित्यर्थः । अत एव स्वरूपमात्रप्रतिपादनपरं सत्यादिवाक्यमेवो-दाहृतम् । योऽयमिति । त्वंपदार्थेऽपि दुःखादिप्रतिपादनपराणामपि वाक्यानां स्वार्थे तात्पर्याभावादिति भावः । द्वयमपीति । पदार्थनिष्ठं वाक्यार्थनिष्ठं चेति द्वयमपीत्यर्थः । ‘निर्भेदार्थनिष्ठत्वम्’ इत्यत्र भेदाभावस्य शब्दबोध्यत्वं विवक्षितम् उत भेदाभावस्य स्वरूपतो ब्रह्मणि सत्वमात्रमभिप्रेतं न तु शब्दबोध्यत्वम् । एवं च वस्तुतो यन्निर्भेदं ब्रह्म तन्निष्ठत्वमिति विवक्षितम् । आद्येऽपि किं भेदाभावविशिष्टार्थप्रतिपादकत्वमभिप्रेतम् उत भेदाभावोपलक्षितार्थप्रतिपादकत्वम् । नोभयमपीत्याह– भेदाभावेति । सखण्डार्थत्वेति । यथा ‘निर्घटं भूतलम्’ इत्यत्र घटाभावप्रकारकज्ञानजनकत्वम् एवं विशेषणोपलक्षणरूपप्रकारयुक्तार्थबोधकत्वेन सप्रकारकज्ञानजनकत्वापत्त्या सखण्डार्थत्वापत्तेरित्यर्थः । नान्त्यः । सगुणवाक्येष्वतिव्याप्तेरित्याह स्वरूपसत्वेति । वस्तुगत्या निर्भेदं यद् ब्रह्म, तन्निष्ठत्वेन तस्मिन्गुणसंसर्गप्रतिपादकत्वेनेत्यर्थः ।

भेदाभावस्य शब्दबोध्यत्वपक्षे स्वरूपसत्वाभिप्रायपक्षे च दोषमाह– प्रकृष्टेति । प्रकृष्टादिलक्षण-वाक्यस्य प्रश्नोत्तरयोर्वैयधिकरण्यान्यथानुपपत्त्या चन्द्रस्वरूपमात्रप्रतिपादकत्वेन अखण्डार्थत्वात् प्रकृष्टादिवाक्यस्य च भेदाभावविशिष्टार्थप्रतिपादकत्वं नास्ति । न हि चन्द्रभेदाभावप्रकारकं ज्ञानं प्रकृष्टादिवाक्याद्भवति तथा यत्स्वरूपसन्निर्भेदं तत्प्रतिपादकत्वं नास्ति वस्तुगत्या चन्द्रस्वरूप-स्येतरभिन्नत्वादतोऽव्याप्तिरित्यर्थः ।। अत एवेति । विशेषाभावविशिष्टत्वरूपस्य तदुपलक्षितस्वरूपस्य वा शब्दबोध्यत्वाभिप्राये स्वरूपसत्त्वाभिप्राये च दोषस्योक्तत्वादित्यर्थः । घटः कलश इत्यादा-वेकार्थपरतया घटप्रातिपदिकार्थमात्रपरत्वेनाखण्डार्थनिष्ठत्वं च स्यात् । तच्च परेषां न सम्मतं, लक्षण-वाक्यस्यैव प्रश्नोत्तरवैयधिकरण्यान्यथानुपपत्त्या तथाभावाभ्युपगमात् । अतस्तत्रातिव्याप्तिवारणायअपर्यायशब्दानाम्’ इत्युक्तम् ।। पयः पावकेति । अनेकप्रातिपदिकार्थपरत्वादस्या लक्ष्यत्वं धर्मिभेद-प्रतिपादकस्याखण्डार्थत्वायोगात् । न हि धर्मधर्मिभावासहमखण्डत्वं धर्मिभेदसहमित्यङ्गीकारात् । कीदृशौ पयः पावकाविति प्रश्नेऽस्य लक्षणवाक्यस्य प्रवृत्तत्वेन प्रश्नोत्तरयोर्वैयधिकरण्यान्यथानुपपत्त्या पयःपावकरूपप्रातिपदिकार्थमात्रपर्यवसायित्वमस्तीत्यतिव्याप्तिरित्यर्थः । एकविशेष्येति । शीतोष्ण-स्पर्शवन्तौ पयःपावकाविति वाक्यस्य तु पयःपावकरूपानेकविशेष्यपरत्वान्नातिव्याप्तिरित्यर्थः ।। नीलमिति । उत्पले नैल्यसंसर्गबोधकत्वेनास्य सखण्डार्थत्वेनालक्ष्यत्वादुत्पलरूपैकविशेष्यप्रतिपादकत्वेन तत्रातिव्याप्तिः स्यादित्यर्थः । ननु प्रश्नोत्तरयोर्वैयधिकरण्यान्यथानुपपत्त्या लक्षणवाक्यत्वावच्छिन्न-स्याखण्डार्थत्वाङ्गीकारादस्यापि लक्षण वाक्यत्वेनाखण्डार्थत्वाल्लक्ष्यत्वमेवेति चेन्न । नीलत्वस्य मषीखण्डादावपि सत्त्वेनातिव्याप्ततया लक्षणत्वाभावेनास्य लक्षणवाक्यत्वाभावादिति ध्येयम् ।। इष्टापत्तेश्चेति । समस्तवेदानामनन्तगुणाकरभगवद्रूपैकविशेष्यप्रतिपादकत्व रूपाखण्डार्थत्वस्या-स्माभिरङ्गीकारादित्यर्थः ।। तथापीत्यादि । निर्विकल्पकज्ञानजनकत्वमित्यर्थः ।

अत्रेदमालोचनीयम् । घटः कलश इत्यादौ संसर्गाप्रतिपादके वाक्ये लक्षणवाक्यत्वाभावेन सखण्डार्थेऽतिव्याप्तिवारणायापर्यायशब्दानामित्युक्तम् । नन्वेवं चेद् अप्राप्तयोः प्राप्तिः संयोग इति संयोग-लक्षणवाक्यं तावदखण्डार्थम् । लक्षणवाक्यत्वादेव तत्राव्याप्तिः । संयोगरूपसंसर्गस्यैवात्र लक्ष्यत्वेन तद्गोचरप्रमाजनकत्वेन संसर्गागोचरप्रमा जनकत्वाभावादिति चेन्न । संसर्गशब्देन पदार्थसंसर्गस्यैव विवक्षितत्वात् । तथा च नाव्याप्तिः । अस्य संयोगलक्षणवाक्यस्य लक्ष्यभूतसंसर्गप्रमाजनकत्वेऽपि अप्राप्तयोः प्राप्तिरिति पदद्वयार्थनिरूपितपरस्पर संसर्गप्रमाजनकत्वं नास्ति । लक्षणवाक्यत्वेन स्वरूपमात्रे तात्पर्येण संसर्गे तात्पर्याभावेन तत्प्रमाजनकत्वानङ्गीकारात् । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यापत्तेः । अतो नाव्याप्तिः । अपर्यायशब्दानां पदार्थप्रतियोगिकसंसर्गागोचरज्ञानजनकत्वम् अखण्डार्थत्वमित्येवोक्तौ गौरश्वो घट इत्यादिपदैः पदार्थस्मृतिर्भवतीति तार्किकैरङ्गीकृतत्वाद्गवादि पदैर्गवादिरूपार्थस्मृतिर्भवति । सा च तत्तत्पदानुभवजन्या स्मृतिस्तत्तत्पदार्थमात्रविषयिणी न तु तत्संसर्गविषयिणी  । एवं चापर्यायाणां तत्तद्गवादिपदानां पदार्थसंसर्गागोचरस्मृतिरूपज्ञानजनकत्वेनाखण्डार्थत्वापत्तेः । ततश्च गवादिपदसमुदायेऽतिव्याप्तिः । अलक्ष्यत्वं च लक्षणवाक्यत्वाभावात्, अतः प्रमापदम् । तत्रापि यथार्थानुभवः प्रमा । तत्र याथार्थ्यं न विवक्षितं संसर्गागोचरस्यानुभवस्य निर्विकल्पकरूपत्वेन तस्य याथार्थ्यनियमात् । एवमपि निर्विकल्पकसद्भावपक्षे संसर्गागोचरानुभवजनकेन्द्रियेऽतिव्याप्तिः स्यादतः शब्दानामित्युक्तम् ।

नन्वत्र बहुवचनं किमर्थमिति चेत्, अत्र केचित्– धवखदिरपलाशा इति द्वन्द्ववाक्ये भेदे द्वन्द्व इत्युक्तत्वेन भेदप्रतिपादकतयाऽनेकप्रातिपदिकतया वा सखण्डार्थत्वेनालक्ष्ये संसर्गाप्रतिपादके उक्तलक्षणसद्भावेनातिव्याप्तिः स्यादतः शब्दानामिति बहुवचनम् । तदर्थश्च सम्भूयैकार्थप्रतिपादकत्वम् । एवं च तत्र सम्भूयैकार्थप्रतिपादकत्वाभावान्नातिव्याप्तिरित्याहुः । तत्समीचीनमिव न भाति । इतरेतरयोगे द्वन्द्व इत्यङ्गीकारेण शक्त्या लक्षणया वा धवखदिरादावितरेतरसाहित्यरूपसंसर्गस्यैव प्रतीत्या पदार्थ-संसर्गागोचरानुभवजनकत्वरूप लक्षणस्यैवाभावाद्बहुवचनं व्यर्थमेव स्यात् । सम्प्रदायस्तु बहुवचना-भावे पङ्गजमानयेति वाक्यैकदेशभूते यौगिके पङ्कजपदेऽतिव्याप्तिः स्यात् । तथा हि पङ्कजानयपदयो-रुभयोर्मिलितयोरेव संसर्गप्रतिपादकत्वं नैकस्य पङ्कजपदस्य  । एवञ्च प्रकृतो यः पदार्थः पद्मरूप आनयनरूपश्च तन्निरूपितो यः संसर्गस्तदगोचरानुभवजनकत्वमेकस्मिन् पङ्कजपदेऽस्तीत्यतिव्याप्तिः । ननु पङ्कजपदस्य कथमनुभवजनकत्वं तार्किकमते पदानां प्रत्यक्षानुमानानुभूतपदार्थस्मृतिजनकत्वमेव, वाक्यस्य तु संसर्गानुभवजनकत्वमेव । अत एव यथार्थानुभवरूपप्रमाकरणम् आकाङ्क्षादिमत्पद-समुदायात्मकमाप्तवाक्यमेवेत्यङ्गीकृतमतः कथमेतदिति चेन्न ।

अभिप्रायानवबोधात् । अस्माभिरितरपदानि विहाय पङ्कजपद एवातिव्याप्तिरभिधीयते । तच्च यौगिकत्वेन वाक्यरूपम् । एवं च पङ्कजपदं पङ्कजनिकर्तृत्वरूपसंसर्गानुभावकमेव । एवं च प्रकृतपदार्थप्रतियोगिकसंसर्गागोचरानुभवजनकत्वं पङ्कजपदेऽतिव्याप्तमतः शब्दानामिति बहुवचनम् । तथा चापर्यायशब्दानां प्रकृतपदार्थप्रतियोगिकसंसर्गागोचरानुभव जनकत्वमखण्डार्थत्वमिति लक्षणं पर्यवसितम् । नन्वेवमपर्यायपदं व्यर्थम् । घटः कलश इत्यत्र संसर्गाप्रतिपादकवाक्ये घटादिपदानां प्रकृतपदार्थप्रतियोगिकसंसर्गागोचरानुभवजनकत्वं नास्ति । पदानां स्मारकत्वादतस्तत्रापि व्याप्तेर-भावादिति चेन्न । घटादिशब्दा अपि यौगिका एव । प्रकृतिप्रत्ययविभागेन सर्वेऽपि शब्दा व्युत्पन्ना एवेति पक्षसद्भावात् । अतः पङ्कजादिपदवत् घटकलशादिपदानामपि प्रकृतिप्रत्ययार्थभूत-स्वार्थसंसर्गानुभावकत्वेन प्रकृतपदार्थप्रतियोगिकसंसर्गागोचरानुभवजनकत्वमस्त्येवेत्यतिव्याप्ति-वारणायापर्यायपदमिति सर्वमनवद्यम् ।

वस्तुतोऽखण्डार्थपदानामपि शबले गृहीतसङ्गतिकत्वेन विशिष्टार्थवाचकत्वात्प्रातिपदिकार्थ-मात्रवाचकत्वम् असम्भवीत्यतः पर्यवसायित्वमित्युक्तम् । अतस्तेषामपि लक्षणया तत्परत्वमस्तीत्यर्थः । गिराम् अपर्यायशब्दानां या संसर्गासङ्गिसम्यग्धीहेतुता इयमखण्डार्थता उक्तेत्यन्वयः ।। तदिति । तासां गिरामपर्यायशब्दानां ब्रह्मप्रातिपदिकार्थतात्पर्यपर्यवसायित्वं वाऽखण्डार्थतोक्तेत्यर्थः । तत्र अखण्डार्थत्वेऽनुमानं मानमिति सम्बन्धः ।। सम्मतवदिति । को घट इति प्रश्नोत्तरभूतम् ‘अयं घटः’ इत्यादिवाक्यं सम्मतशब्दार्थः । यद् यत् प्रश्नोत्तरं तत् तत्प्रातिपदिकार्थमात्रपरमिति सामान्यव्याप्तिमदिदं दृष्टान्तकथनमिति ध्येयम् । हेतोरप्रयोजकतां परिहरति– न हीति । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यप्रसङ्ग इति भावः । ननु सास्नादिमान् गौरित्यादिलक्षणवाक्ये व्यभिचारशङ्कां परिहरति– सास्नेति । अखण्डार्थत्वे त्विति । अनुमानमुच्यत इति शेषः । अकार्यकारणेत्यादि । निष्ठत्वं प्रतिपादकत्वम् । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिरेकविभक्त्यन्तपदवाच्यत्वं वा समानाधिकरणत्वम् । मृद्धट इति समानाधिकरणप्रयोगे कार्यकारणभावरूपसंसर्गप्रतिपादके सखण्डार्थे व्यभिचारवारणाय अकार्यकारणद्रव्यनिष्ठत्वे सतीत्युक्तम् । तर्हि नीलो घट इति वाक्ये व्यभिचारः ।

ननु नीलगुणस्य घटकार्यत्वात्कार्यकारणभावोपेतघटरूपद्रव्यप्रतिपादकमेवैतद्वाक्यमिति चेन्न । गुणगुणिनोरभेदपक्षाश्रयेण तार्किकाभिमतकार्यकारणभावानङ्गीकारात् । धर्मधर्मिभावरूपसम्बन्धबोधनेन लक्षणवाक्यत्वाभावेन वा सखण्डार्थत्वाच्चातो मात्रपदम् । तत्र च नैल्यरूपगुणस्यापि प्रतिपादनान्न व्यभिचारः । देवदत्तस्य दष्ट इति वाक्ये उपादानोपादेयभावरूपकार्यकारणभावरहितद्रव्यमात्रप्रतिपादके देवदत्तसम्बन्धप्रतिपादकत्वेन सखण्डार्थे व्यभिचारवारणाय समानाधिकरणपदम् । बुभुत्सिते श्वेतकेतुनेति शेषः । संसर्गागोचरप्रमाजनकत्वमिति यथाश्रुतलक्षणमेव दूषयति– आद्य इति । अस्मत्कृतपूर्वविवक्षोपरि नेदं दूषणमिति ध्येयम् ।। संसर्गलक्षणेति । संयोगलक्षणेत्यर्थः । लक्ष्यस्यैव संसर्गरूपत्वेन तद्गोचरप्रमाजनकत्वादिति भावः ।। पदस्मारितेति । तथा च नाव्याप्तिः । अप्राप्तयोः प्राप्तिरिति पदद्वयस्मारितपदार्थसंसर्गप्रतिपादकत्वेन तदगोचरप्रमाजनकत्वाभावादिति भावः ।। विषमिति । स्वमित्यस्य शत्रुगृहभोजनप्रसक्तिं दृष्ट्वा प्रयुक्ते ‘विषं भुंक्ष्व’ इत्याप्तवाक्ये वस्तुगत्या संसर्गप्रतिपादकत्वेन लक्षणवाक्यत्वाभावेन वा सखण्डार्थ इत्यर्थः ।

तामेवोपपादयति– तस्येति । विषं भुंक्ष्वेति वाक्यस्यात्रत्यपदस्मारितपदार्थसंसर्गो यः विषकर्मक-भोजनरूपः तत्प्रमापकत्वाभावात् ।। शास्त्रीयेत्यादि । द्विषदन्नकर्मकं भोजनं न कर्तव्यमित्ये-तादृशसंसर्गप्रमापकत्वेन नातिव्याप्तिरित्यर्थः । अस्येति । ‘अयमिदानीं मम प्रसक्तं शत्रुगृहभोजनं दृष्ट्वा क्रुद्धो वर्तते, आप्तत्वे सति प्रमाणविरुद्धकर्तव्यतावादित्वात् । तस्माद् ‘द्विषदन्नं न भोक्तव्यम्’ इत्यभिप्रायेणैवं प्रयुक्तवान् । तस्मान्मया न कर्तव्यमित्येवं युक्तिमूलत्वेनेत्यर्थः । अशास्त्रेति । शास्त्रानुपस्थितिदशायामियमतिव्याप्तिर्द्रष्टव्या । प्रतिपिपादयिषितेति । तथा च नातिव्याप्तिः प्रतिपादयितुमिष्टो यः पदार्थसंसर्गः द्विषदन्नं न भोक्तव्यमित्येवंरूपस्तद्गोचरप्रमाजनकत्वसद्भावेन विषं भुंक्ष्वेति वाक्ये नाऽतिव्याप्तिरिति भावः ।

अत्र प्रतिपिपादयिषितत्वं पदार्थानां किं स्वरूपेण विवक्षितम् उत संसर्गप्रतियोगित्वेन । नाद्य इत्याशयेनाह– चन्द्रेति । प्रश्नेति । कश्चन्द्रः किं ब्रह्मेति प्रश्नहेतुभूतो यः संशयस्तद्धर्मित्वेनेत्यर्थः । द्वितीयमाशङ्क्याह– संसर्गेति । संसर्गप्रतियोगित्वेन पदार्थानां प्रतिपादयितुमिष्टत्वे संसर्गस्य तात्पर्यविषयत्वप्राप्त्या तत्प्रमाजननस्यैव प्राप्तेः पुनस्तदप्रमापकत्वोक्तौ विरोध इत्यर्थः ।। त्वद्रीत्येति । लक्षणवाक्यत्वेन प्रश्नोत्तरयोर्वैयधिकरण्यभिया त्वन्मते प्रतिपिपादयिषितपदार्थसंसर्गो यो लक्षणत्वरूप-स्तदप्रतिपादक इत्यर्थः ।

अलक्ष्यत्वोपपादनायाह ।। अनेकेति । अनेकप्रातिपदिकार्थपरत्वेऽप्यखण्डार्थत्वं कुतो नास्ति । येनालक्ष्यत्वमित्यत आह– न हीति । अखण्डत्वं धर्मधर्मिभावेन तयोर्भेदं यदा न सहते तदा धर्मिभेदं न सहत इति किं वाच्यमित्यर्थः । यौगिकेति । उपगोरपत्यं पुमान् औपगवः क इत्येवं यौगिको य औपगवादिस्तत्प्रश्नस्योत्तरभूत इत्यर्थः । अनेकेति । अनेके अर्थाः वृक्षगजतुरगाद्याः तदात्मकं यद्वनं सेनादिः तत्प्रश्नः किं वनं का सेनेत्यादिरूपः तत्प्रश्नोत्तरे इत्यर्थः । ‘इत्यादौ’ इत्यादिपदेन एकदेशस्थगजतुरगरथाद्याः सेनेति वाक्यं ग्राह्यम् । तथा च लक्षणवाक्यत्वेन श्यामत्वादिरूपलक्षणसंसर्गे तात्पर्याभावेनाखण्डार्थत्वेऽपि औपगवसेनादिरूपधर्मिणामेव संसृष्टार्थरूपत्वेन सखण्डार्थत्वादलक्ष्यमेवेति तत्रातिव्याप्तिः प्रश्नोत्तरयोर्वैयधिकरण्यभिया औपगवादौ श्यामत्वादिसंसर्गे तात्पर्याभावेन संसर्गागोचरप्रमा-जनकत्वसद्भावादतिव्याप्तिरित्यर्थः ।। असम्भव इति । संसर्गागोचरप्रमाजनकत्वाभावादिति भावः । अत एवेत्युक्तं विशदयति असम्भवादिति । प्रकृष्टादिवाक्ये संसृष्टार्थत्वस्य वक्ष्यमाणत्वेन प्रातिपदिकार्थमात्रपरत्वाभावादिति भावः ।।

सखण्डार्थेति । सखण्डार्थस्य यल्लक्षणवाक्यमिति षष्ठीतत्पुरुषः । तथा चौपगवादि रूप-सखण्डार्थस्य यल्लक्षणवाक्यं ‘श्यामो दीर्घः’ इत्यादिरूपं तस्य लक्षणवाक्यत्वादेव औपगवादि-रूपसखण्डप्रातिपदिकार्थमात्रपरत्वेनातिव्याप्तिरित्यर्थः । अनन्तादिशब्दानाम् अपर्यायत्वाभावात्तेषु तद्धटितोक्तलक्षणाव्याप्तिरित्याशयेनाह– प्रवृत्तिनिमित्तेति । लोके प्रवृत्तिनिमित्तभेदे सति अपर्यायत्वं घटपटादिशब्दानां दृष्टं न तु प्रवृत्तिनिमित्ताभेद इत्यर्थः । नन्वत्राप्यनन्तत्वादिरूपप्रवृत्ति-निमित्तभेदसद्भावादनन्तादिशब्दानाम् अपर्यायत्वमित्यत आह– तद्भेदस्त्विहेति । प्रवृत्तिनिमित्तभेद इत्यर्थः । कुतो नास्तीत्यत आह– अनन्तत्वादीनामिति । तथा च सर्वेषामनन्तत्वसत्यत्वादीनां केवलशुद्धब्रह्मात्मसत्वेन सत्यत्वानन्तत्वादिरूपप्रवृत्तिनिमित्तभेदाभावान्नापर्यायत्वमित्यर्थः । ननु सत्यानन्तादिशब्दानां शबले गृहीतसङ्गतिकत्वेन सत्यत्वानन्तत्वादिविशिष्टवाच्यार्थभेदसद्भावेन प्रवृत्तिनिमित्तभेदसद्भावान्नपर्यायत्वम् । तेषां च लक्षणया शुद्धब्रह्मपरत्वान्नाखण्डार्थत्वहानिरित्यत आह– अनन्तादीति । शुद्धे तदसिद्धेरिति । अनन्तत्वादिकं हि त्वन्मते शुद्धस्यैव लक्षणं, मोक्षजनक-ज्ञानविषयस्यैव ब्रह्मणः पृष्टत्वात्तस्यैव च सत्यादिवाक्येनोच्यमानत्वात् । तथा च अनन्तादिशब्दानां लक्षणया चिन्मात्रपरत्वे शुद्धेऽनन्तत्वादीनां लक्षणानामसम्भव एव स्यात् । गङ्गापदलक्ष्ये तीरे गङ्गात्वाभाववदनन्तादिपदलक्ष्ये शुद्धेऽनन्तत्वादीनामयोगादिति भावः । इति अखण्डार्थत्व-लक्षणभङ्गविवरणम्  ।। १ ।।

श्रीकूर्मनरहरिआचार्यविरचिता

न्यायकल्पलता

ख्यापयन्पञ्चभेदान्यः श्रीमान्नरहरिर्विभुः । स्तम्भादाविरभूद्देवः सोऽव्यान्नोऽभीष्टपूरणः ।।

हेयबन्धनिवृत्त्यर्थं जिज्ञास्यं यद्विधीयते । तस्यानन्तगुणस्यैव निर्दोषत्वमिहोच्यते ।।

वेदान्तानाम् अखण्डार्थपरत्वान्न ते संसर्गस्य बोधकाः नतराङ्गुणानां नतमामनन्तानामित्याशङ्कते ।। नन्विति ।। एतदिति ।। प्रथमपरिच्छेदान्ते तस्मादित्यादिना यदुक्तं तदित्यर्थः ।। एकमिति ।। एकं पदार्थनिष्ठम् अपरमैक्यरूपवाक्यार्थ निष्ठमित्यन्वयः । पदार्थनिष्ठमपि द्विविधमित्याह यथा सत्यमिति ।। जगत्कर्तृत्वादियुक्तस्य पुण्यपापादिविदूरस्य च तत्पदार्थस्यानेवंविध‘त्वं’-पदार्थेनैक्यबोधनासम्भवपरिहाराय सत्यविज्ञानादिमात्र एवायं ‘तत्’पदार्थः । जगत्कर्तृत्वादिकं तु तस्य मायामयं मिथ्याभूतमित्येतदर्थप्रतिपादनपरं ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, ‘सोऽकामयत बहुस्यां, ‘तदात्मानं स्वयमकुरुत तस्मात्तत्सुकृतमुच्यत इति, यद्वै तत्सुकृतं रसो वै सः’ इत्यादिवाक्यैरेकवाक्यतापन्नं सत्यज्ञानादिवाक्यं ‘तत्’पदार्थं शोधयतीति कृत्वा ‘तत्’पदार्थपरमित्युच्यते । तथा ‘त्वं’पदार्थोऽपि ज्ञानादिमात्र एव । पुण्यपापादिकं तु तस्य मिथ्याभूतमित्येतदर्थप्रतिपादनपरं ‘स समानः सन्नुभौ लोकावनुसञ्चरति’‘अनन्वागतं पुण्येनानन्वागतं पापेन असङ्गो ह्ययं पुरुषः’ इत्यादिवाक्यैरेकवाक्यतापन्नं ‘योऽयं विज्ञानमयः पुरुषः’ इत्यादिवाक्यं त्वंपदार्थं शोधयतीति त्वंपदार्थपरमित्यर्थः । निर्भेदार्थनिष्ठत्वं किं भेदाभावप्रकारकधीजनकत्वं वा । वस्तुतो निर्भेदो योऽर्थः तद्बोधकत्वं वा । आद्ये दोषमाह– भेदाभावेति ।। स्वरूपेति ।। यथा शुक्तिकामुद्दिश्येदं रजतं बहुमूल्यमित्यादिवाक्यस्य रजताद्यपेतशुक्तिकापरत्वं तथा ‘एष सर्वेश्वर एष भूताधिपतिः’ इत्यादिवाक्यस्य वस्तुतो यदनेवंविधं ब्रह्म तत्परत्वमित्यर्थः ।

उभयत्र दोषमाह प्रकृष्टेति ।। तेषां धर्मिसमसत्ताकभेदवद्वस्तुपरत्वे वस्तुगत्या निर्भेदार्थ-निष्ठत्वाभावात् । भेदाभावप्रकारकज्ञानाजनकत्वात्तदर्थस्य चन्द्रादेर्भिन्नत्वाच्चेत्यर्थः ।। पयः पावकेति ।। अनेकप्रातिपदिकार्थपरत्वादस्यालक्ष्यत्वं, धर्मिभेदप्रतिपादकस्याखण्डार्थत्वायोगादित्यर्थः । न च सम्भूयार्थपरत्वमत्र  नास्त्येव प्रत्येकं त्वैकार्थपरत्वम् । लक्षणवाक्यत्वादिति नातिव्याप्तिरिति वाच्यम्् । तथापि ब्रह्मण्यसम्भवात् । अभिधया लक्षणया वा वेदान्तवाक्यानां निसम्बन्धे ब्रह्मणि पर्यवसानानु-पपत्तेः । नीलमिति ।। विशिष्टैकविशेष्यबोधकनीलोत्पलादिवाक्येत्यर्थः ।। तथापीति ।। घटः कलश इत्यादौ संसर्गाप्रतिपादके एकार्थपरेऽतिव्याप्तिवारणायापर्यायेत्युक्तम् । अप्राप्तयोः प्राप्तिः संयोग इत्यादि संयोगलक्षणेऽखण्डार्थकेऽव्याप्तिवारणाय संसर्गपदस्य पदार्थसंसर्गपरतया पदार्थसंसर्गागोचरपदार्थस्मृतिहेतु-पदसमुदायेऽतिव्याप्तिपरिहाराय ज्ञानजनकत्वमित्यनुक्त्वा प्रमाजनकत्वमित्युक्तम् । तत्रापि न यथार्थत्व-प्रवेशः । संसर्गागोचरज्ञानस्य यथार्थत्वनियमात् । निर्विकल्पकपक्षे इन्द्रिये तद्वारणाय ‘शब्दानाम्’ इति । यत्तु बहुवचनेन सम्भूयैकार्थप्रतिपादकत्वस्य लाभान्न धवखदिरपलाशा इत्यादावतिव्याप्तिरिति । तन्न । तत्र शक्त्या वा लक्षणया वोपस्थितसाहित्यसंसर्गस्यावश्यं प्रतीतेः । प्रकृतपदार्थप्रतियोगिकस्य पदार्थान्तर्भूतस्य संसर्गस्यानुभावके यौगिके पङ्कजादिपदेऽतिव्याप्तिपरिहाराय बहुवचनम् । एकेनापि पदेन प्रकृतिप्रत्ययार्थयोरन्विताभिधानमिति मते पर्यायशब्देष्वतिव्याप्तिवारणायापर्यायशब्दानामिति ।। तेषामिति ।। अखण्डार्थपदानामपि विशिष्टार्थकत्वात्तेषां प्रातिपदिकार्थमात्रवाचकत्वमसंभवीत्यतस्त-त्पर्यवसायित्वमित्युक्तम् उक्तं हीति ।। तत्वप्रदीपिकायामिति शेषः । पञ्चपादिकायामपि ‘पदानां परस्परानवच्छिन्नार्थानामनन्याकाङ्क्षाणामव्यतिरेकैकसप्रतिपादकार्थमात्रान्वय इति ।। सम्मतवदिति ।। को घट इति प्रश्नोत्तरभूतम् ‘अयं घटः’ इत्यादिवाक्यं सम्मतशब्दार्थः ।

ननु तत्रापि न मम साध्यसम्मतिरित्यत आह– न हीति ।। त्वमपि तत्रावश्यं साध्यमङ्गी-कर्तव्यम् । अन्यथा प्रश्नोत्तरयोर्वैय्यधिकरण्यं स्यादित्यर्थः ।। अकार्यकारणेति ।। कार्यकारण-भावापन्नगुणगुणिभावापन्नवस्तुमात्रप्रतिपादकत्वे सति इत्यर्थः । मृद्धटः गुणगुणिनोरभेदपक्षे नीलो घटः इत्यत्राव्यभिचाराय क्रमेण सत्यन्तविशेषणद्वयम्् । देवदत्तघट इत्यादावव्यभिचाराय विशेष्यम् । समाधत्ते ।। अत्रेति ।। संसर्गेति । संयोगलक्षणेत्यर्थः ।। संसर्गप्रतियोगित्वेनेति ।। संसर्गस्य तात्पर्यविषयत्वेन तदप्रतिपादने वाक्यप्रामाण्यायोगादित्यर्थः । ननु पदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम् । तथा चापर्यायशब्दानां पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वं लक्षणं पर्यवसितम् । तथा च न संयोगलक्षणेऽव्याप्तिः । तत्र संयोगस्य पदवृत्तिस्मारितत्वात् । संयोगसंसर्गस्य च तत्रापि मन्मतेऽप्रतिपादनात् । अत्र पदज्ञाप्येत्युक्तेऽर्थापत्त्या पदज्ञाप्यमनिष्टसाधनत्वमादाय विषं भुंक्ष्वेति वाक्येऽतिव्याप्तिः स्यात्तद्वारणाय वृत्तीति । तथाप्यन्विताभिधानवादिमते शक्त्या, अभिहितान्वयवादिमते च लक्षणया वाक्यार्थभूतसंसर्गस्य वृत्तिज्ञाप्यत्वात्सर्वत्र प्रमाणवाक्येऽतिव्याप्तिः स्यात्तद्वारणायोक्तं स्मारितेति । आद्यपक्षे कुब्जशक्त्यङ्गीकारात् । द्वितीयपक्षे चाज्ञाताया एव पदार्थनिष्ठलक्षणाया वृत्तित्वाङ्गीकारान्न संसर्गस्य पदस्मारितत्वं किन्त्वनुभाव्यत्वमित्यतिव्याप्तिपरिहार इति ।

अत्रोच्यते । ज्ञेयत्वादिवत्पदवृत्तिस्मारितत्वस्याप्यभिधेयत्वपर्यवसन्नस्य केवलान्वयित्वेन तदतिरिक्ताप्रसिद्धिः । स्ववृत्तिस्मारितेति विवक्षायां स्मारितातिरिक्तागोचरप्रमाजनकत्वं किमतिरिक्तगोचरप्रमाजनकभिन्नत्वं वा स्मारितमात्रगोचरप्रमाजनकत्वं वा । नाद्यः । घटः कर्मत्वमानयनं कृतिरित्यादावतिव्याप्तेः । स्वशब्देन गवादिपदं, तद्वृत्तिस्मारिता ये पदार्थास्तदतिरिक्तो यस्तत्संसर्गस्तद्गोचरप्रमाजनकं यद्गामानयेत्यादिवाक्यं तद्भिन्नत्वाद्धटः कर्मत्वमित्यादिवाक्यस्य । शब्दपदस्य प्रमाणशब्दपरत्वे त्वपर्यायेति व्यर्थम् । तव मते आकाङ्क्षादिराहित्येन पर्यायाणामप्रामाण्यात् । न द्वितीयः । सत्यादिवाक्यस्यानुवादकत्वापातेनासम्भवात् । त्वन्मते सत्यादिवाक्यानां विशिष्टशक्तत्वेन तस्यैव पदस्मारिततयाऽखण्डस्य स्मारितभिन्नत्वाच्च । तदुक्तं कल्पतरौ–

अवशिष्टमपर्यायानेकशब्दप्रकाशितम् । एवं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ।।

इति वक्ष्यमाणरीत्या घटशब्दवाच्ये कलशशब्दवाच्यत्व संसर्गपरत्वात्पर्यायशब्दानामतोऽ-पर्यायशब्दानामिति व्यर्थमेव । ननु शीतोष्णेत्यादिवाक्यं प्रत्येकमेकैकार्थपरत्वात्सङ्ग्राह्यमेवेत्यत आह– न चेति ।। द्वन्द्वावगतभेदवतोऽखण्डत्वायोगात् । तथा चैकं वेदान्तानिष्णाता अखण्डं प्रतिपेदिर इति स्वोक्तिव्याघातः । एकं निर्भेदं निर्विशेषं चेत्यर्थः । न चात्र शीतस्पर्शं पयः, उष्णस्पर्शः पावक इति वाक्यद्वयमेव । तत्र च न भेदावगम इति युक्तम् ।

चन्द्रे कलङ्कः सुजने दरिद्रता विकासलक्ष्मीः कुमुदेषु चञ्चला ।

मुखप्रसादः सधनेषु नित्यं यशोविधातुः कथयन्ति खण्डितम् ।

इत्येकस्मृत्युपारूढानां चन्द्रादीनां बहुत्वान्वयवदिहाप्यन्वयोपपत्तेः ।। यौगिकार्थेति ।। औप-गवादिवनाद्यर्थानां विशिष्टरूपत्वान्नाखण्डत्वम् । अतः श्यामादिवाक्यं नाखण्डार्थमतो न लक्ष्यम् । लक्षणवाक्यत्वात्तु त्वद्रीत्या पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकं चेति तत्रातिव्याप्तिरित्यर्थः ।। प्रकृष्टादिवाक्येऽपीति ।। प्रकृतपदार्थसंसर्गरूपयोग्यतादिमत एव वाक्यत्वाद्वाक्यत्वाखण्डार्थत्वयो-र्विरोधेनैकत्रासम्भव इत्यर्थः । अत इत्युक्तं विशदयति– असम्भवादिति ।। चन्द्रब्रह्मादिशब्दानाम-ज्ञातज्ञापकत्वाय संसर्गप्रतियोगित्वेनैव चन्द्रब्रह्मादिज्ञापकतया एकप्रातिपदिकार्थपर्यवसानाभावादित्यर्थः । ननु प्रातिपादिकार्थस्यैकत्वं नाम स्वान्तर्गणिकभेदशून्यत्वरूपं नैकमात्रव्यक्तिकत्वम् । किन्त्वेकधर्मा-वच्छेदेन वृत्तिविषयत्वम् । तच्च संसर्गप्रतियोगिन्यपि चन्द्रादावस्त्वेव । अत एवौपगवादिवाक्य-मप्यखण्डार्थमेवेति न तत्रातिव्याप्तिरिति । मैवम् । विशिष्टस्याप्यखण्डत्वाङ्गीकारेऽविशिष्टमखण्डमिति त्वन्मतहानेः । ब्रह्मतद्गुणानामभेदेन ब्रह्मत्वाद्येकधर्मावच्छेदेनोपस्थितैकप्रातिपदिकार्थे सगुणब्रह्मणि सत्यादिवाक्यपर्यवसानरूपाखण्डार्थत्वस्य ममानिष्टत्वाभावाच्च । अनन्ताखण्डशुद्धादिशब्दानाम् अपर्यायत्वाभावात्तेषूक्तलक्षणाव्याप्तिरित्यभिप्रेत्याह– प्रवृत्तीति ।।

इह अनन्तादिशब्देषु सत्यादिशब्दप्रवृत्तिनिमित्तापेक्षया भिन्नं स्वतात्पर्यधर्मिसमसत्ताकं प्रवृत्तिनिमित्तं नास्तीत्याह– तद्भेदस्त्विति ।। अनन्तादिशब्दानां प्रवृत्तिनिमित्तमेवासंभवि दूरे तद्भेद इत्यभि-सन्धायाह– अनन्तत्वादीनामिति ।। ब्रह्मातिरिक्ते अनन्तत्वस्य प्रातिभासिकत्वेनोक्तविधत्वा-भावादिति भावेनोक्तम्– अन्यत्रेति ।। अनन्तादीति ।। गङ्गादिपदलक्षितेऽगङ्गात्वसिद्धिवदनन्तादि- पदलक्षिते शुद्धेऽनन्तत्वाद्यसिद्धिः । अनन्तादिशब्दानां शुद्धे लक्षणानङ्गीकारेऽनन्तत्वसंसर्ग-स्यानन्तादिपदैः शुद्धे बोधनेन तेषु सुतरामव्याप्तिरिति चकारार्थः । तथा च लक्षणासम्भवात् प्रमाणमप्यसम्भव इत्युक्तम् । अलक्षिते प्रमाणस्योपन्यसितुमशक्यत्वादिति भावः ।

श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति । न्यायकल्पलतायां हि नाखण्डार्थत्वलक्षणम् ।।

।। इति अखण्डार्थत्वलक्षणभङ्गः  ।। १ ।।