भ्रमोपादानत्वेनाविद्याकल्पनं तु द्वितीलक्षणनिरासेनैव निरस्तम्
५८. अविद्यार्थापत्तिभङ्गः
न्यायामृतम्
भ्रमोपादानत्वेनाविद्याकल्पनं तु द्वितीलक्षणनिरासेनैव निरस्तम् । किं च शुक्तिरूप्यमुपादानसहितं चेत्, सकर्तृकं भवेत् । न चेशो जीवो वा तस्य कर्तेति युज्यते । नापि निर्विकारस्य ब्रह्मणः श्रौतजगदुपादानत्वनिर्वाहाय तत्कल्पनम्, सत्यस्य त्रिगुणस्य प्रधानस्यैव तदुपादानत्वेन श्रुत्यादिसिद्धत्वाद्, अविद्याया अपि अनादित्वेन निरवयवतया ब्रह्मवदेव विकारायोगाच्च । किं च ब्रह्मण उपादानत्वेऽपि नाविद्या कल्प्या, त्वद्रीत्या ब्रह्मण एव तात्त्विका-विकाराविरुद्धेनातात्त्विकविकारेण शुक्त्यादिवद् विवर्ताधिष्ठानत्वरूपोपादानत्वो-पपत्तेः । अन्यथा अविद्यादेराश्रयसापेक्षस्य द्वितीयस्य तत्त्वतोऽद्वितीयाद् ब्रह्मणोऽन्यदधिकरणं कल्प्यं स्यात् ।
न च परिणामित्वेनाविद्याकल्पनम्, असत्यस्य सत्यरूपान्तरापत्तिरूप-परिणाम्यनपेक्षत्वात् । न च कार्यापेक्षितस्वसत्तासमानसत्ताकोपादानत्वेन तत्कल्पनम्, विवर्ताधिष्ठानरूपोपादानेन निवृत्तोपादानाकांक्षस्यापि घटादि-दृष्टान्तेनोक्तोपादानकल्पने घटादेः कार्यस्य स्वासमानसत्ताकोपादानानपेक्षत्वेना-समानसत्ताकस्य ब्रह्मणो वियदादावनुपादानत्वापातात् । रूप्ये स्वसमान-सत्ताकनिमित्तस्यापि कल्पनापाताच्च । न च जीवस्यानवच्छिन्नब्रह्मानन्दा-प्रकाशाय तत्कल्पना, भेदेनैव तदुपपत्तेः । अनवच्छिन्नानन्दस्यापि प्रकाशमान-प्रत्यङ्मात्रत्वेनाप्रकाशानुपपत्तेश्च ।।
अद्वैतसिद्धिः
जीवस्यानवच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिश्च तत्र मानम् । न च जीवस्य ब्रह्म-भेदेनैव तादृगप्रकाशोपपत्तिः, जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वात् । न चानवच्छिन्ना-नन्दस्यापि प्रकाशमानप्रत्यङ्मात्रत्वेनाप्रकाशमानत्वानुपपत्तिः, शरीरप्रतियोगिकस्यात्मनि स्वरूपभेदस्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाशमानत्वोपपत्तेरुक्तत्वात् ।
भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम् । न चान्तःकरणमुपादानम्, अन्तःकरणस्य ज्ञानजनने प्रमाणव्यापारसापेक्षत्वेन प्रमाणाविषये शुक्तिरूप्यादौ ज्ञाना-जनकत्वात्, सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च । न च ब्रह्मैवोपादानम्, तस्या-परिणामित्वात् । न च विवर्ताधिष्ठानत्वेन शुक्त्यादेरिवोपादानत्वम्, अविद्यामन्तरेणा-तात्त्विकान्यथाभावलक्षणस्य विवर्तस्यैवासम्भवात्, शुक्त्यादेरधिष्ठानावच्छेदकतया विवर्ता-धिष्ठानत्वाभावात् । न च– उपादानापेक्षस्य विवर्तस्य तात्त्विकातिरिक्तोपादानकल्पनवद-विद्यादेराश्रयसापेक्षस्य ब्रह्मातिरिक्तमतात्त्विकमधिकरणं कल्प्यं स्यादिति– वाच्यम् । ब्रह्मण एव विकारित्वे अनित्यत्वादिप्रसक्तिवद् ब्रह्मण एवाधिष्ठानत्वे बाधकाभावेन द्वितीय-स्याधिकरणस्याकल्पनात् । न च– असत्यस्य सत्यरूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्पनमिति– वाच्यम् । परिणामिसत्तासमानसत्ताकत्वनियमेना-सत्यत्वस्यैवाभावात् । न च– घटादौ स्वसमानसत्ताकोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशो-पादानकल्पने घटादेः स्वाधिकसत्ताकोपादानानपेक्षत्ववद् वियादादेरपि ब्रह्मानुपादानकत्वं स्यादिति– वाच्यम् । ‘तदभिध्यानादेव तु तल्लिङ्गात् स’ इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादानकतया तादृशोपादानानपेक्षत्वासिद्धेः । अत एव– रूप्येऽपि स्वसमान-सत्ताकस्य निमित्तस्यापि कल्पनापत्तिरिति– निरस्तम्, निमित्तमात्रे वा इयं कल्पना ? विशेषे वा ? नाद्यः, अधिष्ठानरूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये तूत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेः । न च त्रिगुणात्मकं प्रधानमुपादानमिति वाच्यम्, तस्या-सत्यत्वे अविद्यानतिरेकात् । सत्यत्वेऽपि सावयवम् ? निरवयवं वा ? आद्ये अनादित्व-भङ्गः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न चाविद्यापक्षेऽपि समः पर्यनुयोगः, तस्याः काल्पनिकत्वेन पर्यनुयोगायोगात् । तस्मादर्थापत्तिरविद्यायां प्रमाणम् । इत्यद्वैतसिद्धाव-विद्यायामर्थापत्तिः ।
न्यायामृततरङ्गिणी
भ्रमशब्देन ज्ञानं वा अर्थो वा । नाद्य इत्याह ।। द्वितीयेति ।। अन्तःकरणस्यैव तदुपादानत्वसम्भवादिति भावः । न चान्तःकरणस्य प्रमाणसापेक्षस्यैव ज्ञानजनक-त्वेन प्रमाणाविषये शुक्तिरूप्यादौ न ज्ञानजनकत्वमिति वाच्यम् । शुक्तिविषय-प्रमाणसहितेनान्तःकरणेन दोषवशाद्रूप्यविशिष्टशुक्तिगोचरपरिणामविशेषजननसम्भवात् । द्वितीयं निराकरोति ।। किञ्चेति ।। सोपादानत्वव्यापकसकर्तृकत्वस्याभावान्न रूप्यं सोपादानमित्यर्थः ।। सत्यस्येति ।। ननु प्रधानस्य सावयवत्वेऽनादित्वभङ्गः निरवयवत्वे परिणामायोग इत्यत आह ।। अविद्याया इति ।। अविद्यायाम-विद्यात्वेनैव सर्वानुपपत्तिपरिहारे सत्ये प्रधाने ईश्वरशक्त्या तदस्त्वित्यर्थः ।। अतात्विकेति ।। न चाविद्यामन्तरेणातात्विकान्यथाभावलक्षणविवर्त एव न सम्भवतीति वाच्यम् । अविद्यान्तरं विनैवातात्विकाविद्यावदविद्यां विनैवातात्विक-वियदादिविवर्तसम्भवात् ।। अन्यथेति ।। उपादानापेक्षस्य वियदादिरूपविवृतस्य तात्विकब्रह्मातिरिक्तोपादानकल्पनायामित्यर्थः ।। अन्यदिति ।। सद्वितीयमतात्विक-मित्यर्थः । ननु वियदादिर्ब्रह्मणो विवर्तोऽविद्यायाः परिणामः, तथा च परिणामस्य परिणामिनं विनाऽयोगादविद्याकल्पनमित्यत आह ।। न चेति ।। सत्यभूत-परिणामस्यैव स्वोचितपरिणाम्यपेक्षा न त्वसत्यस्य तस्येत्याह ।। असत्यस्येति ।। तत्वतोऽसंसारिणः संसारित्ववत् तत्वतोऽपरिणामिनोऽपि मिथ्याभूतपरिणामित्वे बाधकाभावाद्ब्रह्मण एव परिणामित्वोपपत्तिरित्यपि बोध्यम् । ननु घटादौ स्वसमसत्ताकोपादानदर्शनाद्रूप्यादेरपि तथाविधोपादनमविद्या कल्प्यत इत्यत आह ।। न च कार्येति ।। कार्यस्येति ।। रूप्यस्य घटादेश्चेत्यर्थः ।। अनपेक्षत्वेनेति ।। दृष्टत्वादिति शेषः । न च तदभिध्यानादेव तु तल्लिङ्गात् स इत्यनेन न्यायेन घटा-देरपि मृदवस्थचैतन्योपादानकतया तादृशोपादानापेक्षत्वमसिद्धमिति वाच्यम् । घटादौ चैतन्योपादानकत्वे मानाभावात् । रूप्यस्य घटादिदृष्टान्तेन स्वसमान-सत्ताकोपादानकल्पनायां घटादेरिव तत्र स्वसमानसत्ताकनिमित्तकल्पनाप्यापद्यत इत्याह ।। रूप्य इति ।। रूप्यस्य स्वसमानसत्ताकनिमित्तकत्वं न स्यात् तथा चाधिष्ठानस्य सादृश्यादेश्च निमित्तत्वं न स्यादित्यर्थः । तेन उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तिरिति निरस्तम् ।। भेदेनेति ।। तद्दूषणाभासस्य निरसिष्यमाणत्वादिति भावः । न च ममेव तव मते ब्रह्मणि विशेषोऽस्तीत्याह मात्रशब्देन ।
न्यायामृतकण्टकोद्धारः
।। भ्रमोपादानत्वेनेति ।। अन्तःकरणस्यात्मनो वा उपादानत्वसम्भवादिति भावः । न चान्तःकरणस्य ज्ञानजनने प्रमाणसापेक्षत्वनियमेन प्रमाणाविषये शुक्तिरूप्यादौ न ज्ञानजनकत्वमिति वाच्यम् । अन्तःकरणस्य लाघवेन ज्ञापकसापेक्षत्वेनैव ज्ञानजनकत्व-सम्भवे प्रमाणसापेक्षत्वकल्पने गौरवात् । भ्रमेऽन्तःकरणानपेक्षणे व्यासक्तस्यापि भ्रमापत्तेश्च । न चान्तःकरणस्य सादित्वात् नानादिभ्रमपरम्परोपादानत्वमिति वाच्यम् । अन्तःकरणसादित्वस्याज्ञानसिद्ध्यधीनत्वेनान्योन्याश्रयात् । धर्मिकल्पनात् इति न्यायेन अन्तःकरणस्यैवानादित्वकल्पनौचित्याच्च । अन्तःकरणस्य सादित्वे नित्यं मनोऽनादि-त्वादित्यादिसयुक्तिकश्रुतिविरोधश्च । भ्रमपरम्पराया अनादित्वासिद्धेश्च । ननु भ्रमो द्विविधः अर्थज्ञानात्मकः । तथा च ज्ञानं प्रत्यन्तःकरणस्योपादानत्वेऽपि शुक्तिरूप्यो-पादानत्वेनाज्ञानं स्वीकर्तव्यमिति चेन्न । तस्य निरुपादानत्वात् सोपादानत्वव्यापक-सकर्तृकत्वाभावात् इत्याशयेनाह ।। शुक्तिरूप्यमिति ।। उपादानगोचरचिकीर्षादेरभावात् न जीवस्य कर्तृत्वम् । ईश्वरस्य तु तत्प्रतीत्यभावादेव । अन्यथा भ्रान्तत्वापत्तेः । ईश्वरकर्तृकत्वे तस्य व्यावहारिकतापत्तेश्चेति भावः ।। सत्यस्येति ।। ननु प्रधानस्य सावयवत्वेऽनादित्वायोगः । निरवयवत्वे परिणामित्वायोगो ब्रह्मवदिति चेन्न । निरवयवत्वेऽपि सांशत्वेन परिणामित्वोपपत्तेः । न चावयवातिरिक्ता अंशा एव न सन्ति प्रमाणाभावादिति वाच्यम् । तेषामिह पक्षी नेह पक्षीत्यादि प्रतीत्यन्यथानुपपत्त्यादिनाऽ-न्यत्र साधितत्वात् ।। अविद्याया इति ।। नन्वविद्यायाः काल्पनिकत्वेन तत्रानुपपत्तिर्न दूषणमिति चेत् तर्हि तस्या ब्रह्मरूपत्वं जगदावरकत्वमित्याद्यपि कल्प्यं स्यात् । तत्रानु-पपत्तिपरिहारे अविद्यानिरवयवत्वेऽपि तत्परिहार आवश्यक इति भावः ।
।। किञ्चेति ।। न चाविद्यामन्तरेणातात्विकान्यथाभावलक्षणस्य विवर्तस्यासम्भव इति वाच्यम् । तस्य दोषेणैवोपपत्तेः । अन्यथाभावोऽन्यथाज्ञानं चेत् दोषान्तः-करणादिनैवोपपन्नम् । अर्थस्य त्वसत्त्वादेव न कारणान्तरापेक्षेति भावः ।। अन्यथेति ।। न च विकारित्वेऽनित्यत्वादिवत् अविद्याश्रयत्वे बाधकाभावात् नाविद्याया अधिकरणान्तरं कल्प्यमिति वाच्यम् । अतात्त्विकविकारेण वास्तवानित्यत्वापादनासम्भवात्, कल्पिता-नित्यत्वेऽप्यविरोधात् अज्ञानाश्रयत्वेऽपि सार्वज्ञाद्यभाव ‘निरनिष्ट’ इत्यादिश्रुतिविरोध-रूपबाधकसद्भावाच्च ।। असत्यस्येति ।। न च परिणामस्य परिणामिसमसत्त्वनियमेना-सत्यत्वमसिद्धमिति वाच्यम् । मिथ्यात्वेन परिणामस्यैवासम्भवात् । मिथ्यात्वा-देवासत्यत्वनियमाच्च । सत्यत्वपक्ष एवोक्तनियमाच्च ।। रूप्य इति ।। न च निमित्त-मात्र उक्तनियमकल्पनायां शुक्तिरूप्य एव व्यभिचारो निमित्तविशेषे तत्कल्पनायां इष्टापत्तिः । पूर्वभ्रमस्योत्तरोत्तरभ्रमकारणत्वादिति वाच्यम् । निमित्तमात्रे एतत्कल्पनाया आपाद्यत्वात् । तथा च अधिष्ठानरूपब्रह्मणोऽपि कार्यसमसत्त्वं स्यात् । शुक्ति-रूप्याधिष्ठानमपि पक्षसममतो न तत्र व्यभिचारापादनमित्याशयात् ।। भेदेनैवेति ।। तस्या उपपादयिष्यमाणत्वात् इति भावः ।। अनवच्छिन्नेति ।। न च शरीर-प्रतियोगिकस्यात्मभेदस्यात्माकारेण प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाश-मानत्वोपपत्तिरिति वाच्यम् । निर्विशेषे निराकारे चात्मनि रूपद्वयस्य वाऽकारद्वयस्य वाऽयोगात् । आकारस्य मिथ्यात्वेनाज्ञानस्य तदावरकत्वायोगाच्च । प्राप्ताप्राप्त-विषयत्वेनाकारस्यैवावरणविषयत्वात् । तस्मान्नाविद्यायामर्थापत्तिर्मानम् ।
न्यायामृतप्रकाशः
यदुक्तं मिथ्याभूतस्य भ्रमस्य कादाचित्कत्वेन सोपादानत्वात्तदनुगुणं मिथ्याभूतमुपादान-मङ्गीकार्यं सैवाविद्येति भ्रमोपादानत्वान्यथानुपपत्त्याऽविद्यासिद्धिरिति भावरूपाज्ञानसद्भावेऽर्था-पत्तिः प्रमाणमिति तद्दूषयति ।। भ्रमेति ।। अत्र भ्रमपदेन ज्ञानमर्थो वा । नाद्य इत्याह ।। द्वितीयेति ।। अन्तःकरणस्यैव तदुपादानत्वसम्भवेनार्थापत्तेरन्यथोपपत्तिरिति भावः । द्वितीयं निराकरोति ।। किञ्चेति ।। भवेदिति ।। घटादौ दृष्टत्वादित्यर्थः । सोपादानत्वस्य सकर्तृकत्वव्याप्यत्वात्तदङ्गीकारे सकर्तृकत्वमप्यङ्गीकार्यं स्यात् ॐमिति चेत्तत्र प्रष्टव्यं स कर्ता ईश्वरो वा जीवो वा । नाद्यः शुक्तिरूप्यं कालत्रयेऽपि नास्तीति जानत ईश्वरस्य तत्स्रष्टृत्वायोगात् । न द्वितीयः अनुभवविरुद्धत्वादित्याशयेनाह ।। न चेश इति ।। भावरूपाज्ञानसाधकार्थापत्त्यन्तरमाशङ्क्य निराकरोति ।। नापीति ।। श्रौतेति ।। ‘यतो वा इमानी’त्यत्र पञ्चम्या अपादानत्वमर्थः ‘अपादाने पञ्चमी’ति श्रवणात् उपादानत्वमेवास्या-पादानत्वमिष्यते एवं श्रुतमुपादानत्वं निरवयवतया निर्विकारस्य न युक्तमिति तन्निर्वाहाया-विद्या कल्प्यते तत्सम्बन्धाच्च युक्तमुपादानत्वमित्यर्थः । जगदुपादानत्वान्यथानुपपत्तेरन्यथो-पपत्तिमाह ।। सत्यस्येति ।। तदिति ।। जगदित्यर्थः । तथा च ब्रह्मण उपादानत्वमेवा-प्रामाणिकमित्याशयः । यत इति श्रुतपञ्चम्यर्थस्तु–
‘अपादानत्वमेवास्य यद्युपादानतेष्यते ।
अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भव’
इत्यादिनोत्तरप्रस्थानोक्तरीत्या द्रष्टव्यः । ननु प्रधानस्य सावयवत्वेऽनादित्वभङ्गः निरवयवत्वे परिणामायोग इत्यत आह ।। अविद्याया इति ।। यद्धि सावयवं तद्विकृतं भवति न त्वखण्डं अविद्या च ब्रह्मवदेव निरंशाऽतस्तस्यां कल्पितायामपि न ब्रह्मणो जगत्कारणत्वनिर्वाहः उभयोरप्यखण्डत्वादिति भावः । ब्रह्मण एव विवर्त्तेत्याद्यन्वयः ।
अयमर्थः । ब्रह्मण उपादानत्वेऽपि नाविद्या कल्प्या । न च निर्विकारस्य तदयोगः अतात्विकविकाराङ्गीकारात् तस्य च तात्विकाऽविकाराविरोधित्वात् । अतात्विको विकारः कीदृश इति चेत् शुक्त्यादीनां रजतं प्रतीव विवर्ताधिष्ठानत्वमेवेति नाविद्या तदर्थं कल्प्येति ।। अन्यथेति ।। अतात्विकस्यापि तात्विकेन विरोधमङ्गीकृत्य ब्रह्मणः तात्विकाविकारवत एव उपादानत्वायोगेन तदर्थमुपादानान्तरभूताविद्याकल्पन इत्यर्थः ।। अविद्यादेरिति ।। आश्रयविषयसापेक्षत्वेन सद्वितीयत्वमविद्यास्वभावः ब्रह्मणश्च द्वितीयासहिष्णुत्वरूपमद्वितीयत्वं स्वभावः । एवं च सद्वितीयत्वस्वभावाविद्याधिकरणत्वं नाद्वितीयस्य ब्रह्मणो युक्तं तथात्वे सद्वितीयत्वस्वभावाविद्यास्वाधिकरणब्रह्माद्वितीयत्वस्वभावं व्याहन्यात् । स्वेनैव सद्वितीय-त्वात् । अतोऽविद्याया ब्रह्मातिरिक्तमेवाधिकरणं कल्प्यं स्यात् । तथा च तत्र त्वया वक्तव्यं ब्रह्मणोऽद्वितीयत्वं तात्विकं अविद्यायाः सद्वितीयत्वमतात्विकं एवं च तात्विकस्यातात्विकेन विरोधाभावान्नाधिकरणान्तरं कल्प्यत इति । एवं प्रकृतेऽपि विरोधाभावान्न कारणान्तरं कल्प्यमित्यर्थः । अन्ये तु अन्यथेत्यस्य उपादानापेक्षस्य तात्विक्रबह्मातिरिक्तोपादान-कल्पनायामित्यर्थः । अन्यत् सद्वितीयं अतात्विकमित्यर्थ इत्याहुः।
ननु वियदादिर्ब्रह्मणो विवर्तोऽपि परिणामभूतः परिणामस्य परिणामि विनाऽयोगात् ब्रह्मणश्चापरिणामितयाऽविद्याकल्पनमित्यत आह ।। न चेति ।। सत्येति ।। सत्य-रूपान्तरापत्तिरूपश्चासौ परिणामश्च सोऽस्यास्तीति परिणामी तदनपेक्षत्वादित्यर्थः । अविद्यायाः परिणामित्वं तदा स्यात् यदि सत्यजगदाख्यरूपान्तरापत्तिरूपः परिणामः स्यात् । न चैवं जगतः सत्यत्वाभावादित्यभिप्रेत्यासत्यस्येत्युक्तं सत्यरूपांतरापत्तिरूप-परिणाम्यनपेक्षत्वादसत्यस्येत्यन्वयः । सत्यभूतपरिणामस्यैव स्वोचितपरिणाम्यपेक्षा न त्वसत्यस्य । अतो न परिणामित्वेनाविद्याकल्पनमिति भावः ।। कार्येति ।। कार्यस्य घटादेर्व्यावहारिकस्य स्वसमानसत्ताकोपादानत्वदर्शनात् रूप्यादेरपि मिथ्यात्वेन समानसत्ताकोपादानापेक्षत्वात्तदनुगुणं मिथ्याभूतमुपादानं अविद्याख्यं कल्पनीयमित्यर्थः । रूप्यादेः किमुपादानमिति शङ्कायां विवर्त्ताधिष्ठानतया ब्रह्मैवोपादानमित्युक्त्या आकाङ्क्षाया निवृत्तत्वात् । न च घटादेः स्वसमानसत्ताकोपादानकत्वदर्शनात् रूप्यादावपि स्वसमान-सत्ताकमुपादानं कल्पनीयं तच्चाविद्येति वाच्यम् । तर्हि घटादेः स्वसमानसत्ताकोपादा-नापेक्षत्वदर्शनात् वियदादिकार्यासमसत्ताकस्य ब्रह्मणो वियदादावुपादानत्वं त्वयोच्यमानं न स्यादित्यतिप्रसङ्ग इत्यर्थः । यदि घटादिदृष्टान्तेन रूप्यादेः स्वसमानसत्ताकोपादानकत्वं कल्प्यते तर्हि घटादेः स्वसमानसत्ताकनिमित्तकारणकत्वदर्शनेन रूप्यादेरपि स्वसमानसत्ताक-निमित्तकारणत्वापत्त्या प्रातिभासिकं किञ्चिन्निमित्तकारणमपि कल्प्यं स्यादित्याह ।। रूप्य इति ।।
अर्थापत्त्यन्तरमाशङ्क्य निराकरोति ।। न चेति ।। जीवस्यापरिच्छिन्नानन्दात्मक-ब्रह्माभिन्नत्वेन सर्वदाऽनन्दप्रकाशः स्यात् । न चासावस्ति अतस्तदप्रकाशाय तत्प्रतिबन्धक-तयाऽविद्या कल्प्यत इत्यर्थः । कुतो न चेत्यत आह ।। भेदेनैवेति ।। स्यादियं कल्पनाऽपि यद्यभेद एव जीवब्रह्मणोः स्यात् । न चैवं, किन्तु भेदस्यैव सत्वेना-परिच्छिन्नानन्दब्रह्मात्मकत्वस्यैवाभावेन तत्प्रकाशप्रसक्तेरेवाभावात् । तथा च तदप्रकाशाय तत्कल्पना न युक्तेति भावः । अस्तु वाऽनवच्छिन्नब्रह्मानन्दात्मकत्वं तथापि तदप्रकाश एव न युक्तः अपरिच्छिन्नानन्दस्यापि सर्वदाप्रकाशमानप्रत्यक्चैतन्यमात्रत्वेनाप्रकाशानुपपत्ते-स्तदर्थमविद्याकल्पनमप्रामाणिकमित्याह ।। अनवच्छिन्नेति ।।
न्यायकल्पलता
ननु तथाऽपि भ्रमान्यथानुपपत्त्या तदुपादानत्वेनाज्ञानं सेस्त्यतीत्याशङ्क्य निराकरोति ।। भ्रमोपादानत्वेनेति ।। भ्रमशब्देन ज्ञानं वाऽर्थो वा । नाद्य इत्याह ।। द्वितीयेति ।। अन्तःकरणस्यैव तदुपादानत्वसम्भवादिति भावः । नन्वन्तःकरणस्य प्रमाणापेक्षस्यैव ज्ञान-जनकत्वेन प्रमाणाविषये शुक्तिरूप्यादौ कथं ज्ञानजनकत्वमिति चेन्न । शुक्तिविषयप्रमाण-सहितेनान्तःकरणेन दोषवशाद्रूप्यविशिष्टशुक्तिविषयकवृत्तिलक्षणज्ञानाख्यपरिणामस्य जनन-सम्भवात् । द्वितीयं निराकरोति ।। किञ्चेति ।। सोपादानत्वव्यापकसकर्तृकत्वस्याभावान्न रूप्यं सोपादानमित्यर्थः ।। सत्यस्येति ।। ननु प्रधानस्य सावयवत्वेऽनादित्वासम्भवः । निरवयवत्वे परिणामायोग इत्यत आह ।। अविद्याया अपीति ।। अविद्यायामविद्यात्वेनैव सर्वानुपपत्तिपरिहारे सत्ये प्रधानेऽपीश्वरशक्त्या तदुपपत्तिः । यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हीति स्मृतेरिति भावः ।। अतात्विकेति ।। न चाविद्यामन्तरेणातात्विका-न्यथाभावलक्षणविवर्त एव न सम्भवतीति वाच्यम् । अविद्यान्तरं विनैवातात्विकाविद्यावद-विद्यां विनैवातात्विकवियदादिविवर्तसम्भवात् ।। अन्यथेति ।। उपादानापेक्षस्य वियदादि-रूपविवर्तस्य तात्त्विकब्रह्मातिरिक्तोपादानकल्पनायामित्यर्थः ।। अन्यदिति ।। सद्वितीयम-तात्विकमित्यर्थः ।
ननु वियदादिर्ब्रह्मणो विवर्तोऽविद्यायाः परिणामः तथा च परिणामस्य परिणामिनं विनाऽयोगादविद्याकल्पनमित्याशङ्क्य निराकरोति ।। न चेति ।। सत्यभूतपरिणामस्यैव स्वोचितपरिणाम्यपेक्षा न त्वसत्यस्य तस्येत्यभिप्रायेण दूषयति ।। असत्यस्येति ।। तत्त्वतोऽसंसारिणः संसारित्ववत्तत्वतोऽपरिणामिनोऽपि मिथ्याभूतपरिणामित्वे बाधकाभावा-द्ब्रह्मण एव परिणामित्वोपपत्तिरित्यपि बोध्यम् । ननु घटादौ स्वसमसत्ताकोपादानदर्शना-द्रूप्यादेरपि तथाविधोपादानमविद्या कल्प्यत इत्याशङ्क्य निराकरोति ।। न च कार्येति ।। कार्यस्येति ।। रूप्यस्य घटादेश्चेत्यर्थः ।। अनपेक्षत्वेनेति ।। दृष्टत्वादिति शेषः । ननु तदभिध्यानादेव तु तल्लिङ्गात्स इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादानतया तादृशो-पादानानपेक्षत्वमसिद्धमिति चेन्न । घटादौ चैतन्योपादानकत्वे मानाभावात् । रूप्यस्य घटादिदृष्टान्तेन स्वसमानसत्ताकोपादानकल्पनायां घटादेरिव तत्र स्वसमानसताकनिमित्त-कल्पनाऽप्यापद्यत इत्याह ।। रूप्य इति ।। रूप्यस्य स्वसमसत्ताकनिमित्तकत्वं न स्यात् । तथा चाधिष्ठानस्य सादृश्यादेश्चानिमित्तत्त्वं न स्यादित्यर्थः । तेन उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तिरिति निरस्तम् ।। भेदेनैवेति ।। अभेदासहिष्णुभेदेनेत्यर्थः । तद्दूषणा-भासस्य निरसिष्यमाणत्वादिति भावः । ननु रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि अनवच्छिन्नानन्दाकारेण अविद्यावशादप्रकाशमानत्वमित्याशङ्कां व्यदसितुं मात्रशब्दः । न च तव मते ब्रह्मणि विशेषोऽस्ति । येन केनचिद्रूपेण प्रकाशमानत्वं रूपान्तरेणाप्रकाशमानत्वं स्यादिति भावः ।
ननु त्रिगुणात्मकं प्रधानमुपादानमिति भवता वाच्यम् । तस्यासत्यत्वेऽविद्यानतिरेकात् । सत्यत्वे सावयवं निरवयवं वा । आद्येऽनादित्वभङ्गः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न चाविद्यापक्षेऽपि समः पर्यनुयोगः । तस्याः काल्पनिकत्वेन पर्यनुयोगायोगादिति । मैवम् । प्रधानस्य ब्रह्मवत्स्वापृथक्सिद्धावयवयोगित्वरूपस्य सावयवत्वस्य सत्वात् । समर्थ-यिष्यते चैतत् । अविद्यायाः काल्पनिकत्वेऽनादित्वानुपपत्तेः । अन्योन्याश्रयादिदोषाणां दुरुद्धरत्वाच्चेत्यलं क्षोदीयस्यतिपीडया ।
न्यायामृतसौगन्ध्यम्
अथ जीवस्यानवच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिस्तत्र मानमिति चेन्न । प्रत्यक्षानुमानश्रुतिसिद्धब्रह्मभिन्नजीवस्यैव तादृगप्रकाशोपपत्तेः । अनवच्छिन्नानन्दप्रकाशस्यापि प्रत्यङ्मात्रत्वेनाप्रकाशमानत्वानुपपत्तेश्च । न च शरीरप्रतियोगिकस्यात्मनि स्वरूपभेद-स्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववत् रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाशोपपत्तिरिति वाच्यम् । निर्विशेषरूपभेदाभावात् अज्ञानकल्पितरूपस्य च अज्ञानावरणानर्हत्वात् ।
न च भ्रमस्य सोपादानत्वान्यथानुपपत्तिस्तत्र मानम् । अन्तःकरणस्यैव भ्रमोपादानत्वात् भ्रमविषयस्यासत्वेनानुपादेयत्वात् । न चान्तःकरणस्य ज्ञानजनने प्रमाणसापेक्षत्वेन प्रमाणा-विषयशुक्तिरूप्यादौ कथं तस्य ज्ञानजनकत्वम् (इति वाच्यम्) । दोषसहकृतप्रमाणस्य भ्रमजनकस्य तत्रापि सत्वात् । न चानादिभ्रमे कथं तदुपादानमिति वाच्यम् । अनादि-भ्रमस्यैवाभावात् । किञ्च न परिणामित्वेनाप्यविद्याकल्पनं युक्तम् । असत्यस्य सत्य-रूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षणात् । न च परिणामस्य परिणामिसमानसत्ताकत्वेना-विद्याकल्पनम् । त्रिगुणात्मकप्रकृतेरेव तथोपादानत्वात् । न च तस्य मिथ्यात्वेनाविद्या-नतिरेकः, सत्यत्वे सावयवत्वे अनादित्वभङ्ग इति वाच्यम् । सावयवत्वं हि नावयवजन्यत्वं किन्तु सदेशत्वं तच्च नित्यदिगादाविव नानित्यत्वे बीजम् । किञ्च घटादौ स्वसमानसत्ता-कोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशोपादानकल्पने तस्य स्वाधिकसत्ताकोपादानकत्वा-नपेक्षत्ववत् वियदादेरपि त्वदभिमतब्रह्मोपादानकत्वं न स्यात् । शुक्तिरूप्येऽपि स्वसमानसत्ताकस्य कर्त्रादिनिमित्तकारणस्यापत्तिः ।
एतेन निमित्तमात्रे वा इयं कल्पना विशेषे वा । नाद्यः । अधिष्ठानरूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये तूत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेरिति निरस्तम् । स्वापि्नकशुक्तिरूप्यभ्रमे अधिष्ठानस्याधिकसत्ताकत्वाभावात् । द्वितीयमप्यशुद्धं दोषेन्द्रियादेस्तथात्वापादानात् ।
यत्तु अतात्विकत्वस्य तत्वप्रमानिवर्त्यत्वव्याप्यत्वेन रूप्यादौ ग्रहादुक्तनिवर्त्यत्वस्य च प्रपञ्चे साक्षात्कल्पने गौरवस्योक्तत्वेन तत्त्वधीनाश्यतया श्रुत्यनुभवादिसिद्धस्य ज्ञानस्य नाशद्वारैव (अज्ञाननाशद्वारैव) तत्कल्पनीयम् । तथा चाज्ञानस्यानुपादानत्वे तन्नाशस्य प्रपञ्चनाशे हेतुत्वं कल्प्यम्, उपादानत्वे तु तत्क्लृप्तम्, अत उपादानत्वमावश्यकम् । किञ्च ब्रह्मणो मिथ्याभूतोऽन्यथाभावो विवर्तः, न च ब्रह्मान्यथा भवतीति तद्गताविद्याया अन्यथा-भवनं वाच्यं इति । तन्न । शुक्तिरूप्यादौ तत्वज्ञाननिवर्त्यत्वस्यासम्प्रतिपन्नत्वात् । प्रपञ्चेऽपि तन्निवर्त्यत्वे मानाभावात् । भावे वा साक्षादेवास्तु प्रामाणिकगौरवस्यादोषत्वात् । अन्यथाभवनं हि अन्यथा भानमेव वाच्यम् । तच्च ब्रह्मणोऽप्यस्ति । अन्यथा अविद्याया अपि मिथ्यात्वेनान्यथाभवनासम्भवात् । कार्यकारणयोरभेदाच्च । न च विकारिणमुपादानं विना कार्यस्यादृष्टत्वात् विकारिकारणमावश्यकमिति वाच्यम् । सत्यायाः प्रकृतेरेव स्वीकर्तुमुचितत्वात् ।
।। इति अविद्यार्थापत्तिभङ्गविवरणम् ।।