नन्वेतदयुक्तं विवरणे श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्

तृतीयः परिच्छेदः

१. मनननिदिध्यासनयोः विवरणोक्तश्रवणाङ्गत्वभङ्गः

न्यायामृतम्

नन्वेतदयुक्तं विवरणे श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रपद्येते इति फलतोपकार्यङ्गे इत्युक्तत्वादिति चेन्न ।यतो

विचारः करणं नैव बोधे शब्दप्रमाणजे ।

न चायं सन्निपत्याङ्गं शब्दस्य करणात्मनः ।।

करणान्तर्गतो येन विचारो हन्तिवद्भवेत् ।

सन्निपात्यपि नैवासौ शेषी मत्यादिकं प्रति ।।

अन्यथा हि भवेद्धन्तेः प्रयाजान्प्रति शेषिता ।

हीषादेश्च यथा भिन्नफले सौभरशेषिता ।।

श्रवणादेस्तथा भिन्नफले स्याच्छब्दशेषिता ।

तस्मान्न युक्ता मत्यादेः श्रवणं प्रति शेषिता ।।

तथा हि– न तावच्छ्रवणरूपो विचारः शाब्दज्ञाने करणं वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे शब्दज्ञानरूपे वा करणे इति कर्तव्यमात्रत्वात् । एतेन ‘अनुमितौ लिङ्गज्ञानवत् शाब्दज्ञाने तात्पर्यविशिष्टशब्दज्ञानं करणम्’ इति विद्यासागरोक्तं निरस्तम् । आकाङ्क्षादियुक्तशब्दज्ञानस्यैव करणत्व-सम्भवेऽपि विवरणे अन्योन्याश्रयात् शाब्दप्रमाकरणतां निषिध्य तात्पर्यभ्रमरूपप्रतिबन्ध निरासोपक्षीणतयोक्तस्य तात्पर्यज्ञानस्यापि करणकोटित्वे मननादेरपि तदापत्तेः । किञ्च तात्पर्यज्ञानस्यापि करणत्वे वेदेऽपि तात्पर्यभ्रमसम्भवात् । बाह्यागमेऽपि तात्पर्य-प्रमासम्भवात् शाब्दज्ञानकरणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्यात् । तस्मान्न तात्पर्य-ज्ञानं करणम् । न चाकरणमपि तद्यागस्यावघातादिकमिव शब्दस्य सन्निपत्योपकारकं येन करणकोटिनिविष्टं स्यात् । तद्वत्करणीयद्रव्यशेषत्वादेरभावात् ।

किञ्च सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथाऽवघातादिः प्रयाजादि प्रति शेषी स्यात् । एतेन ‘करणभूतशब्द-गतातिशयहेतुत्वाच्छ्रवणस्य करणत्वेनाङ्गित्वं, मनननिदिध्यासनयोस्तु सहचारिभूतचित्त-गतातिशयहेतुत्वाच्छ्रवणे फलोपकार्यङ्गता’ इति चित्सुखोक्तं प्रत्युक्तम् । सोमयाग-सहकारिभूतदीक्षणीयाद्यङ्गत्वेन तद्गतातिशयहेतोः प्रयाजप्रोक्षणादेः सोमयागे सन्निपत्याङ्ग-त्वेन तद्गतातिशयहेत्वभिषवग्रहणादिकं प्रत्यङ्गत्वप्रसङ्गात् । गौणाङ्गत्वं त्वनङ्गत्वे पर्यवस्यति । एतेन ‘करणीभूतशब्दधर्मशक्तितात्पर्यविषयत्वाच्छ्रवणस्य करणान्त-र्भावेनाङ्गित्वम्’ इति तत्त्वशुद्ध्युक्तं निरस्तम् ।

किञ्च शब्देनापरोक्षज्ञप्तावप्रतिबद्धापरोक्षज्ञप्तौ वोत्पाद्यायां मनननिदिध्यासन-योरिवापरोक्षज्ञप्तौ प्रतिबद्धापरोक्षज्ञप्तौ वोत्पाद्यायां श्रवणस्याप्यपेक्षितत्वात् त्रयाणामपि शब्दं प्रति फलोपकार्यङ्गत्वे कथं परस्परमङ्गाङ्गिभावः ? अन्यथा ‘यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्याद् ऊर्गित्यन्नाद्यकामाय ऊ इति स्वर्गकामाय’ इति श्रुतानां वृष्ट्यादिफलाय सौभरेति-कर्तव्यताभूतानां निधनगतहीषादीनां परस्परमङ्गाङ्गिभावः स्यात् । करणापूर्वोत्पत्तौ च यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ तदर्थप्रयाजादिः शेषः स्यात् । कप्तं च परोक्षज्ञानं लोके शब्दफलम् । न चाकरणमपि श्रवणं प्रति निदिध्यासनस्याङ्गत्वे श्रुतिवाक्ये स्तः । लिङ्गं तु विपरीतम् । नापि प्रकरणम्, श्रवणस्य फलासम्बन्धेन प्राधान्यासिद्धावितिकर्तव्यताकाङ्क्षायोगात् । स्थानसमाख्ये त्वसम्भाविते ।

किञ्च तात्पर्यज्ञानस्य शाब्दप्रमाहेतुतायास्त्वया निषेधात्तदर्थस्य विचारस्य कथं प्रमाफलम्, येन मननादेः फलोपकार्यङ्गता स्यात् । यच्चोक्तं– ‘मननस्य चित्तैकाग््रया-योग्यत्वरूपासम्भावनानिरसनं द्वारं निदिध्यासनस्य तु विपरीतसंस्काररूपविपरीत-भावनानिरसनं द्वारम्’ इति । तन्न । सूक्ष्मवस्तुज्ञाने चित्तैकाग््रयस्य हेतुत्वे दृष्टेऽपि युक्त्यनुसन्धानरूपमननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टत्वेन तद्रहिते उक्तायोग्यत्व-शङ्कानिवर्तकताया अदृष्टत्वेन च दृष्टहानाद्यापातात् । मननविधेरपूर्वविधित्वापाताच्च । ‘मतिर्यावदयुक्तता’ इत्यादिस्मृतिविरोधाच्च । निदिध्यासनस्य तु विपरीतसंस्कार-निवर्तकत्वे दृष्टेऽपि तन्निवृत्तेर्न ज्ञानहेतुता दृष्टा । रूप्यसंस्कारानुवृत्तावपि शुक्ति-साक्षात्कारदर्शनात् । तस्माच्छ्रवणसामर्थ्यरूपलिङ्गेन ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ इत्यादि वाक्येन निदिध्यासनस्य फलसम्बन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपात्यङ्गम् । युक्तश्च विप्रकृष्टात्फलोपकारात् सन्निकृष्टः स्वरूपोप-कारः । अत एव नवमे पार्वणहोमयोरारादुपकारकत्वत्यागेन सन्निपत्योपकारकतोक्ता । न च ‘द्रष्टव्यः श्रोतव्यः’ इति दर्शनाव्यवहितपाठरूपसन्निधानाच्छ्रवणस्य दर्शनान्वयः । सन्निधानस्य लिङ्गादितो दुर्बलत्वात् । किञ्च ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञान-विपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति स्मृत्या श्रवणस्याज्ञान-निवृत्तिद्वारा, मननस्य तु संशयविपर्ययनिवृत्तिद्वारा परोक्षतत्त्वनिश्चयसाध्ये साक्षात्कार-फलके निदिध्यासनेऽङ्गता सिद्धा । तदुक्तम्–

अपरोक्षदृशिश्चैव श्रवणान्मननादनु ।

सम्यङि्नश्चिततत्त्वस्य निदिध्यासनया भवेत् ।। इति ।

उक्तं च सुधायां ‘निदिध्यासनं ब्रह्मदर्शनसाधनं तत्सिद्धये श्रवणमनने अपि कर्तव्ये’ इति । न च भावनाप्रकर्षजन्यत्वेन साक्षात्कारस्य कामुकस्य कामिनो-साक्षात्कारवदप्रमात्वापातः, त्वयापि–

वेदान्तवाक्यजज्ञानभावनाजापरोक्षधीः ।

मूलप्रमाणदार्ढ्येन प्रामाण्यं प्रतिपद्यते ।। इत्युक्तेः ।

न च निदिध्यासनस्य प्रमाकरणत्वम् असिद्धमिति वाच्यम् । त्वया प्रतिबन्ध-निरासकत्वेनोक्तस्य श्रवणस्यापि तदसिद्धेः । निदिध्यासनानन्तरं पुनरनुस्मृतः शब्द एव करणं, निदिध्यासनं तु तत्सहकारि, श्रवणादि तु निदिध्यासनाङ्गमिति सम्भवाच्च । अथवा श्रवणाद्यङ्गकनिदिध्यासनम् अपरोक्षज्ञानकरणमनः सहकारी । तस्मात्–

ध्याने श्रुत्यादिभिः साक्षात्काररूपफलान्विते ।

मननश्रवणे ओ निरस्याज्ञानसंशयौ ।।

न तु विवरणमत इव श्रवणमङ्गि निदिध्यासनादिकं तु तदङ्गम् ।। इति मनन-निदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ।। १ ।।

अद्वैतसिद्धि:

तदेवमैकात्म्ये व्यवस्थिते तत्साक्षात्काराय श्रवणमङ्गि, मनननिदिध्यासने तदङ्गतया मुमुक्षुभि-रनुष्ठेये । तदुक्तं विवरणे– ‘श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्, मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कार परिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते’ इति फलोपकार्यङ्गे । ननु श्रवणं तावद्विचाररूपं शाब्दज्ञाने न करणम्, वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्ज्ञानरूपे वा करणे इतिकर्तव्यमात्रत्वादिति चेन्न, शब्दशक्तितात्पर्यावधारणं तावद् विचारः । अवधृततात्पर्यकश्च शब्दः करणमिति विचारस्य करणकोटिप्रवेशेनेतिकर्तव्यतात्वाभावाद् अङ्गित्वनिर्णयात् । तदुक्तं विद्यासागरे– ‘अनुमितौ लिङ्गज्ञान-वत्तात्पर्यविशिष्टशब्दज्ञानं करणम् । अतस्तात्पर्यावधारणरूपविचारस्याङ्गित्वम् । न चाकाङ्क्षादिसहित शब्दज्ञानस्यैव करणत्वसम्भवे तात्पर्यभ्रमनिरासोपक्षीणतयोक्ततात्पर्यज्ञानस्य करणकोटिप्रवेशे मननादेरपि तत्कोटिप्रवेशः स्यादिति युक्तम् । एवं साकाङ्क्षादिधियोऽपि निराकाङ्क्षत्वादिभ्रमनिरासकत्व-मात्रेणोपयोगापत्तौ आकाङ्क्षादिकमपि करणकोटिप्रविष्टं न स्यात् । न चान्योन्याश्रयः । सामान्यतोऽर्थाव-गमनेन तात्पर्यग्रहसम्भवात् । अन्यथा नानार्थादौ विनिगमनादिकं च न स्यात् । तथा च सर्वत्र तात्पर्यज्ञानस्याजनकत्वेऽपि यत्र तात्पर्यसंशयविपर्ययोत्तरं शाब्दधीः, तत्र तात्पर्यज्ञानस्य हेतुता ग्राह्या संशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येव । अत एव न विवरणविरोधोऽपि ।

ननु तात्पर्यज्ञानस्य करणकोटिप्रवेशे वेदेऽपि तात्पर्यभ्रमसम्भवात् बाह्यागमेऽपि तात्पर्यप्रमासम्भवात् शाब्दज्ञान करणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्यादिति चेन्न, वेदे कदाचित् कस्यचित् कुत्रचित्तात्पर्य-भ्रमेऽपि निर्दुष्टत्वेन यथार्थतात्पर्यमस्त्येव, परागमे तु पौरुषेयतया प्रतारणादिमत्पुरुषप्रणीततया दुष्टत्वेन न तथेति दुष्टत्वादुष्टत्वव्यवस्थासम्भवात् । तात्पर्यांशस्यावघातादेरिव योगे, शब्दे सन्निपत्योपकारकतया करणकोटिप्रविष्टत्वेनाङ्गित्वम् । न च दृष्टान्ते करणद्रव्यशेषत्वात् तथा, सर्वसाम्यस्य दृष्टान्तत्वा-प्रयोजकत्वात् । ननु सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथा प्रयाजादिकं प्रत्यवघातादिः शेषी स्यादिति चेन्न, विशिष्टयागप्रविष्टतया शेषित्वे इष्टापत्तेः । असाधारण्येन शेषिता तु असाधारणफलोपकारकत्वे स्यात्, असम्भावनाविशेषनिवृत्तिरूपा-साधारणोपकारजनकत्वात् सापि श्रवणस्य सम्भावितैव । अत एवोक्तं चित्सुखाचार्यैः– ‘करणी-भूतशब्दगतातिशयहेतुत्वात् श्रवणस्य करणत्वेनाङ्गित्वम्, मनननिदिध्यासनयोस्तु सहकारि भूतचित्तगतातिशयहेतुत्वात् फलोपकार्यङ्गता’ इति । न चैवं सोमयागसहकारिभूतदीक्षणीयाद्यङ्गस्य तद्गतातिशयहेत्वभिषवग्रहणादिकं प्रत्यङ्गत्वप्रसङ्ग इति वाच्यम् । पूर्ववदुक्तोत्तरत्वात् । तदुक्तं तत्त्वशुद्धौ– ‘करणीभूतशब्दधर्मशक्तितात्पर्यविषयत्वात् श्रवणस्य करणान्तर्भावेनाङ्गित्वम्’ इति ।

न च शब्देनापरोक्षज्ञप्तौ अप्रतिरुद्वापरोक्षज्ञप्तौ चोत्पाद्यायां मनननिदिध्यासनयोरिव परोक्षज्ञप्तावप्रतिरुद्धपरोक्षज्ञप्तौ चोत्पाद्यायां श्रवणस्याप्यपेक्षिततया त्रयाणामपि फलोपकार्यङ्गत्वमेवेति कथं परस्पराङ्गाङ्गिभाव इति वाच्यम् । मनन निदिध्यासने फले जनयितव्ये शब्दस्य सहकारिणं सम्पादयतः । श्रवणं तु तस्य जनकतामेवेति विशेषात् । यत्र च नैवं, तत्र तुल्यवदङ्गतैव । एतेन– ‘यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्याद् ऊर्गित्यन्नाद्यकामाय ऊ इति स्वर्गकामाय’ इति श्रुतानां वृष्ट्यादिफलाय सौभरेतिकर्तव्यतानिधन-गतहीषादीनां श्रवणमननादिवत् परस्परमङ्गाङ्गिभावप्रसङ्ग इति निरस्तम् । करणस्वरूपसम्पादकत्व–सहकारिसम्पादकत्वरूपतत्प्रयोजकस्यात्रेव तत्राभावात् । न चैवं करणापूर्वोत्पत्तौ यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ तदर्थः प्रयाजादिः शेषः स्यादिति वाच्यम् । एकफल उभयोर्यागार्थत्वाभावेन विशेषात् । ननु कप्तं परोक्षज्ञानं लोके शब्दस्य फलम् । तथा च शब्दातिशयाधायकस्य श्रवणस्य साक्षात्कार-फलजनकाङ्गित्वं कथमिति चेत्, साक्षात्त्वं न जातिः न वा इन्द्रियजन्यत्वादिकं नियामकम्, किन्तु विषयगताज्ञाननिवर्तकत्वमेवापरोक्षत्वे प्रयोजकम् । तथा चाज्ञाननिवर्तकत्वं विषयपर्यन्तत्वेन । तच्चात्मपर्यन्तत्वादत्रास्त्येवेति नादृष्टकल्पना । इत्थं च प्रकरणबलादपि सिद्धमस्याङ्गित्वम् । श्रवणस्य फलसम्बन्धेन प्राधान्यसिद्धावितिकर्तव्यताकाङ्क्षायाः सम्भवात् ।

ननु यद्यपि चित्तैकाग््रयस्य सूक्ष्मवस्तुज्ञानहेतुत्वं दृष्टमस्ति, तथापि मननं न चित्तैकाग््रयहेतुः युक्त्यनुसन्धानरूप मननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टात्वेन चित्तैकाग््रयहेतुत्वकल्पने सति दृष्टहान्यापत्तेः मननविधेरपूर्वविधित्वापाताच्च ‘मतिर्यावदयुक्तता’ इति स्मृतिविरोधाच्चेति चेन्न, तादृक्छङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्तत्वेनावधारणविषयकोटौ चित्त-प्रवणतायास्तावत्पर्यन्तत्वस्य दृष्टत्वेन दृष्टहान्यपूर्वविधिस्मृतिविरोधाभावात् । निदिध्यासनस्य तु विपरीतभावनानिवर्तकता सकलसिद्धा । ननु तन्निवृत्तेः न ज्ञानहेतुता दृष्टा । रूप्यसंस्कारानुवृत्तावपि शुक्तिसाक्षात्कारदर्शनादिति चेत्, ‘इयं शुक्तिः’ इति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कारसत्त्वेऽपि तद्रजतमित्यस्मरणेन विपरीतसंस्कारनिवृत्तेस्तत्रापि सत्त्वात् ।

ननु शब्दसामर्थ्यरूपलिङ्गेन ‘ततस्तु तं पश्यते निष्कलं ध्यायमान’ इत्यादिवाक्येन निदिध्यासनस्य फलसम्बन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपत्याङ्गमिति चेन्न । निदिध्यासनपदस्य ‘बर्हिर्देवसदनम्’ इत्यादाविव साक्षात्काररूपफलसम्बन्धे न शक्तिरिति शब्दसामर्थ्याभावात् । वाक्येऽपि योग्यताबलाच्छ्रवणमेवाध्याह्नियते । तथा च तच्छ्रवणाद् ध्यायमानो निष्कलं ब्रह्म पश्यतीत्यनुकूलार्थस्यैव पर्यवसानात् । तस्मात् ‘द्रष्टव्यः श्रोतव्यः’ इति दर्शनेनाव्यवहितपाठरूपसन्निधानात् श्रवणस्य दर्शनेन साक्षादन्वयाङ्गित्वम् । किञ्च निदिध्यासनरूपभावनाप्रकर्षजन्यत्वे साक्षात्कारस्य कामिनीसाक्षात्कारवत् अप्रमात्वापातः । न च मूलप्रमाणदाढ्यर्यात् प्रमात्वं तर्हि तदेव साक्षात् करणमस्तु ? किं तदुपजीविनान्येन ? एतेन निदिध्यासनसहकृतमनःकरणत्वमपि निरस्तम् ।। इत्यद्वैतसिद्धौ मनननिदिध्यासनयोः श्रवणाङ्गत्वम् ।। १ ।।

न्यायामृततरङ्गिणी

सद्गुणाङ्कुरधृतार्वसद्गुणं दूरदोषमुरुदोषमप्यलम् ।

पार्थसारथिमपार्थसारथिं नन्दनन्दनतिसाधनं नुमः ।। १ ।।

निदिध्यासनमङ्गि श्रवणादिकमङ्गमित्येतदाक्षिपति– नन्वेतदिति ।। विवरणे इति ।। नन्वपरोक्षफलोदये निदिध्यासनाङ्गतैव श्रवणमननयोः किं न स्यात् । त्रयाणामपि सन्निपत्योपकाराविशेषात् । दर्शपूर्णमासवत्समप्रधानता वा किं न स्यादिति । उच्यते । शक्तितात्पर्यविशिष्टशब्दावधारणं प्रमेयावगमं प्रत्यव्यवधानेन करणं भवति । प्रमाणस्य प्रमेयावगमं प्रतीत्याद्युक्तम् ।। मनननिदिध्यासने इति ।। तत्रापि मननस्य चित्तैकाग््रयायोग्यरूपासम्भावना निरसनद्वारेण चित्तस्य प्रत्यगात्मैकाग्रवृत्तिहेतुत्वं, निदि-ध्यासनस्य तु विपरीतसंस्काररूपविपरीतभावनानिरसनद्वारा तद्धेतुत्वम् ।। प्रत्यगात्मेति ।। प्रत्यगात्मप्रवणतालक्षणो यः संस्कारः तेन परिनिष्पन्ना या ब्रह्मैकाग््रयलक्षणावृत्तिः सैव कार्यं तद्द्वारेणेत्यर्थः ।। इतीति ।। फलं प्रत्यव्यवहितस्य कारणस्य विशिष्टशब्दावधारणस्य व्यवहिते मनननिदिध्यासने इति हेतोरित्यर्थः । शक्तितात्पर्यविशिष्टशब्दावधारणरूपस्य श्रवणस्य ब्रह्मानुभवं प्रति साक्षाद्धेतुत्वेन करणत्वमित्युक्तं दूषयति– विचार इति ।। शाब्दज्ञाने शब्दस्य तज्ज्ञानस्य वा साक्षात्कारणत्वं नान्यस्य । ननु शक्त्यादीनां सन्देहादौ सति शाब्दज्ञानाभावेन विशिष्टस्य हेतुत्वे वाच्ये विशेषणस्यापि हेतुत्वेन व्यवधानद्वाराऽवघाततण्डुलादेरिव करणान्तर्गतिरस्तीत्यतः करणवदेव शेषित्वं भविष्यतीत्यत आह– न चेति ।।

अस्तु वा करणान्तर्गतिः शक्त्याद्यवधारणस्य तथापि न तस्य शब्दवन्मत्याद्यपेक्षया शेषित्वमित्याह– सन्निपात्यपीति ।। प्रधानं प्रति सन्निपात्यङ्गस्यारादुपकारकाङ्गानां च परस्परमङ्गाङ्गित्वाभावात् । अन्यथाऽवघातं प्रति प्रयाजादेः शेषत्वं स्यादित्यर्थः । तर्ह्याग्नेयादिवत् त्रयाणामपि प्राधान्यमस्त्वित्यत आह– हीषादेरिति ।। सौभराख्येन साम-विशेषेण वृष्टावन्नाद्ये स्वर्गे च फले जननीये सति हीष् ऊर्क ऊ इत्येषां सौभराख्यसाम-समाप्त्यवयवानां सौभरेण वृष्टौ जननीयायां ‘हीष्’ इत्येतस्य अन्नाद्ये जननीये, ‘ऊर्क’ इत्येतस्य स्वर्गे जननीये, ‘ऊ’ इत्येतस्य सौभरं प्रत्येव यथाऽङ्गत्वं तथा शब्देन परोक्षज्ञाने जननीये शक्त्याद्यवधारणरूपविचारस्याङ्गत्वम् । अपरोक्षज्ञाने शब्देन जननीये मननादे-रङ्गत्वमिति शब्दं प्रत्येव त्रयाणामङ्गत्वं वक्तुं युक्तम् । न तु परस्पराङ्गत्वम् । अन्यथा हीष् इत्यादीनामपि परस्पराङ्गत्वं स्यात् ।। भिन्नफले इति ।। शब्देन जननीय इति शेषः । स्याच्छब्दोऽनास्थायाम् । निदिध्यासनं प्रति श्रवणादेरङ्गत्वस्य वक्ष्यमाणत्वात् । मौनिश्लोकादौ शब्दाभावादाह– शब्दज्ञाने वेति ।। शक्त्यवधारणस्य विचारात्पूर्वभावित्वेन विचारानन्त-र्गतत्वात्तात्पर्यावधारणमेव तदन्तर्गतमिति मत्वाऽऽह– तात्पर्यविशिष्टेति ।। अन्योन्याश्रया-दिति ।। तात्पर्यविषयशब्दार्थमज्ञात्वा तत्र तात्पर्यस्य ग्रहीतुमशक्यत्वात्तात्पर्यज्ञाने शाब्दज्ञानापेक्षा तस्मिंश्च तात्पर्यज्ञानापेक्षेत्यन्योन्याश्रयः । नन्वेवमाकाङ्क्षादिधियोऽपि निराकाङ्क्षत्वादिभ्रमनिरासिका एव न तु शाब्दधीहेतव इति स्यात् । न स्यात् । निराकाङ्क्षत्वादिज्ञानाभावेऽप्याकाङ्क्षादिज्ञानं विना शब्दज्ञानाभावस्यानुभवसिद्धत्वात् । ननु तात्पर्यज्ञानाहेतुत्वे कथं नानार्थे विनिगमना । अन्वयविशेषयोग्यतयेति गृहाण ।

यत्तु ग्राह्यसंशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनमिव तात्पर्यसंशयोत्तरशाब्दज्ञाने तात्पर्यधीः कारणमिति, तन्न । उभयत्रोभयस्य प्रतिबन्धनिरासमात्रोपयोगित्वेनाहेतुत्वात् । तदिदमुक्तं प्रतिबन्धनिरासेत्यादि । तात्पर्यभ्रमस्य प्रतिबन्धकत्वं च कार्यबलान्मणिमन्त्रादिवत् । अत एव साक्षादविरोधिनो ज्ञानस्य जनकज्ञानविघटकतयैव प्रतिबन्धकत्वमित्यादेरनवकाशः ।। बाह्यागमेऽपीति ।। शब्दार्थस्य बाधितत्वेऽपि तद्वक्तुस्तत्र तात्पर्यमबाधितमेव ।। दुष्टत्वेति ।। ज्ञानरूपेषु ज्ञानकरणेषु भ्रमरूपं दुष्टं प्रमारूपमदुष्टमित्यन्यत्र दृष्टा व्यवस्था न स्यात् । यादृच्छिकसंवादिलिङ्गविभ्रमस्य तु दुष्टत्वमेव । स्वव्यापकभ्रमहेतुत्वात् । तत्र प्रतीतस्य तदव्यापकत्वात् । ननु वेदे कुत्रचिदेव तात्पर्यभ्रमो बाह्यागमे तु कुत्रचिदेव तत्प्रमेति । मैवम् । यत्रैव तद्भ्रमप्रमे तदंश एव तयोर्दुष्टत्वादुष्टत्वापातात् ।। करणीयेति ।। करणं द्व्यवदानयागः । तस्य द्रव्यं व्रीह्यादि । तत्रावघातादेः शेषत्वं यथाऽस्ति तथा प्रकृते नास्तीत्यर्थतात्पर्यावधारणं शब्दं प्रति न सन्निपात्यङ्गमित्यर्थः ।

यत्तु दृष्टान्ते सर्वसाम्यं नापेक्षितमतोवघातवैषम्येपि तात्पर्यावधारणं शब्दं प्रति न सन्निपत्याङ्गमेवेति । तन्न । मीमांसकप्रक्रियालेशस्याप्यज्ञानेनोक्तत्वात् ।। सन्निपत्येति ।। दृष्टार्थानि क्रियारूपाणि स्वकारकस्योत्पत्त्यादि कुर्वन्ति अदृष्टार्थानि सन्निपातीनि तु स्वकारकेष्वतिशयमादधति तत्तदङ्गभावमनुभवन्ति तात्पर्यावधारणं त्वनुभयं कथं सन्निपाति स्यात् ।। अन्यथाऽवघातादिरिति ।। ननु विशिष्टयागप्रविष्टतयाऽवघातस्य शेषित्वमिष्टमेव । असाधारण्येन शेषिता तु न । असाधारण्येन फलोपकारत्वाभावादिति । न । श्रवणत्वेन श्रवणस्य शेषित्ववदवघातत्वेनावघातस्य प्रयाजादिशेषित्वस्यापाद्यमानत्वात् ।। एतेनेति ।। प्रधानं प्रति सन्निपत्योपकारकस्य प्रधानोपकारकान्तरापेक्षया शेषित्वेऽवघातादेः प्रयाजाद्यपेक्षया शेषित्वापातेनेत्यर्थः । ननु प्रयाजादिकं यागस्यैव सहकारि मननादिकं तु शब्दसहकारिभूतस्य चित्तस्य सहकारीति वैषम्यमित्यत आह– सोमयागेति ।। ‘सोमम् अभिषुणोति, ‘आश्विनं गृह्णाति’ इत्यादिना विहितमभिषवग्रहणादिकं सोमयागे सन्निपात्यङ्गम् । अत एवाभिषवादिकं करणभूते शब्दस्थानीये सोमयागे अतिशयाधायकं करणान्तर्गततात्पर्यावधारणस्थानीयं तत्प्रति सोमयागसहकारिभूतायाः दीक्षणीयचित्तस्थानीयान्तरगम् । अत एव तद्गतातिशयहेतुः प्रयाजप्रोक्षणादिमननादिस्थानीयम् अङ्गं स्यात् ।

नन्वभिषवादियुक्तसोमयागं प्रत्यङ्गस्य प्रयाजादेरभिषावादिकं प्रत्यपि तदस्त्येवेति वदन्तं प्रत्याह– गौणाङ्गत्वमिति ।। श्रुत्यादिगम्येऽङ्गत्वे तद्विनापि कल्पनेऽतिप्रसङ्गः । शब्दा-दापरोक्ष्यं वदता शब्दत्रयाणामङ्गत्वं वक्तुं युक्तमित्याह–  किञ्चेति ।। अन्यथेति ।। अनेकफलानि साधयतैकेन तत्तत्फले जनयितव्येऽपेक्षितानां सहकारिविशेषाणां परस्परमङ्गाङ्गि-भावाङ्गीकार इत्यर्थः । सौभरेण सौभरनामकेन साम्ना । निधनं साम्नोन्त्योवयवः । द्वितीयस्य चतुर्थेऽभिहितम् । ‘सौभरे पुरुषश्रुतेर्निधने कामसंयोगः’ । ब्रह्मसामाख्यं स्तोत्रं प्रकल्प्य तदाश्रितं सौभरं फलत्रयसाधनत्वेन ‘यो वृष्टिकामः’ इति वाक्येन विधाय वृष्ट्यादिसाधने सौभरे निधनसाधनत्वेन हीषादयो हीषादिवाक्येन विहिताः । तत्र संशयः । किं हीषादयो निधनविशेषाः सौभरफलात्फलान्तरार्थेन विधीयन्ते उत सौभरस्यैव तत्तत्फलं साधयतः तत्तन्निधनमनियमेन पाठतः प्राप्तं नियम्यत इति । तदर्थं किं वृष्टिकामादिशब्दोक्तपुरुषशेषत्वेनैते साक्षाद्विधीयन्ते उत वृष्टिसाधनसौभरशेषत्वेनेति । तत्र वृष्टिकामादिशब्दैः पुरुषस्य श्रुतत्वात्तादर्थ्यमेव हीषादीनां चतुर्थ्या विज्ञायते । पुरुषशेषता च तदभिलषितफलसाधनतयेति फलार्थत्वमेवैषाम् । वृष्टिकामशब्देन वृष्टिकामस्येच्छाविषयवृष्टिसाधनसौभरोक्तौ लक्षणा स्यात् । न च श्रुतिसम्भवे सा युक्ता । तस्माद्धीषादयो गुणाः सौभरफलाद्वृष्ट्यादेर्भिन्नस्य हेतव इति ।

अत्राहुः । वृष्ट्यादीनि पूर्वोक्तान्येव विपरिवर्तमानानि प्रत्यभिज्ञायन्त इति न फलान्त-रावगमः । किञ्च हीषादिशब्दमात्रे फलाय विहिते सत्याश्रयापेक्षाया न तावन्निधनमाश्रयो भवितुं युक्तम् । तस्याप्रकृतत्वात् । नापि सौभरम् । प्रकृतत्वेऽप्यनेकावयवत्वान्नियमेन निधनसम्बन्धायोगात् । तथात्वे निधनमित्यनर्थकं स्यात् । निधनस्यापि विधाने वाक्यभेदः । तस्माद्वृष्टिकामादिशब्दलक्षिते सौभरे निधनत्वेनैवानियतप्राप्ता हीषादयो नियम्यन्ते । अथवा लक्षणापि नास्ति । न हि यदेव फलस्य कारणं तस्यैव पुरुषशेषत्वं तदङ्गस्यापि तद्द्वारेणास्ति पुरुषशेषिता । तथा च प्रयोगो दृश्यते । ‘वासिष्ठानां नाराशंसो द्वितीयः प्रयाजः’ इति । सौभराङ्गभूतास्तद्द्वारेण वृष्टिकामादीनां पुरुषाणामनियमेन शेषभूताः प्राप्तास्तानेव प्रति यथा प्राप्तरूपा नियम्यन्त इति न लक्षणा । तदुक्तम्–

तस्मात्फलान्तरार्थेन नैव हीषादयो गुणाः ।

 विधीयन्ते नियम्यन्ते ते यथा प्राप्तसौभर’ ।। इति ।

एकस्य भिन्नभिन्नकार्यजननेऽपेक्षितानां भिन्नभिन्नसहकारिणां परस्परमङ्गाङ्गिभावे दूषणान्तरमाह– करणापूर्वेति ।। यागेन करणापूर्वे जननीयेऽवघातादिः सहकारी । परमापूर्वे तु जननीये प्रयाजादिः सहकारी । न त्ववघातादिकं प्रति प्रयाजादिः शेषः । त्वद्रीत्या तु स्यादित्यर्थः । करणापूर्वं नाम प्रधानमात्रेण जननीया पूर्वम् । साङ्गेन तेन जननीयं तु परमापूर्वमिति । ननु शब्दस्य परोक्षज्ञानं प्रति हेतुत्वे तदवच्छेदेन श्रवणस्य शब्दं प्रत्यङ्गत्वं स्यात्तदेव तु नास्तीत्यत आह– कप्तं चेति ।। एतेन यागेऽपूर्वभेदवत्प्रकृते न कार्यभेद इति निरस्तम् । नन्वकरणमपि प्रयाजादिकं प्रत्याज्यग्रहणादेरिव श्रवणं प्रति मननादेरङ्गत्वं भविष्यतीत्यत आह– न चाकरणमपीति ।। चतुर्जुह्वां गृह्णाति प्रयाजेभ्यस्तदित्यादेरिवात्र श्रुत्यादेरभावात् ।। लिङ्गन्त्विति ।। श्रुतस्यार्थस्य मन्तव्यादिरूपतया श्रवणस्य मननाद्युप-कारकत्वरूपसामर्थ्यवन्मननध्यानयोः श्रोतव्यत्वाभावेन तयोस्तथासामर्थ्याभावाद्विपरीतं लिङ्गं सामर्थ्यम् ।। प्रकरणमिति ।। इतिकर्तव्यताकाङ्क्षा प्रकरणम् ।। श्रवणस्येति ।। तात्पर्याव-धारणरूपश्रवणस्य शाब्दप्रमारूपफलाहेतुत्वात् ।। स्थानेति ।। स्थानं सादेश्यम् । समाख्या यौगिकी सञ्ज्ञा ।

ननु तात्पर्यावधारणरूपश्रवणस्य शाब्दप्रमां प्रत्यहेतुत्वेनाप्रधानतयेतिकर्तव्यता-रूपाकांक्षाविरहेऽपि तात्पर्यावधारणहेतोर्विचारस्य शाब्दप्रमाहेतुत्वादिकं स्यादित्यत आह– किञ्चेति ।। मननादेः शाब्दज्ञानेऽहेतुत्वेन श्रवणं प्रति मतयोः फलोपकार्यङ्गत्वमित्याह – यच्चोक्तमिति ।। तत्र मननस्य न शाब्दज्ञानहेतुत्वं द्वाराभावादित्याह – सूक्ष्मेति ।। चित्तैकाग््रयस्य शाब्दज्ञानविशेषत्वेऽपि न तस्य मननसाध्यत्वम् । किन्त्वयुक्तत्वं शङ्कानिवृत्तिरेव तत्साध्या । तद्रहिते अयुक्तत्वशङ्कारहिते ।। उक्तेति ।। चित्तैकाग््रयम् ।। शङ्केति ।। असम्भावनेत्यर्थः । अयुक्तत्व शङ्कानिवृत्तिस्तु मननद्वारा । तस्याः प्रतिबन्धकाभाव-रूपत्वादिति भावः ।। मननविधेरिति ।। चित्तैकाग््रयस्य मननसाध्यताया मानान्तराप्राप्तत्वात् ।। मतिरिति ।। अयुक्तत्वशङ्कानिवर्तकत्वमेव मनने प्रतीयते । न तु चित्तैकाग््रयहेतुत्वम् । निदिध्यासनस्यापि न शाब्दधीहेतुत्वम् । द्वाराभावादित्याह– निदिध्यासनस्येति ।। रूप्येति ।। ननु इयं शुक्तिरिति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कार-सत्त्वेऽपि तद्रजतमिति स्मरणेन विपरीतसंस्कारनिवृत्तिस्तत्राप्यस्तीति । मैवम् । रूप्य-संस्कारसत्त्वेन शुक्तिसाक्षात्कारवत्प्रपञ्चसंस्कारसत्त्वेऽपि ब्रह्मसाक्षात्कारसम्भवात् । तत्प्रवृत्ति-निदिध्यासनस्य द्वारमित्युक्तावेतस्य व्यधिकरणत्वात् ।। श्रवणसामर्थ्येति ।। श्रुतार्थस्यैव मतस्यैव ध्यातव्यत्वात् ।। निदिध्यासनस्येति ।। फलसाधनस्यैवेतिकर्तव्यताकाङ्क्षारूपप्रकरणं फलसाधनं च निदिध्यासनमेव ‘ततस्तु तं पश्यत’ इति वाक्यात् ।

ननु श्रवणमनने ध्यानं प्रति लिङ्गप्रकरणाभ्यां सन्निपात्यङ्गे इति न युक्तम् । तयोर्ध्यानं प्रति फलोपकारकत्वसम्भवादित्यत आह– युक्तश्चेति ।। अत एवेति ।। स्वरूपोपकार-स्यान्तरङ्गत्वादेव । नवमे द्वितीयपाद इति शेषः । ‘पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगा-त्तदभीज्या हि दर्शपूर्णमासयोः’ । ‘स्रुवेण पार्वणहोमौ जुहोति’ इति तद्धितश्रुत्या पर्वदैवत्यौ होमौ श्रुतौ । तौ किं विकृतिर्दृश्यते न वेति संशयः । तदर्थमिदं विचार्यते किं पर्वशब्दः कालवचनः कालोऽस्य देवता तस्य चासंस्कार्यत्वादारादुपकारकौ होमौ उताग्नेयादिसमुदाय-वचनः समुदायदैवत्यौ होमौ तत्संस्कार्याविति । तत्र पृणातेर्दानकर्मणः पर्वशब्दः । स च दीयतेऽस्मिन्नित्यधिकरणव्युत्पत्त्या कालेऽपि मुख्यो भावव्युत्पत्त्या कर्मण्यपि । तत्र प्रकरणात्सामवायिकत्वलाभाच्च कर्मवचनत्वमङ्गीकृत्य तत्संस्कारार्थता होमयोः । तेषां च कर्मणां तन्त्रेणाभिहितानाम् अग्नीषोमयोरिव व्यासक्तं देवतात्वम् । नैकैकशः । तेन समुदायस्य देवतात्वात् । तस्य च विकृतिस्वभावादतद्विकारत्वाच्च सौर्यादेस्तत्र होमयोरप्रवृत्तिः । न हि सौर्यादयः समुदायविकाराः । तदुक्तम्–

काले शब्दस्य मुख्यत्वात्कालामज्येह गम्यते ।

 पृणातेर्दानकर्मत्वात्कर्मण्यपि च मुख्यता’ इति ।।

पाठरूपेति ।। यथा सान्नाय्यापात्रशुन्धनक्रमाच्छुन्धध्वमिति मन्त्रस्य सान्नाय्यपात्राङ्गत्वम् ।। सन्निधानस्येति ।। यथा दर्शपूर्णमासयोः श्रूयते– ‘हस्ताववनिक्ते उलुपराजिंस्तृणाति’ इति । तत्र हस्तावनेजनं हस्तसंस्कारार्थं सत् करिष्यमाणसर्वाङ्गं वा अनन्तरोक्तोलुप-राजिस्तरणाङ्गं वेति संशये आनन्तर्यरूपसन्निधानात्तन्मात्राङ्गमिति प्राप्ते लिङ्गेन सर्वाङ्गमिति सिद्धान्तितं तृतीयस्य द्वितीये । आदिपदेन ‘श्रुत्वा मत्वा’ इत्यादिका श्रुतिः सन्निधानं च गृह्यते । श्रवणमननयोर्दृष्टद्वारा ध्यानस्वरूपनिष्पादकतया ध्याने सन्निपात्यङ्गत्वम् । ध्यानस्य तु फलसम्बन्धेन प्राधान्यमित्यर्थे पाठसादृश्यलक्षणः सन्निधिरप्यस्तीत्याह– श्रुत्वा मत्वेति ।। परोक्षनिश्चयं विना ध्यानस्वरूपासिद्धेस्तत्र तयोः सन्निपातित्वमपि ।। प्रमाकरणत्व-मसिद्धमितीति ।। ‘ततस्तु तं पश्यत’ इति वाक्ये दर्शनमात्रश्रवणादिति भावः ।। निदिध्यासनानन्तरमिति ।। अत एव ध्यानममानकमित्यत आह– अथवेति ।। ।। इति मनननिदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ।। १ ।।

न्यायामृतकण्टकोद्धारः

यो योगिभिर्विरक्त्यादियुक्तैः सेव्यो हि नित्यदा ।

भक्त्यैकलभ्यः पुरुषस्तं भजे वल्लभं श्रियः ।।

ननु यदुक्तं मुमुक्षुणा श्रवणाद्यङ्गकमङ्गीभूतं निदिध्यासनं ब्रह्मसाक्षात्कारायानुष्ठेयमिति तदयुक्तम् । श्रवणस्याङ्गित्वेन मनननिदिध्यासनयोश्चाङ्गत्वेन श्रवणस्याङ्गत्वासम्भवात् । न च तस्याङ्गित्वं कुत इति वाच्यम् । ‘द्रष्टव्यः श्रोतव्यः’ इति दर्शनरूपफलवत्त्वात् प्रमाणत्वाच्चेत्याशयेन शङ्कते– नन्वेतदिति । विवरणे इत्युक्तत्वादित्यन्वयः ।। प्रमाणस्येति । प्रमेयभूतब्रह्मावगमं प्रति श्रवणरूपप्रमाणस्याव्यवधानेनाङ्गित्वमिति भावः । ननु मनननिदिध्यासनयोरङ्गत्वमयुक्तम् । तथा हि– तद्धि प्रोक्षणादेरिव करणस्वरूपनिष्पादकत्वेन सन्निपत्योपकारकत्वं वा प्रयाजादेरिव फलोपकार्युपकारसम्पादकत्व रूपमारादुपकारकत्वं वा? नाद्यः । मनननिदिध्यासनयोरभावेऽपि श्रवणस्य सम्भवेन कारणस्वरूपनिष्पादकत्वा-भावात् । न द्वितीयः । तादृशोपकारादर्शनादित्यतः आह– मननेति । मनननिदिध्यासने फलोपकार्यङ्गे इत्यन्वयः । तत्र हेतुश्चित्तस्येत्यादिः । प्रत्यगात्मप्रवणः प्रत्यगात्मविषयो यः श्रुतिदृढः संस्कारः तेन परिनिष्पन्ना या चित्तस्य तदेकाग्रा वृत्तिः तद्रूपं यत् कार्यं तद्द्वारेणेत्यर्थः । अयमभिसन्धिः । मनननिदिध्यासनयोः फलोपकार्युपकारसम्पादकत्वेनारादुप कारकत्वमेव । न च तादृश उपकारो न दृश्यत इत्युक्तमिति वाच्यम् । प्रत्यगात्मविषयातिदृढसंस्कार-सञ्जातचित्तैकाग््रयवृत्तेरेव तादृशोपकारस्य सम्भवादिति ।

अत्र यदुक्तं– ‘फलवत्त्वात् प्रमाणत्वाच्च श्रवणस्याङ्गित्वम्’ इति, तत्र न तावदाद्यो हेतुः । ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ ‘श्रुत्वा मत्वा तथा ध्यात्वा’ इत्यादि श्रुतिस्मृतिभि-र्ध्यानस्यापि फल वत्त्वात् । द्वितीयेऽपि श्रवणं किं प्रत्यक्षमुतानुमानम् अथवा शब्दः, आहोस्वित् स्वतन्त्रमेव प्रमाणम् ? नाद्यद्वितीयौ । तथा सति ‘नेन्द्रियाणि नानुमानम्’ इति श्रुतेर्ब्रह्मणः शब्दैकसमधिगम्यत्वेन श्रवणविषयताभावप्रसङ्गात् । नापि तृतीयः । विवरणे श्रवणस्य विचाररूपताया उक्तत्वेन, विचारस्य च युक्त्यनुसन्धानात्मकत्वेन शब्दरूपत्वा-सम्भवादित्यभि प्रेत्य चतुर्थपक्षं प्रतिषेधति– न यत इति । ‘शब्दप्रमाणज’ इति हेतुगर्भं विशेषणम् । अन्यथा शब्दप्रमाणजन्यत्वं न स्यादित्यर्थः । ननु मास्तु श्रवणरूपविचारस्य स्वातन्त्र्येण करणत्वम् । तथापि ब्रह्मविषयकबोधं प्रति करणीभूतशब्दाङ्गत्वेन भविष्यतीति चेन्न । अङ्गत्वं हि तस्य किं सन्निपत्योपकारकत्वरूपमुतारादुपकारकत्वरूपम् ? नाद्यः इत्याह– न चायमिति । हन्तिवत् अवघातवत् । अवघातादेः पुरोडाशस्वरूपनिष्पादकत्व-मिति द्वितीयः पक्षोऽप्यपास्तः । तथा सत्यन्योन्यं शेषिभावो न स्यात् ।। अन्यथेति ।। सन्निपत्याङ्गत्वेऽपि यदि शेषित्वं तर्हीत्यर्थः । अत्र दृष्टान्तमाह– हीषादेश्चेति । उपसंहरति– तस्मादिति । ननूक्तरीत्या द्विविधाङ्गत्वासम्भवेऽपि श्रवणरूपविचारस्य शब्दशक्ति-तात्पर्यावधारणरूपत्वादवधृतशक्तितात्पर्यकशब्दस्यैव करणत्वे करणकोटिनिवेशेन करणत्वं स्यादेवेति न कोऽपि दोष इत्याशङ्कां परिहरन् स्वकारिकां स्वयमेव विशदयति– तथा हीति । शब्दरूपे शब्दज्ञानरूपे वा इति मतभेदाभिप्रायेण ।

इतिकर्तव्यतामात्रत्वादिति । न चैवमपि अवधृततात्पर्यकशब्दस्यैव करणत्वाद् विचारस्य करणकोटिनिवेशेन करणत्वादितिकर्तव्यतात्वाभावाद् अङ्गित्वं स्यादित्युक्तस्य न परिहार इति वाच्यम् । अवधृत तात्पर्यकशब्दस्य करणत्वं किं शाब्दज्ञानत्वावच्छेदेन, ब्रह्मविषयकशाब्दज्ञानत्वावच्छेदेन वा ? नाद्यः । तात्पर्यावधारणा भावेऽपि लोके शब्दादर्थ-बोधस्य जायमानत्वेन व्यभिचारात् । न द्वितीयः । अन्यत्र कप्तपूर्ववर्तिन एव कारणत्व-मसम्भवे अधिककल्पने मानाभावात्, वक्ष्यमाणान्योन्याश्रयग्रासाच्च । तात्पर्यविशिष्टेति । विशेषणीभूततात्पर्यविचारस्यापि करणकोटिनिवेश इति भावः । एतेनेत्येतदेव विशदयति– आकाङ्क्षेति । तात्पर्यज्ञानस्य करणकोटिनिवेशः किं प्रकारान्तरेण शब्दज्ञानस्य करणत्वा-सम्भवाद्वा त्वदभियुक्तोक्तेर्वा ? नाद्य इत्याह– आकाङ्क्षेति । न द्वितीय इत्याह– विवरण इति । अन्योन्याश्रयादिति । सत्यां शाब्दप्रमायामस्य शब्दमात्रे तात्पर्यमित्यवधृततात्पर्यकं शाब्दज्ञानम् । तस्मिंश्च सति शाब्दप्रमेत्यन्योन्याश्रय इत्यर्थः । ननु यदि तात्पर्यज्ञानस्य तात्पर्यभ्रमरूपप्रतिबन्धनिरासोपक्षीण त्वेनान्यथासिद्धत्वान्न करणकोटिनिवेशस्तर्हि आकाङ्क्षादिज्ञानस्यापि निराकाङ्क्षत्वभ्रमनिरासकत्वमात्रेणोपयोगापत्तौ आकाङ्क्षादेरपि करण-कोटिनिवेशो न स्यादिति चेन्न । अनन्यथासिद्धान्वयव्यतिरेकाभ्यां शाब्दज्ञानत्वावच्छेदे-नाकाङ्क्षादि ज्ञानस्य करणत्वावधारणेनान्यत्रोपक्षयकल्पनासम्भवात् । न चैवमनन्यथा-सिद्धान्वयव्यतिरेकौ तात्पर्यज्ञानस्य विद्येते । तात्पर्यज्ञानाभावेऽपि शाब्दबोधस्य जायमानत्वेन व्यभिचारात् ।

किञ्चाकाङ्क्षाभ्रमाच्छाब्दभ्रमस्य जायमानत्वात् ‘यद्विशेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्ययोरपि कार्यकारणभावः’ इति न्यायेन शाब्दज्ञानमात्रे आकाङ्क्षादिज्ञानस्य कारण-त्वम् । न चैवं तात्पर्यभ्रमादपि शाब्दभ्रमस्य जायमानत्वेनैतन्न्यायविषयत्वमिति वाच्यम् । अत्र व्यभिचाररूपबाधकसत्वेन ‘असति बाधके’ इत्यस्याभावेनैतन्न्यायाविषयत्वाच्च । नन्वेवं सर्वत्र तात्पर्यज्ञानस्याजनकत्वेऽपि संशयविपर्ययोत्तरशाब्दज्ञानविशेषे तस्य हेतुत्वं स्यादेव संशय विपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येवेति चेन्न । तथा सति विशेषदर्शनवदेव तात्पर्यज्ञानस्य शाब्दज्ञानविशेषे स्वातन्त्र्येणैव कारणत्वसम्भवेन कारणकोटिनिवेशकल्पनस्यायुक्तत्वात् । कारणकोटिनिवेशे हि शाब्दज्ञानमात्रे कारणत्वं समायाति । तच्च स्वोक्तिविरुद्धम् । अन्यथा विशेषदर्शनस्यापि कारणकोटिनिवेशः स्यादिति विशेषदर्शनसहितचक्षुरादेः कारणत्वं स्यात् । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु संशयोत्तरप्रत्यक्षे विशेषादर्शनस्य प्रतिबन्धकत्वेन प्रतिबन्धकाभाव सम्पादकत्वेनान्यथासिद्धत्वाद् विशेषदर्शनस्य न कारणत्वम् । किञ्च विशेषदर्शनस्य प्रत्यक्षमात्रे वा कारणत्वं, संशयोत्तरप्रत्यक्षे वा, तदुत्तरैकमात्रकोटिकप्रत्यक्षे वा ? नाद्यः । व्यभिचारात् । न द्वितीयः । संशयानन्तरसंशयान्तरोदयात् । न तृतीयः । तथा सत्येकमात्रकोटिकं प्रत्यक्षं भवतु । उभयकोट्यारोपरूपसंशयानुत्पादः कथम् ? न च तस्य संशयोत्पादे प्रतिबन्धकत्वान्न तदुत्पाद इति वाच्यम् । तर्ह्यन्यथासिद्धत्वेन कारणत्वाभावः स्यादिति न तद्दृष्टान्तेन शाब्दज्ञानविशेषे तात्पर्यज्ञानं कारणमिति न तस्य कारणकोटिनिवेशकल्पनं युक्तम् । न च सामान्यतोऽर्थावगमेन तात्पर्यग्रहसम्भवान्ना-न्योन्याश्रय इति वाच्यम् । यस्मिन्कस्मिंश्चिदर्थसामान्ये शब्दतात्पर्यावगमस्यातिप्रसङ्गित्वात् विशेषतात्पर्यावगमस्य चान्योन्याश्रयग्रस्तत्वात् । नानार्थे च प्रकरणादेरेव नियामकत्व-सम्भवात् । अन्यत्रोपक्षीणत्वोक्त्या विशेषकारणत्वस्यानभिप्रेतत्वेन विवरणविरोधापरिहारा-च्चेत्यलम् ।

ननु तात्पर्यज्ञानस्य यथाकथञ्चिदपि शाब्दज्ञानोपयुक्तत्वात् कारणकोटिनिवेशो युज्यते । न तु मननादेः । यथाकथञ्चिदपि शाब्दज्ञानोपयुक्तत्वाभावादित्यत आह– किञ्चेति । न च वेदबाह्यागमयोः सत्वेऽपि दुष्टत्वादुष्टत्वव्यवस्था युज्यते । वेदस्यापौरुषेयत्वेन निर्दोषत्वात् । बाह्यागमस्य तु पौरुषेयतया प्रतारणादिमत्पुरुषकृतत्वेन दुष्टत्वादयथार्थं तदिति वाच्यम् । एवमपि तात्पर्यभ्रमप्रमयोरुभयत्र सत्वेन सङ्करस्यापरिहारात् । न च योग्यताप्रमात्वा-प्रमात्वाभ्यामेव व्यवस्थेति वाच्यम् । तथा सति तत्प्रमात्वाप्रमात्वाभ्यामेव दुष्टत्वादुष्टत्व इति तस्यैव करणकोटिनिवेशसम्भवे तात्पर्यज्ञानस्य तदुपवर्णनायोगात् । ननु शब्दस्वरूपानु-प्रविष्टत्वेनाकारणत्वेऽपि शब्दस्य सन्निपत्त्योपकारकत्वेन कारणकोटिनिवेशः स्यादित्याशङ्क्य परिहरति– न चेति । न च सर्वसाम्यं दृष्टान्तत्वे न प्रयोजकम् अतिप्रसङ्गादिति वाच्यम् । यत्साम्यमुपादाय दृष्टान्तत्वं तत्साम्यस्य दार्ष्टान्तिके अवश्याश्रयणीयत्वात् । सन्निपत्योप-कारकत्वं हि करणस्वरूपनिष्पादकत्वम् । तदभावे एवमेव तु सन्निपत्योपकरत्वोक्तेः रिक्तत्वात् अतिप्रसङ्गाच्च । तुष्यतु दुर्जन इति न्यायेन सन्निपत्योपकारकत्वमभ्युपेत्यापि दूषणमाह– किञ्चेति । सन्निपत्योपकारकफलोपकारकयोरङ्गाङ्गिभावस्य क्वाप्यदर्शनेनेति भावः । अन्यथेति । सन्निपत्योपकारकस्यापि फलोपकारकं प्रति शेषित्वे इत्यर्थः ।

ननु विशिष्टयागप्रविष्टत्वेन वा शेषित्वमापाद्यते असाधारण्येन वा ? नाद्यः । इष्टापत्तेः । असाधारण्येन फलोपकारकत्वाभावेन असाधारण्येन शेषित्वस्य वक्तुमशक्यत्वात् । युज्यते च श्रवणस्य, करणोपकारकजनकत्वादिति चेन्न । श्रवणं हि किं तात्पर्यावधारणरूपम्, उत युक्त्यनुसन्धानात्मकविचाररूपम्, अथवा शाब्दज्ञानम् ? नाद्यः । असम्भावनानिवृत्त्य-भावेऽपि उपक्रमादिनैव तात्पर्यावधारणरूपश्रवणसम्भवेन मननादेस्तदुपयोग्युपकारजनकत्वा-सम्भवेन शेषित्वानुपपत्तेः । न द्वितीयः । तथा सति श्रवणस्य मननरूपतापत्त्या स्वजन्योप-कारस्य स्वापेक्ष्यत्वासम्भवात् । स्वस्यैव स्वं प्रति शेषित्वापाताच्च । न तृतीयः । असम्भावनानिवृत्तेरसंसर्गाग्रहरूपत्वेन तस्य च विशिष्टज्ञानमात्रकारणत्वेन श्रवणोपयोग्य-साधारणोपकारजनकत्वाभावात् । निदिध्यासनस्य चित्तसन्ततिरूपत्वेनोपकारजनकत्वस्य सर्वथाभावाच्च । एतेनेत्यस्यार्थमाहसोमयागेति । न चासाधारणोपकारजनकत्वोक्त्या उक्तोत्तरमेतदिति वाच्यम् । तस्य दूषितत्वात् । श्रवणस्योक्तरित्या तात्पर्यवधारणरूपत्वे विचाररूपत्वे शाब्दज्ञानरूपत्वे वा शब्दगतस्य जातिरूपस्योपाधि रूपस्य वाऽजननात् । मननादिजन्यचित्तैकाग््रयरूपचित्तगतातिशयस्योक्तरूपश्रवणोपकारकत्वाभावाच्च ।

यत्तु श्रवणजन्यः शब्दगतोऽतिशयः शक्तितात्पर्यविषयत्वरूप एवेति न दोष इति तत्वशुध्युक्तं तदतिदेशेन निरसितुमनुवदति– एतेनेति । ननु सन्निपत्योपकारकफलोपकारकयोः परस्परमङ्गाङ्गिभावाभावेऽपि त्रयाणामपि फलोपकार्यङ्गत्वेन परस्परमङ्गाङ्गिभावः स्यादित्यत आह– किञ्चेति । न च त्रयाणां फलोपकार्यङ्गत्वेऽपि मनन निदिध्यासनयोः फले जनयितव्ये शब्दसहकारिसम्पादकत्वात्, श्रवणस्य तु शब्दे फलजनकतासम्पादकत्वेन विशेषा-द्युज्यतेऽङ्गाङ्गिभाव इति वाच्यम् । श्रवणं हि किं शब्दे साक्षात्काररूपफलजनकतां सम्पादयति, उत परोक्ष ज्ञानरूपफलजनकताम् ? नाद्यः । शब्दस्य साक्षात्काररूपफल-जनकत्वाभावेन श्रवणस्य तत्सम्पादकत्वायोगात् । धर्मादेरपि शब्दादापरोक्ष्यसम्भवे-नातीन्द्रियोच्छेदापत्तेश्च । न द्वितीयः । जनकत्वस्य शक्तिरूपतया स्वत एव सिद्धत्वेन श्रवणस्य तज्जनकत्वानुपपत्तेः । वक्ष्यमाणरीत्या श्रवणस्य शाब्दज्ञानरूपत्वेन स्वस्य स्वजनकत्वापाताच्च । फलोपकार्यङ्गानामपि परस्परमङ्गाङ्गिभावाङ्गीकारे बाधकमाह– अन्यथेति । न च करणस्वरूपसम्पादकत्वरूप प्रयोजकस्यात्रेव तत्राभाव इति वाच्यम् । करणीभूतशब्दस्वरूपस्य नित्यतया तत्सम्पादकत्वानुपपत्तेः । श्रवणस्य शाब्दज्ञानरूपतया तत्सम्पादकत्वासम्भवाच्च ।

अतिप्रसङ्गान्तरमाह– करणेति । नचैकफले उभयोर्यागार्थत्वाभावेन विशेष इति वाच्यम् । एवमप्यनेकफलेऽति प्रसङ्गापरिहारात् । किञ्चैकफलेऽपि उभयोर्यागार्थत्वाभावः कुतः ? न च पूर्वगतसदाप्रधानजन्यापूर्वसहितैककपाल होमरूपक्रिययैव परमापूर्वोत्पत्तिसम्भवे एककपालजन्यकरणापूर्वं नाभ्युपेयत इति वाच्यम् । समप्रधानपूर्वसहितैककपाल होमाख्य-क्रियाकाल एव परमापूर्वोत्पत्तिर्न सम्भवति । उत्तराङ्गजन्यापूर्वस्य सहकारिभूतस्याभावात् । क्रियायाश्च त्रिक्षणावस्थायित्वेन परमापूर्वोत्पत्तिकालेऽभावात् मध्ये करणापूर्वोत्पत्ति-रावश्यकीति उभयोर्यागार्थत्वसत्वेन विशेषाभावापादनं युक्तमेवेति । न च परोक्षज्ञानस्यैव शब्दफलत्वात् कथं शब्दस्यापरोक्षज्ञप्तौ उत्पाद्यायां श्रवणस्यापेक्षितत्वेन फलोपकार्यङ्गत्व-मित्यत्राह– कप्तं चेति । लोक इत्युपलक्षणम् । वेदेऽपीति द्रष्टव्यम् । तथा च शब्दे अतिशयाधायकत्वेनाङ्गी कृतस्य श्रवणस्य साक्षात्कारफलजनकाङ्गित्वकल्पनेऽदृष्टकल्पनेति भावः । ननु किमिदं साक्षात्त्वम् ? न तावज्जातिः । नाप्युपाधिरिन्द्रियजन्यत्वादिकम् । किन्तु विषयगताज्ञाननिवर्तकत्वमेवापरोक्षत्वे प्रयोजकम् । तच्चातिशयाधायकत्वेऽपि युज्यत एवेति नादृष्टकल्पनेति चेन्न । विषयगताज्ञाननिवर्तकत्वस्यापरोक्षत्वप्रयोजकत्वे धर्मादि-विषयकानुमित्यादेरपि अपरोक्षत्वापत्तिः । न चानुमित्यादेर्विषयगताज्ञाननिवर्तकत्वमेव नेति वाच्यम् । तथा सति धर्मादौ ज्ञातेऽपि न जानामीति बुध्यापत्तिः । अस्तु वा साक्षात्त्वं जातिः । न च प्रमात्वेन साङ्कर्यम् । तस्योपाधिरूपतया जातित्वाभावात् । जातित्वेऽपि तद्व्याप्यं प्रमात्वं नानैवेति न साङ्कर्यापातः । अस्तु वा उपाधिरूपं तत् । न चेन्द्रियजन्यत्वमनुमितावप्यस्तीति वाच्यम् । इन्द्रियत्वेनेन्द्रियजन्यत्वस्य विवक्षितत्वात् । अनुमितौ च मनस्त्वेन जनकत्वसत्वेन इन्द्रियत्वेन तदभावात् । तथा चादृष्टकल्पनाता-दवस्थ्यमेवेति ।।

श्रुतिवाक्ये इति ।। अनपेक्षः शब्दः श्रुतिः । पदसङ्घातमात्रं वाक्यमित्यर्थः । लिङ्गं तु विपरीतमिति । तच्चान्वयव्यतिरेकावसेयम् । यदि हि निदिध्यासनाभावे श्रवणाभावः स्यात् तदा निदिध्यासनस्याङ्गत्वं स्यात् । न चैवं, किन्तु श्रवणाभावे निदिध्यसनाऽसम्भवात् तस्मिन् सत्येव च निदिध्यासनसम्भवेन श्रवणस्यैवाङ्गत्वं प्रतीयत इति लिङ्गं विपरीतमित्यर्थः ।। नापि प्रकरणमिति ।। इतिकर्तव्यताकाङ्क्षारूपमित्यर्थः । इतिकर्तव्यताकाङ्क्षा हि प्रधाने भवति । प्राधान्यं हि फलसम्बन्धिन एव । न च श्रवणस्य फलसम्बन्धोऽस्तीति प्राधान्यासिद्धावितिकर्तव्यता काङ्क्षाऽसम्भवादित्यर्थः ।। स्थानसमाख्ये त्विति ।। पाठा-नुष्ठानसादेश्यरूपस्य स्थानस्य प्रकृतेऽसम्भावितत्वात् । पाठसादेश्यं हि यथासङ्ख्यसन्निधि-रूपम् । न च तत् प्रकृतेऽस्तीति भावः । समाख्या हि यौगिकी सञ्ज्ञा । न च प्रकृते आध्वर्यवमित्यादि सञ्ज्ञावद् यौगिकी सञ्ज्ञास्ति, यया शेषशेषिभावोऽवगन्तव्य इति भावः ।

किञ्च श्रवणरूपविचारस्य सति प्रमाफलकत्वे मननादेः फलोपकार्यङ्गत्वं वक्तव्यम् । तच्च न युज्यते । तद्धि किं साक्षाद्वा, तात्पर्यज्ञानद्वारा वा ? नाद्यः । अनुपलम्भात् । न द्वितीयः । तात्पर्यज्ञानस्य शाब्दप्रमाहेतुतायास्त्वयैव निषिद्धत्वादित्याह– किञ्चेति । ननु मननादेः श्रवणं प्रति फलोपकार्यङ्गत्वं किं दृष्टद्वारा, उतादृष्टद्वारा ? नान्त्यः । अनङ्गीकारात् । आद्येऽपि मनननिदिध्यासनयोरेकमेव दृष्टद्वारमङ्गीक्रियते भिन्नमेव वा ? एकद्वारत्वेऽपि समुच्चित्य वा कारणत्वमुत प्रत्येकमेव वा ? नाद्यः । एकैकेनापि तस्य जायमानत्वात् । न द्वितीयः । अन्यतरवैयर्थ्यापत्तेः । विकल्पापत्तेश्च । न द्वितीयः । अदर्शनात्, इत्याशङ्का-परिहाराय यत् परैर्भिन्नत्वपक्षमभ्युपेत्य द्वारद्वैविध्यमुक्तं तद् दूषयितुमनुवदति– यच्चोक्तमिति । असम्भावनाविपरीतभावनयोरेकत्वादेकद्वारत्वमित्यत उक्तं– चित्तैकाग््रयेति । विपरीत-संस्कारेति । तद्रहित इति । अयुक्तत्वशङ्कारहित इत्यर्थः । ‘दृष्टहान्यादी’त्यादिपदेनादष्ट-कल्पनपरिग्रहः । मननविधेरिति । मननस्यायुक्तत्वशङ्कानिवर्तकत्वे हि तस्या अन्वयव्यतिरेकाभ्यां प्राप्तत्वात् नियमविधित्वं युज्यते । उक्तयोग्यत्वशङ्कानिवर्तकत्वे हि तस्याप्राप्तत्वात् अपूर्वविधित्वं स्यादित्यर्थः । न च तादृशशङ्कायां सत्यां चित्तविक्षेपस्य जायमानत्वात् चित्तप्रवणताया अभावे उक्तशङ्कानिवृत्तौ चित्तविक्षेपस्य निवृत्तेः तावत्पर्यन्त-त्वस्य दृष्टत्वेन दृष्टहान्याद्यभाव इति वाच्यम् । एतादृशचित्तप्रवणताया ज्ञानमात्रहेतुत्वेन मननस्य ज्ञानमात्रकारणत्वापत्तेः । निदिध्यासनस्यापि उक्तविधं द्वारं नोपपद्यत इत्याह– निदिध्यासनस्येति ।

ननु भवत्पक्षेऽपि निदिध्यासनस्याङ्गित्वं, श्रवणमनयोश्चाङ्गत्वमयुक्तम् । निदिध्यासन-स्याङ्गित्वे प्रमाणाभावात् । श्रवणादेश्चाङ्गत्वं किं सन्निपत्याङ्गत्वमुतारादुपकारकत्वम् ? नाद्यः । ध्यानस्वरूपनिष्पादकत्वाभावात् । न द्वितीयः । अनङ्गीकारादित्याशङ्कां परिहरन्नुपसंहरति– तस्मादिति । श्रवणस्य सामर्थ्यं कारणत्वं च सति श्रवणे ध्यानं, श्रवणाभावे तदभावः इत्यन्वयव्यतिरेकाभ्यामवसीयते । तथा च तेन लिङ्गेन प्रकरणेन चाङ्गत्वम् । नन्विति कर्तव्यताकाङ्क्षा प्रकरणम् । इतिकर्तव्यताकाङ्क्षा च प्रधानस्यैव । प्राधान्यं च फलसम्बन्धे सत्येव भवति । न च निदिध्यासनस्य फलसम्बन्धोऽस्ति प्रमाणाभावात् । इत्यत उक्तं ‘ततस्तु तं पश्यत’ इत्यादि । न च निदिध्यासनपदस्य ‘बर्हिर्देवसदनं दामी’ इत्यादाविव साक्षात्काररूपफलसम्बन्धे न शक्तिरिति सामर्थ्याभाव इति वाच्यम् । निदिध्यासनपदस्य साक्षात्काररूपफलसम्बन्धे शक्तेरनुक्तत्वेनोक्तदूषणस्य ग्रन्थार्थाबोध-विजृम्भितत्वात् । वाक्ये च मध्ये श्रवणाध्याहारो न युक्तः । योग्यताबलस्यैवाभावात् । तथा च श्रवणमननयोर्ध्यानस्वरूपनिष्पादकत्वात् सन्निपत्योपकारकत्वमिति भावः ।

ननु फलोपकारकत्वमेव कुतो नाभ्युपेयत इत्यत आह– युक्तिश्चेति । अत एवेति । फलोपकारात् स्वरूपोपकारस्य सन्निकृष्टत्वादेवेत्यर्थः । सन्निधानस्येति । तस्य समाख्यारूपत्वेन षष्ठप्रमाणत्वादिति भावः । ननु श्रवणमननयोर्ध्यानाङ्गत्वं किं साक्षाद्वा परम्परया वा ? नाद्यः । श्रवणे सत्यनन्तरमेव ध्यानादर्शनात् । न द्वितीयः । परम्परा-घटकद्धाराभावात् इत्यत आह– किञ्चेति । उक्तेऽर्थे आचार्यसम्मतिमाह– तदुक्तमिति । यदि हि भावनाप्रकर्षजन्यत्वमात्रस्य साक्षात्काराप्रमात्वे प्रयोजकत्वं स्यात् तदैवमापादनम् । न चैवम् । किन्तु भावनामूलभूत करणस्याप्रामाण्ये सत्येव तस्याप्रामाण्यम् । प्रकृते भावनामूलभूतकरणवेदान्तानां प्रामाण्याद् युज्यते साक्षात्कारस्य प्रमात्वम् । न केवलमेतन्मयैवोच्यते अपि तु त्वयाप्युक्तमित्याह– त्वयापीति । न चैवं मूलभूतशब्दस्यैव साक्षात्कारकारणत्वमस्तु । किं तदुपजीविनान्येनेति वाच्यम् । शब्दस्य परोक्षज्ञानजनकत्वेना-परोक्षज्ञानजनकत्वाभावात्, परोक्षनिश्चयादिजनकतयाऽन्यथासिद्धत्वाच्च । अन्यथा धर्मादेरपि शब्दादापरोक्ष्येऽतान्द्रियोच्छेदापत्तिः । न च निदिध्यासनस्येति । इन्द्रियलिङ्गज्ञानशब्द-रूपत्वाभावेन त्रिकान्तर्भावासम्भवाद् अतिरिक्तप्रमाणस्य चानङ्गीकारात् प्रमाकरणत्वा-सिद्धिरिति भावः ।। त्वयेति ।। तथा चान्यथासिद्धत्वात् तात्पर्यावधारणरूपत्वेनोक्त प्रमाणान्तर्भावासम्भवाच्च न प्रमाकरणत्वमिति भावः । ननु नैतावताऽप्युक्तदोषः परिहृत इत्यत आह– निदिध्यासनेति । स्वेन शब्दस्य साक्षात्कारकरणत्वानभ्युपगमात् स्वमतेन परिहारमाह– अथवेति । उक्तमर्थं कारिकारूढं करोति– तस्मादिति । परपक्षनिरास-मुपसंहरति– न त्विति ।। इति मनननिदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ।। १ ।।

न्यायकल्पलता

श्रीमत्सद्गुणसम्पूर्णविग्रहं विष्णुमव्ययम् ।

वन्दे श्रुत्यादिसम्भूतप्रसादादपवर्गदम् ।। १ ।।

निदिध्यासनमङ्गि, श्रवणादिकम् अङ्गम् इत्येतदाक्षिपति– नन्वेतदिति ।। विवरणे ।। ननु मनननिदिध्यासनयोः कथं श्रवणं प्रत्यङ्गतावगमः? यावता ब्रह्मण्येव शक्तितात्पर्यविशिष्टवेदान्त-शब्दावधारणात् श्रवणशब्दाभिधेयात् आत्मन्यवबुद्धे पश्चान्मननम् अर्थसम्भावनोपपत्तिपर्यालोचनद्वारा जनिता ब्रह्मणि प्रत्ययावृत्तिरुत्पद्यते । ततश्च प्रमाणयुक्तिसम्भावनाभ्यां परिनिश्चिते विषये तदेकाकारं चित्तसमाधानं निदिध्यासनमुत्पद्यते । तदेवं निदिध्यासनस्वरूपोपकारितया श्रवण मननयोस्तदङ्ग-भावेऽवगते न युज्यते श्रवणाङ्गता मनननिदिध्यासनयोरिति । अत्रोच्यते– यस्मिन् पक्षे शक्तितात्पर्य विशिष्टशब्दावधारणं प्रथमं ब्रह्मणि परोक्षज्ञानमुत्पाद्य मनननिदिध्यासनसंस्कारविशिष्टान्तः-करणापेक्षयाऽपरोक्षज्ञानम् उत्पादयति । तत्र ब्रह्मणि परोक्षज्ञानस्य निदिध्यासनोपकारितया तदङ्गत्वेऽपि तात्पर्यवद्विशिष्टशब्दावधारणाद् अपरोक्षज्ञानोत्पत्तौ मनननिदिध्यासने श्रवणस्य फलोपकार्यङ्गताम् अश्नुवाते । नन्वपरोक्षफलोदयेऽपि निदिध्यासनाङ्गतैव श्रवणमननयोः किं न स्यात् । त्रयाणामपि सन्निपत्योपकाराविशेषाद्दर्शपूर्णमासवत्समप्रधानता वा किं न स्यादिति । उच्यते । शक्तितात्पर्यविशिष्ट-शब्दावधारणं प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति । प्रमाणस्य प्रमेयावगमं प्रतीत्याद्युक्तम् ।। मनननिदिध्यासने इति ।। तत्रापि मननस्य चित्तैकाग््रयायोग्यरूपासम्भावनानिरसनद्वारेण चित्तस्य प्रत्यगात्मैकाग्रवृत्तिहेतुत्वं, निदिध्यासनस्य तु विपरीतसंस्काररूपविपरीतभावनानिरसनद्वारा तद्धेतुत्वम् ।। प्रत्यगात्मेति ।। प्रत्यगात्मप्रवणतालक्षणो यः संस्कारः तेन परिनिष्पन्ना या ब्रह्मैकाग््रयलक्षणा वृत्तिः सैव कार्यं तद्द्वारेणेत्यर्थः ।। इतीति ।। फलं प्रत्यव्यवहितस्य कारणस्य विशिष्टशब्दावधारणस्य व्यवहिते मनननिदिध्यासने इति हेतोरित्यर्थः । शक्तितात्पर्यविशिष्टशब्दावधारणरूपस्य श्रवणस्य ब्रह्मानुभवं प्रति साक्षाद्धेतुत्वेन करणत्वमित्युक्तं दूषयति– विचार इति ।। शाब्दज्ञाने शब्दस्य तज्ज्ञानस्य वा साक्षात्कारणत्वं नान्यस्य । ननु शक्त्यादीनां सन्देहादौ सति शाब्दज्ञानाभावेन विशिष्टस्य हेतुत्वे वाच्ये विशेषणस्यापि हेतुत्वेन व्यवधानद्वाराऽवघाततण्डुलादेरिव करणान्तर्गतिरस्तीत्यतः करणवदेव शेषित्वं भविष्यतीत्यत आह– न चेति ।।

अस्तु वा करणान्तर्गतिः शक्त्याद्यवधारणस्य तथापि न तस्य शब्दवन्मत्याद्यपेक्षया शेषित्वमित्याह– सन्निपात्यपीति ।। प्रधानं प्रति सन्निपात्यङ्गस्यारादुपकारकाङ्गानां च परस्परमङ्गाङ्गित्वाभावात् । अन्यथाऽवघातं प्रति प्रयाजादेः शेषत्वं स्यादित्यर्थः । तर्ह्याग्नेयादिवत् त्रयाणामपि प्राधान्यमस्त्वित्यत आह– हीषादेरिति ।। सौभराख्येन साम विशेषेण वृष्टावन्नाद्ये स्वर्गे च फले जननीये सति ‘हीष् ऊर्क ऊ’ इत्येषां सौभराख्यसामसमाप्त्यवयवानां सौभरेण वृष्टौ जननीयायां ‘हीष्’ इत्येतस्य अन्नाद्ये जननीये, ‘ऊर्क’ इत्येतस्य स्वर्गे जननीये, ‘ऊ’ इत्येतस्य सौभरं प्रत्येव यथाऽङ्गत्वं तथा शब्देन परोक्षज्ञाने जननीये शक्त्याद्यवधारणरूपविचारस्याङ्गत्वम् । अपरोक्षज्ञाने शब्देन जननीये मननादेरङ्गत्वमिति शब्दं प्रत्येव त्रयाणामङ्गत्वं वक्तुं युक्तम् । न तु परस्पराङ्गत्वम् । अन्यथा हीष् इत्यादीनामपि परस्पराङ्गत्वं स्यात् ।। भिन्नफले इति ।। शब्देन जननीये सतीति शेषः । स्याच्छब्दोऽनास्थायाम् । निदिध्यासनं प्रति श्रवणादेरङ्गत्वस्य वक्ष्यमाणत्वात् । मौनिश्लोकादौ शब्दाभावादाह– शब्दज्ञानरूपे वेति ।। शक्त्यवधारणस्य विचारात्पूर्वभावित्वेन विचारानन्तर्गतत्वा-त्तात्पर्यावधारणमेव तदन्तर्गतम् । अतस्तात्पर्यावधारणरूपविचारस्याङ्गित्वमित्याशङ्कां निरस्यति– एतेनेति ।। अन्योन्याश्रयादिति ।। तात्पर्यविषयशब्दार्थमज्ञात्वा तत्र तात्पर्यस्य ग्रहीतुम् अशक्यत्वा-त्तात्पर्यज्ञाने शाब्दज्ञानापेक्षा, तस्मिंश्च तात्पर्यज्ञानापेक्षेत्यन्योन्याश्रयः इत्यर्थः । नन्वेवमाकाङ्क्षादि धियोऽपि निराकाङ्क्षत्वादिभ्रमनिरासिकत्वमात्रेणोपयोगोपपत्तौ आकाङ्क्षादिकमपि कारणकोटौ प्रविष्टं न स्यादिति मैवम् । निराकाङ्क्षत्वादिज्ञानाभावेऽप्याकाङ्क्षादिज्ञानं विना शब्दज्ञानाभावस्यानुभवसिद्ध-त्वात् । ननु तात्पर्यज्ञानाहेतुत्वे कथं नानार्थे विनिगमना । अन्वयविशेषयोग्यतयेति ब्रूमः । अयोग्यताविरहाद्वा ।

यत्तु ग्राह्यसंशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनमिव तात्पर्यसंशयाद्यु(दु)त्तरशाब्दज्ञाने तात्पर्यधीः कारणमिति, तन्न । उभयत्रोभयस्य प्रतिबन्धनिरासमात्रोपयोगित्वेनाहेतुत्वात् । तदिदमुक्तं प्रतिबन्धनिरासेत्यादि । तात्पर्यभ्रमस्य प्रतिबन्धकत्वं च कार्यबलान्मणिमन्त्रादिवत् । अत एव साक्षादविरोधिनो ज्ञानस्य जनकज्ञानविघटकतयैव प्रतिबन्धकत्वमित्यादेर(न)वकाशः ।। बाह्यागमेऽपीति ।। शब्दार्थस्य बाधितत्वेऽपि तद्वक्तुस्तत्र तात्पर्यमबाधितमेव ।। दुष्टत्वेति ।। ज्ञानरूपेषु ज्ञानकरणेषु भ्रमरूपं दुष्टं प्रमारूपमदुष्टमित्यन्यत्र दृष्टा व्यवस्था न स्यात् । यादृच्छिकसंवादिलिङ्ग विभ्रमस्य तु दुष्टत्वमेव । स्वव्यापकभ्रमहेतुत्वात् । तत्र प्रतीतस्य तदव्यापकत्वात् । ननु वेदे कुत्रचिदेव तात्पर्यभ्रमो बाह्यागमे तु कुत्रचिदेव तत्प्रमेति । मैवम् । यत्रैव तद्भ्रमप्रमे तदंश एव तयोर्दुष्टत्वादुष्टत्वापातात् ।। करणीयेति ।। करणं द्व्यवदानयागः । तस्य द्रव्यं व्रीह्यादि । तत्र यथा•वघातादेः शेषत्वम् अस्ति तथा प्रकृते नास्तीति तात्पर्यावधारणं शब्दं प्रति न सन्निपात्यङ्गमित्यर्थः ।

यत्तु दृष्टान्ते सर्वसाम्यं नापेक्षितम् अतोऽवघातवैषम्येऽपि तात्पर्यावधारणं शब्दं प्रति न सन्निपात्याङ्गमेवेति । तन्न । मीमांसकप्रक्रियालेशस्याप्यज्ञानेनोक्तत्वात् । सन्निपातीनि दृष्टार्थानि क्रियारूपाणि कारकस्योत्पत्त्यादि कुर्वन्ति अदृष्टार्थानि सन्निपातीनि तु स्वकारकेष्वतिशयमादधति तत्तदङ्गभावमाप्नुवन्ति तात्पर्यावधारणं त्वनुभयं कथं सन्निपाति स्यात् ।। अन्यथाऽवघातादिरिति ।। ननु विशिष्टयागप्रविष्टतयाऽवघातस्य शेषित्वमिष्टमेव । असाधारण्येन शेषिता तु न । असाधारण्येन फलोपकारत्वाभावादिति । मैवम् । श्रवणत्वेन श्रवणस्य शेषित्ववदवघातत्वेनावघातस्य प्रयाजादि-शेषित्वस्यापाद्यमानत्वादिति भावः ।। एतेनेति ।। प्रधानं प्रति सन्निपत्योपकारकस्य प्रधानोपकार-कान्तर मननापेक्षया शेषित्वेऽवघातादेः प्रयाजाद्यपेक्षया शेषित्वापातेनेत्यर्थः । ननु प्रयाजादिकं यागस्यैव सहकारि मननादिकं तु शब्दसहकारिभूतस्य चित्तस्य सहकारीति वैषम्यमित्यत आह– सोमयागेति ।। ‘सोमम् अभिषुणोति, ‘आश्विनं गृह्णाति’ इत्यादिना विहितमभिषवादिकं करणभूते शब्दस्थानीये सोमयागेऽतिशयाधायकम् । करणान्तर्गतं तात्पर्यावधारणस्थानीयं तत्प्रतिसोमयागसहकारिभूताया दीक्षणीयान्वितस्थानीया तदङ्गम् अत एव तद्गतातिशयहेतुः प्रयाजप्रोक्षणादिमननादिस्थानीयम् अङ्गं स्यादित्यर्थः ।

नन्वभिषवादियुक्तसोमयागं प्रत्यङ्गस्य प्रयाजादेरभिषावादिकं प्रत्यपि तदस्त्येवेति वदन्तं प्रत्याह– गौणाङ्गत्वमिति ।। श्रुत्यादिगम्येऽङ्गत्वे तद्विनापि कल्पनेऽतिप्रसङ्गः । शब्दादापरोक्ष्यं वदता शब्दे त्रयाणामङ्गत्वं वक्तुं युक्तमित्याह–  किञ्चेति ।। अन्यथेति ।। अनेकफलानि साधयतैकेन तत्तत्फले जनयितव्येऽपेक्षितानां सहकारिविशेषाणां अन्योन्यम् अङ्गाङ्गिभावाङ्गीकार इत्यर्थः । सौभरेण सौभरनामकेन साम्ना । निधनं साम्नोऽन्त्योऽवयवः । द्वितीयस्य चतुर्थेऽभिहितम् ‘सौभरे पुरुषश्रुतेर्निधने कायसंयोगः’ । ब्रह्मसामाख्यं स्तोत्रं प्रकृ(ल्प्य)त्य तदाश्रितं सौभरं फलत्रयसाधनत्वेन ‘यो वृष्टिकामः’ इति वाक्येन विधाय वृष्ट्यादिसाधने सौभरे निधनसाधनत्वेन हीषादयो हीषादिवाक्येन विहिताः । तत्र संशयः । किं हीषादयो निधनविशेषाः सौभरफलात्फलान्तरार्थेन विधीयन्ते उत सौभरस्यैव तत्तत्फलं साधयतः तत्तन्निधनमनियमेन पाठतः प्राप्तं नियम्यत इति । तदर्थं किं वृष्टिकामादिशब्दोक्तपुरुषशेषत्वेनैते साक्षाद्विधीयन्ते उत वृष्टिसाधनसौभरशेषत्वेनेति । तत्र वृष्टिकामादिशब्दैः पुरुषस्य श्रुतत्वात्तादर्थ्यमेव हीषादीनां चतुर्थ्या विज्ञायते । पुरुषशेषता च तदभिलषित(फल)साधनतयेति फलार्थत्वमेवैषाम् । वृष्टिकामशब्देन वृष्टिकामस्येच्छाविषयभूतवृष्टि साधनसौभरोक्तौ लक्षणा स्यात् । न च श्रुतिसम्भवे सा युक्ता । तस्माद्धीषादयो गुणाः सौभरफलाद्वृष्ट्यादेर्भिन्नस्य वृष्ट्यादिफलहेतव इति ।

स्वातन्त्र्येण तदर्थतया विधीयमानत्वादिति पूर्वः पक्षः । सिद्धान्तस्तु सौभरफलत्वेन पूर्वोक्तान्येव वृष्ट्यादीनि विपरिवर्तमानानि प्रत्यभिज्ञायन्ते इति न फलान्तरावगमः । किञ्च ‘हीष्’ इति शब्दमात्रे फलाय विहिते सत्याश्रयापेक्षाया न तावन्निधनमाश्रयो भवितुं युक्तम् । तस्याप्रकृतत्वात् । नापि सौभरम् । प्रकृतत्वेऽप्यनेकावयवत्वान्नियमे(न) निधनसम्बन्धायोगात् । तथात्वे निधनमित्यनर्थकं स्यात् । निधनस्यापि विधाने वाक्यभेदः । तस्माद्वृष्टिकामादिशब्दलक्षिते सौभरे निधनत्वेनैवानियतप्राप्ता हीषादयो नियम्यन्ते । अथवा लक्षणापि नास्ति । न हि यदेव फलस्य कारणं तस्यैव पुरुषशेषत्वं तदङ्गस्यापि तद्द्वारेणास्ति पुरुषशेषिता । तथा च प्रयोगो दृश्यते । ‘वासिष्ठानां नराशंसो द्वितीयः प्रयाजः’ इति । तेन हीषादयः सौभराङ्गभूतास्तद्द्वारेण वृष्टिकामादीनां पुरुषाणामनियमेन शेषभूताः प्राप्तास्तानेव प्रति यथा प्राप्तरूपा नियम्यन्त इति न लक्षणा । तदुक्तम्–

तस्मात्फलान्तरार्थेन नैव हीषादयो गुणाः ।

  विधीयन्ते नियम्यन्ते ते यथा प्राप्तसौभर’ ।। इति ।

एकस्य भिन्नभिन्नकार्यजननेऽपेक्षितानां भिन्नभिन्नसहकारिणां परस्परमङ्गाङ्गिभावे दूषणान्तरमाह– करणापूर्वेति ।। यागेन करणापूर्वे जननीयेऽवघातादिः सहकारी । परमापूर्वे तु जननीये प्रयाजादिः सहकारी । न त्ववघातादिकं प्रति प्रयाजादिः शेषः । त्वद्रीत्या तु स्यादित्यर्थः । करणापूर्वं नाम प्रधानमात्रेण जननीयम् अपूर्वम् । साङ्गेन तेन जननीयं तु परमापूर्वमिति । ननु शब्दस्य परोक्षज्ञानं प्रति हेतुत्वे तदवच्छेदेन श्रवणस्य शब्दं प्रत्यङ्गत्वं स्यात्तदेव तु नास्तीत्यत आह– कप्तं चेति ।। एतेन यागेऽपूर्वभेदवत्प्रकृते न कार्यभेद इति निरस्तम् । नन्वकरणमपि प्रयाजादिकं प्रत्याज्यग्रहणादेरिव श्रवणं प्रति मननादेरङ्गत्वं भविष्यतीत्यत आह– न चाकरणमपीति ।। ‘चतुर्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्’ इत्यादेरिवात्र श्रुत्यादेरभावात् ।। लिङ्गन्त्विति ।। श्रुतस्याप्यर्थस्य मन्तव्यादिरूपतया श्रवणस्य मननाद्युपकारकत्वरूपसामर्थ्यवन्मननध्यानयोः श्रोतव्यत्वाभावेन तयोस्तथासामर्थ्या-भावाद्विपरीतं लिङ्गं सामर्थ्यम् ।। प्रकरणमिति ।। इतिकर्तव्यताकाङ्क्षा प्रकरणम् ।। श्रवणस्येति ।। तात्पर्यावधारणरूपश्रवणस्य शाब्दप्रमारूपफलाहेतुत्वात् ।। स्थानेति ।। स्थानं सादेश्यम् । समाख्या यौगिकी सञ्ज्ञा ।

ननु तात्पर्यावधारणरूपश्रवणस्य शाब्दप्रमां प्रत्यहेतुत्वेनाप्रधानतयेतिकर्तव्यतारूपाकाङ्क्षाविरहेऽपि तात्पर्यावधारणहेतोर्विचारस्य शाब्दप्रमाहेतुत्वादिकं स्यादित्यत आह– किञ्चेति ।। मननादेः शाब्दज्ञानेऽहेतुत्वेन श्रवणं प्रति तयोः फलोपकार्यङ्गत्वमित्याह– यच्चोक्तमिति ।। तत्र मननस्य न शाब्दज्ञानहेतुत्वं, द्वाराभावादित्याह– सूक्ष्मेति ।। चित्तैकाग््रयस्य शाब्दज्ञानविशेषे हेतुत्वेऽपि न तस्य मननसाध्यत्वम् । किन्त्वयुक्तत्वशङ्कानिवृत्तिरेव तत्साध्या । तद्रहिते अयुक्तत्वशङ्कारहिते ।। उक्तेति ।। चित्तैकाग््रयम् ।। शङ्का असम्भावनेति यावत् । अयुक्तत्व शङ्कानिवृत्तिस्तु मननद्वारा । तस्याः प्रतिबन्धकाभावरूपत्वादिति भावः ।। मननविधेरिति ।। चित्तैकाग््रयस्य मननसाध्यताया मानान्तराप्राप्तत्वात् ।। मतिरिति ।। अयुक्तत्वशङ्कानिवर्तकत्वमेव मनने प्रतीयते । न तु चित्तैकाग््रय-हेतुत्वम् । निदिध्यासनस्यापि न शाब्दधीहेतुत्वम् । द्वाराभावादित्याह– निदिध्यासनस्येति ।। रूप्येति ।। ननु इयं शुक्तिरिति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कारसत्त्वेऽपि तद्रजतमिति अस्मरणेन विपरीतसंस्कारनिवृत्तिस्तत्राप्यस्तीति । मैवम् । रूप्यसंस्कारसत्त्वेऽपि शुक्तिसाक्षात्कारवत्प्रपञ्चसंस्कारसत्त्वेऽपि ब्रह्मसाक्षात्कारसम्भवात् । (तत्प्रवृत्ति) तन्निवृत्तिः निदि-ध्यासनस्य द्वारमित्युक्तावेतस्य व्यधिकरणत्वात् ।। श्रवण सामर्थ्येति ।। श्रुतार्थस्यैव मतस्यैव ध्यातव्यादिरूपत्वात् ।। निदिध्यासनस्येति ।। फलसाधनस्यैवेतिकर्तव्यताकाङ्क्षा रूपप्रकरणित्वं, फलसाधनं च निदिध्यासनमेव ‘ततस्तु तं पश्यत’ इति वाक्यात् ।

ननु श्रवणमनने ध्यानं प्रति लिङ्गप्रकरणाभ्यां सन्निपात्यङ्गे इति न युक्तम् । तयोर्ध्यानं प्रति फलोपकारकत्वसम्भवादित्यत आह– युक्तश्चेति ।। अत एवेति ।। स्वरूपोपकारस्यान्तरङ्गत्वादेव । नवमे द्वितीयपाद इति शेषः । ‘पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगात्तदभीज्या हि । दर्शपूर्ण-मासयोः । ‘स्रुवेण पार्वणहोमौ जुहोति’ इति तद्धितश्रुत्या पर्वदैवत्यौ होमौ श्रुतौ । तौ किं विकृतिष्वतिदिश्येते उत नेति संशयः । तदर्थमिदं विचार्यते किं पर्वशब्दः कालवचनः कालोऽस्य देवता तस्य चासंस्कार्यत्वादारादुपकारकौ होमौ उताग्नेयादिसमुदायवचनः समुदायदैवत्यौ होमौ तत्संस्कार्याविति प्राप्ते सिद्धान्तः– पृणातेर्दानकर्मणः पर्वशब्दः । स च दीयतेऽस्मिन्नित्यधिकरणव्युत्पत्त्या कालेऽपि मुख्यो भावव्युत्पत्त्या कर्मण्यपि । तत्र प्रकरणात्सामवायिकत्वलाभाच्च कर्मवचनत्वमङ्गीकृत्य तत्संस्कारार्थता होमयोः । तेषां च कर्मणां तन्त्रेणाभिहितानाम् अग्नीषोमयोरिव व्यासक्तं देवतात्वम् । नैकैकशः । तेन समुदायस्य देवतात्वात्, तस्य च विकृतिस्वभावाद् अतद्विकारत्वाच्च सौर्यादेस्तत्र होमयोरप्रवृत्तिः । न हि सौर्यादयः समुदायविकाराः । तदुक्तम्–

काले शब्दस्य मुख्यत्वात्कालाभीज्येह गम्यते ।

पृणातेर्दानकर्मत्वात्कर्मण्यपि च मुख्यता ।। इति ।।

पाठरूपेति ।। यथा सान्नाय्यपात्रशुन्धनक्रमात् ‘शुन्धध्वम्’ इति मन्त्रस्य सान्नाय्यपात्राङ्गत्वम् ।। सन्निधानस्येति ।। यथा दर्शपूर्णमासयोः श्रूयते– ‘हस्ताववनिक्ते उलपराजिंस्तृणाति’ इति । तत्र हस्तावनेजनं हस्तसंस्कारार्थं सत् करिष्यमाणसर्वाङ्गं वा अनन्तरोक्तोलपराजिस्तरणाङ्गं वेति संशये आनन्तर्यरूपसन्निधानात्तन्मात्राङ्गमिति प्राप्ते लिङ्गेन सर्वाङ्गमिति सिद्धान्तितं तृतीयस्य द्वितीये । आदिपदेन ‘श्रुत्वा मत्वा’ इत्यादिका श्रुतिः सन्निधानं च गृह्यते । श्रवणमननयोर्दृष्टद्वारा ध्यान-स्वरूपनिष्पादकतया ध्याने सन्निपात्यङ्गत्वम् । ध्यानस्य तु फलसम्बन्धेन प्राधान्यमित्यर्थे पाठसादृश्य-लक्षणः सन्निधिरप्यस्तीत्याह– श्रुत्वा मत्वेति ।। परोक्षनिश्चयं विना ध्यानस्वरूपासिद्धेस्तत्र तयोः सन्निपातित्वमपि ।। प्रमाकरणत्वमसिद्धमितीति ।। ‘ततस्तु तं पश्यत’ इति वाक्ये दर्शनमात्रश्रवणादिति भावः ।। निदिध्यासनानन्तरमिति ।। अत एव ध्यानस्य न प्रमाणान्तरत्वापत्तिरपि । ननु पुनःशब्दानुसन्धानममानकमित्यत आह– अथवेति ।। उपसंहरन् सङ्गृह्णाति– तस्मादिति ।। परपक्षं प्रतिक्षिपति– न त्विति ।।

।। इति मनननिदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ।। १ ।।