यच्चोक्तं यद्यप्यनिर्वाच्यत्वं न निरुक्तिविरहः, इदं रूप्यमिति निरुक्तेः

६९. अनिर्वाच्यत्वलक्षणभङ्गः

न्यायामृतम्

यच्चोक्तं यद्यप्यनिर्वाच्यत्वं न निरुक्तिविरहः, इदं रूप्यमिति निरुक्तेः । अत एव न निरुक्तिनिमित्तस्य ज्ञानस्यार्थस्य वा विरहः, निमित्तं विना कार्यायोगात् । नापि तयोः सदसद्रूपविशिष्टविलक्षणत्वम्, सदेकरूपत्वेऽपि तदुपपत्तेः । नापि सद्विलक्षणत्वे सत्यसद्विलक्षणत्वम्, सदसद्रूपत्वेऽप्युपपत्तेः । नापि सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वम्, सतोऽपि सदन्तरविलक्षणत्वात् । नापि सत्त्वे सत्यसत्त्वरूपविशिष्टस्य विरहः, केवल-सत्त्वेऽप्युपपत्तेः । नापि सत्त्वराहित्ये सत्यसत्त्वविरहः, सदसत्त्वेऽप्युपपत्तेः । तथापि सत्त्वेनासत्त्वेन सदसत्त्वेन च विचारासहत्वं वा बाध्यत्वं वा अनिर्वाच्यत्वम् । प्रमाणन्त्वत्र विमतं सत्त्वरहितत्वे सत्यसत्त्वरहितत्वे सति सदसत्त्वविरहितम्, बाध्यत्वाद् दोषप्रयुक्तभानत्वाद्वेत्यादि व्यतिरेकि । न चाप्रसिद्धविशेषणत्वम्, सत्त्वासत्त्वे समानाधिकरण्यात्यन्ताभावप्रतियोगिनी, धर्मत्वाद्रूपरसवत् । सत्त्वमसत्त्वानधिकरणानिष्ठम्, असत्त्वं वा सत्त्वानधि-करणानिष्ठम्, धर्मत्वाद्रूपवदिति वा सामान्यतस्तत्सिद्धेः । किञ्च सच्चेन्न बाध्येत, असच्चेन्न प्रतीयेतेति ख्यातिबाधान्यथानुपपत्तिः प्रवृत्तिबाधान्यथानु-पपत्तिश्चात्र मानमिति ।

अत्र ब्रूमः । अत्र सत्त्वासत्त्वे सत्ताजातितदभावौ वा ? अर्थक्रिया-हेतुत्वाहेतुत्वे वा ? अबाध्यत्वबाध्यत्वे वा ? प्रामाणिकत्वाप्रामाणिकत्वे वा? अशून्यत्वशून्यत्वे वा ? ब्रह्मत्वशून्यत्वे वा ? अबाध्यत्वशून्यत्वे वा ? प्रामाणिकत्वशून्यत्वे वा ? परेणाङ्गीकृते सत्त्वासत्त्वे वा ? नाद्यद्वितीयौ, शुद्धात्मनि सद्वैलक्षण्यस्य प्रपञ्चे तदभावस्य चापातात् । न तृतीयः, त्वन्मते तुच्छस्याप्यबाध्यत्वेन तत्र सद्वैलक्षण्यस्यानिर्वाच्यस्य च बाध्यत्वेन तत्रासद्वै-लक्षण्यस्य चायोगात् । अत एव न चतुर्थः, अनिर्वाच्यस्याप्रामाणिकत्वेन तत्रासद्वैलक्षण्यायोगात् । न च पञ्चमः, अनिर्वाच्यस्याशून्यत्वेन तत्र सद्वैलक्षण्यायोगात् । न षष्ठः, ममापि प्रपञ्चे तस्येष्टत्वात् । न सप्तमः, तयोरविरोधेन सत्त्वासत्त्वरूपत्वायोगात् अबाध्यत्वाभावस्यैव लक्षणत्वोपपत्त्या व्यर्थविशेष्यत्वाच्च । किं चात्र शून्यं किं विवक्षितं निरुपाख्यं वा ? निस्स्वरूपं वा ? नाद्यः, असत्ख्यातिवादेऽपि रूप्यादौ तद्वैलक्षण्यस्येष्टत्वात् । न द्वितीयः, मिथ्यात्वभङ्गोक्तरीत्या त्वन्मतेऽपि रूप्यादेः स्वरूपेण त्रैकालिक-निषेधेन निस्स्वरूपत्वात् । अत एव नाष्टमः, उक्तरीत्या रूप्यादावप्यसद्वै-लक्षण्यायोगात् । न नवमः, मया त्रिकालसर्वदेशीयनिषेधाप्रतियोगित्व-प्रतियोगित्वे सत्त्वासत्त्वे इति स्वीकारात् । त्वन्मते चानिर्वाच्यस्य तत्प्रतियोगित्वात् ।

किं च रूप्यादौ घटादौ च प्रातिभासिकस्य व्यावहारिकस्य च सत्त्वस्य सद्भावात् कथं सद्विलक्षणत्वम् ? पारमार्थिकसद्वैलक्षण्यं विवक्षितं चेत्, पारमार्थिकत्वस्य बाध्यत्वाभावरूपतया लाघवाद् बाध्यत्वमेवानिर्वाच्यत्वं स्यात् । किञ्च मदनभिमतयोः परस्परनिषेधानात्मकयोः पारिभाषिकयोः सत्त्वासत्त्वयोः राहित्यविवक्षायामिष्टापत्तिः । मदभिमतयोः राहित्यविवक्षायां तु मया लाघवादावश्यकत्वाच्च (च्चाऽसत्त्वाभाव एव सत्त्वमिति) सत्त्वाभाव एवासत्त्वमिति स्वीकारात् । ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’ इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपत्वात् माता वन्ध्येतिवद् व्याघातः । एतेनासद्वैलक्षण्येन सत्त्वसाधने आत्मत्वमुपाधिरिति निरस्तम् । असद्वैलक्षण्य-मेव सत्त्वरूपमिति व्याहतेरेवोक्त्या तेन तदसाधनात् । सत्त्वे तद्विरुद्ध-वैलक्षण्यस्येवात्मत्वस्य तत्र प्रयोजकत्वेनाक्लृप्तत्वाच्च । एतेनानिर्वाच्यवादे विरोधोऽसिद्ध इति निरस्तम्, अन्योन्याश्रयात् । अन्यथा माता वन्ध्येतिवादे विरोधोऽसिद्ध इति स्यात् ।

ननु निषेधसमुच्चयस्यातात्त्विकत्वान्न विरोधः । सदादिवैलक्षण्योक्तिस्तु तत्तत्प्रतियोगिदुर्निरूपत्वमात्रप्रकटनाय । न हि स्वतःप्रकाशः दुर्निरूपस्य रूप्यस्य किञ्चिदपि रूपं वास्तवमस्तीति चेन्न, सत्त्वादिराहित्यस्या-तात्त्विकत्वेऽपि सत्त्वादेर्दुर्निरूपत्वमात्रेणानिर्वाच्यत्वे पञ्चमप्रकाराविद्यानिवृत्तौ ‘नानिर्वाच्यश्च तत्क्षयः’ इत्यनिर्वाच्यत्वनिषेधायोगात् । सत्त्वादिवत्तद्राहित्य-स्याप्यतात्त्विकत्वे सत्त्वादौ प्रमाणनिरासेन तद्राहित्ये तदुक्तेरयोगाच्च । विधिसमुच्चयस्यैवातात्त्विकत्वान्न विरोध इति सुवचत्वान्न । किञ्च निषेध-समुच्चयस्यातात्त्विकत्वं किमुभयातात्त्विकत्वेन ? एकैकातात्त्विकत्वेन वा ? नाद्यः, उभयतात्त्विकत्ववदुभयातात्त्विकत्वस्यापि विरुद्धत्वाद्विधिसमुच्चयस्य तात्त्विकत्वापातेन प्रतियोगिदुर्निरूपत्वस्यायोगाच्च । अत एव न द्वितीयः, तत्प्रतियोगिन एकस्य विधेस्तात्त्विकत्वापातात् । अतात्त्विकं हि तात्त्विका-त्यन्ताभावप्रतियोगीत्युक्तम् । किं च हेतूकृतस्य स्वरूपतो दुर्निरूपत्वस्य साध्यस्य वास्तवरूपाभावस्य चातात्त्विकत्वेऽनैकान्त्यस्य सिद्धसाधनस्य चापत्त्या तयोस्तात्त्विकत्वावश्यम्भावाद्विरोधः । अपि च स्वरूपतो दुर्निरूप-स्येत्यत्र किमिदं दुर्निरूपत्वं केनापि प्रकारेण वा ? केनापि प्रकारेण दुर्निरूपत्वमित्येतत्प्रकारान्यप्रकारेण वा ? सत्त्वासत्त्वाभ्यां वा ? नाद्यः, केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण दुर्निरूपत्वादुर्निरूपत्वाभ्यां व्याघातात् । अत एव न द्वितीयः । केनापि प्रकारेण दुर्निरूपत्व-मित्येतदन्यप्रकारेण दुर्निरूपत्वस्य केनापि प्रकारेण दुर्निरूपत्वमित्यस्मा-दन्यत्वादसतोऽसत्त्वेनैेव कल्पितस्यापि बाधवेद्येन मिथ्यात्वादिना सुनिरूप-त्वाच्च । न तृतीयः, तस्य सदसद्वैलक्षण्यावास्तवत्वा हेतुत्वात् । न च ध्वंसानुपलक्षितोपलक्षितसत्तायोगित्वरूपयोर्नित्यत्वानित्यत्वयोः सत्ताहीने सामान्यादावभाववदुत्तरा वधिराहित्यभावान्यनिवृत्तिमत्त्वरूपयोर्नित्यत्वानित्य-त्वयोः प्रागभावे अभाववद्वा क्वचित् सत्तासत्तयोरभावः स्यादिति केनचिदुक्तं युक्तम्, उक्तयोर्नित्यत्वानित्यत्वयोर्भावाभावानात्मकत्वात्, सत्वासत्वायोस्तु तदात्मकत्वात्, प्रागभावसामान्याद्यनुगतयोर्ध्वंसाप्रतियोगित्वप्रतियोगित्वयोरेव नित्यत्वानित्यत्वरूपत्वाच्च । प्रागभावस्यापि प्रतियोग्येव ध्वंसः, भावस्या-भावो निवृत्तिरभावस्य तु भाव एवेति स्वीकारात् । अन्यथा ध्वंसोपलक्षिता-नुपलक्षितसत्ताराहित्यरूपयोर्नित्यत्वानित्यत्वयोः सामान्यादौ भाववदेकत्र सत्त्वासत्त्वे स्यातामिति स्यात् । न चाध्यस्ते नित्यत्वानित्यत्वयोरिव सत्त्वासत्त्वयोरप्यभावो न विरुद्धौ । धर्मिण एव कल्पितत्वेन विरुद्धयोरपि धर्मयोरभावादिति वाच्यम्, त्वन्मते कल्पितस्यानित्यत्वात्कल्पितत्वरूपहेतो-र्विरुद्धधर्माभावरूपसाध्यस्य च भावाभावाभ्यां व्याघाताच्च ।

अथ कल्पितत्वादिकं नित्यत्वादिवन्न धर्मिसत्त्वापेक्षं तर्ह्यसत्त्वमपि तथा, अन्यथा तुच्छस्याप्यसद्बहिर्भावः कल्पितस्यापि दृश्यादृश्यबाध्याबाध्य दुर्निरूपसुनिरूपबहिर्भावोऽपि स्यात् । न च तार्किकमते संयोगतदत्यन्ता-भावयोरिव भट्टमते भेदाभेदयोरिव च सत्त्वासत्त्वाभावयोरप्यविरोधोऽस्त्विति वाच्यम्, तद्वदेव सत्त्वासत्त्वयोरेवाविरोधापातात् । अथ संयोगतदत्यन्ता-भावादाववच्छेदकभेदेनाविरोधः सत्त्वासत्त्वयोरपि तथात्वे इष्टापत्तिः । स्वकालाद्यवच्छेदेन सत्त्वस्यान्यकालाद्यवच्छेदेनासत्त्वस्य चेष्टत्वादिति चेत्, समः समाधिः । स्वकालाद्यवच्छेदेनासद्वैलक्षण्यस्य कालान्तराद्यवच्छेदेन सद्वैलक्षण्यस्य चेष्टत्वात् । तस्मात्सत्त्वासत्त्वात्यन्ताभावावेकत्र विरुद्धौ ।

अपि च सत्त्वादिना विचारासहत्वं किं सत्त्वाद्यनधिकरणत्वम् ? सत्त्वात्यन्ताभावाधिकरणत्वं वा ? सद्रूपत्वाद्यभावो वा ? सत्त्वादेरित्थमिति निर्वक्तुमशक्यत्वं वा ? सत्त्वादिना प्रमाणागोचरत्वं वा ? नाद्यः, असतोऽप्यसत्त्वरूपधर्मानधिकरणत्वात्, सत्पदलक्ष्यस्य निर्धर्मकस्य ब्रह्मणोऽपि स्वरूपातिरिक्तं तात्त्विकं सत्त्वं प्रत्यनधिकरणत्वाच्च, अतात्त्विकं सत्त्वं प्रति त्वनिर्वाच्यस्याप्यधिकरणत्वाद्, धर्मिसमसत्त्वं प्रति च ब्रह्मणोऽप्यनधिकरण-त्वाद्, अनिर्वाच्यस्याप्यधिकरणत्वाच्च । न द्वितीयः, निर्धर्मके ब्रह्मणि सत्त्व-वत्तदत्यन्ताभावोऽपि न, तुच्छेऽप्यसत्त्ववत्तदत्यन्ताभावोऽपि नेति कथञ्चि-दतिव्याप्तिनिरासेऽपि तुच्छब्रह्मणोर्निर्धर्मकत्वेन धर्मवत्त्वादेरेवानिर्वाच्य-लक्षणत्वापातात्, निर्विशेषत्वश्रुत्यापि व्याघातेन धर्ममात्रनिषेधायोगेन ब्रह्मणि सत्त्वराहित्ये तदत्यन्ताभावस्य दुर्वारत्वाच्च । न तृतीयः, सामान्यादेरप्य-बाध्यत्ववत्वे नैवाबाध्यात्मकसद्रूपतया ब्रह्मणः सत्त्वाभावे सद्रूपत्वायोगाद्, ब्रह्मणः सद्रूपत्वे श्रौतसत्पदस्य लाक्षणिकत्वायोगाच्च । न चतुर्थः, त्वन्मते ब्रह्मण्यपि सत्त्वस्येत्थमिति दुर्वचत्वात् । न पञ्चमः, अखण्डार्थनिष्ठ-वेदान्तैकवेद्यस्य ब्रह्मणोऽपि सत्त्वप्रकारकप्रमाणागोचरत्वात् । अपि च सत्त्वादिराहित्यं न तावत्प्रातिभासिकम्, रूप्यप्रपञ्चयोर्ब्रह्मवत्पारमार्थिकत्वा-पातात् ।

नापि धर्मिसमसत्ताकम्, बाधबोध्यस्य भ्रान्तिसिद्धेन साम्यायोगात् । नापि व्यावहारिकम्, जगति व्यावहारिकत्वे रूप्ये प्रातिभासिकत्वापातेनोक्त-दोषात् । रूप्ये व्यावहारिकत्वेन च जगति पारमार्थिकत्वापातेनाद्वैतहानेः । अत एव सत्त्वादिराहित्यं न पारमार्थिकं न हि स्वरूपतो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवमस्तीति स्ववचनविरोधाच्च । किं च श्रुत्या युक्त्या च भेदं निराकुर्वता कथं सदसद्भिन्नत्वरूपं तद्व्याप्तं वाऽनिर्वाच्यत्वं समर्थ्यते ? बाध्यत्वम् अनिर्वाच्यत्वमिति तु मिथ्यात्वभङ्ग एव निरस्तम् ।

।। इति अनिर्वाच्यलक्षणभङ्गः ।।

अद्वैतसिद्धि:

ननु एवमविद्यायां तन्निबन्धनाध्यासे च सिद्धेऽपि न तस्यामनिर्वचनीयत्वसिद्धिः, लक्षणप्रमाणयोरभावात् । तथा हि किमिदमनिर्वाच्यत्वम् ? (१) न तावन्निरुक्तिविरहः, (२) तन्निमित्तज्ञानविरहो वा, (३) तन्निमित्तार्थविरहो वा, (४) तन्निमित्तसामान्यविरहो वा । आद्ये अनिर्वाच्य इत्यनेनैव निरुक्त्या ‘इदं रूप्यम्’ इति निरुक्त्या च व्याघातात् । द्वितीये निरुक्तिरूपफलसत्त्वेन तन्निमित्तविरहस्य वक्तुमशक्यत्वात् । अत एव न तृतीयः, अर्थस्य निरुक्तावनिमित्तत्वाच्च । फलसत्त्वादेव न चतुर्थः । नापि (५) सद्विलक्षणत्वे सत्य-सद्विलक्षणत्वम्, सदसद्रूपत्वेऽप्युपपत्तेः । अत एव (६) न सत्त्वराहित्ये सत्यसत्त्वविरहः, तथा च लक्षणासम्भव इति चेन्न, (१) सद्विलक्षणत्वे सति असद्विलक्षणत्वे सति सदसद्विलक्षणत्वम्, (२) सत्त्वासत्त्वाभ्यां विचारासहत्वे सति सदसत्त्वेन विचारासहत्वं वा, (३) प्रतिपन्नोपाधौ बाध्यत्वं वा इत्यादिलक्षणे निरवद्यत्वसम्भवात् । न च आद्ये सतोऽपि सदन्तरविलक्षणत्वात् सिद्धसाधनमिति वाच्यम्, सत्त्वावच्छिन्नभेदस्य सन्नेति प्रतीतिप्रयोज-कस्य सद्वैलक्षण्यपदार्थत्वात् । न हि सति सदन्तरभेदेऽपि सन्नेति प्रतीतिः, अतो न सिद्ध-साधनम् । एवं च सत्त्वरहितत्वे सति असत्त्वरहितत्वे सति सदसत्त्वरहितत्वमपि साधु ।

स्यादेतत् सत्त्वं तावत् (१) सत्ताजातिर्वा ? अर्थक्रियाकारित्वं वा ? (३) अबाध्यत्वं वा ? (४) प्रामाणिकत्वं वा ? (५) अशून्यत्वं वा ? (६) ब्रह्मत्वं वा ? (७) पराङ्गी-कृतं वा ? नाद्यद्वितीयौ, शुद्धात्मनि सद्वैैलक्षण्यस्य प्रपञ्चे सद्वैलक्षण्याभावस्य चापातात् । न तृतीयः, त्वन्मते तुच्छस्याप्यबाध्यत्वेन तत्र सद्वैलक्षण्यस्यानिर्वाच्यत्वस्य बाध्यत्वेनासद्वै-लक्षण्यस्य चायोगात् । न चतुर्थः, प्रमा ह्यन्तःकरणवृत्तिः, तद्विषयत्वस्य प्रपञ्चेऽपि सत्त्वेन सद्वैलक्षण्यस्य तत्रासत्त्वप्रसङ्गात् । न पञ्चमः, तस्य प्रपञ्चेऽपि विद्यमानत्वेन तद्वैलक्षण्या-भावप्रसङ्गात् । न षष्ठः, तद्वैलक्षण्यस्य जगति सत्त्वेनेष्टापत्तेः । न सप्तमः, पराभ्युपगतस्य सत्त्वस्यासत्त्वविरहरूपत्वेन उभयवैलक्षण्योक्त्ययोगात् । अत एव एतेषां विरहस्यासत्त्व-रूपत्वं निरस्तम् । अथासत्त्वं निरुपाख्यत्वम् ? निःस्वरूपत्वं वा ? नाद्यः, असदादि-पदेनैव ख्यायमानत्वात्, न द्वितीयः स्वरूपेण निषेधपक्षे शुक्तिरूप्यादेरपि निःस्वरूपत्वेना-सद्वैलक्षण्यानुपपत्तेरिति चेन्न, पराभिमतसत्त्वासत्त्वे एव विवक्षिते, न तु पारिभाषिके अतो न तादृक्सदसद्वैलक्षण्योक्ताविष्टापत्तिः । नापि तयोः परस्परविरुद्धत्वेन एकनिषेधस्यापरविधिपर्य-वसन्नतया एकत्रोभयवैलक्षण्यं व्याहतमिति वाच्यम्, निषेधसमुच्चयस्यातात्त्विकत्वाङ्गीकारात् न व्याहतिः, न ह्यतात्त्विकरजतेन शुक्तेर्विरोधः, न च तर्हि सदादिवैलक्षण्योक्तिः कथम् ? तत्तत्प्रतियोगिदुर्निरूपतामात्रप्रकटनाय । न हि स्वरूपतो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवं सम्भवति ।

ननु सत्त्वादिराहित्यस्यातात्त्विकत्वेऽपि सत्त्वादेर्दुर्निरूपत्वमात्रेणानिर्वाच्यत्वे पञ्चम-प्रकाराविद्यानिवृत्तौ ‘नानिर्वाच्योऽपि तत्क्षय’ इति अनिर्वाच्यत्वनिषेधायोगः, सत्त्वादिवत्त-द्राहित्यस्याप्यतात्त्विकत्वे सत्त्वादौ प्रमाणनिरासेन तद्राहित्ये तदुक्त्ययोगः, अविरोधाय विधिसमुच्चयस्यैवातात्त्विकत्वस्वीकारश्चेति चेन्न, पञ्चमप्रकाराविद्यानिवृत्तिपक्षे नैतत्त्रितय-विलक्षणत्वमात्रमनिर्वाच्यत्वम्, किन्तु मुक्तिकालानवस्थायित्वसहितम् । तथा च मुक्ति-कालावस्थायिन्यामविद्यानिवृत्तौ अनिर्वाच्यत्वनिषेधो युज्यते । सत्त्वादिराहित्ये तु अबाधितार्थविषयकप्रमाणोक्तिर्नास्त्येव । ज्ञापकमात्रोक्तिस्तदंशेऽसाधारणी । अतो वादि-विप्रतिपत्तिनिरासार्था । अतात्त्विकविधिसमुच्चयापत्तिस्त्विष्टैव । न ह्यतात्त्विकसत्त्वासत्ते निषेधसमुच्चयेऽपि विरुध्येते । यत्तु विधिसमुच्चयस्यातात्त्विकत्वपक्षे भ्रान्तिबाधव्यवस्था न स्यादित्युक्तम्, तन्न, अतात्त्विकत्वादेव भ्रान्तेर्बाधस्य सत्त्वप्रतिषेधस्याप्रतिक्षेपात् सत्त्वस्या-तात्त्विकत्वाच्च तदुपपत्तेः ।

ननु निषेधसमुच्चयस्यातात्त्विकत्वं किमुभयातात्त्विकत्वाद्वा ? एकैकातात्त्विकत्वाद्वा ? नाद्यः, उभयतात्त्विकत्ववदुभयातात्त्विकत्वस्यापि विरुद्धत्वात्, विधिसमुच्चयस्य तात्त्विकत्वा-पाताच्च । एकैकप्रतियोगितात्त्विकत्वापत्तेरेव न द्वितीयोऽपि, तात्त्विकात्यन्ताभावप्रतियोगिन एव अतात्त्विकत्वादिति चेन्न, उभयातात्त्विकत्वादेव निषेधसमुच्चयस्यातात्त्विकत्वम् । न चोभयतात्त्विकत्ववदुभयातात्त्विकत्वमप्येकत्र विरुद्धम्, वल्मीकादावेकत्र स्थाणुत्वपुरुष-त्वयोरतात्त्विकत्वदर्शनात् । न च परस्पर विरहरूपयोरेकत्रोभयोरतात्त्विकत्वं विरुद्धम्, एकत्र तन्त्वादौ घटतत्प्रागभावयोरुभयोरपि अतात्त्विकत्वदर्शनात् । न च प्रतियोगितदत्यन्ता-भावयोरेवायं नियमः, नियामकाभावादास्मा कमसम्प्रतिपत्तेः । वस्तुतस्तु सत्त्वासत्त्वयोर्न परस्परविरहरूपत्वम्, किन्तु परस्परविरहव्याप्यतामात्रम् । न च तादृशपारिभाषिकसदसद्वै-लक्षण्योक्तौ नास्माकमनिष्टम् इति वाच्यम्, सत्त्वमबाध्यत्वम्, असत्त्वं सत्त्वेन प्रतीत्य-नर्हत्वम्, तदुभयवैलक्षण्यं च तव जगत्यसम्प्रतिपन्नमिति कथमिष्टापत्त्यवकाशः ? इष्टापत्तौ च कथं न मतक्षतिः ? अत एव ध्वंसानुपलक्षिततदुपलक्षितसत्तायोगित्वरूपनित्यत्वा-नित्यत्वयोः सत्ताहीने सामान्यादावभाववदुत्तरावधिराहित्यं नित्यत्वं, भावान्यनिवृत्तिमत्त्वं चानित्यत्वम्, तदुभयाभावः प्रागभाव इव क्वचिद्रूप्यादौ मिथ्याभूते सत्त्वासत्त्वयोरभावः स्यादित्याहुः, उक्तसत्त्वासत्त्वयोः परस्परविरहव्याप्यत्वेऽपि परस्परविरहानात्मकत्वात् । उक्तनित्यत्वानित्यत्ववत् ।

ननु– इदं नित्यत्वानित्यत्वयोर्मिलितयोर्व्यतिरेकः सामान्ये प्रागभावे चास्तीत्युक्तम्, तदयुक्तम्, नित्यत्वस्य सामान्यानुगतध्वंसाप्रतियोगित्वरूपत्वाद्, अनित्यत्वस्य च प्राग्भावानुगततत्प्रतियोगित्वरूपत्वात् प्रागभावस्यापि प्रतियोग्येव ध्वंसः, भावस्यैवाभावो निवृत्तिः, अभावस्य तु भाव एवेति स्वीकारात् । ध्वंसोपलक्षितानुपलक्षित सत्ताराहित्य-रूपनित्यत्वानित्यत्वयोः सामान्यादौ भाववदेकत्र सत्त्वासत्त्वे स्यातामित्यपि स्यादिति चेन्न, न हि वयं दृष्टान्तमात्रेण सत्त्वासत्त्वव्यतिरेकयोरेकत्र स्थितिं ब्रूमः येन ध्वंसोपलक्षितानुप-लक्षितसत्ताराहित्यरूपपारिभाषिकनित्यत्वानित्यत्वयोरेकत्र सामान्यादौ सद्भावनिदर्शनेन सत्त्वासत्त्वयारेकत्र सत्त्वमुच्यते, किन्तु प्रमाणैः सिद्धे निषेधसमुच्चये सामान्यादिव्यावृत्त-नित्यत्वानित्यत्वयोर्निषेधसमुच्चयं दृष्टान्तयामः । एवं च सामान्याद्यनुगतत्वदुक्तनित्यत्वा-नित्यत्वयोर्निषेधसमुच्चयस्यादृष्टान्तत्वेऽपि न क्षतिः । अत एवोक्तमध्यस्ते नित्यत्वा-नित्यत्वयोरिव सत्त्वासत्त्वयोरप्यभावौ न विरुद्धौ, धर्मिण एव कल्पितत्वेन विरुद्धयोरपि धर्मयोरभावाद्, इति । न चैवं कल्पितस्यानित्यत्वाभ्यु पगमविरोधः, तात्त्विकानित्यत्वा-भावेऽपि धर्मिसमसत्ताकानित्यत्वसत्त्वेनाभ्युपगमे विरोधाभावात् । न च कल्पितत्व-हेतोर्विरुद्धधर्माभावरूपसाध्यस्य च भावाभावाभ्यां व्याघात इति वाच्यम्, अतात्त्विकहेतु-सद्भावेन तात्त्विकधर्माभावस्य साधनेन व्याघाताभावात् । अत एव स्वरूपतो दुर्निरूपस्य न किञ्चिदपि रूपं वास्तवं सम्भवतीति प्राचामुक्तिरपि सङ्गच्छते, व्यावहारिकेणैव दुर्निरूपत्वेन हेतुना व्यावहारिकवास्तवरूपाभावस्य साधनात् । अत एव दुर्निरूपत्वरूपहेतोर्वास्तव-रूपाभावसाध्यस्य चातात्त्विकत्वेऽसिद्धिबाधौ तात्त्विकत्वे व्याघात इति निरस्तम्, धर्मिसम-सत्ताकहेतुसाध्यादिसत्त्वेनासिद्ध्याद्यभावात्, तात्त्विकहेत्वाद्यभावाच्च न व्याघातः । स्वरूपतो दुर्निरूपत्वं च कल्पितत्वमेव ।

एतेन किमिदं स्वरूपतो दुर्निरूपत्वं केनापि प्रकारेण वा ? केनापि दुर्निरूपत्व-मित्येतदन्यप्रकारेण वा ? सत्त्वासत्त्वाभ्यां वा ? केनापि दुर्निरूपत्वमित्येतदन्यप्रकारेण वा ? सत्त्वासत्त्वाभ्यां वा ? नाद्यः, केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण दुर्निरूपत्वादुर्निरूपत्वाभ्यां व्याघातात् । अत एव न द्वितीयः, केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्यप्रकारेण दुर्निरूपत्वस्य केनापि प्रकारेण दुर्निरूपत्वान्यत्वात्, मिथ्या-त्वादिना कल्पितस्य सुनिरूपत्वाच्च । न तृतीयः, तस्य सदसद्वैलक्षण्यावास्तवत्वा-हेतुत्वादिति निरस्तम्, तृतीयपक्षस्य क्षोदसहत्वाच्च । तथा हि सत्त्वासत्त्वाभ्यां दुर्निरूपत्वं हि बाधिततद्द्वयकत्वम् । तच्च धर्मविशिष्टधर्म्यतात्त्विकत्वे हेतुः । तथा च सदसद्वैलक्षण्यमपि धर्मस्तदतात्त्विकत्वे कथं न हेतुः स्यात् ? न च एवं कल्पितस्य दृश्यादृश्यबाध्याबाध्य-दुर्निरूपसुनिरूपत्वादिबहिर्भावोऽपि स्यादिति वाच्यम्, तात्त्विकदृश्यत्वाद्यशेषधर्मबहिर्भावस्य कल्पिते इष्टत्वात्, अतात्त्विकस्य दृश्यत्वादेर्व्यावहारिकप्रमाणैर्यथायथमङ्गीकृतस्यैवमप्य-विरोधात् । अदृश्यत्वादिकं तु व्यावहारिकं नास्त्येव । प्रातिभासिकं चैतदप्यङ्गीकुर्म एव । एवं च तार्किकमते संयोगतदभावयोरिव भट्टमते भेदाभेदयोरिव सत्त्वासत्त्वाभावयोरप्यविरोध एव । न च एवं सत्त्वासत्त्वयोरपि तद्वदेवाविरोधः स्यादिति वाच्यम्, अतात्त्विकयोरविरोधे इष्टापत्तेः, निषेधसमुच्चयस्यापि तात्त्विकस्यानङ्गीकारेण तत्साम्येन विधिसमुच्चयस्य तात्त्विकस्यापादयितुमशक्यत्वात् । न च तात्त्विकसंयोगतदभावनिदर्शनबलात्तदापादनेयम्, दृष्टान्तेऽपि तात्त्विकत्वासम्प्रतिपत्तेः ।

ननु अनिर्वाच्यत्वं सत्त्वासत्त्वादिना विचारासहत्वम् । तच्च न तावत् सत्त्वाद्य-नधिकरणत्वम्, असतो ब्रह्मणश्च निधर्मकत्वेन तत्रातिव्याप्तेः । न च कल्पितसत्त्वाधि-करणत्वं ब्रह्मण्यपीति वाच्यम्, तस्य जगत्यपि विद्यमानत्वेन तत्राव्याप्तेः । नापि सत्त्वा-द्यत्यन्ताभावाधिकरणत्वम्, निर्धर्मकब्रह्मणः सत्त्ववत्तदत्यन्ताभावस्याप्यभावेन तुच्छेऽप्य-सत्त्ववत्तदत्यन्ताभावस्याप्यभावेन कथञ्चिदतिव्याप्तिनिरासेऽपि तुच्छब्रह्मणोर्निर्धर्मकत्वेन धर्मवत्त्वादेरेवानिर्वाच्यत्वलक्षणत्वापातात्, निर्विशेषश्रुत्यापि व्याघातेन धर्ममात्रनिषेधायोगेन ब्रह्मणि सत्त्वराहित्ये तदत्यन्ताभावस्य दुर्वारत्वात् । नापि सद्रूपत्वाद्यभावः, ब्रह्मणः सत्त्वाभावे सद्रूपत्वाभावेन तत्रातिव्याप्तेः । नापि सत्त्वादेरित्थमिति निर्वक्तुमशक्यत्वम्, ब्रह्मण्यपि सत्त्वस्येत्थमिति निर्वक्तुमशक्यत्वात् । नापि सत्त्वादिना प्रमाणागोचरत्वम्, अखण्डार्थनिष्ठवेदान्तैकवेद्यब्रह्मणोऽपि सत्त्वादिप्रकारकप्रमाणा गोचरत्वादिति चेन्न, सत्त्वादिना विचारासहत्वं सत्त्वाद्यत्यन्ताभावाधिकरणत्वम् । न चातिव्याप्तिः, ब्रह्मणि सत्त्ववत्तदत्यन्ता-भावस्याप्यभावाद्, अन्यथा निर्विशेषत्वादिश्रुतिविरोधापत्तेः । न च निर्विशेषत्वरूपविशेष-सत्त्वासत्त्वाभ्यां व्याघातेन श्रुतिरन्यपरा, विशेषस्य कल्पितत्वेन तदभावासत्त्वेन तत्सत्त्व-भावेन व्याघाताभावात् स्वाप्नगजतदभाववत् । अत एव सत्त्वराहित्येऽपि तदत्यन्ताभाव आवश्यक इत्यपास्तम् ।

ननु एवं विशेषत्त्वम्, धर्मवत्त्वं वा अनिर्वाच्यत्वमस्त्विति चेन्न, आस्तां तावदयं सुहृदुपदेशः । उक्तलक्षणस्य निष्पन्नत्वात् । यद्वा सत्त्वादिना विचारासहत्वं सद्रूपत्वाद्य-भावः । सत्त्वरूपधर्माभावेऽपि यथा ब्रह्मणः सद्रूपत्वं तथोपपादितमधस्ताद्, अतो न तत्रातिव्याप्तिः । न च एवं सदात्मके ब्रह्मणि श्रौतसत्पदादौ लाक्षणिकत्वं न स्यादिति वाच्यम्, सत्त्वधर्मविशिष्टवाचकस्य तस्य निर्धर्मके लक्षणाया आवश्यकत्वात् । न हि निर्धर्मकस्वरूपवाचकत्वं कस्यचिदपि पदस्यास्ति । ननु सत्त्वादिराहित्यमतात्त्विकमपि न तावत् प्रातिभासिकम्, रूप्यप्रपञ्चयोर्ब्रह्मवत् पारमार्थिकत्वापत्तेः, नापि धर्मिसमसत्ताकम्, बाधबोध्यस्तभ्रान्तिसिद्धेन साम्यायोगात् । नापि व्यावहारिकम्, जगति व्यावहारिकत्वे रूप्ये प्रातिभासिकत्वे चोक्तदोषात्, रूप्ये व्यावहारिकत्वे च जगति पारमार्थिकत्वापातेनाद्वैत-हानिरिति चेन्न, धर्मिसमसत्ताकस्यैव सत्त्वादिविरहस्येष्टत्वात् । न च बाधबोध्यस्य भ्रान्तिसिद्धेन साम्यायोगः, बाधस्याधिष्ठानमात्रगोचरत्वेन रूप्यवत्तत्सत्त्वविरहस्यापि साक्षि-सिद्धतया बाधबोध्यत्वाभावात् । न चैवं सत्त्वप्रतीतिविरोधः, अतात्त्विकस्य तस्या-प्यङ्गीकारात् । न च एवं तात्त्विकसत्त्वविरहस्यैव लक्षणत्वपर्यवसानम्, तात्त्विकत्वं चाबाध्यत्वम्, तथा च बाध्यत्वमेव लक्षणमस्त्विति वाच्यम्, बाध्यत्वस्यान्यविशेषण-त्वेनोपात्तस्य लक्ष्ये धर्मिण्यनन्वयेन तन्मात्रमुपादायेतरवैयर्थ्यस्य वक्तुमशक्यत्वात् । न च श्रुत्या युक्त्या च भेदं निराकुर्वता कथं सदसद्भिन्नत्वरूपं तद्व्याप्तं वाऽनिर्वाच्यत्वं समर्थ्यत इति वाच्यम्, मा विषीद, अतात्त्विकस्यैव तस्य समर्थनात्, बाध्यत्वं तु मिथ्यात्वनिरूपण- समय एव निरूपितम् । तस्मान्न शुक्तिरूप्यप्रपञ्चसाधारणानिर्वाच्यत्वलक्षणानुपपत्तिः ।

।। इत्यद्वैतसिद्धौ अनिर्वाच्यत्वलक्षणम् ।।

न्यायामृततरङ्गिणी

प्रपञ्चेऽनिर्वाच्यत्वं नास्तीति वक्तुं पराभिमते तद्दृष्टान्ते शुक्तिरूप्यादौ लक्षणप्रमाण-योरभावान्नानिर्वाच्यत्वमित्यभिसन्धाय परपक्षं प्रस्तौति ।। यच्चोक्तमित्यादिना ।। निमित्तमिति ।। निरुक्तिरूपकार्यस्य सिद्धत्वादिति भावः । तयोः ज्ञानार्थयोः ।। सदसद्रूपत्वेऽपीति ।। त्वदभिमतानिर्वाच्यत्वासिद्धिरिति भावः ।। सत्वराहित्ये सतीति ।। एतच्चासत्त्वविशेषणम् ।। सदसत्त्वेऽपीति ।। विशेषणाभावाद्विशिष्टा-भावोऽस्तीत्यर्थः ।। सत्त्वासत्त्वे इति ।। एकस्मिन्सत्त्वासत्त्वोभया भावाधिकरणे सदसदात्मकत्वाभावोऽप्येतदनुमानादेव सिद्ध्यतीति विशिष्टसाध्यप्रसिद्ध्यनुपपादनं न शङ्कनीयं ।। असत्त्वेति ।। असत्त्वाभावासमानाधि करणमित्यर्थः ।। प्रवृत्तीति ।। ज्ञानवदिच्छाप्रवृत्त्योरपि पुरोवर्तिरजतविषयत्वादिति भावः ।। शुद्धात्मनीति ।। तत्र सत्ताजातेरर्थक्रियाकारित्वस्य च प्रपञ्चे तदभावस्य चाभावादित्यर्थः ।। तत्रेति ।। तुच्छे प्रत्युत सत्त्वमेव स्यात् ।। तत्रेति ।। प्रत्युत सत्त्वमेव स्यात् ।। अनिर्वाच्यस्येति ।। तत्र प्रमाणप्रवृत्तेरभावात् ।। तयोरिति ।। शून्यस्यापि त्वन्मतेऽबाध्यत्वादिति भावः ।। अबाध्यत्वेति ।। बाध्यत्वं च पृथक् दूषयिष्यते ।। असत्ख्यातीति ।। रूप्यादेः सप्रधान-त्वान्निरुपाख्यवैलक्षण्यम् । शुक्तिरूप्यं तु निरुपाख्यमेवेति बोध्यम् ।। निःस्वरूपत्वादिति ।। तथा च न रूप्यादावसद्वैलक्षण्यमित्यर्थः ।। उक्तेति ।। रूप्यादेः स्वरूपत्वरूप-शून्यत्वात् ।। त्वन्मते चेति ।। अनिर्वाच्येऽसद्वैलक्षण्यं न स्यादित्यर्थः ।। लाघ-वादिति ।। अबाध्यवैलक्षण्यापेक्षया बाध्यत्वस्य लघुत्वादित्यर्थः ।। लाघवादिति ।। परस्परविरहानापन्नयोः सत्त्वासत्त्वयोरङ्गीकारे तदभावयोरपि पृथगङ्गीकर्तव्यत्वाद्गौरवम् । मम तु सत्त्वमसत्त्वाभाव एवेति लाघवमित्यर्थः ।। आवश्यकत्वादिति ।। भावरूपसत्त्व-मङ्गीकृत्याप्यसत्त्वाभावः पृथगवश्यमङ्गीकर्तव्यः । तथा च स एव सत्त्वव्यवहारहेतुर-स्त्वित्यर्थः ।। द्वौ नञाविति ।। सत्त्वनिषेधापेक्षया नञ्द्वयं बोध्यम् ।। एकतरेति ।। तथा च सत्त्वनिषेधेऽसत्त्वापत्तिर्दुर्वारेति भावः । हेतुसाध्ययोः सामान्यव्याप्तिमूलकः प्रयोज्यप्रयोजकभावोऽस्ति न तु साध्योपाध्योरित्यर्थः ।। सत्त्व इति ।। एतेनेति ।। विरोधादनिर्वाच्य वादस्यासिद्धत्वेनेत्यर्थः । ननु विरोधो न दोष इत्यत आह ।। अन्योन्येति ।। सिद्धेऽनिर्वाच्यत्वे विरोधस्यादोषत्वं तस्मिंश्चानिर्वाच्यत्ववादसिद्धिरित्यर्थः ।

ननु रूप्ये निषेधसमुच्चयस्यातात्विकत्वे तत्साधकख्यात्याद्यनुपपत्त्या तस्य सदादि-वैलक्षण्यसाधनमयुक्तमित्यत आह ।। सदादीति ।। तत्प्रतियोगिनो रूप्यगतसत्त्वादि-निषेधप्रतियोगिनः सत्त्वादेरित्यर्थः । रूप्यं वास्तवसत्त्वादि किञ्चिद्रूपरहितं स्वरूपतो दुर्निरूपत्वादित्यनुमाने व्यभिचारशङ्कां वारयति ।। न हीति ।। सत्त्वादीति ।। अविद्यानिवृत्तावपि सत्त्वादेर्दुनिरूपत्वमात्रेणानिर्वाच्यत्वमेव वक्तुं युक्तमित्यर्थः । न चाविद्यावृत्तेः पञ्चमप्रकारत्वपक्षे नैतन्त्रितयविलक्षणत्व मात्रमनिर्वचनीयत्वं किं तु मुक्तिकालानवस्थायित्वसहितम् । तथा च मुक्तिकालावस्थायिन्यामविद्यानिवृत्ताव-निर्वाच्यत्वनिषेधो युज्यत इति वाच्यम् । ब्रह्मभिन्नस्य मुक्तिकालान्वयवदनिर्वाच्य-विशेष्यस्याप्यविद्या निवृत्तेर्मुक्तिकालान्वयसम्भवेन तत्रानिर्वाच्यत्वनिषेधायोगात् ।। सत्त्वादिवदिति ।।

ननु सत्त्वादिराहित्ये प्रमाणोक्तिर्नास्त्येव । ज्ञापकमात्रोक्तिस्तु वादिविप्रतिपत्ति-निरासार्थेति चेन्न । सत्त्वादावपि केषाञ्चिद्विप्रतिपत्तेः ।। विधीति ।। न चेष्टापत्तिः । निषेधपक्षपातायोगात् ।। विधिसमुच्चयस्येति ।। निषेधसमुच्चयस्यातात्विकत्व इत्यर्थः ।। अतात्विकं हीति ।। अतात्विकात्यन्ताभावप्रतियोगित्वस्य तात्विकेऽपि सत्त्वादिति भावः । उक्तानुमाने दोषमाह ।। किं चेति ।। हेतोरतात्विकत्वे ब्रह्मणि व्यभिचारः साध्यस्य तथात्वे सिद्धसाधनमित्यर्थः ।। दुर्निरूपत्वमिति ।। आद्ये सत्वादिना सुनिरूप-त्वम् । द्वितीये केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण सुनिरूपत्वमिति व्याघात इत्यर्थः ।। अत एवेति ।। व्याघातादेवेत्यर्थः । केनापि प्रकारेण दुर्निरूपत्वमिति प्रकारेण सुनिरूपत्वं वा ? उक्तप्रकारेण दुर्निरूपत्वं वा ? आद्ये दोषमाह ।। केनापीति ।। केनापि प्रकारेण दुर्निरूपत्वमित्येतस्मात्प्रकारादन्यो यः केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्येन प्रकारेण दुर्निरूपत्वं तेनैव प्रकारेण सुनिरूपत्वात्केनापि प्रकारेण दुर्निरूपत्वमित्ये-तत्प्रकारान्य प्रकारेण दुर्निरूपत्वं व्याहतम् । द्वितीये केनापि प्रकारेण दुर्निरूपत्वमित्यस्य दुर्निरूपत्वे केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्यप्रकारेण दुर्निरूपत्वमित्यस्य दुर्निरूपत्वे केनापि प्रकारेण सुनिरूपत्वमेव प्राप्तमिति व्याघातः ।। तस्येति ।। प्रत्युत सदादि-वैलक्षण्यवास्तवत्वं प्रत्येव हेतुत्वमिति भावः । ननु ध्वंसप्रतियोगित्वरूपम नित्यत्वमपि प्रागभावे नास्ति । घटध्वंसं प्रति तत्प्रागभावस्याजनकतया तस्य तदप्रतियोगित्वादित्यत आह ।। प्रागभावस्यापीति ।। ननु घटादेः प्रतियोगिनः कथं ध्वंसरूपत्वमित्यत आह ।। भावस्येति ।। एकत्रेति ।।

ननु न वयं सामान्यादिदृष्टान्तैः सत्त्वासत्त्वयोरभावमेव ब्रूमो येन सामान्यादिदृष्टान्तेन नित्यत्वानित्यत्ववत्सत्त्वासत्त्वयोरप्येकत्र समुच्चय आपाद्येत । किं तु प्रमाणैः सिद्धेः समुच्चये सामान्यादिदृष्टान्तयाम इति चेन्न । प्रमाणसिद्धत्वस्यैवासिद्धेः । अन्यथा-न्योन्याश्रयादित्युक्तत्वात् । सत्त्वासत्त्वोभयाभावसाधने व्याघात इत्यत्र परिहारमाशङ्क्य निराकरोति ।। न चाध्यस्त इति ।। विमतं सत्त्वाभाववदपि तद्विरुद्धासत्त्वाभाववत् कल्पितत्वात् । यत्कल्पितं तत्तदभाववदपि तद्विरुद्धाभाववत् यथाध्यस्तं कल्पित-मनित्यत्वाभाववदपि तद्विरुद्धनित्यत्वाभाववत् । तथा च सत्त्वनिषेधेऽपि न तद्विरुद्ध-स्यासत्त्वस्य प्राप्तिर्येनासत्त्वस्यापि निषेधे व्याघातः स्यादिति शङ्कार्थः ।। त्वन्मत इति ।। तथा च दृष्टान्तासिद्धिरित्यर्थः । न च कल्पिते तात्विकानित्यत्वाभावेऽपि कल्पितं तदस्तीति वाच्यम् । तात्विकनित्यत्वस्य ब्रह्मणीव तत्र दुर्वारत्वापातात् ।। कल्पित-त्वेति ।। पक्षीभूते कल्पितेऽकल्पितत्वाभाववति तद्विरुद्धकल्पितत्वाभावोऽस्ति ? न वा ? आद्ये स्वरूपासिद्धिः । द्वितीये तत्रैव व्यभिचार इति व्याघातः । एवं पक्षे विरुद्धधर्मा-भावरूपं साध्यमस्ति चेत् तत्र विरुद्धधर्मविरोधिनः विरुद्धधर्माभावः तदभावोऽस्ति ? न वा ? आद्ये साध्यस्य बाधः । द्वितीये तत्रैव व्यभिचार इति व्याघात इत्यर्थः । ननूक्तसाध्ये धर्मिसत्त्वापेक्षेति विरुद्धासत्त्वविशेषणम् । तथा चाकल्पितत्वविरुद्धं धर्मिसत्त्वापेक्षं यत्कल्पितत्वं तदभावः पक्षेऽस्तीति न व्यभिचारः । न वाऽसिद्धिः । कल्पितत्वमात्रस्य हेतूकृतस्य पक्षेऽपि सत्त्वात् । एवं विरुद्धधर्माभावरूपसाध्यस्य सत्त्वासत्त्वाभ्यामपि न बाधव्यभिचाराविति शङ्कते ।। अथेति ।। तर्ह्यनुमाने इष्टापत्तिरित्याह ।। तर्हीति ।। सत्त्वाभाववत्यध्यस्ते धर्मिसत्त्वापेक्षं यदसत्त्वं तदभावो मम संमतः धर्मिसत्त्वानपेक्षत्वाद-सत्त्वस्येत्यर्थः । असत्त्वस्य धर्मिसत्त्वापेक्षत्वे कल्पिते विरुद्धयोरपि धर्मयोरभावे च दोषमाह ।। अन्यथेति ।।

ननु परस्परात्यन्ताभावरूपयोः संयोगात्यन्ताभावसंयोगयोरभेदभेदयोश्चात्यन्ताभावौ संयोगतदत्यन्ताभावरूपौ भेदाभेदरूपौ च यथैकत्र वर्तेते तद्वत्तथाविधयोः सत्त्वा-सत्त्वयोरप्यत्यन्ताभावावेकत्र स्यातामित्याशङ्कां परिहरति ।। न च तार्किकेति ।। परस्परात्यन्ताभावरूपयोः समानाधिकरणात्यन्ताभावप्रतियोगिनोः सामानाधिकरण्य-नियमात् संयोगतदत्यन्ताभावयोरिव सत्त्वासत्त्वयोरपि सामानाधिकरण्यं स्यादित्याह ।। तद्वदेवेति ।। ननु सत्त्वासत्त्वयोरेकावच्छेदेनैकत्र वृत्तिरापाद्यते, एकत्र वृत्तिमात्रं वा ? नाद्यः । दृष्टान्तासिद्धेः । न द्वितीयः । संयोगतदत्यन्ताभावयोरिव भिन्नावच्छेदेन सत्त्वा-सत्त्वयोरपि वृत्तेः । इयांस्तु विशेषः । संयोगादौ देशोऽवच्छेदकः सत्त्वादौ तु काल इतीत्याशङ्कते ।। अथेति ।। सत्त्वासत्त्वाभावयोरपि भिन्नकालावच्छेदेनैकत्र सत्त्वादिष्टा-पत्तिरित्याह ।। सम इति ।। नन्वाद्यपक्षे सत्त्वादिकं तात्विकं वाऽतात्विकं वा धर्मि-समसत्ताकं वा विवक्षितम् ? नाद्यः । असद्ब्रह्मणोरतिव्याप्तेरित्याह ।। असतोऽपीत्यादिना ।। द्वितीये दोषमाह ।। अतात्विकेति ।। तथा चाव्याप्तिरित्यर्थः । तृतीयेऽति-व्याप्त्यव्याप्तिदोषावाह ।। धर्मीति ।। कथञ्चिदिति ।। अतिव्याप्तेरपि वक्ष्यमाणत्वादिति भावः । तामेवाह ।। निर्विशेषत्वेति ।। विशेषस्य कल्पितत्वे तदभावोऽपि तत्र नास्तीति तु व्याहत्यादिना निरस्तम् । सत्ताजातिरूपसत्त्वरहितस्यापि ब्रह्मणः सद्रूपत्वमस्त्विति शङ्कां परिहरति ।। सामान्यादेरिति ।। तथा च ब्रह्मण्यतिव्याप्तिरित्यर्थः ।। ब्रह्मण इति ।।

ननु सत्त्वविशिष्टसद्वाचकस्य सत्यपदस्य धर्मिमात्रबोधकत्वे लक्षणैव । न हि धर्मिस्वरूपमात्रवाचकत्वं कस्यचिदपि पदस्यास्तीति । मैवम् । न हि वाच्यविशेषणत्यागे लक्षणा । किन्त्ववाच्यपरिग्रहः । अत एव गौरनित्य इत्यादौ न लक्षणा । अत एव स्थलपद्मे पङ्कजपदस्य न लक्षणेत्याहुः । स्वरूपमात्रलक्षणपदस्याप्यसत्त्वाच्च । तस्माद्गङ्गा-पदलक्ष्यमगङ्गास्वरूपमिव सत्यपदलक्ष्यं ब्रह्मासत्यस्वरूपमिति तत्रातिव्याप्तिरित्यर्थः ।। बाधबोध्यस्येति ।। ननु बाधस्याधिष्ठानमात्रगोचरत्वेन रूप्यवत्तत्सत्त्वविरहस्यापि साक्षिसिद्धतया बाधबोध्यत्वमसिद्धमिति चेन्मैवम् । घटो नास्तीति वद्रूप्यं नास्ति रूप्यसत्त्वं नास्तीत्यबाधितानुभवेन तत्सत्त्वाभावस्य बाधविषयत्वावश्यम्भावात् ।। उक्तदोषादिति ।। रूप्यगतसत्त्वाभावस्य बाधबोध्यत्वं न स्यादित्यर्थः ।

न्यायामृतकण्टकोद्धारः

एवं स्वरूपेण वा देहात्मैक्येन वाऽध्यासाभावान्न प्रपञ्चस्यानिर्वचनीयत्वम् । अनिर्वचनीयस्य लक्षणप्रमाणयोरसम्भवाच्च । तन्नेति वक्तुं परमतमनुवदति ।। यच्चेति ।। कार्यायोगादिति ।। निर्वचनलक्षणकार्यायोगादित्यर्थः । निर्वचनं तु प्रत्यक्षसिद्धमिति भावः ।। सदेकरूपत्वेऽपीति ।। यथा नराणां नरसिंहविलक्षणत्वं तथा सदेकरूपे सदसद्रूप-विलक्षणत्वोपपत्तेरित्यर्थः ।। नापीति ।। सदेकस्वभावविलक्षणत्वे सति असदेकस्वभाव-विलक्षणत्वमित्यर्थः । अन्यथा दूषणासङ्गतेरिति ।। नापीति ।। अत्र सद्विलक्षणत्वं नाम यत्किञ्चित्सद्विलक्षणत्वमेवाभिप्रेतम् । पूर्वोक्तयुक्तेरिति ।। नापीति ।। पूर्वलक्षणानाम-न्योन्याभावघटितत्वात् एतेषां चात्यन्ताभावघटितत्वात् अपौनरुक्त्यम् ।। तथापीति ।। उपलक्षणमेतत् । सद्विलक्षणत्वे सति असद्विलक्षणत्वे सति सदसद्विलक्षणत्वमपि द्रष्टव्यम् । न चैवं सिद्धसाधनम् । सन्नेति प्रतीतिप्रयोजकस्य सद्विलक्षणत्वस्य विवक्षितत्वात् । न च सदन्तरविलक्षणे तथा प्रतीतिरस्ति । येन सिद्धसाधनता स्यात् । एवञ्च सत्त्वरहितत्वे सति असत्वरहितत्वे सति सदसत्त्वरहितत्वमपि साधु । अत्र सत्त्वेन विचारासहत्वं प्रागूर्ध्वं यस्य सत्त्वं न मध्ये तस्य कुतो भवेत् । अन्यथा शुक्तिरूप्यादेः सत्त्वं केन निर्वायते इत्यादिरूपेण द्रष्टव्यम् ।। विमतमिति ।। मिथ्यात्वानुमानविप्रतिपत्यवसरे यत् पक्षता-वच्छेदकत्वेनोक्तं तदेवात्र द्रष्टव्यम् ।। बाध्यत्वादिति ।। नन्वनिर्वचनीयत्वेन बाध्यत्वं बाध्यत्वेन चानिर्वचनीयत्वमित्यतोऽ न्योन्याश्रय इति चेन्न । श्रुत्यादिनापि तत्सिद्धि-सम्भवात् ।

ननु तथापि बाध्यत्वरूपानिर्वचनीयत्वे साध्ये बाध्यत्वं कथं हेतुः साध्याविशेषादित्यत आह ।। सामान्यत इति ।। तथा चाधिकरणविशेषनिष्ठत्वे नासिद्ध्या तत्र हेतुवृत्य-वृत्तिभ्यां नान्वयित्वासाधारण्ये इति भावः ।। अनुपपत्तिश्चेति ।। यद्यप्यर्थापत्ति-र्नानुमानाद्भिद्यते । तथापि भट्टमतानुसारिणा तथोक्तमिति द्रष्टव्यम् । उपलक्षणमेतत् । आगमोऽप्यत्रार्थे नासदासीदित्यादिर्द्रष्टव्यः । एवमनिर्वचनीयत्वे तत एवाध्यस्तत्वमपि स्वरूपेणाङ्गीकर्तव्यमिति भावः । तत्र लक्षणं दूषयितुं पृच्छति ।। अत्रेति ।। लक्षणे इत्यर्थः । सदसत्पदाभ्यां विवक्षिते इति शेषः ।। शुद्धेति ।। तथा चासम्भव इति भावः ।। त्वन्मत इति ।। अस्मन्मते तु तुच्छं बाध्यमेवेति त्वन्मते इत्युक्तम् । अत्रापि पूर्वोक्त एव दोष इति भावः । चतुर्थपञ्चमयोरपि तदेव दूषणं द्रष्टव्यम् ।। ममापीति ।। तथा च तादृशानिर्वचनीयत्वसाधने सिद्धसाधनमिति भावः ।। तयोरिति ।। त्वन्मत इति शेषः ।। ममेति ।। मदभिप्रेतसत्त्वासत्त्वविवक्षायां लक्षणेऽसम्भवोऽनुमाने बाधादिकं द्रष्टव्यम् । सद्विलक्षणत्वम् इत्यत्राविशेषितसद्विलक्षणत्वं वा विशेषितसद्विलक्षणत्वं वा ? नाद्य इत्याह ।। किञ्चेति ।। द्वितीयमाशङ्कते ।। पारमार्थिकेति ।। बाध्यत्वमेवेति ।। न चेष्टापत्तिः तस्याग्रे निरसिष्यमाणत्वात् ।। किञ्चेति ।। नन्वनभिमताभिमतपक्षविकल्पेन प्राग्दूषण-स्योक्तत्वात् पुनस्तथाविकल्पने पौनरुक्त्यमिति वाच्यम् । पूर्वमनेकपक्षत्वेन विकल्पनात् । अत्र द्वाभ्यामेवेति भेदात् । पूर्वापेक्षया दूषणान्तरं वक्तुं विकल्पनाच्च न पौनरुक्त्यमिति । परस्परेतीष्टापत्तौ हेतुगर्भमत एवाह ।। पारिभाषिकयोरिति ।। साङ्केतिकयोरित्यर्थः । एतेनेति परामृष्टं हेतुमाह ।। असद्वैलक्ष्यण्यमेवेति ।। यद्वाऽस्तु तेन तत्साधनं न चात्मत्वमुपाधिः । सत्त्वे तस्यातन्त्रत्वेनाप्रयोजकत्वादित्याह ।। सत्त्व इति ।। अन्योन्येति ।। अनिर्वचनीयत्वसिद्धौ तल्लक्षणे विधिनिषेधयोरविरोधसिद्धिः । ततस्त-त्सिद्ध्या लक्षणसम्भवात् अनिर्वाच्यत्वसिद्धिरित्यन्योन्याश्रय इत्यर्थः ।। अन्यथेति ।। अनिर्वचनीयत्वसिद्ध्यभावेऽपि विरोधाभाव इत्यर्थः ।

ननु सत्त्वादिराहित्यस्यातात्त्विकत्वे कथं सदादिवैलक्ष्यण्यम् ? तद्राहित्याभावस्य तदात्मकत्वेन व्याप्तत्वादित्यत आह ।। सदादीति ।। सत्त्वादीनां दुर्निरूपत्वमात्रेणैव सदादिविलक्षणत्वरूपा निर्वचनीयत्वोक्तिरित्याशयात् ।। सत्त्वादीति ।। ननु पञ्चमप्रकारा-विद्यानिवृत्तिपक्षे विशेषणत्रयमात्रघटितमनिर्वचनीयत्वं न । किन्तु मोक्षकालानवस्थायित्व-घटितञ्च । तथा च तादृशाविद्यानिवृत्तौ अनिर्वाच्यत्वनिषेधो युज्यत एवेति चेन्न । तथात्वे सत्वरहितत्वे सतीत्यस्य व्यर्थत्वापत्तेः । उक्तविशेषणेनैव ब्रह्मव्यावृत्तिसम्भवात् । न चोक्तविशेषणेनैव तादृशी विवक्षा लब्धेति वाच्यम् । तथापि असत्यतिव्याप्त्यपरिहारात् । न चासद्विलक्षणत्वेन तत्परिहारः तस्याप्यतात्विकस्य तत्र सम्भवात् । असत्त्वस्य दुर्निरूपत्वेन तदभावस्य तत्र सौलभ्यात् । मोक्षकालावस्थायित्वस्य दुर्निरूपत्वेन तदभावस्य ब्रह्मण्यपि सम्भवाच्च । तस्माद्यत्किञ्चिदेतत् ।। सत्त्वादिवदिति ।। सत्त्वादिराहित्ये प्रमाणोक्तौ च प्रमाणविषयत्वेन तात्विकत्वावश्यम्भावात् । अन्यथा व्याघातात् । न चात्र प्रमाणं नोच्यते । वादिविप्रतिपत्तिनिरासार्थं ज्ञापकमात्रस्यैवाभिधानादिति वाच्यम् । ज्ञापकमात्रेण विप्रतिपत्त्यनिरासात् । अन्यथा बौद्धोक्तज्ञापकेन तवापि शून्ये विप्रतिपत्ति-निरासः स्यात् । ज्ञापकोक्तेः । सर्वपदार्थसाधारणत्वेन तव सर्वत्रापि विप्रतिपत्त्यभावापत्तेश्च ।। विधीति ।। न चेष्टापत्तिः । तथात्वे सदसत्वस्वीकार एव श्रेयान् लाघवात् । न च तस्य दुर्निरूपत्वेनाशक्याङ्गीकारत्वमिति वाच्यम् । अत एव निषेधसमुच्चयवदतात्त्विक स्याङ्गीकर्तुमुचितत्वात् । दुर्निरूपत्वं हि तात्विकत्वविरोधि । अन्यथा निषेधसमुच्चयोऽपि न स्यादित्युक्तमेव ।। उभयेति ।।

ननूभयातात्त्विकत्वं कथं विरुद्धम् ? वल्मीकादौ स्थाणुत्वपुरुषत्वयोरुभयोरप्य-तात्त्विकत्वदर्शनात् । न च परस्परविरहरूपयोरुभयो रेकत्रातात्विकत्वं विरुद्धमिति वाच्यम् । तन्त्वादौ घटतत्प्रागभावयोस्तादृशयोरप्यतात्विकत्वदर्शनात् । न चात्यन्ता-भावरूपयोस्ता दृशयोरेकत्रातात्विकत्वं विरुद्धमिति वाच्यम् । नियामकाभावात् सत्त्वा-सत्त्वयोः परस्पराभावरूपत्वाभावाच्चेति चेन्न । निरुपाधिकसहचारेणात्यन्ताभाव तत्प्रति-योगिनोरेकत्रातात्विकत्वविरोधदर्शनात् निरुपाधिकसहचारस्यैव नियामकत्वात् । तदनादरे चातिप्रसङ्गात् । न च सत्त्वासत्त्वयोः परस्परविरहरूपत्वमसिद्धमिति वाच्यम् । सत्वा-भावातिरिक्तस्यासत्त्वस्य दुर्निरूपत्वात् । न च सत्त्वेन प्रतीत्यनर्हत्वमेवासत्त्वं सत्त्वं त्वबाध्यत्वमिति वाच्यम् । असतोऽपि सत्त्वेन प्रतीत्यर्हत्वात् । शब्दाभासादिनाऽसत्त्वेन ज्ञानसम्भवात् । यथा चैतत्तथोपपादितमुपपादयिष्यते चेत्यलम् ।। विधीति ।। यत्र यन्निषेधसमुच्चयः अतात्विकस्तत्र तद्विधिसमुच्चयस्तात्विको यथा घटे द्रव्यत्वघटत्वयोरिति व्याप्तेरिति भावः । न च वन्ध्यासुते गौरत्वश्यामत्वयोर्निषेधसमुच्चयस्यातात्विकत्वेऽपि विधिसमुच्चयस्य तात्त्विकत्वाभावात् व्यभिचार इति वाच्यम् । तत्र निषेधसमुच्चय-स्यातात्विकत्वासिद्धेः । न च धर्म्यसत्वे कथं तदाधेयनिषेधसमुच्चयस्य तात्त्विकत्वमिति वाच्यम् । अबाध्यत्वस्यैव तात्विकत्वे तन्त्रत्वेन धर्मिसत्त्वस्यातन्त्रत्वादिति ।। अतात्विकं हीति ।। अतात्विकात्यन्ताभावप्रतियोगित्व रूपस्यातात्विकत्वस्यास्माकमिष्टत्वादिति भावः । न हि स्वभावतो दुर्निरूपस्य किमपि वास्तवरूपं सम्भवतीत्येनन स्वभावतो दुर्निरूपत्वं वास्तवरूपाभावे हेतुत्वेन विवक्षितम् । तन्नेत्याह ।। किञ्चेति ।। अनैकान्त्यं ब्रह्मणि । कल्पितवास्तवरूपाभावस्या स्माभिरङ्गीकृतत्वेन सिद्धसाधनमिति भावः । न च धर्मिसमसत्ताकत्वादेर्हेत्वादौ तन्त्रत्वात् नोक्तदोष इति वाच्यम् । अनुभूतिर्नानेत्यादौ हेत्वादेस्तादृशाभावेनासिद्ध्याद्यापातात् । न च व्यावहारिकेण दुर्निरूपत्वेन व्यावहारिक-वास्तवरूपाभावः साध्यत इति वाच्यम् । व्यावहारिकत्वस्यापि बाध्यत्वेन पारमार्थिक-वास्तवरूपसद्भावप्रसङ्गादिति विरोध इति तयोरेव वास्तवरूपत्वसम्भवात् न किमपि वास्तवं सम्भवतीत्यनेन विरोध इत्यर्थः ।। अन्यत्वादिति ।। तथा च व्याघात इति भावः । न केवलं व्याघातोऽपित्वसिद्धिर पीत्याह ।। असत इति ।। तस्येति ।।

ननु सत्त्वासत्त्वाभ्यां दुर्निरूपत्वं नाम बाधिततद्द्वयकत्वम् । तच्च धर्मविशिष्ट-धर्म्यतात्विकत्वे हेतुः । सदसद्वैलक्ष्यण्यमपि धर्म इति कथं न तस्यातात्विकत्वं साधयेदिति चेन्न । एवं हि ब्रह्मणोऽपि निर्धर्मत्वेन बाधिततद्द्वयकत्वेन हेतुनाऽनन्दादिधर्म-विशिष्टस्यातात्विकत्वापातेनानन्दादेरप्यतात्विकत्वं स्यात् । न च तत्रापि विशिष्टरूपेणा-तात्विकत्वमिष्टमेवेति वाच्यम् । प्रपञ्चस्यापि विशिष्टरूपेणातात्विकत्वं न स्वरूपेणेत्या-पत्तेः । शुक्तिरूप्यस्यापि तादृशेन हेतुना कल्पितत्वविशिष्टस्य मिथ्यात्वापत्तौ तद्धर्मस्य कल्पितत्वस्यापि अतात्विकत्वापत्तेः । कल्पितत्वस्य च कल्पितत्वेऽकल्पितत्वमेव सत्यं स्यादिति । तस्मान्न सत्त्वासत्त्वाभ्यां दुर्निरूपत्वमुभयवैलक्ष्यण्यातात्विकत्वे हेतुः । किञ्चोक्तरूपं दुर्निरूपत्वमसिद्धम् । सत्त्वासत्त्वयोरुभयोर्बाधादर्शनादिति ।। तदात्म-कत्वादिति ।। भावाभावात्मकत्वादित्यर्थः । यथा चैतत्तथा प्रागेवोक्तमिति । किञ्चैते पारिभाषिके नित्यत्वानित्यत्वे । व्यवहारप्रयोजके तु नित्यत्वानित्यत्वे सामान्यादि-साधारणे । अन्यथा सामान्यादौ नित्यत्वादिव्यवहारो न स्यात् । तद्व्यतिरेकयोश्च नैकत्र समुच्चयः । पारिभाषिकव्यतिरेकसमुच्चयश्च नास्माकमनिष्ट इत्याह ।। सामान्येति ।। ननु प्रागभावस्य नानित्यत्वं ध्वंसाभावादित्यत आह ।। प्रागभावस्यापीति ।। अन्यथेति ।। परस्पराभावात्मकयोः सत्त्वासत्त्वयोः व्यतिरेकसमुच्चयो यदि पारिभाषिकनित्यत्वा नित्यत्वव्यतिरेकसमुच्चयदृष्टान्तेनाङ्गीक्रियते इत्यर्थः ।

ननु न वयं दृष्टान्तमात्रेण निषेधसमुच्चयं ब्रूमो येन तेनैव दृष्टान्तेन सत्त्वासत्त्वयोरपि समुच्चय आपाद्येत । किन्तु प्रमाणतः सिद्धेः समुच्चये दृष्टान्तमपि वदामः । नैवं सत्त्वासत्त्वयोः समुच्चये प्रमाणमस्तीति चेन्न । निषेधसमुच्चयप्रमाणानामग्रे निराकरिष्य-माणत्वात् । सत्त्वासत्त्वे एकधर्मिनिष्ठे धर्मत्वात् रूपरसवदित्यादेः सुसाधत्वेन विधिसमुच्चयप्रामाणिकत्वस्यापि वक्तुं शक्यत्वात् । प्रमाणबाधादेरुभयत्राविशेषात् ।। त्वन्मत इति ।। तथा चापसिद्धान्त इति भावः । न च तात्विकानित्यत्वाभावेऽपि धर्मिसमसत्ताकानित्यत्वाभ्युपगमेन न सिद्धान्तविरोध इति वाच्यम् । तात्विकयो-स्तयोस्सर्वत्राप्यभावेन कल्पितयोरभाववचनस्यायुक्तत्वात् । तात्विकयोस्तयोरप्रसक्त्या प्रतिषेधानुपपत्तेश्च ।। कल्पितत्वरूपहेतोरिति ।। न चातात्विकहेतुसद्भावेन वास्तव-विरुद्धधर्माभावसाधने न व्याघात इति वाच्यम् । कल्पितत्वस्यातात्विकत्वेऽकल्पितत्वं तात्विकं स्यात् । वास्तवविरुद्धधर्माभावोऽप्यतात्विकश्चेत् वास्तवविरुद्धधर्मवत्त्वं तात्विकं स्यात् । तथा च व्याघातः । तस्य तात्विकत्वे च कल्पिते किमपि तात्विकं नेत्यस्य व्याघात एवेति भावः । समानन्यायेनान्यस्यापि तत्र तात्विकस्य वृत्तिः प्रसज्येतेति ।। अन्यथेति ।। असत्त्वादेर्धर्मिसत्तासापेक्षत्व इत्यर्थः । न चासत्कल्पितादेर्धर्म-स्याङ्गीकरणान्नासदादिबहिर्भाव इति वाच्यम् । कल्पितत्वादेः कल्पितत्वेऽकल्पितत्वादिकं सत्यं स्यादित्युक्तत्वात् । अत्यन्ताभावरूपपरस्परविरहात्मकयोरेकस्य कल्पितत्वे परस्य सत्यत्वनियमात् । किञ्चाबाधाद्यगोचरत्वेन कल्पितत्वादेः सत्यत्वावधारणेन कथं तस्य कल्पितत्वम् ? अन्यथा ब्रह्मणोऽपि कथं तन्न स्यादिति ।। तद्वदेवेति ।। न चातात्विक-योस्तयोः समुच्चय इष्ट एवेति वाच्यम् । तथात्वे तन्निषेधेन तद्वैलक्ष्यण्यपर्यन्तधावनानु-पपत्तेः । लाघवात् सदसदात्मकत्वस्यैव स्वीकर्तुमुचितत्वात् । अतात्विकत्वस्यानिर्वचनीय सिद्ध्युत्तरकालीनत्वेनान्योन्याश्रयाच्च । उपसंहरति ।। तस्मादिति ।।

ननु न मया सत्त्वासत्त्वाभावरूपमनिर्वचनीयत्वमुच्यते । येनोभयविधि-समुच्चयवदुभयनिषेधसमुच्चयो विरुद्ध इति दूषणं शक्यं स्यादपि तु सत्त्वादिना विचारा-सहत्वम् । तत्कथं विरोध इत्यत आह ।। अपि चेति ।। असतोऽपीति ।। असतस्त्वया निर्धर्मकत्वेनाङ्गीकारादित्यर्थः ।। सत्पदलक्ष्यस्येति ।। सत्त्वाधिकरणत्वे हि सत्पदवाच्यतैव स्यात् । शक्यतावच्छेदकविशिष्टस्य शक्यत्वनियमात् । अन्यथा घटादेरपि घटादिशब्दवाच्यता न स्यात् । न च तात्विकसत्त्वानधिकरणत्वादवाच्यता अतात्विक-सत्त्वाधिकरणत्वा भावाल्लक्षणाभाव इति वाच्यम् । एवं हि प्रपञ्चस्यापि सत्पदलक्ष्यता स्यात् तात्विकसत्त्वानधिकरणत्वात् । लक्षणाभावश्च स्यात् अतात्विकसत्त्वाधिकरणत्वात् । तथा चासम्भवो वाऽतिर्व्याप्तिर्वेति भावः ।

ननु सत्त्वाधिकरणत्वमित्यत्र न सत्त्वं तात्विकं नाप्यतात्विकं किन्तु धर्मिसमसत्त्वमतो नोक्तदोष इत्यत आह ।। धर्मीति ।। तथा चातिव्याप्त्यसम्भवादिति भावः ।। धर्मसत्त्वादेरेवेति ।। न चायं सुहृदुपदेश आस्तामपि व्याप्त्याद्यभावेन लक्षणस्य निर्व्यूढत्वादिति वाच्यम् । व्याहतेरुक्तत्वेन लक्षणस्यासम्भावित्वात् । सुहृदुपदेशस्त्विति मन्दत्वप्रदर्शनार्थो लघीयस्युपाये सति गुरभूतोपायाश्रयणात् । न तु लक्षणादुष्टत्वेनेति भावः । अतिव्याप्तिमप्याह ।। निर्विशेषेति ।। ब्रह्मण इति ।। सद्रूपत्वस्यैव सच्छद्ब-प्रवृत्तिनिमित्ततासम्भवादिति भावः । न च सत्त्वविशिष्टवाचकस्य कथं निर्धर्मके शक्तिरिति वाच्यम् । निर्धर्मकत्वरूपधर्मभावाभावाभ्यां व्याघातस्योक्तत्वात् । निर्धर्मकत्वविशिष्टत्ववत् सद्रूपत्वविशिष्टसम्भवाच्च । अन्यथा निर्धर्मकपदादेरप्यप्रवृत्तिः स्यादिति ।। बाधेति ।। न च बाधस्याधिष्ठानमात्रगोचरत्वेन सत्त्वादिराहित्यस्य न तद्धीगोचरत्वमिति वाच्यम् । अधिष्ठानमात्रगोचरस्य धर्मिज्ञानतुल्यत्वेन बाधकत्वायोगादित्युक्तत्वात् । तथा च बाधबोध्यस्य धर्मितुल्यत्वे भ्रान्तिबाधव्यवस्था न स्यादिति भावः ।। उक्तेति ।। भ्रान्ति-बाधव्यवस्थाभावरूपदोषादित्यर्थः ।। अत एवेति ।। औतहानेरेवेत्यर्थः ।। किञ्चेति ।। न चातात्विकभेदेन तन्निर्वचनसमर्थनम् । श्रुत्यादिना तु पारमार्थिकभेदनिराकरणमिति वाच्यम् । तथात्वेऽनिर्वचनीयत्वस्यापि अतात्विकत्वापत्तेः । तस्य बाध्यत्वे च सत्त्वादिकं तात्विकं स्यादित्यलं मृतमारणेनेत्युपरम्यते । इति अनिर्वाच्यलक्षणभङ्गः ।

न्यायामृतप्रकाशः

प्रपञ्चेऽनिर्वाच्यत्वं नास्तीति वक्तुं पराभिमतदृष्टान्ते शुक्तिरूप्यादौ लक्षणप्रमाणयोरभावा-न्नानिर्वाच्यत्वम् इत्यभिसन्धाय परपक्षं प्रस्तौति ।। यच्चोक्तमित्यादिना ।।  निरुक्तिविरह इति ।। वचपरिभाषण इति धातोः नितरां उक्तिः परिभाषणाख्यव्यवहाररूपा तद्विरह इत्यर्थः । तथा चानिर्वाच्यत्वं नामाव्यवह्रियमाणत्वमित्यभिप्रेतमिति ज्ञातव्यम् । निरुक्तेः व्यवहारादित्यर्थः । तथा च रूप्यादावव्यवह्रियमाणत्वं नास्तीत्यसम्भव इति भावः । साक्षा-न्निरुक्तिरूपव्यवहार निमित्ताभिप्रायेण ज्ञानस्येत्युक्तम् । परम्परया तदभिप्रायेण अर्थस्येत्युक्तं तस्य ज्ञानद्वारा निमित्तत्वादिति भावः । अत एवेत्युक्तं विशदयति ।। निमित्तं विनेति ।। इदं रूप्यमिति निरुक्तिरूपकार्यस्य प्रत्यक्षसिद्धत्वान्निमित्तमपि ज्ञानादिकं कल्पनीयमिति तद्विरहस्यासम्भव इति भावः । तयो रूप्यज्ञानतदर्थभूतरूप्ययोः । अर्थज्ञानात्मकोभयविध भ्रमाङ्गीकारेणोभयोरप्यनिर्वाच्यत्वादिति भावः ।। सदसदिति ।। सच्च तदसच्च सदसत् तद्रूपं यद्विशिष्टं तद्विलक्षणत्वमित्यर्थः ।। सदेकेति ।। सदेकस्वभावे प्रपञ्चे सदसद्रूपविशिष्ट-वैलक्षण्यस्य प्रतिवाद्यङ्गीकृतत्वेनास्मदभिमतानिर्वाच्यत्वासिद्धिरिति भावः ।। सदसद्रूपत्वेऽ-पीति ।। सद्वैलक्षण्यस्योक्त्याऽसत्वस्याऽसद्वैलक्षण्यस्योक्त्या च सत्वस्यैव प्राप्त्या प्रपञ्चे सदसद्रूपत्वेऽप्युक्तलक्षणोपपत्त्यास्मदभिमतानिर्वाच्यत्वासिद्धिरिति भावः ।। सतोऽपीति ।। तथा च सद्विलक्षणत्वांशः परस्येष्ट एवेत्यर्थः । असद्वैलक्षण्यं त्वङ्गीकृतमेवास्ति । सदसद्रूप-वस्तुनोऽप्रसिद्धत्वे तद्वैलक्षण्यस्यापि परेणाङ्गीकृतत्वेन नैतादृशानिर्वाच्यत्वं प्रतिवाद्यनिष्ट-मित्यर्थः । अन्योन्याभावगर्भलक्षणं दूषयित्वा तद्रीत्यैवात्यन्ताभावगर्भमपि लक्षणं दूषयति ।। नापीति ।। सत्वे सति यदसत् तत्वरूपं यद्विशिष्टं तद्विरह इत्यर्थः ।। केवलेति ।। प्रपञ्चे केवलसत्वस्यैवाङ्गीकारेण सत्वे सत्यसत्वरूपविशिष्टविरहस्य प्रतिवादिनः सिद्धत्वादिति भावः ।। सदसत्त्वेऽपीति ।। सत्वराहित्योक्त्याऽसत्वस्य असत्वविरहोक्त्या च सत्वस्यैव प्राप्त्या सदसद्रूपत्वेऽप्युक्तलक्षणोपपत्त्याऽस्मदभिमतानिर्वाच्यत्वासिद्धिरिति भावः ।। विचारासहत्व-मिति ।। ‘प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुर्वेदान्त वादिनः’’ इति वचनादिति भावः । लक्षणप्रामाण्याभ्यामेव वस्तुसिद्धेरनिर्वाच्यत्वलक्षणं निर्धार्य तत्र प्रमाणं चाह ।। प्रमाणं त्वत्रेति ।। विमतं शुक्तिरूप्यं प्रपञ्चश्च ।। रहितमिति ।। सत्वादिना विचारासहमित्यर्थः । निरुक्तानिर्वाच्यत्वस्यैवानुमानसाध्यत्वादिति भावः । अन्वयदृष्टान्तालाभादाह ।। व्यतिरेकीति ।। तथा चानिर्वाच्यत्वरहिते ब्रह्मणि व्यतिरेक-व्याप्तिग्रह इति भावः । निरुक्तानिर्वाच्यत्वरूपसाध्यस्य कुत्राप्यप्रसिद्धत्वेनानुमानस्याप्य-प्रसिद्धविशेषणत्वं आशङ्क्य सामान्यप्रसिद्धिमाह ।। न चेति ।। समानाधिकरणेति ।। एकधर्मिनिष्ठेत्यर्थः ।। सत्वमिति ।। अत्रासत्वाधिकरणमनिष्टमिति न पर्यवसानं कार्यम् । किन्तु सत्वं असत्वानधिकरणेऽनिष्ठं नास्तीत्यर्थः । एवं च सत्वस्यासत्वानधिकरणेऽ-भावसिद्धौ असत्वाभावसामानाधिकरण्यप्राप्त्यासत्वासत्वरहितस्य वस्तुनः सामान्यतः सिद्धिरिति द्रष्टव्यम् । एवमसत्वपक्षकानुमानमपि द्रष्टव्यम् ।। रूपवदिति ।। रूपादेः असत्वा-नधिकरणवाय्वाद्यनिष्ठत्वात् सत्वानधिकरणशशविषाणाद्यनिष्ठत्वाच्च साध्यमस्तीति द्रष्टव्यम् ।। प्रवृत्तीति ।। पूर्वं असच्चेन्न प्रतीयेतेति ख्यात्यन्यथानुपपत्त्याऽसद्वैलक्षण्य सिद्धिरुक्ता । इदानीं रूप्यमसच्चेन्न तत्र प्रवर्तेत प्रवर्तते च तस्मन्नासदित्येवं प्रवृत्त्यन्यथानुपपत्त्याऽ-सद्वैलक्षण्यं साधितमिति भेदः । एवं प्राप्ते सिद्धान्ताभिधानं प्रतिजानीते ।। अत्र ब्रूम इति ।। सदसद्वैलक्षण्यरूपानिर्वाच्यत्वशरीरे प्रविष्टे सत्वासत्वे प्रकारनवकेन विकल्प्य दूषयति ।। अत्र सत्त्वासत्त्वे इत्यादिना ।। परेणेति ।। त्वदपेक्षया परेण प्रतिवादिना मयेत्यर्थः ।। शुद्धात्मनीति ।। शुद्धात्मनि सत्ताजातिरूपसत्वस्य अर्थक्रियाकारित्वरूपसत्वस्य चाभावे शुद्धात्मनोऽपि सद्वैलक्षण्यस्यापातात् प्रपञ्चे सत्ताजातेरर्थक्रियाकारित्वरूपसत्वस्यैव सद्भावेन सद्वैलक्षण्याभावापातादित्यर्थः । तथा च सद्विलक्षणतया त्वदभीष्टप्रपञ्चस्य सत्वापत्तिः सत्वेन त्वदभीष्टस्य च ब्रह्मणः सद्वैलक्षण्यापत्तिरिति भावः ।। तुच्छस्यापीति ।। शशविषाणादे-रत्यन्तासतस्त्वया सद्वैलक्षण्यं अबाध्यत्वं चाङ्गीकृतमस्ति । तस्य प्रतिपन्नोपाधेरेवाभावेन प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपबाध्यत्वानङ्गीकारात् । एवं च तुच्छेऽप्य-बाध्यत्वरूपसत्वस्यैव प्राप्त्या तस्य सद्वैलक्षण्यायोगात् । एवं बाध्यत्वमसत्वमित्यङ्गीकारेऽ-निर्वाच्यस्यापि रूप्यस्य बाध्यत्वाङ्गीकारेण तत्रासत्वस्यैव प्राप्त्या त्वदभिमतासद्वैलक्षण्य-स्यायोगादित्यर्थः । अत एवेत्युक्तं विशदयति ।। अनिर्वाच्यस्येति ।। रूप्यस्येत्यर्थः । त्वन्मते रूप्ये प्रातिभासिकतयाऽप्रामाणभूताविद्यावृत्तिप्रतिबिम्बितसाक्षिचैतन्यवेद्यत्वेन प्रमाण-भूतान्तःकरणवृत्तेस्तत्र त्वयाऽनङ्गीकारेणाप्रामाणिकत्वाङ्गीकारादित्यर्थः । एवं चाप्रामाणिकत्व-मसत्वं चेदनिर्वाच्यरूप्यस्याप्यप्रामाणिकत्वेनासत्वस्यैव प्राप्तत्वात् त्वदभिमतासद्वैलक्षण्या-योगादिति भावः ।। अशून्यत्वेनेति ।। प्रातिभासिकत्वाङ्गीकारादित्यर्थः । एवं चाशून्यत्वं सत्वं चेदनिर्वाच्ये रूप्येऽशून्यत्वस्य त्वयाऽङ्गीकृतत्वेन सत्वापत्त्या त्वदभिमतसद्वैलक्षण्या-योगादित्यर्थः ।। इष्टत्वादिति ।। ब्रह्मत्वमेव सत्वं चेद्ब्रह्मरूपसद्वैलक्षण्यस्य शून्यरूपा-सद्वैलक्षण्यस्य प्रपञ्चेऽस्माभिरङ्गीकारान्नेदमनिष्टमिति भावः ।। तयोरिति ।। अबाध्यत्व-शून्यत्वयोरित्यर्थः ।। अविरोधेनेति ।। शून्यस्य प्रतिपन्नोपाध्यभावेन तद्घटितबाध्यत्वा-नङ्गीकारात् शून्येऽबाध्यत्वशून्यत्वयोः सहावस्थानप्राप्त्यासत्वासत्वयोश्चाविपालाङ्गनं विरोधस्य प्रसिद्धत्वेनाविरुद्धयोरनयोर्विरुद्धसत्वासत्वरूपत्वायोगादित्यर्थः । किञ्चाबाध्यत्वरहितत्वे सति शून्यत्वरहितत्वं अनिर्वाच्यत्वमित्यत्राबाध्यत्वाभाव एवानिर्वाच्यत्वमस्तु ब्रह्मशून्ययोश्चा-बाध्यत्वे नातिव्याप्त्यभावात् । अतो विशेष्यभागवैयर्थ्यमित्याशयेनाह ।। अबाध्यत्वा-भावस्यैवेति ।। अत्रेति ।। अस्मिन्सप्तमपक्ष इत्यर्थः । निरुपाख्यं सर्वथाऽज्ञायमानमित्यर्थः ।। असदिति ।। त्वया हि शून्यवाद्यभिमतं यदसत्वं तद्वैलक्षण्यमेव तं प्रति रूप्यादौ वक्तव्यम् । तत्र निरूपाख्यरूपासद्वैलक्षण्यं रूप्यादेः शून्यवादिनाऽप्यङ्गीकृतमस्ति । कथ-मित्यत उक्तम् ।। असत्ख्यातिवाद इति ।। असदेव रूप्यं ज्ञायत इति वाद इत्यर्थः । एवं शुक्तिरूप्यादावज्ञायमानवैलक्षण्यरूपासद्वैलक्षण्यस्य शून्यवादिनोऽपीष्टत्वादिति भावः ।। उक्त-रीत्येति ।। रूप्यादेः पारमार्थिकत्वाकारेण निषेधेऽङ्गीक्रियमाणे ब्रह्मवत्सद्रूपत्वेनाप्युपपत्तेः । अतः स्वरूपेण निषेधेऽङ्गीक्रियमाणे निस्स्वरूपत्वेमेवाङ्गीकृतमिति निस्स्वरूपवैलक्षण्य-रूपासद्वैलक्षण्यं न सिद्ध्यतीत्यर्थः ।। उक्तरीत्येति ।। रूप्यादेरपि निस्स्वरूपत्वरूप-शून्यत्वसद्भावेन शून्यवैलक्षण्यरूपासद्वैलक्षण्यायोगादित्यर्थः ।। स्वीकारादिति ।। ‘त्रिकाल-सर्वदेशीयनिषेधा प्रतियोगिता । सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी’ इत्युक्तत्वादिति भावः । किमेतावता ममानिष्टमित्यत आह ।। त्वन्मते इति ।। तथा चानिर्वाच्यरूप्यस्य सार्वदैशिकसार्वकालिकनिषेधप्रतियोगित्वाङ्गीकारेणासत्वस्यैव प्राप्त्या तद्वैलक्षण्यायोगादिति भावः । अस्तु वा सत्वं यत्किञ्चित् । तथापि तद्वैलक्षण्यं न रूप्यप्रपञ्चयोर्वक्तुं शक्यम् । प्रातिभासिकव्यावहारिकसत्वयोरङ्गीकारादित्याह ।। किञ्चेति ।। लाघवादिति ।। पारमार्थिक- सद्वैलक्षण्यं नामाबाध्यवैलक्षण्यमेव । तदपेक्षया बाध्यत्वस्यैव लघुत्वेन तदेवानिर्वाच्यत्वं स्यात् । ब्रह्मशून्ययोश्चाबाध्यत्वेन लक्षणस्यातिव्याप्त्यभावात् । अतोऽसद्वैलक्षण्यविशेषण-वैयर्थ्यमिति भावः । सत्वराहित्योक्तौ मे माता वन्ध्येति वत्स्ववचनव्याघात इत्याशयेनाह ।। किञ्चेति ।। सत्वासत्वराहित्यं वदन् प्रष्टव्यो जायते सत्वासत्वे कीदृशे विवक्षिते इति । मया परस्परप्रतिक्षेपसत्वासत्वाङ्गीकारात् मदनभिमते अन्ये परस्परप्रतिषेधानात्मके पारिभाषिके ब्रह्मत्वशशृङ्गत्वादिरूपे तयो राहित्यं विवक्षितमुतमदभिमतयोः सत्वासत्वयो राहित्यम् ? नाद्यः । पारिभाषिकं यत् ब्रह्मत्वाख्यं सत्वं यच्च शशशृङ्गत्वाख्यमसत्वं तद्राहित्यस्य मया प्रपञ्चेऽप्यङ्गीकारेणेष्टापत्तेरित्याह ।। मदनभिमतयोरिति ।। न द्वितीय इत्याह ।। मदभिमतयोरिति ।। परस्परप्रतिषेधात्मकयोरित्यर्थः ।। लाघवादिति ।। परस्परप्रतिषेधात्मकं सत्वमसत्वं च नास्तीति वदता परस्परविरहानात्मके सत्वासत्वे भावरूपे लोकविलक्षणे वर्तेते इत्यङ्गीकृतं स्यात् । एवमङ्गीकुर्वताऽपि त्वया लोके सत्वा-सत्वयोर्विरहरूपत्वस्य प्रसिद्धेर्लोकप्रसिद्ध्युल्लङ्घनस्य च परीक्षकेण कर्तुमशक्यत्वाल्लोकसिद्धे परस्परविरहरूपे सत्वासत्वेऽपि पृथगङ्गीकार्ये । अतस्तव गौरवम् । मम तु सत्वमसत्वाभाव एव न तु त्वन्मत इव तदविरोध्यपि किञ्चिदस्तीत्यतो लाघवमित्यर्थः ।। आवश्य-कत्वादिति ।। असत्वप्रतिषेधानात्मकं भावरूपं सत्वमङ्गीकृत्यापि लोकप्रसिद्धिसंरक्षणाया सत्वाभावरूपसत्वाङ्गीकारस्तवाप्यावश्यक एव । एवं चावश्यकत्वादसत्वाभावरूपमेव सत्व-मस्त्वित्यर्थः ।

ननु अनेन मम को दोष उक्तः स्यादिति चेत् व्याघात इत्याह ।। द्वौनञाविति ।। असत्वनिषेधापेक्षयैव द्वौ नञाविति न्यायो न तु सत्वनिषेधापेक्षया । तत्र तु परस्पर-विरहरूपयोरिति न्यायो द्रष्टव्यः । तथा च द्वौ नञाविति न्यायेनासत्वस्य निषेधे सत्वस्यैव प्राप्त्या पुनः सत्वनिषेधे मे माता वन्ध्येतिवत्स्ववचनव्याघात इत्यर्थः ।। असदिति ।। द्वौ नञाविति न्यायेनाऽसद्वैलक्षण्योक्तौ सत्वमेव प्राप्नोतीत्यस्मदुक्तेरभिप्रायमज्ञात्वा इदं सत् असद्विलक्षणत्वादित्यनुमानमुक्त्वा तत्रात्मत्वमुपाधिरित्याह । तदप्येतेनैव निरस्तमित्यर्थः । एतेनेत्युक्तं विशदयति ।। असदिति ।। किञ्च प्रागसद्वैलक्षण्येन सत्वं साध्यत एव । को दोषः ? न चात्मत्वमुपाधिरित्युक्तमिति वाच्यम् । लोके साध्ये प्रयोजकतया क्लृप्त एवो-पाधिर्वाच्यो नान्यः । लोके हि भावत्वे तद्विरुद्धभाववैलक्षण्यं घटत्वं तद्विरुद्धाघटवैलक्षण्यमेव तन्त्रत्वेन क्लृप्तम् । एवं च सत्वे तद्विरुद्धवैलक्षण्यस्यैव प्रयोजकत्वेन दृष्टत्वादिहापि सद्विरुद्धासद्वैलक्षण्यस्यैव प्रयोजकत्वेनावश्यमङ्गीकार्यत्वात् । तद्वदात्मत्वस्य प्रयोजकत्वेना-क्लृप्तत्वान्नात्मत्वं सत्वे प्रयोजकापरपर्याय उपाधिरित्याह ।। सत्व इति ।। अनिर्वाच्यवाद इति ।। सत्वासत्वयोर्न परस्परविरहात्मकतया विरोधोऽस्ति । अनिर्वाच्यरूपतृतीय-कोट्यङ्गीकारेणैव परस्परविरहात्मकत्वरूपविरोधस्यैवासिद्धेरित्यर्थः । एतेनेत्युक्तं विवृणोति ।। अन्योन्येति ।। अनिर्वाच्यरूपतृतीयकोटिसिद्धौ विरोधाभावसिद्धिः तत्सिद्धौ चानिर्वाच्य-सिद्धिरित्यन्योन्याश्रयादित्यर्थः ।। असिद्ध इति ।। स्यादिति ।। मातृत्वोक्तौ पुत्रवत्वप्राप्त्या पुनर्वन्ध्येत्युक्तौ व्याघातः । वन्ध्यात्वोक्तौ पुत्राभाववत्वप्राप्त्या पुनर्मातृत्वोक्तौ व्याघात इति मातृत्ववन्ध्यात्वयोरपि विरोधो न सिध्येत् । तत्र वन्ध्यामातृविलक्षणरूपतृतीयकोट्यङ्गी-कारेण विरोधस्य परिहर्तुं शक्यत्वात् । अप्रामाणिकत्वस्य चोभयत्र साम्यादिति भावः ।। अतात्विकत्वादिति ।। असत्वनिषेधे सत्वप्राप्त्या पुनः सद्वैलक्षण्योक्तावपि न व्याघातः सद्वैलक्षण्यस्यातात्विकत्वात् । एवं सत्वनिषेधे परस्परविरुद्धयोरिति न्यायेनासत्वप्राप्त्या पुनरसद्वैलक्षण्योक्तावपि न व्याघातः असद्वैलक्षण्यस्यातात्विकत्वादित्यर्थः ।

ननु रूप्ये सद्वैलक्षण्यस्यासद्वैलक्षण्यरूपनिषेधसमुच्चयस्यातात्विकत्वे रूप्ये ख्याति-बाधान्यथानुपपत्त्या तयोः साधनमयुक्तं स्यात् । न ह्यतात्विकसाधनाय प्रमाणोपन्यासो युक्त इत्यत आह ।। सदादिवैलक्षण्योक्तिस्त्विति ।। सदादिवैलक्षण्यसाधकख्यातिबाधान्यथानु-पपत्तिरूपप्रमाणोक्तिस्त्वित्यर्थः । तत्तत्प्रतियोगिनः रूप्यसत्वादिनिषेधप्रतियोगिनः सत्वादे-रित्यर्थः । तथा च सच्चेन्न बाध्येत असच्चेन्न प्रतीयेत । प्रतीयते बाध्यते च । तस्मा-त्सत्वेनासत्वेन च तत्स्वरूपं दुर्निरूपम् । अतः सदसद्वैलक्षण्यरूपानिर्वाच्यत्वव्यवहार इत्यत्रैवार्थापत्तेस्तात्पर्यम् । न तु रूप्ये सद्वैलक्षण्यासद्वैलक्षण्ययोः सत्व इत्याशयः । ननु रूप्यस्य सत्वासत्वाभ्यां दुर्निरूपत्वमात्रेण सदादिवैलक्षण्योक्तिर्वा कुतः ? ख्यात्यन्यथानु-पपत्त्या सत्वस्य बाधान्यथानुपपत्त्याऽसत्वस्य सम्भवेन सदसदात्मकत्वसम्भवादित्यत आह ।। न हीति ।। स्वतः स्वरूपतः । रूपं धर्मः । तथा च रूप्यस्य स्वरूपत एव दुर्निरूपत्वात्तत्र सत्वमसत्वं सदसदात्मकत्वं वा तद्वैलक्षण्यं वा किमपि रूपं वास्तवं नास्ति येन सदसदात्मकत्वेनाप्युपपत्तिः शङ्क्येतेति भावः । एवं च रूप्यं सत्वासत्वादिवास्तव-किञ्चिद्रूपरहितं स्वरूपेण दुर्निरूपत्वादित्यनुमानमुक्तं भवतीति ज्ञातव्यम् । सत्वादिराहित्यस्य सदादिवैलक्षण्यस्य । अनिर्वाच्यत्वे रूप्यादेः सदादिवैलक्षण्यरूपानिर्वाच्यत्वोक्तावित्यर्थः ।। निषेधायोगादिति ।। रूप्यादाविवाविद्यानिवृत्तावपि सत्वादेर्दुर्निरूपत्वमात्रेण सदसद्वैलक्षण्य-रूपानिर्वाच्यत्वस्यैव वक्तुं शक्यत्वात् ‘नानिर्वाच्यश्च तत्क्षयः’ इत्यनिर्वाच्यत्वनिषेधा-योगादित्यर्थः ।। सत्वादिवदिति ।। रूप्यादेः सत्वादौ प्रमाणं नास्ति प्रत्युत तद्वैलक्षण्य एव ख्यातिबाधान्यथानुपपत्तिरूपप्रमाणमस्तीत्युक्त्ययोगात् । उभयोरप्यतात्विकत्वाविशेषे एकत्र प्रमाणं नास्त्यपरत्र तदस्तीत्युक्त्ययोगादिति भावः ।। विधीति ।। अर्थापत्त्या सदसद्वैलक्षण्योक्तौ विरोधे अभिहिते निषेधसमुच्चयस्यातात्विकत्वान्न विरोध इति यथोच्यते तथा वयमपि वदामः । त्वदीयार्थापत्त्या सदसदात्मकत्वमेवास्तु । न च विरोध इति वाच्यम् । तात्विकत्वे हि विरोधः । विधिसमुच्चयस्यास्माभिरतात्विकत्वाङ्गीकारेण विरोधा-भावादिति वक्तुं सुशकत्वादिति भावः ।। उभयातात्विकत्वेनेति ।। सत्वनिषेधासत्व-निषेधयोरुभयोरप्यतात्विकत्वेन निषेधसमुच्चयोऽप्यतात्विक इत्यर्थः । एकस्य सत्वनिषेधस्य वा असत्वनिषेधस्य वाऽतात्विकत्वेन निषेधसमुच्चयोऽप्यतात्विक एव । एकसत्वेऽपि द्वयमिह नास्तीति प्रतीतिसिद्धव्यासज्ज्यवृत्तिप्रतियोगिकाभावाभिप्रायेणेदम् ।। उभयेति ।। सत्वासत्वयोरुभयोरपि तात्विकत्वं यथा विरुद्धं एवमुभयोरतात्विकत्वमपि विरुद्धमेवेत्यर्थः ।। विधीति ।। निषेधसमुच्चयस्यातात्विकत्वे तत्प्रतियोगिनः सदसदात्मकत्वरूपविधिसमुच्चयस्य तात्विकत्वं स्यात् परस्परविरुद्धयोरिति न्यायादिति भावः ।। प्रतियोगीति ।। विधि-समुच्चयस्य तात्विकत्वे निषेधप्रतियोगिनस्तस्य सदसत्त्वस्य सुनिरूपत्वात्तत्प्रतियोगि-दुर्निरूपत्वमात्रप्रकटनाय सदादिवैलक्षण्योक्तिरित्यस्यायोगादित्यर्थः । अत एवेत्युक्तमेव विशदयति ।। तत्प्रतियोगिन इति ।। एकातात्विकत्वेन निषेधसमुच्चयस्यातात्विकत्वे यन्निषेधस्तात्विकः तत्प्रतियोगिनोऽतात्विकत्वेऽपि यन्निषेधोऽतात्विकस्तत्प्रतियोगिनो विधिरूपधर्मस्य तात्विकत्वं स्यादित्यर्थः । कुत इत्यत आह ।। अतात्विकं हीति ।। तात्विकपदं किमर्थमिति चेदुच्यते अतात्विकात्यन्ताभावप्रतियोगित्वमेवातात्विकत्वं चेत्तर्हि तात्विके ब्रह्मण्यप्यतात्विकात्यन्ताभावप्रतियोगित्वसत्वेनातात्विकत्वापत्तेः । अत-स्तात्विकात्यन्ताभाव प्रतियोगित्वं वाच्यम् । एवं च प्रकृते यदासत्वनिषेधस्यातात्विकत्वं तदातात्विकात्यन्ताभावप्रतियोगित्वं वाच्यं सत्वनिषेधात्यन्ताभावश्च सत्वमेव । अभावा-भावस्य भावत्वात् । तथा च सत्वनिषेधस्यातात्विकत्वे तस्य सत्वनिषेधस्य तात्विका-त्यन्ताभावप्रतियोगित्वे वाच्ये तदत्यन्ताभावरूपस्य सत्वस्य तात्विकत्वसिद्धिरित्यर्थः । रूप्यं वास्तवसत्वादिकिञ्चिद्रूपरहितं स्वरूपतोदुर्निरूपत्वादित्यनुमाने दोषमाह ।। किञ्चेति ।। अनैकान्त्यस्य सिद्धसाधनस्य चेति ।। अयमत्र विवेकः । हेतूकृतं स्वरूपतो दुर्निरूपत्वं अतात्विकं तात्विकं वा ? नाद्यः ब्रह्मणि व्यभिचारात् ? वस्तुतो ब्रह्मस्वरूपस्य सुनिरूपत्वेनाऽतात्विकस्य स्वरूपतो दुर्निरूपत्वस्य हेतोः सद्भावेन वास्तवरूपाभाव-रूपसाध्यस्याभावात् । एवमेव वास्तवरूपाभावरूपं यत्साध्यं तदप्यतात्विकं तात्विकं वा ? नाद्यः अतात्विकवास्तवरूपाभावसाधने सिद्धसाधनात् । वास्तवरूपस्यैव तात्विकत्वसिद्धेः । अतो हेतुसाध्ययोरुभयोरपि तात्विकत्वेऽवश्यं वाच्ये तात्विकहेतुसाध्यवत्वेनैव स्वरूपतः सुनिरूपत्वप्राप्त्या हेतुसाध्यवत्त्वरूपवास्तवरूपस्यैव प्राप्त्या च हेतुवाक्यप्रतिज्ञावाक्ययोः हेतुवाक्यप्रतिज्ञावाक्याभ्यां विरोध इत्यर्थः ।। इत्यत्रेति ।। स्वरूपतो दुर्निरूपस्य वास्तवं रूपं किमपि नास्तीत्यत्रोक्तमिदं दुर्निरूपत्वं किं सत्वादिना केनापि प्रकारेणेति विवक्षत-मित्यर्थः ।। प्रकारान्येति ।। केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण सुनिरूपत्वेऽपि केनापि प्रकारेण दुर्निरूपत्वमित्येतत्प्रकारान्यप्रकारेण दुर्निरूपत्वं विवक्षितं वेत्यर्थः ।। दुर्निरूपत्वमिति ।। केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण दुर्निरूपत्वं विवक्षितं सुनिरूपत्वं वा ? आद्ये सत्वादिना सुनिरूपत्वात्केनापि प्रकारेण दुर्निरूपत्वव्याघातः । द्वितीये केनापि प्रकारेण दुर्निरूपत्वप्राप्त्या केनापि प्रकारेण दुर्निरूपत्वव्याघात एवेत्यर्थः । अत एवेत्युक्तं विशदयति ।। दुर्निरूपत्वस्येति ।। दुर्निरूपत्वप्रकारस्य ।। केनापि प्रकारेण दुर्निरूपत्वमित्यस्मादन्यत्वादिति ।। केनापि प्रकारेण दुर्निरूपत्वमित्यस्मादेव प्रकारोऽन्यः सुनिरूपः । तथात्वेऽन्येन प्रकारेण सुनिरूपत्वप्राप्त्या केनापि प्रकारेण दुर्निरूपं न भवतीति यावदित्यर्थः । तथा च केनापि प्रकारेण दुर्निरूपत्वमित्येतस्मात्प्रकारादन्यो यः  केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्यप्रकारेण दुर्निरूपत्वरूपः प्रकारस्तेनैव प्रकारेण सुनिरूपत्वात्केनापि प्रकारेण दुर्निरूपत्वमित्येतत्प्रकारान्यप्रकारेण दुर्निरूपत्वमयुक्तम् । उक्तप्रकारादप्यन्यो यः प्रकारः असतोऽसत्वरूपस्तेनैव सुनिरूपत्वात् । तथा कल्पितस्यापि रूप्यस्य उक्तप्रकारान्यो यः प्रकारो मिथ्यात्वादिस्तेनैव सुनिरूपत्वादित्यर्थः । कल्पिते मिथ्यात्वरूपः प्रकारोऽप्रामाणिक इति न मन्तव्यं बाधबाध्यत्वादित्याशयेनोक्तम् ।। बाधवेद्येनेति ।। तस्येति ।। सत्वासत्वाभ्यां दुर्निरूपत्वे सदादिवैलक्षण्यस्य वास्तवत्वमेव स्यात् । तथा च सत्वादिना दुर्निरूपत्वस्य सदादिवैलक्षण्यवास्तवत्वं प्रत्येव हेतुत्वेन तद्वैलक्षण्यावास्तवत्वाहेतुत्वादित्यर्थः । सत्वादिराहित्यरूपानिर्वाच्यत्वसाधकानुमाने ना-प्रसिद्धिः सत्वासत्वाभावयोरप्येकत्र सम्भवात् । न च विरुद्धयोरेकत्र सत्वमयुक्तमिति वाच्यम् । यथा हि ध्वंसानुपलक्षिता ध्वंसास्पृष्टा या सत्ता तद्योगित्वं नित्यत्वम् । ध्वंसोप-लक्षितसत्तायोगित्वमेव चानित्यत्वम् । एतादृशयोश्च नित्यत्वानित्यत्वयोर्न सामान्ये समा-वेशोऽस्ति । तत्र सत्ताजातेरेवाभावे तद्घटितनित्यत्वाद्यभावात् । यथा वा उत्तरावधिराहित्यं नित्यत्वम् । भावान्या या निवृत्तिस्तद्वत्त्वमनित्यत्वम् । घटादितन्नित्यत्वाद्यभावात् । यथा वा उत्तरावधिराहित्यं नित्यत्वम् । भावान्या या निवृत्तिस्तद्वत्त्वमनित्यत्वम् । घटादि-प्रतियोगिकध्वंसस्य भावत्वाभावात् । एवं चैतादृशयोर्वैवक्षिकयोर्नित्यत्वानित्यत्वयोर्न प्राग-भावे समावेशोऽस्ति । उत्तरावधेरेव सत्वेन तद्राहित्यरूपनित्यत्वाभावात् । तथा प्रतियोग्याख्यभावस्यैव प्रागभावनिवृत्तिरूपत्वेन भावान्यनिवृत्तिमत्त्वरूपानित्यत्वस्याप्य-भावात् । एवं च यथा नित्यत्वानित्यत्वयोः परस्परपरिहारेणैव लोके सत्वेऽपि सामान्यादौ तदुभयाभावो दृष्टः एवं सत्वासत्वयोः परस्परपरिहारेणैव लोके सत्वेऽपि क्वचित्पदार्थविशेषे तयोरभावोऽपि किं न स्यात् ? एवं च सामान्यतः सत्वासत्वरहितवस्तुसिद्धिरिति केनचिदुक्तमाशङ्क्य निषेधति ।। न चेति ।। उक्तयोस्त्वयानिरुक्तयोः । तथा च तयोर्विरोध एव नास्तीति भावः । तर्हि प्रकृतेऽपि तथास्त्विति न वाच्यमित्याह ।। सत्वासत्व-योस्त्विति ।। तदात्मकत्वात् भावाभावात्मकत्वेन विरुद्धत्वादित्यर्थः । तथा च न तदभावयोः एकत्र समावेशो युक्त इति भावः । सामान्यादौ नित्यत्वानित्यत्वाभाववद्युक्तमिति चेन्न । त्वया नित्यत्वादिकं वैवक्षिकं निरुच्य तदभावः सामान्यादौ नित्यत्वा-नित्यत्वाभाववद्युक्तमिति चेन्न । त्वया नित्यत्वादिकं वैवक्षिकं निरुच्य तदभावः सामान्यादौ उक्तः । वस्तुतस्तु ध्वंसाप्रतियोगित्वतत्प्रति योगित्वरूपनित्यत्वानित्यत्वयोरपि परस्पर-विरहरूपतया विरोधस्यैव सत्वेन तदभावयोरपि नैकत्र समावेश इत्याशयेनाह ।। सामान्येति ।। ध्वंसाप्रतियोगित्वरूपनित्यत्वं सामान्ये ध्वंसप्रतियोगित्वरूपमनित्यत्वं प्रागभाव इति विवेकः ।

ननु प्रागभावे ध्वंसप्रतियोगित्वरूपमनित्यत्वं नास्ति अभावप्रतियोगिकाभावान्तरा-नभ्युपगमादित्यत आह ।। प्रागभावस्यापीति ।। स्वप्रतियोगिकाभावान्तरशून्यस्या-पीत्यर्थः । तदेव विशदयति ।। भावस्येति ।। भावस्य घटादेर्निवृत्तिरभाव एव ध्वंस एव । अभावस्य प्रागभावस्य निवृत्तिस्तु भाव एव प्रतियोगिरूपैव न ततोऽन्येति ध्वंसप्रतियोगित्व-रूपानित्यत्वं प्रागभावेऽस्तीत्यर्थः । अस्मदुक्तरीत्या नित्यत्वानित्यत्वयोः परस्परविरहात्म-कत्वमनभिधाय नित्यानित्यत्वे वैवक्षिके निरुच्य सामान्यादौ तदुभयाभाववत्सत्वासत्वयोरपि क्वचिदभावाङ्गीकारेऽतिप्रसङ्ग इत्याह ।। अन्यथेति ।। तर्ह्येकत्रैव रूप्ये सत्वासत्वे अप्यङ्गी-कार्ये स्याताम् । तथा च सदसदात्मकत्वेनाप्युपपत्तिरस्तु । न च विरोधः । यथा ध्वंसोपलक्षितसत्ताराहित्यं नित्यत्वं ध्वंसानुपलक्षितसत्ताराहित्यं चानित्यत्वं तयोश्च सामान्ये समावेशोऽस्ति तत्र सत्ताया एवाभावेन उक्तनित्यत्वानित्यत्वयोस्तत्र सत्वेन विरोधाभावात् तद्वद्रूप्येऽपि सत्वासत्वयोरुपपत्तेरिति भावः । सत्वासत्वोभयाभावसाधने व्याघात इत्यत्र परिहारान्तरमाशङ्क्य निराकरोति ।। न चेति ।। नित्यत्वेति ।। यथा कल्पिते रूप्ये नित्यत्वानित्ययोरभावो न विरुद्धः धर्मिण एवाभावेन विरुद्धयोर्धर्मयोरप्यभावादित्यर्थः । विरुद्धयोः सत्वासत्वयोः विरुद्धयोरपि धर्मयोरभावादित्यस्य कस्यापि धर्मस्याभावादित्यर्थः । तथा च रूप्यं विरुद्धेन अविरुद्धेन वा केनापि धर्मेण शून्यं स्वरूपेण कल्पितत्वादित्यनु-मानमुक्तं भवति । नित्यत्वानित्यत्वयोरिवेति दृष्टान्त एव त्वन्मतेऽसिद्ध इत्याह ।। त्वन्मते

इति ।। विरुद्धधर्माभावरूपसाध्यस्येति ।। कस्यापि धर्मस्याभावरूपधर्मस्येत्यर्थः ।। व्याघाताच्चेति ।। कल्पिते तस्मिन्सधर्मकत्वस्य प्राप्त्या कस्यापि धर्मस्याभावो विरुद्ध इत्यर्थः ।

ननु कल्पिते रूप्ये उक्तहेतुसाध्ययोर्भावे तयोरेव धर्मयोः सद्भावस्तत्राभावे कल्पितत्व-रूपहेतोः साध्यस्य चाभावेन तन्न्यायेनान्येषामपि धर्माणां सत्वप्राप्त्या व्याघात इत्ययुक्तं कल्पितत्वहेतोर्विरुद्धधर्माभावरूपसाध्यस्य च सत्वं नित्यत्वं यथा धर्मिसत्तासापेक्षं तथा धर्मिसत्तासापेक्षं न भवतीति तयोः सत्वं युक्तम् । इतरेषां तु धर्मिसत्वापेक्षत्वान्न तन्न्यायेन सत्वोक्तिर्युक्तेति चेत् तर्हि सत्वरूपधर्मस्य धर्मिसत्वसापेक्षत्वेनाभावेऽपि असत्वस्य तथात्वाभावाद्रूप्येऽसत्वमस्तु तद्वैलक्षण्यं कुतोऽङ्गीकार्यमित्याह ।। अथेति ।। असत्वस्यापि धर्मिसत्तासापेक्षत्वे दोषमाह ।। अन्यथेति ।। असद्बहिर्भावः स्यादित्यन्वयः । तत्रासत्वं न स्यादित्यर्थः । तुच्छस्य धर्मिण एवाभावादिति भावः । विरुद्धयोरपि धर्मयोरभावाङ्गीकारे दोषमाह ।। कल्पितस्यापीति ।। तथा च त्वदभिप्रेतं दृश्यत्वं बाध्यत्वं सत्वादिना दुर्निरूपत्वं च न स्यादित्यर्थः । प्रकारान्तरेण सत्वासत्वाभावयोरविरोधमाशङ्क्य निराकरोति ।। न चेति ।। सत्वासत्वाभावयोः सद्वैलक्षण्यासद्वैलक्षण्ययोः ।। तद्वदेवेति ।। तथा च सदसदात्मकत्वमेव युक्तमिति भावः ।। तथात्वे इति ।। अविरोधोपपादकस्य कालरूपा-वच्छेदकभेदस्य सत्वे सत्वासत्वयोरप्यविरोध इष्ट एवेति अविरोधापातादित्यापादनमयुक्त-मित्यर्थः । तमेव दर्शयति ।। स्वेति ।। स्वयं यस्मिन्कालेऽस्ति तदवच्छेदेनेत्यर्थः ।। सम इति ।। सत्वासत्वयोरपि कालरूपावच्छेदकभेदेनाविरोधः सम एवेति सत्वासत्वयोरप्यविरोधो स्त्वित्युक्तेऽस्माकमपीष्टापत्तिरित्यर्थः । तदेव दर्शयति ।। स्वेति ।। स्वाधिकरणकाले स्वस्य सत्वेन तत्रासद्वैलक्षण्यस्यासत्वाभावस्य सद्भावादित्यर्थः । सद्वैलक्षण्यस्य सत्वाभावस्य सत्वासत्वाभावयोर्विरोधोपपादनमुपसंहरति ।। तस्मादिति ।। तथा च निषेधसमुच्चयस्या-तात्विकत्वान्न विरोध इत्येतदयुक्तमिति भावः ।। सत्वादिनेति ।। सत्वादिप्रकारक-प्रमाणागोचरत्वमित्यर्थः । असत्वानधिकरणत्वस्यासत्यतिव्याप्तिः तस्य स्वरूपत एवा-भावेनासत्वाभावानधिकरणत्वादित्याह ।। असत इति ।। किञ्च सत्वानधिकरणत्वमित्यत्र तात्विकसत्वानधिकरणत्वं विवक्षितं उतातात्विकसत्वानधिकरणत्वं धर्मिसमसत्वानधिकरणत्वं वा ? नाद्य इत्याह ।। सत्पदेति ।। तात्विकसत्वरूपधर्माङ्गीकारे प्रवृत्तिनिमित्तसद्भावेन सत्पदवाच्यत्वमेव स्यान्न लक्ष्यत्वमित्याशयेनोक्तम् ।। सत्पदलक्ष्यस्येति ।। न द्वितीयोऽसम्भवापत्तेरित्याह ।। अतात्विकमिति ।। व्यावहारिकं प्रातिभासिकमित्यर्थः । अनिर्वाच्यस्य गगनादेः रूप्यादेश्च । न तृतीयः ब्रह्मण्यतिव्याप्तेः । धर्मिसमसत्वस्य तात्विकस्य ब्रह्मण्यभावेन तदनधिकरणत्वसद्भावादित्याह ।। धर्मीति ।। अनिर्वाच्येऽ-सम्भवश्च धर्मिसमस्यानिर्वाच्यसत्वस्य प्रातिभासिकत्वाद्यपरपर्यायस्य तत्रापि सत्वेन धर्मिसम-सत्ताकसत्वं प्रत्यधिकरणत्वेन तदनधिकरणत्वाभावादित्याह ।। अनिर्वाच्यस्येति ।। धर्म-वत्त्वादेरेवेति ।। न च तुच्छब्रह्मणोरतिव्याप्तिरिति वाच्यं तयोर्निर्धर्मकत्वाङ्गीकारात् धर्म-वत्त्वस्य चानिर्वाच्यमात्रनिष्ठत्वादिति भावः । आदिपदेन बाध्यत्वसङ्ग्रहः । तुच्छब्रह्मणोश्चा-बाध्यत्वादिति द्रष्टव्यम् । तथाचोक्तनिर्वचनप्रयासो व्यर्थ इति भावः ।

ननु सत्वात्यन्ताभावाधिकरणत्वस्य सत्वादिधर्मशून्ये ब्रह्मण्यतिव्याप्तिः असत्वात्यन्ता-भावानधिकरणत्वस्य निस्वरूपतयाऽसत्वरूपधर्मानधिकरणे तुच्छेऽतिव्याप्तिश्च कस्मान्न दीयत इत्यत उक्तम् ।। निर्धर्मक इत्यादि ।। तुच्छेऽपीति ।। असति च सचेतसां मूकताया एव शरणत्वादिति भावः । अनुपदमेवातिव्याप्तेरपि वक्ष्यमाणत्वात्कथञ्चिदित्युक्तम् । ब्रह्मण्यति-व्याप्तिमेवाह ।। निर्विशेषत्वेति ।। निर्धर्मकत्वाद्ब्रह्मणि सत्वं नास्तीत्येव सत्वावगाहि-त्वेऽङ्गीकृते सति तदत्यन्ताभावाधिकरणत्वं दुर्वारमेव । न च निर्विशेषत्वप्रतिपादकश्रुत्या ब्रह्मणि धर्ममात्रनिषेधान्न सत्वासत्वात्यन्ताभावाधिकरणमपीति वाच्यम् । निर्विशेषत्वश्रुते-र्धर्ममात्रनिषेधपरत्वाङ्गीकारे निर्विशेषत्वरूपधर्मस्यैव प्रतिपादनेन श्रुतेः स्वव्याघातप्रसङ्गात् अतस्तत्परिहाराय भावरूपविशेषाभावेऽपि अभावरूपो विशेषोऽस्तीति श्रुत्यर्थस्त्वया वर्णनीयः । तथा चातिव्याप्तिरिति भावः । सत्वराहित्ये इत्येव पाठः । अङ्गीकृते सतीति शेषः । न तृतीयः ब्रह्मण्यतिव्याप्तेः । ब्रह्मणि निर्धर्मके सत्वस्याभावेन तद्रूपत्वस्याप्यभावात् । सद्रूपत्वे सत्वस्यैव प्रयोजकत्वादित्याह ।। ब्रह्मणीति ।।

ननु सत्ताजातिरहितस्यापि सामान्यादेः सद्रूपत्ववत् सत्वरहितस्यापि ब्रह्मणः सद्रूपत्वं किं न स्यात् ? तथा च नातिव्याप्तिरित्यत उक्तम् ।। सामान्यादेरपीति ।। अबाध्यत्व-वत्त्वेनैवेति ।। अबाध्यत्वरूपसत्ववत्त्वेनैवेत्यर्थः । तथा च सामान्यादेः सत्ताजात्यभावेऽपि अबाध्यत्वरूपसत्वसद्भावादेव सद्रूपत्वं नान्यथेत्यर्थः । ब्रह्मणः सद्रूपत्वाङ्गीकारे बाधकमाह ।। ब्रह्मण इति ।। लाक्षणिकत्वेति ।। न हि सत्पदलक्ष्यस्य सद्रूपत्वं सम्भवति । गङ्गापदलक्ष्यस्य तीरस्य गङ्गात्वाभावात् । तथात्वे गङ्गापदलक्ष्यत्वमेव न स्यात् । एवं च सत्पदलक्ष्यतयाङ्गीकृतस्य ब्रह्मणः सद्रूपत्वाभावादतिव्याप्तिः स्यादेवेत्यर्थः ।। त्वन्मत इति ।। तथा च ब्रह्मण्यतिव्याप्तिरिति भावः ।। अखण्डार्थेति ।। ब्रह्मणः सत्वप्रकारकप्रमाणगोचरत्वे वेदान्तानां सप्रकारकब्रह्मज्ञानजनकत्वापत्त्या निर्विशेषार्थनिष्ठत्वरूपाखण्डार्थत्वहानिरित्यर्थः । सत्वासत्वराहित्यरूपमनिर्वचनीयत्वं चेत्तर्हि सत्वराहित्यं कीदृशं विवक्षितमिति प्रष्टव्यम् । किं प्रातिभासिकं किंवा धर्मिसमसत्ताकम् अथवा व्यावहारिकं यद्वा पारमार्थिकम् ? नाद्य इत्याह ।। अपि चेति ।। रूप्येति ।। प्रतियोगितदभावयोर्भिन्नसत्ताकत्वनियमादनिर्वाच्य-तयाभिमतयो रूप्यप्रपञ्चयोः सत्वराहित्यस्य प्रातिभासिकत्वे ब्रह्मणीव सत्वं पारमार्थिकं स्यादिति भावः । व्यावहारिकं सत्वं तु पारमार्थिकसत्वकोटिनिविष्टमिति पारमार्थिकत्वा-पातादित्येवोक्तमिति हृदयम् । तथा च रूप्यप्रपञ्चौ पारमार्थिकसत्वोपेतौ प्रातिभासिक-सत्वराहित्योपेतत्वात् । यत्प्रातिभासिकयदभावयुक्तं तत् पारमार्थिकतत्प्रतियोगियुक्तम् । यथा घटयुक्तं भूतलमित्यनुमानमुक्तं भवति । न द्वितीय इत्याह ।। नापीति ।। सत्वराहित्यस्य न रूप्यरूपधर्मिसमसत्ताकत्वम् । रूप्यगतस्य सत्वराहित्यस्य नास्ति नासीन्न भविष्यतीति बाधबोध्यस्य त्वन्मते व्यावहारिकत्वेन भ्रान्तिसिद्धेन रूप्येण साम्यायोगात् । एवं प्रपञ्चगतं सत्वादिराहित्यमपि न प्रपञ्चरूपधर्मिसमसत्ताकम् । तस्य नास्तिनासीन्नभविष्यतीति वेदान्तजन्यचरमसाक्षात्काररूपबाधबोध्यस्य पारमार्थिकत्वेन भ्रान्तिसिद्धेन व्यावहारिकेण जगता साम्यायोगादित्यर्थः । नापि तृतीय इत्याह ।। नापीति ।। प्रपञ्चरूप्ययोर-निर्वाच्यत्वेऽपि प्रपञ्चापेक्षया रूप्यस्य निकृष्टतयावान्तरवैलक्षण्याङ्गीकारेण सत्वराहित्यस्य जगति व्यावहारिकत्वे रूप्ये तस्य प्रातिभासिकत्वापत्तेः । अस्त्विति चेन्न । रूप्यगत-सत्वराहित्यस्य बाधबाध्यस्य प्रातिभासिकेन रूप्येण साम्यायोगात् तथात्वे बाधबाध्यत्वं न स्यादिति भावः । रूप्यगतसत्वराहित्यस्य बाधबाध्यत्वान्यथानुपपत्त्या व्यावहारिकत्व-मङ्गीक्रियत इति चेन्न तथात्वे रूप्यापेक्षया प्रपञ्चपक्षमतिदेशेन दूषयति ।। अत एवेति ।। रूप्यप्रपञ्चयोः सत्वराहित्यं न पारमार्थिकं औतहानेरेवेत्यर्थः । रूप्यगतस्यैव सत्व-राहित्यस्य पारमार्थिकत्वाङ्गीकारे दोषान्तरमाह ।। नहीति ।। सत्वराहित्याख्यस्यैव वास्तव-रूपस्याङ्गीकारात्स्ववचनविरोध इत्यर्थः । ‘न च कयापि युक्त्या मानेन वा भेदनिराकरणं भवति अङ्गीक्रियमाणत्वात्’ इति भगवत्पादवाक्यं मनसि निधायाह ।। किञ्चेति ।। अभावाभावो भाव एव तद्व्याप्तो वेति मतद्वयसद्भावादाह ।। सदसद्भिन्नत्वरूपमिति ।। तद्व्याप्तमिति ।। सदसद्भिन्नत्वव्याप्तमित्यर्थः । ननु न सदसद्वैलक्षण्यमनिर्वाच्यत्वम् । किं नाम बाध्यत्वमेवेति चेत्तत्राह ।। बाध्यत्वमिति ।। मिथ्यात्वभङ्ग एवेति ।। बाध्यत्वं हि त्रैकालिकनिषेधप्रतियोगित्वं तत्र त्रैकालिकनिषेधस्य तात्विकत्वेऽद्वैतहानेः प्रातिभासिकत्वे सिद्धसाधनात् व्यावहारिकत्वेऽपि तस्य बाध्यत्वेन तात्विकसत्वाविरोधित्वे नार्थान्तरात् औतश्रुतेरतत्वावेदकत्वापाताच्चेति मिथ्यात्वभङ्ग एव निरस्तमित्यर्थः ।

न्यायकल्पलता

प्रपञ्चेऽनिर्वाच्यत्वं नास्तीत्यवधारयितुं पराभिमते दृष्टान्ते शुक्तिरूप्यादौ लक्षणप्रमाण-योरभावान्नानिर्वाच्यत्वमित्यभिसन्धाय परपक्षं प्रस्तौति ।। यच्चोक्तमित्यादिना ।। निमित्त-मिति ।। निरुक्तिरूपकार्यस्य सिद्धत्वादिति भावः । तयोः ज्ञानार्थयोः ।। सदेकरूपत्वेऽ-पीति ।। तथा चार्थान्तरमिति भावः ।  सदसद्रूपत्वेऽपीति ।। एवं च त्वदभिमता-निर्वाच्यत्वासिद्धिरिति भावः ।। सत्वराहित्ये सतीति ।। एतच्चासत्त्वविशेषणम् ।। सदसत्त्वेऽपीति ।। विशेषणाभावाद्विशिष्टा भावोऽस्तीत्यर्थः ।। सत्त्वासत्त्वे इति ।। एकस्मिन्सत्त्वासत्त्वोभयाभावाधिकरणे सदसदात्मकत्वाभावोऽप्येतदनुमानादेव सिध्यतीति विशिष्टसाध्यप्रसिध्द्यनुपपादनं न शङ्कनीयमिति पराभिसन्धिः ।। असत्त्वेति ।। असत्त्वा-भावासमानाधिकरणमसत्वानधिकरणत्वावच्छेदकावच्छिन्नाधिकरणताकं वेत्यर्थः ।। प्रवृत्तीति ।। ज्ञानवदिच्छाप्रवृत्त्योरपि पुरोवर्तिरजतविषयत्वादिति भावः । समाधत्ते ।। अत्रेति ।। शुद्धात्मनीति ।। तत्र सत्ताजातेरर्थक्रियाकारित्वस्य च प्रपञ्चे तदभावस्य चाभावादित्यर्थः ।। तत्रेति ।। तुच्छे प्रत्युत सत्त्वमेव स्यात् ।। तत्रेति ।। अनिर्वाच्ये प्रत्युतासत्त्वमेव स्यात् ।। अनिर्वाच्यस्येति ।। तत्र प्रमाणप्रवृत्तेरभावात् ।। तयोरिति ।। शून्यस्यापि त्वन्मतेऽबाध्यत्वादिति भावः ।। अबाध्यत्वेति ।। बाध्यत्वं च पृथक् दूषयिष्यते ।। असत्ख्यातीति ।। रूप्यादेः सप्रधानत्वान्निरुपाख्यवैलक्षण्यम् । शुक्तिरूप्यं तु निरुपाख्य-मेवेति बोध्यम् ।। निःखरूपत्वादिति ।। तथा च न रूप्यादावसद्वैलक्षण्यमित्यर्थः ।। उक्तेति ।। रूप्यादेः स्वरूपत्वरूपशून्यत्वात् ।। त्वन्मते चेति ।। अनिर्वाच्येऽसद्वैलक्षण्यं न स्यादित्यर्थः ।। लाघवादिति ।। अबाध्यवैलक्षण्यापेक्षया बाध्यत्वस्य लघुत्वादित्यर्थः ।। मयेति ।।  परस्परविरहानापन्नयोः सत्त्वासत्त्वयोरङ्गीकारे तदभावयोरपि पृथगङ्गीकर्तव्यत्वा-द्गौरवम् । मम तु सत्त्वमसत्त्वाभाव एवेति लाघवमित्यर्थः ।। आवश्यकत्वादिति ।। भावरूपसत्त्वमङ्गीकृत्याप्यसत्त्वाभावः पृथगवश्यमङ्गीकर्तव्यः । तथा च  सत्त्वव्यवहारहेतु-रस्त्वित्यर्थः ।। द्वौ नञाविति ।। सत्त्वनिषेधापेक्षया नञ्द्वयं बोध्यम् ।। एकतरेति ।। तथा च सत्त्वनिषेधेऽसत्त्वापत्तिर्दुर्वारेति भावः । हेतुसाध्ययोः सामान्यव्याप्तिमूलकः प्रयोज्य-प्रयोजकभावोऽस्ति न तु साध्योपाध्योरित्याह ।। तत्त्व इति  अप्रयोजकत्वान्नात्मत्व-मुपाधिरित्यर्थः ।। एतेनेति ।। विरोधादनिर्वाच्य वादस्यासिद्धत्वेनेत्यर्थः ।

नन्वनिर्वचनीयवादिनो विरोधो न दोष इत्यत आह ।। अन्योन्येति ।। सिद्धेऽ-निर्वाच्यत्वे विरोधस्यादोषत्वं तस्मिंश्चानिर्वाच्यत्ववाद सिद्धिरित्यर्थः । अविरोधमाशङ्कते ।। नन्विति ।। ननु रूप्ये निषेधसमुच्चयस्यातात्विकत्वे तत्साधकख्यात्याद्यनुपपत्त्या तस्य सदादिवैलक्षण्यसाधनम युक्तमित्यत आह ।। सदादीति ।। तत्प्रतियोगि इति ।। रूप्य-गतसत्त्वादिनिषेधप्रतियोगिनः सत्त्वादेरित्यर्थः । रूप्यं वास्तवसत्त्वादि किञ्चिद्रूपरहितं स्वरूपतो दुर्निरूपत्वादित्यनुमाने व्यभिचारशङ्कां वारयितुं उक्तम् ।। न हीति ।। सत्त्वादीति ।। अविद्यानिवृत्तावपि सत्त्वादेर्दुनिरूपत्वमात्रेणानिर्वाच्यत्वमेव वक्तुं युक्तमित्यर्थः । नन्वविद्यावृत्तेः पञ्चमप्रकारत्वपक्षे नैतत्त्रितयविलक्षणत्व मात्रमनिर्वचनीयत्वं किं तु मुक्तिकालानवस्थायित्वसहितम् । तथा च मुक्तिकालावस्थायिन्यामविद्यानिवृत्ताव-निर्वाच्यत्वनिषेधो युज्यत इति चेन्न । ब्रह्मभिन्नस्य मुक्तिकालान्वयवदनिर्वाच्यविशेष्यस्याप्य-विद्यानिवृत्तेर्मुक्तिकालान्वयसम्भवेन तत्रानिर्वाच्यत्वनिषेधायोगात् ।। सत्त्वादिवदिति ।। न च सत्त्वादिराहित्ये प्रमाणोक्तिर्नास्त्येव । ज्ञापकमात्रोक्तिस्तु वादिविप्रतिपत्तिनिरासार्थेति वाच्यम् । सत्त्वादावपि केषाञ्चिद्विप्रतिपत्तेः ।। विधीति ।।

नन्वतात्विकविधिसमुच्चयापत्तिरिष्टैव । नह्यतात्विकसत्त्वासत्त्वे निषेधसमुच्चयेऽपि विरुध्येत इति चेन्न । निषेधपक्षपाते कारणाभावात् ।। विधिसमुच्चयस्येति ।। निषेध-समुच्चयस्यातात्विकत्व इति पूरणीयम् ।। अतात्विकं हीति ।। अतात्विकात्यन्ताभाव-प्रतियोगित्वस्य तात्विकत्वेऽपि सत्त्वादिति भावः । परोक्तानुमाने दोषमाह ।। किं चेति ।। हेतोरतात्विकत्वे ब्रह्मणि व्यभिचारः साध्यस्य तथात्वे सिद्धसाधनमित्यर्थः ।। दुर्निरूपत्व-मिति ।। आद्ये सत्वादिना सुनिरूपत्वम् । द्वितीये केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण सुनिरूपत्वमिति व्याघात इत्यर्थः ।। अत एवेति ।। व्याघातादेवेत्यर्थः । केनापि प्रकारेण दुर्निरूपत्वमिति प्रकारान्यप्रकारेण दुर्निरूपत्वमिति प्रकारेण सुनिरूपत्वं वा ? उक्तप्रकारेण दुर्निरूपत्वं वा ? आद्ये दोषमाह ।। केनापीति ।। केनापि प्रकारेण दुर्निरूपत्वमित्येतस्मात्प्रकारादन्यो यः केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्येन प्रकारेण दुर्निरूपत्वं तेनैव प्रकारेण सुनिरूपत्वात्केनापि प्रकारेण दुर्निरूपत्वमित्येतत्प्रकारान्य प्रकारेण दुर्निरूपत्वं व्याहतम् । द्वितीये केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्यप्रकारेण दुर्निरूपत्वमित्यस्य दुर्निरूपत्वे केनापि प्रकारेण सुनिरूपत्वमेव प्राप्तमिति व्याघातः ।। तस्येति ।। प्रत्युत सदादिवैलक्षण्यवास्तवत्वं प्रत्येव हेतुत्वमिति भावः । ननु ध्वंस-प्रतियोगित्वरूपमनित्यत्वमपि प्रागभावे नास्ति । घटध्वंसं प्रति तत्प्रागभावस्याजनकतया तस्य तदप्रतियोगित्वादित्यत आह ।। प्रागभावस्यापीति ।।

ननु घटादेः प्रतियोगिनः कथं ध्वंसरूपत्वमित्यत आह ।। भावस्येति ।। एकत्रेति ।। ननु न वयं सामान्यादिदृष्टान्तमात्रेण सत्त्वासत्त्वयोरभावमेव ब्रूमो येन सामान्यादिदृष्टान्तेन नित्यत्वानित्यत्ववत्सत्त्वासत्त्वयोरप्येकत्र समुच्चय आपाद्येते । किं तु प्रमाणैः सिद्धे समुच्चये सामान्यादिदृष्टान्तयाम इति मैवम् । प्रमाणसिद्धत्वस्यैवानुपपन्नत्वात् । अन्यथान्योन्याश्रयादित्युक्तत्वात् । सत्त्वासत्त्वोभयाभावसाधने व्याघात इत्युक्तं तत्र  परिहारमाशङ्क्य निराकरोति ।। न चाध्यस्त इति ।। विमतं सत्त्वाभाववदपि तद्विरुद्धा-सत्त्वाभाववत् कल्पितत्वात् । यत्कल्पितं तत्तदभाववदपि तद्विरुद्धाभाववदपि तद्विरुद्धा-भाववत् । यथाध्यस्तं कल्पितमनित्यत्वाभाववदपि तद्विरुद्धनित्यत्वाभाववत् । तथा च सत्त्वनिषेधेऽपि न तद्विरुद्धस्यासत्त्वस्य प्राप्तिर्येनासत्त्वस्यापि निषेधे व्याघातः स्यादिति शङ्कार्थः ।। त्वन्मत इति ।। तथा च दृष्टान्तासिद्धिरित्यर्थः । न च कल्पिते तात्विका-नित्यत्वाभावेऽपि कल्पितं तदस्तीति युक्तम् । तात्विकनित्यत्वस्य ब्रह्मणीव तत्र दुर्वारत्वा-पातात् ।। कल्पितत्वेति ।। पक्षीभूते कल्पितेऽकल्पितत्वाभाववति तद्विरुद्धकल्पितत्वा-भावोऽस्ति ? न वा ? आद्ये स्वरूपासिद्धिः । द्वितीये तत्रैव व्यभिचार इति व्याघातः । एवं पक्षे विरुद्धधर्माभावरूपं साध्यमस्ति चेत् तत्र विरुद्धधर्मविरोधिनः विरुद्धधर्माभावः तदभावोऽस्ति ? न वा ? आद्ये साध्यस्य बाधः । द्वितीये तत्रैव व्यभिचार इति व्याघात इत्यर्थः । ननूक्तसाध्ये धर्मिसत्त्वापेक्षेति विरुद्धासत्त्वविशेषणम् । तथा चाकल्पितत्वविरुद्धं धर्मिसत्त्वापेक्षं यत्कल्पितत्वं तदभावः पक्षेऽस्तीति न व्यभिचारः । न चाऽसिद्धिः । कल्पितत्वमात्रस्य हेतूकृतस्य पक्षेऽपि सत्त्वात् । एवं विरुद्धधर्माभावरूपसाध्यस्य सत्त्वा-सत्त्वाभ्यामपि न बाधव्यभिचाराविति शङ्कते ।। अथेति ।। इष्टापत्त्यानुमानं दूषयति ।। तर्हीति ।। सत्त्वाभाववत्यध्यस्तधर्मिसत्त्वापेक्षं यदसत्त्वं तदभावो मम संमतः धर्मिसत्त्वा-नपेक्षत्वादसत्त्वस्येत्यर्थः । असत्त्वस्य धर्मिसत्त्वापेक्षत्वे कल्पिते विरुद्धयोरपि धर्मयोरभावे च दोषमाह ।। अन्यथेति ।।

ननु परस्परात्यन्ताभावरूपयोः संयोगात्यन्ताभावसंयोगयोरभेदभेदयोश्चात्यन्ताभावौ संयोगतदत्यन्ताभावरूपौ भेदाभेदरूपौ यथैकत्र वर्तेते तद्वत्तथाविधयोः सत्त्वासत्त्वयो-रप्यत्यन्ताभावावेकत्र स्यातामित्याशङ्कां निराकरोति ।। न च तार्किकेति ।। तद्वदेवेति ।। परस्परात्यन्ताभावरूपयोः समानाधिकरणात्यन्ताभावप्रतियोगिनोः सामानाधिकरण्यनियमात् संयोगतदत्यन्ताभावयोरिव सत्त्वासत्त्वयोरपि सामानाधिकरण्यं स्यादित्यर्थः । ननु सत्त्वासत्त्व-योरेकावच्छदेनैकत्र वृत्तिरापाद्यते, एकत्र वृत्तिमात्रं वा ? नाद्यः । दृष्टान्तासिद्धेः । संयोग-तदत्यन्ताभावयोरिव भिन्नावच्छेदेन सत्त्वासत्त्वयोरपि वृत्तेः । इयांस्तु विशेषः । संयोगादौ देशावच्छेदकः सत्त्वादौ तु काल इतीत्याशङ्कते ।। अथेति ।। सत्त्वासत्त्वाभावयोरपि भिन्नकालावच्छेदेनैकत्र सत्त्वादिष्टापत्तिरित्याह ।। सम इति ।। आद्यपक्षे सत्त्वादिकं तात्विकं उतातात्विकं धर्मिसमसत्ताकं वा विवक्षितम् ? नाद्यः । असद्ब्रह्मणोरतिव्याप्तेरित्याह ।। असतोऽपीत्यादिना ।। द्वितीये दोषमाह ।। अतात्विकेति ।। तथा चासम्भव इत्यर्थः । तृतीयमव्याप्त्यतिव्याप्तिभ्यां दूषयति ।। धर्मिसमेति ।। कथञ्चिदिति ।। अति-व्याप्तेरपि वक्ष्यमाणत्वादिति भावः । तामेवाह ।। निर्विशेषत्वेति ।। विशेषस्य कल्पितत्वेन तदभावोऽपि तत्र नास्तीति तु व्याहत्यादिना निरस्तम् । सत्ताजातिरूपसत्त्वरहितस्यापि सामान्यादेः सद्रूपत्ववत् सत्वरहितस्यापि ब्रह्मणः सद्रूपत्वमस्त्विति शङ्कां परिहरति ।। सामान्यादेरिति ।। तथा च ब्रह्मण्यतिव्याप्तिरित्यर्थः ।। ब्रह्मण इति ।।

ननु सत्त्वविशिष्टसद्वाचकस्य सत्यपदस्य धर्मिमात्रबोधकत्वे लक्षणैव । न हि धर्मि-स्वरूपमात्रवाचकत्वं कस्यचिदपि पदस्यास्तीति । मैवम् । न हि वाच्यविशेषणत्यागे लक्षणा । किन्त्ववाच्यपरिग्रहे । अत एव गौरनित्य इत्यादौ न लक्षणा । स्थलपद्मे पङ्कज-पदस्य न लक्षणेत्याहुः । स्वरूपमात्रलक्षणपदस्याप्य सत्त्वाच्च । तस्माद्गङ्गापदलक्ष्यम-गङ्गास्वरूपमिव सत्यपदलक्ष्यं ब्रह्मासत्यस्वरूपमिति तत्रातिव्याप्तिरित्यर्थः ।। बाधबोध्य-स्येति ।। ननु बाधस्याधिष्ठानमात्रगोचरत्वेन रूप्यवत्तत्सत्त्वविरहस्यापि साक्षिसिद्धतया बाधबोध्यत्वमसिद्धमिति चेन्मैवम् । घटो नास्तीति वद्रूप्यं नास्ति रूप्यसत्त्वं नास्तीत्य-बाधितानुभवेन तत्सत्त्वाभावस्य बाधविषयत्वावश्यम्भावात् ।। उक्तदोषादिति ।। रूप्यगत-सत्त्वाभावस्य बाधबोध्यत्वं न स्यादित्यर्थः ।। किञ्चेति ।। व्याघातेन भेदनिराकरणा-नुपपत्तेरित्यर्थः ।

।। इति अनिर्वाच्यत्वलक्षणभङ्गः ।।