एतेन स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं मिथ्यात्वमिति चतुर्थोऽपि निरस्तः
१०. चतुर्थमिथ्यात्वभङ्गः
न्यायामृतम्
एतेन स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं मिथ्यात्वमिति चतुर्थोऽपि निरस्तः । अत्यन्ताभावस्य तात्त्विकत्वे प्रातिभासिकत्वे व्यावहारिकत्वे च दोष-स्योक्तत्वाच्च । अत्यन्ताभावप्रतियोगित्वं स्वरूपेणेति पक्षे पारमार्थिकत्वाकारेणेति च पक्षे दोषस्योक्तत्वाच्च ।
अद्वैतसिद्धिः
स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा मिथ्यात्वम् । तच्च स्वात्यन्ताभावाधिकरण एव प्रतीय-मानत्वम्, अतः पूर्ववैलक्षण्यम् । दूषणपरिहारश्च पूर्ववत् । न च संयोगिनि समवायिनि वा देशे तदत्यन्ताभावासम्भवः, सम्भवे तूपादानत्वाद्यनुपपत्तिरिति वाच्यम्, काले सहसम्भववद् देशेऽपि सहसम्भवाविरोधात्, प्रागभावसत्त्वेनोपादानत्वाविरोधाच्च । न च अत्यन्ताभावाधिकरणे प्राग-भावस्याप्यनुपपत्तिरिति वाच्यम् । काले व्यभिचारात् । न च काले प्रागभावात्यन्ताभावयोः सामानाधिकरण्यम्, इदानीं घटात्यन्ताभावः, इदानीं घटप्रागभाव इति प्रतीतिबलादङ्गीकृतम्, देशे तु तदुभयसामानाधिकरण्ये न किंञ्चिदपि प्रमाणमिति वाच्यम्, मिथ्यात्वानुमितेः श्रुत्यादेश्च प्रमाण-त्वात् । विषमसत्ताकभावाभावयोरविरोधः पूर्वमुपपादितः । न च असत्यतिव्याप्तिः, स्वात्यन्ता-भावाधिकरण एव सत्त्वेन प्रतीयमानत्वस्य विवक्षितत्वात् । न च ‘तद्धैक आहुरसदेवेदमग्र आसी’दिति श्रुत्या असतः सत्त्वप्रतीतेस्तत्रातिव्याप्तिर्दुष्परिहरेति वाच्यम्, ‘सदेवेदमग्र आसी’दित्य-स्यार्थस्याभाव एव नञा प्रतिपाद्यते, न त्वसतः सत्त्वम्, विरोधात्ः अतो नातिव्याप्तिः । सर्वं चान्यत् पूर्वोक्तमेवानुसन्धेयमित्युपरम्यते ।। इति चतुर्थमिथ्यात्वविचारः ।।
न्यायामृततरङ्गिणी
एतेनेति ।। अत्यन्तासत्त्वापादनादिनेत्यर्थः ।। दोषस्योक्तत्वाच्चेति ।। स्वरूपेणात्यन्ता-भावप्रतियोगित्वपक्षेऽत्यन्तासत्त्वापसिद्धान्तादेः, पारमार्थिकत्वेन तत्प्रतियोगित्वपक्षे ब्रह्मवत् पारमार्थिकत्वधर्मशून्यस्यापि जगतो ब्रह्मवदेवामिथ्यात्वोपपत्तेरित्यादेर्दोषस्योक्तत्वादित्यर्थः । संयोगिनि समवायिनि वा देशे तदत्यन्ताभावासम्भवः । सम्भवे तूपादानत्वानुपपत्तिरित्यपि बोध्यम् ।
अत्र वदन्ति– ‘काले सहसम्भववद् देशेऽपि सहसम्भवाविरोधः, प्रागभावसत्त्वे नोपादानत्वाविरोधश्च । नच – अत्यन्ताभावाधिकरणे प्रागभावस्याप्यनुपपत्तिरिति – वाच्यम् । काले व्यभिचारात् । नच – काले प्रागभावात्यन्ताभावयोः सामानाधिकरण्यम् ‘इदानीं घटात्यन्ताभावः’ ‘इदानीं घटप्रागभावः’ इति प्रतीतिबलादङ्गीकृतम्, देशे तु तदुभय-सामानाधिकरण्ये न किंचिदपि प्रमाणमिति – वाच्यम् । मिथ्यात्वानुमितेः श्रुतेश्च प्रमाण-त्वात् । विषमसत्ताकयोरविरोधश्च पूर्वमुपपादितः । नचासत्यतिव्याप्तिः । स्वात्यन्ताभावाधि-करण एव सत्त्वेन प्रतिमानत्वस्य विवक्षितत्वात् । नच – ‘तद्धैक आहुरसदेवेदमग्र आसी-दि’त्यादिश्रुत्याऽसतः सत्त्वप्रतीतेस्तत्रातिव्याप्तिर्दुरुद्धरेति – वाच्यम् । ‘‘सदेवेदमग्र आसीदि’त्य-स्यार्थस्याभाव एव नञा प्रतिपाद्यते, नत्वसतः सत्त्वम् विरोधात् अतो नातिव्याप्तिः – इति ।
अत्रोच्यते; यदुक्तम् प्रतियोगितदत्यन्ताभावयोः काल इव देशेऽप्यविरोध इति, तन्न । तथा सति भावाभावयोर्विरोध एवोच्छिन्नकथः स्यात्, इति व्यावहारिक्यपि व्यवस्था न स्यात् । द्वैताद्वैतयोरविरोधापत्तेरद्वैतज्ञानस्य द्वैतज्ञाननिवर्तकत्वं न स्यात् । यच्चोक्तम् – मिथ्यात्वानु-मानादेरेवात्यन्ताभाव–प्रागभावयोर्देशसामानाधिकरण्ये प्रमाणत्वमिति, तन्न । विरोधेनानुमान-स्वरूपस्यैवालभ्यत्वात् । यदपि चोक्तम् – विषमसत्ताकयोस्तयोरविरोध इति, तन्न । लाघवेना-त्यन्ताभावमात्रस्यैव प्रतियोगिसामानाधिकरण्यविरोधित्वात् । यच्चोक्तम् – ‘असदेवेदमि’ति श्रुत्या सदेवेदमितिश्रुत्यर्थाभावमात्रं बोध्यत इति, तन्न । ‘सदेवेदमि’तिश्रुत्यर्थाभावबोधकत्वेऽप्य-सद्बोधकत्वस्य दुर्वारत्वात् । तथाहि – सदेवेत्यस्य ब्रह्मसत्त्वमर्थः, तदभावस्त्वत्यन्तासन्नेव । नहि ब्रह्मसत्त्वाभावः क्वचिद् देशे काले वाऽस्तीति ।।
न्यायामृतकण्टकोद्धारः
चतुर्थपक्षं द्वितीयपक्षदूषणातिदेशेन दूषयति – एतेनेति ।। असत्यतिव्याप्तिश्च ।। न च स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वं विवक्षितमिति वाच्यम् । ‘शशविषाण-मस्ती’ति शब्दादिना ‘‘तद्वैक आहुरि’’त्यादिना चासतोऽपि सत्त्वेन प्रतीतिसम्भवात् । न च ‘‘सदेव सोम्येदमग्र आसीदि’’त्यस्यार्थस्याभाव एव नञा प्रतिपाद्यते, अतो नासतः सत्त्वेन प्रतीतिरिति वाच्यम् । मुख्यार्थपरत्वे बाधकाभावात् ।
न्यायामृतप्रकाशः
एतेनेत्युक्तं विशदयति– अत्यन्ताभावस्येति ।। तात्विकत्वेऽद्वैतहानिः । प्रातिभासिकत्वे सिद्धसाधनम् । व्यावहारिकत्वे तादृशात्यन्ताभावप्रतियोगिनो प्रातिभासिकस्य प्रपञ्चस्य पारमार्थि-कत्वापत्तिरित्यादिदोषस्योक्तत्वादिति भावः ।। इति च पक्षे दोषस्येति ।। रूप्यादावव्याप्ति-रात्मन्यतिव्याप्तिरिति दोषस्येत्यर्थः ।
न्यायकल्पलता
एतेनेति । अत्यन्तासत्वापादनादिनेत्यर्थः । एतेनेत्युक्तयुक्तिजातं विशदयति । अत्यन्ता-भावस्येति ।। तात्विकत्वेऽद्वैतहानेः । प्रातिभासिकत्वे सिद्धसाधनात् । व्यावहारिकत्वेऽपि तस्य बाध्यत्वेन तात्विकसत्त्वाविरोधित्वेनार्थान्तरात् । औतश्रुतेरतत्वापाताच्चेत्यादिदोषस्योक्तत्वादित्यर्थः । अत्यन्ताभावप्रतियोगित्वमिति । प्रपञ्चस्य स्वरूपेणात्यन्ताभावप्रतियोगित्वमिति पक्षेऽत्यन्तासत्त्वाप-सिद्धान्तादिः । पारमार्थिकत्वेन तत्प्रतियोगित्वपक्षे ब्रह्मवत्स्वरूपातिरिक्तपारमार्थिकत्व धर्मशून्यस्यापि तद्वदेव मिथ्यात्वोपपत्तेरर्थान्तरमित्यादेर्दोषस्योभिहितत्वादित्यर्थः । संयोगिनि समवायिनि वाऽधिकरणे तदत्यन्ताभावासम्भवः । सम्भवे तु उपादानत्वानुपपत्तिरित्यादिर्बोध्यः ।
अत्रार्हुर्नवीनाद्वैतवादिनः । स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा मिथ्यात्वम् । तच्च स्वात्यन्ता-भावाधिकरण एव प्रतीयमानत्वम्् । न च संयोगिनि समावायिनि वा देशे तदत्यन्ताभावासम्भवः । सम्भवे तूपादानत्वानुपपत्तिरिति वाच्यम् । काले सह सम्भववद्देशेऽपि सह सम्भवाविरोधात् । प्रागभावसत्वेनोपादानत्वाविरोधश्च । न चात्यन्ताभावाधिकरणे प्रागभावस्याप्यनुपपत्तिरिति वाच्यम् । काले व्यभिचारात् । न च काले प्रागभावात्यन्ताभावयोः सामानाधिकरण्यमिदानीं घटात्यन्ताभावः इदानीं घटप्रागभाव इति प्रतीतिबलादङ्गीकृतम् । देशे तु तदुभयसामानाधिकरण्ये न किञ्चिदपि प्रमाणमिति वाच्यम् । मिथ्यात्वानुमितेः श्रुतेश्च प्रमाणत्वात् । विषमसत्ताकयोरविरोधश्च पूर्वमुपपादितः । नचासत्यतिव्याप्तिः । स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वस्य विवक्षितत्वात् । न च तद्धैक आहुरसदेवेदमग्र आसीदिति श्रुत्या असतः सत्त्वप्रतीतेस्तत्रातिव्याप्तिर्दुरुद्धरेति वाच्यम् । सदेवेदमग्र आसीदित्यस्यार्थस्याभाव एव नञा प्रतिपाद्यते । न त्वसतः सत्वं विरोधात् । अतो नातिव्याप्तिरिति ।
तत्र ब्रूमः । यत्तावदुक्तं प्रतियोगितदत्यन्ताभावयोः काल इव देशेऽपि सहावस्थानाविरोध इति । तदसत् । जगदाधारताप्रयोजकसम्बन्धेन काले रूपतदत्यन्ताभाववद्वायावपि रूपतदत्यन्ताभावयोः सह सम्भवापातात् । असत्यत्वासत्यव्यावृत्योरचिद्रूपत्वाचिद्व्यावृत्त्योरन्तवत्वान्तवद्व्यावृत्योदुःखत्वर्दुःख-वद्व्यावृत्त्योश्च ब्रह्मण्यपि विरोधप्रसङ्गात् च । एवं च भावाभावयोर्विरोध एवोछिन्नसंकथन आपद्येतेति कापि व्यवस्था न सिद्ध्येत् । द्वैताद्वैतयोरविरोधापातेनाद्वैतज्ञानस्य द्वैतज्ञाननिवर्तकत्वं न स्यात् । यच्चोक्तमत्यन्ताभावप्रागभावयोः सादेश्ये मिथ्यात्वानुमानादेरेव प्रमाणत्वमिति । तदसारम् । विरोधे-नानुमानस्वरूपस्यैवालब्धत्वात् । त्वदुक्तरीत्या व्यभिचाराव्यभिचारयोरविरोधप्रसक्त्या व्याप्तेरेव दुर्ग्रह-त्वात् । श्रुतेरबाधितार्थान्तरपरत्वस्याभिधास्यमानत्वात् । यदप्युक्तं विषमसत्ताकयोस्तयोरविरोध इति । तदयुक्तम् । सत्ताभेदस्यैवाद्याप्यसिद्ध्या परस्पराश्रयप्रसङ्गात् । सत्ताभेदेन प्रतियोगितदत्यन्ताभावमात्रस्यैव प्रतियोगिसादेश्यविरोधित्वाच्च । स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वस्यासत्यतिव्याप्ति-र्दुरुद्धरैव । शब्दाभासादिना शशविषाणादेरपि स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वात् । अपरोक्षतया प्रतीतिविशेषणे तु नित्यातीन्द्रिये अव्याप्तिः । यदपि चोक्तं तद्धैक आहुरसदेवमग्र आसीदिति श्रुत्या सदेवेदमिति श्रुत्यर्थाभावमात्रं बोध्यते इति तदनुपपन्नम् । यतोऽत्र प्रकरणे सदेवेत्यादिना स्वतन्त्रसत्ताकस्य ब्रह्मणः प्रलये अवस्थानोक्तिपूर्वकं तेजोबन्नादिसृष्ट्रत्वं स्वमतमभिधाय तद्धैेक आहुरसदेवेदमग्र आसीत्तस्मादसतः सज्जायत इति शून्यवादिमतमनूद्य कुतस्तु खलु सौम्येवं स्यात् कथमसतः सज्जायेत इति तन्मतस्य प्रत्याख्यायमानत्वात् । न सदसदिति सच्छब्देन समस्तस्य नञो व्यत्यासेनान्वयायोगाच्च । किञ्च सदेवेदमिति श्रुत्यर्थाभावबोधकत्वेऽपि असतः सत्त्वबोधकत्वं दुर्वारम् । तथा हि । सदेवेत्यस्य ब्रह्मसत्त्वमर्थः । तदभावस्त्वत्यन्तासन्नेव । नहि ब्रह्मसत्त्वाभावः क्वचित्काले देशे वास्तीति ।
न्यायामृतसौगन्ध्यम्
नापि स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा मिथ्यात्वम् । तच्च स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वमिति । तन्न । संयोगिनि समवायिनि वा देशे तदत्यन्ताभावस्यासम्भवात् । स्वरूपेणैव त्रैकालिकनिषेधप्रतियोग्यधिकरणस्योपादानत्वासम्भवाच्च । न चोपादानत्वे प्रागभाववत्त्वं तन्त्रम् । तादृशाधिकरणे प्रागभावस्याप्यसम्भवात् । न च काले अत्यन्ताभावप्रागभावयोः सामानाधिकरण्यं दृष्टम् । कालिकसम्बन्धेन तयोर्विरोधात् । न च तन्तुषु पटप्रागभावात्यन्ताभावयोस्सामानाधिकरण्यं दृष्टम् । अत्र घटो भविष्यतीति प्रतीतिबलात् अस्माकं तत्सम्भवेऽपि नास्ति, नासीद्, न भविष्यतीति त्रैकालिकनिषेधमङ्गीकुर्वतस्ते तदसम्भवात् । न च विषमसत्ताकयोः प्रतियोग्यत्यन्ताभावयोरविरोधः । एवं हि बाध्यबाधकभावो न स्यात् । किञ्च स एवाधस्तादित्यादि(श्रुत्या)ना प्रतिपन्नाधि-करणनिष्ठात्यन्ताभावप्रतियोगिनि ब्रह्मण्यतिव्याप्तिश्च । न च तस्यात्यन्ताभावप्रतियोगित्वे मानाभावः । असङ्गत्वेन सर्वत्र सम्बन्धाभावस्यैव मानत्वात् ।
यत्तु अबाध्यत्वोपलक्षिततादात्म्यस्वरूपेणात्यन्ताभावाधिकरण एव प्रतीयमानत्वं तत् । तच्च स्वस्मिन्नपि स्वरूपसम्बन्धेनास्त्येव । तत्तत्वान्यतरत्वेनेति वाऽर्थः । तेन तादात्म्येनाव्याप्तिः । सत्त्वावच्छिन्ना या स्वप्रकारतानिरूपितविशेष्यताव्यापकात्यन्ताभावकत्वम्, सत्त्वावच्छिन्न-स्वाधिकरणताव्यापकात्यन्ताभावत्वम्, सत्व(स्व)समानाधिकरणस्वावच्छिन्नाधिकरणता- व्यापकतावच्छेदकयद्धर्मावच्छिन्नात्यन्ताभावत्वं वा तद्वत्वम् इति । तन्न । शुक्तिरजतादौ शुक्त्याद्यवच्छिन्नस्य शुक्तिसमसत्ताकस्यैव तादात्म्येनाबाध्यत्वोपलक्षिततादात्म्याभावेन तेन प्रतीयमानत्वासम्भवात् । शुद्धचितस्त्वयैवानैन्द्रियकत्वाङ्गीकारात् । आपेक्षिकाबाध्यत्वोपलक्षिततादात्म्येन प्रतीयमानत्वमित्युक्तावसत्यतिव्याप्तेः । अत एव प्रथमलक्षणं निरस्तम् । अत्र रूप्यमित्यध्यस्तेऽव्याप्तेः । अन्त्ययोर्ब्रह्मण्यतिव्याप्तेः । प्रपञ्चे तत्सम्बन्धस्य मिथ्यात्वेन तदभावसत्त्वात् । स एवोपरिष्टादित्यादिनाऽधिकरणताप्रतीतेश्च । न च प्रपञ्चस्यासत्त्वेन ब्रह्माधिकरणतायास्सत्त्वा-नवच्छिन्नत्वादिति वाच्यम् । प्रपञ्चमिथ्यात्वसिद्धौ तत्र सत्त्वाभावसिद्धिः । तत्सिद्धौ तत्र ब्रह्मण्यतिव्याप्त्यभावेन मिथ्यात्वसिद्धिरित्यन्योन्याश्रयदोषात् ।
यत्तु स्वाधिकरणावृत्तिः सन् स्वानधिकरणवृत्तितदन्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । संयोगादौ दृष्टान्ते साध्यप्रसिद्ध्यर्थमवृत्त्यन्तम् । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वेन पक्षविशेषणाद-व्याप्यवृत्त्यन्ताभावाप्रतियोगित्वे पर्यवस्यति । अव्याप्यवृत्त्यत्यन्ताभावाप्रतियोगित्वेन पक्षे विवक्षिते स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा साध्यं व्याप्यवृत्त्यत्यन्ताभावे न पर्यवस्यतीति तत्त्वविवेकोक्तम् । तन्न । अभावाधिकरणात्मवादिप्राभाकरादिमते सिद्धसाधनात् । तैरपि प्रपञ्चस्य ब्रह्मावृत्तित्वस्वीकारात् । मयाऽपि प्रपञ्चस्य स्वनिष्ठत्वस्वीकारेण बह्मणि तदभावसम्भवात् । अभावातिरिक्तत्वानतिरिक्तत्वाभ्यामेव हि विवादः पर्यवसन्नः । न तु मिथ्यात्वसत्यत्वाभ्यामेव । किञ्च तद्धैक आहुरसदेवेदमग्र आसीदिति श्रुत्याऽसतस्सत्त्वप्रतीतिरुक्ता । न च सदेवेदमग्र आसी-दित्यस्यार्थस्याभाव एवात्र बोध्यते । न त्वसतस्सत्त्वं विरोधादिति वाच्यम् । विरोधगन्धाभावात् ।
यत्तु अघटो घट इति बोधस्यैव असदासीदिति बोधस्याहार्यत्वेन शाब्दधीत्वासम्भवान्नोक्त-वाक्यादुक्तबोध इति । तन्न । अत्यन्तासत्यप्यर्थे ज्ञानं शब्दः करोति हीति न्यायेन कलहादिस्थल इवानाहार्यबोधसम्भवात् । नेह नानेति श्रुतिं व्याकुर्वता इह दृश्यविशिष्टे ब्रह्मणि दृश्यं नासीदिति । इहेति पदं व्याकुर्वता तत्रानाहार्यबोधासम्भवमाशङ्क्य, आहार्यशाब्दबोधस्यापि स्वीकृतत्वाच्च ।
न्यायामृतमाधुरी
तुरीयकल्पं निराकुरुते । एतेनेत्यादिनोक्तत्वाच्चेत्यन्तेन । अलीकत्वापादनादिनेत्यर्थः । अत्रा-द्वैतसिद्धिकारः । स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा मिथ्यात्वम् । तच्च स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वम् । अतः पूर्ववैलक्षण्यं दूषणपर एव प्रतीयमानत्वम् । अतः पूर्ववैलक्षण्यं, दूषणपरिहारः पूर्ववत् । न च संयोगिनि समवायिनि वा देशे तदत्यन्ताभावासम्भवः । सम्भवे तूपादानत्वाद्यनुपपत्तिरिति वाच्यम् । काले सहसम्भववद्देशेऽपि सहसम्भवाविरोधात् प्रागभावसत्वे-नोपादानत्वाविरोधाच्च । न चात्यन्ताभावाधिकरणे प्रागभावसत्त्वानुपपत्तिरिति वाच्यम् । काले व्यभिचारात् । न च काले प्रागभावात्यन्ताभावयोः सामानाधिकरण्यमिदानीं घटात्यन्ताभावः इदानीं घटप्रागभाव इति प्रतीतिबलादङ्गीकृतम् । देशे तु तदुभयसामानाधिकरण्ये न किञ्चिदपि प्रमाणमिति वाच्यम् । मिथ्यात्वानुमितेः श्रुतेश्च प्रमाणत्वात् । विषमसत्ताकयोरविरोधः पूर्वमुपपादितः । न चासत्यतिव्याप्तिः । स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वस्य विवक्षितत्वात् ।
न च ‘‘तद्धैक आहुरसदेवेदमग्र आसीत्’’ इति श्रुत्या असतः सत्त्वप्रतीतेस्तत्रातिव्याप्ति-र्दुष्परिहारेति वाच्यम् । सदेवेदमग्र आसीदित्यस्यार्थस्याभाव एव नञाऽत्र प्रतिपाद्यते । न त्वसतः सत्त्वम्, विरोधात् । अतो नातिव्याप्तिरिति प्रत्यपीपदत् । अधिकरण एवेति एवकारोऽशेषार्थकः अशेषत्वं च व्यापकत्वं, तथा च वाच्य एव मेयत्वं सत्तावत्येव द्रव्यत्वमित्यादौ, वाच्यत्वे सत्तादौ प्रमेयत्वद्रव्यत्वादेरिव प्रकृते स्वात्यन्ताभावस्य स्वप्रकारकधीविशेष्यत्वस्य व्यापकतालाभादुक्त-व्यापकत्वाश्रयात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । समवायिनीति । समवायेन नित्ययुक्त इत्यर्थः । तथा च घटादौ पाकेन रूपादेर्नाशकाले तदुत्पत्तिपूर्वकाले वा तदत्यन्ताभावस्य दर्शनेन तयोरविरोधेऽपि घटत्वादेर्घटादौ समवायस्य घटाद्याधारे सर्वकाले सत्त्वेन तत्र घटत्वात्यन्ताभावस्य विरोधेनासम्भवादत्यन्ताभावस्य प्रतियोगिविरोधग्राहकमानस्य मिथ्यात्वग्राहकमानेन नाभिभव इत्यभिमान इत्यन्ता व्याख्या तावन्न साधीयसी । व्याख्येयग्रन्थकारेण अव्याप्यवृत्तिषु सिद्धसाधन-वारणफलिकाया येन रूपेणेत्यादिकं तच्च रूपं सम्बन्धविशेषो अवच्छेदकविशेषश्चेत्यन्त-द्वितीयकल्पीयविवक्षाया दूषणपरिहारः पूर्ववदित्यनेन प्रकृतेऽपि स्मारिततया घटादौ पाकेन रूपादेर्नाशकाले तदुत्पत्तिपूर्वकाले वा तदत्यन्ताभावदर्शनेऽपि रूपकालावच्छेदेन तददर्शनेन रूपादावपि घटत्वादाविव प्रकृतसाध्यस्यासम्भवशङ्कासम्भवेन समवायिनीत्यस्य रूपादिपरतात्यागेन घटत्वादिपरत्वोपगमेन योजनायाः पूर्वविवक्षाविस्मृतिनिबन्धनत्वात् ।
काले सहसम्भवेत्यादिकं व्यभिचारादित्यन्तव्याख्येयोक्तमप्यसमञ्जसम् । काले वृत्तौ देशस्य, देशे वृत्तौ कालस्यावच्छेदकतायां सायं गोष्ठे गावो नारण्य इत्यादौ गोष्टारण्यपदोत्तरसप्तम्योरवच्छेद-कत्वार्थतया सायंपदप्रकृतिकायाश्चाधेयत्वार्थकतया विभिन्नदेशावच्छेदेनैव काले प्रतियोगितदभाव-योरवस्थितेर्दीधितिकारादिभिः समर्थिततया काले सहसम्भवोक्तेस्तदनधीतिनिबन्धनत्वात् । देशे विभिन्नावच्छेदेन तयोरुपगमाच्च । सदाद्यघटाद्यत्यन्ताभाववतोऽपि घटाद्युपादानत्वे तन्त्वादेरपि घटाद्युपादानतापत्तेः घटकालावच्छेदेनापि कपालादौ दोषाद्यसमवधानदशायां घटाद्यभावप्रत्यक्षापत्तेः । तत्कालावच्छेदेन तत्र तत्प्रत्यक्षस्य अप्रमात्वव्यवहारानुपपत्तेः । प्रतियोगितदभाववत्ताग्रहयोर्निखिल-तान्त्रिकोररीकृतप्रतिबध्यप्रतिबन्धकभावमर्यादोच्छेदापत्तेश्च । न हि घटसामानाधिकरणपटाभाव-वत्तार्बुद्धेर्घटवत्ताग्रहं प्रति प्रतिबन्धकतां कश्चिदभ्युपैति ।
प्रागभावस्यापि त्वन्मतेऽपि मिथ्यात्वेनोपादाने तदत्यन्ताभावस्यैव सत्वेन तत्सत्तयोपादानतायाः दुर्निरूपत्वात् । अत्यन्ताभावस्य प्रतियोगिनेेव तद्ध्वंसप्रागभावाभ्यामपि विरोधस्योपगन्तॄणां प्राचीनानां मते अभावीयविशेषणतासम्बन्धावच्छिन्नाया एवात्यन्ताभावीयाधिकरणतायाः तत्सम्बन्धा-वच्छिन्नध्वंसप्रागभावाधिकरणताराहित्यव्याप्यताया अभिप्रेततया कालिकप्रत्यासत्त्यवच्छिन्नतदधि-करणतायां काले अनैकान्त्योद्भावनस्य तत्सम्प्रदायानवमर्शनिबन्धनत्वात् ।
एतेन घटाद्यधिष्ठानगतस्य सत्वस्यारोपोऽनादिदृढवासनासहितो घटत्वप्रमासहितो दोषविधया तत्र मिथ्यात्वग्रहे प्रतिबन्धक इति घटादिप्रत्यक्षकाले चक्षुरादिना घटाभावादेर्न प्रत्यक्षम् । अत एवोक्ताप्रमात्वादिव्यवहारोऽपि । मिथ्यात्वग्राहकश्रुत्यादिनोक्तारोपस्योपमर्दे तु तस्य प्रत्यक्षमिति सूचितमिति ब्रह्मानन्दीयमुद्गिरणमप्येतेनैव परास्तम् । सार्वजनीनानुभवानुरोधेन हि दाहमण्यादीनां प्रतिबध्यप्रतिबन्धकभावकल्पना । न च प्रकृते सोऽस्ति । घटाद्यधिकरणे घटात्यन्ताभावानुपगत्यैव निर्वाहे घटादिसत्त्वप्रतीतेर्बाधग्रहमन्तरेण दुरधिगमारोपत्वस्य दोषत्वस्य मिथ्यात्वग्रहप्रतिबन्धकत्वस्य मिथ्यात्वश्रुतेः प्रत्यक्षोपमर्दकत्वस्य च कल्पनाया ‘‘वन्ध्येदानीं न प्रसूते तारुण्येन विशेषिता । किन्तु वार्धकसम्पत्ताविति’’ कल्पनातुल्यतया अनादरणीयत्वात् ।
यदत्र व्याख्यातुरभिलपनम् । मन्मते कस्यापि केवलान्वयित्वं न स्वीक्रियत इत्यस्य वक्ष्य-माणत्वेन व्यतिरेकिवस्तुमात्रस्य परेणापि कालेऽत्यन्ताभावस्वीकारेण च सर्वदृश्यानां व्यतिरेकित्वेन कालेऽत्यन्ताभावस्तावदवश्यं वाच्यः । तस्य च किञ्चिद्देशावच्छेदेन काले किञ्चित्कालावच्छेदेन देशे वृत्तिरिति स्वीकारे देशकालनिष्ठानामनन्तावच्छेदकत्वव्यक्तीनां कल्पने महागौरवाद्घटादेरत्यन्ताभावः सर्वत्रैव स्वीक्रियते । अत एव सम्बन्धो न तत्प्रतियोगितावच्छेदक इत्युक्तम् । न चैतत्काले गृहे घटो नास्तीति धीः कालादिनिष्ठमवच्छेदकत्वमवगाहत इति वाच्यम् । गृहादिनिष्ठायां घटाद्यधिकरणतायां सा अवच्छेदकत्वस्याभावं हि तत्कालादाववगाहते न तु घटाद्यभावाधिकरणतायां ग्रहादिनिष्ठाया-मवच्छेदकत्वम् । अत एव वृक्षे मूले न संयोग इत्यादिधीरपि वृक्षादिनिष्ठसंयोगाद्यवच्छेदकत्वाभावं मूलादाववगाहते ।
नन्वेवं कार्याव्यवहितप्राक्कालावच्छेदेन कार्यवद्देशे वर्तमानस्याभावस्याप्रतियोगित्वे सत्यनन्यथा-सिद्धत्वं कारणत्वमित्यादिव्यवहारो (नोपपद्यते इति चेत्) नोपपद्यताम् । तथापि यत्क्षणावच्छेदे-नोत्पद्यमानस्य कार्यस्य यद्देशे सम्बन्धस्तत्क्षणाव्यवहितपूर्वक्षणावच्छेदेन कारणस्य तद्देशे सम्बन्ध इति यत्कार्यनिष्ठं कारणस्य सामानाधिकरण्यं तदवच्छेद(घट)कत्वादिरूपस्य दण्डादिव्याप्यत्वस्य घटादिकार्ये सत्वेन स्वसामानाधिकरण्यावच्छेदकघटवत्वरूपस्य घटकारणत्वस्य दण्डादौ व्यवहार उपपद्यत एवेति दिगिति स्थवीयः । अलीकेऽप्यलीकत्वेन प्रमेयत्वस्य अलीकादिपदाभिधेयत्वस्य ब्रह्मण्यपि श्रुत्यादिना प्रमेयत्वस्य ब्रह्मादिपदाभिधेयत्वस्य सत्वेन तस्य आकरनिरूढायाः केवलान्वयितायाः केनापि वैय्यात्यमात्रेण दुरपह्नवत्वात् । मूले महीरुहे विहङ्गमसंयोगो नाग्रे, प्रतिवत्सरं शरदि पुष्प्यन्ति, सप्तच्छदा नान्यदेत्यादिप्रतीत्यनुरोधेन निखिलपरीक्षकोपगतानां देशकालाद्यवच्छेदकभेदानामनुपगतेर्गोघटाद्यनुपगतितुल्यत्वात् । इदानीं ग्रहे घटो नास्तीति धीः, एतत्कालावच्छेदेन ग्रहाधिकरणकघटाभावं गृहाद्यवच्छेदेनैतत्कालाधिकरणकतदभावं वाऽवगाहत इत्यत्र विनिगमनाविरहेण देशकालयोरितरेतरवृत्यधिकरणतावच्छेदकतासिद्धेश्च घटसामानाधिकरण्यावच्छेदक-रासभकत्वस्य रासभादिसाधारण्येन तत्रापि तत्कारणताव्यवहारापत्याऽवच्छेदकविशेषादिघटितोक्त-विवक्षामन्तरेण सामञ्जस्यस्य गीर्वाणगुरूणामपि दुरुपपादत्वादित्यलं प्रपञ्चेन ।
मिथ्यात्वानुमितेरित्यसङ्गतमेव । स्वयमलब्धप्रामाण्याया अन्यत्र प्रमाणत्वायोगात् । श्रुते-श्चार्थान्तरपरत्वात् । विषमसत्ताकेत्यस्य च मिथ्यात्वसिध्युत्तरकालीनत्वात् । विवक्षितत्वादित्यपि तथैव । अलीकस्यापि शब्दाभासादितः सत्त्वेन प्रतीतेः समर्थितत्वात् । विरोधादित्यन्तमपि तथैव । नैय्यायिकरीत्यादरे उपलब्धिरस्त्यनुपलब्धिरस्तीत्यादाविव प्रथमान्तपदबोध्यविभिन्नार्थद्वयधर्मिका-ख्यातार्थप्रकारकान्वयधीजनकयोरितरेतरविरुद्धार्थानवगाहित्वात् । वैय्याकरणभङ्गीसमाश्रयणेऽपि निखिलकारकविशिष्टक्रियावाक्यार्थ इति तैः सिद्धान्तितया क्षतिविरहात् । औतिना आहार्य-शाब्दबोधस्यापि स्वीकृतत्वाच्च विरोधगन्धाभावादित्यप्यन्यत्र स्थितम् ।