किं च त्वन्मते अज्ञानस्याप्रामाणिकत्वात्कथं तत्र प्रमाणोक्तिः ?

५९. सामान्येनाविद्याप्रमाणभङ्गः

न्यायामृतम्

किं च त्वन्मते अज्ञानस्याप्रामाणिकत्वात्कथं तत्र प्रमाणोक्तिः ?

अविद्याया अविद्यात्व इदमेव तु लक्षणम् ।

मानाघातासहिष्णुत्वमसाधारणमिष्यते ।।

इति सुरेश्वरोक्तेः । न चाज्ञानस्य व्यावहारिकत्वात्तत्र तत्प्रमाणोक्तिः, प्रतिभासिकोपादाने प्रातिभासिके अज्ञाने तदुक्त्ययुक्तेः । न हि व्यावहारिकं प्रातिभासिकं प्रत्युपादानम् । न च प्रातिभासिके मानमस्ति । न च साक्षिसिद्धे अज्ञाने प्रमाणैः असद्व्यावृत्तिमात्रं बोध्यत इति वाच्यम्, नित्यनिर्दोषसाक्षि-वेद्यत्वे सुतरां प्रामाणिकत्वापातात् । तम आसीदित्यादौ सत्त्वस्यैव बोधनाच्च । उक्तानुमानेषु तदप्रतीतेश्च । न ह्यनुमानं विवक्षापरतन्त्रम् । प्रमाणैरज्ञान-स्वरूपाग्रहे तत्रासद्व्यावृत्तेर्दुर्बोधत्वाच्च । न च प्रमाणानि साक्षिवेद्यत्वेनाविद्यां बोधयन्ति, येन भ्रमविषयत्वेनानुव्यवसायबोध्यस्य रूप्यादेरिव प्रामाणिकत्वं न स्यात् । न च प्रमाणानि प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेनाविद्यां बोधयन्ति, येन तथा बाधगोचरस्य रूप्यादेरिव प्रामाणिकत्वं न स्यात् । ज्ञाननिवर्त्यत्वेन प्रकाशनिवर्त्यान्धकारवदनित्यत्वस्यैव बोधनात् ।।

न्यायामृततरङ्गिणी

।। प्रमाणैरिति ।। ननु प्रमाणैरज्ञानस्वरूपाग्रहेप्यसद्व्यावृत्तिमात्रं क्वचिद्गृह्यते तदुपनीतासद्व्यावृत्तिविशिष्टाज्ञानं तु साक्षिणा गृह्यत इति चेन्न । यत्र यद्गृहीतं तत्र तद्विशिष्टग्रहे तद्ग्रह उपनायकः । अज्ञानेऽसद्व्यावृत्त्यग्रहे तदुपनयासम्भवात् । शुक्तौ रूप्यस्य ज्ञाने च प्रामाण्यं यथा नोपनयस्तथोक्तमन्यत्र । ननु प्रमाणसिद्धस्यापि रूप्यस्य प्रामाणिकत्वाभावादज्ञानस्यापि तदस्त्वित्यत आह ।। न च प्रमाणा-नीत्यादि ।। ननु प्रमाणसिद्धमप्यज्ञानं ज्ञाननिवर्त्यत्वादप्रामाणिकमित्यत आह ।। ज्ञानेति ।।

न्यायामृतकण्टकोद्धारः

एवमविद्यायां विशेषाकारेण प्रमाणानि दूषयित्वा सामान्येनापि दूषयति ।। किञ्चेति ।। अप्रामाणिकत्वात् सत्त्वेनेति शेषः । प्रमाणोक्तिः । सत्त्वेनेति शेषः । तेना-प्रामाणिकेऽप्यप्रामाणिकत्वबोधनार्थं प्रमाणोक्तेः कथमिदं दूषणं त्वन्मत इत्यसमर्थं चेति निरस्तम् ।। मानेति ।। सत्त्वेन प्रमाणविषयत्वमित्यर्थः ।। तदुक्त्ययुक्तेरिति ।। प्रमाणोक्त्ययुक्तेरित्यर्थः । अन्यथा प्रतिभासिकाज्ञानसिद्धिर्न स्यादिति भावः । ननु प्रातिभासिकमेव मानं तत्रोच्यत इत्यत आह ।। न चेति ।। नित्येति ।। उपलक्षणमेतत् । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इत्यज्ञानस्य सत्त्वस्यैव बोधन-प्राप्तेश्चेत्यपि द्रष्टव्यम् । न चासद्व्यावृत्तिस्तटस्थैव बोध्यते नाज्ञाननिष्ठत्वेनेति वाच्यम् । तथा सति यस्य कस्यचिदसद्व्यावृत्तौ अज्ञानस्यासत्त्वशङ्का नापनीयेत । तथा च प्रमाणोक्तिर्व्यर्था स्यादिति भावः ।। उक्तेति ।। अनुमितेर्व्यापकतावच्छेदकप्रकारकत्व-नियतत्वादिति भावः । न च साक्षी असद्व्यावृत्तिविशिष्टत्वेनाज्ञानं बोधयति । तत्रा-सद्व्यावृत्युपनाकत्वेन प्रमाणसार्थक्यमिति वाच्यम् । अहमज्ञ इत्यादिप्रतीतौ अस-द्व्यावृत्तेरभावात् । ननु यथा शुक्तिरूप्यं व्यवसायविषयत्वेन बोध्यते न च तावता तस्य प्रामाणिकत्वम् । तथा प्रकृतेऽपीत्यत आह ।। न चेति ।। तथा प्रमाणैरनवगाहनादिति भावः । ननु प्रमाणानि अप्रामाणिकत्वेन बोधयन्ति । अतो नाज्ञानस्य प्रामाणिकत्व-मित्यत आह ।। न चेति ।। तथा प्रमाणेभ्यः प्रतीत्यभावादिति भावः । ननु ज्ञान-निवर्त्यत्वेन बोधनान्मिथ्यात्वसिद्धिरित्यत आह ।। ज्ञाननिवर्त्यत्वेनेति ।। ज्ञाननिवर्त्यत्वस्य पूर्वज्ञानादाविव सत्यत्वेऽप्युपपत्तेरिति भावः।

न्यायामृतप्रकाशः

।। अप्रामाणिकत्वादिति ।। सत्वाभावेन प्रमाणावेद्यत्वादित्यर्थः । संमतिमाह ।। अविद्याया इति ।। किं तदविद्यात्वमित्यत आह ।। मानेति ।। मानानामापपतः प्राप्तिः तदसहिष्णुत्वं प्रमाणाविषयत्वमिति यावत् । इदमेवासाधारणं लक्षणमित्यर्थः ।। तदुक्तीति ।। तस्य व्यावहारिकत्वाभावात्तत्र प्रमाणोक्तिरयुक्तेत्यर्थः । ननु तदपि व्यावहारिकमेवास्त्विति चेत्तत्राह ।। न हीति ।। उपादानोपादेययोरेकसत्ताकत्वनियमादिति भावः । ननु व्यावहारिकप्रमाणसिद्धत्वे विषयस्यापि व्यावहारिकसत्तया भाव्यं प्रातिभासिकाज्ञानं प्राति-भासिकप्रमाणगम्यं अतस्तदुक्तिर्युक्तेति चेत्तत्राह ।। न चेति ।। नन्वविद्यायाः प्रामाणिकत्वसत्वाभावे प्रमाणोक्तिर्युक्तेत्यत आह ।। न चेति ।। असद्व्यावृत्तीति ।। तथा च तद्बोधनाय प्रमाणोक्तिर्युक्तेत्यर्थः ।। सुतरामिति ।। दोषशङ्काकलङ्कितप्रमाणवेद्यत्व-रूपप्रामाणिकत्वापेक्षया सुतरामित्यर्थः ।। आपातादिति ।। तथा च मानापातासहिष्णु-त्वाख्यासाधारणलक्षणहानिरिति भावः । किञ्चासद्व्यावृत्तिमात्रं बोध्यत इत्यत्राज्ञानस्य सत्वं न बोध्यते किन्तु असद्व्यावृत्तिरेवेत्यभिप्रायः । किंवाऽज्ञानस्वरूपमेव न बोध्यते । किंनाम केवलाऽसद्व्यावृत्तिरेवेति नाद्य इत्याह ।। सत्वस्यैवेति ।। न त्वसद्व्यावृत्तेरित्यर्थः । उक्तानुमानेषु अज्ञानस्वरूपसाधकेषु ।। तदप्रतीतेरिति ।। असद्व्यावृत्त्यप्रतीतेरित्यर्थः ।

ननूक्तानुमानैरज्ञानस्वरूपेऽसद्व्यावृत्तिर्बोध्यतया विवक्षितेति चेत्तत्राह ।। न हीति ।। अनुमितेर्व्यापकतावच्छेदकमात्रप्रकारकत्वादिति भावः । न द्वितीय इत्याह ।। प्रमाणै-रिति ।। असद्व्यावृत्तेः केवलायाः । अभावबोधस्याधिकरणसापेक्षत्वादिति भावः । ननूक्तानुमानप्रमाणैरज्ञानस्वरूपमपि बोध्यत एव न च प्रामाणिकत्वापत्त्या लक्षणविरोधः साक्षिवेद्यमेतदज्ञानमिति अन्यविषयत्वेनैवानुमानैर्बोधनेन साक्षाद्बोधकत्वाभावात् साक्षात्प्रमाण-बोध्यत्वस्यैव प्रामाणिकत्वप्रयोजकत्वात् अन्यथा व्यवसायद्वाराऽनुव्यवसायविषयस्यापि रूप्यस्य तदापत्तेरित्याशङ्क्य निषेधति ।। नचेति ।। साक्षीति ।। इदमज्ञानं साक्षिविषय इति अनुमानैरविषयीकरणादित्यर्थः ।। भ्रमेति ।। इदं रजतमिति ज्ञानवानहमित्येवं भ्रमविषयतयाऽनुव्यवसायबोध्यस्येत्यर्थः ।। न स्यादिति ।। तथा चाज्ञानस्वरूपस्य साक्षादेव प्रमाणविषयत्वेऽङ्गीकार्ये प्रामाणिकत्वापत्त्या लक्षणविरोधस्तदवस्थोऽतस्तत्र प्रमाणोक्तिरयुक्तेत्याशयः । नन्वविद्याया अप्रामाणिकत्वेन सत्वाभावेऽपि प्रमाणविषयत्वं सम्भवति अप्रामाणिकत्वे विधिरूपतया प्रमाणविषयत्वं न सम्भवतीत्येव निषेध्यतया तद्विषयत्वं तु स्यादेव अप्रामाणिकस्यापि रूप्यस्य नेदं रूप्यमिति बाधविषयत्वदर्शना-दित्याशङ्क्याह ।। न चेति ।। तथा निषेधप्रतियोगित्वेन ।। न स्यादिति ।। अतः प्रामाणिकत्वमङ्गीकार्यं ततश्च लक्षणविरोधापत्त्या प्रमाणोक्तिरयुक्तेत्याशयः । ननु प्रमाणै-रुक्तरूपेणाज्ञानस्याबोधनेऽपि ज्ञाननिवर्त्यत्वेन बोधनादप्रामाणिकत्वेन मिथ्यात्वं दुर्वारं तथा च लक्षणविरोध इत्यत आह ।। ज्ञाननिवर्त्यत्वेनेति ।। ज्ञाननिवर्त्यत्वेनानित्यत्वस्यैव बोधनादित्यन्वयः । नाप्रामाणिकत्वरूपमिथ्यात्वस्येत्येवकारार्थः । तत्र दृष्टान्तः प्रकाशेति । न हि प्रकाशनिवर्त्यत्वेनान्धकारस्यापि मिथ्यात्वं वाच्यं किन्त्वनित्यत्वमेवेत्यर्थः । धीनाश्यत्वे त्वनित्यत्वमेव स्यान्न मृषात्मतेत्युक्तत्वादिति भावः । तथा चाज्ञानस्य प्रामाणिकत्वेऽङ्गीकार्ये लक्षणविरोधापत्त्या प्रमाणोक्तिरयुक्तेति सिद्धमिति भावः ।।

न्यायकल्पलता

परस्य स्वव्याघातमभ्युच्चिनेति ।। किञ्चेति ।। अप्रामाणिकत्वादिति ।। अविद्याया अविद्यात्व इदमेव तु लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिष्यत इति सुरेश्वरोक्तेरिति भावः ।। प्रमाणैरिति ।। ननु प्रमाणैरज्ञानस्वरूपाग्रहेऽपि असद्व्यावृत्तिमात्रं गृह्यते । तदुपनीतासद्व्यावृत्तिविशिष्टाज्ञानं तु साक्षिणा गृह्यते । तथा चासद्व्यावृत्युपनयने प्रमाणानां चरितार्थत्वमिति चेन्न । यत्र यद्गृहीतं तत्र तद्विशिष्टग्रहे तद्ग्रह उपनायकः । अज्ञाने असद्व्यावृत्यग्रहे तदुपनयासम्भवात् । ननु रूप्यवदविद्याया अप्रामाणिकत्वमित्यत आह ।। न च प्रमाणानीत्यादि ।। ननु प्रमाणसिद्धमप्यज्ञानं ज्ञाननिवर्त्यत्वादप्रामाणिकमित्यत आह ।। ज्ञानेति ।।

।। सामान्येनाविद्यायां प्रमाणभङ्गविवरणम् ।।