अस्माकं तु– श्रवणं शब्दजं ज्ञानमुपपत्त्यनुचिन्तनम् ..

७. स्वमते श्रवणादिविधिसमर्थनम्

न्यायामृतम्

अस्माकं तु–

श्रवणं शब्दजं ज्ञानमुपपत्त्यनुचिन्तनम् ।

मतिर्निरन्तरा चिन्ता निदिध्यासनमुच्यते ।।

आपातदर्शनभिन्नं कृतिसाध्यत्वेन विधानार्हं प्रतिवाक्यम् ‘अयम् अस्य वाक्यस्यार्थः’ इति सिद्धार्थोक्तिरूपेण गुरूपदेशेनानेकशारवास्थवाक्यार्थग्रहणमात्रं श्रवणम् । तच्चाज्ञानमात्रविरोधि, न तु मननमिव संशयादिविरोधि, मननरूप-न्यायावताराङ्गसंशयधर्मिज्ञानरूपत्वात् । उक्तं हि सुधायाम्– ‘श्रवणजं ज्ञानं पूर्ववृत्तम्’ इति । मीमांसातः श्रवणस्य पूर्ववृत्तत्वम् । मननं तु ‘अयमेव वाक्यार्थो युक्तो नान्यः’ इति निर्णयहेतुयुक्त्यनुसन्धानम् । तत्र समन्वयाध्यायोक्ताः उपक्रमादियुक्तयो वाक्यार्थतत्त्वनिर्णायिकाः । युक्तिसमयपादाभ्यामुक्तास्तु युक्तत्वनिर्णायिका इत्युभय-विधयुक्त्यनुसन्धानमपि मननान्तर्गतम् । तच्च संशयादिविरोधि । निरन्तरं ध्यानं निदिध्यासनम् । तच्चापरोक्षज्ञानसाधनम् । एतच्च ‘तन्निर्धारणार्थनियमः’ इति सूत्रभाष्यादौ स्पृष्टम् । उक्तश्च भामत्यामपि तृतीयाध्याये इत्थमेव श्रवणादीनां भेदः ।

विचारादिविधिस्त्वपूर्वविधिः । ब्रह्मज्ञाने वेदविचारहेतुतया अत्यन्ताप्राप्तत्वात् । न हि वेदार्थज्ञानाय वेदविचारः कर्तव्य इति वचनव्यक्तिः । ब्रह्मज्ञानस्यानुद्देश्यत्वात् । नापि ब्रह्मज्ञानाय ब्रह्मविचारः कर्तव्य इति । तथात्वे ब्रह्मणो विधेयविशेषणतया गुणत्वापातात् । किन्तु ब्रह्मज्ञानाय वेदविचारः कर्तव्य इत्येव वचनव्यक्तिः । यद्यपि ब्रह्मपरवेदविचार एव ब्रह्मविचारः, तथापि न ब्रह्मविचाररूपेण विधानम् । किन्तु वेदविचाररूपेण । तथा च श्रुतिः ‘तस्मादेनं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेत्’ इति । टीका च– ‘ब्रह्मज्ञानोद्देशेन जिज्ञासाविधानात्कुतोऽप्राधान्यम्’ इति । एवं च यथा घटादावितरभेदे सिद्धेऽपि पृथिवीत्वोपहिते तदसिद्धेः ‘पृथिवी इतरेभ्यो भिद्यते’ इत्यत्र न सिद्धसाधनता । यथा वा स्थानप्रकरणाधिकरणोक्तरीत्या राजसूयान्तर्गतेष्टि-पशुसोमेषु प्रातिस्विकरूपे चोदकत इतिकर्तव्यताप्राप्तावपि राजसूयरूपे तदप्राप्तिः, तथा वेदविचारत्वोपहिते ब्रह्मज्ञानहेतुताया अप्राप्तेरपूर्वविधिता । न हि कर्मकाण्डादिना ब्रह्मकाण्डेऽप्यवान्तरकारणादि वाक्ये पदवर्णस्वरादिना चापाततोऽपि ब्रह्मधीरस्ति । अत एवानुव्याख्याने ‘जिज्ञास्योऽयं विधीयते’ इति, भाष्ये च ‘आत्मेत्येवोपासी-तेत्यादिविधीनाम्’ इति निरुपपदविधिपदप्रयोगः ।

यद्वा निदिध्यासनस्याव्यक्तस्वभावब्रह्मसाक्षात्कारहेतुता नान्यतः प्राप्तेति स तावदपूर्वविधिः । तथाऽज्ञातादौ निदिध्यसनासम्भवेन श्रवणमननयोर्निदिध्यासने लिङ्गादेव प्राप्तावपि नियतविषयकनिदिध्यासन विषयगुणान्यगुणेषु लिङ्गेन तयोरप्राप्तेस्तद्विधिरप्यपूर्वविधिरेव । एवं च श्रवणमननयोर्निदिध्यासितव्यगुणांशे दृष्टद्वाराऽन्यत्र त्वदृष्टद्वारेण निदिध्यासनाङ्गतेति ध्येयम् ।

यद्वा गुरुप्रसादपूर्वकत्वरहितस्वयत्नमात्रसाध्यवाक्यार्थग्रहणादिप्राप्तिनिमित्तकः श्रोतव्य इत्यादि नियमोऽस्तु । ‘आचार्यवान् पुरुषो वेद’ इत्यादिश्रुतेः । अथवा दुःशास्त्र-रूपोपायान्तरप्राप्तिनिमित्तको नियमोऽस्तु । पाशुपताद्यागमविचारस्य ब्रह्मप्रमाहेतुत्वा-भावेऽपि जगत्कारणज्ञानहेतुतायाः प्राप्तेः । अत एव शास्त्रयोनिसूत्रम्, ‘दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः’ इति स्मृतिश्च, ‘सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं तु परित्यजेत्’ इत्यनुव्याख्यानं च ।

यद्वा विचारसाध्यज्ञानविशेष्यात्मज्ञानेष्वनुमानादेः प्राप्त्या नियमोऽस्तु । ‘नैषा तर्केण’ इत्यादि श्रुतेः । न च यदाकारज्ञानं विचारहेतुकं तदाकारज्ञाने उपायान्तर-प्राप्तिर्नियमे तन्त्रम् । इदं तत्त्वत एव परामृष्टव्यम् इत्यादावेकस्मिन्विशेष्ये उपायान्तर-प्राप्तिमात्रेण नियमदर्शनात् । न ह्येकस्मिन्नेवाकारे तात्त्विकत्वातात्त्विकत्वयोः प्राप्तिरस्ति । परमते तु विशेषस्यैवौपनिषदत्वात्तत्रैवोपायान्तराप्राप्तिरिति वैषम्यम् । सम्भवति च शब्दयुक्तिजन्यज्ञानवाचिभ्यां श्रोतव्यमन्तव्यपदाभ्यां दुरागमरूपशब्दाभास-तदनुग्राहकन्यायाभास जन्यज्ञानव्यावर्तनम् । एवं श्रवणस्याप्यध्ययनवद् गुरुनिरूप्य-त्वादगुरुमुखाभ्यासव्यावृत्तिः । तस्माज्ज्ञानरूपमपि श्रवणादि विधेयम् ।

केचित्तु कार्यत्वाद्यनुमानस्य श्रुतिविचारस्य च नियमेन प्राप्तावाज्यभागौ यजतीतिवदेकस्मिन् शेषिणि शेषद्वयप्राप्तौ शेषान्तरनिवृत्तिफलकपरिसङ्ख्येत्याहुः । तन्न । तत्राखण्डोपकारस्य समुच्चिताज्यभाग प्रयाजादिसाध्यत्ववदिह ज्ञानसमुच्चितप्रमाण-साध्यत्वाभावात् । शब्देतिकर्तव्यताभूत तर्कसाहित्यस्य चेष्टत्वात् । अन्ये तु ‘अन्या वाचो विमुञ्चथ’ इति श्रुतेरब्रह्मविचारनिषेधपरत्वमित्याहुः । तन्न, ब्रह्मज्ञानेऽब्रह्म विचारस्याप्राप्तेः । इतरे तु श्रुत्यादिविचारस्यापातप्रतीतब्रह्मतदन्यज्ञानसाधनत्वे प्राप्ते ‘इत्यश्वाभिधानीमादत्ते’ इतिवदेकस्य शेषस्य शेषिद्वयसम्बन्धप्राप्तौ शेष्यन्तर-निवृत्तिफलकपरिसङ्ख्येत्याहुः । तन्न, श्रुत्यादिनाऽऽपाततोऽन्यप्रतीतावपि श्रुत्यादिविचार-स्यान्यज्ञानसाधनत्वेनाप्राप्तेः । अपरे तु ‘श्रवणाज्जनलोकादिः’ इत्यादिवचनेनापोदितं यच्छ्रवणस्य ज्ञानहेतुत्वं तस्य प्रतिप्रसवार्थं ज्ञानोद्देशेन श्रवणादिविधानमित्याहुः । तन्न । श्रवणादिति वाक्यस्य श्रवणाद् दृष्टज्ञानद्वारा जनलोकादिरित्येवंपरत्वेन ज्ञानसाधनत्वानपवादकत्वात् ।। इति स्वमते श्रवणादिविधिसमर्थनम् ।। ७ ।।

अद्वैतसिद्धि:

यत्तु शब्दजज्ञानस्वरूपमेव श्रवणं विधेयमिति, तन्न, आपातदर्शनस्य तद्विना जायमानत्वात् । न च तद्भिन्ने प्रतिवाक्यम् ‘अस्य वाक्यस्यायमर्थः’ इति सिद्धार्थोक्तरूपगुरूपदेशेेनानेकशाखा-स्थवाक्यार्थज्ञानम् । वेदान्तरूपवाक्यार्थविचारस्य सामान्यतः साधनत्वेन प्राप्तत्वात् । न च यथा घटादावितरभेदे सिद्धेऽपि ‘पृथिवी इतरेभ्यो भिद्यते’ इत्यत्र न सिद्धसाधनम् । यथा च स्थान-प्रकरणाधिकरणोक्तरीत्या राजसूयान्तर्गतेष्टिपशुसोमेषु प्रातिस्विकरूपेण चोदकत इतिकर्तव्यताप्राप्तावपि राजसूयरूपे तदप्राप्तिः, तथा वेदान्तविचारत्वोपहिते ब्रह्मज्ञानहेतुताया अप्राप्तेरपूर्वविधितेति वाच्यम् । सामान्यतः प्राप्तसाधनसाध्यभावमनादृत्य विशेषोपाधिना आप्राप्तसाधनत्वप्राप्तये अपूर्वविध्यङ्गीकारे ज्योतिष्टोमादिवाक्यविचारेऽपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनतासिद्धये अपूर्वविध्यन्तर कल्पनापत्तेः । एतेन निदिध्यासनस्याव्यक्तस्वभावब्रह्मसाक्षात्कारहेतुता नान्यतः प्राप्तेति स तावदपूर्वविधिः, तथा अज्ञातादौ निदिध्यासनासम्भवेन श्रवणमननयोर्निदिध्यासने लिङ्गादेव प्राप्तावपि नियतविषयकनिदिध्यासनविषयगुणान्यगुणेषु लिङ्गेन तयोरप्राप्तेः तद्विधिरप्यपूर्वविधिरेव । एवं च श्रवणमननयोर्निदिध्यासितव्यगुणांशे दृष्टद्वारेण, अन्यत्र त्वदृष्टद्वारेण निदिध्यासनाङ्गतेति– निरस्तम् । श्रवणादीनां निर्गुणविषयतया सगुणविषयत्वाभावात्, विपरीताङ्गाङ्गिभावस्य स्थापितत्वाच्च । सूक्ष्मार्थगोचरनिदिध्यासनस्य तादृशार्थविषयकसाक्षात्कारहेतुताया दृष्टत्वेनापूर्वत्वाभावाच्च ।। ७ ।।

न्यायामृततरङ्गिणी

नन्वध्ययनविधेर्विचारविधायकत्वे जिज्ञासासूत्रं तन्मूलमेव स्यान्न मननविधिमूलम् । श्रवणादिविधिवैयर्थ्यञ्चेति शङ्कां परिहरिष्यन् श्रवणादिभेदाय तत्स्वरूपं तावदाह– अस्माकं त्विति ।। वेदार्थज्ञानाय वेदविचारस्याध्ययनविधितः प्राप्तावपि ब्रह्मज्ञानाय वेदविचारस्य ततोऽप्राप्तेर्मननविधिर्युक्तः । यद्यपि ब्रह्मणो वेदार्थत्वेन तज्ज्ञानायापि वेदविचारस्या-ध्ययनविधितः प्राप्तिरस्ति तथापि न ब्रह्मत्वेन रूपेण तज्ज्ञानाय तत्प्राप्तिरिति भावः ।। प्रतिवाक्यमिति ।। तत एव श्रवणविधेरवैयर्थ्यम् । अध्ययनविध्याक्षिप्तविचारेण कर्मब्रह्म-काण्डयोः कर्मब्रह्मपरत्वावगमस्य श्रवणफलत्वात् । तस्य च वाक्यार्थावधारणहेतूपक्रमादि-युक्तिभिरर्थगतायुक्तत्वादिशङ्कानिवर्तिकाभिर्युक्तिभिश्च दृढीकरणं मननफलम् । दृढीकृतार्थस्या-परोक्ष्याय निरन्तरं ध्यानं निदिध्यासनमिति सर्वमवदातम् ।। एतच्चेति ।। श्रवणादेरज्ञानादि-निवर्तकत्वम् ।। तन्निर्धारणार्थनियम इति ।। ‘तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्घ्यःप्रतिबन्धः फलम्’ इति सूत्रम् । तस्यार्थः । ज्ञानार्थमुपासनं, तच्च श्रवणमननाभ्यामेव भविष्यति किं ध्यानेनेति शङ्कायामुच्यते– ‘तन्निर्धारणेऽर्थनियमः ध्यानादेवार्थदर्शनं तथा दृष्टेः श्रवणमननयोर-ज्ञानविपर्ययरूपप्रतिबन्धकनिवर्तनद्वारा ब्रह्मदर्शनोपयोगः’ इति ।। ब्रह्मज्ञानोद्देश्यत्वादिति ।। विचारविधाविति शेषः । उक्तवचनव्यक्तौ च वेदार्थज्ञानस्यैवोद्देश्यत्वं न ब्रह्मज्ञानस्येत्यर्थः ।। कर्मकाण्डादिनेति ।। कर्मकाण्डादिना ब्रह्मधीर्न ह्यस्तीत्याद्यन्वयः ।।

अवान्तरकारणेति ।। ‘आत्मन आकाशः सम्भूतः’ इत्यादौ ।। पदवर्णेति ।। अन्य-परतया प्रतीयमानज्योतिष्टोमादिवाक्यगतपदैर्वर्णैरुदात्तादिस्वरैः । आदिपदेन वर्णसंहिताः ध्वन्यादिशब्दाश्च गृह्यन्ते ।। आत्मेत्येवोपासीतेति ।। उपासनाया जिज्ञासारूपत्वात् । एतेन सामान्यतः प्राप्तसाध्यसाधनभावम् अनादृत्य विशेषोपाधिनाऽप्राप्तसाधनत्व-प्राप्तयेऽ-पूर्वविध्यङ्गीकारे ज्योतिष्ठोमादिवाक्यविचारेऽपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनता-सिद्धयेऽपूर्वविध्यन्तरकल्पनापत्तिरिति निरस्तम् । कर्मकाण्डादिना ब्रह्मज्ञानस्य सामान्यतोऽप्य-प्राप्तेः ।। लिङ्गादिति ।। सामर्थ्यरूपात् ।। नियतविषयेति ।। बहुशाखोक्तगुणानां ज्ञेयत्वेऽपि स्वयोग्यायाः कतिपयगुणोपासनाया एव कर्तव्यत्वात् ।। अदृष्टद्वारेणेति ।। न च तयोर्निदिध्यासनाङ्गत्वे मानाभावः । वस्तुतस्तु ‘तं पश्यत’ इति वाक्येन तदवगमात् ।। तस्माज्ज्ञानरूपमपीति ।। आज्यभागौ यजतीतिवदिति ।। चातुर्मास्ये साकमेधपर्वणि गृहमेधीयेष्टिरुक्ता ‘मरुभ्द्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्’ इति । तत्र श्रूयते ‘आज्यभागौ यजतीति’ । तत्र प्रकृतितः प्राप्तयोराज्यभागयोः पुनर्वचनानर्थक्यमाशङ्क्य पञ्चमपक्षेण समाधानं पूर्वपक्षेऽभिहितं ‘परिसङ्ख्येयमाज्यभागावेव’ इति । तेनैकस्य गृहमेधीयाख्यस्य शेषिणः प्रयाज्याद्याज्यभागाद्यनेकशेषप्राप्तावाज्यभागेतरेषां परिवर्जनं भवति । एवमेकं ब्रह्मज्ञानं प्रति श्रुत्यनुमानयोः प्राप्तयोः श्रुतिग्रहणेनानुमानं परिसङ्ख्यायते ।। तत्राखण्डेति ।। आज्यभागप्रयाजादीनां परस्परम् अङ्गाङ्गिभावानापत्त्याऽऽभ्याम् अखण्ड-करणोपकारं प्रति हेतुत्ववदिह श्रुत्यनुमानाभ्यां स्वतन्त्राभ्यामेकब्रह्मज्ञानजननाभावात् । गुणप्रधानभावेन तु ताभ्यामेकज्ञानजननमिहानुमतमेवेति न तत्परिसङ्ख्यायते ।। इत्यश्वाभि-धानीमिति ।। अश्वमेधेऽश्वगर्दभाभिधान्यौ रज्जू वर्तेते । तयोर्द्वयोर्ग्रहणे ‘इमामगृभ्णन्रशना-मृतस्य’ इति मन्त्रो रशनाग्रहणप्रकाशनरूपसामर्थ्यात्प्राप्तः । स तु ‘इमामगृभ्णन् रशनामृतस्य’ ‘इत्यश्वाभिधानीमादत्ते’ इत्यनेन गर्दभाभिधान्यादानात्परिसङ्ख्यायते यथा तथा श्रुतिविचारस्य ब्रह्मज्ञानसाधनत्वं प्राप्तम् ब्रह्मज्ञानात्परिसङ्ख्यायते ।। श्रुत्यादिनेति ।। इमामिति मन्त्रस्योभयरज्जुग्रहणे प्राप्तिवत् श्रुतिविचारस्य ब्रह्मतदन्यज्ञानयोः प्राप्त्यभावाद्वैषम्यम् ।। श्रवणादितीति ।। परम्परया हेतावपि पञ्चमीदर्शनात् ।। इति स्वमते श्रवणादि-विधिसमर्थनम् ।। ७ ।।

न्यायामृतकण्टकोद्धारः

ननु श्रवणादिपदानां परोक्तार्थासम्भवे निरर्थकत्वं स्यादित्यतः स्वमतेन श्रवणादिस्वरूपं निरूपयति– अस्माकं त्विति । श्रवणत्वं व्यावर्तयितुं सिद्धार्थोक्तिरूपेणेति । एकशाखास्थयत्किञ्चिद्वाक्यार्थग्रहणस्यापि श्रवणत्वं व्यावर्तयितुम् अनेकेति । तत्फलमाह– तच्चेति । कुतो न तस्य संशयादिविरोधित्वमित्यत आह– मननेति । धूमादियुक्त्यनु-सन्धानस्यापि मननत्वं स्यादित्यत्राह– मननं त्विति । नन्वेवं तर्हि युक्तत्वनिर्णायक युक्त्यनुसन्धानस्यैव मननरूपत्वं स्यात् । न तूपक्रमादिरूपेण वाक्यार्थतत्वनिर्णायक-युक्तीनाम् । तथा च तदनुसन्धानस्य चतुर्थत्वापत्तिरित्यत आह– तत्रेति । एतच्चेति । ध्यानस्यापरोक्षसाधनत्वमित्यर्थः । तत्वनिश्चयवेदार्थनियमद्वारा अज्ञानविपर्ययादिनिरसनस्यैव श्रवणमननफलत्वोक्त्या अपोक्षज्ञानस्य ध्यानफलताया एवोक्तत्वादिति भावः । ननु विचारादिविधेः किमपूर्वविधित्वमुत नियमविधित्वमिति जिज्ञासायामाह– विचारादीति । ननु विचारस्य ज्ञानहेतुतायाः प्राप्तत्वेनाप्राप्तार्थत्वाभावान्नापूर्वविधितेत्यत आह– न हीति । किन्त्विति । तथा च वेदविचारस्य ब्रह्मज्ञानं प्रति हेतुतायाः सर्वथा अप्राप्तत्वादपूर्वंविधित्वं युज्यत इति भावः ।। यद्यपीति ।। तथा च पूर्वाभेद इति ब्रह्मणोऽप्राधान्यप्राप्तिरनिवार्येति भावः । अत्रैव श्रुत्यादिसम्मतिमाह– यथा चेति । तथापि वेदविचारस्य ब्रह्मज्ञान हेतुत्वाप्राप्तावपि एकदेशे साधनतायाः प्राप्तत्वात् कथम् अपूर्वविधित्वमित्यतो दृष्टान्तेन सम्यगुपपादयति– एवं चेति ।

ननु ब्रह्मकाण्डेऽपि अवान्तरकारणादिवाक्येनापाततो ब्रह्मज्ञानस्य जायमानत्वादप्राप्तार्थत्वम् असिद्धमित्यत आह– न हीति ।। अत एवेति ।। वेदविचारस्य ब्रह्मज्ञानहेतुताया अप्राप्तत्वादेवेत्यर्थः ।। निरुपपदेति ।। निरुपपदविधिशब्दस्यापूर्वविधावेव मुख्यत्वादिति भावः । न च सामान्यतः प्राप्तसाध्यसाधनभावमनादृत्य विशेषोपाधिना अप्राप्तसाधकत्वप्राप्तये अपूर्वविध्यङ्गीकारे ज्योतिष्टोमादिवाक्यविचारेऽपि तेन रूपेण तदवाक्यार्थज्ञानं प्रत्यप्राप्त-साधनत्वसिद्धये अपूर्वविध्यन्तरकल्पनापत्तिरिति वाच्यम् । तत्राध्ययनविधिनैव सामान्यतस्त-द्विचाराक्षेपाद् विशेषविध्यभावाच्च । प्रकृते तु ‘श्रोतव्यः’ इत्यादिविधिश्रवणात् तस्य च त्वदुक्तनियमविधित्वस्योक्तरीत्या दूषितत्वेनापूर्वविधित्वस्यैव युक्तत्वादिति । प्रकारान्तरेणा-पूर्वविधित्वं व्युत्पादयति– यद्वेति । अव्यक्तस्वभावेति हेतुगर्भविशेषणं, ध्यानस्य ब्रह्म-साक्षात्कारहेतुता प्रमाणान्तरेण कुतो न प्राप्तेत्यतो ब्रह्मणोऽव्यक्तस्वभावत्वेन न प्रमाणान्तरादीति दर्शयितुम् ।। नियतेति । नियतविषयकं यन्निदिध्यासनं तस्य विषयभूता ये गुणाः तदन्यगुणेत्यर्थः । तयोः श्रवणमननयोः । ननु निदिध्यासनाविषयगुणविषयक-श्रवणमननयोः कथं निदिध्यासनाङ्गत्वं, दृष्टद्वाराभावादित्यत्राह– एवं चेति । अन्यत्र त्विति । अनिदिध्यासितगुणांश इत्यर्थः । न च श्रवणादीनां निर्गुणविषयतया सगुणविषयत्वा-भावात्, श्रवणस्याङ्गितायाः स्थापितत्वाच्चायुक्तमेतदिति वाच्यम् । निर्गुणाप्रामाणिकत्वस्योप-पादितत्वात् । श्रवणाङ्गिताया निराकृतत्वाच्च । अथवा अयं नियमविधिरेव । न च तर्हि पाक्षिकी प्राप्तिः कथमिति वाच्यम् । गुरुप्रसादतद्रहितप्रयत्नादिरूपसाधनद्वयस्य वाक्यार्थग्रहणे प्राप्तत्वेन पाक्षिकप्राप्तेर्विद्यमानत्वादित्याह– यद्वेति ।

ननु दुःशास्त्रस्य ब्रह्मप्रमाहेतुत्वाभावात् कथं तदुपायान्तरप्राप्तिनिमित्तको नियम इत्यत्राह– पाशुपतेति ।। अत एवेति । जगत्कारणज्ञानहेतुताया अन्यतः प्राप्तेरेवेत्यर्थः ।। नैषेति ।। अन्यथा निषेधस्यासम्भवादिति भावः ।। न चेति ।। विचारो हेतुर्यस्य तद् विचारहेत्विति विग्रहः । न च प्रकृते तदाकारज्ञाने उपायान्तरप्राप्तिरस्तीति भावः । परमते तु सर्वथा उपायान्तरप्राप्तिर्न सम्भवतीत्याह– परमत इति । आकारस्य मिथ्यात्वादिति भावः । ननु श्रवणमननविध्योर्नियमविधित्वमयुक्तम्, व्यावर्तनीयस्याभावादित्यत आह– सम्भवति चेति । अन्यदपि श्रवणविधेर्व्यावर्त्यं दर्शयति– एवमिति । कैश्चिदुक्तं परिसंख्याविधित्वं दूषयितुं तदनुवदति– केचित्त्विति । दृष्टान्तवैषम्येण दूषयति– तन्नेति । ननु शब्देतिकर्तव्यता-भूततर्कनिवृत्तिः परिसंख्याफलमित्यत्राह– शब्देति । अन्यथा वेदार्थविचारायोग इति भावः । एकदेश्युक्तं प्रतिप्रसवं दूषयितुम् अनुवदति– अपरे त्विति । इति स्वमते श्रवणादि-विधिसमर्थनम् ।। ७ ।।

न्यायकल्पलता

नन्वध्ययनविधेर्विचारविधायकत्वे जिज्ञासासूत्रं तन्मूलमेव स्यान्न मननविधिमूलम् । श्रवणादिविधिवैयर्थ्यञ्चेति शङ्कां परिहरिष्यन् श्रवणादिभेदाय तत्स्वरूपं तावदाह– अस्माकं त्विति ।। वेदार्थज्ञानाय वेदविचारस्याध्ययनविधितः प्राप्तावपि ब्रह्मज्ञानाय वेदविचारस्य ततोऽप्राप्तेर्मननविधिर्युक्तः । यद्यपि ब्रह्मणो वेदार्थत्वेन तज्ज्ञानायापि वेदविचारस्याध्ययन विधितः प्राप्तिरस्ति तथापि न ब्रह्मत्वेन रूपेण तज्ज्ञानाय तत्प्राप्तिरिति भावः ।। प्रतिवाक्यमिति ।। अत एव श्रवणविधेरवैयर्थ्यम् । अध्ययनविध्याक्षिप्तविचारेण कर्मब्रह्मकाण्डयोः कर्मब्रह्मपरत्वावगमेऽपि सर्ववेदस्यानन्यशेषतया च ब्रह्मपरत्वावगमस्य श्रवणफलत्वात् । तस्य च वाक्यार्थावधारणहेतूपक्रमादियुक्तिभिरर्थगतायुक्तत्वादिशङ्का निवर्तिकाभिर्युक्तिभिश्च दृढीकरणं मननफलम् । दृढीकृतार्थस्यापरोक्षाय निरन्तरं ध्यानं चिन्तनं निदिध्यासनमिति सर्वमवदातम् ।। एतच्चेति ।। श्रवणादेरज्ञानादिनिवर्तकत्वम् ।। तन्निर्धारणार्थनियम इति ।। ‘तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्घ्यःप्रतिबन्धः फलम्’ इति सूत्रम् । तस्यार्थः । ज्ञानार्थमुपासनं, तच्च श्रवणमननाभ्यामेव भविष्यति किं ध्यानेनेति शङ्कायामुच्यते– ‘तन्निर्धारणार्थे नियमः ध्यानादेवार्थदर्शनं तथा दृष्टेः श्रवणमननयोरज्ञानविपर्ययरूपप्रतिबन्धकनिवर्तनद्वारा ब्रह्मदर्शनोप-योगः’ इति ।। ब्रह्मज्ञान(स्यानुद्देश्यत्वात्)स्योद्देश्यत्वादिति ।। विचारविधाविति शेषः । उक्तवचनव्यक्तौ च वेदार्थज्ञानस्यैवोद्देश्यत्वं न ब्रह्मज्ञानस्येत्यर्थः ।। कर्मकाण्डादिनेति ।। कर्मकाण्डादिना ब्रह्मधीर्न ह्यस्तीत्याद्यन्वयः ।। अवान्तरकारणेति ।। ‘आत्मन आकाशः सम्भूतः’ इत्यादौ ।। पदवर्णेति ।। अन्यपरतया प्रतीयमानज्योतिष्टोमादि वाक्यगतपदैर्वर्णैरुदात्तादिस्वरैः । आदिपदेन वर्णसंहिताः ध्वन्यादिशब्दाश्च गृह्यन्ते ।। आत्मेत्येवोपासीतेति ।। उपासनाया जिज्ञासारूपत्वात् । तदुक्तम्– ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव तदङ्गं धारणादिकम्’ ।। एतेन सामान्यतः प्राप्तसाध्यसाधनभावम् अनादृत्य विशेषोपाधिनाऽ-प्राप्तसाधनत्व प्राप्तयेऽपूर्व विध्यङ्गीकारे ज्योतिष्ठोमादिवाक्यविचारेऽपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनतासिद्धयेऽपूर्वविध्यन्तरकल्पनापत्ति रिति निरस्तम् । कर्मकाण्डादिना ब्रह्मज्ञानस्य सामान्यतोऽप्यप्राप्तेः ।। लिङ्गादिति ।। सामर्थ्यरूपात् ।। नियतविषयेति ।। बहुशाखोक्तगुणानां ज्ञेयत्वेऽपि स्वयोग्यायाः कतिपयगुणोपासनाया एव कर्तव्यत्वात् ।। अदृष्टद्वारेणेति ।। न च तयोर्निदिध्यासनाङ्गत्वे मानाभावः । ‘ततस्तु तं पश्यत’ इति वाक्येन तदवगमात् ।।

आज्यभागौ यजतीतिवदिति ।। चातुर्मास्ये साकमेधपर्वणि गृहमेधीयेष्टिरुक्ता ‘मरुभ्द्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्’ इति । तत्र श्रूयते ‘आज्यभागौ यजतीति’ । तत्र प्रकृतितः प्राप्तयोराज्यभागयोः पुनर्वचनानर्थक्यमाशङ्क्य पञ्चमपक्षेण समाधानं पूर्वपक्षेऽभिहितं ‘परिसङ्ख्येयमाज्यभागावेव’ इति । तेनैकस्य गृहमेधीयाख्यस्य शेषिणः प्रयाजाद्याज्यभागाद्यनेकशेष प्राप्तावाज्यभागेतरेषां परिवर्जनं भवति । एवमेकं ब्रह्मज्ञानं प्रति श्रुत्यनुमानयोः प्राप्तयोः श्रुतिग्रहणेनानुमानं परिसङ्ख्यायते ।। तत्राखण्डेति ।। आज्यभागप्रयाजादीनां परस्परम् अङ्गाङ्गिभावानापत्त्याऽऽभ्याम् अखण्डकरणोपकारं प्रति (हेतुत्व)वदिह श्रुत्यनुमानाभ्यां स्वतन्त्राभ्यामेकब्रह्मज्ञानजननाभावात् । गुणप्रधानभावेन तु ताभ्यामेकज्ञानजननमिहानुमतमेवेति न तत्परिसङ्ख्यायते ।। इत्यश्वाभिधानी-मिति ।। आश्वमेधेऽश्वगर्दभाभिधान्यौ रज्जू वर्तेते । तयोर्द्वयोर्ग्रहणे ‘इमामगृभ्णन्रशनामृतस्य’ इति मन्त्रो रशनाग्रहणप्रकाशनरूपसामर्थ्यात्प्राप्तः । स तु ‘इमामगृभ्णन् रशनामृतस्य’ ‘इत्यश्वाभि-धानीमादत्ते’ इत्यनेन गर्दभाभिधान्यादानात्परिसङ्ख्यायते (यथा) तथा श्रुतिविचारस्य ब्रह्मज्ञानसाधनत्वं प्राप्तमब्रह्मज्ञानात्परिसङ्ख्यायते । कुतस्तन्नेत्याह– श्रुत्यादिनेति ।। इमामिति मन्त्रस्योभयरज्जुग्रहणे प्राप्तिवत् श्रुतिविचारस्य ब्रह्मतदन्यज्ञानयोः प्राप्त्यभावाद्वैषम्यम् ।। श्रवणादितीति ।। ‘आजनान्न जनिर्भुवि’ इति स्मृतेः श्रवणादिजन्यब्रह्मापरोक्षज्ञानिनामेव जनोलोकादिप्राप्तिरानुषङ्गिकी । परम्पराहेतावपि पञ्चमीदर्शनात् ।

अयमत्र समुदितोऽर्थः प्रदर्श्यते– ‘सर्वे वेदा यत्पदमामनन्ति’, ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’, ‘आत्मा वा ओ द्रष्टव्यः’ इति अधीतसाङ्गस्वाध्यायस्य वेदैरापातप्रविपन्ने ब्रह्मणि अनन्त-कल्याणगुणबृंहिते समुदित जिज्ञासस्य तदत्यर्थप्रसादहेतुभूततदपरोक्षज्ञानाय श्रवणादौ विधिः प्रतीयमानः किंविधः इति चिन्त्यते । तिस्रः खलु विधेर्विधाः अपूर्वविधिः, नियमविधिः, परिसङ्ख्याविधिश्चेति । तत्र (कालत्रयेऽपि) कथमप्यप्राप्तस्य प्रप्तिफलको विधिराद्यः । यथा ‘व्रीहीन् प्रोक्षति’ इति । नात्र व्रीहीणां प्रोक्षणस्य संस्काररूपकर्मणो विना नियोगं मानान्तरेण कथमपि प्राप्तिरस्ति । (पक्ष)प्राप्तस्याप्राप्तांशपूरणफलो विधिर्द्वितीयः । यथा ‘व्रीहीनवहन्ति’ इति । अत्र विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां व्रीहीणां तण्डुलनिष्पत्त्याक्षेपादेवावहननप्राप्तिर्भविष्यतीति न तत्प्राप्त्यर्थोऽयं विधिः, किन्त्वाक्षेपादवहननप्राप्तौ तद्वदेव लोकावगतकारणविशेषान्नखविदलनादिरपि पक्षे प्राप्नुयादिति वैतुष्यस्यान्यथापि सम्भवात् । अवहननाप्राप्तांशसम्भवेन तदंशपूरणफलः ।

(द्वयोः) शेषिणोरेकस्य शेषस्य वा, एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिस्तृतीयः । यथाऽग्निचयने । ‘इमामगृभ्णन्रशनामृतस्येत्य-श्वाभिधानीमादत्ते’ इति । यथा वा चातुर्मास्यान्तर्गतेष्टिविशेषे गृहमेधीये आज्यभागौ यजतीति । अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयम् अनुष्ठेयम् । तत्राश्वरशनाग्रहणे ‘इमामगृभ्णन्रशनामृतस्य’ इति मन्त्रो लिङ्गादेव रशनाग्रहणप्रकाशनसामर्थ्यरूपान्नित्यं प्राप्नोतीति न तत्प्राप्त्यर्थस्तदप्रांशपरिपूरणार्थो वा विधिः किन्तु लिङ्गविशेषात् । गर्दभरशनाग्रहणेऽपि मन्त्रः प्राप्नुयादिति तन्निवृत्त्यर्थः । तथा ग्रहमेधीयस्य दर्शपूर्णमासप्रकृतिकत्वात्तदतिदेशादेवाज्यभागौ नित्यं प्राप्नुतः इति न तत्र विधिस्तत्प्राप्त्यर्थः, तन्नियमार्थो वा, किन्त्वतिदेशात्प्रयाजादिकमपिप्रप्नुयादिति तन्निवृत्त्यर्थः । ग्रहमेधीयाधि करणपूर्वपक्षरीत्या इदमुदाहरणम् ।

ननु नियमविधावपि पक्षप्राप्तावहननस्याप्राप्तांशपरिपूरणे कृते तदवरुद्धात् पाक्षिकसाधनान्तरस्य नखविदलनादेर्निवृत्ति रपि लभ्यते इतीतरनिवृत्तिफलकत्वाविशेषात् नियमपरिसङ्ख्ययोः फलतो विवेको न युक्त इति चेत् न, विधितोऽवहनन नियममन्तरेणाक्षेपलभ्यस्य नखविदलनादेर्निवर्तयितुमशक्यतयाऽ-प्राप्तांशपरिपूरणरूपस्य नियमस्य प्राथम्यात् विधेयावहनन गतत्वेन प्रत्यासन्नत्वाच्च तस्यैव-नियमविधिफलत्वोपगमात् तदनुनिष्पादिन्या विधेयगतत्वेन विप्रकृष्टाया इतरनिवृत्तेः सन्निकृष्ट-फलत्वानौचित्यात् । एवं विविक्तासु तिसृषु विधिविधासु किंविधःश्रवणादिविधिराश्रीयते । उच्यते– अपूर्वविधिरयम् । अप्राप्तत्वात् । न हि वैदिकं श्रवणादिकं ब्रह्मसाक्षात्कारे हेतुरिति अन्वयव्यतिरेक-प्रमाणमस्ति । लोके बहुशः कृत श्रवणस्यापि तदुत्पत्तेः । अकृतश्रवणादेरपि गर्भगतस्य वामदेवस्य तदुपपत्तेः । उभयतो व्यभिचारस्तथापि जन्मान्तरानुष्ठितश्रवणादेर्जातिस्मरस्य तदनुग्रहात् फलसम्भवेन न व्यतिरेकव्यभिचारः । ‘बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते’ इति गीतोक्तेः । ‘एवं ज्ञाते तु भगवाननादिः पुरुषोत्तमः । प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसङ्क्षये’ इति विष्णुपुराणोक्तेश्च । एतेन गान्धर्वादिशास्त्रश्रवणादेः षड्जादिसाक्षात्कारहेतुत्वाभ्युपगमेऽपि कर्मकाण्डादिश्रुणादिना तदर्थधर्मादिसाक्षात्कार दर्शनेन व्यभिचार इति निरस्तम् । ‘नमामि बुद्धियोगं तं येन मामुपयान्ति ते’ । ‘यमेवैष वृणुते तेन लभ्यः’ इति वाक्येभ्यः श्रवणादिसमुद्भूततदनुग्रहेण एतद्दर्शनोपपत्तेः सर्वमवदातम् ।

।। इति तत्वविन्मते श्रवणादिविधिसमर्थनम् ।। ७ ।।