किं चाविद्या किं शुद्धसाक्षिचैतन्येनैव भाति ?
६०. अविद्याप्रतीतिभङ्गः
न्यायामृतम्
किं चाविद्या किं शुद्धसाक्षिचैतन्येनैव भाति ? किं वा वृत्तिप्रतिबिम्बितेन तेन ? नाद्यः, निर्दोषचित्प्रकाश्यत्वेनाज्ञानस्य पारमार्थिकत्वापातात् । मोक्षेऽपि तत्प्रतीत्यापत्तेश्च । तदा सा निवृत्तत्वान्न भातीति चेन्न, प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्त्ययोगात् । एतेनाज्ञानस्य राहुवत् स्वावृतप्रकाशेनैव स्फुरणमिति निरस्तम् । नान्त्यः, अज्ञानस्य कदाचिदप्रतीत्यापातात् । अन्तःकरणाविद्यावृत्त्योः प्रमाणदोषाभ्यां जन्यतयेहोभयाभावेन वृत्त्ययोगाच्च । वृत्तेरपि वृत्त्यन्तरप्रतिबिम्बितसाक्षिवेद्यत्वेऽनवस्थापातेन तदप्रतिबिम्बिततद्वेद्यत्वे मोक्षेऽपि वृत्तिप्रतीत्यापाताच्च । प्रतिबिम्बनोपाधित्वप्रयोजकस्य सत्त्वस्या-पारमार्थिकत्वेन प्रातीतिक्या वृत्तेः प्रतीत्यधीनत्वेनान्योन्याश्रयाच्च ।
अद्वैतसिद्धिः
सा चाविद्या साक्षिवेद्या, न तु शुद्धचित्प्रकाश्या । साक्षी चाविद्यावृत्तिप्रतिबिम्बित-चैतन्यम् । तेन निर्दोषचित्प्रकाश्यत्वेनाज्ञानस्य पारमार्थिकत्वापत्तिः, मोक्षेऽपि तत्प्रकाशा-पत्तिः, न च तदानीमविद्याया निवृत्तत्वात् तत्प्रकाशाभावः, प्रतीतिमात्रशरीरस्य प्रतीत्यवृत्तौ निवृत्त्ययोगादित्यादिदोषानवकाशः । अत एवोच्यते राहुवत् स्वावृतचैतन्यप्रकाश्याऽविद्येति । न चैवं कदाचिदविद्याया अप्रतीत्यापत्तिः, इष्टापत्तेः, समाधौ तथाभ्युपगमात् । न चाविद्यावृत्तेर्दोषजन्यत्वादत्र कथमविद्यावृत्तिः ? अविद्याया एव दोषत्वात् । न च वृत्तेरपि वृत्त्यन्तरप्रतिबिम्बितचिद्भास्यत्वे अनवस्था, स्वस्या एव स्वभानोपाधित्वात् ।
ननु प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ्यम्, न च प्रमाणैरसद्व्यावृत्तिमात्रं बोध्यत इति वाच्यम्, अज्ञानमगृह्णतां तत्रासद्व्यावृत्तिबोधेऽप्यसामर्थ्यादिति चेन्न, प्रमाणोपनीतासद्व्यावृत्तिविशिष्टाज्ञानं हि साक्षिणा गृह्यते । तथा चासद्व्यावृत्त्युपनयने प्रमाणानां चरितार्थत्वात् न काप्यनुपपत्तिः ।
न्यायामृततरङ्गिणी
शुद्धेति ।। मोक्षकालीनानन्दसाक्षिणेत्यर्थः । ननु साक्षी न शुद्धचैतन्यम् । किन्त्वविद्याप्रतिबिम्बितम् । तत् तस्य निर्दोषत्वाभावान्न तद्वेद्याज्ञानस्य पारमार्थि-कत्वमिति चेन्न । प्रतिबिम्बनोपाधिं प्रति सत्त्वं प्रयोजकम् । अविद्यासत्त्वं च प्रातीतिकमिति साक्षिरूपाविद्याप्रतीतौ सत्यां तत्सत्त्वसिद्धिः तत्सिद्धौ चाविद्या-प्रतिबिम्बितचैतन्यरूपसाक्षिलक्षणाविद्याप्रतीतिसिद्धिरित्यन्योन्याश्रयात् शुद्धचैतन्यमेव साक्षीति वाच्यम् । तथा च तद्वेद्याविद्या कथं न पारमार्थिकीति भावः ।। कदाचिदिति ।। वृत्त्यभावकाल इत्यर्थः ।। इहोभयाभावेनेति ।। अविद्यायाः प्रातिभासिकत्वेनेन्द्रियसन्निकर्षाभावात्प्रमाणाभावः । स्वस्मिन्स्वस्यादोषत्वात् । अविद्यायामविद्यान्तराभावाच्च दोषाभाव इत्यर्थः ।।
न्यायामृतकण्टकोद्धारः
एवं सामान्यतः प्रमाणवेद्यत्वं निराकृत्य साक्षिवेद्यत्वं निराकरोति ।। किञ्चेति ।। एतेनेति ।। स्वस्य प्रतीतिमात्ररूपत्वेन प्रतीत्यनुवृत्तावनुवृत्तिनियमेन स्वावृतप्रकाश-सम्भवान्मोक्षेऽपि प्रतीतिप्रसङ्गेनेत्यर्थः ।। अज्ञानस्य चेति ।। नन्वज्ञानस्य कदाचिद-प्रतीतिरिष्टैव समाधावप्रतीयमानत्वादिति चेन्न । तथात्वे तस्य ज्ञातैकसत्त्वाभावप्रसङ्गात् साक्षिवेद्यस्य सुखादिवत् ज्ञातैकसत्त्वनियमात् । ननु सुखादिवदुपपत्तिः यदा प्रतीयते तदाऽस्ति अन्यदा नेति चेन्न । तथात्वे त्वज्ञानस्य सुखादिवत् सादित्वापातात् । न च घटादिवदज्ञानस्य प्रतीत्यभावेऽपि सत्वोपपत्तिरिति वाच्यम् । तस्य प्रातीतिकत्वात् प्रतीत्यभावेऽभावनियमात् । किञ्च वृत्तिर्द्विविधा अन्तःकरणवृत्तिरविद्यावृत्तिश्चेति । उभयथापि वृत्तिप्रतिबिम्बितचैतन्यवेद्यता न सम्भवतीत्याह ।। अन्तःकरणेति ।। इह अज्ञानविषये । अज्ञानस्य प्रातीतिकत्वेन तत्र प्रमाणाप्रवृत्या दोषाभावेन च वृत्ति-द्वयस्याप्यसम्भवेन तत्प्रतिबिम्बितचैतन्यवेद्यता न सम्भवतीत्याशयः । न चाज्ञानमेव दोषोऽतो नानुपपत्तिरिति वाच्यम् । तस्य प्रातीतिकत्वेन प्रतीतिसत्त्वेऽज्ञानसत्त्वं तत्सत्त्वे च दोषसद्भावात् प्रतीतिरित्यन्योन्याश्रयात्माश्रयान्यतरप्रसङ्गात् ।। वृत्तेरिति ।। न च वृत्तिर्वृत्यन्तरप्रतिबिम्बितसाक्षिवेद्या न । किन्तु स्वप्रतिबिम्बितसाक्षिवेद्यैवातो नानवस्थेति वाच्यम् । वृत्तेरपि प्रातीतिकत्वेनोक्तदोषात् । वृत्तेः स्वविषयप्रकाशान्तर्भावे वृत्तेः स्वप्रकाशत्वापाताच्च । वृत्तिप्रतिबिम्बितस्य जडत्वेन वृत्तिसाध्यत्वेन च आध्यसिक-सम्बन्धस्यातन्त्रत्वापाताच्च । तादृशस्य स्वप्रकाशत्वायोगेन ज्ञानान्तरसाध्यत्वेनानवस्था-पाताच्च । अन्तःकरणवृत्तितुल्यत्वेन तयैव सर्वोपपत्तौ तदङ्गीकारवैयर्थ्याच्चेति दिक् । किन्त्ववृत्तेर्वृत्तिप्रतिबिम्बितचैतन्यवेद्यत्वाङ्गीकारे वृत्तेः प्रतिबिम्बनोपाधित्वं वक्तव्यम् । प्रतिबिम्बनोपाधित्वे हि सत्त्वं प्रयोजकम् । तत्र च प्रातीतिक्यां वृत्तौ प्रतिबिम्ब-नोपाधित्वप्रयोजकसत्त्वस्य प्रतीत्यधीनत्वमङ्गीकर्तव्यम् । तथा चान्योन्याश्रयः । वृत्तेः प्रतीतौ सत्यां सत्त्वात्प्रतिबिम्बनोपाधित्वम् । प्रतिबिम्बनोपाधिके सति तत्प्रतिबिम्बित-चैतन्येन वृत्तिप्रतीतिरित्यन्योन्याश्रय इत्याह ।। प्रतिबिम्बनेति ।। ननु सत्यस्य प्रतीत्यधीनत्वं कुत इत्यत उक्तम् ।। अपारमार्थिकत्वेनेति ।। प्रातीतिकत्वेनेत्यर्थः ।
न्यायामृतप्रकाशः
शुद्धेति ।। मोक्षककालीनेत्यर्थः । तेन चैतन्येन ।। मोक्षेऽपीति ।। अज्ञान-प्रकाशिकायाश्चितः सत्वादित्यर्थः । तदा मोक्षावस्थायाम् । सा अविद्या ।। प्रतीति-मात्रेति ।। अज्ञानस्य प्रातिभासिकत्वादित्यर्थः ।। प्रतीत्यनुवृत्ताविति ।। शुद्धचैतन्य-रूपप्रतीतेर्मोक्षेऽप्यनुवृत्तत्वादित्यर्थः ।। एतेनेति ।। अज्ञानस्य शुद्धचैतन्यप्रकाश्यत्वे मोक्षेऽपि तत्प्रतीतावापादितायां केनचिदुक्तं अज्ञानं स्वावृतेन चैतन्यरूपप्रकाशेनैव स्फुरति, न चैतददृष्टचरं, राहोः स्वावृतचन्द्रप्रकाशेनैव स्फुरणात्, अतो मोक्षे स्वस्य निवृत्तत्वेन स्वावृतप्रकाशाभावान्न स्फुरणमिति तदप्यनेनैव निरस्तम् । अज्ञानस्य प्रतीतिमात्रशरीरत्वेन प्रतीत्यनुवृत्तौ तन्निवृत्तेरेवायोगात् । अतो मोक्षेऽपि तत्प्रतीत्यापत्तिर्दुर्वारेत्यर्थः ।। कदाचिदिति ।। वृत्तिविलम्बे सतीत्यर्थः । तथा च वृत्तेः कादाचित्कत्वेन तत्प्रति-बिम्बितचैतन्यस्यापि कादाचित्कत्वात् कदाचिद्वृत्तिविलम्बे सति अनादितया पूर्वं विद्यमान-स्याप्यज्ञानस्याप्रतीत्यापत्त्या ज्ञातैकसत्वहानेरित्यर्थः । किञ्च वृत्तिप्रतिबिम्बितचैतन्येना-ज्ञानभानमङ्गीकुर्वाणं प्रति प्रष्टव्यं वृत्तिशब्देनान्तःकरणवृत्तिर्विवक्षिता अविद्यावृत्तिर्वा । नाद्यः । अन्तःकरणवृत्तेः प्रमाणजन्यत्वेनेहाप्यविद्यायाः प्रातिभासिकत्वेनेन्द्रियसंनिकर्षाभावेन प्रमाणाभावात् । न द्वितीयः । अविद्यावृत्तेर्दोषजन्यत्वेनेह स्वस्मिन्स्वस्यादोषत्वेनाविद्यायाम-विद्यान्तराभावात् । अतो वृत्तेरेवायोगेन न वृत्तिप्रतिबिम्बितचैतन्येनाविद्याभानमित्याह ।। अन्तःकरणेति ।। किञ्च न वृत्तिप्रतिबिम्बितचैतन्यमज्ञानभासकं वृत्तिस्वरूपे मानाभावात् ।
ननु तत्प्रतीतिरेव तत्र मानमिति चेत् तत्र वक्तव्यं किं वृत्तिरपि वृत्तिप्रतिबिम्बित-साक्षिवेद्या उत तदप्रतिबिम्बितसाक्षिवेद्येति । नाद्यः । अज्ञानाभासकवृत्तिभासकचैतन्य-प्रतिबिम्बनोपाधिभूताया अपि वृत्तेर्वृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वेऽनवस्था स्यात् । न द्वितीयः। वृत्तिभासकस्य वृत्तिप्रतिबिम्बितशुद्धचैतन्यस्य मोक्षेऽपि सत्वेन तत्रापि वृत्तिप्रतीत्या-पातादित्याह ।। वृत्तेरपीति ।। अज्ञानस्य वृत्तिप्रतिबिम्बितसाक्षिचैतन्यवेद्यत्वे दूषणान्तरं चाह ।। प्रतिबिम्बितेति ।। अविद्यावृत्तिप्रतिबिम्बितसाक्षिवेद्यत्वमेवाज्ञानस्येति त्वन्मतम् । न च तत्र दोषाभावः । स्वस्मिन्स्वस्यैव दोषत्वात् । तथा चाविद्यावृत्तेरपि प्रातीतिकत्वेन प्रातीतिक्यां प्रातिभासिक्यां अविद्यायां विषये वर्त्तमाना या वृत्तिस्तस्यामविद्यायमिति यावत् चैतन्यप्रतिबिम्बनं वदता तत्प्रतिबिम्बनोपाधित्वप्रयोजकं सत्वं वाच्यम् । असतः शशशृङ्गादेः प्रतिबिम्बनोपाधित्वाभावात् । तच्च सत्वमपारमार्थिकमेव प्रातिभासिकमिति यावत् प्रातिभासिकवृत्तौ सत्वस्यापि प्रातिभासिकत्वात् । एवं चाविद्यायां चैतन्य-प्रतिबिम्बनोपाधित्वप्रयोजकसत्वस्याविद्याप्रतीत्यधीनत्वेनान्योन्याश्रयः । साक्षिरूपाविद्या-प्रतीतौ सत्यां अविद्यासत्वसिद्धिः तस्याः प्रातिभासिकत्वेन प्रतीतेरेव तत्सत्वरूपत्वात्, तत्सिद्धौ च प्रतिबिम्बनोपाधिभूतसत्वप्राप्त्या तत्र चैतन्यप्रतिबिम्बनसम्भवेनाविद्यावृत्ति-प्रतिबिम्बितचैतन्यरूपसाक्षिलक्षणाविद्याप्रतीतिसिद्धिरिति । तथा चाविद्याप्रतीतेरेवायुक्तत्वाद-विद्याऽप्रामाणिकीत्याशयः ।।
न्यायकल्पलता
पराभिमताज्ञानप्रतीतौ दूषणमभ्युच्चिनोति ।। किञ्चेति ।। शुद्धेति ।। मोक्षकालीना-नन्दसाक्षिणेत्यर्थः । मुक्तावानन्दाप्रकाशे चापुरुषार्थत्वं स्यादिति भावः ।। निर्द्दोषेति ।। ननु साक्षी न शुद्धचैतन्यं किन्त्वविद्याप्रतिबिम्बितं तत् । तस्य निर्दोषत्वाभावान्न तद्वेद्या-ज्ञानस्य परमार्थिकत्वमिति चेन्न । प्रतिबिम्बनोपाधिं प्रति सत्वं प्रयोजकम् । अविद्यासत्वं च प्रातीतिकमिति साक्षिरूपाविद्याप्रतीतौ सत्यां तत्सत्वसिद्धिः । तत्सिद्धौ चाविद्या-प्रतिबिम्बितचैतन्यरूपसाक्षिलक्षणाविद्याप्रतीतिसिद्धिरित्यन्योन्याश्रयत्वात् शुद्धचैतन्यमेव साक्षीति वाच्यम् । तथा च तद्वेद्याविद्या कथं न पारमार्थिकीति भावः ।। कदाचि-दपीति ।। वृत्यभावकाल इत्यर्थः ।। इहोभयाभावेनेति ।। अविद्यायाः प्रातिभासिकत्वे-नेन्द्रियसन्निकर्षाभावात्प्रत्यक्षाभावः । तत एवानुमानागमयोरप्यप्रवृत्तिः । स्वस्मिन्स्वस्या-दोषत्वादविद्यायामविद्यान्तराभावाच्च दोषाभावः । तथा चोभयविधवृत्यभाव इत्यर्थः ।। वृत्तेरपीति ।। तथा च नोभयथाऽप्यविद्यावृत्तिसम्भव इत्यर्थः ।।
न्यायामृतसौगन्ध्यम्
किञ्चाविद्या शुद्धचिद्वेद्या वृत्तिप्रतिबिम्बितेन वा ? नाद्यः । निर्दोषचित्प्रकाश्यत्वेन तस्याः पारमार्थिकत्वापत्तेः । मोक्षेऽपि तत्प्रकाशापत्तेश्च । न च तदानीमविद्याया निवृत्तत्वान्न तत्प्रकाशः । प्रतीतिमात्रशरीराया प्रतीत्यनुवृत्तौ निवृत्त्ययोगात् । न द्वितीयः । कदाचिदप्रतीत्यापत्तेः । न च समाधौ तत्प्रतीत्यभावे इष्टापत्तिः । अज्ञानविषयका-ज्ञानाभावेनाप्रतीत्यसम्भवात् । ज्ञानाभावेन तदुपपत्तौ सर्वत्र तेनैवोपपत्या अविद्यायां मानाभावापत्तेः । अविद्यावृत्तेर्दोषजन्यत्वात् प्रकृते दोषाभावेनाज्ञानेऽविद्यावृत्तेरेवासम्भवात् । न चाविद्यावृत्तौ अविद्यैव दोषः । प्रतिभासमात्रशरीराया अविद्यायाः स्वप्रतिभासात्पूर्वं अविद्यमानायाः स्वप्रतिभासे तस्याः दोषत्वासम्भवात् । अविद्यावृत्तेर्वृत्यन्तरप्रतिबिम्बित-चिद्भास्यत्वे अनवस्थापत्तेः, स्वस्या एव स्वभानोपाधित्वे आत्माश्रयापत्तेः ।
किञ्च प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैय्यर्थ्यम् । न च प्रमाणैरसद्व्यावृत्तिमात्रं बोध्यते । अज्ञानमगृह्णतां तत्रासद्व्यावृत्तिबोधनेऽप्यसामर्थ्यात् । तम आसीदित्यादि-श्रुतिभिर्विवरणानुमानैश्च धर्मिण एव सत्वबोधनात् । अहमज्ञ इत्यादिप्रत्यक्षेण स्वरूपं गृह्णता असद्व्यावृत्तेरबोधनात् ।
यत्तु प्रमाणवृत्तिविषयीभूतमेवासद्व्यावृत्तिविशिष्टाज्ञानं साक्षिणा गृह्यते, न तु तद-विषयीभूतम् । पक्षविशेषान्तर्भावेनैवानुमितिरन्यथा साध्यपक्षयोः संसर्गाज्ञानेनानुमितिर्न स्यात् । तथा चासद्व्यावृत्तिविशिष्टरूपेण प्रमाणगम्यत्वेऽपि सविषयकत्वादिरूपेण साक्षिमात्र-वेद्यमज्ञानमिति । तन्न । विशेष्याज्ञानाविषयकस्य प्रमाणज्ञानस्यासद्व्यावृत्त्यादिवैशिष्ट्या-विषयकत्वात् विशेष्यस्यापि तद्विषयत्वे पारमार्थिकत्वापत्तेः । ‘अहमज्ञः’ ‘मामहं च न जानामि’ ‘अनृतेन हि प्रत्यूढा’ इत्यादिमानस्य धर्मिण्युपन्यासात् । सविषयकत्वादेः साक्ष्यग्राह्यत्वात् । अन्यथा तत्र विवादानापत्तेः । तथा च स्वरूपमात्रग्राहिसाक्षिणो गृहीतग्राहित्वलक्षणप्रामाण्यहान्यापत्तेः ।
।। इति अविद्याप्रतीतिभङ्गविवरणम् ।।