नापि जीवब्रह्मणोर्बिम्बप्रतिबिम्बत्वान्मुखप्रतिमुखवदैक्यम्
३२. बिम्बप्रतिबिम्बैक्यभङ्गः
न्यायामृतम्
नापि जीवब्रह्मणोर्बिम्बप्रतिबिम्बत्वान्मुखप्रतिमुखवदैक्यम् । दृष्टान्तस्य साध्यवैकल्यात् । तथा हि– बिम्बप्रतिबिम्बयोरैक्ये न तावत्प्रत्यक्षं मानम् । ‘इमे चैत्रतच्छाये भिन्ने’ इतिवद् ‘इमे चैत्रतत्प्रतिबिम्बे भिन्ने’ इत्येव पार्श्वस्थेन ग्रहणात् । स्वेनापि ‘स्वकरतत्प्रतिबिम्बे भिन्ने’ इत्येव ग्रहणाच्च । ननु यथा बहिःस्थितश्चैत्रो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मान्तःस्थोऽपि भाति, तथा यत्स्वलक्षणं ग्रीवास्थं मुखं तत्स्वलक्षणमेव दर्पणस्थमपि भाति, न तद्वस्त्वन्तरत्वे युज्यते । तस्मादेकमेकदेशस्थं च मुखं भ्रान्त्या भिन्नभिन्नदेशस्थं च भातीति चेद्, उच्यते–किमनेन सव्येतरहस्तयोरिवात्यन्तसादृश्यधीरुपन्यस्ता ? प्रत्यभिज्ञा वा ? नाद्यः, तयैक्यासिद्धेः । अन्त्येऽसिद्धिः । किञ्चित्स्वच्छताम्रादौ प्रतीते मुखच्छायामात्रे मुखसंस्थानविशेषाप्रतिपत्त्या प्रत्यभिज्ञाभावस्य स्पष्टत्वात् । स्वनेत्रगोलकादौ स्वस्याभिज्ञाभावेन प्रत्यभिज्ञायोगाच्च । सूर्यपार्श्वे प्रतिसूर्य इतिवत् ‘दर्पणे मम मुखच्छाया’ इत्येवानुभवेन ‘दर्पणे मम मुखं लग्नम्’ इति प्रतीत्यभावाच्च । चैत्र-प्रतिबिम्बमेव दृष्टं न चैत्रः । चैत्रस्तु तेनानुमित इत्यनुभवायोगाच्च । प्रतिमुखे प्रत्यङ्मुखत्वादिना दृश्यमानेऽपि स्वमुखे तद्बुद्ध्यभावाच्च । अत एव बालानां स्वप्रतिबिम्बे बालान्तरभ्रमः । क्वचित्प्रतिमुखे मम मुखमिति व्यपदेशस्तु स्वच्छाया-शिरसि स्वशिरोव्यवहारवत्, मार्गविन्यस्तस्वपादाकृतौ स्वपादव्यवहारवच्च गौणः । भेदज्ञाने सत्यभेदव्यवहारस्य गौणत्वनियमात् ।
किञ्च बिम्बप्रतिबिम्बयोर्भेदसाक्षात्कारे तावन्न विवादः । अन्यथा त्वयापि कस्य भ्रमत्वमुच्येत ? न च भेदं भेदकं च साक्षात्कुर्वन्नभेदमपि साक्षात्कुर्वन् दृष्टः । न चैक्ये साक्षात्कृतेऽपि सोपाधिकभेदभ्रमो युक्तः । तदुपादानस्याप्यैक्याज्ञान-स्यैक्यज्ञानेन निवृत्तेः । न चोपाधिनिवृत्तिसहकृतमेवैक्यज्ञानं अज्ञाननिवर्तकम्, ज्ञाते कदापि न जानामीत्यननुभवेन ज्ञानस्य स्वप्रागभावं प्रतीवाज्ञानं प्रत्यप्यन्यानपेक्षस्यैव निवर्तकत्वादित्युक्तत्वात् । न च बिम्बप्रतिबिम्बयोरैक्ये ज्ञातेऽपि तदवच्छिन्न-चैतन्यैक्याज्ञानात्तत्र भेदभ्रमः, अतिप्रसङ्गात् । न च बिम्बप्रतिबिम्बैक्यज्ञानाभावेऽपि मूलाविद्याकार्योऽयं भेदभ्रमः, व्यवहारिकत्वापत्तेः । न च सोपाधिकभ्रमं प्रति नाज्ञानज्ञाने उत्पादकनिवर्तके, किं तूपाधिसन्निधानरूपदोषतदपगमाविति वाच्यम् । दोषो निमित्तं कार्यानुगुणम्, मिथ्याभूतमज्ञानमेव तूपादनमिति त्वन्मतहानेः । अन्यथा ह्यज्ञानाकार्यत्वेन ज्ञानानिवर्त्यत्वेन च बिम्बप्रतिबिम्बभेदः सत्यः स्यादिति दिक् ।
नाप्यनुमानं तत्र मानम् । अत्यन्तसादृश्यस्य सव्येतरकरादौ व्यभिचाराद्, विरोधाच्च । वैधर्म्याभावस्य चासिद्धेः । क्रियासाम्यस्य च च्छायादावनैकान्त्यात् । बिम्बकारणमात्रजन्यत्वस्य च बिम्बादर्वाचीने प्रतिबिम्बेऽसिद्धेः । पृथग्दृष्टकार्यानुरोधेन परिवेषेन्द्रचापच्छायाप्रतिसूर्यादाविव कारणस्य कल्प्यत्वात् । प्रतिबिम्बमपि हि च्छायाविशेषः । न हि भेरीघातादिकप्तहेत्वभावाद् ध्वनावुपरतेऽप्युपलभ्यमानः प्रतिध्वनिर्न शब्दान्तरम् । एतेन दर्पणादौ न मुखव्यक्त्यन्तरमस्ति तज्जन्मकारणशून्य-त्वात्, शशमस्तके विषाणवद्’ इति विवरणोक्तं निरस्तम् । एतेनैवाभिज्ञायां भेदो भाति प्रत्यभिज्ञायां त्वभेदः । तत्र भेदधीर्मुखान्तरहेत्वभावेनोपपत्तिहीनत्वाद् भ्रान्तिः । अभेदधीस्तु सोपपत्तिकत्वात् प्रमेति निरस्तम् । अभेदधीरेव नास्तीत्युक्तत्वात् । छायादाविव कारणस्य कल्प्यत्वेन भेदबुद्धेः सोपपत्तिकत्वाच्च । कप्तद्रव्यानन्तर्भावे तमोवद् द्रव्यान्तरत्वसम्भवाच्च । ‘नोपरक्तं न वारिस्थम्’ इति स्मार्तव्यवहारस्तु ‘चित्रितः सिंहः’ इति लोकव्यवहारवद् ‘यथा दारुमयी योषा यथा चर्ममयो मृगः’ इत्यादिस्मार्तव्यवहारवच्च गौणः । त्वत्पक्षेऽपि हि वारिस्थशब्दो न मुख्यः, वारिणि सूर्यान्तराभावात् । गगनस्थस्य च वारिस्थत्वायोगात् । भेदस्तूक्तप्रत्यक्षेण न्यूनाधिकपरिमाणत्व–चलत्वोपाधिसंयुक्तत्वासंयुक्तत्व–त्वगादिग्राह्यत्वाग्राह्यत्वप्रत्य-क्प्राङ्मुखत्वरूपेण कस्तूरी तत्प्रतिबिम्बयोः सौरभतदभावरूपेण, गुडतत्प्रतिबिम्बयो-र्माधुर्यतदभावरूपेण, वह्नितत्प्रतिबिम्बयोरौष्ण्य तदभावरूपेण, पर्वततत्प्रतिबिम्बयो-र्गुरुत्वतदभावरूपेण, सशब्दभेरीतत्प्रतिबिम्बयोः शब्दतदभावरूपेण चानुमानेन–
यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ।
छाया यथा पुंसदृशी पुमधीना च दृश्यते ।।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः । इत्यादि श्रुत्या,
तवैव सदृशश्चायं विम्बस्य प्रतिबिम्बवत् ।
बहवः सूर्यका यद्वत्सूर्यस्य सदृशा जले ।।
एवमेवात्मका लोके परात्मसदृशा मताः । इत्यादिस्मृत्या च सिद्धः ।
न च बिम्बातिरेकेण दर्पणे कस्तूर्यन्तराभावात्तत्र गन्धाभाव इति वाच्यम् । तथापि यत्स्वलक्षणं कस्तूर्यादि, तत्स्वलक्षणस्यैव दर्पणस्थत्वेनारोपिततया तद्रूपादियुक्तस्येव तद्गन्धादियुक्तस्यैव दर्पणस्थत्वेन प्रतीत्यापत्तेः । घटे गगनस्येव दर्पणे कल्पित-भेदयुक्तमुखस्याप्यभावे उपाधेः प्रतिबिम्बपक्षपातित्वेन मुखप्रतिमुखयोरवदातत्व-श्यामत्ववद् जीवब्रह्मणोः संसारासंसारादिव्यवस्थितमिति त्वन्मतहानेश्च । न हि शुक्तौ न शुक्तिरियमिति भेदभ्रान्तिमात्रेण रूप्यं न शुक्तावध्यस्तम् । आरोपितेन दर्पणस्थत्वेन विशिष्टं प्रतिबिम्बं तत्र मालिन्याध्यास इति चेत्, न, मालिन्यवद् दर्पणस्थत्वस्याप्यारोपितत्वेनैकविशिष्टे इतरारोपायोगात् । प्रतिमुखमेव दर्पणस्थं न तु मुखमिति प्रतिबिम्बे दर्पणस्थत्वानुभवने प्रतिबिम्बत्वस्य तत्स्थत्वगर्भितत्वा-भावाच्च । मालिन्यस्थानीयसंसारस्यापि विशिष्टनिष्ठत्वापत्त्या शुद्धाश्रितमोक्षसामानाधि-करण्यायोगाच्च । एतेन वृक्षस्था कपिसंयोगाधारताग्रेणेव मुखस्था मालिन्याधारता उपाधिनाऽवच्छिद्यते । तथा च दर्पणावच्छिन्न एव मालिन्यधीर्युक्तेति निरस्तम् । संसारस्यापि शुद्धचिन्मात्रगतत्वापाताद्, ‘वृक्षः कपिसंयुक्तः’ इतिवत् ‘मुखं मलिनम्’ इत्यनुभवापत्त्या मुखं न मलिनम्, किन्तु प्रतिमुखमेवेत्यनुभवविरोधाच्च । यदि च कस्तूर्यादिप्रतिबिम्बे तत्स्वलक्षणाननुगमेऽपि तदाकारतामात्रेण तत्त्वम्, तर्हि च्छाया-प्रतिमुद्राप्रतिमादीनामपि तत्त्वं स्यात् । न च प्रतिमुखे प्रत्यङ्मुखत्वादिधीर्भ्रान्तिः, प्रतिबिम्बं बिम्बाभिमुखं नेति कदाप्यननुभवाद् अबाधेऽप्यारोपितत्वे प्रतिमुखस्वरूपस्य सालक्षण्यस्य चारोपितत्वापातात् । छायादावपि वैधर्म्यधीर्भ्रान्तिरिति सुवचत्वेन तस्यापि पुरुषादिनैक्यापत्तेश्च । एतेन–
दर्पणाभिहता दृष्टिः परावृत्त्य स्वमाननम् ।
व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।। इति निरस्तम् ।
परावृत्त्य स्वमुखस्यैव ग्रहणे पार्श्वस्थस्य मुखद्वयप्रतीत्ययोगात् । अस्मिन्पक्षे दर्पणादेर्नेत्राद्यभिघातकत्वमात्रेणोपक्षीणत्वेन दर्पणैक्य इव दर्पणभेदेऽप्यनेकमुखप्रतीतेः, मणिदर्पणकृपाणेषु च विरुद्धरूपानेकमुखप्रतीतेश्चायोगात् । अस्याः प्रक्रियायाः ब्रह्मप्रतिबिम्बे जीवेऽसम्भवाच्च । नेत्रस्य परावृत्या नेत्रं प्रत्याभिमुख्येऽपि स्वात्मानं प्रत्याभिमुख्यप्रतीत्ययोगाच्च । विरलावयवस्य जलस्य नेत्राभिघातकत्वे स्वच्छ-जलान्तर्गतशिलाद्यग्रहणापत्तेश्च । दर्पणाद्यभिहतेन नेत्रेण बहुयोजनव्यवहितोर्ध्वभागस्थ-सूर्यादिग्रहणे पृष्ठभागस्थस्यापि व्यवहितस्य ग्रहणापत्तेश्च । अस्यां प्रक्रियायां स्वच्छताया अनुपयोगेन शिलाद्यभिहतनेत्रस्यापि स्वमुखग्राहकत्वापाताच्च । प्रतिचन्द्रादिदर्शनेन चन्द्रादिदर्शनजन्यसुखादेः कपिलादिप्रतिबिम्बदर्शनेन कपिलादिदर्शनजन्यपुण्यादेश्च प्रसङ्गाच्च । सूर्यकस्यापि सूर्यवद् दुर्दर्शत्वादिप्रसङ्गाच्च । अतिस्वच्छदर्पण इव किञ्चि-त्स्वच्छताम्रादावपि मुखसंस्थानविशेषप्रतीत्यापाताच्च । अवच्छेदपक्षे द्विगुणीकृत्य वृत्त्य-सम्भवेऽपि प्रतिबिम्बनपक्षे तत्सम्भवेनान्तर्यामित्वमिति स्वोक्तिविरोधाच्च । उपाधेः प्रतिबिम्बपक्षपातित्वोक्त्ययोगादित्युक्तत्वाच्च । एतेन ‘नेदं रूप्यम्’ इतिवत् ‘नेदं मुखम्’ इति स्वरूपेण न बाधः, किन्तु नात्र मुखमिति संसृष्टतयैवेति न दर्पणे मुखव्यक्त्यन्तरमस्तीति निरस्तम् । नात्र मुखच्छायाऽऽसीदित्यननुभवेन प्रत्युत एतावन्तं कालमत्र प्रतिसूर्य आसीदितिवदत्र प्रतिमुखमासीदित्येवानुभवेन ‘प्रतिबिम्ब-मिवादर्श’ इत्यादिस्मृत्या च प्रतिमुखे दर्पणस्थत्वस्याप्यबाधात् । न हि भूमौ मेघो नेत्येतावता मेघच्छायापि बाधिता ।
छायापुरुषवत्तस्माच्छायावत्प्रतिसूर्यवत् ।
प्रतिध्वानादिवद् भिन्नं प्रतिबिम्बं हि बिम्बतः ।।
अन्यथा प्रतिबिम्बाद्बिम्बानुमितिर्न स्यात् । साध्यावैशिष्ट्यात् ‘नेक्षेतोद्यन्त-मादित्यम्’ इत्यनेन उद्यत्प्रतिबिम्बदर्शनस्यापि निषेधः स्यात् । वारिस्थसूर्यदर्शन-निषेधेनाकाशस्थतद्दर्शनस्यापि निषेधः स्यात् । त्वत्पक्षे गगनस्थस्यैव वारिस्थत्वेन प्रतीतेः । प्रतिबिम्बदर्शनेनैव ‘दृष्ट्वा स्नायात्’ इति शास्त्रार्थोऽप्यनुष्ठितः स्यात् । न च तात्त्विकाभेदेऽपि कल्पितभेदाच्छास्त्रीया व्यवस्था, औदुम्बरतया ज्ञातेनानौदुम्बरे-णौदुम्बरो यूपो भवतीति शास्त्रार्थासिद्धिप्रसङ्गाच्च । आत्मतया ज्ञातदेहश्रवणादिना ‘आत्मा श्रोतव्यः’ इति शास्त्रार्थसिद्धिप्रसङ्गाच्च । किञ्चानादेर्जीवस्य नोपाध्यधीन-त्वादिरूपं प्रतिबिम्बत्वम्, किन्तु तदधीनत्वे सति तत्सदृशत्वरूपं, तच्च भेदव्याप्तमिति विरुद्धो हेतुः । उक्तं हि सूत्रकृता– ‘अत एव चोपमा सूर्यकादिवत्’ इति । भाष्यकृता च ‘अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमानोपाध्यधीनत्वादिना’ इति । बिम्बप्रतिबिम्बैक्यभङ्गः ।। ३२ ।।
अद्वैतसिद्धि:
तथा जीवब्रह्मणोर्मुखप्रतिमुखवद् बिम्बप्रतिबिम्बरूपत्वादप्यभेदोऽवगन्तव्यः । ननु दृष्टान्ते नाभेदः संप्रतिपन्नः, चैत्रतच्छाये भिन्ने इतिवत् चैत्रतत्प्रतिबिम्बे भिन्ने इत्येव पार्श्वस्थितेन ग्रहणात्, स्वेनापि स्वकरतत्प्रतिबिम्बे भिन्ने इति ग्रहणाच्चेति चेन्न । आपाततो भेदप्रतीतावपि सयुक्तिकप्रत्यक्षेण बिम्ब-प्रतिबिम्बयोरैक्यसिद्ध्या दृष्टान्तत्वोपपत्तेः । यथा लक्षणापरिज्ञाने भेदभ्रमवतोऽपि बहिस्थितश्चैत्रो यत्स्वलक्षणकत्वेन प्रतिपन्नः, ततो गृहस्थे तथा भाति तस्मिन् चैत्र एवायमिति धीः, तथा ग्रीवास्थं मुखं यत्स्वलक्षणकं प्रतिपन्नं दर्पणस्थमपि तथेत्यवधार्य तथैवेदं मुखमिति स एवायं कर इति च स्वपरसाधारणप्रतीतिरप्यनुभवसिद्धा । न च किञ्चित्स्वच्छताम्रादौ मुखछायामात्रे प्रतीतेऽपि संस्थान-विशेषाप्रतीत्या प्रत्यभिज्ञाया असिद्धिरिति वाच्यम् । सर्वत्राप्रतीतावपि निर्मलदर्पणादावेव तत्सिद्ध्या दृष्टान्तसिद्धेः । ननु स्वनेत्रगोलकादौ स्वस्याभिज्ञाविरहात् प्रत्यभिज्ञापि कथमिति चेन्न, दर्पणाहतचक्षू-रश्मीनामग्रावच्छेदेन सम्बन्धात् स्वनेत्रगोलकादीनामभिज्ञायाः सन्निहितपूर्वसमय एव सम्भवात् ।
यत्तु सूर्यपार्श्वस्थिते प्रतिसूर्ये प्रत्यभिज्ञाविरहादत्रापि प्रत्यभिज्ञाविरहः इति, तन्न, तत्रोपाधेरत्रेवाना-कलनेनौपाधि कत्वानिर्णयात् । तथा च उपाधिनिबन्धनत्वज्ञानं तल्लक्षकत्वज्ञानं चाभेदसाक्षात्कारे सामग्री । तस्यां सत्यां दर्पणे मम मुखं लग्नमिति अनुभवाभाव एवानुभवविरुद्धः । यत्तु चैत्रप्रतिबिम्बो दृष्टो न चैत्रः, किन्तु तेनानुमित इति विपरीतानुभवविरोधः इति, तन्न, वस्तुतोऽभेदे ज्ञातेऽपि उपाध्यवच्छिन्नो दृष्टोऽनवच्छिन्नोऽनुमित इति प्रतीत्यविरोधात् शरद्गङ्गया वर्षर्तुगङ्गानुमानवत् । न च एवं प्रतिमुखे प्रत्यङ्मुखत्वादिना दृश्यमाने स्वमुखे तदबुद्धिः स्यात्, बालानां च स्वप्रतिबिम्बे बालान्तरभ्रमो न स्यादिति वाच्यम् । तयोः स्वलक्षणकत्वाज्ञाननिबन्धनत्वात् । अत एव कदाचित् प्रतिमुखेऽपि मम मुखमिति बुद्धिव्यपदेशौ । न चायं व्यवहारो भेदज्ञानपूर्वकत्वेन मार्गे स्वपदव्यां स्वपदव्यवहारवद्गौणः, स्वलक्षणकत्वज्ञानदशायां भेदज्ञानस्यासत्कल्पत्वात् ।
ननु अविवादः स्याद् भेदसाक्षात्कारे, अन्यथा त्वयापि कस्य भ्रमत्वमुच्येत ? न च भेदं भेदकं च साक्षात्कुर्वन् अभेदं साक्षात्कुर्वाणो दृष्ट इति चेत्, श्वैत्यव्याप्यशङ्खत्वसाक्षात्कारे पीतसाक्षात्कारवद् उपाधिमाहात्म्यादभेदं साक्षात्कुर्वाणो भेदं साक्षात्करोतीत्यङ्गीक्रियते, अनुभवस्य दुरपह्नवत्वात् । न चैवमुपादानस्य ऐक्याज्ञानस्य ऐक्यज्ञानेन निवृत्तेर्भ्रमानुपपत्तिः । तन्निवर्तने उपाधि-विरहस्यापि सहकारित्वात् । न चैवं तज्ज्ञाने सति तन्न जानामीत्यननुभवेन तस्य स्वप्रागभावं प्रतीवाज्ञानं प्रत्यप्यन्यानपेक्षस्यैव निवर्तकत्वमिति वाच्यम् । न जानामीति व्यवहारप्रयोजकाज्ञानांश निवर्तनेऽपि भ्रमस्यानुभूयमानत्वेन तदुपादानांशस्य निवृत्तौ जीवन्मुक्तौ प्रारब्धकर्मण इवोपाधेरेव प्रतिबन्धकतया तद्विरहापेक्षाया आवश्यकत्वात् । एतेन भेदभ्रमस्यास्य मूलाविद्योपादानकत्वे व्यावहारिकत्वापत्तिः, अज्ञानानुपादानकत्वे अपसिद्धान्तः, बिम्बप्रतिबिम्बभेदस्य सत्यत्वापत्तिश्चेति निरस्तम् । उक्तन्यायेनोपपत्तेर्व्यावहारिकत्वेऽप्यनुपपत्त्यभावाच्च ।
तयोरैक्येऽनुमानमपि प्रमाणम् । अत्र यद्यप्यत्यन्तासादृश्यं सव्येतरकरादौ व्यभिचारि, तथापि प्रतिबम्बो बिम्बाभिन्नः तद्गतासाधारणधर्मवत्त्वात्, तद्विरुद्धधर्मानधिकरणत्वाद्, बिम्बाजनकाजन्यत्वाच्च । न च द्वितीयहेतोरसिद्धिः, प्रत्यङ्मुखत्वादिविरुद्धधर्मस्य उपाधिकृतत्वेन स्वाभाविकविरुद्धधर्मानधिकरण-त्वस्य सत्त्वात् । न च बिम्बानन्तरजाते प्रतिबिम्बे तृतीयहेतोरसिद्धिः, ऐक्यवादिनं प्रति बिम्बानन्तर-त्वस्यैवासिद्धेः । ननु पृथक्कार्यानुरोधेन परिवेषेन्द्रचापच्छाया प्रतिसूर्यादाविवात्रापि पृथक्कारणं कल्पनीयम् । प्रतिबिम्बमपि हि छायाविशेषः । न हि भेरीघातादिकप्तहेत्वभावाद् ध्वनावुपरतेऽपि श्रूयमाणः प्रतिध्वनिर्न शब्दान्तरमिति चेन्न । प्रतिबिम्बस्य छायाविरोधिन्यालोकेऽपि सम्भवेन छाया-विशेषत्वासिद्धेः । प्रतिध्वनेस्तु भिन्नकालत्वेन तद्भेदस्य प्रकृतेऽनुपयोगात्, कार्यपार्थक्यसिद्ध्युत्तरकाल-कल्प्यकारणभेदस्य प्रथमं वक्तुमशक्यत्वात् । कप्तहेतुभावेन कार्यस्यैव भावाच्च । प्रत्यक्षस्य भेदाभेदयोः समत्वात् । युक्त्या अभेद एव प्राबल्याच्च । अत एवोक्तं विवरणे– ‘दर्पणादौ न मुखव्यक्त्यन्तरमस्ति, तज्जनकशून्यत्वात्, शशशिरसि विषाणवद्’ इति । एवमभेदधिय उपपादितत्वाद् अस्याः प्राबल्यम् । व्यक्त्यन्तरहेत्वभावात् सैव नास्तीत्यपास्तं प्राक् । न च छायादाविव कारणभेदस्य कल्प्यत्वेन भेदबुद्धिः सोपपत्तिका तथा कप्तद्रव्यानन्तर्भावे तमोवद् द्रव्यान्तरतैवेति वाच्यम् । अन्योन्याश्रयापत्तेः । भेदसोपपत्तिकत्वे द्रव्यान्तरत्वकारणान्तरत्वयोः कल्पनम्, तस्मिंश्च सोपपत्तिकत्वमिति । अत एव ‘नोपरक्तं न वारिस्थम्’ इति स्मार्तव्यवहारो मुख्यः, न तु यथा चित्रितः सिंहः, यथा दारुमयी योषा, यथा चर्ममयो मृग इत्यादिवद् गौणः । न च त्वत्पक्षेऽपि वारिस्थशब्दो न मुख्यः, वारिणि सूर्यान्तराभावाद् गगनस्थस्य वारिस्थत्वायोगादिति वाच्यम् । वारिस्थत्वेनोपस्थिताशेषवारिस्थ-सूर्यनिषेधात् । ननु वारिस्थत्वेन सूर्य एवोपस्थितः तयोरभेदो न प्रत्यक्षसिद्धः, नापि युक्तः न्यूनाधिक-परिमाणवत्त्वचलत्वोपाधिसंयुक्तत्वासंयुक्तत्वत्वगादिग्राह्यत्वाग्राह्यत्व प्रत्यङ्मुखत्वाप्रत्यङ्मुखत्वादिना कस्तूरीबिम्बप्रतिबिम्बयोः सौरभासौरभादिना च भेदसिद्धेरिति चेन्न । न्यूनपरिमाणादिना सौरभादिना च उपाधिगतस्य भेदः साधनीयः । तथा च उपाधिगतत्वस्य बिम्बे कल्पितत्वेन पक्षहेत्वोरसिद्धेः । कल्पितहेत्वादिना तत्समानसत्ताकसाध्यसिद्धावविवादाच्च । नापि–
‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ।
छाया यथा पुंसदृशी पुमधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ।।’
इति श्रुत्या भेद इति वाच्यम् । कल्पितभेदमात्रेण सादृश्योपपत्तेः तात्त्विकत्वे श्रुतितात्पर्याभावाद्, ऐक्यप्रतिपादकानेकश्रुतिविरोधाच्च । ननु तत्स्वलक्षणकस्यैव दर्पणस्थत्वेनारोपिततया तद्रूपादियुक्तस्येव तद्गन्धादियुक्तस्यापि दर्पणस्थत्वेन प्रतीतिः स्यादिति चेन्न । तत्स्वलक्षणकत्वेनारोपितत्वेऽपि यावत्स्वलक्षणकत्वेनारोपितत्वानङ्गीकारेण गन्धादिप्रतीत्यापादनस्याशक्यत्वात् ।
नन्वेवं दर्पणे मुखस्याभावे उपाधेः प्रतिबिम्बपक्षपातित्वेन मुखप्रतिमुखयोरवदातत्वश्यामत्ववत् जीवब्रह्मणोः संसारित्वासंसारित्वादिव्यवस्था कथमिति चेत्, न । आरोपितेनादर्शस्थत्वेन विशिष्टे प्रतिबिम्बे तद्धर्मस्य मालिन्यादेः सम्भवात् । न च उपाधिस्थत्वस्यापि आरोप्यत्वेन कथं मालिन्याश्रयतावच्छेदकत्वम् ? एकविशिष्टे इतरारोपाभावादिति वाच्यम् । आरोपपूर्वप्रतीतधर्मविशिष्ट-स्यैवारोप्याश्रयत्वात्, न तु तस्य सत्यत्वमपीति परप्रक्रियानिबन्धनदोषानवकाशात् । न च प्रतिमुखमेव दर्पणस्थं न तु मुखमिति प्रतिबिम्बदर्पणस्थत्वानुभवेन कथं प्रतिबिम्बत्वस्य तत्स्थत्वगर्भतेति वाच्यम् । अविद्योपहितस्याविद्याश्रयत्ववद् दर्पणोपहितस्य दर्पणाश्रितत्वसम्भवात् । एतेन मालिन्यस्थानीयस्य संसारस्य विशिष्टवृत्तित्वात् शुद्धाश्रितमोक्षसामानाधिकरण्यायोग इति निरस्तम् । संसारस्तावदुपहितवृत्तिः, तथा चोपधेयांशमादाय सामानाधिकरण्यसम्भवात् । तथा च वृक्षस्थकपिसंयोगाधारता अग्रेणेव मुखे मालिन्यं दर्पणसम्बन्धेनावच्छिद्यते । एतावानेव विशेषः – वृक्षे कपिसंयोगस्तु साहजिकः, मुखे औपाधिकं मालिन्यम् । तेनोपहिते उपाध्यवच्छिन्न एव मुखे मालिन्यधीः । एतेन दर्पणमालिन्यस्य मुखनिष्ठत्वे संसारस्यापि शुद्धनिष्ठतापत्तिः, वृक्षः संयुक्त इतिवत् मुखं मलिनमिति प्रतीत्यापत्तिः । मुखं न मलिनं किन्तु प्रतिमुखमित्यनुभवविरोधापत्तिश्चेति निरस्तम् ।
ननु कस्तूर्यादिप्रतिबिम्बस्य स्वलक्षणाननुगमेन कथं बिम्बैक्यम् ? न च तदाकारतामात्रेण तत्त्वं, तर्हि छायाप्रतिमुद्राप्रतिमादीनामपि तत्त्वं स्यात्, प्रत्यङ्मुखत्वादेर्भेदकस्यात्रापि सत्त्वाच्च । न च प्रत्यङ्मुखत्वधीर्भ्रान्ता, प्रतिबिम्बं बिम्बाभिमुखं नेति कदाप्यननुभवादिति चेन्न, दर्पणादिप्रतिबिम्बे स्वलक्षणानुगमेन बिम्बैक्ये व्यवस्थिते प्रतिबिम्बत्वावच्छेदेनैव तत्कल्पनात् । छायादौ स्वलक्षणकत्वस्य कुत्राप्यदर्शनेन साम्याभावात् । नापि प्रत्यङ्मुखत्वादि भेदकम्, मलिनत्ववदुपाधिकृतत्वात् । अत एव जपाकुसुमे रक्तताप्रतीतिवत् तद्धीर्भ्रान्ता । दर्पणाहतं चक्षुः प्रत्यङ्मुखं भवति । तस्य च स्वाभिमुखतया ग्रहणसामर्थ्याच्चान्याभिमुखस्यापि मुखादेस्तथाग्रहणोपपत्तेश्च । तदुक्तं–
‘दर्पणाभिहता दृष्टिः परावृत्त्य स्वमाननम् ।
व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम्’ ।।
न च परावृत्त्य स्वमुखस्यैव ग्रहणे पार्श्वस्थस्य मुखद्वयप्रतीत्ययोगः, स्वमुखस्यैवेति नियमासिद्धेः, उपाधिसन्निहितमात्रस्यैव तथा ग्रहणात् । न चैवं दर्पणादेरभिघातकतामात्रेण उपक्षीणतया दर्पण इव दर्पणभेदेऽप्यनेकमुख प्रतीतिर्न स्यादिति वाच्यम् । अभिघातकानेकत्वेन चक्षुषोऽनेकाग्रसम्पत्त्या प्रत्यग्रं स्वाभिघातकावच्छेदकमुखग्राहकतया दृष्टान्तवैषम्यात् । न च मणिदर्पणकृपाणादिषु विरुद्धरूपानेक-मुखप्रतीतिः कथमेवं युज्यत इति वाच्यम् । अन्वयव्यतिरेक सिद्धोपाधिप्राबल्यनिबन्धनत्वादिति गृहाण । न च चक्षुः परिवृत्तिप्रक्रिया ब्रह्मप्रतिबिम्बे जीवे न सम्भवतीति वाच्यम् । चाक्षुष-प्रतिबिम्बमात्रविषयतयैवास्या उपपादितत्वात् । न च विरलावयस्य जलस्य नेत्राभिघातकत्वे जलान्तर्गतशिलाद्यग्रहणप्रसङ्गः । सर्वावच्छेदेनाभिघाताभावेनान्तरेऽपि चक्षुषः प्रवेशसम्भवात् । न चैवं बहुदूरव्यवहितोर्ध्वभाग सूर्यादिग्रहणे पृष्ठभागस्थस्य व्यवहितस्यापि ग्रहणापत्तिरिति वाच्यम् । चक्षुषो गमनागमनाभ्यां विशेषात् । न हि दूरस्थसूर्यग्रहणं वदता पृष्ठकुड्यादिकं भित्त्वा चक्षुर्गच्छतीत्युक्तं भवति । न चैवं शिलाभिहतमपि चक्षुः परावृत्त्य मुखं गृह्णात्विति वाच्यम् । तवापि प्रतिबिम्बं तत्रोत्पद्यतामित्यापत्तेः । अस्वच्छतया परिहारस्यास्माकमपि समत्वम् । तव स्वच्छ एव उत्पद्यते, मम तत एव चक्षुः परावर्तते इत्यङ्गीकारात् । न चैवं प्रतिबिम्बदर्शनेनापि बिम्बदर्शनजन्यसुख पुण्यादिप्रसङ्गः । यत्र तद्दर्शनमात्रजन्यता नान्यतः, तत्रेष्टापत्तेः । यत्र चोपाधिविनिर्मुक्तज्ञानत्वेन विशिष्य जन्यता, तत्रापादकाभावात् । न चैवं सूर्यकस्यापि सूर्यवद् दुर्दर्शत्वापत्तिः, गोलके सूर्यतेजःसाम्मुख्यस्य दुर्दर्शताप्रयोजकस्य सूर्यकग्रहणकालेऽभावात् । न च स्वच्छदर्पणे किञ्चि-त्स्वच्छताम्रादौ मुखसंस्थानविशेषप्रतीत्यापातः । उपाधिगतात्यन्तस्वच्छताव्यतिरेकप्रयोजकमालिन्यादेरेव तत्र प्रतिबन्धकत्वात् । अन्यथा तवापि तादृक्संस्थानविशेषवत् प्रतिबिम्बं तत्र कथं नोत्पद्यत इत्यस्य दुष्परिहरत्वापत्तेः ।
ननु अवच्छेदपक्षे द्विगुणीकृत्य वृत्त्यसम्भवेऽपि प्रतिबिम्बपक्षे तत्सम्भवेनान्तर्यामित्वमिति स्ववचनविरोधः । उपाधेः प्रतिबिम्बपक्षपातित्वमित्युक्त्ययोगश्चेति चेन्न । सर्वोपाध्यवच्छिन्नत्वैक-देशोपाध्यवच्छिन्नत्वाभ्यामुपाधिकल्पितभेदेन च स्वोक्त्यविरोधोपपत्तेः । अत एव दर्पणे न मुखमित्येव उपाधिसंसृष्टतया निषिध्यते, न तु ‘नेदं रूप्यम्’ इतिवत् नैतन्मुखमिति स्वरूपेण । ननु ‘नात्र मुखच्छायासीत्’ इत्यननुभवेन प्रत्युत ‘एतावन्तं कालम् अत्र प्रतिसूर्य आसीत्’ इतिवत् प्रतिमुखमासीदित्येवानुभवेन प्रतिबिम्बमिवादर्श इत्यादिस्मृत्या वा प्रतिमुखे दर्पणस्थत्वस्याप्यबाध एव । न हि भूमौ मेघो नेत्येतावता मेघच्छायापि तत्र बाधितेति चेन्न । मुखप्रतिमुखयोरेक-स्वलक्षणकत्वेनैक्यव्यवस्थित्या मुखस्यैव तत्स्थत्वनिषेधेन प्रतिमुखस्य तत्सत्त्वनिषेधसम्भवात् । मेघच्छायाप्रतिसूर्यादीनां न तथेति न मेघादिनिषेधेन छायादिनिषेधः । स्मृतिस्तु प्रातीतिकार्थमादाय दृष्टान्तपरा । न च एवं प्रतिबम्बाद् बिम्बानुमानोच्छेदः साध्याविशेषादिति वाच्यम् । उपाधिकल्पितभेदेन विशेषोपपत्तेः । एतेन ‘नेक्षेतोद्यन्तमादित्यम्’ इत्यनेन उद्यत्प्रतिबिम्बदर्शनस्यापि निषेधः स्यात्, वारिस्थसूर्यदर्शननिषेधेनाकाशस्थसूर्यदर्शनस्यापि निषेधश्च स्यात्, प्रतिबिम्बदर्शनेनैव ‘दृष्ट्वा स्नायात्’ इति शास्त्रार्थोऽप्यनुष्ठितः स्यादिति निरस्तम् । कल्पितभेदादेव शास्त्रीयव्यवस्थोपपत्तेः । न च औदुम्बरतया ज्ञातेनानौदुम्बरेण औदुम्बरो यूपो भवतीति शास्त्रार्थसिद्धिप्रसङ्गः । आत्मतया ज्ञातदेह-श्रवणादिना ‘आत्मा श्रोतव्यः’ इति शास्त्रार्थसिद्धिप्रसङ्गश्चेति वाच्यम् । प्रमया उपपत्तौ संभवन्त्यां भ्रमेण तदुपपादनस्यायुक्तत्वात् । ननु अनादेर्जीवस्य नोपाध्यधीनं प्रतिबिम्बत्वम्, किन्तु तदधीनत्वे सति तत्सदृशत्वम्, तच्च भेदव्याप्तमिति विरुद्धो हेतुः । उक्तं हि सूत्रकृता– ‘अत एव चोपमा सूर्यकादिवत्’ इति चेत्, न, उपाध्यधीनत्वं हि उपाधौ सत्येव सत्त्वम् । तच्च नानादित्वविरोधि, अनादिजीवस्यापि तत्सम्भवात् । अत एव प्रतिबिम्बपदस्य भेदसादृश्यार्थकत्वमादाय विरुद्धत्वोक्ति-र्हेतावयुक्ता ।
तदेवं प्रतिबिम्बस्य बिम्बेनैक्ये व्यवस्थिते ।
ब्रह्मैक्यं जीवजातस्य सिद्धं तत्प्रतिबिम्बनात् ।।
।। इत्यद्वैतसिद्धौ बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धिः ।। ३२ ।।
न्यायामृततरङ्गिणी
।। स्वनेत्रगोलकादाविति ।। ननु दर्पणाहतचक्षूरश्मीनाम् अग्रावच्छेदेन सम्बन्धात्स्वनेत्र-गोलकादीनाम् अभिज्ञाप्रत्यभिज्ञायाः सन्निहितपूर्वकाल एव सम्भवति । मैवम् । तत्काल एवाभिज्ञाप्रत्यभिज्ञयोः कुत्राप्यदर्शनात् ।। न च भेदं भेदकञ्चेति ।। अपीतत्वव्याप्यशङ्खत्व-साक्षात्कारेऽप्यपीताभेदसाक्षात्कारदर्शनाद्भेदमित्युक्तम् । भेदसाक्षात्कारे सत्यभेदसाक्षात्कारः कुत्रापि न दृष्ट इत्यर्थः ।। अतिप्रसङ्गादिति ।। घटकलशयोरैक्यज्ञानेऽपि तदवच्छिन्न-चैतन्यैक्याज्ञानाद्धटकलशयोर्भेदभ्रमः स्यात् ।। विरोधाच्चेति ।। सादृश्यस्य भेदगर्भत्वात्तेनाभेद-साधने विरोधः ।। बिम्बादर्वाचीन इति ।। न चैक्यवादिनः प्रतिबिम्बस्य बिम्बादर्वाचीनत्व-मसिद्धम् । उपाध्यन्वयाद्यनुविधानेन तत्सिद्धेः । न चान्वयाद्यनुविधानं प्रतिबिम्बप्रत्यक्ष उपक्षीणम् । गेहान्तर्गतजलस्थसूर्यप्रतिबिम्बाप्रत्यक्षे प्रकाशविशेषेण प्रथमजा बुद्धिरभिज्ञा । अनन्तरं यत्स्वलक्षणं ग्रीवास्थमुखं तथैवेदं दर्पणस्थमपि भातीति जायमानं ज्ञानं प्रत्यभिज्ञेत्यर्थः ।। अभेदधीरेवेति ।। अभेदे प्रत्यक्षानुमित्योरभावस्य किञ्चित्स्वच्छताम्रादौ प्रतीते मुखच्छायामात्रे मुखसंस्थानविशेषाप्रतीत्या प्रत्यभिज्ञाभावस्य स्पष्टत्वादित्युक्तत्वात् ।। च्छायादाविवेति ।। ननु भेदबुद्धेः सोपपत्तिकत्वे सिद्धे प्रतिबिम्बस्य कारणान्तरकल्पनं तस्मिंश्च सोपपत्तिकत्वमित्यन्योन्याश्रयः । मैवम् । प्रतिबिम्बे कारणकल्पनाधीनस्य भेदबुद्धौ सोपपत्तिकत्वस्यानुक्तत्वात् । किन्तु वक्ष्यमाणरीत्या प्रत्यक्षानुमानागमसिद्धतया सोपपत्तिकभेदे सति प्रतिबिम्बे कारणान्तरमपि कल्प्यत इति ।। नोपरक्तमिति ।।
नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं नमध्यं नभसोगतम् ।।
इत्यत्र वारिस्थे सूर्यप्रतिबिम्बे सूर्यत्वाभावात्तत्रादित्यशब्दो गौणः ।। त्वत्पक्षेऽपीति ।। ममादित्यशब्दवत्तव वारिस्थशब्दो गौणः । गगनस्थे सूर्ये उद्यत्त्वोपरक्तत्वादिवद्वारिस्थत्वा-भावात् । न च वारिस्थत्वेनोपस्थितगगनस्थसूर्यपरं वारिस्थपदमिति वाच्यम् । लक्षणापत्तेरेव । भेदबुद्धेः सोपपत्तिकत्वमाह– भेदस्त्विति ।। एतस्य सिद्ध इत्यनेनाग्रेतनेन सम्बन्धः ।। तथापि यत्स्वलक्षणेति ।। ननु तत्तत्स्वलक्षण त्वेनारोपितत्वेऽपि यावत्स्वलक्षणकत्वेनारोपि-तत्वानङ्गीकारेण गन्धादिप्रतीत्यापादनमशक्यम् । मैवम् । प्रत्यभिज्ञयाऽभेद सिध्द्युक्त्ययोगात् । ‘यदि च कस्तूर्यादी’त्यादिनाऽग्रे निरसिष्यमाणत्वाच्च ।। मालिन्यवदिति ।। नन्वारोप-पूर्वप्रतीत धर्मविशिष्टस्यैवारोप्याश्रयत्वादेकारोपितविशिष्टेऽपरारोपः । मैवम् । आरोपिताधिक-सत्ताकस्यैवारोपाश्रयताव च्छेदकत्वाद् रूप्यनिवृत्तावपि शुक्तित्वानिवृत्तिवदुपाध्यपगमे मालिन्य-निवृत्तावपि प्रतिबिम्बानिवृत्त्यापत्तेः ।। प्रतिमुखमेवेति ।। नन्वविद्योपहितस्याविद्याश्रयत्व-वद्दर्पणोपहितस्य दर्पणाश्रितत्वं सम्भविष्यति । मैवम् । अविद्योपहितस्याविद्यकत्वेनाविद्या श्रयत्वानवच्छेदकत्वाद्दर्पणोपहितत्वस्यापि दर्पणाश्रितत्वादिरूपत्वेन दर्पणाश्रितत्वं प्रत्य-प्रयोजकत्वात् । मालिन्येति ।
ननु संसार उपहितवृत्तिः । तथा चोपधेयांशमादाय सामानाधिकरण्यसंभवः । मैवम् । उपहितवृत्तिधर्मस्योपधेयेऽसत्त्वात् । वृत्त्युपहितस्य दृश्यत्वाङ्गीकारेण तदुपधेये शुद्धेऽपि दृश्यत्वापत्तेः । संसारस्य शुद्धाश्रितमोक्षसामानाधिकरण्यमानेतुमाह– वृक्षस्थेति ।। उपाधिना उपाधिसम्बन्धेन । दर्पणस्थत्वादिरूपउपाधिसम्बन्धो मुखेनानुभूयते प्रत्युत प्रतिबिम्ब एवानुभूयते इत्याद्युक्तहेतुमेतेनेत्यनेन परामृशति । संसारस्य मोक्षसामानाधिकरण्यमपि तवानिष्टमित्याह– संसारस्यापीति ।। वृक्षसंयोगवद्दुःखादिरूपः संसारोऽपि शुद्ध एव स्यात् । तथा च नित्यमुक्तत्वश्रुतिर्निर्विषया स्यात् । ननु सर्वसालक्षण्याभावेऽपि किञ्चित्सालक्षण्य-मात्रेणैव बिम्बप्रतिबिम्बयोरभेदोऽस्तु । अत एव कस्तूर्या बिम्बप्रतिबिम्बयोः सौरभतद-भावाभ्यां न भेदानुमानमत आह– यदि चेति ।। एतेनेति ।। उक्तप्रत्यक्षादिना बिम्ब-प्रतिबिम्बयोर्भेदस्य सिद्धत्वेन ।। मुखद्वयेति ।। स्वस्य मुखद्वयाभावादित्यर्थः । ननु स्वमुखस्यैव ग्रहणमिति न नियमः । उपाधिसन्निहितमात्रस्यैव तथा ग्रहणात् । मैवम् । उपाधिप्रतिबिम्बतत्त्वातिरिक्तस्योपाधिसन्निहितत्वस्याभावात् ।। अस्मिन्पक्ष इति ।।
नन्वभिघातकानेकत्वेन चक्षुषोनेकाग्रतासंपत्त्या प्रत्यग्रं स्वाभिघातकावच्छिन्नमुखा-ग्राहकता । अतोऽनेकमुखप्रतीतिः । मैवम् । अनेकाग्रताशब्देनानेककिरणवत्त्वं वाऽनेकत्वं वा । नाद्यः । तस्योपाधिं विनैव सिद्धेः । न हि चक्षुष एक एककिरणः । नान्त्यः । बाधितत्वात् ।। दर्पणेति ।। न चान्वयव्यतिरेकसिद्धोपाधिप्राबल्याद्विरुद्धरूपमुखप्रतीतिः । मैवम् । स्वस्मिन्मुखान्तरोत्पादकत्वान्यस्योपाधिप्राबल्यस्याभावात् ।। अस्या इति ।। चक्षुःपरिवृत्तिरूपप्रक्रियायाः ।। विरलेति ।। न च सर्वावच्छेदेनाभिघाताभावादन्तरेऽपि चक्षुः-प्रवेशसम्भव इति वाच्यम् । यथेच्छकल्पनाया निष्प्रमाणत्वात् ।। अस्यामिति ।। एतेन तवापि शिलादौ प्रतिबिम्बमुत्पद्यताम् अस्वच्छतया परिहारस्तु ममापि सम इति निरस्तम् । स्वच्छतायाः प्रतिबिम्बोत्पत्तिं प्रतीव चक्षुःप्रतिघातं प्रत्यप्रयोजकत्वात् ।। प्रतिचन्द्रादीति ।। त्वन्मते प्रतिचन्द्रादिदर्शनस्यापि समीचीनचन्द्रादिदर्शनत्वात् । ननु यत्र सामान्यतस्तद्दर्शन-मात्रजन्यता तत्रेष्टापत्तिः । यत्र चोपाधिनिर्मुक्तज्ञानत्वेव विशेष्यजन्यता तत्रपादकाभावः । मैवम् । कपिलादीनामुपाधिकवलितत्वतद्विनिर्मुक्तत्व लक्षणद्विरूपाभावात् । ‘आदित्य-मीक्षयेत्’ इत्यादावुपाधिविनिर्मुक्तेति विशेषस्य क्वाप्यभावात् ।।
अवच्छेदपक्षे इति ।। ‘यो विज्ञाने तिष्ठन्य आत्मनि तिष्ठन्’ इत्यादावन्तर्यामित्वं श्रूयते । तच्च यद्यप्यवच्छेदपक्षे न सम्भवति । घटावच्छिन्नाकाशे बाह्याकाशादर्शनात् । द्विगुणीकृत्य वृत्त्यनुपपत्तेः । तथापि प्रतिबिम्बपक्षे सम्भवति जलप्रतिबिम्बिताकाशे बाह्याकाशस्यापि दर्शनात्’ इत्यादिना ब्रह्मणोऽन्तर्यामित्वमुक्तम् । तच्च प्रतिबिम्बाख्य व्यक्त्यन्तरानङ्गीकारे न युज्यते ।। उपाधेरिति ।। प्रतिबिम्बाख्यवस्त्वन्तराभावात्कस्य पक्ष उपाधिः पतेत् ।। प्रतिमुखे दर्पणस्थत्वस्येति ।। ननु मुखप्रतिमुखयोरैक्यान्मुखस्यैतत्स्थत्वनिषेधेन प्रतिमुखस्यैव तत्स्थत्वनिषेधः । मैवम् । तयोरेकस्यासिध्द्याऽन्योन्याश्रयात् ।। न हि भूमाविति ।। एवमादर्शे मुखं नेत्येतावता प्रतिमुखमपि नास्तीति न सम्भवतीत्यर्थः । तस्मादित्युपसंहारः ।। अन्यथेति ।। तयोरभेदे ।। किञ्चानादेरिति ।। ननूपाध्यधीनत्वं ह्युपाधौ सत्येव सत्वम् । तच्च नानादित्वविरोधि । अनाद्युपाधिनाऽनादिजीवस्यापि तत्सम्भवात् । मैवम् । उपाधे-र्ब्रह्मातिरिक्तस्य कल्पिततया सादित्वावश्यम्भावात् ।। तदधीनत्व इति ।। बिम्बाधीनत्वे सति बिम्बसदृशत्वम् ।। अत एव चोपमेति ।।
बहवः सूर्यका यद्वत्सूर्यस्य सदृशा जले ।
एवमेवात्मका लोके परात्मसदृशा मताः ।।
इत्यादिषु जीवस्य परमेश्वरप्रतिबिम्बोपमा क्रियते या सा सूत्रस्थचशब्दप्रदर्शितभेदे सत्येवेश्वराधीनत्वतत्सदृशत्वादिना । तत्र दृष्टान्तः सूर्यकादिवदिति । यथा सूर्यकस्य सूर्येणोपमा क्रियते तद्वत् । न च भेदाद्यसिद्धिः । ‘पृथगुपदेशात्’ ‘सन्ध्ये सृष्टिराह हि तद्गुण-सारत्वात्’ इत्यादितत्सिद्धेः । इदमुक्तं भवति । जीवो ब्रह्मभिन्नः तत्प्रतिबिम्बत्वात् । सामान्यव्याप्तौ सूर्यको दृष्टान्तः ।। भिन्नत्वेति ।। अयं सौत्रचशब्दस्यार्थः । भिन्नत्वरूप-साध्यस्य तदधीनत्वादिरूपहेतोश्च सूर्यक इव जीवेऽपि सत्वादुपमा क्रियते । ननु सूर्यके उपाध्यधीनत्वमप्यस्ति जीवे तु तन्नास्ति नित्यत्वादत उक्तम्– नोपाधीति ।। इति बिम्बप्रतिबिम्बैक्यभङ्गः ।। ३२ ।।
न्यायामृतकण्टकोद्धारः
ननु तथापि जीवब्रह्मभेदपरत्वं श्रुतीनां न सम्भवति । ‘जीवो ब्रह्माभिन्नस्तत्प्रतिबिम्बत्वात् प्रतिमुखवत्’ इत्यनुमानविरुद्धत्वात् इत्यत आह– नापीति ।। इम इति ।। न चापाततो भेदप्रतीतावपि सयुक्तिकप्रत्यक्षेण बिम्बप्रतिबिम्बयोरभेदसिध्या दृष्टान्तोपपत्तिरिति वाच्यम् । तर्हि भेदप्रतीतिर्न स्यात् । प्रबलाभेदप्रतीत्या बाधितत्वात् । किञ्च भेदप्रतीतेरपि सयुक्तिकत्वस्य वक्ष्यमाणत्वेन परस्परप्रतिबन्धादेकस्याप्यसिध्या दृष्टान्तासम्भवात् वक्ष्यमाणरीत्याऽभेद-प्रतीतेरेवानुदयेन तत्प्राबल्यस्य दूरनिरस्तत्वाच्च । एतदभिप्रायेणैव शङ्कते– नन्विति । तयेति । सादृश्यस्य भेदघटितत्वात् पदार्थान्तरत्वेऽपि तद्व्याप्तत्वादिति भावः । किं सर्वत्र बिम्ब-प्रतिबिम्बस्थले प्रत्यभिज्ञास्तीत्युच्यते, उत क्वचिदेव ? नाद्य इत्याह– किञ्चिदिति । न च क्वचित्प्रत्यभिज्ञयैक्यसिद्धौ दृष्टान्तोपपत्तिरिति वाच्यम् । क्वचिद् भेदसिद्धौ अत्रापि सादृश्य-मात्रेणैवं प्रतिभातीति प्रत्यभिज्ञायामेव प्रामाण्यसन्देहादिनैक्यासिद्धेः । स्वनेत्रेति । न च द्वर्पणाहतचक्षूरश्मीनामग्रावच्छेदेन सम्बन्धात् स्वनेत्रगोलकादीनामभिज्ञायाः सन्निहितपूर्वसमय एव सम्भवादिति वाच्यम् । मुखप्रतीत्यतिरिक्तगोलकाभिज्ञायाः पूर्वमसिध्या अग्रावच्छेदेन सम्बन्धासिद्धेः । सूर्यपार्श्व इति । न चात्रेव तत्रौपाधिकत्वानिर्णयात् । तथा चौपाधिकत्वज्ञानं तल्लक्षणवत्वज्ञानं चाभेदज्ञानसामग्री । सा च प्रकृतेऽस्त्येवेति वाच्यम् । अभेदप्रतीतौ भेदस्यौपाधिकत्वनिर्णयः । तन्निर्णये चाभेदधीरिति परस्पराश्रयात् । तल्लक्षणवत्त्वं किं पाठतल्लक्षणवत्त्वमुत किञ्चिद्धर्मवत्त्वम् ? नाद्योऽसिद्धेः । न द्वितीयः । अतिप्रसङ्गादिति ।।
बिम्बमेवेति ।। न चावच्छिन्नो दृष्टोऽनवच्छिन्नोऽनुमित इति प्रतीत्योरविरोध इति वाच्यम् । अस्याः कल्पनाया अभेदसिध्यधीनत्वेनान्योन्याश्रयात् ।। प्रतिमुख इति ।। न च लक्षणत्वाज्ञाननिबन्धनं तदिति वाच्यम् । सर्वसालक्षण्यस्यानुभवबाधितत्वात्, किञ्चि-त्सालक्षण्यस्यातिप्रासङ्गिकत्वात् । नन्वेवं दर्पणे मम मुखं लग्नमिति प्रतीतेः का गतिरित्यत आह– किञ्चिदिति । एतावता भेदप्रत्ययोऽस्तीत्युपपादितम् । अधुनाऽभेदप्रत्यय एव न सम्भवतीत्याह– किञ्चेति । अन्यथेति । भेदप्रत्ययानङ्गीकार इत्यर्थः ।। न चेति ।। न च लक्षणवत्वज्ञानदशायां भेदज्ञानस्यासत्कल्पत्वमिति वाच्यम् । तस्य प्रागेव दूषितत्वात् । न चोपाधिमहात्म्यात् अभेदसाक्षात्कारेऽपि भेदसाक्षात्कार इति वाच्यम् । उभयसाक्षात्कार-स्यापि अन्योन्याश्रयात् ।
किञ्चोपादानाभावाच्च न भेदभ्रमः सोपाधिकोऽपि सम्भवतीत्याह– न चेति ।। अति-प्रसङ्गादिति ।। बिम्बप्रतिबिम्बयोरैक्यज्ञानेऽप्यज्ञानानुवृत्तिः स्यात् । तत्रापि चैतन्यैक्या-ज्ञानस्य वक्तुं शक्यत्वादित्यर्थः ।। व्यावहारिकत्वापत्तेरिति ।। वियदादिवन्मूलाविद्याकार्यस्य त्वन्मते व्यावहारिकत्वनियमादित्यर्थः ।। अन्यथेति ।। अविद्योपादानकत्वाभाव इत्यर्थः । न च दृश्यत्वादिना तस्य मिथ्यात्वम् । तस्य निरस्तत्वादिति भावेनाह– दिगिति । तत्रेति ।। बिम्बप्रतिबिम्बयोरैक्य इत्यर्थः ।। विरोधादिति ।। सादृश्यस्य भेदघटितत्वेन भेदव्याप्तत्वान्न तेनाभेदानुमानमित्यर्थः ।। असिद्धेरिति ।। प्रत्यङ्मुखत्वादिवैधर्म्यस्याग्र उपादयिष्यमाणत्वादिति भावः ।। पृथगिति ।। न च कार्यभेदसिद्धौ पृथक् कारणकल्पना । तस्यां च पृथक् कार्यसिद्धिरित्यन्योन्याश्रय इति वाच्यम् । भेदप्रत्यक्षस्योपपादितत्वेन कार्यभेदस्यानुभवसिद्धत्वात् ।। प्रतिबिम्बमिति ।। न चालोकेऽपि प्रतिबिम्बसम्भवेन छायाविशेषत्वसिद्धिरिति वाच्यम् । छायाविशेषस्यालोकसापेक्षत्वात् । अत एव छायाप्रतीतिर्न तमसीति भावः । ननु कप्तहेत्वभावात् पृथक्कार्याभाव एव किं न स्यादित्यत आह– न हीति । न च तत्र भिन्नकालत्वेन दृष्टान्तवैषम्यमिति वाच्यम् । प्रकृतेऽपि मुखस्य पूर्वकालीनत्वेन भिन्नकालीनत्वात् । अत्रेव तत्रापि समानकालीनत्वात् । एतेन कार्यानुरोधेन कारणोपादानेनेत्यर्थः । एतेनेति परामृष्टं हेतुं दर्शयति– अभेदधीरेवेति । तथा चोपपत्तिः कुत्र सहकारिणी स्यादिति भावः ।
ननु भेदस्यानन्यथासिद्धप्रमाणसिद्धत्वेऽभेदव्यपदेशस्य गौणत्वं स्यात् । तदेव कुत इत्यत आह– भेदस्त्विति । उक्तेति । दर्पणे मम मुखप्रतिबिम्ब एव, न मम मुखमिति, प्रत्यक्षेणेत्यर्थः ।। न्यूनेत्यादि ।। न च विरुद्धधर्माणामौपाधिकत्वात् न तैर्वास्तव-भेदसिद्धिरिति वाच्यम् । प्रमाणाभावस्योपपादितत्वेन विरुद्धधर्माणां स्वाभाविकत्वस्यैव स्थितत्वात् । अत एव श्रुतिस्मृत्यादिप्रतिपादितं सादृश्यं कल्पितभेदनिबन्धनमित्यपास्तम् । अत्रायं प्रयोगः । ‘प्रतिबिम्बो बिम्बात्स्वाभाविकभेदवान् तदवृत्तिधर्माधिकरणत्वात् सम्मतवत्’ इति । कस्तूरिकातत्प्रतिबिम्बयोरित्यादि । ननु प्रतिबिम्बादौ गन्धाद्यभावः किं प्रत्यक्षेण, अथवाऽनुमानेन, उतागमेन? नाद्यः । इन्द्रियासन्निकर्षात् । नानुमानम् । तत्प्रतिबद्ध-लिङ्गाभावात् । नाप्यागमः । तदभावात् इति चेन्न । दूरस्थे पुष्पे तत्र गन्धप्रतीतिवत् दूरस्थेऽपि प्रतिबिम्बे घ्राणादिनैव तदभावप्रतीत्युपपत्तेः । इन्द्रियाणां तैजसत्वेन रश्मिद्वारा सन्निकर्षसम्भवात् । यद्वा क्वचित् चाक्षुषे प्रतिबिम्बे बिम्बासाधरणधर्माभावे चक्षुषैव निर्णीते अन्यत्र तत्प्रतिबिम्बत्वेन तदसाधारणधर्माभावानुमानमिति को दोषः? यद्वोदाहृतश्रुति-स्मृत्यादिभिः बिम्बप्रतिबिम्बयोर्भेदे निर्णीते तद्दृष्टान्तेनोक्तस्थले उक्तरीत्यानुमानमिति न कश्चिद् दोषः ।
ननु जीवब्रह्मणोर्भेदभ्रमेण संसारासंसारादिव्यवस्था भविष्यतीत्यत आह– न हीति । आरोपितेनेति । तथा च विशिष्टाविशिष्टभेदेन संसारादिव्यवस्थोपपत्तिरिति भावः ।। मालिन्यवदिति ।। ननु रज्जौ सर्पत्वारोपानन्तरं तद्विशिष्टे अभिसर्पणाद्यारोपवत् आरोपितैक-विशिष्ट इतरारोपो भविष्यतीति चेन्न । सर्पत्वविशिष्टस्यैव जीवस्य विशिष्टत्वेन मिथ्यात्वापत्ते-र्ब्रह्मैक्यं न स्यात् ।। प्रतिमुखमेवेति ।। न चाविद्योपहितस्याविद्याश्रयत्ववत् दर्पणोपहितस्य दर्पणाश्रितत्वं भविष्यतीति वाच्यम् । दृष्टान्तस्यासंप्रतिपत्तेः । ननु कथं मोक्षस्य संसारसामानाधिकरण्यायोगः ? उपाधेरवच्छेदकत्वमात्रेणाधारकोटावप्रवेशादित्यत आह– एतेनेति । एतेनेति परामृष्टं हेतुं दर्शयति– संसारस्यापीति । ननु मया कस्तूर्यादिप्रतिबिम्बे तत्स्वलक्षणाभावेऽपि तदाकारतामात्रेणैक्यमङ्गीक्रियते । तथा च भवदीयो हेतुरप्रयोजक इत्यत आह– अबाध इति । प्रत्यक्षविरोधेन युक्तेरेवाभासत्वादिति भावः ।। छायादावपीति । तत्रापि यथाकथञ्चित् युक्तिबाधस्य वक्तुं शक्यत्वात् तत्प्रत्यक्षविरोधेन युक्तेराभासत्ववर्णने प्रकृतेऽपि तथैव स्यादिति भावः । प्रत्यङ्मुखत्वादिधीरित्यत्र यां युक्तिं कश्चिदाह तामतिदेशेन दूषयति– एतेनेति । अत्र युक्तिरेकस्यैव प्राङ्गुखत्वादिना ग्रहणसम्भवे व्यक्त्यन्तरकल्पने गौरवमिति ।
एतेनेति परामृष्टं हेतुं दर्शयति– परावृत्त्येति । अस्मिन् पक्षे बहूनां दोषाणां विद्यमानत्वाद् गौरवं प्रामाणिकमिति भावः । ननु स्वमुखस्यैवेति नियमोऽसिद्धः । सन्निहितमात्रस्य परावृत्त्याङ्गीकारादिति चेन्न । तावता स्वमुखस्यैव ग्रहणं स्यात् । न तु भिन्नदेशस्थस्यान्यस्य परावृत्तानां तेषां स्वाभिमुखत्वादिति भावः ।। अस्मिन् पक्ष इति ।। न चाभिधातकानेकत्वेन चक्षुषोऽनेकाग्रसम्पत्त्या प्रत्यग्रं स्वाभिधातकावच्छेदकमुखग्राहकतया दृष्टान्तवैषम्यमिति वाच्यम् । अभिधातकानेकत्वेनाभिधातविषयस्यानेकत्वाभावात् । अन्यथाऽनेकैरेकदोत्सारि-तस्यानेकत्वापत्तेः । न च तेजसस्तथात्वमिति वाच्यम् । दीपादि रश्मीनाम् अनेकाभिधातेऽ-नेकत्वादर्शनात् । अस्यां कल्पनायां प्रमाणाभावाच्च ।।
मणिदर्पणकृपाणेष्विति ।। न चान्वयव्यतिरेकसिद्धोपाधिप्राबल्यनिबन्धनेयं प्रतीतिरिति वाच्यम् । अन्वयव्यतिरेकयोरभिधातकत्वमात्रोपक्षीणत्वेन विरुद्धप्रतीतावनुपयोगात् । परावृत्तेरनिर्णीतत्वेनास्यां कल्पनायामन्योन्याश्रयाच्च ।। अस्या इति ।। न चेयं चाक्षुष-प्रतिबिम्बविषयैवोपपादितेति वाच्यम् । जीवब्रह्मणोरैक्यार्थं बिम्बप्रतिबिम्बदृष्टान्त उपपाद्यते । तथा च प्रकृतानुपयुक्तोपपादनेऽर्थान्तरत्वापातात् ।। नेत्रस्थेति ।। तथा च ग्रीवास्थमुखग्रहणं न स्यादिति भावः ।। विरलावयवस्येति ।। न च सर्वावच्छेदेनाभिधाताभावाच्चक्षुषः अन्तरपि प्रवेशसम्भव इति वाच्यम् । विनिगमकाभावेनैतदवच्छेदेनाभिधात इत्यत्र नियामकाभावेन सर्वावच्छेदेनैव तदावश्यकत्वात् । प्रतिबिम्बग्राहकैरेव कालान्तरस्थग्रहणानुभवाच्च ।। दर्पणाद्यभिहतेनेति ।। चक्षूरश्मीनामतिव्यवहितग्राहकत्वेन व्याप्तत्वात् पृष्ठभागस्थेनापि सम्बन्धस्यावश्यकत्वादिति भावः ।।
अस्यामिति ।। न च तव यत्र प्रतिबिम्बोत्पत्तिः स्वच्छे, तत एव परावृत्त्यङ्गीकारा-न्नोक्तदोष इति वाच्यम् । पाषाणशरीरादिपरावृत्तः स्वच्छताया अभावेऽपि भित्त्यादिना दर्शनेन तत्र तस्या अनुपयोगात् । उत्पत्तेरस्वच्छेऽदर्शनवत् चन्द्रप्रतिबिम्बदर्शनस्य तादृश सुखा-जनकत्वेनेष्टापत्तेरयोगात् ।। सूर्यकस्यापीति ।। न च सूर्यकग्रहणकाले दुर्दुर्शत्व प्रयोजकस्य गोलकस्य सूर्यतेजः सांमुख्यस्याभावान्न, दर्दुर्शत्वमिति वाच्य् । नायनरश्मीनां सौरतेजः-सम्बन्धस्यैव दुर्दुर्शत्वप्रयोजकत्वे मालिन्यादिकं तत्र प्रतिबन्धकम् । अन्यथा तवापि स्वच्छ इवास्वच्छेऽपि तादृशप्रतिबिम्बोत्पादापत्तिर्दुष्परिहरेति वाच्यम् । अस्मिन् पक्षे उपाधेः प्रतिधातकत्वमात्रेणोपयोगितया तद्गतमालिन्यादेः प्रतिबन्धकत्वोक्त्ययोगात् । मत्पक्षे तु स्वच्छकिञ्चित्स्वच्छावयवानां स्वच्छकिञ्चित्स्वच्छ प्रतिबिम्बजनकत्वेन मालिन्यवति स्वच्छप्रतिबिम्बोत्पत्त्य सम्भवात् ।। अवच्छेदपक्ष इति ।। तथा च प्रतिबिम्बपक्षे द्विगुणीकृत्य वृत्तिमुपपादयता उपाधौ प्रतिबिम्बवृत्तिः स्वीकृता । अन्यथा तदुपपादना-सम्भवात् । तथा च तत्र प्रतिबिम्बाभावाङ्गीकारे स्वोक्तिविरोध इत्यर्थः । न च सर्वोपाध्य-वच्छिन्नत्वैकदेशोपाध्यवच्छिन्नत्वाभ्यां कल्पितभेदेन च स्वोक्त्यविरोधः सम्भवतीति वाच्यम् । प्रतिबिम्बनपक्षे अवच्छेदपक्षमादाय अविरोधोपपादनस्यासम्भवात् ।। उपाधेरिति ।। नायनरश्मिप्रतिधातमात्रेणैवोपयोगेन कल्पितभेदप्रतिबिम्बाभावेन पक्षपातायोगादिति भावः ।।
एतेनेति ।। विशिष्टबाधस्य विशेषणबाधेनाप्युपपत्त्या विशेष्यविषयत्वाकल्पनात् । अन्यथा स्वर्गी ध्वस्त इत्यादावपि तथात्वापत्तेरिति भावः । एतेनेति परामृष्टं हेतुं दर्शयति– नात्रेति । तथा च बाधस्य बिम्बविषयत्वमेव, न प्रतिमुखविषयत्वमिति भावः । ननु मुखबाधेनैव प्रतिमुखबाधः । तयोरेकस्वलक्षणकत्वेनैक्यव्यवस्थितेरित्यत आह– न हीति । पूर्वोक्तरीत्यैक-स्वलक्षणकत्वस्यासिध्या ऐक्यासिद्धेः अन्यनिषेधेनान्यनिषेधेऽतिप्रसङ्ग इति भावः ।। तस्मादिति ।। पूर्वोक्तप्रमाणैरभेदस्यैव सिद्धत्वाद् बाधकाभावाच्चेत्यर्थः । बिम्बप्रतिबिम्बयो-र्भेदानङ्गीकारे बाधकमाह– अन्यथेति ।। लिङ्गलिङ्गिभावस्य भेदनियतत्वात् । अन्यथा सिद्धसाधनादिप्रसङ्गादिति भावः ।। अनौदुम्बरतयेति ।। न चानौदुम्बरात् कल्पिताभेदेऽपि स्वाभाविकौदुम्बराभेदस्य सत्वात् स्वाभाविकाभेदेन कल्पितभेदस्य बाधात् न स्वार्थासिद्धिरिति वाच्यम् । प्रकृतेऽपि स्वाभाविकमुखाभेदेन कल्पितभेदबाधया लिङ्गलिङ्गिभावाद्यसिद्धेः ।। आत्मतयेति ।। न च श्रवणादिकर्मणः अकल्पितात्मत्वमेव श्रवणादिशास्त्रार्थसिद्धि-प्रयोजकमिति नातिप्रसङ्ग इति वाच्यम् । लिङ्ग लिङ्गिभावादावपि स्वाभाविकभेदस्यैव प्रयोजकत्वादिति वक्तुं शक्यत्वात् । आत्मनो निर्धर्मकत्वेन कस्याप्यकल्पितस्य धर्मस्या-भावादिति । तथा च प्रतिबिम्बत्वहेतुः प्रतिकूलतर्कबाधित इति भावः । स्वरूपासिद्धो विरुद्धो वेत्याह– किञ्चेति ।। प्रतिबिम्बत्वहेतोः स्वरूपासिद्धत्वादिकं सिद्धान्तसम्मत्या द्रढयति– उक्तं हीति ।। इति बिम्बप्रतिबिम्बैक्यभङ्गः ।। ३२ ।।
न्यायामृतप्रकाशः
अत एवेति ।। प्रतिबिम्बस्य वस्त्वन्तरत्वादेव । बालान्प्रति आदर्शे प्रदर्शिते सति अस्म-त्सदृशोऽन्यो बाल इत्येव भ्रमो बालानां भवति नाहमेवेतीत्यर्थः ।। अतिप्रसङ्गादिति ।। घटपटयोरपि वस्तुगत्या ऐक्यमेव । तत्र भेदप्रतीतिस्तु तदवच्छिन्नचैतन्यैक्याज्ञानाद्भ्रमरूपेति वक्तुं शक्यत्वा-दित्यतिप्रसङ्ग इत्यर्थः ।। क्रियासाम्यस्येति ।। बिम्बचलने सति प्रतिबिम्बचलनमिति बिम्ब-चलनाधीनचलनरूपक्रियासाम्येत्यर्थः ।। बिम्बादर्वाचीन इति ।। बिम्बसमानकालोत्पत्तिके प्रतिबिम्बे कथञ्चित्सम्भवेऽपि बिम्बादर्वाचीने बिम्बोत्पत्तेः पश्चादुत्पद्यमाने बिम्बकारणमात्र जन्यत्वस्यासिद्धे-रित्यर्थः । तर्हि किं तदुत्पत्तौ कारणमित्यत आह– पृथगिति ।। परिवेषः खेणेत्यपभ्रष्टभाषा । किञ्च च्छाया तावन्न त्वन्मते देहप्रतिबिम्बः । तथा च च्छायायां तावत्पृथक्कारणं त्वयाऽवश्यं वाच्यमेव । तदेव मन्मते प्रतिबिम्बोत्पत्तौ कारणं भवति कुत इत्यत आह– प्रतिबिम्बमपि हीति ।। ननु परिदृश्यमानानां बिम्बोत्पत्तौ कप्तकारणानां सम्भवान्न प्रतिबिम्बं वस्त्वन्तरमित्यत आह– न हीति ।। उपलक्ष्यमानः । प्रदेशान्तर इति शेषः । कल्पितभेदमात्रमेवाङ्गीकृत्य कल्पितभेदयुक्तप्रतिबिम्बरूप-वस्त्वन्तरानङ्गीकारे दूषणमाह– न हीति ।। शुक्तावध्यस्तं रूप्यं प्रातिभासिकं वस्त्वन्तरं नेति न हीत्यन्वयः । तथा च शुक्तौ न शुक्तिरिति भेदमात्रमेव स्यान्न तु तत्राध्यस्तं रूप्यं त्वन्मते स्यादित्यर्थः ।। स्वात्मानं प्रतीति ।। मैत्रं प्रतीत्यर्थः ।। दृष्ट्वा स्नायात् ।। आदित्यं दृष्ट्वा स्नायात् स्नानफलको भवतीत्यर्थः । ‘दृष्ट्वा स्नातः’ इत्यपि क्वचित्पाठः । अन्त्यजा वैष्णवादीनां दर्शने सति धर्मशास्त्रे आदित्यमवलोकयेदिति प्रायश्चित्तं विहितमस्ति अयं च शास्त्रार्थो गगनस्थबिम्बभूतादित्यावलोक-नाभावेऽपि वारिस्थप्रतिबिम्बदर्शनेनैवानुष्ठितः स्यात्तयोरभिन्नत्वादित्यर्थः ।। बिम्बप्रतिबिम्बैक्य-भङ्गविवरणम् ।। ३२ ।।
न्यायकल्पलता
स्वनेत्रगोलकादाविति ।। ननु दर्पणाहतचक्षूरश्मीनाम् अग्रावच्छेदेन सम्बन्धात्स्वनेत्रगोलकादीनाम् अभिज्ञाप्रत्यभिज्ञायाः सन्निहितपूर्वकाल एव सम्भवति । मैवम् । तत्काल एवाभिज्ञाप्रत्यभिज्ञयोः कुत्राप्यदर्शनात् ।। न च भेदं भेदकञ्चेति ।। अपीतत्वव्याप्यशङ्खत्वसाक्षात्कारेऽप्यपीता-भेदसाक्षात्कारदर्शनाद्भेदमित्युक्तम् । (भेदसाक्षात्कारे सत्य) भेदसाक्षात्कारः कुत्रापि न दृष्ट इत्यर्थः ।। अतिप्रसङ्गादिति ।। घटकलशयोरैक्यज्ञानेऽपि तदवच्छिन्नैक्याज्ञानाद्धट कलशयोर्भेदभ्रमः स्यात् ।। विरोधाच्चेति ।। सादृश्यस्य भेदगर्भत्वात्तेनाभेदसाधने विरोधः ।। बिम्बादर्वाचीन इति ।। न चैक्यवादिनः प्रतिबिम्बस्य बिम्बादर्वाचीनत्वमसिद्धम् । उपाध्यन्वयाद्यनुविधानेन तत्सिद्धेः । न चान्वयाद्यनुविधानं प्रतिबिम्बप्रत्यक्ष उपक्षीणम् । गेहान्तर्गतजलस्थसूर्यप्रतिबिम्बाप्रत्यक्षेऽपि प्रकाशविशेषेण बहिष्टैर्गेहान्तर्जलसूर्यप्रतिबिम्बानुमानात् ।। एतेनैवेति ।। आदर्शे भिन्नं मुखम् इत्येषा प्रथमजा बुद्धिरभिज्ञा । अनन्तरं यत्स्वलक्षणं ग्रीवास्थं मुखं तथैवेदं दर्पणस्थमपि भातीति जायमानं ज्ञानं प्रत्यभिज्ञेत्यर्थः ।। अभेदधीरेवेति ।। अभेदे प्रत्यक्षानुमित्योरभावस्य किञ्चित्स्वच्छताम्रादौ प्रतीते मुखच्छायामात्रे मुखसंस्थानविशेषाप्रतीत्या प्रत्यभिज्ञाभावस्य स्पष्टत्वादित्युक्तत्वात् ।। च्छायादाविवेति ।। ननु भेदबुद्धेः सोपपत्तिकत्वे सिद्धे प्रतिबिम्बस्य कारणान्तरकल्पनं तस्मिंश्च सोपपत्तिकत्वमित्यन्योन्याश्रयः । मैवम् । प्रतिबिम्बे कारणकल्पनाधीनस्य भेदबुद्धौ सोपपत्तिकत्व-स्यानुक्तत्वात् । किन्तु वक्ष्यमाणरीत्या प्रत्यक्षानुमानागमसिद्धतया सोपपत्तिकभेदे सति प्रतिबिम्बे कारणान्तरमपि कल्प्यत इति ।। नोपरक्तमिति ।।
नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं नमध्यं नभसोगतम् ।।
इत्यत्र वारिस्थे सूर्यप्रतिबिम्बे सूर्यत्वाभावात्तत्रादित्यशब्दो गौणः ।। त्वत्पक्षेऽपीति ।। ममादित्यशब्दवत्तव वारिस्थशब्दो गौणः । गगनस्थे सूर्ये उद्यत्त्वोपरक्तत्वादिवद्वारिस्थत्वाभावात् । न च वारिस्थत्वेनोपस्थितगगनस्थसूर्यपरं वारिस्थपदमिति युक्तम् । लक्षणापत्तेरेव । भेदबुद्धेः सोपपत्तिकत्वं दर्शयति– भेदस्त्विति ।। एतस्य सिद्ध इत्यनेनाग्रेतनेन सम्बन्धः ।। यथैषेति ।। प्रश्नोपनिषदि । एतस्मिन् प्राणात्(द्र)त्रष्टरि परमात्मनि । एतत् जगत् । तदधीनतया स्थितमस्तीत्यर्थः ।। तथापि यत्स्वलक्षणेति ।। ननु तत्तत्स्वलक्षणत्वेनारोपितत्वेऽपि यावत्स्वलक्षण-कत्वेनारोपितत्वानङ्गीकाराद् गन्धादिप्रतीत्यापादनमशक्यम् । मैवम् । प्रत्यभिज्ञयाऽभेदसिध्द्युक्त्ययोगात् । ‘यदि च कस्तूर्यादी’त्यादिनाऽग्रे निरसिष्यमाणत्वाच्च ।। मालिन्यवदिति ।। नन्वारोपपूर्वकं प्रतीतधर्मविशिष्टस्यैवारोप्याश्रयत्वादेकारोपितविशिष्टेऽपरारोपः । मैवम् । आरोपिताधिक सत्ताकस्यैवारोपाश्रयतावच्छेदकत्वाद् रूप्यनिवृत्तावपि शुक्तित्वानिवृत्तिवदुपाध्यपगमे मालिन्यनिवृत्तावपि प्रतिबिम्बानिवृत्त्यापत्तेः ।। प्रतिमुखमेवेति ।। नन्वविद्योपहितस्याविद्याश्रयत्ववद्दर्पणोपहितस्य दर्पणाश्रितत्वं सम्भविष्यति । मैवम्। अविद्योपहितस्याविद्यकत्वेनाविद्या श्रयतानवच्छेदकत्वाद्दर्पणोप-हितत्वस्यापि दर्पणाश्रितत्वादिरूपत्वेन दर्पणाश्रितत्वं प्रत्यप्रयोजकत्वात् । मालिन्येति ।
ननु संसार उपहितवृत्तिः । तथा चोपधेयांशमादाय सामानाधिकरण्यसम्भवः इति । तन्न । उपहितवृत्तिधर्मस्योपधेयेऽसत्त्वात् । अन्यथा वृत्त्युपहितस्य दृश्यत्वाङ्गीकारेण तदुपधेये शुद्धेऽपि दृश्यत्वापत्तेः । संसारस्य शुद्धाश्रितमोक्षसामानाधि करण्यमानेतुमाह– वृक्षस्थेति ।। उपाधिना उपाधिसम्बन्धेन । दर्पणस्थत्वादिरूपउपाधिसम्बन्धो मुखे नानुभूयते प्रत्युत प्रतिबिम्ब एवानुभूयते इत्याद्युक्तहेतुमेतेनेत्यनेन परामृशति । संसारस्य मोक्षसाधारण्यमपि तवानिष्टमित्याह– संसारस्यापीति ।। वृक्षसंयोगवद्दुःखादिरूपः संसारोऽपि शुद्धाश्रित एव स्यात् । तथा च नित्यमुक्तत्वश्रुतिर्निर्विषया स्यात् । ननु सर्वसालक्षण्याभावेऽपि किञ्चित्सालक्षण्यमात्रेणैव बिम्बप्रतिबिम्बयोरभेदोऽस्तु । अत एव बिम्बप्रतिबिम्बयोः सौरभतदभावाभ्यां न भेदानुमानमत आह– यदि चेति ।। एतेनेति ।। उक्तप्रत्यक्षादिना बिम्बप्रतिबिम्बयोर्भेदस्य सिद्धत्वेनेत्यर्थः ।। मुखद्वयेति ।। स्वस्य मुखद्वया-भावादित्यर्थः । ननु स्वमुखस्यैव ग्रहणमिति न नियमः । उपाधिसन्निहितमात्रस्यैव तथा ग्रहणात् । मैवम् । उपाधिप्रतिबिम्बितत्त्वातिरिक्तस्योपाधिसन्निहितत्वस्याभावात् ।। अस्मिन्पक्ष इति ।।
नन्वभिघातकानेकत्वेन चक्षुषोऽनेकाग्रतासंपत्त्या प्रत्यग्रं स्वाभिघातकावच्छिन्नमुखग्राहकता । अतोऽनेकमुखप्रतीतिः । मैवम् । अनेकाग्रताशब्देनानेककिरणवत्त्वं वाऽनेकत्वं वा । नाद्यः । तस्योपाधिमन्तरेणैव सिद्धेः । न हि चक्षुष एक एव किरणः । नान्त्यः । बाधितत्वात् ।। दर्पणेति ।। न चान्वयव्यतिरेकसिद्धोपाधिप्राबल्याद्विरुद्धरूपमुखप्रतीतिरिति वाच्यम् । स्वस्मिन्मुखान्तरोत्पादकत्वा-न्यस्योपाधिप्राबल्यस्याभावात् ।। अस्या इति ।। चक्षुःपरिवृत्तिरूपप्रक्रियायाः ।। विरलेति ।। न च सर्वावच्छेदेनाभिघाताभावादन्तरपि चक्षुःप्रवेशसम्भव इति युक्तम् । यथेच्छकल्पनाया अप्रमाणिकत्वात् ।। अस्यामिति ।। एतेन तवापि शिलादौ प्रतिबिम्बमुत्पद्यताम् अस्वच्छतया परिहारस्तु ममापि सम इति निरस्तम् । स्वच्छतायाः प्रतिबिम्बोत्पत्तिं प्रतीव चक्षुःप्रतिघातं प्रत्यप्रयोजकत्वात् ।। प्रतिचन्द्रादीति ।। त्वन्मते प्रतिचन्द्रादिदर्शनस्यापि समीचीनचन्द्रादिदर्शनत्वात् । ननु यत्र सामान्यतस्तद्दर्शनमात्रजन्यता तत्रेष्टापत्तिः । यत्र चोपाधिनिर्मुक्तज्ञानत्वेन विशिष्यजन्यता तत्रपादकाभावः । मैवम् । कपिलादीनामुपाधिकवलितत्वतद्विनिर्मुक्तत्व लक्षणद्विरूपाभावात् । ‘आदित्यमीक्षयेत्’ इत्यादावुपाधिविनिर्मुक्तेति विशेषस्य क्वाप्यभावात् ।।
अवच्छेदपक्षे इति ।। ‘यो विज्ञाने तिष्ठन्य आत्मनि तिष्ठन्’ इत्यादावन्तर्यामित्वं श्रूयते । तच्च यद्यप्यवच्छेदपक्षे न सम्भवति । घटावच्छिन्नाकाशे बाह्याकाशादर्शनात् । द्विगुणीकृत्य वृत्त्यनुपपत्तेः । तथापि प्रतिबिम्बपक्षे सम्भवति । जलप्रतिबिम्बिताकाशे बाह्याकाशस्यापि दर्शनात्’ इत्यादिना ब्रह्मणोऽन्तर्यामित्वमुक्तम् । तच्च प्रतिबिम्बाख्य व्यक्त्यन्तरानङ्गीकारे न युज्यते ।। उपाधेरिति ।। प्रतिबिम्बाख्यवस्त्वन्तराभावात्कस्य पक्षे उपाधिः पतेत् । एतेनेत्युक्तहेतुजातं विशदयति– नात्रेत्यादिना ।। प्रतिबिम्बमेवेति ।।
वासुदेवस्तु भगवान् कीर्त्यतेऽत्र सनातनः ।
प्रतिबिम्बमिवादर्शे यं पश्यन्त्यात्मनि स्थितम् ।। इति भारते ।
प्रतिमुखे दर्पणस्थत्वस्येति ।। ननु मुखप्रतिमुखयोरैक्यान्मुखस्यैतत्स्थत्वनिषेधेन प्रतिमुखस्यैव तत्स्थत्वनिषेधः । मैवम् । तयोरेकस्यासिध्द्याऽन्योन्याश्रयात् ।। न हि भूमाविति ।। एवमादर्शे मुखं नेत्येतावता प्रतिमुखमपि नास्तीति न सम्भवतीत्यर्थः । सङ्गृह्णाति– छायापुरुषवदिति ।। तस्मादित्युपसंहारः ।। तयोरभेदे बाधकमाह– अन्यथेति ।। किञ्चानादेरिति ।। ननूपाध्यधीनत्वं ह्युपाधौ सत्येव सत्वम् । तच्च नानादित्वविरोधि । अनाद्युपाधिनाऽनादिजीवस्यापि तत्सम्भवात् । मैवम् । उपाधेर्ब्रह्मातिरिक्तस्य कल्पिततया सादित्वावश्यम्भावात् ।। तदधीनत्व इति ।। बिम्बाधीनत्वे सति बिम्बसदृशत्वम् ।। अत एव चोपमेति ।।
बहवः सूर्यका यद्वत्सूर्यस्य सदृशा जले ।
एवमेवात्मका लोके परात्मसदृशा मताः ।।
इत्यादिषु या जीवस्य परमेश्वरप्रतिबिम्बत्वरूपोपमा क्रियते सा सूत्रस्थचशब्दप्रदर्शितभेदे सत्येव । परमात्माधीनत्वतत्सदृशत्वादिना । तत्र दृष्टान्तः सूर्यकादिवदिति । यथा सूर्यकस्य सूर्येणोपमा क्रियते तद्वत् । न च भेदाद्यसिद्धिः । ‘पृथगुपदेशात्’ ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ ‘सर्वान् परो मायया यं सिनीते दृष्ट्वैव तं मुच्यते नापरेण’, ‘सन्ध्ये सृष्टिराह हि’ ‘अतः प्रबोधोऽस्मात्’ ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इत्यादिभिस्तत्सिद्धेः । इदमुक्तं भवति । जीवो ब्रह्मभिन्नः तत्प्रतिबिम्बत्वात् । सामान्यव्याप्तौ सूर्यको दृष्टान्तः । सौत्रचशब्दस्यार्थं विशदयति– भिन्नत्वेति ।। तदधीनत्वादिति हेतोर्भिन्नत्वरूपसाध्यस्य च सूर्यक इव जीवेऽपि सत्वादुपमा क्रियते । ननु सूर्यके उपाध्यधीनत्वमप्यस्ति जीवे तु तन्नास्ति नित्यत्वादत उक्तम्– नोपाधीति ।।
सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेष्यते ।
जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः । इति स्मृतेः ।
तदेवं प्रतिबिम्बस्य बिम्बभेदे व्यवस्थिते ।
ब्रह्मभेदो जीवजातेसिद्धस्तत्प्रतिबिम्बनात् ।।
।। इति बिम्बप्रतिबिम्बैक्यभङ्गः ।। ३२ ।।