यच्चोच्यते न वैशेषिकादीनामिवास्माकं मुक्तौ दुःखनिवृत्तिमात्रम्
३. मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वम् (निर्विशेषसुखस्य पुरुषार्थत्वभङ्गः)
न्यायामृतम्
यच्चोच्यते न वैशेषिकादीनामिवास्माकं मुक्तौ दुःखनिवृत्तिमात्रम् । किन्तु निरतिशयानन्दस्फृरणमपि । उक्तं हि–
तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः ।
निःशेषदुःखोच्छेदाच्च पुमर्थः परमो मतः ।। इति ।
तत्र न तावत्सुखात्मता पुरुषार्थः । ‘सुखी स्याम्’ इतिवत् ‘सुखं स्याम्’ इतीच्छाया अदर्शनात् । स्वतः पुरुषार्थे चेच्छाया अनियम्यत्वात् । अन्यथा आत्मनाशादिरपि बौद्धादिनियमितेच्छया पुमर्थः स्यात् । अत एव नापरकीयं सुखं पुरुषार्थः, तथेच्छाभावाद् गौरवाच्च । सुखसाधने १परकीयेऽप्यस्वकीयेऽपुरुषार्थत्वस्य च दर्शनेनेष्टत्वाविशेषात् सुखेऽपि तत्कल्पनाच्च । दुःखतत्साधनयोः स्वकीयतयैवा-पुमर्थत्वस्य दर्शनेन सुखादेरपि तथैव पुमर्थत्वाच्च । त्वन्मतेऽपरकीयेन मुक्तस्वरूप-सुखेन संसारिणः सुप्तचैत्रस्वरूपसुखेन जाग्रतो मैत्रस्य च पुरुषार्थप्रसङ्गाच्च । नापि सुखापरोक्ष्यं पुरुषार्थः । ईश्वरादीनामस्मदादिसुखदुःखापरोक्ष्येणार्थानर्थप्रसङ्गात् । एतेन उपलब्धानामेव सुखसाधनानां पुरुषार्थत्वादिष्टत्वाविशेषात्सुखमप्युपलब्धमेव पुरुषार्थो न तु स्वसम्बद्धं, गौरवात् । सम्बन्धस्त्वनित्यत्व साधनपारतन्त्र्यादिवदवर्जनीय-सन्निधिरिति विवरणोक्तं निरस्तम् । परकीयसुखसाधनस्योपलभ्य मानस्याप्य-पुरुषार्थत्वाच्च । ‘सुखं मे स्यात्’ इति सम्बन्ध इवानित्यत्वादौ प्रार्थनाभावाच्च । नाप्यपरकीयस्य सुखस्य साक्षात्कारः पुरुषार्थः । सुषुप्तस्वरूपसुखसाक्षात्कारादिना ईश्वरादेः पुरुषार्थप्रसङ्गात् ।
किञ्च अपरकीयसुखसाक्षात्कारो न तावत्स्वसम्बद्धः स्वस्य पुरुषार्थः । मुक्तस्य सुखसाक्षात्काररूपतया तं प्रत्यपि तस्यापुरुषार्थत्वापत्तेः । नाप्यपरकीयसुखसाक्षात्कारः स्वेतरासम्बद्धः स्वस्य पुरुषार्थः । मुक्तस्वरूपेण सुखानुभवेन संसारीतरासम्बद्धेन संसारिणः पुरुषार्थप्रसङ्गात् । नाप्यपरकीयसुखानुभवरूपता पुरुषार्थः । तादृशेच्छायाः कदाप्यदर्शनात् । एतेन प्रत्यक्प्रदृश्यमानमनतीतं सुखं पुरुषार्थ इत्यानन्दबोधोक्तं निरस्तम् । प्रत्यक्शब्देन स्वरूपत्वस्य स्वकीयत्वस्यापरकीयत्वस्य वा विवक्षणीय-त्वात् । तस्य च दूषितत्वात् ।
अपि च सुखत्वेन सुखसाक्षात्कारः पुरुषार्थः । स च परमते न मोक्षेऽस्ति । एतेन परमते दुःखाभावस्य तदपरोक्षस्य वा पुरुषार्थत्वं निरस्तम् । तस्मादहं सुखीति स्वसम्बन्धिसुखानुभवः स्वस्य पुरुषार्थः । स च परमते नेति न मोक्षः पुरुषार्थः ।।
किञ्चायं मोक्षः कस्य पुरुषार्थः ? किमहमर्थस्य ? किं वा चिन्मात्रस्य ? नाद्यः । त्वन्मतेऽहमर्थस्य मुक्त्यनन्वयात् । नान्त्यः । ‘अहं मुक्तः स्याम्’ इतिच्छावत् ‘चिन्मात्रं मुक्तं स्यात्’ इतीच्छाया अदर्शनात् । उक्तं चैतदहमर्थस्यानात्मत्वभङ्गे । किञ्च सुखस्य दुःखाभावमात्रत्वे वैशेषिकमोक्षवदपुमर्थता । अतिरेके सद्वितीयत्वम् । अपि चात्मनः सुखमात्रत्वे प्रकाशमात्रत्वे च सुखप्रकाशाभावेनापुमर्थत्वम् । उभयात्मकत्वे चाऽखण्डत्वहानिः । किञ्च दुःखाभावस्य सुखस्य च तत्त्वतो दुःखाद्भेदेऽपसिद्धान्तः । अभेदे त्वपुमर्थता । किञ्च स्वप्रकाशस्य सुखस्य स्वतः स्फुरणेऽपि दुःखाभावस्यास्फुरणादपुमर्थतेति दिक् । इति निर्विशेषसुखस्य पुरुषार्थत्व-भङ्गः ।। ३ ।।
अद्वैतसिद्धि:
ननु त्वन्मते मुक्तौ न दुःखोच्छेदमात्रम्, किन्तु निरतिशयानन्दस्फुरणमपि । तदुक्तम्–
‘तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः ।
निःशेषदुःखोच्छेदाच्च पुरुषार्थः परो मतः ।।’ इति ।
तत्र न सुखात्मता तावत्पुरुषार्थः, ‘सुखी स्याम्’ इतिवत् ‘सुखं स्याम्’ इतीच्छाया अदर्शनात् । पुमर्थताया इच्छानियम्यत्वात् । अन्यथा बौद्धमतसिद्धात्मनाशादिरपि पुमर्थः स्यात् । अत एव नापरकीयं सुखं पुमर्थः, तथेच्छाविरहात्, गौरवाच्च । सुखसाधने परकीयेऽपि स्वकीये पुमर्थत्वस्यापरकीयेऽप्य-स्वकीये अपुमर्थत्वस्य च दर्शनेन इष्टत्वाविशेषात् । सुखेऽपि तत्कल्पनाच्च, दुःखतत्साधनयोः स्वकीय-तयैवापुमर्थत्वस्य दर्शनेन सुखादेरपि तथैव पुरुषार्थत्वाच्चेति चेन्न । सुखादौ हि पुमर्थता नापरकीयत्व-प्रयुक्ता, नापि स्वकीयत्वप्रयुक्ता, गौरवात् । किन्तु साक्षात्क्रियमाणतया, सम्बन्धस्य चानित्यत्वसाधन-पारतन्त्र्यादेरिवावर्जनीयसन्निधिकत्वात् । न च ईश्वरस्याप्यस्मदादिसुखं पुमर्थः स्यादिति वाच्यम् । हेयतया अज्ञातत्वे सतीत्यस्यापि तत्र प्रयोजकत्वादीश्वरादिना चात्मादिसुखस्य हेयत्वेनैव ज्ञानात् । स्वरूपसुखे चेष्टापत्तेः । न च गौरवम् । स्वसम्बन्धित्वेन पुमर्थतावादिनोऽपि निलीनसुखे पुरुषार्थता-निवृत्त्यर्थं तथावश्यं वर्णनीयत्वात् ।
यत्तु साक्षात्कारेऽपि स्वकीयतया पुरुषार्थतापक्षे मुक्तस्य सुखसाक्षात्काररूपतया तं प्रत्यपि तस्या-पुरुषार्थतापत्तिः । स्वेतरासम्बन्धित्वेन स्वस्य पुरुषार्थत्वे मुक्तस्वरूपेण सुखेन संसारीतरासम्बन्धेन संसारिणः पुरुषार्थप्रसङ्गः इति । तन्न । साक्षात्क्रियमाणत्वेनैव हि पुमर्थता । मुक्तसुखसाक्षात्कारस्य तं प्रति पुमर्थत्वेऽपि न संसारिणस्तथा । तं प्रत्यभासमानत्वाद्, भाने वाऽसंसारित्वेनेष्टापत्तिः । यत्तु प्रत्यक्प्रकाशमानत्वेन सुखं पुमर्थः इति, तदप्येतेन व्याख्यातम् । प्रत्यक्प्रकाशमानत्वेन साक्षात्क्रियमाणताया एवोक्तेः । यत्तु सुखत्वेन प्रकाशमानं सुखं पुमर्थः । न च तत्परमते मोक्षेऽस्ति इति, तन्न । साक्षात्क्रियमाणत्वेनैवातिप्रसङ्गनिरासे अधिकोक्तेर्गौरवकरत्वात् ।। (इति मुक्तेरानन्द-रूपत्वेन पुरुषार्थत्वम्) ।
अथ चिन्मात्रस्य मोक्षभोगित्वोपपत्तिः
ननु कस्यायं मोक्षः पुमर्थः ? किमहमर्थस्य ? आहोस्विच्चिन्मात्रस्य ? नाद्यः । त्वन्मतेऽहमर्थस्य मुक्त्यनन्वयात् । नान्त्यः । ‘अहं मुक्तः स्याम्’ इतिवत् ‘चिन्मात्रं मुक्तं स्यात्’ इतीच्छाया अननुभवादिति चेन्न अहमर्थगतं चिदंशं मुक्तिकालान्वयिनं प्रति पुमर्थस्य मोक्षे सम्भव इत्युक्त-प्रायत्वात् । न च सुखस्य दुःखाभावमात्रत्वे वैशेषिकमोक्षवदपुमर्थता, अतिरेके सद्वितीयत्वमिति वाच्यम् । दुःखाभावातिरेकेऽप्यात्मानतिरेकात् । न च आत्मनः सुखमात्रत्वे प्रकाशमात्रत्वे वा सुखप्रकाशाभावेनापुमर्थत्वम्, उभयात्मकत्वे चाखण्डार्थत्वहानिरिति वाच्यम् । सुखप्रकाशयोरेकात्म-रूपतया उभयत्वस्यैवाभावात् । न चार्थभेदाभावे सुखप्रकाश इति सहप्रयोगायोगः, अविद्याकल्पित-दुःखजडात्मकत्वरूपव्यावर्त्यभेदेन तदुपपत्तेः । यत्तु दुःखाभावस्य सुखस्य च तत्त्वतो दुःखाद्भेदे अपसिद्धान्तः, अभेदे त्वपुमर्थता इति, तन्न, दुःखस्य कल्पितत्वेन तद्भेदस्य तत्समानयोगक्षेमतया तात्त्विकत्वाभावेनापसिद्धान्ताभावात् । यत्तु स्वप्रकाशस्य सुखस्य स्वतः स्फुरणेऽपि दुःखाभावस्या-स्फुरणादपुमर्थता इति, तन्न, दुःखाभावस्यात्मानतिरेकेणात्माभिन्ने सुखे स्फुरति तस्यापि स्फुरणात्, तत्त्वेनास्फुरणस्याप्रयोजकताया उक्तत्वात् । तस्मात्स्वप्रकाशचिदभिन्नं सुखं पुमर्थः ।। इति चिन्मात्रस्य मोक्षभागित्वोपपत्तिः ।। इत्यद्वैतसिद्धौ मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वम् ।। ३ ।।
न्यायामृततरङ्गिणी
परकीयेऽपीति ।। अनेकभोग्यगृहादौ ।। अपरकीयेऽपीति ।। चन्द्रमण्डलादौ ।। ईश्वरादीनामिति ।। न च हेयतयाऽज्ञातत्वे सतीति विशेषणमिति वाच्यम् । गौरवात् । न च निषिद्धसुखे प्रवृत्त्यर्थं तवापि तदावश्यकमिति वाच्यम् । निषिद्धसुखे ह्यपुरुषार्थत्वान्न प्रवृत्तिः । किन्तु बलवदनिष्टाननुबन्धित्वज्ञानादेस्तत्प्रयोजकस्याभावात् । येषान्तु तदस्ति ते प्रवर्तन्त एव ।। उपलब्धमिति ।। साक्षात्कृतम् ।। साधनेति ।। स्रगादिसाधनजन्यत्वम् ।। सुखं म इति ।। स्वकीयत्ववदनित्यत्वादेरप्रार्थ्यमानत्वान्न तस्य पुरुषार्थकोटिनिवेशः । तन्मते स्वरूपसुखतदुपलम्भयो र्निर्विशेषाभेदेन स्वरूपसुखे उपलब्धत्वाभावाच्च मुक्तेरानन्द-रूपत्वेन पुरुषार्थत्वविचारः ।। सुखप्रकाशाभावेनेति ।। सुखप्रकाशयोर्विशेषाभावे एकतर-परिशेषापातादित्यर्थः ।। दुःखाभावस्यास्फुरणादिति ।। दुःखाभावत्वेनेत्यर्थः ।। एतेन दुःखाभावस्यात्मानतिरेके सुखे स्फुरति सोऽपि स्फुरत्येवेति निरस्तम् । प्रमेयत्वादिना तत्स्फुरणस्याप्रयोजकत्वात् ।। इति निर्विशेषसुखस्य पुरुषार्थत्वभङ्गः ।। ३ ।।
न्यायामृतकण्टकोद्धारः
पुरुषार्थानिरुक्त्याऽपि मोक्षं दूषयितुमनुवदति– यच्चोच्यत इति ।। दुःखनिवृत्ति-मात्रस्यापुरुषार्थत्वादिति भावः । अदर्शनेऽपि मयैवैतादृशीच्छा कल्प्यत इत्यत आह– स्वतः पुरुषार्थ इति ।। विपक्षे बाधकमाह– अन्यथेति ।। गौरवाच्चेति ।। परकीयत्वगर्भत्वादिति भावः । किञ्च परकीयस्यापरकीयस्य वा स्वकीयस्यैव सुखसाधनस्य पुरुषार्थत्वदर्शनात् तद्वदेव सुखस्यापि पुरुषार्थत्वं वक्तव्यम् । इष्टत्वाविशेषात् । न तु परकीयत्वमपि निवेश्यमित्याह– सुखसधन इति ।। ईश्वरादीनामिति ।। न चेश्वरेणास्मदादिसुखस्य हेयत्वेनैव ज्ञानान्न तदापरोक्ष्यं तस्य पुरुषार्थः । स्वरूपसुखे चेष्टापत्तिरिति वाच्यम् । तथा सतीश्वरस्य स्वरूपसुखापरोक्ष्येण मोक्षप्रसङ्गात् । न च तस्यास्ति मोक्षः । तथात्वे संसारिण एव मोक्ष इति त्वन्मतभङ्गापत्तेः । ईश्वरस्याविद्याऽभावेन तन्निवृत्तिरूपमोक्षासम्भवाच्च ।। एतेनेति ।। ईश्वरस्यापि पुरुषार्थप्रसङ्गेनेत्यर्थः । तथा सम्बन्धो न स्यादेवेत्यत आह– सम्बन्धस्त्विति ।। किञ्च स्वसम्बद्धस्यैव तस्य पुरुषार्थत्वं वक्तव्यम् । न च सम्बन्धोऽवर्जनीयसन्निधिरिति वाच्यम् । तथा सत्यनित्यत्वादाविव सम्बन्धे प्रार्थना न स्यादित्याह– सुखमिति ।। किञ्चापरकीयेति ।। न च साक्षात्क्रियमाणत्वेन हि पुमर्थता । मुक्तसाक्षात्कारस्य तं प्रति पुमर्थत्वेऽपि न संसारिणं प्रति । तं प्रत्यभासमानत्वात् । भाने वाऽसंसारित्वेनेष्टापत्तेरिति वाच्यम् । एवं हि सुखसाधनस्यापि साक्षात्क्रियमाणत्वे पुरुषार्थत्वं स्यात् । ईश्वरादेः पुरुषार्थत्वप्रसङ्गाच्च । विवरणे विषयैरपि स्वरूपसुखमभिव्यज्यत इत्युक्तत्वेन संसारिणं प्रत्यभानस्यासिद्धेः । सुषुप्तौ तद्भानस्य त्वयाऽप्यङ्गीकाराच्च । एतेनेति ।। स्वरूपसतस्तस्य पुरुषार्थत्वाभावेन तदपरोक्षस्य च दुःखाभावत्वप्रकारकस्य मोक्षेऽसम्भवेनेत्यर्थः । ननु प्रकारान्तरेण पुरुषार्थस्वरूपस्य वक्तुमशक्यत्वादनन्यगत्योक्तविधमेव पुरुषार्थत्वं वक्तव्य-मित्याशङ्कां परिहरन्नुपसंहरति – तस्मादिति ।।
किञ्चायमिति ।। न चाहमर्थगतचिदंशस्य मुक्तिकालान्वयित्वात् तं प्रति पुमर्थत्वं मोक्षस्येति वाच्यम् । तथा सति ‘चिदंशो मुक्तः स्यात्’ इतीच्छाऽऽपत्त्या ‘अहं मुक्तः स्याम्’ इतीच्छाऽनुपपत्तेः ।। उक्तं चैतदिति ।। अहमर्थस्येच्छया चिन्मात्रस्य मोक्ष इत्ययुक्तमित्यर्थः ।। अतिरेके सद्वितीयत्वमिति ।। न च सुखस्य ब्रह्मस्वरूपत्वान्न सद्वितीयत्वापत्तिरिति वाच्यम् । तथाऽपि दुःखाभावस्य ब्रह्मस्वरूपत्वाभावेन सद्वितीयत्वापरिहारात् ।। उभयात्म-कत्वे चेति ।। न च सुखप्रकाशयोरकात्मरूपतयोभयस्यैवाभाव इति वाच्यम् । तथा सति सुखप्रकाश इति सहप्रयोगो न स्यात् । न च स्वाविद्याकल्पितदुःखजडात्मकत्वरूप-व्यावर्त्यभेदेन तदुपपत्तिरिति वाच्यम् । अविद्याया एवाप्रामाणिकत्वेन तत्कल्पितदुःखादि-भेदस्यापि तथात्वेन तदर्थं सहप्रयोग इत्यस्यायुक्तत्वात् । व्यावर्त्यविशेषसमर्पणं विना व्यावृत्तेरेव वक्तुमशक्यत्वाच्च ।
किञ्च दुःखाभावस्येति ।। न च दुःखतदभावयोः कल्पितत्वेन तद्भेदस्य तत्समानयोगक्षेमतया तात्विकत्वाभावेनापसिद्धान्ताभाव इति वाच्यम् । दुःखादेः कल्पितत्वे प्रमाणाभावस्योक्तत्वेनापसिद्धान्तस्यापरिहार्यत्वात् ।। किञ्च स्वप्रकाशस्येति ।। न च सुखस्फुरणस्यैव पुमर्थतया दुःखाभावास्फुरणमप्रयोजकमिति वाच्यम् । अनुभूयमानस्यैव पुरुषार्थत्वेनास्फुरणे दुःखाभावस्य पुमर्थत्वं न स्यात् । तस्मात् यत्किञ्चेदेतदिति ।। इति निर्विशेषसुखस्य पुरुषार्थत्वभङ्गः ।। ३ ।।
न्यायामृतप्रकाशः
यच्चोच्यत इति ।। मायावादिभिरिति शेषः । परमपुरुषार्थत्वे ‘नित्यानन्दप्रतीतितः’ ‘निःशेष-दुःखोच्छेदाच्च’ इति हेतुद्वयम् । अथवा चशब्दोऽप्यर्थे । वैशेषिकाभिमतात्केवलनिःशेषदुःखोच्छेदा-दप्यस्मन्मतेऽविद्यास्तमयः परः पुरुषार्थः । तत्र हेतुः नित्यानन्दप्रतीतितः इति । तथा चानया कारिकया न वैशेषिकादीनामिवेत्युक्तप्रमेयसङ्ग्रह इति मन्तव्यम् । ननु सुखं स्यामित्येवेच्छा भवतीति चेत्तत्राह– स्वत इति ।। तथा च प्रकारान्तरायोगात् सुखी स्यामित्येवमेवेच्छाया दर्शनात् स्वकीयं स्वसम्बन्धीति यावत् ‘सुखं पुरुषार्थः’ इत्येव वक्तव्यम् । तच्च त्वन्मते न सम्भवति । सुखस्य सत्त्वेन सम्बन्धघटितस्वकीयत्वस्य त्वन्मतेऽसम्भवादिति पूर्वग्रन्थस्य भावो वर्णनीयः । अन्यथा अत एवेत्यादिग्रन्थासङ्गतेरित्यवधेयम् । ननु स्वकीयं सुखं पुरुषार्थ इति नोच्यते । किन्नामापरकीयं सुखं पुरुषार्थ इत्येवोच्यते । तच्च स्वरूपत्वेऽपि युज्यत इत्यत आह– अत एवेति ।। अत एवेत्युक्तं विशदयति– तथेति ।। ‘अपरकीयं सुखं मे स्यात्’ इतीच्छाया अभावादित्यर्थः ।। गौरवाच्चेति ।। स्वकीयत्वस्य भावरूपत्वेन तदपेक्षयाऽपर कीयत्वस्याभावरूपत्वेन गुरुत्वादित्यर्थः । इतोऽपि नोक्ता-परकीयत्वस्य पुरुषार्थत्वप्रयोजकत्वं युक्तमित्याह– सुखसाधन इति ।। सुखवत्तत्साधनमपि तावत्पुरुषार्थः । सुखवत्तत्साधनस्यापीष्टत्वाविशेषात् । एवं च यथा देवदत्तयज्ञदत्ताभ्यां मिलित्वा निर्मितः प्रासाद उभयोरपि सुखसाधनं भवति । तत्र देवदत्तस्य सुखसाधनं न स्यात् । यज्ञदत्त-सम्बन्धित्वेनापरकीयत्वस्याभावात् । अस्मदुक्तं स्वकीयत्वरूपं पुरुषार्थत्वप्रयोजकमस्ति । एवं च सुखसाधने परकीयत्वेन त्वदुक्तप्रयोजकशून्येपि प्रासादे स्वकीयेऽस्मदुक्तप्रयोजकोपेते देवदत्तसुख-साधनत्वेन पुरुषार्थत्वस्य दर्शनात् व्यतिरेकव्यभिचारस्त्वत्प्रयोजकस्य । अस्मदुक्तस्य त्वन्वयव्याप्ति-रस्ति । तथाऽपरकीये परोक्तप्रयोजकवति चन्द्रमण्डलतक्षकचूडामण्यादौ परकीये स्वकीयत्वाभावेना-पुरुषार्थत्वदर्शात् । तस्य पुरुषकृत्युत्पाद्यत्वाभावेनापुरुषार्थत्वात् त्वदुक्तप्रयोजकस्यान्वयव्यभिचारः । अस्मदुक्तस्य तु व्यतिरेकव्याप्तिरस्तीति भावः ।
नन्वेतावता सुखसाधननिष्ठपुरुषार्थत्व एव स्वकीयत्वापरकीयत्वयोः प्रयोजकत्वाप्रयोजकत्वे न तु सुख इत्यत आह– इष्टत्वाविशेषादिति ।। तथैवेति ।। स्वकीयत्वेनैव दुःखवैपरीत्येन पुमर्थ-त्वादित्यर्थः । संसारिणः पुरुषार्थप्रसङ्गादित्यन्वयः । मुक्तस्वरूपसुखे संसारिणं प्रति परकीयत्वोपाधेर-विद्यान्तःकरणादेर्नष्टत्वेन स्वरूपसुखस्यैकत्वादिति भावः ।। सुप्तेति ।। जाग्रन्मैत्रं प्रति सुप्तचैत्रस्वरूपसुखस्य परकीयत्वोपाधेरविद्यान्तःकरणादेः सुप्तौ विलयादित्याशयः ।। एतेनेति ।। ईश्वरादेरपि सुखापरोक्ष्यसद्भावेनानर्थप्रसङ्गेनेत्यर्थः । स्वर्गादीनां सुखसाधनानां पुरुषार्थत्वेऽपि सुखस्य किमायातमित्यत आह– इष्टत्वेति ।। उपलब्धं साक्षात्कृतं स्वसम्बद्धं स्वकीयम् । निर्विशेषे सम्बन्धासम्भवादिति भावः । सुखे उपलब्धत्वं स्वसम्बद्धत्वं चास्ति । तत्र उपलब्धत्वमेव पुरुषार्थत्वप्रयोजकं न सम्बद्धत्वमिति कुत इत्यत आह– सम्बन्धस्त्विति ।। तत्र दृष्टान्तद्वयम् अनित्यत्वेत्यादि । सुखे अनित्यत्वरूपो धर्मोऽस्ति । तथा स्रगादिसाधनाधीनत्वरूपसाधन-पारतन्त्र्यरूपश्च धर्मोऽस्ति । एवं च यथा सुखनिष्ठयोस्तयोर्न धर्मयोः प्रयोजकत्वम् एवं सुखनिष्ठसम्बन्धस्याप्यवर्जनीयसन्निधित्वमेव न प्रयोजकत्वम् । न चोपलब्धत्वेऽप्येवमेवास्त्विति वाच्यम् । अन्वयव्यतिरेकाभ्यां सुखसाधने तस्य प्रयोजकत्वदर्शनेन सुखेऽपि तथा कल्पनात् । अत एवोक्तम् उपलब्धानामेवेत्यादि ।
उपलब्धत्वमप्यप्रयोजकं परकीयसुखसाधने तत्कलत्रादौ स्वेनोपलब्धत्वसद्भावेऽपि तस्य स्वं प्रति पुरुषार्थत्वादर्शात् । स्वकीयत्वमेव प्रयोजकमतो नावर्जनीयसन्निधित्वं तस्येत्याशयेन दूषणान्तरमाह– परकीयेति ।। तर्हि सुखनिष्ठानित्यत्वादेरपि पुरुषार्थत्वप्रयोजकत्वापात इत्यत आह– सुखं म इति ।। सम्बन्ध इवेति ।। ‘सुखं मे’ इति षष्ठ्यर्थसम्बन्धस्यापि प्रार्थनाकोटिनिवेशवद-नित्यत्वादौ तदभावादित्यर्थः । अपरकीयसुखसाक्षात्कारः स्वसम्बद्धः पुरुषार्थो वा स्वेतरासम्बद्धः पुरुषार्थो वा अपरकीयसुखसाक्षात्काररूपत्वं वा । नाद्य इत्याह– किञ्चेति ।। अपुरुषार्थत्वापत्ते-रिति ।। स्वसम्बद्धत्वाभावादित्यर्थः । नापि द्वितीय इत्याह– नापीति ।। कुतो नेत्यत आह– मुक्तेति ।। संसारीतरेति ।। मुक्तस्य सुखसाक्षात्काररूपत्वेन स्वशब्दोक्तसंसारीतरमुक्तासम्बद्धत्वा-न्मुक्तस्वरूपसुखे स्वेतरासम्बन्धत्वसद्भावादित्यर्थः । नापि तृतीय इत्याह– नापीति ।। परमत इति ।। मोक्षे त्वप्रत्ययार्थभूत धर्माद्यभावादित्यर्थः । किञ्च सुखं केवलं दुःखाभावमात्ररूपं वा तदतिरिक्तं वा । नाद्य इत्याह– किञ्चेति । द्वितीये त्वाह– अतिरेक इति ।। दुःखाभावव्यतिरिक्तवस्तुप्राप्त्या सद्वितीयत्वमित्यर्थः । अपि च मुक्तात्मा किं सुखमात्रं उत प्रकाशमात्रं यद्वा सुखप्रकाशोभयरूपम् । नाद्यः । सुखप्रकाशाभावेनापुरुषार्थत्वापत्तेः । न द्वितीयः । सुखप्रकाशत्वाभावेन केवलप्रकाशत्व-मात्रस्यापुरुषार्थत्वात् । न तृतीयः । धर्मद्वयात्मकत्वे शुद्धात्मरूपमुक्तस्य सखण्डत्वापत्तिरित्याह– अपि चेत्यादिना ।। अस्फुरणादिति ।। त्वया दुःखाभावस्यापि स्वप्रकाशत्वानङ्गीकारादिति भावः ।। इति निर्विशेषसुखस्य पुरुषार्थत्वभङ्गविवरणम् ।। ३ ।।
न्यायकल्पलता
साक्षात्क्रियमाणत्वेनैवानन्दस्य पुरुषार्थत्वं समर्थयितुं परमतम् अनुवदति– यच्चोच्यते इति ।। उपन्यस्तं परमतं विकल्पानुपपत्त्या दूषयति– तत्र न तावदित्यादिना ।। परकीयेऽपीति ।। अनेकभोग्यगृहादौ ।। अपर कीयेऽपीति ।। चन्द्रमण्डलादौ ।। ईश्वरादीनामिति ।। ननु हेयतयाऽ-ज्ञातत्वे सतीति विशेषणम् । ईश्वरादिना चास्मदादिसुखस्य हेयत्त्वेन ज्ञायमानत्वादिति । मैवम् । गौरवात् । न च निषिद्धसुखेऽप्रवृत्त्यर्थं तवापि तदावश्यकमिति वाच्यम् । निषिद्धसुखे ह्यपुरुषार्थत्वान्ना-प्रवृत्तिः । किन्तु बलवदनिष्टाननुबन्धित्वज्ञानादेस्तत्प्रयोजकस्याभावात् । येषान्तु तदस्ति ते प्रवर्तन्त एव ।। उपलब्धमिति ।। साक्षात्कृतम् ।। साधनेति ।। स्रक्चन्दनादिसाधनजन्यत्वम् ।। सुखं म इति ।। स्वकीयत्ववदनित्यत्वादेरप्रार्थ्यमानत्वान्न तस्य पुरुषार्थकोटिनिवेशः । तन्मते स्वरूपसुखतदुपलम्भयो र्निर्विशेषाभेदेन स्वरूपसुखे उपलब्धत्वाभावाच्च ।। सुखप्रकाशाभावेनेति ।। सुखप्रकाशयोर्विशेषाभेदे एकतरपरिशेषापातादित्यर्थः ।। दुःखाभावस्यास्फुरणादिति ।। दुःखाभावत्वे-नेत्यर्थः ।। तेन दुःखाभावस्यात्मानतिरेके सुखे स्फुरति सोऽपि स्फुरत्येवेति निरस्तम् । प्रमेयत्वादिना तत्स्फुरणस्याप्रयोजकत्वात् । स्वत इति स्वेनेति सुवचम् । कर्तृकर्मभावविरोधात् । प्रत्यक्पराग्भाव-विरोधाच्च । नाप्यनन्यत्वेन । ‘अहं सुखम्’ इत्यस्फुरणादिति दिक्शब्दं प्रयुञ्जानस्य भावः ।।
।। इति निर्विशेषसुखस्य पुरुषार्थत्वभङ्गः ।। ३ ।।